॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
दक्षिणायनाधिकरणम्
अतश्चायनेपिदक्षिणे (ब्र.सू.4.2.19)तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यंते ।।इति बृहदारण्यकपंचाग्निविद्यागतं वचनम् । तेषां कर्मिणां यदा कर्मपर्यवैति परिक्षीणं भवति ।।ते चंद्रं प्राप्यान्नं भवंति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीय स्वेत्येवमेनाँस्तत्र भक्षयंति ।।तदा ततश्च्युता द्रवीभूता आकाशसादृश्यं प्राप्नुवंतीत्यर्थः ।।इति दक्षिणायनाधिकरणम्