॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
अर्चिराद्यधिकरणम्
अर्चिरादिना तत्प्रथितेः (ब्र.सू.4.3.1)स वायु मागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा डंबरस्य खमिति ।।बृहदारण्यकगतम् । रथचक्रं रध्रं यादृग्भवति तथा प्राप्ताय ब्रह्मविदे स वायुर्विजिहीते मार्गप्रदे (वे) शादवयवान्निस्सारयति ।डंबरशब्दो वाद्यविशेषवाची ।।इत्यर्चिराद्यधिकरणम् ।।