॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
वागधिकरणम्
अत एव च सर्वाण्यनु (ब्र.सू.4.2.2)तस्मादुपशांततेजाः पुनर्भवमिंद्रियैर्मनसि संपद्यमानैर्यच्चित्तस्तेनैष प्राणमायाति ।।इदं च प्रश्नोपनिषद्गतम् । अस्य चायमर्थः । अपगतदेहौष्ण्यः सन्पुनर्जन्मप्राप्तुं मनसि संपद्यमानैरिंद्रियैः सहितं प्राणमीदृश्या मनोवासनयासहित एव सन्नागच्छतीत्यर्थः ।।।। इति वागाधिकरणम् ।।