[highlight_content]

श्रीबृन्दारण्यक्षेत्रमाहात्म्यम् Part 2

श्री रुक्मिणीसमेत श्री पार्थसारथि (वेङ्कटकृष्ण) स्वामिने नमः

 

श्रीबृन्दारण्यक्षेत्रमाहात्म्यम्

श्रीशैलेशदयापात्रम् धीभक्त्यादिगुणार्णवम् ।

यतीन्द्रप्रवणम् वन्दे रम्यजामातरम् मुनिम् ।

लक्ष्मीनाथसमारम्भाम् नाथयामुनमध्यमाम् ।

अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् ॥

यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने ।

अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणम् प्रपद्ये ।।

माता पिता युवतयस्तनया विभूतिः सर्वम् यदेव नियमेन मदन्वयानाम् ।

आद्यस्य नः कुलपतेर्वकुलाभिरामम् श्रीमत्तदङ्घ्रियुगलम् प्रणमामि मूर्ध्ना ।।

भूतम् सरश्च महदाह्वयभट्टनाथश्रीभक्तिसारकुलशेखरयोगिवाहान् ।

भक्ताङ्घ्रिरेणुपरकालयतीन्द्रमिश्रान् श्रीमत्पराङ्कुशमुनिम् प्रणतोऽस्मि नित्यम् ।।

शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् ।

प्रसन्नवदनम् ध्यायेत्सर्वविघ्नोपशान्तये ।।

यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् ।

विघ्नम् निघ्नन्ति सततम् विष्वक्सेनम् तमाश्रये ।।

श्रीः

श्रीबृन्दारण्यक्षेत्रमाहात्म्ये प्रथमोऽध्यायः

नारदः-

देवदेव महादेव नीलकण्ठ जगद्गुरो ।

श्रुतम् मयाऽखिलम् सम्यक् माहात्म्यम् विष्णुसम्सदाम् ॥ १ ॥

न तृप्तिर्जायते मेऽद्य वैभवम् शृण्वतो हरेः । २ ।

अधुना नैमिशारण्यम् प्राप्तवानहमव्ययम् ।

पुण्यम् पुण्यतमैर्नित्यम् सेवितम् मुनिसत्तमैः ॥ ३ ॥

तत्राद्राक्षम् मुनिवरान् सप्तर्षीश्च महात्मनः ।

अन्यानपि महाभागान् भगवद्भक्तिभावितान्  ॥ ४ ॥

सनत्कुमारो भगवान् तेषाम् मध्ये महात्मना ।

आसीनश्च मया दृष्टो वसूनामिव वासवः ॥ ५ ॥

 तमप्रमेयविभवम् ताम्श्च दृष्ट्वा महामुनीन् ।

तदाश्रमपदम् दिव्यम् प्रविष्टो हृष्टमानसः ॥ ६ ॥

कथाः कथयताम् तेषाम् शौनको वाक्यमब्रवीत् ।

सनत्कुमारम् देवेशम् ज्वलन्तम् स्वेन तेजसा ॥ ७ ॥

जम्बूद्वीपे पुराणस्य पुरुषस्व गदाभृतः ।

अष्टोत्तरशतानीति स्थानानि भगवन् श्रुतम् ॥

तान्यनुक्रमशःश्रोतुमिच्छामि मुनिपुङ्गव ॥ ८ ॥

नारदः-

शौनकेनैवमुक्तस्तु मुनिना भावितात्मना ।

सनत्कुमारो भगवानिदम् वचनमब्रवीत् ॥  ९ ॥

सनत्कुमार:-

अष्टोत्तरशतान्येव स्थानान्यत्र महामुने ।

विष्णोस्तस्यानुपूर्व्येण कथयामास तानि सः ॥ १० ॥

ततस्तेनान्तरा किञ्चिद्वृन्दावनमिति श्रुतम् ।

विष्णोस्थानम् महत्पुण्यमिति सङ्कीर्तितम् तदा ॥ ११ ॥

तत्रापि मूर्तयः पञ्च सन्ति विष्णोर्महात्मनः ।

इति सम्प्रस्तुतम् तेन तत्र तच्च मया श्रुतम् ॥ १२ ॥

तच्छ्रुत्वा तत्र देवेश त्वाम् द्रष्टुम् प्राप्तवानहम् ।

इमम् गिरिवरम् रम्यम् कैलासम् चन्द्रशेखर ! ॥ १३ ॥

कुत्र तद्भुवि देवेश बृन्दारण्यमिति श्रुतम् ।

स्थानम् विष्णोर्महत्तस्य मूर्तयः पञ्चकास्तथा ॥ १४ ॥

तत्र किम् तीर्थमित्युक्तम् प्रशस्तम् मुनिभिर्भुवि ।

किम् तस्य वैभवम् चापि तीर्थस्य च दयानिधे ।

एतत्सर्वम् मम ब्रूहि श्रोतुमिच्छामि तत्त्वतः ॥ १५ ॥

महेश्वर:-

कोवा वक्तुम् समर्थोऽस्ति वैभवम् कैटभद्विषः ।

देवासुरर्षयस्सर्वे समेताश्शुद्धमानसाः ॥ १६ ॥

सप्रजापतयश्चापि बहुभिर्ब्रह्मवत्सरैः ।

वक्तुम् वैभवमेतेषाम् न शक्ता इति मे मतिः ॥ १७ ॥

तथाऽपि तव वक्ष्यामि भक्तियुक्तस्य नारद ।

यन्मया विदितम् किञ्चित्तच्छृणुष्व समाहितः ॥ १८ ॥

तोयाद्रिरिति विख्यातः पर्वतप्रवरो महान् ।

तत्रास्ते भगवान्देवः श्रीपतिर्गरुडध्वजः ॥ १९ ॥

नित्यम् सम्सेवितस्सर्वैर्देवासुरमहर्षिभिः ।

महाभागवतैश्चान्यैर्ज्ञातपूर्वस्त्वया मुने ॥ २० ॥

यत्र सम्सारजलधिमध्यमग्नान् समुद्धरन् ।

मनुजान्माधवो देवः कृपापरवशोऽवति ॥ २१ ॥

तत उत्तरपूर्वस्याम् दिशि तीरे महोदधेः ।

काचिदस्ति मुनिश्रेष्ठ पुरी देवपुरी शुभा ॥ २२ ॥

उद्यानाम्रवणोपेता पताकाध्वजमालिनी ।

वज्रवैडूर्यचित्राङ्गैः गोपुरैश्च विराजिता ॥ २३ ॥

दृढवप्रा सुविस्तीर्णा नानारत्नसमेधिता ।

कवाटैः काञ्चनमयैः मुक्ताजालविभूषितैः ॥ २४ ॥

तोरणैर्वज्रघटितैः समृद्धा सर्वतश्शुभा ।

प्रासादगणसङ्कीर्णा चन्द्रशाला विराजिता  ॥ २५ ॥

चन्दनागरुधूपैश्च सर्वतः सम्प्रधूपिता ।

शोभिताऽत्युच्चशिखरैः सुधाधवलितैर्गृहैः ॥ २६ ॥

केलीगृहैमनोज्ञैश्च युक्ता धारागृहैरपि ।

नानामणिविचित्रैश्च देवायतनमण्डलैः ॥ २७ ॥

तत्रतत्र विराजन्ती चन्दनागरुधूपितैः ।

हृष्टपुष्टजनाकीर्णा सर्वसौभाग्यभाविता ॥ २८ ॥

मयूरनगरी नाम विश्रुता भुवनत्रये ॥ २९  ॥

महता तपसाऽऽराध्य ब्रह्माणम् लोकसत्कृतम् ।

याम् लेभे वृषभो राजा विश्वकर्मविनिर्मिताम् ॥ ३० ॥

यत्र मन्दारकाख्याय मुनये शूद्रयोनये ।

प्रसन्नष्षण्मुखस्साक्षादभीष्टान्प्रददौ वरान् ॥ ३१ ॥

तदा प्रभृति तत्रैव भक्तवात्सल्ययोगतः ।

प्रभुः शक्तिधरोऽद्यापि सन्निधिम् कुरुते सदा ॥ ३२ ॥

यद्रामण्यकमुद्वीक्ष्य स्वर्गस्यैवच सम्पदम् ।

विहायाल्पतया स्वर्गम् यत्र रेमे स शक्तिभृत् ॥ ३३ ॥

सालैस्तालैस्तमालैश्च हिन्तालैश्चम्पकैरपि ।

नालिकेरैश्च पुन्नागैश्चूतैः स्वादुफलैरपि ॥ ३४ ॥

सिन्दुवारैर्गन्धपूरैः बीजपूरैर्धवैरपि ।

अशोकैः पाटलीभिश्च वकुलैर्वञ्जुलैरपि ॥

एवम् बहुभिराकीर्णा वृक्षैः पुष्पफलान्वितैः ॥ ३५ ॥

कासारैस्सारसावासैः स्वच्छस्वादृदसम्युतैः ।

चक्रवाकानुचरितैः कारण्डवनिषेवितैः ॥

सङ्कीर्णाः सर्वतः पुल्लपद्मकहारकेसरैः ॥ ३६ ॥

मायेति माधवीचेति मयूरनगरीति च ।

पठन्ति वैष्णवी चेति यन्नामानि पुराविदः ॥ ३७ ॥

एवम्विधायास्तस्यास्तु नगर्या ह्यविदूरतः ।

बृन्दावनमिति ख्यातम् तद्वनम् देवपूजितम् ॥ ३८ ॥

उत्तरस्याम् दिशि ह्येतत्तस्याः पुर्या महद्वनम् ।

कोदण्डशतमात्रम् तु नगरीवनयोस्तयोः ॥ ३९ ॥

तत्तु रम्यम् मुनिश्रेष्ठ ! तुलसीकाननाभिधम् ।

विपिनम् विपुलश्रीकमनेकतरुसङ्कुलम् ॥ ४० ॥

 सेवितम् मुनिशार्दूलैः सुशोभि विमलोदकैः ।

बृन्दावनमिति ख्यातम् त्रिषु लोकेषु विश्रुतम् ॥ ४१ ॥

विष्णोर्भगवतो यत्र मूर्तयस्सन्ति नारद ! ।

यत्र नित्यम् हरिः साक्षाद्देवदेवो जगद्गुरुः ॥ ४२ ॥

आत्मानम् पञ्चधा कृत्वा वसत्यमितविक्रमः ॥ ४३ ॥

महापातकयुक्तोऽपि यत्र गत्वा विमुच्यते ।

न तत्को नाम जानाति बृन्दारण्यम् महामुने ॥ ४४ ॥

तुलसीकानने यस्तु मुहूर्तमपि तिष्ठति ।

स वाजपेययज्ञस्य फलमाप्नोति पुष्कलम् ॥ ४५ ॥

स्वप्नेऽपि यस्तु विप्रेन्द्र! तद्गतिम् कलयेन्नरः ।

तदर्थफलमाप्नोति सतु पश्यति जागरे ॥ ४६ ॥

ये वसन्ति तदा तत्र बृन्दावनविभूषिते ।

तिर्यञ्चोऽपि पदम् यान्ति ते विष्णोरमितौजसः ॥ ४७ ॥

यस्तु तद्गच्छति नरो भक्तिहीनोऽपि कारणात् ।

तस्य पापानि नश्यन्ति ग्रीष्मेऽम्भाम्सीव सर्वतः ॥ ४८ ॥

तुलसीकाननम् गच्छन्नुन्मत्तोऽपि यदृच्छया ।

विमुच्यते सर्वपापैः शरदीव घनैर्नभः ॥ ४९ ॥

यस्तु गच्छति तद्विद्वान् भक्तिश्रद्धापुरस्सरः ।

स विष्णुपदमाप्नोति तत्कुलानन्त्यमेव च ॥ ५० ॥

बृन्देत्यक्षरयुग्मम् च तुलसीत्यक्षरत्रयम् ।

सङ्कीर्तयति योनाम तस्य पुण्यमनन्तकम् ॥ ५१ ॥

यस्तु प्रातः समुत्थाय यत्रकुत्र वसन्नपि ।

तुलसीवनमित्येतद्वदन् याति पराम् गतिम् ॥ ५२ ॥

घो प्रातः काले शुचिर्भूत्वा यस्तु भक्तिसमन्वितः ।

बृन्दावनमिति ह्येतत् पञ्चकृत्वो जपन्नरः ॥ ५३ ॥

विधूय पापान् सकलान् कामान्प्राप्येह मानवः ।

अन्ते च तत्पदम् याति यदनन्तमनादि च ॥ ५४ ॥

तत्सन्ततिभवास्सर्वे महाभागवता मुने ।

भवन्ति परमात्मानम् प्राप्नुवन्ति मनीषिणः ॥ ५५ ॥

गीयते च पुरा गीतः कदाचित्कारणान्तरे।

सुमेरुशिखरे देवैः श्लोकोऽयम् सहसङ्गतैः ॥ ५६ ॥

स्थानेषु वैष्णवेष्वेषु बृन्दारण्यमनुत्तमम् ।

सुरेषु माधवः श्रेष्ठः तद्भक्तेषु च शङ्करः ॥ ५७ ॥

तस्मान्नारद ! कुत्रापि तत्समम् नावलोकये ।

मुक्तिक्षेत्रम् मनुष्याणाम् क्षेत्रम् बृन्दावनाभिधम् ॥ ५८ ॥

यस्तु तद्गच्छति नरो बृन्दारण्यम् महामतिः ।

तस्यापराधम् कुर्वन्तो गच्छन्ति नरकायुतम् ॥ ५९ ॥

बृन्दारण्यमिति ह्येतन्नास्त्यक्षरचतुष्टयम् ।

वदने यस्य मूर्खस्य तम् दृष्ट्वा स्नानमाचरेत् ॥ ६० ॥

तुलसीकाननम् गन्तुम् प्रवृत्तम् यो निवारयेत् ।

तस्य पापात्मनो देहम् स्पृष्ट्वा चान्द्रायणम् चरेत् ॥ ६१ ॥

बृन्दावनमिति ह्येतन्न वदेद्यो विमूढधीः ।

तम् गर्दभम् समारोप्य राजा राष्ट्राद्विवासयेत् ॥ ६२ ॥

बृन्दावनमितिह्येतन्न श्रुतम् येन वै रुषा ।

तच्छ्रोत्रे त्वग्नितप्तेन सीसेनापूरयेसुधीः ॥ ६३ ॥

तुलसीकाननम् यस्तु मनसाऽपि न चिन्तयेत् ।

तन्मनः सर्वपापानाम् निलयम् मुनिसत्तम ! ॥ ६४ ॥

केनापि कीर्तिते तस्मिन् बृन्दारण्येऽञ्जलिम् नरः ।

न करोति विमूढात्मा नरकानाप्नुयाद्धृवम् ॥ ६५ ॥

यो न पश्यति पापात्मा स्वप्नेऽपि तुलसीवनम् ।

स चक्षुषा युतो वाऽपि जात्यन्धो नात्र सम्शयः ॥ ६६ ॥

तत्र कैरविणी नाम सरसी फुल्लपङ्कजा ।

कैरवोत्पलसंछना काचिदस्ति महामुने ॥ ६७ ॥

तत्र स्नात्वा विमुच्यन्ते सर्वपापैश्च मानवाः ।

सम्सारजलधौ मग्नाः मज्जनादत्र नारद ॥

विधूतनिखिलाघौघाः गच्छन्ति परमाम् गतिम् ॥ ६८ ॥

अस्या जलमुपस्पृश्य पीत्वा दृष्ट्वाऽपि मानवः ।

मुच्यमानो भवाघौधैः गच्छत्यन्ते पदम् हरेः ॥ ६९ ॥

यस्तु कैरविणीतीरे तत्तरङ्गानिलावृते ।

नित्यम् वसति धर्मात्मा तद्वशम् याति माधवः ॥ ७० ॥

एतद्विदित्वा मुनिवर्य ! यो वै मुक्तिम् मुकुन्दादधिगन्तुकामः ।

बृन्दावने निर्ममधीः करोति भक्तिम् समाप्नोति स सर्वकामान् ।। ॥ ७१ ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे श्रीबृन्दारण्यक्षेत्रमाहात्म्ये

प्रथमोऽध्यायः।

श्रीमद्वरवरमुनये नमः

 

श्रीबृन्दारण्यक्षेत्रमाहात्म्ये द्वितीयोऽध्यायः

नारदः

तत्र या मूर्तयः पञ्च विष्णोः सन्तीति विश्रुताः ।

ताः श्रोतुमहमिच्छामि परम् कौतूहलम् हि मे ॥ १ ॥

महेश्वर:- यच्छ्रोतुमिच्छसि मुने कौतूहलसमन्वितः ।

तत्सर्वम् कथयिष्यामि यथातत्त्वम् महामते ! ॥ २ ॥

पुरा तत्र कदाचिद्वै सुपुण्ये तुलसीवने ।

भृग्वाद्या मुनयः सप्त तपस्तेपुः सुदुष्करम् ॥ ३ ॥

भृगुरत्रिर्मरीचिश्च मार्कण्डेयस्तथाऽपरः ।

सुमतिस्सप्तरोमा च तथा जालिश्च सप्तमः ॥ ४ ॥

एते पावकसङ्काशाः पवनाम्वुच्छदाशिनः ।

तपश्चेरु र्महद्धोरम् मुनयो मोक्षकाङ्क्षिणः ॥ ५ ॥

एतस्मिन्नन्तरे काले मध्ये दुग्धपयोनिघेः ।

अनन्ते भुजगाधीशे शारदाम्बुदपाण्डरे ॥ ६ ॥

शयानस्य जगद्रक्षाजागरूकस्य काङ्क्षिणः ।

सुरासुरगुरोर्विष्णोः लक्ष्म्याश्च मुनिसत्तम ।

कदाचित् प्रणयक्रोधः प्रादुरासीन्मनोहरः ॥ ७ ॥

तस्मिन् प्रवृत्ते लक्ष्मीस्तु कोपसम्रक्तलोचना ।

वक्षःपीठात्तदा विष्णोः निपत्य द्रुतमागता ॥ ८ ॥

तदाश्रमपदम् पुण्यम् बृन्दारण्यम् महात्मनः ।

भृगोर्मुनिवराकीर्णम् कृपयाऽम्बुधिनन्दिनी ॥ ९ ॥

तत्रागत्याश्रमे रम्ये वपुः कृत्वाऽतिकोमलम् ।

कस्यापि चन्दनतरोर्मूले शिश्ये सुबालिका ॥ १० ॥

ततः कदाचित्तम् देशमाजगाम यदृच्छया ।

भृगुःशिष्यैः परिवृतो मार्कण्डेयेन सम्युतः ॥ ११ ॥

ताम् दृष्ट्वा तत्र विप्रेन्द्रः सुकुमारीम् मनोहराम् ।

विस्मयम् परमम् प्राप्तः तेच तस्यानुयानिनः ॥ १२ ॥

किमेतञ्चन्दनतरोरिति मूले कुमारिकाम् ।

तेऽपश्यम्श्चारुसर्वाङ्गीम् तप्तहाटकसन्निभाम् ॥ १३ ॥

फुल्लपङ्कजगर्भाभपाणिपादतलोदराम् ।

सर्वलक्षणसम्पन्नाम् किञ्चिदुन्मीलमूर्धजाम् ॥ १४ ॥

लसल्ललाटफलकाम् सुभ्रुवम् ललिताननाम् ।

विकचेन्दीवराभाक्षी सुनासाम् मन्दहासिनीम् ॥

आकुञ्चिताङ्गुलिकरद्वन्द्वाम् कम्ब्वाभकन्धराम् ॥ १५ ॥

अथोपसृत्य ते सर्वे तस्थुर्विस्मितमानसाः।

मुनयस्ताम् महाभागाः पश्यन्तोऽनिमिषेक्षणाः ॥ १६ ॥

ततः कराभ्यामादाय बालामिन्दुनिभाननाम् ।

भृगुः स्वमाश्रमम् तूर्णमाजगाम महामुने ॥ १७ ॥

स्वाश्रमम् समुपागत्य निजदारानथाब्रवीत् ।

मुनिः कुमारीमेताम् वै रक्षध्वमिति सादरम् ॥ १८ ॥

ताम् पश्यमानास्ताः सर्वा ऋषिपत्न्यो मनोहराम् ।

कुमारीम् विस्मयम् जम्मुः महतीम् च तदा मुदम् ॥ १९ ॥

ततः प्रमुदिता लक्ष्मीमरक्षन् वालिकामिव ।

साऽपि तासामृषिस्त्रीणाम् जनयन्ती पराम् मुदम् ॥

व्यवर्धत प्रतिदिनम् वर्षास्विव तरङ्गिणी ॥ २० ॥

ततस्तस्या भूगुः पुण्ये वासरेऽन्यैस्सहर्षिभिः ।

नाम चक्रे मुनिश्रेष्ठो वेदवल्लीति नारद ॥ २१ ॥

सा तस्य मुनिशार्दूल सञ्चरन्त्याश्रमे शुभे ।

भृगोर्लक्ष्मीराश्रमस्य लक्ष्मीरिव हि देहिनी ॥ २२ ॥

इतस्ततस्सञ्चरन्ती लालिता तैर्महात्मभिः ।

शुश्रूणपरा तेषामुवास कतिचित्समाः ॥ २३ ॥

अथ तत्रागमत्पुण्ये बृन्दारण्येऽद्भुताकृतिः ।

भगवान्देवदेवेशो वासुदेवः सनातनः ॥ २४ ॥

तरुणाम्बुजपत्राक्षस्तप्तकाञ्चनकुण्डलः ।

युगायतभुजद्वन्द्वो राजपुत्र इवाबभौ ॥ २५ ॥

तत्र ताम् चारुसर्वाङ्गीम् वेदवल्लीमनिन्दिताम् ।

पुष्पापचायम् कुर्वन्तीम् ददर्शाश्रमवासिनीम् ॥ २६ ॥

तम् दृष्ट्वा साऽपि सम्भ्रान्ता गत्वा पित्रे न्यवेदयत् ।

तच्छ्रुत्वा वचनम् तस्या भृगुः परमधार्मिकः ॥ २७ ॥

निर्जगामाश्रमात्तस्मात्तम् ददर्शाविदूरतः ।

तस्य दर्शनमात्रेण वासुदेवस्य नारद ! ॥ २८ ॥

विनिर्मलमनाः सोऽथ बुबुधे विष्णुमव्ययम् ।

मत्वा तम् शार्ङ्गधन्वानम् भृगुर्विमलमानसः ।

आनन्दबाष्पसम्युक्तस्तुष्टाव मधुसूदनम् ॥ २९ ॥

नमो नमस्ते जगदीश नाथ नमो नमस्तेऽखिलदेवदेव ! ।

नमो नमस्ते भगवन् रमेश नमो नमस्तेऽण्डयुताधिनाथ ! ॥ ३० ॥

त्वत्तेजसेदम् जगदाविभाति त्वच्छक्तिलेशाद्ध्रियते सदा च ।

त्वद्दत्तनामादिविभेदमीश व्याप्तम् त्वया सर्वमशेषशेषिन् ! ॥ ३१ ॥

सर्वागमास्त्वत्पदमामनन्ति सर्वे पुराणा मुनयश्च देव ! ।

शरीरमन्यत्तव चास्त्यनन्त ! तेजोमयम् व्योम्नि परे पराणाम् ॥ ३२ ॥

त्वत्पादपद्मद्वयमाश्रयन्ते येवै नरा निर्मलमानसास्ते ।

तत्ते पदम् नित्यमशेषदोषविहीनमायान्ति विशुद्धसत्त्वम् ॥ ३३॥

तवानुकल्पम् शतशो भवन्ति जन्मानि धर्मागमपालनाय ।

तम् ये न जानन्ति नरा विमूढास्ते यान्त्यधस्त्वाम् विहितावतारम् ॥ ३४ ॥

त्वच्छासनम् ये परिपालयन्ति त्वम् तान् नयस्यच्युत ताम् महार्घाम् ।

भिन्दन्ति ये ते निरये पतन्ति राज्ञामिवापथ्यकरा हि लोके ॥ ३५ ॥

सर्वेच देवास्सहितारस्वराज्ञा सर्वेच वेदास्सपयोजजाताः ।

स्तोतुम् न शक्ता यमशेषरूपम् तम् त्वाम् कथम् स्तोतुमहम् हि शक्तः ॥ ३६ ॥

यस्य स्वरूपम् नविदुः पुराणाः महर्षयो निर्मलमानसास्तम् ।

त्वाम् स्तोतुमध्याहमिह प्रवृत्त इच्छामि तर्तुम् जलधिम् हि दोर्भ्याम् ॥३७॥

प्रसीद नारायण चक्रपाणे प्रसीद विश्वाधिक विश्वमूर्ते!।

प्रसीद देवेश दयाम्बुराशे प्रसीद लक्ष्मीरमणाधिनाथ ! ॥ ३८ ॥

तवाद्य रूपम् भगवन् प्रसन्नस्त्वमेव मे दर्शय वासुदेव ! ।

जानामि लक्ष्मीपतिमप्रमेयम् त्वामद्य मद्भाग्यफलम् विपक्वम् ॥ ३९ ॥

इत्येवमुक्त्वा मुनिसत्तमोऽयम् भृगुः प्रलम्बीकृतचीरजालः ।

ननाम भूमौ रचिताञ्जलिर्वै विच्छिन्नमूलेव लता वनान्ते ॥ ४० ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे श्रीबृन्दारण्यक्षेत्रमाहात्म्ये

द्वितीयोऽध्यायः

 

श्रीमद्रवरमुनये नमः

 

श्रीबृन्दारण्यक्षेत्रमाहात्म्ये तृतीयोऽध्यायः

महेश्वर:-

इत्येवमुक्तो मुनिना महात्मा विष्णुविभुर्नारदवीक्षितो हरिः ।

दृष्ट्वा भृगौ भक्तिमतिप्रवृत्ताम् निजाम् तनुम् प्राप दयाम्बुराशिः ॥ १ ॥

निजाम् तनुम् प्राप्य निसर्गचित्राम् प्रसन्नवक्त्राम् हरिरायताक्षः ।

भृगुम् नमन्तम् प्रसमीक्ष्य देवः पयोदगम्भीरमिदम् बभाषे ॥ २ ॥

तव प्रसन्नोऽस्मि मुनीश्वराद्य यत्त्वम् भृगो हीच्छसि रूपमेतत् ।

द्रष्टुम् तदालोकय मामकम् वै यदन्यदिच्छस्यथ ते ददामि ॥ ३ ॥

एतच्छ्रुत्वा भृगुस्सोऽथ वचनम् मधुविद्विषः ।

उत्थायालोकयामास विष्णुम् हृष्टमना मुने ! ॥ ४ ॥

प्रसन्नवक्त्राम्बुजमायताक्षम् किरीटिनम् नीरदनीलकायम् ।

निष्टप्तचामीकरचारुवस्त्रम् निमग्ननाभिम् तनुवृत्तमध्यम् ॥ ५ ॥

सुदीर्घबाहुम् सुविशालफालम् सुनासमीषत्स्मितचारुवक्त्रम् ।

सुजातकर्णद्वयकुण्डलाढ्यम् सुजातकम्ब्वाभशिरोधराग्रम् ॥ ६ ॥

विशालवक्षस्थलमत्युदग्रम् मृणालसूत्रामलयज्ञसूत्रम् ।

अरीशशङ्खाधिपशोभिबाहुम् सुजातपङ्केरुहचारुपादम् ॥ ७ ॥

स तम् दृष्ट्वा जगन्नाथम् भृगुर्वैतपताम् वरः ।

निपपात पुनर्भूमौ छिन्नमूल इव द्रुमः ॥ ८ ॥

उत्थाय सहसा भूयः कृत्वा चापि प्रदक्षिणम् ।

पुनःपुनश्च कुर्वाणः प्रणामम् च प्रदक्षिणम् ॥

अत्यन्तभक्तियुक्तोऽसौ उन्मत्त इव लक्ष्यते ॥ ९ ॥

सोऽतिहृष्टमना भूयो निपतन्नुत्पतन्पुनः ।

प्रावृषीव रराजासौ दृष्ट्वा मेघम् शिखावलः ॥ १० ॥

स दृष्ट्वा विष्णुमव्यग्रम् भृगुर्वै तपताम् वरः।

अमितानन्दजलधौ मग्नो निश्चलताम् ययौ ॥ ११ ॥

स निश्चलाभ्याम् नेत्राभ्याम् पश्यमानो जगद्गुरुम् ।

त्यक्तान्यविषयस्तस्थौ रराज लिखितो यथा ॥ १२ ॥

स. तमुद्वीक्ष्य भगवान् भृगुमानन्दनिश्चलम् ।

 स्निग्धगम्भीरनिर्घोषमिदम् वचनमब्रवीत् ॥ १३ ॥

श्रीभगवान्-

प्रसन्नेन मया ब्रह्मन् मामकम् दर्शितम् त्विदम् ।

यतेऽभिलषितम् रूपम् त्वत्प्राक्तनतपःफलम् ॥

किमन्यदिच्छसि मुने तद्वदस्व ददामि ते ॥ १४ ॥

इत्येवमुक्तस्तेनाथ भृगुर्भगवता मुने ।

बद्धाञ्जलिपुटो हृष्टः प्रोवाच मधुसूदनम् ॥ १५ ॥

भृगुः :-

तव प्रसादाद्भगवन् मयेदम् रूपमद्भुतम् ।

दृष्टम् ब्रह्मादिभिश्चैव योगिभिर्यद्दुरासदम् ॥ १६ ॥

किन्तु त्वम् मामके देव ह्याश्रमे पुण्यदर्शने ।

वस्तुमर्हसि विश्वात्मन् दयापारपयोनिधे ॥ १७ ॥

त्वामर्चयितुमिच्छामि ह्यत्रैवानुदिनम् प्रभो ।

प्रयतेनामुना नित्यम् मार्कण्डेयेन सम्युतः ॥ १८ ॥

 रुद्रः :-

इत्युक्तो भगवान् भूयो भृगुम् मुनिवरम् तदा ।

प्रत्युवाच शुभाम् वाणीम् मेघगम्भीरनिस्वनाम् ॥ १९ ॥

श्रीभगवान्-

तथैवाहम् करिष्यामि यथाभिलषितम् तव ।

किञ्चैतत्तपताम् श्रेष्ठ श्रोतुमर्हसि मे वचः ॥ २० ॥

या तवात्राश्रमे पुण्ये वेदवल्लीति नामतः ।

वर्धते सुकुमारी सा देया कन्या मम द्विज ॥ २१ ॥

रुद्रः :-

एवमुक्तो भृगुस्तूर्णमाह्वयामास ताम् शुभाम् ।

साऽपि तत्रागता देवम् ददर्शोज्ज्वलविग्रहम् ॥

तम् दृष्ट्वा सा शुभापाङ्गी पितरम् वाक्यमब्रवीत् ॥ २२ ॥

वेदवल्ली –

तात मन्नाथ एवायम् नात्र कार्या विचारणा ।

अस्यैव पाणिम् गृह्णामि नान्यस्य यदि ते मतम् ॥ २३ ॥

रुद्रः –

एवमुक्तोऽब्रवीद्वाक्यम् यदि ते रोचते सुते ।

पाणिम् गृहाण भद्रम् ते न विलम्बितुमर्हसि ॥ २४ ॥

ततो हृष्टमनाः सोऽथ हुत्वा हुतभुजम् भृगुः ।

यथावत्केशवायास्मै ददौ कन्याम् महामतिः ॥ २५ ॥

पुष्पवृष्टिः पपाताथ ननृतुश्चाप्सरोगणाः।

देवदुन्दुभयश्चापि विनेदुर्जलदोपमाः ॥ २६ ॥

तत्र सर्वे समायाता देवाः साग्निपुरोगमाः ।

स्वयम्भूर्भगवानिन्द्रो येचान्ये देवयोनयः ॥ २७ ॥

ततोऽब्रवीद्भृगुम् ब्रह्मा लोककर्ता स्वयम्प्रभुः ।

धन्योऽसि त्वम् महाभाग ! यस्य गेहे हरिः स्वयम् ॥ २८ ॥

जग्राह पाणिम् लक्ष्म्या  प्रसन्नो भगवान्मुने! ।

यामेनामाश्रमे तस्मिन् त्वम् बालाम् प्राप्तवानसि ॥ २९ ॥

तामवेहि श्रियम् विप्र ! न मन्यस्व सुतामिति ।

इत्युक्त्वा देवदेवेशो ब्रह्मा सुरगणैस्सह ॥

सत्यलोकम् जगामाशु प्रणिपत्य जनार्दनम् ॥ ३० ॥

भृगुश्च स महातेजा विस्मयम् परमम् गतः ।

न मेऽन्यस्सदृशोऽस्तीति मत्वा चिरमुवास ह ॥ ३१ ॥

माघमासे महातेजा द्वादश्याम् स हरिःस्वयम् ।

प्रादुरास भृगोस्तस्य ह्याश्रमे पुण्यकर्मणः ॥ ३२ ॥

ततस्तस्मिन्दिने यस्तु बृन्दारण्ये महामतिः ।

मन्नाथम् प्रणमेद्विप्रः स याति परमम् पदम् ॥ ३३ ॥

यतो मन्नाथ इत्याह वेदवल्ली शुचिस्मिता ।

ततो मन्नाथ इत्येव विश्रुतो भुवनत्रये ॥ ३४ ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे श्रीबृन्दारण्यक्षेत्रमाहात्म्ये

तृतीयोऽध्यायः

श्रीमद्वरवरमुनये नमः.

 

श्रीबृन्दारण्यक्षेत्रमाहात्म्ये चतुर्थोऽध्यायः

रुद्रः –

ततोऽत्रिरिति विख्यातो यो भागवतसत्तमः ।

तपस्तेपे महातेजा मुनिरन्यैस्सुदुष्करम् ॥ १ ॥

मुकुन्दान्मुक्तिमन्विच्छम्स्तध्द्यानापास्तकल्मषः ।

चिरम् तपश्चचारासौ तस्मिन्बृन्दावने शुभे ॥ २ ॥

ततः कदाचित्तम् देशमागतो विकटो मुनिः।

दिदृक्षुर्भूमिभागाम्श्च तीर्थान्यायतनानिच ॥ ३ ॥

पत्तनानि नदीश्चैव पर्वतान् सहकाननान् ।

आश्रमाणि मुनीनाम् तु पश्यन्नायात्तदाश्रमम् ॥ ४ ॥

तम् दृष्ट्वाऽऽश्रममव्यग्रम् शान्तपक्षिमृगायुतम् ।

अत्युञ्चतरुसम्बाधमानीलनवशाद्वलम् ॥ ५ ॥

बृन्दाबृन्दसमाकीर्णम् शिखावलकुलाकुलम् ।

मणिपर्वतसङ्काशैर्मत्तैर्गजशतैर्युतम् ॥ ६ ॥

मधुपानमदोन्मत्तमधुव्रतलतावृतम् ।

सरोभिर्विमलैः पूर्णैः पद्मकैरवशोभितैः ॥ ७ ॥

हम्सकारण्डवाकीर्णैः शोभितम् सर्वतश्शुभम् ।

मुनिभिश्च समाकीर्णम् विस्मयम् परमम् ययौ ॥ ८ ॥

विकटस्तद्वनम् सर्वम् पश्यमान इतस्ततः ।

ददर्शात्रिम् महातेजोब्रह्माणमिव चापरम् ॥ ९ ॥

ववन्दे चरणौ तस्य यथा काव्यः प्रजापतिम् ।

प्रणमन्तम् तमुत्थाप्य पादयोः स महामतिः ॥ १० ॥

परिष्वज्य च बाहुभ्याम् पूजाम् चके यथाविधि ।

ततः कृतपरीचारम् कृतासनपरिग्रहम् ॥

अत्रिर्मधुरया वाचा तमित्याह महामुने ॥ ११ ॥

कस्त्वम् किम् नाम ते सौम्य क: पिता ते कुतो भवान् ।

सर्वमेतद्यथातत्त्वम् वक्तुमर्हसि सुव्रत ! ॥ १२ ॥

 रुद्रः –

इत्युक्तस्तमुवाचेदम् विकटोऽत्रिम् महामुनिम् ।

भगवन् सर्वमाख्यास्ये यथावत्तछृणुष्व हि ॥ १३ ॥

विकटः –

अस्ति जम्बूवनम्नाम गङ्गातीरेऽतिशोभनम् ।

नानातरुसमाकीर्णम् नानापक्षिनिषेवितम् ॥ १४ ॥

हृद्यानेकसरोयुक्तम् विद्यावद्द्विजमण्डितम् ।

हृष्टानेकमुनीन्द्राढ्यम् पुष्टानेकमृगद्विजम् ॥ १५ ॥

तत्रास्ते कपिलोनाम मुनिः परमधार्मिकः ।

तपसा यशसा चापि यस्य नास्ति समो भुवि ॥ १६ ॥

तस्यास्ति पुत्रस्तेजस्वी तरुणस्तपताम् वरः ।

तस्याहमौरसः पुत्रो विकटो नाम नामतः ॥ १७ ॥

विसृष्टस्तेन दिष्टान्तम् प्रविष्टेनास्मि वालिशः ।

ततः प्रभृति तत्रान्यैर्मुनिभिः परिवर्धितः ॥ १८ ॥

यथावदुपनीतश्च तथा चाध्यापितोऽस्मि तैः।

तत्रैव सुचिरम् कालम् कुर्वम्स्तेषाम् महात्मनाम्  ॥

शुश्रुषामेव सम्हष्टो मुनीनाम् भावितात्मनाम् ॥ १९ ॥

ततः कदाचिन्मारीचो महातेजास्तपोधनः ।

जम्बूवनम् समागच्छद्भार्गवस्य दिदृक्षया ॥ २० ॥

यथावद्भार्गवेणाथ पूजितस्स महामतिः ।

उपविष्टश्च मारीचश्चकार विविधाः कथाः ॥

ततः पप्रच्छ भगवान् भार्गवस्तम् महामुनिम् ॥ २१ ॥

भार्गवः –

यथा वदसि मेरोस्त्वमागतोऽस्मीति सुव्रत ।

वार्ता तत्रतु का वृत्ता देवर्षीणाम् समागमे ।

समाख्याहि मुनिश्रेष्ठ ! परम् कौतूहलम् हि मे ॥ २२ ॥

विकटः –

इत्युक्तस्तम् स मारीचः प्रहसन्प्रत्युवाचह ।

शृणुष्व ताम् मुनिश्रेष्ठ ! यन्माम् त्वम् परिपृच्छसि ।। ॥ २३ ॥

मारीचः –

तत्र देवर्षयस्सिद्धाः मरुतश्च सवासवाः ।

समागता महात्मानः वसिष्ठश्च महायशाः ॥

ततोऽब्रवीद्वसिष्ठस्तु तेषाम् मध्ये महात्मनाम् ॥ २४ ॥

वसिष्ठः –

तुलसीकाननम् नाम दक्षिणस्याम् दिशि स्थितम् ।

तत्रात्रिरिति विख्यातो मुनिश्चरति वै तपः ॥

तस्य प्रसन्नो भगवान् हरिः प्रादुर्भविष्यति ॥ २५ ॥

मारीचः –

इत्येवमब्रवीद्विप्र ! वसिष्ठस्तु महामुनिः ॥ २६ ॥

विकटः –

इति होवाच मारीचस्तत्र तच्च मया श्रुतम् ।

तच्छ्रुत्वाऽहम्वचो विप्र मारीचस्य महात्मनः ॥

द्रष्टुम् त्वामिह वेगेन ह्यागतोऽस्मि महामुने ॥ २७ ॥

 रुद्रः –

एतच्छ्रुत्वा शुभम् वाक्यम् विकटस्य महामुनेः ।

हृष्टोऽत्रिरिति होवाच तम् परिष्वज्य पाणिना ॥ २८ ॥

अत्रिः –

दिष्ट्या त्वमिहचायातः स्वागतम् ते तपोधन ! ॥ २९ ॥

रुद्रः –

विकटोऽप्यत्रिणा तेन सत्कृतो मुनिभिश्च सः ।

न्यवसत्सुसुखम् तैश्च सार्धम् बह्व्यस्समा मुने ॥ ३० ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे श्रीबृन्दारण्यक्षेत्रमाहात्म्ये

चतुर्थोऽध्यायः

श्रीमद्वरवरमुनये नमः॥

 

श्रीबृन्दारण्यक्षेत्रमाहात्म्ये पञ्चमोऽध्यायः

रुद्रः –

तत्रैवम् वसतस्तस्य बृन्दारण्ये सहात्रिणा ।

विकटस्यतु विप्रर्षेः बहवो वत्सरा गताः ॥ १ ॥

ततः कदाचिद्गगनम् कुर्वन्ती विमलम् शनैः ।

आजगाम शरत्फुल्लकाशकोशविराजिता ॥ २ ॥

अम्बरे वारिदैर्मुक्ते विमले सञ्चरन् शशी ।

विरराज यथा पूर्णे हम्सस्सरसि शोभते ॥ ३ ॥

प्रसन्नाश्च दिशस्सर्वा नद्यश्च विमलोदकाः ।

बभूवुस्सत्परिष्वङ्गादिव चेताम्सि योगिनाम् ॥ ४ ॥

राजहम्साश्शनैर्भूमिमाजग्मुर्मधुरारवाः ।

यथाऽन्धतमसि क्षीणे रश्मयोऽमृतरोचिषः ॥ ५ ॥

तपः प्रभाते विमले तस्मिन् काले मनोहरे ।

जगाम मुनिभिस्सार्धम् प्रातस्सन्ध्यामुपासितुम् ॥ ६ ॥

ततो गत्वेन्द्रतीर्थाख्यम् सरस्सरसिजावृतम् ।

कृतसन्ध्याविधिस्तैश्च स्वमाश्रममुपागमत् ॥ ७ ॥

स्वमाश्रममुपागत्य हुतहव्यहुताशनः ।

सूपविष्टस्स तैस्सार्धम् चकार विविधाः कथाः ॥ ८ ॥

एतस्मिन्नन्तरे शब्दः प्रादुरासीन्मनोहरः ।

तुर्यनादानुचरितो महानमरदुन्दुभेः ॥ ९ ॥

पुष्पवृष्टिश्च पतिता गगनात्सुमनोहरा ।

सेन्द्रा देवर्षयश्चैव सकिन्नरमहोरगाः ॥ १० ॥

प्रवृत्तनृत्ताश्च तदा जम्मुरप्सरसोऽम्बरे ।

सोऽत्रिरप्यथ तान्दृष्ट्वा देवान् श्रुत्वा च तद्ध्वनिम् ।

परम् विस्मयमापन्नः उदतिष्ठत्सहैव तैः ॥ ११ ॥

अथोत्थाय महातेजाश्शिष्यैः परिवृतैस्तदा ।

विलोकयन्दिशस्सर्वास्तस्थौ तत्र महामुनिः ॥ १२ ॥

ततस्तस्याग्रतो विप्र प्राङ्मुखस्य महामुनेः ।

प्रादुर्बभूव रुचिरम् विमानम् सूर्यसन्निभम् ॥ १३ ॥

किङ्किणीजालसन्नद्धम् वैडूर्यमयतोरणम् ।

तप्तकाञ्चनचित्राङ्गम् मुक्ताजालविभूषितम् ॥ १४ ॥

स ददर्श ततस्तस्य पार्श्वयोरुभयोरपि ।

वीजन्तौ चामरे दिव्ये हेमदण्डमनोहरे ॥ १५ ॥

अरजे वाससी सूक्ष्मे वसानौ दीर्घबाहुकौ ।

पुरुषावमरपख्यौ सर्वाभरणभूषितौ ॥ १६ ॥

ततस्तस्य महाभागो विमानस्यार्करोचिषः ।

पृष्ठतोऽपश्यदत्युग्रमुद्यन्तमिव भास्करम् ॥

दैत्यदानवदर्पघ्नम् वैनतेयम् महौजसम् ॥ १७ ॥

पुरतोऽस्य विमानस्य तप्तचामीकराभया ।

विराजन्तम् वेत्रयष्टया विष्वक्सेनमपश्यत ॥ १८ ॥

अनन्तम् नाम नागेशमनन्तबलसम्युतम् ।

वामेच पार्श्वे चाद्राक्षीच्चन्द्रबिम्बसमप्रभम् ॥ १९ ॥

सनकादीन्महातेजास्ततोऽपश्यच्च दक्षिणे।

पार्श्वे बद्धाञ्जलिपुटान् बाष्पैः पिहितलोचनान् ॥ २० ॥

स ददर्श विमानस्य मध्ये भास्कररोचिषः ।

आसीनम् परमम् देवम् नरसिम्हस्वरूपिणम् ॥ २१ ॥

शारदाभ्रप्रतीकाशम् शारदेन्दुसमाननम् ।

रक्तोत्पलदलाभासम् सटापटलभीषणम् ॥ २२ ॥

नानामणिगणाकीर्णम् विभ्राण मकुटम् महत् ।

वसानम् पीतवसनम् मध्याह्वार्कायुतप्रभम्  ॥ २३ ॥

चतुर्बाहुम् महासत्त्वम् भूषणोत्तमभूषितम् ।

तम् दृष्ट्वा स महातेजा देवदेवम् महामुने ॥

सम्हृष्टः परया प्रीत्या प्रणाममकरोत्ततः ॥ २४ ॥

ततः प्रणम्य चोत्थाय सम्पहृष्टतनूरुहः ।

पश्यमानो जगन्नाथम् प्रस्तोतुमुपचक्रमे ॥ २५ ॥

देवदेव महाबाहो जगन्नाथ जगद्गुरो!।

नमस्ते पुण्डरीकाक्ष नमस्ते विष्णवे विभो ! ॥ २६ ॥

यद्गुणा नैव शक्यन्ते वक्तुम् वर्षशतैरपि ।

तम् त्वाम् स्तोतुम् कथम् शक्तः स्यामहम् पुरुषोत्तम ! ॥ २७ ॥

निरञ्जनाय नित्यायानित्याय विमलात्मने।

शुद्धाय चाविकाराय दृश्यायादृश्यरूपिणे ॥ २८ ॥

व्यक्तायाव्यक्तरूपाय विमलाया विकारिणे ।

सत्यायासत्यरूपाय सगुणाय महात्मने ॥ २९ ॥

विज्ञानैकस्वरूपाय परमानन्दरूपिणे ।

ब्रह्मस्वरूपिणे तस्मै नमो रुद्रस्वरूपिणे ॥ ३० ॥

विष्णवे विबुधेन्द्राय नमश्शक्रात्मने सदा ।

जगज्जन्मकृते तस्मै जगत्स्थितिकृते नमः ॥ ३१ ॥

सुरासुरात्मने तस्मै जगत्सम्हृतिहेतवे ।

यमानिलानलार्केन्दुग्रहनक्षत्ररूपिणे ॥ ३२ ॥

नमः प्रपञ्चरूपाय प्रकृत्यात्मन्नमोऽस्तु ते ।

परमात्मस्वरूपाय नमस्तेऽशेषशेषिणे ॥ ३३ ॥

अशेषजगदीशाय नमस्ते शेषशायिने ।

केशवाय नमो नित्यम् नमो नारयणाय च ॥ ३४ ॥

माधवाय नमस्तुभ्यम् गोविन्दाय नमो नमः ।

नमोऽस्तु विष्णवे नित्यम् मधुसूदन ! ते नमः ॥

त्रिविक्रम नमस्तुभ्यम् वामनाय नमो नमः ॥ ३५ ॥

श्रीधराय नमस्तुभ्यम् हृषीकेशाय ते नमः ।

नमोऽस्तु पद्मनाभाय दामोदर नमोस्तु ते ॥ ३६ ॥

विश्वाय विश्वरूपाय वषट्काराय वेधसे ।

स्वाहात्मने नमो नित्यमोङ्काराय स्वधात्मने ॥ ३७ ॥

नमो वेदस्वरूपाय वेदवेद्याय ते नमः ।

यज्ञाय यज्ञनाथाय यज्ञभोक्त्रे च ते नमः ॥ ३८ ॥

नमोऽस्तु लोकगुरवे नमस्ते वेदयोनये ।

नित्याय निवद्याय नमस्तेऽनन्तसाक्षिणे ॥ ३९ ॥

अनन्तगुणपूर्णाय नमोऽनन्ताय विष्णवे।

नमस्सत्त्वाय रजसे तमसे च नमो नमः ॥ ४० ॥

नमश्शुद्धाय मुग्धाय बुद्धये च चिदात्मने ।

स्थूलाय सूक्ष्मरूपाय गुरवे लघवे नमः ॥ ४१ ॥

नमो दुर्लभरूपाय नमस्ते सुलभात्मने ।

नमस्सहस्रपादाय सहस्रशिरसे नमः ॥ ४२ ॥

सहस्रचक्षुषे तस्मै नमस्तेऽनन्तबाहवे ।

अच्युतानन्तगोविन्द विष्णो नरहरे हरे ॥

जनार्दन जगन्नाथ नाथ तुभ्यम् नमो नमः ॥ ४३ ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे श्रीबृन्दारण्यक्षेत्रमाहात्म्ये

पञ्चमोऽध्यायः ।।

श्रीमद्वरवरमुनये नमः ॥

श्रीबृन्दारण्यक्षेत्रमाहात्म्ये षष्ठोऽध्यायः

 रुद्रः –

इति स्तुवन्तम् देवर्षे ! मुनिम् ते परमौजसम् ।

स्तोत्रावसाने देवेशः स्निग्धमेतदुवाच ह ॥ १ ॥

श्रीभगवान् –

पसन्नोऽस्मि महाभाग! तवाहम् मुनिसत्तम ।

तपसाऽनन्यलभ्येन स्तोत्रेण च विशेषतः ॥  २ ॥

स्तोत्रेणानेन यो नित्यम् मामर्चयति मानवः ।

तस्मै दद्यामहम् नित्यम् महर्षे मामकम् पदम् ॥ ३ ॥

यद्यप्यहम् महाभाग जानाम्येव तवेप्सितम् ।

तथाऽपीच्छामि भवतः श्रोतुम् तम् मुनिसत्तम ! ॥ ४ ॥

 रुद्रः –

एवम् वदन्तम् स मुनिर्वासुदेवम् सनातनम् ।

बद्धाञ्जलिपुटो मन्दमिदमाह शुभम् वचः ॥ ५ ॥

 अत्रिः –

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे त्वम् महाभुज ।

प्रसन्नो भगवन्नद्य वदसीत्थम् जगद्गुरो ॥ ६ ॥

यदिच्छसि मम श्रोतुम् वचस्त्वम् भुवनेश्वर ।

शृणुष्व सुमहाबाहो कथयामि तदव्ययम् ॥ ७ ॥

तव सन्दर्शनेनैव कृतकृत्योऽस्मि साम्प्रतम् ।

तथाऽपि किञ्चिद्वक्तव्यमस्ति तच्छृणु केशव ! ॥ ८ ॥

मेदोसृक्पूयविण्मूत्रस्नायुमज्जास्थिबन्धनम् ।

न धर्तुम् कुत्सितम् लोके शरीरमिदमुत्सहे ॥ ९ ॥

तदद्य त्वाम् प्रपन्नोऽस्मि मुक्तिम् मे दातुमर्हसि ।

वस्तुम् क्षणमपीहाद्य न क्षमामि महीतले ॥ १० ॥

इदञ्चापि वचो देव ! श्रोतुमर्हसि मामकम् ।

दातुञ्च मत्कृते चापि जालेस्तु सुमहामतेः ॥

मुक्तिमर्हसि देवेश प्रसन्नो यदि माधव ॥ ११ ॥

 रुद्रः –

इत्येवमुक्तवन्तम् तमत्रिम् पावकसन्निभम् ।

उवाच देवदेवेशो मुनिम् मुनिवरोऽव्ययः ॥ १२ ॥

श्रीभगवान् –

तत्तथैव करिष्यामि यथा वदसि सुव्रत ।

सर्वथैव महाभाग प्रसन्नोऽहम् न सम्शयः ॥ १३ ॥

अहमत्रैव वत्स्यामि चिरम् रम्ये तवाश्रमे ।

तव हेतोर्महाभाग अन्येषाम् चापि मुक्तिदः ॥ १४ ॥

अयम् मनोहरो देशः सम्फुल्लतुलसीवनः ।

नानातरुगणोपेतः सर्वतस्सुखमारुतः ॥ १५ ॥

सरश्चेदम् मनोहारि फुल्लपङ्कजकैरवम् । हम्ससारससन्नादमतिशीतामलोदकम् ॥ १६ ॥

इमे च मुनयस्सर्वे विधूताशेषकल्मषाः ।

वसन्त्यत्र महात्मानो ये चेमे सम्शितव्रताः ॥ १७ ॥

मनोज्ञस्तदयम् देशो वासाय मम रोचते ।

द्विपरार्धावसानम् वा यावद्विज भविष्यति ॥

तावदत्रैव वत्स्यामि लोकानाम् हितकाम्यया ॥ १८ ॥

सम्सारमरुकान्तारपरिवर्तनखेदिनाम् ।

देहिनाम् क्लेशखिन्नानाम् हिताय हतचेतसाम् ॥ १९ ॥

कर्मणा दुःखसम्प्राप्तिर्दुःखेन क्रोधसम्भवः ।

क्रोधादज्ञानसम्प्राप्तिरज्ञानाद्दुष्कृतम् भवेत् ॥

एवमेव नराःसर्वे भ्राम्यन्ति भवसागरे ॥ २० ॥

अज्ञानक्रोधसम्भूतदुष्कृतैर्दुःखपीडिताः।

न विजानन्ति मामेवम्विधमीदृग्व्यवस्थिताः ॥ २१ ॥

सर्वे च दुःखसन्तप्ताः मानवा मूढचेतसः ।

ईदृशे जगति ह्यस्मिन् दुःखशोकपरायणे ॥ २२ ॥

दुर्लभस्सहि धर्मात्मा यो माम् वेत्ति सनातनम् ।

कस्यचित्क्वचिदेवेह धर्मे बुद्धिः प्रजायते ॥ २३ ॥

दिष्टया धर्मादवाप्नोति ह्यर्थान्यदि नरः क्वचित् ।

कामाय यतते नूनमर्थान्प्राप्य च मानवः ॥

अपवर्गाय नैवास्ति यतमानो महीतले ॥ २४ ॥

तत्कदाचित् क्वचिद्विप्र ! ज्ञानी जायेत वै भुवि ।

बहुजन्मसहस्राणि मामाराध्य विधानतः ॥ २५ ॥

तस्य पापानि भूयाम्सि यद्यपि स्युर्द्विजोत्तम ! ।

क्षमामि तानि सर्वाणि तम् चाहम् न क्षिपाम्यधः ॥ २६ ॥

कदाचिदपि नाधर्मे तस्य बुद्धिः प्रजायते ।

प्रमादाद्यदि कुर्याद्वै किञ्चित्तन्नाशयाम्यहम् ॥ २७ ॥

न भयम् क्वचिदप्यस्ति मद्भक्तानाम् महात्मनाम् ।

तेषाम् बिभ्यति रक्षाम्सि पिशाचाश्चैव दानवाः ॥ २८ ॥

तेषाम् दर्शनमात्रेण बद्धाञ्जलिपुटा मुने! ।

अपसर्पन्ति दूताश्च यमस्य भयमो हिताः ॥ २९ ॥

दृष्ट्वा सर्वे नमस्यन्ति मद्भक्तान्देवतागणाः ।

पूज्यास्ते हि महात्मानः सर्वलोकहितैषिणः ॥ ३० ॥

निन्दाम् यस्तु करोत्येषाम् मद्भक्तानाम् विमूढधीः ।

कुलबन्धुसमाचारैः स याति नरकायुतम् ॥ ३१ ॥

कुलीनमकुलीनम् वा सुशीलम् पापशीलिनम् ।

दुर्वृत्तम् वा सुवृत्तम् वा मद्भक्तम् नैव निन्दयेत् ॥ ३२ ॥

शुचिस्सर्वकलादक्षो यथावत्साङ्गवेदवित् ।

मद्भक्तश्चाप्यकुशलस्तयोरेष वरो मुने! ॥ ३३ ॥

अर्थकामपरा ये ये यम् यम् देवमुपासते ।

तेषामप्यहमेवैको दद्याम् तत्तन्मुखेन तत् ॥ ३४ ॥

येच मामेव याचन्ते ह्यर्थकामौ नरा भुवि ।

तेषामपि महाभाग ! तत्तदेव ददाम्यहम् ॥ ३५ ॥

धर्मार्थकाममोक्षाख्याः पुरुषार्थाश्चतुर्विधाः।

तेषाम् च सुमहात्मा यो मोक्षकाङ्क्षी विशिष्यते ॥ ३६ ॥

मद्भक्तस्तु महात्माऽसौ प्राणैः प्रियतरो मम ।

एकान्ती पूजनीयश्च सेव्यश्चैव जनुष्मताम् ॥ ३७ ॥

त्वम् तु जित्वेन्द्रियग्रामम् निस्पृहोऽन्येषु वस्तुषु ।

मयि भक्तिमतीवोग्राम् कृतवान्मुनिसत्तम ! ॥ ३८ ॥

तव दास्याम्यहम् मुक्तिम् प्रसन्नश्चास्मि ते भृशम् ।

यन्नित्यम् विमलम् शुद्धम् तत्पदम् याहि माचिरम् ॥ ३९ ॥

इत्युक्तस्तु मुहूर्तेन स मुनिर्जालिना सह ।

तत्याज देहम् देवर्षे ! त्वचम् जीर्णामिवोरगः ॥ ४० ॥

स विसृज्य शरीरम् तु तरुणादित्यसन्निभः ।

विमानेनार्कवर्णेन पश्यताम् च दिवौकसाम् ॥ ४१ ॥

प्रययौ वरया लक्ष्म्या पूज्यमानस्सहर्षिभिः ।

त्रिविष्टपम् महातेजास्तूर्णम् वै जालिना सह ॥ ४२ ॥

तदा प्रभृति तत्रैव देवदेवो जगद्गुरुः ।

तुलसीकानने रम्ये पूज्यते सर्वदैवतैः ॥ ४३ ॥

कर्मभूमौ मनुष्याणाम् हितायार्चात्मना स्वयम् ।

विहाय परमम् धाम तञ्च निर्मलमव्ययम् ॥ ४४ ॥

सर्वलोकगुरुस्सर्वगतस्सर्वेश्वरो हरिः ।

कारुण्यात्करुणावासो वर्ततेऽत्र महामुने ! ॥ ४५ ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे श्रीबृन्दारण्यक्षेत्रमाहात्म्ये

षष्ठोऽध्यायः ।।

श्रीमद्वरवरमुनये नमः ।।

 

श्रीबृन्दारण्यक्षेत्रमाहात्म्ये सप्तमोऽध्यायः

रुद्रः –

भूय एवापरम् वाक्यम् शृणुष्व सुमहामते !।

वक्ष्यामि यदशेषेण समाहितमना मुने ॥ १ ॥

पुरा त्रेतायुगे विष्णुर्जात इक्ष्वाकुसन्ततौ ।

रामो मानवरूपेण रक्षसाम् निधनाय हि ॥ २ ॥

स निहत्य स्ववीर्येण रावणम् राक्षसेश्वरम् ।

समित्रपुत्रम् सामात्यम् प्राप्तवान् जानकीम् पुनः ॥ ३ ॥

स कृत्वा सुचिरम् कालम् राज्यम् धर्मेण राघवः ।

स्वस्थानमगमद्भूयो भ्रातृभिस्त्रिभिरन्वितः ॥ ४ ॥

तस्मिन्प्राप्ते दिवम् रामे समित्रभ्रातृबान्धवे ।

पाण्ड्येषु पाण्डरो नाम पर्वतश्चित्रधातुकः ॥ ५ ॥

तस्मिन् शशपदो नाम तपोजपपरायणः ।

कश्चिदासीन्मुनिवरो नियतेन्द्रियमानसः ॥

तपश्चचार रुचिरम् हुतहव्यवप्रभः ॥ ६ ॥

तस्मिन्श्चरत्यतीवोग्रम् तपश्शशपदे मुनौ ।

सेन्द्रा देवगणास्सर्वे जातशङ्खस्ततोऽभवन् ॥ ७ ॥

ततस्समेत्य ते सर्वे देवास्साग्निपुरोगमाः।

अब्रुवन्मधुरम् वाक्यम् हेलाम् नामाप्सरोवराम् ॥ ८ ॥

देवकार्यमिदम् भद्रे! त्वया कर्तव्यमद्य हि ।

त्वम् वै सुकुशला सौम्ये ! नृत्तगीतकलासु च ॥ ९ ॥

तद्गत्वा पाण्डरम् शीघ्रम् पर्वतम् धातुमण्डितम् ।

मुनिश्शशपदस्सोऽयम् वशमानीयताम् तव ॥ १० ॥

एवमुक्ता सुरवरैर्हेलानामाप्सरोवरा ।

रमणीयम् वपुःकृत्वा पाण्डरम् पर्वतम् गता ॥ ११ ॥

तत्रागम्य विशालाक्षी सर्वाभरणभूषिता ।

मुनेरदूरतस्तस्य स्थित्वाऽपश्यत्ततो मुनिम् ॥ १२ ॥

तम् दृष्ट्वा तु मुनिश्रेष्ठम् दीप्तपावकसन्निभम् ।

सञ्चचाल भयात्तस्य दर्शनादेव सा मुनेः ॥ १३ ॥

साऽपसृत्य भयात्किञ्चिद्देवताकार्यगौरवात् ।

निश्चित्य मनसेत्येवम् पादपान्तर्हिता ततः ॥ १४ ॥

वामपार्श्वे मुनेस्तस्य हेला तु परमाप्सराः ।

गायन्ती मधुरम् गीतम् तस्थौ वै मधुराक्षरम् ॥ १५ ॥

गायन्त्यामेव तस्याम् तु हेलायाम् गीतमुत्तमम् ।

मुनिरुन्मील्य नयने दिशस्समवलोकयत् ॥

न ददर्श क्वचिच्चापि किञ्चित्सत्त्वम् समीपतः ॥ १६ ॥

अपश्यतस्ततस्तस्य किञ्चिदप्यमलात्मनः ।

विस्मयः परमो ह्यासीत् गीतिः किन्वेतदित्यपि ॥ १७ ॥

एवम् सम्पश्यमानम् तम् दिशस्सर्वा महामुनिम् ।

विलोक्य हेला परमाम् मुदमाप शुचिस्मिता ॥ १८ ॥

ततो निमीलिताक्षस्स बभूव ध्यानमास्थितः।

मुनिश्शशपदो भूयो ह्यदृष्ट्वा तस्य कारणम् ॥ १९ ॥

पुनरेव च सा हेला जगौ गीतम् मनोहरम् ।

सचोन्मील्याक्षिणी भूयः समपश्यद्दिशो दश ॥ २० ॥

तेन चातिमनोज्ञेन कलगीतेन वै मुनिः ।

लक्षीकृतश्शराणाम् तु कामस्य सहसा मुने! ॥ २१ ॥

श्रुत्वा तम् गीतनिनदम् दिशो दश विलोकयन् ।

स यस्मात्सम्श्रुतश्शब्दस्तम् देशमुपचक्रमे ॥ २२ ॥

तत्र गत्वा शशपदः सम्स्थिता यत्र साऽप्सराः।

अपश्यदतिहृयाङ्गीम् ताम् च हेलाम् शुचिस्मिताम् ॥ २३ ॥

बालामसितकेशान्ताम् पूर्णचन्द्रनिभाननाम् ।

नवराजीवपत्राक्षीम् रत्नकुण्डलशोभिताम् ॥ २४ ॥

सुनासाम् चारुदन्तोष्ठीम् कम्बुबन्धुरकन्धराम् ।

उत्तुङ्गपीनवृत्ताभ्याम् कुचाभ्याम् भूषितोरसम् ॥ २५ ॥

कण्ठार्पितबृहद्धाराम् कमनीयककर्णिकाम् ।

कृष्णसर्पाभया तन्व्या रोमराज्या विराजिताम् ॥ २६ ॥

केयूरकटकानद्धाम् कोमलायतबाहुकाम् ।

गम्भीरनाभिकुहराम् विशालजघनस्थलीम् ॥ २७ ॥

हस्तिहस्तोपमानोरूम् वृत्ताञ्चितसुजङ्घिकाम् । पद्मकोशप्रतीकाशविराजितपदद्वयाम् ॥ २८ ॥

ताम् दृष्ट्वा रूपसम्पन्नाम् नवयौवनशालिनीम् ।

मन्मथाविष्टहृदयो वाक्यमेतदुवाच ह ॥ २९ ॥

का त्वम् भवसि कल्याणि! पद्मपत्रनिभेक्षणे ।

देवी वा मानुषी वा त्वम् यक्षी विद्याधरी च वा ॥ ३० ॥

अप्सरा वा गुरुश्रोणि त्वमन्या का शुभानने ।

लक्ष्मीर्वाऽथ भवानी वा भारती वा रतिर्नु किम् ॥ ३१ ॥

एह्याश्रमपदम् मे त्वम् कामबाणपरिप्लुतम् ।

अङ्गीकुरुष्व माम् भद्रे ! माभूते मनसो भयम् ॥ ३२ ॥

रुद्रः –

इत्येवमुक्ता हेला सा मुनिना परमाप्सराः ।

उवाच प्रहसन्तीव वाक्यम् मधुरया गिरा ॥ ३३ ॥

साऽहम् त्वामेव धर्मज्ञ सदृशम् पतिमात्मनः ।

आगताऽस्मि महाभाग यदि ते रोचते मुने! ॥ ३४ ॥

एवमुक्तस्तया प्रीत्या मुदा परमया युतः ।

विजहार चिरम् कालम् हेलया मुनिसत्तमः ॥ ३५ ॥

तस्यैवम् रममाणस्य तया सह मुनेस्सुखम् ।

पाण्डरे पर्वतेन्द्रे तु व्यतीयुर्दश वत्सराः ॥ ३६ ॥

ततस्साऽसूत तनयम् बालार्कसमरोचिषम् ।

सर्वलक्षणसम्पन्नमभिरूपम् महाद्युतिम् ॥ ३७ ॥

ततस्तम् बालकम् जातम् विसृज्य गिरिकन्दरे ।

हेला शशपदेनैव रेमे नित्यम् शुचिस्मिता ॥ ३८ ॥

स शिशुः कन्दरे क्षिप्तः क्षुधार्तः प्ररुरोद ह ।

उत्तानशायी विक्षिप्य बाहू पादौ च सस्वनम् ॥

ततस्तद्वदने दैवान्मधुधारा पपात ह ॥ ३९ ॥

उदयाद्रेस्समुत्तिष्ठन् आदित्य इव बालकः ।

ववृधेऽनुक्षणम् सोऽयम् मधुनैव च नान्यतः ॥ ४० ॥

एवम् तु वर्धमानम् तमृषयोऽन्ये महामुने ।

अवर्धयन् स्वाश्रमेषु ज्ञात्वा शशपदात्मजम् ॥ ४१ ॥

फलम् वा मधुरम् मूलम् नीवाराद्यन्नमेव च ।

अतीतशैशवोऽप्येष नाश्नाति सुमहाद्युतिः ॥

ततस्ते तस्य नामाथ मधुमानिति चक्रिरे ॥ ४२ ॥

उपनीतश्च विधिना मुनिभिः सम्शितव्रतैः ।

वेदाम्श्चान्यानि शास्त्राणि जग्राह सुमहामुनिः ॥ ४३ ॥

एतस्मिन्नन्तरे कश्चित् गार्ग्यो नाम महामुनिः ।

तम् देशमुपचक्राम यत्रायम् मधुमान्मुने ॥ ४४ ॥

तम् दृष्ट्वा गार्ग्यमायान्तम् मधुमान्मधुरस्वरः ।

अभिवाद्याब्रवीद्धीमान् ज्वलन्तमिव पावकम् ॥ ४५ ॥

मधुमान् –

कस्त्वम् मुने महाभाग ! कस्माद्देशादिहागतः।

कुत्र वा गम्यते ब्रह्मन् ! सर्वमाख्याहि तत्त्वतः ॥ ४६ ॥

रुद्रः –

एवमुक्तो मधुमता गार्ग्यो भार्गवसन्निभः ।

उवाच मधुरम् वाक्यमतिश्लक्ष्णपदाक्षरम् ॥ ४७ ॥

गार्ग्यः –

गार्ग्योऽमनघो नाम यस्य मे स गुरुश्शुचिः ।

अद्याहमाश्रमपदाद्वाल्मीकेस्तु महात्मनः ॥ ४८ ॥

गमिष्याम्याश्रमपदम् कुम्भयोनेर्महात्मनः ।

वाल्मीकिना महाभाग ! प्रेषितोऽगस्त्यसन्निधिम् ॥ ४९ ॥

मधुमान् –

कुतश्चित्कारणात्सौम्य ! मह्यम् तत्कथ्यताम् त्वया ।

इत्युक्तःपुनरेवाथ गार्ग्यो वाचम् समादधे ॥ ५० ॥

गार्ग्यः –

श्रूयताम् कथयिष्यामि यत्तत्पृछसि कारणम् ॥ ५१ ॥

रामो नाम महावाहुः जज्ञे विष्णुस्सनातनः ।

इक्ष्याकोर्वै दशरथात् कृत्वाऽऽत्मानम् चतुर्विधम् ॥ ५२ ॥

स चिरम् पालयित्वेमाम् मेदिनीम् धर्मतो गुणैः ।

इदानीम् पुनरेव स्वम् स्थानम् प्राप्तो महायशाः ॥ ५३ ॥

एतद्वक्तुम् महर्षेस्तु कुम्भयोनेर्महात्मनः ।

गच्छाम्यहम् महाभाग ! तत्सकाशम् महाद्युतेः ॥ ५४ ॥

रुद्रः –

एतच्छ्रुत्वा स मधुमान् पुनरेवाब्रवीदिदम् ।

किम् विष्णुरेव भगवान् जात इक्ष्वाकुसन्ततौ ॥

ते हि धन्या महात्मानम् ये पश्यन्ति जगद्गुरुम् ॥ ५५ ॥

विष्णुम् सनातनम् नित्यम् वासुदेवम् जगत्पतिम् ।

जातम् मानुषरूपेण धन्याः पश्यन्ति चक्रिणम् ॥ ५६ ॥

अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम् ।

पश्यन्ति ये महात्मानम् सुकृतम् तैर्महत्तपः ॥ ५७ ॥

यदीह लोके भगवान् वासुदेवस्सनातनः ।

जायते नररूपेण लोकानाम् हितकाम्यया ॥ ५८ ॥

तम् दृष्ट्वा च समभ्यर्च्य यथावत्परया मुदा ।

केन वा लभ्यते मोक्षो न नरेण मनीषिणा ॥ ५९ ॥

रुद्रः –

एवम् ब्रुवाणम् तम् सोऽथ मधुमन्तम् महाद्युतिम् ।

एवमेवेति चोक्ता स प्रययौ शुचिसम्भवः ॥ ६० ॥

अथ गार्ग्ये गते तस्मिन्मधुमान्व्याकुलो द्विजः ।

कथम् द्रक्ष्याम्यहम् विष्णुमिति चिन्तापरोऽभवत् ॥ ६१ ॥

लोकानामीश्वरम् देवम् विष्णुम् सर्वगतम् विभुम् ।

मुक्तिम् प्राप्स्याम्यहम् दृष्ट्वा कथम् वा सर्ववत्सलम् ॥ ६२ ॥

एवम् चिन्तयतस्तस्य प्रापास्तम् तेजसाम् पतिः।

रजनीवाभवत्सोऽपि चक्रे सायाह्निकी: क्रियाः ॥ ६३ ॥

अथ तस्य रजन्याम् तु प्रसुप्तस्य महात्मनः ।

प्रादुरास जगन्नाथस्तस्य गार्ग्यस्य रूपधृत् ॥ ६४ ॥

 श्रीभगवान् –

मधुमन् भो महाभाग ! ममेदम् वचनम् श्रृणु ।

बृन्दावनम् समागच्छ तत्र श्रोयो भविष्यति ॥ ६५ ॥

ततः प्रबुद्धो मधुमान् चिन्तयामास किम् न्विति ।

मुहूर्तम् चिन्तयित्वा तु निश्चयज्ञस्स निश्चयम् ॥ ६६ ॥

कृतवान्विष्णुरेवेह मामाहैवम् न सम्शयः ।

ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ॥

प्रययौ यत्र तद्दिव्यम् बृन्दारण्यम् स बुद्धिमान् ॥ ६७ ॥

ततः कैश्चिदहोरात्रैः गत्वा बृन्दावनम् शुभम् ।

कैरविण्याम् विगाह्याशु तत्र हृष्टोऽवसन्मुने ॥ ६८ ॥

चिन्तयन् सततम् रामम् विस्मितम् भ्रातृसम्युतम् ।

यथाऽऽह गार्ग्यस्स तथा तत्रोवास चिरम् वने ॥ ६९ ॥

केनचित्वथ कालेन ध्यायतस्तस्य वै मुनेः ।

उदङ्मुखस्य पुरतः प्रादुरास जगद्गुरुः ॥ ७० ॥

यो न शक्यः सुरश्रेष्ठैः सनकाद्यैश्च योगिभिः ।

स कारुण्याज्जगन्नाथस्तस्य प्रादुरभूत्पुरः ॥ ७१ ॥

यादृगासीत्पुरा रामो राज्ञो दशरथस्य हि ।

भ्रातृभिस्सहितस्तादृक् ससीतः प्रत्यदृश्यत ॥ ७२ ॥

सचोत्थाय जगन्नाथम् दृष्ट्वा हृष्टो महामतिः।

मधुमान्प्रणनामाशु प्रीत्या नम्रशिरोधरः ॥

स प्रणम्यातिहृष्टान्तः कृत्वा भूयः प्रदक्षिणम् ॥ ७३ ॥

ददर्श तम् महाबाहुम् पद्मपत्रनिभेक्षणम् ।

पूर्णचन्द्रप्रतीकाशवदनम् मकुटोज्ज्वलम् ॥ ७४ ॥

कम्बुग्रीवम् महोरस्कम् वृत्तायतभुजद्वयम् ।

वसानम् पीतवसनम् सर्वाभरणभूषितम् ॥

कालाम्बुदमिवाकाशे विद्युत्सम्वलितान्तरम् ॥ ७५ ॥

ततस्तत्पार्श्र्वतो भ्रातॄन् तपनीयसुकुण्डलान् ।

ताम् च सीताम् महाभागाम् सर्वलक्षणसम्युताम् ॥ ७६ ॥

दृष्ट्वा तान्मधुमान् सोऽथ सम्प्रहृष्टतनूरुहः ।

पश्यमानश्चिरम् कालम् न तृप्तिमुपजग्मिवान् ॥ ७७ ॥

तम् पश्यमानम् निभृतम् मधुमन्तमथाब्रवीत् ।

रामो राजीवताम्राक्षो वचनम् मधुराक्षरम् ॥ ७८ ॥

श्री भगवान् –

यत्तेऽभिलषितम् सौम्य ! मम रूपमिदम् तव ।

दर्शितम् वरयस्वेह किमन्यत्तव वाञ्छितम् ॥ ७९ ॥

इत्युक्तस्तमुवाचेदम् मधुमान् सम्यताञ्जलिः ।

वस्तुमत्रार्हसि चिरम् त्वामाराधयितुर्मम ॥ ८० ॥

एवमस्त्विति तम् चोक्ता दयया स जगद्गुरुः ।

तत्रैव वासमकरोत् लोकानाम् हितकाम्यया ॥ ८१ ॥

चिरमाराधितस्तेन दत्त्वा तस्य पदम् स्वकम् ।

अद्यापि दृश्यते लोकैः स हरिर्दयया मुने ! ॥ ८२ ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे श्रीबृन्दारण्यक्षेत्रमाहात्म्ये सप्तमोऽध्यायः ॥

श्रीमद्वरवरमुनये नमः॥

 

श्रीबृन्दारण्यक्षेत्रमाहात्म्ये अष्टमोऽध्यायः

योऽन्यस्तत्र महाभागो मुनिस्सुमतिरात्मवान् ।

तत्रोवास तपः कुर्वन् सुचिरं सुमहामतिः ॥ १ ॥

एतस्मिन्नन्तरे देवाः सुभृश दैत्यपीडिताः।

समेत्य माधवं सर्वे प्रणता वाक्यमब्रुवन् ॥ २ ॥

देवदेव जगन्नाथ जनार्दन जगद्गुरो ।

शरणं त्वां प्रपन्नास्मः सर्वे ते वयमच्युत ! ॥ ३ ॥

कालनेमिमुखा दैत्याः कालान्तकयमोपमाः ।

जाता मानुषरूपेण पीडयन्ति जगत्सदा ॥ ४ ॥

धर्महानिम् प्रकुर्वन्तः पीडयन्तो महामुनीन् ।

अस्मानपि समुद्योगम् जेतुम् कुर्वन्ति नित्यदा ॥ ५ ॥

त्वन्नाथान्प्रणतानस्मान् भगवन्स्त्रातुमर्हसि ।

अशरण्यशरण्यस्त्वम् सर्वेषाम् शरणार्थिनाम् ॥ ६ ॥

 रुद्रः –

इत्युक्तो देवदेवेशो देवतानाम् गणैस्तदा ।

उवाच मधुरम् वाक्यम् सान्त्वयन् सुरसत्तमान् ॥ ७ ॥

अभयम् वः प्रदास्यामि भयम् त्यजत देवताः ।

तानहम् नाशयाम्याशु युष्माकम् येऽपराधिनः ॥ ८ ॥

निर्भया गच्छत स्वर्गम् शरणम् वो भवाम्यहम् ।

अहमेवाशु सम्प्राप्य मेदिनीम् नाशयामि तान् ॥ ९ ॥

 रुद्रः –

इत्युक्तास्तेन ते हृष्टाः प्रणम्य मधुसूदनम् ।

आययुस्त्रिदिवम् तूर्णम् सर्वे देवा यथागतम् ॥ १० ॥

सच देवो जगन्नाथः पीतवासा जनार्दनः ।

वसुदेवमहिष्याम् तु देवक्याम् सम्वभूव ह ॥ ११ ॥

नीतोऽथ वसुदेवेन नन्दगोपव्रजम् क्षणात् ।

तत्रावसच्चिरम् कालम् पूतनादीन्निहत्य सः ॥ १२ ॥

ततः कम्समुखान् सर्वान् आसुरप्रकृतीन् हरन् ।

तस्मिन् भारतसङ्ग्रामे भूत्वा पार्थस्य सारथिः ॥ १३ ॥

भूमे रावतरणम् कृत्वा धर्मस्य च स्थितिम् ।

जगाम भूयः स्वपदम् सर्वलोकगुरुर्हरिः ॥ १४ ॥

तस्मिन् गते दिवम् देवे व्यासशिष्यो महामतिः ।

आत्रेयो नाम कश्चित्तु ववन्दे तम् महामुनिम् ॥ १५ ॥

पाराशर्यम् महात्मानम् कृष्णद्वैपायनम् मुनिम् ।

प्रणम्य प्राम्जलिर्वाक्यमिदमाह महामतिः ॥ १६ ॥

आत्रेयः –

भगवन् भगवान्देवो वासुदेवो जगत्पतिः ॥

त्रिदिवम् दनुजारातिर्गतो यो नस्सदा गतिः ॥ १७ ॥

यश्चास्य जगतः कर्ता सम्हर्ता प्रभुरेव च ।

प्रमाणम् च प्रमेयम् च नामरूपादिकृत्तथा ॥ १८ ॥

योऽव्ययश्चाप्रमेयश्च नित्यः सर्वगतश्शुचिः ।

निर्मलो निर्विकारश्च पुरुषश्चोत्तमः स्मृतः ॥ १९ ॥

अजय्यः पुण्डरीकाक्षः पीतवासा रमापतिः ।

शङ्खचक्रगदापाणिः यो नारायणनामवान् ॥ २० ॥

स देवोऽद्य महाबाहुः धर्मसम्स्थापनो भुवि ।

वसुदेवात्मजः कृष्णः गतः स्वम् स्थानमुत्तमम् ॥ २१ ॥

कालः कलिश्चाप्यासन्नः भवत्यनुदिनम् प्रभो! ।

कुत्र वर्तामहे ब्रह्मन् ! वयम् वक्तुम् त्वमर्हसि ॥ २२ ॥

इत्युक्तो हेतुमद्वाक्यम् वेदव्यासो महामुनिः ।

प्रत्युवाच शुभम् वाक्यमात्रेयम् मुनिसत्तमम् ॥ २३ ॥

व्यासः –

श्रूयताम् तव वक्ष्यामि यद्ब्रवीषि महामते ! ॥ २४ ॥

सम्यगुक्तम् त्वया सौम्य ! काल: क्रूरो भविष्यति ।

गतश्च देवदेवेशो वसुदेवात्मजो हरिः ॥

कृत्वा भारावतरणम् भूमेस्त्रिजगदीश्वरः ॥ २५ ॥

कालः कलिश्च दुर्धर्षः भविष्यति न सम्शयः ।

धर्मलोपो भवेन्नित्यमधर्मश्च महान् भवेत् ॥ २६ ॥

अस्मिन्नेवम् गते कार्ये यद्ब्रवीमि हितम् तव ।

तदेवाचर सौम्य त्वमचिरादात्मनो हितम् ॥ २७ ॥

दक्षिणस्याम् महाभाग ! दिशि बृन्दावनाभिधम् ।

मनोज्ञमाश्रमपदम् मुनीनाम् भावितात्मनाम् ।

अस्ति किञ्चिद्वनम् दिव्यम् नन्दनोपममद्भुतम् ॥ २८ ॥

भृग्वाद्या मुनयो यत्र तपः कुर्युरनुत्तमम् ।

तत्र कैरविणी नाम सरसी विमलोदका ॥

फुल्लपद्मोत्पलवती काचिदस्ति मनोहरा ॥ २९ ॥

तदुत्तरम् महाभाग ! मुक्तिक्षेत्रम् नृणाम् भुवि ।

बृन्दावनमिति ख्यातम् तुलसीकाननान्वितम् ॥ ३० ॥

यत्र सन्निहितो देवः पुराणः शार्ङ्गधृक् स्वयम् ।

सन्निधिम् कुरुते सौम्य ! सदा लोकहिताय वै ॥

तत्रास्ते सुमतिर्नाम कश्चिन्मुनिवरोत्तमः ॥ ३१ ॥

न तस्यास्ति समः कश्चित्तपसा मेधयाऽपि वा।

तस्याश्रमसमीपे त्वम् तेनैव सह नित्यशः ॥

बसैकाग्रमतिर्विष्णौ तत्र श्रेयो भविष्यति ॥ ३२ ॥

इत्युक्त स मुनिस्तुर्णम् कृत्वा प्रतिकृतिम् हरेः ।

आवाह्य विधिवत्तस्याम् वासुदेवम् सनातनम् ॥ ३३ ॥

तमभ्यर्च्य यथान्यायम् पार्थसारथिमव्ययम् ।

वहन्तम् दक्षिणे हस्ते पाञ्चजन्यमनुत्तमम् ॥ ३४ ॥

वामे च पाणिकमले दानमुद्राविभूषितम् ।

आत्रेयस्य ददौ हस्ते पाराशर्यो महामुनिः ।

ततः पुनरुवाचेदम् कृष्णद्वैपायनो मुनिः ॥ ३५ ॥

आत्रेय ! त्वम् महाभाग गत्वा वृन्दावनम् शुभम् ।

सुमतेराश्रमम् सौम्य वस तेन महात्मना ॥ ३६ ॥

तत्र रम्ये वनोद्देशे सम्स्थाप्य प्रतिमामिमाम् ।

वैखानसेन विधिना समर्चय जगद्गुरुम् ॥ ३७ ॥

एवमुक्तः प्रणम्यैनमात्रेयो हृष्टमानसः।

हरिम् मूर्ध्ना दधानस्तु तूर्णम् बृन्दावनम् ययौ ॥ ३८ ॥

सतु गत्वाऽऽश्रमम् तूर्णम् सुमतेस्तु महात्मनः ।

तत्रत्वालोकयामास तमेव मुनिसत्तमम् ॥ ३९ ॥

तेन दृष्टस्सुमतिना यथावत्पूजितस्तदा ।

सर्वमेतद्यथातत्त्वम् कथयामास तत्त्वतः ॥ ४० ॥

श्रुत्वा तद्वचनम् तस्य सुमतिर्हृष्टमानसः ।

यथावत्पूजयांचक्रे तमृषिम् पावकप्रभम् ॥ ४१ ॥

सोऽपि तत्र प्रतिष्ठाप्य प्रतिमाम् ताम् मुरद्विषः ।

वैखानसेन विधिना चिरकालमपूजयत् ॥ ४२ ॥

स समाराध्य सुचिरम् वासुदेवम् जगद्गुरुम् ।

आत्रेयः परमम् धाम जगाम मधुविद्विषः ॥ ४३ ॥

स इदानीमपि मुने! दृश्यते तत्र मानवैः ।

रुक्मिण्या चानिरुद्धेन प्रद्युम्नेन च सेवितः ॥ ४४ ॥

हलायुधेन सहितस्तथा सात्यकिना सह ।

पार्थसारथिरित्येव विश्रुतो जगतीपतिः ॥ ४५ ॥

इदम् चैव पुरावृत्तम् श्रोतुमर्हसि नारद ।

यन्मया कथ्यते तस्य वासुदेवस्य शार्ङ्गिणः ॥ ४६ ॥

पूर्वमासीन्महाप्राज्ञो राजा तुण्डीरमण्डले ।

सुमतिर्नाम नाम्ना तु सर्वलक्षणसम्युतः ॥ ४७ ॥

सर्वशास्त्रार्थतत्त्वज्ञः प्रजापालनतत्परः ।

कल्याणवचनो धीरः कन्दर्प इव मूर्तिमान् ॥

स ररक्ष क्षितिम् राजा युक्तदण्डो यथाविधि ॥ ४८ ॥

समुवाह दृढाम् भक्तिम् हरौ मुरविमर्दने ।

स समाराधयद्विष्णुम् सुमतिर्नृपसत्तमः ॥ ४९ ॥

स सम्प्राप्य महीपालो वेङ्कटाचलमव्ययम् ।

अनेकतरुसम्बाधम् नानापक्षिसमन्वितम् ॥ ५० ॥

बहुकन्दरसङ्कीर्णम् नैकनिर्ज्झरशोभितम् ।

विचित्रैर्धातुभिर्युक्तम् शिखरैरुन्नतैरपि ॥ ५१ ॥

सेवितम् मुनिवर्यैश्च भगवद्भक्तिकोविदैः ।

अवगह्यामले राजा स्वामिपुष्करिणीजले ॥

सुरासुरगुरुम् देवम् ववन्दे हृष्टमानसः ॥ ५२ ॥

कालाम्बुदमिवाकाशे प्रावृट्काले समुच्छ्रितम् ।

स्फुरद्रत्नविचित्रेण किरीटेन विराजितम् ॥ ५३ ॥

कुण्डलाभ्याम् मनोज्ञाभ्याम् शोभितम् कर्णयोर्द्वयोः ।  ग्रैवेयहारकेयूरकर्णिकासमलङ्कृतम् ॥ ५४ ॥

महद्भ्याम् शङ्खचक्राभ्याम् शोभितम् पार्श्वयोर्द्वयोः ।

सेवितम् चन्द्रसूर्याभ्यामिव कालवलाहकम् ॥ ५५ ॥

पश्यमानश्चिरम् देवम् सुमतिर्हृष्टमासनः ।

सानन्दबाष्पनयनो मनसैवमचिन्तयत् ॥ ५६ ॥

अयम् स विष्णुभगवान्स्त्रिधामा शङ्खचक्रभृत् ।

सम्साराम्बुधिमग्नानाम् हितार्थम् देहिनाम् स्वयम् ॥

आस्ते सदाऽत्र भगवान् योगिनामपि दूरगः ॥ ५७ ॥

अयम् हि तस्मिन् सङ्ग्रामे सारथ्यम् तु किरीटिनः ।

चक्रे दयापरवशः साक्षाच्चक्रधरो हरिः ॥ ५८ ॥

अपि तेनैव रूपेण स्फुरत्सारथ्यलक्ष्मणा ।

ममाद्य दयया देवः स्वयमाविर्भविष्यति ॥ ५९ ॥

एवम् चिन्तयमाने तु सुमतौ धर्मवत्सले ।

आबभाषे महातेजाः स हि वेङ्कटनायकः ॥ ६० ॥

यत्तेऽभिलषितम् राजन् ! तत्तथैव भविष्यति ।

यत्तु बृन्दावनम् नाम विपिनम् मुनिसेवितम् ॥

तत्र ते दर्शयेऽहम् वै यद्रूपम् तु तवेप्सितम् ॥ ६१ ॥

इत्येवमुक्तः सुमतिस्तस्माद्बृन्दावनम् ययौ ।

तत्र प्रकाशमानम् तम् तमालाख्यमिव द्रुमम् ॥ ६२॥

वहन्तम् शङ्खराजानम् दक्षिणे करपल्लवे।

दानमुद्राम् च सव्ये तु सर्वाभरणभूषितम् ॥ ६३॥

स पणभ्य मुनिश्रेष्ठः सुमतिर्हृष्टमानसः ।

वासुदेवम् जगन्नाथमतिमात्रम् मुदम् ययौ ॥ ६४ ॥

स तस्य विधिवद्राजा देवदेवस्य शार्ङ्गिणः।

उत्सवम् कारयामास चैत्रे मासि शुभोदये ॥ ६५ ॥

इदम् मया यदाख्यातम् पुरावृत्तम् महामुने ! ।

सङ्क्षेपेण यथावृत्तम् को वक्तुम् शक्नुयान्नरः ॥ ६६ ॥

य इदम् शृणुयाद्विप्र ! भक्त्या पापप्रणाशनम् ।

आख्यानम् स हरेर्धाम याति पापयुतोऽपि वा ॥ ६७ ॥

अथान्यस्तत्र योऽप्यस्ति सप्तरोमेति विश्रुतः ।

मुनिः परमभूयिष्ठः सर्वभूतहिते रतः ॥ ६८ ॥

वैनतेयाधिरूढम् तु स कृत्वा विष्णुमव्ययम् ।

शङ्खचक्रधरम् देवम् वहन्तमभयम् मुने ॥ ६९ ॥

वैखानसेन विधिना सम्स्थाप्य पुरुषोत्तमम् ।

चिरमाराध्य विधिवत् वरदम् प्रणमन्नृणाम् ॥

देहावसाने तद्दिव्यम् पदम् प्राप मुरद्विषः ॥ ७० ॥

सोऽपि सम्प्रति सर्वेषाम् प्राणिनाम् गोचरीभवन् ।

वरदो नाम देवेशो दृश्यते तत्र वै हरिः ॥ ७१ ॥

एवम् पञ्च समाख्याता मूर्तयो मुनिसत्तम ! ।

याः पृष्टवानसि पुरा विष्णोस्तु दनुजद्विषः ॥ ७२ ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे बृन्दारण्यक्षेत्रमाहात्म्ये अष्टमोऽध्यायः ॥

श्रीमद्वरवरमुनये नमः

 

 श्रीबृन्दारण्यक्षेत्रमाहात्म्ये नवमोऽध्यायः

नारदः-

विज्ञाता मूर्तयः पञ्च विष्णोरत्र महात्मनः ।

तीर्थस्य वैभवम् चापि वक्तुमर्हसि शङ्खर ! ॥ १ ॥

 रुद्रः –

को नाम मुनिशार्दूल ! शक्तो वक्तुम् हि वैभवम् ।

तस्य तीर्थस्य महतो मनुष्यो देव एव वा ॥ २ ॥

इदम् गुह्यतमम् लोके तस्य तीर्थस्य वैभवम् ।

यत्पृष्टवानसि मुने त्वम् मामद्य महाव्रत ! ॥ ३ ॥

सा हि कैरविणी नाम कैरवोत्पलशोभिता ।

सम्फुल्लपद्मसञ्चञ्छन्ना सरसी विमलोदका ॥ ४ ॥

हम्सैश्च मानसावासैः सर्वदा सङ्घशो युता ।

कारण्डवैस्सारसैश्च नित्यमत्तैः सदावृता ॥ ५ ॥

मिथुनैश्चक्रवाकानाम् मधुरारावसम्युतैः।

सेविता विगैरन्यैरति हृ विराविभिः ॥

षट्पदारवसञ्च्छन्ना सङ्कीर्णा तीरजैर्द्रुमैः ॥ ६ ॥

तस्याः पञ्च प्रशस्तानि तीर्थानि परितो मुने! ।

तेषाम् मध्ये कैरविणी स्थिता सा सरसी शुभा ॥ ७ ॥

या दृष्टाऽपि नृणाम् पापम् नाशयत्यमलोदका ।

किम् पुनः स्पर्शनस्नानैः दुर्लभम् भुवि मानवैः ॥ ८ ॥

श्रियमायुर्यशः कान्तिमारोग्यम् पशुपुत्रकान् ।

प्राप्नोति दुर्लभम् चापि पदम् स्नातस्ततो नरः ॥ ९ ॥

न जन्म पुनरायाति तस्याम् स्नातो नरः क्वचित् ।

नायशो नैव नरकम् न चाभक्तिम् जनार्दने ॥ १० ॥

तस्याम् स्नातः सकृन्मर्त्यः मुच्यते सर्वकिल्बिषैः ।

पदम् तदपि चाप्नोति यदनन्तमनादि च ॥ ११ ॥

मातृहा पितृहा चापि ब्रह्महा गोघ्न एव च ।

मासमेकम् नरः पापैस्तत्र स्नात्वा विमुच्यते ॥ १२ ॥

स्वर्णस्तेयी सुरापश्च यश्चान्यः पापकृन्नरः ।

स्नात्वा मासम् स तस्याम् वै मुच्यते नात्र सम्शयः ॥ १३ ॥

कार्तिकस्य तु मासस्य कृष्णपक्षेऽष्टमीतिथौ ।

यः श्राद्धकर्म कुरुते स पितॄणाम् प्रियो मतः ॥ १४ ॥

न गया नैव काशी च न क्षेत्रम् कौरवम् तथा ।

न पुष्करम् च सदृशम् तस्य क्षेत्रस्य वै मुने ॥ १५ ॥

गीतो यस्तु पुराविद्भिः मुनिभिर्मुनिसम्मतः ।

श्लोकम् शृणुष्व देवर्षे ! तम् वक्ष्यामि समाहितः ॥ १६ ॥

सहस्राण्यपि जन्मानि जह्नुकन्या निषेवणात् ।

सकृत्कैरविणीस्नानमधिकम् नात्र सम्शयः ॥ १७ ॥

नियतो नियताहारो नियतेन्द्रियमानसः ।

स्नायात्तस्याम् सरस्याम् तु मन्त्रमेतदुदीरयन् ॥ १८ ॥

अपहर मम दुरितानि प्रदिश त्वम् निरुपमाम् यशोलक्ष्मीम् ।

भगवति कैरविणि त्वाम् प्रणमामि जनार्दनप्रिये सुभगे ॥ १९ ॥

एष मन्त्रस्तु सुमहान्वसिष्ठेन महात्मना ।

 सकाशाद्ब्रह्मणः प्राप्तः परमश्चतुराननात् ॥ २० ॥

एवमुक्त्वाऽवगाह्याम्भस्यमले विमलाम्भसः ।

मनुजस्तस्य सरसो माधवम् प्रतिपद्यते ॥ २१ ॥

अत्र त्वयेदम् श्रोतव्यमितिहासम् पुरातनम् ।

शार्दूलस्य मुनेश्चापि सम्वादो व्याघ्रजन्मनः ॥ २२ ॥

शार्दूलः –

इदमुक्तम् त्वया ब्रह्मन् माहात्म्यम् बहुशो मुने ।

 गङ्गाया जहूनुकन्यायास्सर्वस्मादधिकम् भुवि ॥ २३ ॥

यथा महानदीष्वेषा प्रशस्ता देववाहिनी ।

एवम् सरस्सु किम् तीर्थम् तद्वदस्व महामते ॥ २४ ॥

व्याघ्रजन्मा –

साधु पृष्टम् त्वया तात! शृणुष्व कथयाम्यहम् ।

गङ्गाया अपि यत्तीर्थम् प्रशस्तम् जगतीतले ॥ २५ ॥

यत्तु बृन्दावनम् नाम वनम् मधुनिघातिनः ।

जगत्याम् प्रियमत्यर्थम् नानातरुमृगद्विजम् ॥ २६ ॥

तत्र कैरविणी नाम सरसी मुनिसत्तम ! । काचिदच्छोदकाऽनेकविहङ्गमविराजिता ॥ २७ ॥

तत्समम् जगतीपृष्ठे न कुत्रापि च दृश्यते ।

सरो वाऽपि तटाको वा नदी वा कूप एव वा ॥ २८ ॥

गङ्गायामपि च स्नातः स्वर्गमेत्य पुनर्भुवि ।

जन्म जन्तुरवाप्नोति तत्स्नानी न पुनर्भवम् ॥ २९ ॥

बहुना किमिहोक्तेन वक्ष्ये सङ्क्षेपतः शृणु ।

धर्मार्थकाममोक्षाणाम् साधनम् तत्सरो मतम् ॥ ३० ॥

वक्तुम् वा वैभवम् तस्य शक्तो नैव नरो भुवि ।

देवो वा देवराजो वा सोऽपि साक्षाद्बृहस्पतिः ॥ ३१ ॥

श्रूयते हि पुरा वृत्तमिदम् मुनिवरोत्तम! ।

विश्वावसोः कृतज्ञस्य गन्धर्वाधिपतेर्महत् ॥ ३२ ॥

स कदाचिन्महाभाग ! विमानम् वरमास्थितः ।

चचार विमले व्योम्नि गन्धर्ववरसत्कृतः ॥ ३३ ॥

तस्य सञ्चरतो व्योम्नि गन्धर्वाधिपतेर्मुने! ।

अधस्तादरजोनाम सरः सुविमलोदकम् ॥ ३४ ॥

विन्ध्यस्य दक्षिणे पार्श्वे हेमो नाम महागिरिः ।

त्रीणि शृङ्गाणि तस्यापि भृशमुच्चैस्तराणि वै ॥ ३५ ॥

तत्र शृङ्गे प्रतीचीने मत्तवारणसञ्ज्ञिते ।

महत्यभ्रम्लिहे रम्ये स्थितम् तदरजस्सरः ॥ ३६ ॥

तत्रात्रिपुत्रो भगवान् दुर्वासा मुनिसत्तमः ।

तपश्चचार सुभृशम् वर्षाणि सुबहूनि वै ॥ ३७ ॥

तस्योर्ध्वम् गच्छतस्तत्र व्योम्नि विश्वावसोर्मुने ।

दुर्वाससश्शरीरे च छाया वै निपपात ह ॥ ३८ ॥

ततः क्रुद्धो महाभागो दुर्वासा मुनिसत्तमः ।

गन्धर्वराजम् गच्छन्तमपश्यद्व्योम्निनिर्मले ॥

तम् दृष्ट्वा सुभृशम् क्रुद्धो वाक्यमेतदुवाच ह ॥ ३९ ॥

दुर्वासाः  –

यस्माद्गच्छसि दुर्बुद्धे ममोपरि दिवि द्रुतम् ।

मामनादृत्य तस्मात्त्वमशरीरो भविष्यसि ॥

एवमुक्ता रुषाऽपश्यन्निर्दहन्निव चक्षुषा ॥ ४० ॥

व्याघ्रजन्मा –

एवमुक्ते तु वचने शरीरमपतद्भुवि ।

तस्य विश्वावसोर्विप्र ! जगाम सुमहद्भयम् ॥ ४१ ॥

अशरीरस्ततो गत्वा वायुभूतो मनोजवः ।

प्रणम्य प्राञ्जलिर्वाक्यमिदमाह धनाधिपम् ॥ ४२ ॥

विश्वावसुः –

पश्य देव ! मम प्राप्तमीदृशम् कर्म कुत्सितम् ।

त्राहि त्राहि धनाध्यक्ष ! शरणम् त्वामुपागतः ॥ ४३ ॥

अजानतैव हि मया प्राप्तम् कर्मेदृशम् प्रभो! ।

दुर्वाससाऽतितपसा समुत्सृष्टम् धनाधिप ! ॥ ४४ ॥

तमेवमुक्तवन्तम् तु प्रत्युवाच धनाधिपः ।

सान्त्वयन् श्लक्ष्णया वाचा मागमो मागमो भयम् ॥ ४५ ॥

अवश्यमनुभोक्तव्यम् सुकृतम् दुष्कृतम् तथा ।

स्वेनैव स्वकृतम् तात नापरस्यापरेण हि ॥ ४६ ॥

धर्माधर्मौ सुखम् दुःखम् लाभालाभौ जयाजयौ ।

स्वेच्छया नैव जायन्ते प्राणिनाम् प्राणवत्तम! ॥ ४७ ॥

तदत्र त्वम् शुचम् त्यक्त्वा तरुणीव जरान्वितम् ।

तपश्चरस्व सुमहद्यथा स्याद्देहसम्भवः ॥ ४८ ॥

एवमुक्तः प्रणम्यैनमशरीरो धनाधिपम् ।

तथेत्युक्त्वा जगामाथ शितिकण्ठम् महेश्वरम् ॥ ४९ ॥

वृषभध्वजमासाद्य प्रणम्य प्राञ्जलिस्तदा ।

पार्वत्या सहितम् देवमिदम् वचनमब्रवीत् ॥ ५० ॥

विश्वावसुः –

भगवन्देवदेवेश ! त्राहि माम् शरणागतम् ।

कुत्राहम् तपसस्सिद्धिम् सद्यः प्राप्स्यामि शङ्कर ! ॥

तद्वदस्व महादेव ! त्वस्य मे शरणार्थिनः ॥ ५१ ॥

व्याघ्रजन्मा –

एवमुक्ते तु वचने नीलकण्ठोऽब्रवीदिदम् ॥ ५२ ॥

रुद्रः –

तुलसीकाननम् तात ! गन्तुमर्हसि सुव्रत ।

यत्र कैरविणी नाम सरसी सा महत्तरा ॥

तत्र सिद्धिस्तव भवेत्सद्य एव महातपः ॥ ५३ ॥

व्याघ्रजन्मा-

एवमुक्तस्तु देवेन हृष्टो विश्वावसुस्तदा ।

तुलसीकाननम् शीघ्रमाजगाम महामतिः ॥ ५४ ॥

बृन्दारण्यम् ततो गत्वा दृष्ट्वा कैरविणीम् शुभाम् ।

हृष्टस्तत्र तपश्चक्रे किञ्चित्कालम् मनोरमे ॥ ५५ ॥

एवम् तपोऽचरतत्र स हि विश्वावसुर्मुने ॥ ५६ ॥

एवमाह महाभाग व्याघ्रजन्मा महामुनिः  ।

अतस्तत्सदृशम् किञ्चिद्दृश्यते न सरः क्वचित् ॥

तत्स्नानाद्दुर्लभम् किञ्चिन्नृणाम् भुवि न जायते ॥ ५७ ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे श्रीबृन्दारण्यक्षेत्रमाहात्म्ये नवमोऽध्यायः ॥

श्रीमद्वरवरमुनये नमः

 

श्रीबृन्दारण्यक्षेत्रमाहात्म्ये दशमोऽध्यायः

यदुक्तम् देवदेवेश त्वया वृषभलाञ्छन ! ।

पञ्च तीर्थानि तस्येति पुरतस्तानि मे वद ॥ १ ॥

रुद्रः –

कैरविण्यास्सरस्यास्तु स्थितमुत्तरपूर्वतः ।

विमलाम्भस्सरः किञ्चिदिन्द्रतीर्थमिति स्मृतम् ॥ २ ॥

स्नाने दाने कृते तत्र नरो नित्यो भविष्यति ।

वाजिदानम् कृतम् तत्र विशेषेण प्रशस्यते ॥ ३ ॥

अथान्यद्दक्षिणे भागे स्थितम् किञ्चित्सरोवरम् ।

सोमतीर्थमिति ख्यातम् सर्वपापप्रणाशनम् ॥ ४ ॥

क्षीराणाम् नवनीतानाम् क्षौमस्य च पटस्य च ।

तत्र दानम् प्रशस्तम् स्याद्दध्नश्च मुनिसत्तम ॥ ५ ॥

ततो दक्षिणतः पश्चान्मीनतीर्थमिति श्रुतम् ।

महापापप्रशमनम् सर्वसिद्धिकरम् नृणाम् ॥ ६ ॥

तत्र चापि विशेषेण मुक्तादानम् प्रशस्यते ।

प्रवालस्य मणीनाम् च मधुनस्सर्पिषस्तथा ॥ ७ ॥

तत उत्तरतः पश्चादग्नितीर्थाभिधम् सरः ।

महताम् पातकानाम् च कुलिशम् तन्निवारणे ॥ ८ ॥

मेषदानम् प्रशस्तम् स्यात्कृतम् तत्र महामुने ।

आरोग्यदम् पुष्टिकरमैश्वर्यस्यापि दायकम् ॥ ९ ॥

उत्तरस्याम् दिशि तथा कैरविण्याः स्थितम् शुभम् ।

विमलाम्भस्सरः किञ्चिद्विष्णुतीर्थमिति श्रुतम् ॥ १० ॥

यम् यम् कामयते कामम् तम् तमामोति मानवः ।

तत्र स्नात्वा महापापैर्मुच्यते नात्र सम्शयः ।। ॥ ११ ॥

तत्र दानम् महाभाग ! सर्वेषाम् च प्रशस्यते ।

सर्वेषामेव तीर्थानामुत्तमम् वैष्णवम् स्मृतम् ॥ १२ ॥

तत्र स्नानम् प्रशस्तम् स्यान्मुनिवर्गापवर्गदम् ॥ १३ ॥

पञ्चतीर्थसमायुक्तामीदृशीम् ताम् सरोवराम् ।

स्नायात्कैरविणीम् विप्र यदीच्छति हरेः पदम् ॥ १४ ॥

एतच्च सरसि ह्यन्यदद्भुतम् श्रोतुमर्हसि ।

देवर्षे वदतो मत्तो यदनादि महामते ! ॥ १५ ॥

मुद्गलो नाम कश्चित्तु मुनिः परमधार्मिकः ।

कण्वपुत्रो महातेजास्तपस्स्वाध्यायतत्परः ॥ १६ ॥

रम्ये तु गोमतीतीरे कोविदारवने स्थितः।

सकृत्पित्राऽन्वितः कुर्वन् तपः परमदुश्वरम् ॥ १७ ॥

तत्रैव वसतस्तस्य कोविदारवने शुभे ।

रम्यमाश्रममाजम्मुर्मुनयस्तत्त्वदर्शिनः ॥ १८ ॥

गोहिलो गौतमश्चैव कतको विमलो विधुः।

पञ्चैते पावनप्रख्या मुद्गलस्य महामुने ॥ १९ ॥

पूजिताश्च यथान्यायम् तेन ते मुनयस्तदा ।

रम्ये तस्याश्रमे रात्रिमूषुर्विमलमानसाः ॥ २० ॥

तानब्रवीन्महातेजा मुद्गलो मुनिसत्तमः ॥ २१ ॥

मुद्गलः –

क्व गच्छथ महाभागाः पश्यतो मम सम्शयः ॥ २२ ॥

रुद्रः –

अथ प्रत्यूचुरेनम् ते गोहिलाद्यास्तपोधनाः ॥ २३ ॥

मुनयः-

बृन्दारण्यम् गमिष्यामो यत्रास्ते भगवान् हरिः ।

यत्र सा सरसी रम्या नाम्ना कैरविणी शुभा ॥ २४ ॥

भृग्वाद्या मुनयो यत्र तपश्चक्रुस्सुदुष्करम् ।

तत्र गत्वा वयम् सर्वे तपः कर्तुम् कृतक्षणाः ॥

तत्समम् दृश्यते क्वापि मुक्तिक्षेत्रम् न भूतले ॥ २५ ॥

 रुद्रः –

इत्युक्तस्तैर्मुनिवरैर्मुद्गलो मुनिसत्तमः ।

तानब्रवीदहम् चापि यास्यामि तुलसीवनम् ॥ २६ ॥

सम्प्राप्ता मुनयस्ते च स चापि मुनिसत्तमः ।

बृन्दारण्यम् ततो गत्वा रम्यपक्षिमृगद्विपम् ॥ २७ ॥

अलङ्कृतम् मुनिकुलैस्तपश्चरणतत्परैः ।

तामपश्यन्मुनिवरास्तपश्चक्रुः पृथक्पृथक् ॥ २८ ॥

तत्र तत्र सरस्तीरे रम्यपादपसङ्कुले ।

मुद्गलस्तु महातेजा मुनिः परमधार्मिकः ॥

तदम्भस्यवगाह्यान्तस्तत्र चक्रे महत्तपः ॥ २९ ॥

तस्यैवम् कैरविण्यम्भस्यवगाह्य स्थितस्य तु ।

बहवो वत्सरा याताः सुखेनैव महाद्युतेः ॥ ३० ॥

ततः कदाचिदुन्मील्य चक्षुषी सर्वतो दिशः ।

विलोकयन्ददर्शाग्रे स्थितम् मीनम् महातनुम् ॥ ३१ ॥

दारैः पुत्रैश्च पौत्रैश्च बन्धुभिश्चाप्यथेतरैः ।

परितः सम्वृतम् किञ्चिन्मनोहरतराकृतिम् ॥ ३२ ॥

तम् दृष्ट्वा तपसो विघ्नममन्यत महाद्युतिः ।

मौद्गलो मुनिशार्दूलः सम्स्थितस्य ममात्र हि ॥ ३३ ॥

तमवाच शुभम् वाक्यम् सान्त्वयन्परया गिरा ॥ ३४ ॥

मीनमीन महाभाग सत्वरोऽद्य त्वमन्यतः ।

गच्छैभिर्बन्धुभिर्युक्तो न त्वम् वस्तुमिहार्हसि ॥ ३५ ॥

येच त्वदीयास्सरसि निवसन्त्यत्र वारिज ।

मृतप्राया भविष्यन्ति श्वस्ते सूर्योदयात्परम् ॥ ३६ ॥

ममात्र सरसि प्राज्ञ कुर्वतस्तप उत्तमम् ।

दर्शनम् ते महान्विघ्नो भविष्यति न सम्शयः ॥ ३७ ॥

इत्युक्तो बन्धुभिस्सर्वैस्तत्क्षणादेव सोऽन्यतः ।

जगाम मीनो देवर्षे नाद्यापि परिदृश्यते ॥ ३८ ॥

एतत्ते कथितम् सर्वम् यत्पृष्टोऽहम् महामुने।

बृन्दारण्यस्य माहात्म्यम् तीर्थस्य च विशेषतः ॥ ३९ ॥

कञ्चित्ते सम्शयो नष्टः कञ्चित्ते नैव विस्मृतिः।

कच्चिचाधिगतश्चार्थः कचित्ते सफलश्श्रमः ॥ ४० ॥

कचित्ते सफलो धर्मः कच्चित्ते सफलो नयः।

इच्छा ते सफला कच्चित् कच्चित्तृप्तिस्तवाभवत् ॥ ४१ ॥

एतत्ते परिविज्ञातम् कच्चिन्माहात्म्यमुत्तमम् ।

नैवमर्थम् विजानन्ति जना हि जगतीतले ॥

मनुजः कुत्रचित्कश्चिज्जानाति सुकृती कृती ॥ ४२ ॥

नावैष्णवाय वक्तव्यम् नैवाभागवताय च ।

न शूद्राय च वक्तव्यम् यथेष्टम् तु धनेच्छया ॥ ४३ ॥

न वाच्यम् मूर्खमध्ये वा न पाषण्डगणे तथा ।

न नास्तिकानाम् मध्ये च बृन्दारण्यस्य वैभवम् ॥ ४४ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः।

श्रोतुमर्हन्ति देवर्षे तुलसीवनवैभवम् ॥ ४५ ॥

शृण्वन्ति ये नरा भक्तया विमला नान्यमानसाः ।

तेषाम् न दुर्लभं लोके किञ्चिदस्ति महामुने ॥ ४६ ॥

ये शृण्वन्ति नरा भक्त्या वैभवम् प्रतिवासरम् ।

ते कुर्वन्त्यश्वमेधादिमहायज्ञान् दिनेदिने ॥ ४७ ॥

अध्यायमेकमथवा श्लोकमेकमथापि वा ।

अथवा पादमेकम् च शृणुयात्प्रतिवासरम् ॥ ४८ ॥

अनन्यमानसाः श्रुत्वा तुलसीवनवैभवम् ।

सर्वकामानवाप्येह महीयन्ते हरेः पदे ॥ ४९ ॥

वित्तार्थी वित्तमाप्नोति पुत्रार्थी पुत्रमेव च ।

विद्यार्थी च तथा विद्यामैश्वर्यार्थी तथैव तत् ॥ ५० ॥

तुलसीवनमाहात्म्यम् श्रुत्वा भत्या नरस्सुधीः ।

रोगाद्विमुच्यते रोगी बन्धनाद्बन्धवानपि ॥ ५१ ॥

भयाद्विमुच्यते भीतो विपन्नो विपदस्तथा ।

गर्भिणी लभते पुत्रम् कन्या विन्दति सत्पतिम् ॥

भक्त्येदम् वैभवम् श्रुत्वा भर्तुः प्रियतमा भवेत् ॥ ५२ ॥

ब्राह्मणस्तु समाकर्ण्य भक्त्या वेदान्तगो भवेत् ।

विजयम् लभते राजा वैश्यश्च धनमाप्नुयात् ॥

शूद्रस्तु सुखमाप्नोति पूज्यते च स्वबन्धुभिः ॥ ५३ ॥

शृण्वताम् च नरा ये वै तुलसीवनवैभवम् ।

उपकुर्वन्ति तेऽप्यन्ते महीयन्ते हरेः पदे ॥ ५४ ॥

शृण्वन् पठन् लिखन् विभ्रदथवा श्रावयन्परान् ।

तुलसीवनमाहात्म्यम् वैकुण्ठे तु महीयते ॥ ५५ ॥

इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसम्वादे श्री बृन्दारण्यक्षेत्रमाहात्म्ये दशमोऽध्यायः ॥

 

श्रीमद्वरवरमुनये नमः ॥

स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्याय्येन मार्गेण महीम् महीशाः ।

गोब्राह्मणेभ्यः शुभमस्तु नित्यम् लोकाः समस्ताः सुखिनो भवन्तु ॥

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी

देशोऽयम् क्षोभरहितो ब्राह्मणास्सन्तु निर्भयाः ॥

कावेरी वर्धताम् काले काले वर्षतु वासवः ।

श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्च वर्धताम् ॥

 

श्रीबृन्दारण्यक्षेत्रमाहात्म्यम् समाप्तम् ॥

श्रीरुक्मिणी समेत श्रीवेङ्कटकृष्णस्वामिने नमः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.