श्रीः
श्री पार्थसारथि सुप्रभातम् ॥
श्रीशैलेशदयापात्रम् धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणम् वन्दे रम्यजामातरम् मुनिम् ॥
लक्ष्मीनाथसमारम्भाम् नाथयामुनमध्यमाम् ।
अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् ॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणम् प्रपद्ये ॥
माता पिता युवतयस्तनया विभूतिः सर्वम् यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेर्वकुलाभिरामम् श्रीमत्तदङ्घ्रियुगलम् प्रणमामि मूर्ध्ना ॥
भूतम् सरश्च महदाह्वयभट्टनाथश्रीभक्तिसारकुलशेखरयोगिवाहान् ।
भक्ताङ्घ्रिरेणुपरकालयतीन्द्रमिश्रान् श्रीमत्पराङ्कुशमुनिम् प्रणतोऽस्मि नित्यम् ॥
कौसल्यासुप्रजा राम ! पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्य ॥ दैवमाह्निकम् ॥
उत्तिष्ठोत्तिष्ठ गोविन्द ! उत्तिष्ठ गरुडध्वज! ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यम् मङ्गलम् कुरु ॥
वन्दे बृन्दावनान्ते मणिगणविलसत्सौधहम्ये गृहाढ्ये सम्राजत्कैरविण्यास्तटभुवि घृणिमद्गोपुरे सालरम्ये ।
आनन्दाख्ये विमाने मुनिगणविनुतम् पार्थसूतञ्च रामम्
रङ्गेशम् श्रीनृसिम्हम् गजवरवरदम् श्रीक्षितिभ्याम् समेतम् ॥ १ ॥
मातः श्रीर्जगतामशेषजगताम् नाथस्य भर्तुः प्रिये !
तद्वक्षस्थलनित्यवासिनि ! सदा श्रीवेदवल्ल्याह्वये ।
बृन्दारण्यनिवासियोगिसदने सम्भूय वारान्निधेः
मन्नाथामरभूरुहेण सहिते ! नैशम् प्रभातम् शुभम् ॥ २ ॥
श्रीमद्वेदलताम् श्रितामृतलताम् बृन्दावने सम्स्थिताम्
सम्यग्दृष्टपरावरेण मुनिना सम्वर्धिताम् तद्धिताम् ।
लब्ध्वा ताम् समुपेत्य दुग्धजलधेस्तद्दत्तनामा वसन्
मन्नाथा श्रितकल्पभूरुहविभो ! ते सुप्रभातम् हरे ॥ ३ ॥
समस्तकल्याणगुणैकधाम्नः स्वशक्तिलेशोद्धृतभूतलस्य ।
प्रह्लादभक्तेः परिवर्धकस्य मन्नाथनाम्नस्तव सुप्रभातम् ॥ ४ ॥
श्रीमत्कैरविणीसरोवरतटे नित्यम् तपः कुर्वते
सम्यग्ज्ञानवताम् वराय भृगवे दत्त्वा त्वभीष्टम् वरम् ।
लब्ध्वा तस्य सुताम् जगत्त्रयमुदे तस्मै प्रसन्नस्य ते मन्नाथाद्य हि सुप्रभातमखिलान्स्त्रातुम् प्रसीद प्रभो ॥ ५ ॥
श्रीमन्धराभरविमोचनदीक्षितम् त्वाम्
सम्बोधयन्ति विधिशङ्करशक्रमुख्याः ।
स्वामिन् ! जगत्त्रयविभो ! यदुवम्शनाथ !
श्रीपार्थसूत | भगवन्स्तव सुप्रभातम् ॥ ६ ॥
भास्वान् विकासयति पङ्कजकुड्मलानि
पद्माकरेषु परिकूजितसारसेषु ।
कूजन्ति पञ्जरशुकास्सह शारिकाभिः
श्रीपार्थसूत ! भगवन्स्तव सुप्रभातम् ॥ ७ ॥
वीणाम् प्रगृह्य मुनिवाहनयोगिवर्यो
गानम् करोति सहतुम्बुरुनारदाद्याः ।
सङ्गीतवाद्यनिपुणास्तव सुप्रभात
गाथाः पठन्ति यदुनन्दन ! सुप्रभातम् ॥ ८ ॥
ब्रह्मादयस्सुरपतिपमुखा दिगीशाः
स्वस्वाधिकारनियतास्तव सैन्यनाथाः ।
सम्प्रार्थयन्ति तव सद्मपुरो विभागे
श्रीपार्थसूत भगवन्स्तव सुप्रभातम् ॥ ९ ॥
गोपाङ्गनास्तव हि मङ्गलगीतकानि
गायन्ति कामशरपीडितगात्रयष्टयः ।
गोपालबालककुलानि विसृज्य वत्सान्
त्वाम् प्रार्थयन्ति यदुशेखर ! सुप्रभातम् ॥ १० ॥
स्नेहप्रतिस्नुतपयोधरभारयुक्ताः
गावस्स्ववत्ससहिताः परितोषयुक्ताः ।
वत्सान् विसृज्य च पयः परिदोहयन्ति
गोपालकास्तव यदूद्वह ! सुप्रभातम् ॥ ११ ॥
बृन्दावने विहरताम् पशुपालकानाम्
रक्षार्थमात्तवरवेत्र! सुशङ्खपाणे ! ।
भ्रात्रा समेत ! सुमनोहर भूषणार्ह !
प्रोत्तिष्ठ पार्थरथपालक ! सुप्रभातम् ॥ १२ ॥
बृन्दावनान्तरमनोज्ञवनान्तरेषु
नानातरुप्रवरशोभिजलाशयेषु ।
कूजद्विहङ्गमगणेषु मधुव्रतानि
गायन्ति पार्थरथनायक ! सुप्रभातम् ॥ १३ ॥
मन्दारकुन्दवरकैतकमाधवीनाम्
आमोदनिर्भरवनान्तरनिस्सृतोऽसौ ।
मन्दानिलः प्रसरति प्रवरः प्रभाते
श्रीपार्थसूत भगवन्स्तव सुप्रभातम् ॥ १४ ॥
सम्फुल्लकैरवसरोवरनीरसम्स्थाः
हम्सास्सचक्रमिथुनास्सह सारसैश्च ।
तीरे तु देशिकगणैस्सह सम्विवादान्
तन्वन्ति पार्थरथनायक ! सुप्रभातम् ॥ १५ ॥
तद्देशिकास्सकलशास्त्रविदाम् वरिष्ठाः
त्वत्प्रोक्तदिव्यचरमार्थनिविष्टभावाः ।
कासारयो गिमुखदेशिकसूक्तिनिष्ठाः
तिष्ठन्ति किङ्करकृतौ तव सुप्रभातम् ॥ १६ ॥
श्रीभट्टनाथकृतिभिस्तव मङ्गलानि
शम्सन्ति देशिकवरास्त्वमितप्रभावाः ।
गोदासुसूक्तिभिरपि प्रतिबोधयन्ति
श्रीपार्थसूत भगवन्स्तव सुप्रभातम् ॥ १७ ॥
सूर्योदये ग्रहगणास्त्वितरे सुरेन्द्राः
आज्ञाम् तवैव निजवैभवसम्प्रयुक्ताः ।
सम्प्रार्थ्य तोषितुमिहाद्य जगत्पतिम् त्वाम्
तिष्ठन्ति पार्थरथनायक ! सुप्रभातम् ॥ १८ ॥
नित्यार्चनाम् रचयितुम् विविधोपहारान्
वस्तूनि वस्त्रवरदिव्यविभूषणानि ।
सङ्गृह्य वैदिकशिखामणयः प्रभाते
तिष्ठन्ति पार्थरथभूषण ! सुप्रभातम् ॥ १९ ॥
काश्मीरकेसरयुतम् हरिचन्दनञ्च
कस्तूरिकाम् च घनसारवरम् गृहीत्वा ।
द्वारि स्थितास्तव हि दासगणास्समस्ताः
श्रीपार्थसूत भगवन्स्तव सुप्रभातम् ॥ २० ॥
सम्फुल्लपङ्कजनवोत्पलकैरवाणि
सच्चम्पकैर्मरुवकैः कृतमालिकानि ।
सङ्गृह्य तावकसमर्चनमादरेण
तिष्ठन्ति कर्तुमनघास्तव सुप्रभातम् ॥ २१ ॥
भाग्याधिकास्तव पदाब्जनिविष्टभावाः
पीताम्बराण्यपरिमेयविभूषणानि ।
रत्नानि काञ्चनयुतानि समर्पयन्ति
श्रीपार्थसूत भगवन्स्तव सुप्रभातम् ॥ २२ ॥
प्रातःप्रयुक्तनवनीतपय:फलानि
मुद्गान्नलड्डुकमनोहरमिश्रितानि ।
सोपायनानि च समर्पयितुम् यतन्ते श्री
वैष्णवास्तव यदूद्वह ! सुप्रभातम् ॥ २३ ॥
भेरीमृदङ्गपटहानकगोमुखादि
वाद्यानि घोषयति दासगणस्तवाग्रे ।
तिष्ठन्ति नर्तनपरा गणिकास्समस्ताः
श्रीपार्थसूत भगवन्स्तव सुप्रभातम् ॥ २४ ॥
हस्तीन्द्रमूर्ध्नि धृतकाञ्चनकुम्भतीर्थम्
छन्त्रावृतम् विधृतचामरयुग्ममारात् ।
श्रीमन् प्रभो ! तव हि मङ्गलमज्जनाय
श्रीपार्थसूत भगवन्स्तव सुप्रभातम् ॥ २५ ॥
एकान्तिनश्च विमलाशययोगिवर्याः
अध्यापकास्तव पदाब्जनिविष्टभावाः ।
तिष्ठन्ति सन्निधिमुपेत्य भवत्पदाब्जे
सेवार्थमर्जुनसखे ! तव सुप्रभातम् ॥ २६ ॥
त्वत्सेवनाय सकलद्रबिडागमानाम्
वक्ता पराङ्कुशमुनिस्स्वपदप्रपन्नैः ।
रामानुजोऽपि कृतनित्यसमस्तकृत्यः
त्वद्द्वारि तिष्ठति विभो ! तव सुप्रभातम् ॥ २७ ॥
उचिष्ठ लक्ष्मणगुरो ! सह सीतयाऽद्य
धर्मम् विवर्धय विभो ! जय पालयास्मान् ।
दासान् कुरुष्व सहसा तव किङ्कराम्श्च
ते सुप्रभातमधुना रघुवम्शनाथ ॥ २८ ॥
श्रीमन्गजेन्द्रवरदाश्रितपारिजात!
श्रीवैनतेयभुजमूलविभूषणाढ्य ! ।
इन्द्रादिदेवगणपूजितपादपद्म!
श्रीमन्वरपद ! सुरेश्वर ! सुप्रभातम् ॥ २९ ॥
श्रीमन्नृसिम्ह जगताम् जनिहेतुभूत !
सम्पालनान्तकरणादिषु जागरूक! ।
अन्तःप्रविश्य च नियन्तृतया भवास्मान्
श्रीमन्नृसिम्ह ! भगवन्स्तव सुप्रभातम् ॥ ३० ॥
श्रीमन्नृसिम्ह तव मङ्गलमस्तु नित्यम्
सूर्येन्दुतारकसमानमहःप्ररोहैः।
नैशम् तमःप्रसरमान्तरमप्यपास्तम्
स्वामिन्नृसिम्ह भगवन्स्तव सुप्रभातम् ॥ ३१ ॥
काव्योऽपि पूर्वदिशि सम्स्थितपर्वतस्थो
वाचाम् पतिर्हिमकरोऽस्तमितो बभूव ।
पक्षी निनादमपि पञ्जरगः करोति
श्रीमन्नृसिम्ह भगवन्स्तव सुप्रभातम् ॥ ३२ ॥
श्रीपार्थसारथि, रघूत्तम, वेदवल्ली
मन्नाथ, सोम्यनरसिम्ह, वरप्रदानाम् ।
ये सुप्रभातमनिशम् प्रपठन्ति तेषाम्
ब्रह्मेश्वराद्यसुलभम् सुलभम् पदम् स्यात् ॥ ३३ ॥
श्रीपार्थसारथिसुप्रभातम् समाप्तम् ॥
श्रीः
अथ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
श्रीकृष्णः कमलानाथो वासुदेवस्सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १ ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रासिगदा(शङ्खा)शार्ङ्गाद्युदायुधः ॥ २ ॥
देवकीनन्दनश्श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसम्हारी बलभद्रप्रियानुजः ॥ ३ ॥
पूतनाजीवितहरः शकटासुरभञ्जनः ।
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४ ॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।
नवनीतनवाहारो मुचुकुन्दप्रसादकः ॥ ५ ॥
षोडशस्त्रीसहस्रेशस्त्रिभङ्गीमधुराकृतिः ।
शुकवागमृताब्धीन्दुर्गोविन्दो योगिनाम् पतिः ॥ ६ ॥
वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः ।
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥ ७ ॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः ।
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥ ८ ॥
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ।
वनमाली पीतवासाः पारिजातापहारकः ॥ ९ ॥
गोवर्द्धनाचलोद्धर्ता गोपालस्सर्वपालकः ।
अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥ १० ॥
मधुहा मथुरानाथो द्वारकानायको बली ।
बृन्दावनान्तसञ्चारी तुलसीदामभूषणः ॥ ११ ॥
स्यमन्तकमणेर्हर्ता नरनारायणाकृतिः ।
कुब्जाकृष्टाम्बरधरो मायी परमपूरुषः ॥ १२ ॥
मुष्टिकासुरचाणूरमलयुद्धविशारदः ।
सम्सारवैरी कम्सारिर्मुरारिर्नरकान्तकः ॥ १३ ॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्शकः ।
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः ॥ १४ ॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ।
सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ॥ १५ ॥
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ।
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ १६ ॥
वृषभासुरविध्वम्सी बाणासुरकरान्तकः ।
युधिष्ठिरप्रतिष्ठाता बहिबर्हावतम्सकः ॥ १७ ॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ।
कालीयफणमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ १८ ॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः ।
नारायणः परम्ब्रह्म पन्नगाशनवाहनः ॥ १९ ॥
जलक्रीडासमासक्तगोपीवस्त्रापहारकः ।
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥ २० ॥
सर्वतीर्थात्मकस्सर्वग्रहरूपी परात्परः ।
एवम् श्रीकृष्णदेवस्य नाम्नामष्टोत्तरम् शतम् ॥ २१ ॥
कृष्णनामामृतम् नाम परमानन्दकारकम्
अत्युपद्रवदोषघ्नम् परमायुष्यवर्द्धनम् ॥ २२ ॥
इति श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
श्रीः
श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम्
ॐ प्रकृतिम् विकृतिम् विद्याम् सर्वभूतहितप्रदाम् ।
श्रद्धाम् विभूतिम् सुरभिम् नमामि परमात्मिकाम् ॥
वाचम् पद्मालयाम् पद्माम् शुचिम् स्वाहाम् स्वधाम् सुधाम् ।
धन्याम् हिरण्मयीम् लक्ष्मीम् नित्यपुष्टाम् विभावरीम् ॥
अदितिम् च दितिम् दीप्ताम् वसुदाम् वसुधारिणीम् ।
नमामि कमलाम् कान्ताम् कामाम् क्षीरोदसम्भवाम् ॥
अनुग्रहमदा बुद्धिमनघाम् हरिवल्लभाम् ।
अशोकाममृताम् दीप्ताम् लोकशोकविनाशिनीम् ॥
नमामि धर्मनिलयाम् करुणाम् लोकमातरम् ।
पद्मप्रियाम् पद्महस्ताम् पद्माक्षीम् पद्मसुन्दरीम् ॥
पद्मोद्भवाम् पद्ममुखीम् पद्मनाभप्रियाम् रमाम् ।
पद्ममालाधराम् देवीम् पद्मिनीम् पद्मगन्धिनीम् ॥
पुण्यगन्धाम् सुप्रसन्नाम् प्रसादाभिमुखीम् प्रभाम् ।
नमामि चन्द्रवदनाम् चन्द्राम् चन्द्रसहोदरीम् ॥
चतुर्भुजाम् चन्द्ररूपामिन्दिरामिन्दुशीतलाम् ।
आह्लादजननीम् पुष्टिम् शिवाम् शिवकरीम् सतीम् ॥
विमलाम् विश्वजननीम् पुष्टिम् दारिद्र्यनाशिनीम् ।
प्रीतिपुष्करिणीम् शान्ताम् शुक्लमाल्याम्बराम् श्रियम् ॥
भास्करीम् बिल्वनिलयाम् वरारोहाम् यशस्विनीम् ।
वसुन्धरामुदाराङ्गाम् हरिणीम् हेममालिनीम् ॥
धनधान्यकरीम् सिद्धिम् स्त्रैणसौम्याम् शुभप्रदाम् ।
नृपवेश्मगतानन्दाम् वरलक्ष्मीम् वसुप्रदाम् ॥
शुभाम् हिरण्यप्राकाराम् समुद्रतनयाम् जयाम् ।
नमामि मङ्गलाम् देवीम् विष्णुवक्षःस्थलस्थिताम् ॥
विष्णुपत्नीम् प्रसन्नाक्षीम् नारायणसमाश्रिताम् ।
दारिद्र्यध्वम्सिनीम् देवीम् सर्वोपद्रववारिणीम् ॥
नवदुर्गाम् महाकालीम् ब्रह्मविष्णुशिवात्मिकाम् ।
त्रिकालज्ञानसम्पन्नाम् नमामि भुवनेश्वरीम् ॥ ॐ ॥
****
ஶ்ரீமதே ராமாநுஜாய நம:
ஶ்ரீ பார்த்தஸாரதி ஸ்வாமி முதலானோர் கட்டியம்
ஶ்ரீ பார்த்தஸாரதி ஸ்வாமி திருமஞ்சன ஸ்நபந காலத்தில் அநுஸந்திக்கும் கட்டியம்
நாயந்தே, நாயந்தே.
அக்ரேக்ருத்வா கமபிசரணம் ஜாநுநைகேந திஷ்டந்।
பஶ்சாத் பார்த்தம் விவலநஜுஷா சஷூஷா ப்ரேக்ஷமாண:।।
ஸவ்யே தோத்ரம் கரஸரஸிஜே தக்ஷிணே ஜ்ஞாநமுத்ராம்।
ஆபிப்ப்ராணோ ரதமதிவஸந் பாதுநஸ் ஸூதவேஷ:।।
ஏஷ நாராயண: ஶ்ரீமாந் க்ஷீரார்ணவ நிகேதந:।
நாகபர்யங்கம் உத்ஸ்ருஜ்ய ஹ்யாகதோ மதுராம்புரீம்।।
தாஸாமரவிரபூத் ஶௌரி: ஸ்மயமாநமுகாம்புஜ:।
பீதாம்பரஸ்ரக்வீ ஸாக்ஷாந் மந்மத மந்மத:।।
ஆழ்வார்கள் மடலெடுக்கும் அழகுடைய பெருமாள்; ஆய்ச்சியரைப் பணிகொண்ட மணவாளப் பெருமாள்; ஆழ்ந்தாரைக் கரையேற்ற அவதரித்த பெருமாள்; ஆனைக்கன்றருளையீந்த அருளாளப் பெருமாள்; ஆழி கொண்டன்றிரவி மறைத்து அருள் செய்த பெருமாள்; ஆனை மறித்தழகாலே வெல்ல வல்ல பெருமாள்; ஆழ்கடலைக் கடைந்தமரர்க்கமுதூட்டும் பெருமாள்; ஆழ்வார்க்குப் பின்னெறியை அளித்துகந்த பெருமாள்; நந்தெய்வ சிகாமணிப் பெருமாள்.
- திருவுக்கும் திருவாகிய வானிளவரசான தேவர் அடலாயர் தங்கொம்பினுக்கு விடை கொண்டு நீளாதுங்கஸ்தநகிரிதடீஸுப்தராய் நப்பின்னை கொங்கைமேல் வைத்துக்கிடந்த மலர்மார்பழகைப் பின்னானார் வணங்க வந்து திருமடந்தை மண்மடந்தையிருபாலுந்திகழச் சிங்காதனத்தின் மேல் தண்டாமரை சுமக்க செங்கமலக் கழலும் சிற்றிதழ் போல் விரலுமாய் அடிச்சோதி நீ நின்ற தாமரையாயலர்ந்ததுவோ என்னும்படி நிலையார நின்றவழகும்,
- கறையினார் துவருடுக்கைக் கடையாவின் கழிகோற்கைச்சறையினாராய் பசுநிரை மேய்ப்புகந்து கன்று மேய்த்தினிதுகந்த வாத்ஸல்யம் விளங்கும்படி நல்லங்க முடையதோர் கோலூன்றி நின்ற வழகும்,
- முடிச்சோதியாய் உனது முகச்சோதி மலர்ந்ததுவோ வென்று கோவிந்தாபிஷேகத்தால் திருமுடியில் நல்தரித்த ஸ்வாமித்வப்ரகாசகமாய் கதிராயிரமிரவி கலந்தெறித்தாலொத்த நீண்முடியும்,
- “ஸ்விலாஸஸ்மிதாதாரம் பிப்ராணம் முகபங்கஜம்” என்கிறபடியே முறுவலெடுத்த கலமென்றலாய் ஸ்வாமித்வபலோப்தாநஸௌஶீல்ய ப்ரகாஶகமான ஸ்மயமானமுகாரவிந்தமும்,
- அலர்ந்து குளிர்ந்திருக்கிறவிரண்டு தாமரைப் பூக்களை மதத்தாலே அமுக்கியாடுகிற இரண்டு வண்டொழுங்கு போலிருக்கிற தன்கைச்சார்ங்க மதுவே போலழகிய திருப்புருவ வட்டங்களும்,
- “பதிம் விஶ்வஸ்ய” என்கிற ப்ரமாணம் வேண்டாதே அனைத்துலகுமுடையவரவிந்த லோசனனென்று ஸர்வேஶ்வரத்வசிஹ்நமாய் மிதோபத்தஸ்பர்த்தஸ்ப்புரித ஶபரத்வந்த்வலலிதங்களான திருக்கண்களும்,
- “கஸ்தூரீகலிதோர்த்த்வ புண்ட்ர திலகம்” என்று திருநெற்றியில் சாத்தின கஸ்தூரித் திருநாமமும்,
- “மாட்டுயர் கற்பகத்தின் வல்லியோ கொழுந்தோ” என்று நித்ய ஸந்தேஹ ஜநகமான கோல்நீள் கொடி மூக்கினழகும்,
- அதினுடைய பல்லவோல்லாஸம் போலிருக்கிற திவ்ய கபோலங்களும்,
- அதினுடைய நவகுஸுமம் போலேயாய் “பன்னிலாமுற்றந்தவழ் கதிர்முறுவல் செய்து” என்கிறபடியே பூர்ண் சந்திரன் முழுநிலாவைச் சொரிந்தாற்போல் திருமுகத்தினொளியை ப்ரவஹிக்கிற ஸ்மித்விலாஸமும்,
- “ஶீலாஜ்ஜடீபூயதே” என்று அந்த ஸௌஶீல்ய காஷ்டாபூத ஸௌலப்ய ப்ரகாஶகமாய் அலவலைமை தவிர்த்த அழகனென்றும் ஆதரம் பெருகவைத்த வழகனென்றும் குழலழகர் வாயழகர் கண்ணழகர் கொப்பூழிலெழு கமலப்பூவழகர் என்று அநுகூல ப்ரதிகூல விபாகமற ஆண் பெண் வாசியற்று மற்றொன்றினைக் காணாமல் கண்டவர் தம் மனம் வழங்க ஸகல மதுஜநயந விஷயதாங்கதமாய் மாமென்று தொட்டுக்காட்டின வெளுத்திளைத்த திருமேனியும்,
- “அர்ச்சக பராதீநாதிநாகிலாத்மஸ்திதி:” என்று அர்ச்சக பாரதந்த்ரத்தைத் தன்னையிட்டுப்பார்த்தஞ்சினவச்சமுறத்திருக்கையில் ஜ்ஞாநஶக்தி ப்ரகாஶகமா யெடுத்துப் பிடித்த திவ்யாயுதங்களும்,
- அனைத்துலகுமுடைய வரவிந்தலோசனனென்று ஶேஷித்வ ஸுசகமாய் கரியவாகிப் புடைபரந்து மிளிர்ந்து செவ்வரியோடி ஆழ்வார்களளவும் நீண்டலையெறிந்த நெடுநோக்கினழகும்,
- இத்தலையைத் தேற்றியன்றித் தரியாதவனான பூர்த்திக்கு ப்ரகாஶகமாய் மாஶுச: என்று கொண்டுவைத் தஞ்சலென்ற கையும்,
- இரண்டட்டத்திலும் மரகத கிரியைக்கடைந்து மடுத்தாற் போல், “திண்ணியவாய்”, “அலம்புரிந்து” என்கிறபடியே தனக்கு உபயவிபூதியும் வழங்கி திவ்யாஸ்த்ர புஷ்பிதங்களான கற்பகக்காவன்ன நற்பலதோள்களும்,
- பெரிய பிராட்டியாருக்குக் கோயில் கட்டணமாய் நித்யாநுபவம் பண்ணச்செய்தேயும் இறையுமகலகில்லேன் என்று அவளைப் பிச்சேற்றக்கடவதாய் கோலமாமணியாரமும் முத்துத்தாமமும் ஶ்ரீகௌஸ்துபமுந்தொடக்கமான குருமாமணிப் பூண்குலாவித் திகழ்கிற திருமார்பினழகும்,
- காளமேகத்தில் மின்னற்கொடி படர்ந்தாற்போல் திருமேனிக்கு ப்ரபாகரஸாவஹமாய் அழகு வெள்ளத்துக்கு அணைகட்டினாற்போலிருக்கிற வெண்புரி நூலினழகும்,
- ஸௌந்தர்யஸாகர மிட்டனப்பட்டுச் சுழித்தாற்போல் நெஞ்சையும் கண்ணையும் சுழியாறு படுத்துகிற திருவுந்தியும்,
- ஸந்த்யாராக ரஞ்சிதமான ஆகாஶம் போலே திருமேனிக்குப் ப்ரபாகரஸாவஹமாய் திருவரை பூத்தாற் போலிருக்கிற அந்திபோல் நிறத்தாடையும்,
- ரம்பாஸ்தம்பாதி கம்பீரங்களான திருத்துடைகளும்,
- அங்கராகம் ப்ரவஹிக்கும்போது இரண்டுகுமிழி நீரெழுந்தாற் போலிருக்கிற திருமுழந்தாள்களும்,
- கள்ளச் சகடத்தைக் கலக்கழியச்சாடிக் கன்று மறித்தோடிக் காளியன் மீதாடிக் காளிந்தி நீராடிக் குரவை பிணைந்தாடிக் குடமேறிட்டாடிக் கருணையால் தூதோடிக் கன்னியரோடூடிக் கழகமிதித்தேறிச் சிற்றிலழித்தாடிச் சரணாகத்தந்தொழிந்த திண் கழலிருந்த அழகும்,
- சீரியதோர் நிதிபோலே திருமுன்பே வீற்றிருந்த ஶ்ரீஶடகோபனிருந்தவழகும்,
இவ்வழகிலாழங்கால் பட்டலைகின்றவுலகெல்லாம் சூழ்ந்திருந்தேத்து மழகுமாய் நீராட எழுந்தருளியிருக்கும் அழகு இது, ஏதேனும் சிந்தைமருளோ! ஜகந்மோஹந மந்த்ரப்ரபாவமோ! ஸகலரஸகுளிகா விலாஸமோ! ஸர்வபோக சிந்தாமணி ப்ரகாஶமோ! ஸகலஜந ஸுக்ருத விபாகமோ! நிகிலபலகல்பலதா ப்ரஸரமோ! அகில ஜகஜ்ஜீவனமூலமோ! அதுலாநந்தகந்தாவதாரமோ! ஸமஸ்த ஸம்பத்ஸாம்ராஜ்ய வேஷமோ! ஸர்வமங்கள ஸந்தான ப்ரஸவமோ! ஸகலகலா ரஹஸ்ய ஸர்வஸ்வமோ! ஈதெல்லாம் திரண்டெழுந்து கொண்டதோர் வடிவோ! இதுமன்றி அப்ரமேய தேஜஸ்ஸோ! நாங்கள் ஏதென்றறியா இவ்வழகுடன் தேவரீர் ஊழிதோறும் ஊழிதோறும் வாழ்ந்திடுக வாழ்ந்திடுகவே! யதுஸார்வபௌமனே திருமஞ்சனங் கண்டருளவே, ஜய விஜயீ பவ!
ஶ்ரீபார்த்தஸாரதி ஸ்வாமி ஸஹஸ்ரதாரைத் திருமஞ்சனம்
நாயந்தே, நாயந்தே! “த்வம்மே அஹம்மே குதஸ்தத் ததபி தவகுதோ வேத மூலப்ரமாணாத், ஏதச்சாநாதிஸித்தாதநுபவவிபவாத் தர்ஹி ஸாக்ரோஶ ஏவ. க்வாக்ரோஸ்ஶ: கஸ்ய கீதாதிஷு மமவிதித: கோத்ரஸாக்ஷீ ஸுதி: ஸ்யாத் ஹந்த த்வத்பக்ஷபாதீஸ இதி ந்ருகலஹே ம்ருக்யமத்த்யஸ்த்தவத்தவம்”
ஸ இதாநீமபிமுநே த்ருஶ்யதே தத்ரமாநவை: ருக்மிண்யாசாநிருத்தேநப்ர்த்யும்நேநச ஸேவித: ஹலாயுதேநஸஹிதஸ்ததா ஸாத்யகிநாஸஹ. பார்த்தஸாரதிரித்யேவ விஶ்ருதோஜகதீபதி:
பராக்-ப்ராக். ஸ்வாமீ பராக்.
அன்றிய வாணனாயிரந்தோளுந்துணிய அன்றாழி விடுத்தவசைவோ!
கன்றதனால் விளவெறிந்து கனியுதிர்த்து ஆநிரை மேய்த்த அசைவோ!
கும்பமிகு மதயானை மருப்பொசித்துக் கஞ்சன் குஞ்சி பிடித்தடித்த அசைவோ!
வம்பவிழும் மலர்க்குழலாள் ஆய்ச்சிவைத்த தயிர் வெண்ணையுண்டுகந்த அசைவோ!
பாழியால் மிக்க பார்த்தனுக்கு அறுமூன்றும் அளித்துரத்த அசைவோ!
ஆழியால் அன்றங்கு ஆழியை மறைத்து ஐவர்க்குத் திறங்கள் காட்டியிட்ட அசைவோ!
அடியார்கள் வினைத்தொடரை அருளென்னும் ஒள்வாள் உருவி வெட்டிக்களைந்த அசைவோ!
வடிவாரும் மாமலராள் வலவருகும் மற்றை மண்மகள் இடவருகுமிருக்க நடுவாக விற்றிருக்கும் இவ்வழகுடன் தேவரீர் ஊழிதோறும் ஊழிதோறும் வாழ்ந்திடுக, வாழ்ந்திடுகவே!
ஶ்ரீ பார்த்த ஸூதனே திருமஞ்சனம் கொண்டருளவே, ஜயவிஜயீ பவ!!
என்னையாளுடையப்பனுடைய கட்டியம்
“த்வம்மே அஹம்மே” இத்யாதி ‘வாழ்ந்திடுகவே”.
மாகமாஸே மஹாதேஜா: த்வாதஶ்யாம் ஸஹரிஸ்ஸ்வயம்। ப்ராதுராஸ ப்ருகோஸ்தஸ்ய ஹ்யாஶ்ரமே புண்யகர்மண:। யதோ மந்நாத இத்யாஹ வேதவல்லீ ஶுஸ்மிதா। ததோ மந்நாத இத்யேவ விஶ்ருதோபுவநத்ரயே ।। என்னையாளுடையப்பனே திருமஞ்சனங்கொண்டருளவே! ஜயவிஜயீபவ!!
சக்ரவர்த்தி திருமகனுடைய கட்டியம்
“த்வம்மே அஹம்மே” இத்யாதி ‘வாழ்ந்திடுகவே”.
கேநசித்த்வத காலேந த்யாயதஸ்தஸ்ய வை முநே:। உதங்முகஸ்ய புரத: ப்ராதுராஸீஜ் ஜகத்குரு:।। யாத்ருகாஸீத்புரா ராமோ ராஜ்ஞோ தஶரதஸ்யஹி। ப்ராத்ருபிஸ்ஸஹிதாத்ருக் ஸஸீத: ப்ரத்யத்ருஶ்யத।।
வடிவாரும் மாமலராள் வலவருகும் மற்றை இலக்குமனிடவருகுமிருக்க நடுவாக வீற்றிருக்கும் இவ்வழகுடன் தாஶரதி தேவனே திருமஞ்சனம் கொண்டருளவே, ஜயவிஜயீபவ!!
கஜேந்திரவரதனுடைய கட்டியம்
“த்வம்மே அஹம்மே” இத்யாதி ‘வாழ்ந்திடுகவே”.
ஸோபி ஸம்ப்ரதி ஸர்வேஷாம் ப்ராணிநாம் கோசரீபவந்। வரதோ நாம தேவேஶோ த்ருஶ்யதே தத்ர வைஸ்வயம்।।
கஜேந்திரவரதனே திருமஞ்சனங் கொண்டருளவே! ஜயவிஜயீபவ!!
அழகிய சிங்கருடைய கட்டியம்
“த்வம்மே அஹம்மே” இத்யாதி ‘வாழ்ந்திடுகவே”.
ஸ ததர்ஶ விமாநஸ்ய மத்யே பாஸ்கரரோசிஷ:। ஆஸீநம் பரமம் தேவம் நரஸிம்ஹஸ்வரூபிணம்।।
சாரதாப்ரப்ரதீகாஶம் சாரதேந்துஸமாநநம்। ரக்தோத்பலதலாபாக்ஷம் ஸடாபடலபீஷணம்।
தெள்ளியசிங்க தேவனே திருமஞ்சனங்கொண்டருளவே! ஜயவிஜயீபவ!!
ஶ்ரீஎம்பெருமானார் திருமஞ்சனக் கட்டியம்
நாயிந்தே, நாயிந்தே!
காஷாயஶோபி கமநீய ஶிகாநிவேஶம்
தண்டத்ரயோஜ் ஜ்வலகரம் விமலோபவீதம் ।
உத்யத்திநேஶ நிபம் உல்லஸதூர்த்த்வ புண்ட்ரம்
ரூபம் தவாஸ்து யதிராஜ த்ருஶோர்மமாக்ரே ।।
அப்பனுக்குச் சங்காழி அளித்தருளும் பெருமாள்!
அறமிகு நற்பெரும்பூதூர் அவதரித்த பெருமாள்!
அறுசமயச் செடியதனை அடியறுத்த பெருமாள்!
அருளாழி வரிவண்டே என்று ஆழ்வார் அழைக்கும் பெருமாள்!
அருள்மாரி அடியிணைக்கீழ் அன்புபூண்ட பெருமாள்!
அஞ்சுகுடிக்கொரு சந்ததியாம் ஆண்டாள் தமக்கும் அண்ணரான பெருமாள்!
அரங்கர் மௌலி சூழ்கின்ற மாலையைச் சூடிக்கொடுத்தவள் தொல்லருளால் தாழ்வின்றி வாழும் பெருமாள்!
அடியார் வினைத்தொடரை அருளென்னும் ஒள்வாள் உருவி கிட்டிக்கிழங்கொடு வெட்டிக்களைந்த பெருமாள்!
நம் தேசிக சிகாமணிப் பெருமாள்!
தேவரீர் திருவடித் தாமரைகள் தாஸ்யார்ஹ ஸ்வாரஸ்ய தாநார்த்தமாக ஆஸநாரவிந்தத்தில் – இத்யாதி ஶ்ரீமணவாள மாமுனிகள் கட்டியம்போல் ஸேவிக்கவும்.
ஶ்ரீ மணவாளமாமுனிகளுடைய திருமஞ்சன ஸ்நபந காலத்தில் அநுஸந்திக்கும் கட்டியம்
நாயந்தே, நாயந்தே!!
ஶ்ரீமத்ரங்கம் ஜயது பரமம் தாம தேஜோநிதாநம்
பூமா தஸ்மிந் பவது குஶலீ கோபி பூமாஸஹாய: ।
திவ்யம் தஸ்மை திஶது விபவம் தேஶிகோ தேஶிகாநாம்
காலே காலே வரவரமுநி: கல்பயந் மங்கலாநி ।।
இப்புவியிலரங்கேஶர்க்கீடளித்த பெருமாள்-எழில் திருவாய்மொழிப்பிள்ளை இணையடியாம் பெருமாள்-அற்பிசியில் திருமூலத்தவரித்த பெருமாள்-அரவரசப்பெருஞ்சோதி அநந்தனென்னும் பெருமாள்-எப்புவியும் ஶ்ரீஶைலமேற்றவந்த பெருமாள்-ஏராருமெதிராஜரெனவுதித்த பெருமாள்-முப்புரிநூல் மணிவடமும் முக்கோல் தரித்த பெருமாள்-மூதரிய மணவாள மாமுநியாம் பெருமாள்-நம் தேஶிகஶிகாமணிப் பெருமாள்.
தேவரீர் திருவடித்தாமரைகளின் தாஸ்யார்ஹ ஸாரஸ்ய தாநார்த்தமாக ஆஸநாரவிந்தத்தில் அழுந்தியிட்ட இடது கழலும்,
இடத்தொடையின்மேல் வளர்த்திக் கண்ணாரக் கண்டு களிப்பதோர் காதலுற்றார்க்குக் காட்டியிட்ட வலது கழலும்,
ஸாக்ஷாந் மன்மத மன்மதாயமான மதுமதன விஜய தூணீரயுகளம் போல் இணைத்துவைத்த கணுக்கால்களும்,
கீழ்நோக்குமொளி வெள்ளம் மறியுண்டு சுழித்தாற்போல் இரண்டருகும் திரண்டுருண்ட மடியுண்ட முழந்தாள்களும்,
கந்தளித கதளீகாண்டகரிகர கரபங்கள்போல் பருப்பருத்த திருத்துடைகளும்,
திருவரையில் பாங்காக ஆஜங்கந்தழைத்துடுத்த அந்திபோல் நிறத்தாடையும்,
நிலைநின்ற மின்னல்கொடிபோல் அதினிடையில் நிகுநிகென்று பொன்னரை நாண் பூண்டவழகும்,
ஸௌந்தர்ய துக்த ஸிந்து நடுக்குழித்திட்ட சுழிபோல் ஸுந்தரமாம் உந்திமலரும்,
லாவண்ய தரங்கிணியில் அலையொழுங்கு விழுந்தாற்போல் திகழ்கின்ற திருவளிகளும்,
அலர்கின்ற தாமரைபோல் அஞ்சலித்த தடக்கைகளும்,
தங்கவளைமேல் தங்கித் தொங்குகின்ற சங்கிலிகளோடு இணக்கமுற்ற கணைக்கைகளும்,
முறுக்கு முன்கையோடு உள்விம்பிப்புறம்குவிந்து மடியுண்ட முழங்கைகளும்,
கனகமய குலதரங்கள் கடைந்தெடுத்து மடுத்தாற்போல் திரண்ட நீண்ட பாஹுதண்டங்களும்,
ப்ரஹ்ம புரகோபநார்த்தமிட்ட ஹாடகமய கவாடம்போல் பளபளவென்று அகன்று காடவ்யூடமாய் திகழ்கின்ற திருமார்பினழகும்,
அம்மார்பினழகில் அழுந்துவார்க்கோர் அவலம்ப ஸூத்ரம்போல் இலங்குகின்ற முந்நூலழகும்,
ஶேஷ்வர விபூதி த்வயமும், இளைப்பாறும் நிழல் தடமாய் வளர்ந்துயர்ந்த திண்டோள்களும்,
கண்டவ்யக்த தாராக்ஷரங்கள் புறம்பொசிந்து காட்டினாற்போல் ரேகாத்ரய விபக்தாங்கமாய் வலம்புரியின் சுழியொழுங்கைப் பழித்தெழுந்த கழுத்தினழகும்,
மருக்கழத்தின சந்திர மண்டலத்தையும் அப்போதலர்ந்த செந்தாமரைப் பூவையும் அதிகரித்து கிட்டினாரை மையலேற்றி மயக்கும் மாயமந்திரமாய் விளங்குகின்ற ஸ்மயமான முகாரவிந்தமும்,
இசைந்து கனிந்து த்ராக்ஷாத்வயம் போல் வகுப்புண்ட சுபுகவிகாஸமும்,
ஸாகூதவார்த்தோத்யுக்தமாய் துடிப்பதுபோல் விளங்குகின்ற அவ்யக்த மதுர மந்தஹாஸ விலாஸமும்,
ஸ்படிகமய முகுர மண்டலங்கள் போல் தளதளவென்ற திவ்ய கபோலங்களும்,
கனகனக மகர குண்டலத்வயத்தால் தழைத்து வடிவிட்டுச் சுருண்டு நீண்டு தோளளவும் தொங்குகின்ற கர்ணபாஶங்களும்,
மாட்டுயர் கற்பகத்தின் வல்லியோ கொழுந்தோ வென்று மிக்க ஸந்தேஹ ஜனகமான கோலநீள் கொடி மூக்கின் அழகும்,
மிதோபத்த ஶ்பர்த ஸ்புரித சபரத்வந்த்வ லலிதங்களாய் புடைபரந்து மிளிர்ந்து நீண்ட தண்டாமரைக் கண்களும்,
குணோத்கர்ஷ குண்டலிதமான திருச்சார்ங்கம் போல் வளைந்த திருப்புருவ வட்டங்களும்,
அஷ்டமீ சந்த்ரன் அம்ருதப்ரவாஹங்கள் கற்பகக் கொடியடியில் பெருகிவந்து தேங்கினாற்போல் திருநுதல்மேல் இலங்குகின்ற நாஸிகாமூலத்ருத ஶ்ரீராமாநுஜ தீப்ய திவ்யோர்த்வ புண்ட்ரவிஶேஷமும்,
அதனிடையில் உபயவிபூதி பட்டாபிஷேக ஸாம்ராஜ்ய லக்ஷ்மீ விஹார நிக்ஷிப்த பதகமல லாக்ஷாபங்கம்போல் சிவந்து படிந்து விளங்குகின்ற ஶ்ரீசூர்ணரேகையும்,
உயர்ந்து மலர்ந்த திருமுடியும்,
வளர்ந்து மடிந்துவ்யக்தா வ்யக்தமாய் விளங்குகின்ற திருக்குழலொழுங்கும்,
சுற்றிச் சுழற்றி குழைத்திட்டு முடித்து தொங்கவிட்ட ஶிகாபந்தமும்,
பின்னெடுத்த பிடரியழகும்,
திருவநந்தாழ்வான் பின்படம்போல் நடுப்பதிந்து விஶாலமாய் நெறித்திட்ட திருமுதுகும்,
வலவருகில் முன்னாட்டித் தாங்கியிட்ட த்ரிதண்டாக்ரமும்,
சீரியதோர் நிதிபோல் திருமுன்பே நோக்கிக்கொண்டு இட்டு வைத்த திருவடி நிலைகளுமாய் இப்போது தேவரீர் திருமஞ்சனம் கொண்டருள எழுந்தருளி இருக்கும் அழகு இது
ஏதேனும் சிந்தை மருளோ!
ஜகந்மோஹன மந்த்ரப்ரபாவமோ!, ஸகல ரஸ குளிகா விலாஸமோ!, ஸர்வபோக சிந்தாமணி ப்ரகாஶமோ!, அகில ஜகத் ஸுக்ருத விபாகமோ!, நிகில பல கல்பலதா ப்ரஸரமோ!, ஸமஸ்த ஸம்பத் ஸாம்ராஜ்ய வேஷமோ!, ஸர்வ மங்கள ஸந்தானப்ரஸவமோ!, அகில ஜகஜ்ஜீவன மூலமோ!, அதுலாநந்த கந்தாவதாரமோ!, ஸகலகலா ரஹஸ்ய ஸர்வஸ்வமோ!, ஸர்வேஶ்வர ஆபத்தனமோ!, ஈதெல்லாம் திரண்டெழுந்து கொண்டதோர் வடிவோ!,
இதுமன்றி அப்ரமேய தேஜஸ்ஸோ!, நாங்கள் ஏதொன்றறியா இவ்வழகுடன் தேவரீர் ஊழிதொறும், ஊழிதொறும் வாழ்ந்திடுக வாழ்ந்திடுகவே, யதிஸார்வபௌமனே, திருமஞ்சனம் கொண்டருளவே
ஜய விஜயீ பவ!
ஶ்ரீமணவாளமாமுநிகள் ஸஹஸ்ரதாரை திருமஞ்சனக் கட்டியம்
நாயந்தே, நாயந்தே!
ஸத்யம் ஸத்யம் புநரிதி புரா ஸாரவித்பிர்யதுக்தம்
ப்ரூமஶ்ஶ்ரோத்ராத் ஶ்ருணுத ஸுதியோ மத்ஸரம் வர்ஜயித்வா।
தத்வம் விஷ்ணு:பரமநுபமம தத்பதம் ப்ராப்யமேவம்
தத்ஸம்ப்ராப்தௌ வரவரமுநிர்தேஶிகோ தீர்க்கதர்ஶீ।।
பூத்வாபூயோ வரவரமுநிர்போகிநாம் ஸார்வபௌம:
ரக்ஷத்யஸ்மாந் ரகுகுலபதேராஶ்ரிதோ பத்ரபீடம்।
தம் த்வம் தத்வா வ்ரஜ ஶரணமித்யாதிஶத் ராகவோயம்
ஸ்வப்நே ஸோயம் வரவரமுநிஸ்ஸம்ஶ்ரயோ மாத்ருஶாநாம்।।
பராக், பராக் நம்தர்ஶநஸ்தாபநாசார்ய பராக்-
செந்தமிழ் வேதியர் சிந்தை மகிழ்ந்திட ஈடுரைத்த வசைவோ!
சீருலகாரியன் நற்கலையுண்மை விரித்துரைத்த வசைவோ!
மந்தமதிப்புவி மானிடருய்ந்திட வந்தளித்த வசைவோ!
மாசறு ஞானியர் சேரெதிராசரை மன்னிவாழ்த்து மசைவோ!
கந்தமலர்க்குருகாதிபனந்தமிழ் சிந்தை செய்த வசைவோ!
காரமர் மேனியரங்கரை நாடொறுங்கண்டு போற்றுமசைவோ!
சாந்தொடு மஞ்சளுமெண்ணெய் புளிப்பழமஞ்சனமாமிவையாம்
மஞ்சனமாடி மகிழ்ந்தருளீர் மணவாளமாமுனியே- ஜயவிஜயீபவ!!
உடையவர் மங்களாஶாஸந எச்சரிக்கை
ஶ்ரீ பார்த்தஸாரதி ஸந்நிதி-ஶ்ரீ பார்த்தஸூதக்ருபாலப்த நிஜாவதாரவைபவ எச்சரிக்கை. அப்பனுக்குச் சங்காழி அளித்துகந்த தேவ எச்சரிக்கை.
வேதவல்லித் தாயார் ஸந்நிதி-ஶ்ரீ வேங்கடேஶஶ்வஶுராபிதாந எச்சரிக்கை. வேங்கடக்கோன் மார்புறையும் மங்கையைப் பெற்றளித்ததேவ எச்சரிக்கை.
தேவப்பெருமாள் ஸந்நிதி-அத்திகிரியருளாளர்க்கத்தாணிச் சேவகத்தால் பெருந்தாஹந்தீர்ந்த தேவ எச்சரிக்கை. அருளாளராறு வார்த்தை அரும்பொருளால் மறைவிரித்துப் பெரும்புகழ் படைத்த தேவ எச்சரிக்கை.
திருமழிசைப்பிரான் ஶ்ரீபக்திஸாரபாத யுகளௌ பக்திஸார எச்சரிக்கை. இடங்கொண்ட கீர்த்தி மழிசைக்கிறைவனிணையடியடைந்துய்ந்த தேவ எச்சரிக்கை.
அழகியசிங்கர் -ஶ்ரீ ப்ரஹ்லாதாஹ்லாதநஹிரண்ய பயங்கரவரேண்ய ந்ருஸிம்ஹஶரண்ய எச்சரிக்கை. பள்ளியிலோதிவந்த ஒள்ளிய சிறுவனாதி தெள்ளிய சிங்கத்தின் பள்ளியரவான தேவ எச்சரிக்கை
ஆண்டாள்-ஶ்ரீநந்தநந்தன ஸுந்தரீஸோதரீபாவபாவித எச்சரிக்கை. திருப்பாவை முப்பதையும் விருப்பாலுரைத்த சுரும்பார் குழற்கோதை நம் கோயிலண்ணனோவென்ன தேவ எச்சரிக்கை.
ஆளவந்தார்-முடங்கிநின்ற யாமுநர்தம் முவ்விரலும் நிமிர்த்து முக்குறையும் நீக்கி மும்முறைவிளக்கி முக்குறும்பறுத்து முக்கோல் தரித்து மூவுலகுமேற்ற நின்ற தேவ எச்சரிக்கை. எதிகட்கிறைவன் யமுனைத்துறைவனிணையடியாம் கதிபெற்றவர்க்கு நாமேகலவ்யனென்ன தேவ எச்சரிக்கை.
நம்மாழ்வார்– ஶ்ரீ பராங்குஶார்ய திவ்யஸூக்திவ்ருத்திகார எச்சரிக்கை. பூமன்னுமாது பொருந்தியமார்பன் புகழ்மலிந்த பாமன்னு மாறனடி பணிந்துய்ந்த தேவ எச்சரிக்கை.
ஶ்ரீ மணவாளமாமுநிகள் மங்களாஶாஸந காலத்தில் அநுஸந்திக்கும் கட்டியம்
உடையவர் ஸந்நிதியில்-ஶ்ரீமத்யதீந்த்ரப்ரவணாபிதாந-எச்சரிக்கை
உபநிஷத்கிரி குஹோபகூடயதிவ்வரதத்வவிதந்ரேஸர-எச்சரிக்கை
தாயார் ஸந்நிதியில்-ஶ்ரீமத்ப்ருகு முனிதப: பலாவதார வேதவல்லீ கடாக்ஷ பாத்ரபூத-எச்சரிக்கை. வேதார்த்த மறுதியிடும் தூலாதிப்ரகரணத்தால் வேதவல்லி புகழனைத்துமோதியுணர்ந்துரைத்த தேவ-எச்சரிக்கை.
தேவப்பெருமாள் ஸந்நிதியில்-ஶ்ரீ தேவராஜப்ரவர்த்தித ஶ்ரீவசநபூஷண திவ்யஶாஸ்த்ரவ்ருத்திகார எச்சரிக்கை. ஆனையின் துயரந்தீரப்புள்ளூர்ந்து சென்று நின்றாழி தொட்டானையடைந்துய்ந்த தேவ-எச்சரிக்கை
திருமழிசைப்பிரான் ஸந்நிதியில்-ஶ்ரீபக்திஸார பாதயுகள பக்திஸார-எச்சரிக்கை; இடங்கொண்ட கீர்த்திமைசைக்கிறைவனடியிணையடைந்துய்ந்த தேவ எச்சரிக்கை
அழகியசிங்கர் ஸந்நிதியில்-ப்ரஹ்லாதாஹ்லாதந ஹிரண்ய பயங்கர வரேண்ய ந்ருஸிம்ஹஶரண்ய-எச்சரிக்கை. பள்ளியிலோதிவந்த வொள்ளிய சிறுவனாகித் தெள்ளிய சிங்கத்தின் பள்ளியரவான தேவ-எச்சரிக்கை
ஆண்டாள் ஸந்நிதியில்-ஶ்ரீமத்கோதாக்ரஜாவதார எச்சரிக்கை. திருப்பாவை முப்பதையும் விருப்பாலுரைத்த சுரும்பார் குழற்கோதை நம் கோயிலண்ணனோவென்ன தேவ எச்சரிக்கை.
ஆளவந்தார் ஸந்நிதியில்-யாமுநார்யமந: காம்நா கல்பதரோ-எச்சரிக்கை. எதிகட்கிறைவன் யமுனைத்துறைவன் இணையடியாம் கதிபெற்றவர்க்கு அன்புபூண்ட தேவ-எச்சரிக்கை
பார்த்தஸாரதி ஸ்வாமி ஸந்நிதியில்-ஶ்ரீவசந பூஷணவ்யாக்யாவ்யக்தீக்ருத பாண்டவதூதவைபவ-எச்சரிக்கை. போர்ப்பாகுதான் செய்த தேர்ப்பாகனார்க்கே தீர்ப்பாரையாமினியை ஓர்ப்பாலுரைத்த தேவா-எச்சரிக்கை.
நம்மாழ்வார் ஸந்நிதியில்-இப்புவியில் அரங்கேஶர்க்கு ஈடளித்த தேவ-எச்சரிக்கை. க்ருஷ்ணத்ருஷ்ணாதத்வாவதாவதாராயித ஶடமதநசரணாம்புஜயதிவர சரண ப்ரவண எச்சரிக்கை.
மணவாளமாமுநிகள் ஏகாந்த ஸேவையில் அநுஸந்திக்குமது
முன்னிலும் பின்னழகிய தேவ-எச்சரிக்கை. அஞ்சுகுடிக்கொரு ஸந்ததியாம் ஆண்டாள் தமக்கும் அண்ணரானவர்க்கன்பு பூண்டதேவ-எச்சரிக்கை
ஶ்ரீபரங்குஶார்ய திவ்யஸூக்தி ஷட்த்ரிம்ஶத் ஸஹஸ்ரவ்யாக்க்யா ப்ரவர்த்தந -எச்சரிக்கை
பவபயாபிதப்த ஜநபாகதேயவைபவ பாவிதாவதரண-எச்சரிக்கை
அகிலஜகத்திதாநுஶாஸந ப்ரவ்ருத்த ஶ்ருதிஶிகா நிகராந்தர்ஜ்வர பிஷக்வா-எச்சரிக்கை
ஶ்ரீபகவத் பாஷ்யகாராவதார-எச்சரிக்கை
ஶ்ரீரங்கராஜ ப்ரகடித நிஜபத்யவைபவ-எச்சரிக்கை
சாத்துமுறையன்று திருக்கைத்தலஸேவையில் பெருமாளுக்கு அநுஸந்திக்கும் கட்டியம்
First line fudged அன்றியவாணனாயிரந் தோளுந் துணிய வன்றாழிவிடுத்ததேவ-எச்சரிக்கை
குந்தீஸுத ரதாஶ்வ குரரஜோதூஸரித கேஶபாஶ-எச்சரிக்கை
பாழியால் மிக்க பார்த்தனுக்கு அறுமூன்றும் அளித்துகந்த தேவ-எச்சரிக்கை
கம்பீராம்பஸ்ஸமுத்பூத ஸும்ருஷ்ட நாளரவிகர விகஸித புண்டரீகதலாமலாய தேக்ஷண-எச்சரிக்கை
நாச்சியாருடைய கட்டியம்: ஸ்வாமிநி எச்சரிக்கை
இரண்டு ப்ரஹ்ம உத்ஸவங்களிலும் 8-வது நாளன்று திருமங்கைமன்னன் திருவேடுபறியில் வாசிக்கும் பட்டோலை
ஶ்ரீஶைலேஶ தயாபாத்ரம் தீபக்த்யாதி குணார்ணவம்।
யதீந்த்ர ப்ரவணம் வந்தே ரம்யஜாமாதரம் முநிம்।।
ஶ்ரிய:பதியாய், ஶ்ரீவைகுண்ட நிவாஸியாய், அவாப்த ஸமஸ்த காமனாய், அஸங்க்யேய கல்யாண குண நிதியாய், அநந்த கருட விஷ்வக் ஸேனாதி ஸேவ்யனான ஶ்ரீமந்நாராயணன் “க்ஷீரார்ணவ நிகேதந:” என்கிறபடியே க்ஷீரஸாகர ஶாயியாய், அனந்தரம் சேதனோஜ்ஜீவநார்த்தமாக, “பரித்ராணாய ஸாதூநாம் விநாஶாய ச துஷ்க்ருதாம்” என்று துஷ்ட நிக்ரஹ சிஷ்ட பரிபாலநார்த்தம், திருவல்லிக்கேணி என்னும் திவ்ய க்ஷேத்திரத்திலே, ஶ்ரீபார்த்தஸாரதி (தெள்ளிய சிங்க) ஸ்வாமியாய், திருவவதாரஞ்செய்து, நித்யோத்ஸவம், பக்ஷோத்ஸவம், முதலான உத்ஸவங்கள் கண்டருளா நிற்க “குரவமேகமழும் குளிர்பொழிலூடு குயிலொடு மயில்கள் நின்றால” என்கிறபடியே, கோகிலகூஜித கோமளமான வஸந்த (க்ரீஷ்ம) ருதுவில் சித்திரை (ஆனி) மாஸ ப்ரஹ்மோத்ஸவம் கண்டருளா நிற்க, ஹ்ருஷ்ட புஷ்ட ஜநாகீர்ணமான எட்டாந்திருநாளில், ஶயநஸமயத்தில் சதுர்க்கதி யுக்தமான துரகாதிரூடனாய், “வேட்டையாடி வருவானை வ்ருந்தாவனத்தே கண்டோமே” என்கிறபடியே, வேட்டைமார்க்கமாய் எழுந்தருளா நிற்க, வாளும் வில்லும் கொண்டும் வகுத்த தலைகட்டும் விழித்த கண்ணுமாய், “திருமங்கை மன்னன்” வந்து சந்தடியே புகுந்து திருவால வட்டங்களையும், திருவெண்கொற்றக் குடைகளையும், திருவெண்சாமரங்களையும் ஸந்நிதி திருவெண்பந்தங்களையும் பறித்து ஓரிடத்திலே ஒளித்து, பின்பு இருள் மூடிக்கிடக்க, திருப்படிகம், திருப்பரிவட்டம், திருவாபரணம் முதலானதுகளையும் பறித்துக்கொண்டு ஒளித்துப்போக காடாந்தகாரமாகையாலே குதிரை நடந்துபோகாமல் இருக்க, அருகே இருப்பவர்கள் அர்ச்சகர் முதலானோர் தம்தம் உடமைகளையும் பறிகொடுத்து, கூக்குரல் நடத்தா நிற்க, அவ்வூர் தலையாரித் தலைவன் ராஜ பயத்தால் சடக்கென வந்து, போன உடமைகளையெல்லாம் கொண்டுவருகிறேன் என்று சொல்லி கைவிளக்கு போட்டுக்கொண்டு, அந்த சந்தடியிலே கள்வன் அடிதொடர்ந்து பார்த்து நடவா நிற்க, ஒரு மூலையிலே ஒளித்து நிற்கும் திருமங்கை மன்னனைப் பிடித்துக்கொண்டு வந்து அகிலாண்டகோடி ப்ரஹ்மாண்ட நாயகனான ஶ்ரீபார்த்தஸாரதி (தெள்ளிய சிங்க) ஸ்வாமி திருமுன்பே நிறுத்தி, அந்தத்திருக்கோயில் கணக்கப்பிள்ளையை அழைத்து, திருமாலை திருப்பரிவட்டம் சாத்தி, “களவுபோன உடமைகளுக்கு கணக்கு சொல்” என, அந்த கணக்கப்பிள்ளை சொல்லும் விவரம்.
1 | ஸ்வாமி சாத்திக்கொண்டிருந்த பொன்நிறப்பாகை | 100 வராகன் |
2 | பாகையில் சொருகு முத்து துலா 1-க்கு | 200 வராகன் |
3 | காதில் முருகு பச்சை ரவை | 1,700 வராகன் |
4 | முத்து சவுக்களி ஜோடு 2-க்கு முத்து சவுக்களி ஜோடு 40-க்கு | 4,000 வராகன் |
5 | நவரத்னம் இழைத்த கண்டாபரணம் | 10,000 வராகன் |
6 | தோள் வளை | 1,500 வராகன் |
7 | யஜ்ஞோபவீதம் | 1,000 வராகன் |
8 | கல் இழைத்த அட்டிகை | 500 வராகன் |
9 | பச்சை நடுநாயகம் துரா பதக்கம் முத்தும் கொலுசும் உட்பட | 5,000 வராகன் |
10 | கல் இழைத்த இருதலை பக்ஷி பதக்கம் | 2,500 வராகன் |
11 | கோர்த்த முத்து தாவடம் சரம், 15 சரம் 1-க்கு, முத்து 400-ம் கிரயம் | 14,000 வராகன் |
12 | மாணிக்கக் கணையாழி மோதிரம் | 10,000 வராகன் |
13 | வைரமிழைத்த தாயத்து 1-க்கு | 5,000 வராகன் |
14 | நவரத்னம் இழைத்த அரைணாள் | 6,000 வராகன் |
15 | திருவடிகள் வீரவண்டையம் | 5,000 வராகன் |
16 | பொற்காம்பு ரத்னகவசம் உள்பட வெண்பட்டு குடை 2-க்கு | 2,000 வராகன் |
17 | வெள்ளி தீவட்டி 4-க்கு | 100 வராகன் |
18 | மரகதம் இழைத்த அங்குபடி | 1,000 வராகன் |
19 | காம்புடைய திருவெண்குடை | 100 வராகன் |
20 | திருவால வட்டம் | 100 வராகன் |
21 | மயில் விசிறி, தங்க படிகம், கேடயம், பெரிய கத்தி, கடாஹி, ஆகியவைகளின் தீர்க்கமான முடிப்பு ஆக | 30,000 வராகன் |
22 | ஸ்தலத்தார், தாலத்தார் முதலான ஸ்வாமி பரிஜனங்கள் சில்லரை தட்டு முட்டு குறையையும் அவரவர்கள் என் கையில் எழுதி வைத்தபடி கிரயம் | 20,000 வராகன் |
ஆக “தினுசுகள் எல்லாம் கொண்டுவந்து இப்பொழுது ஒப்புவிக்கக் கடவாய். இல்லையெனில் கணக்கில் உள்ளபடி விலை கொடுக்கக் கடவாய்” என்று தலையாரித் தலைவன் தண்டிக்கப்போக ஶ்ரீபார்த்தஸாரதி (தெள்ளிய சிங்க) ஸ்வாமி கடாக்ஷத்தினாலே ஞானம் பிறந்தவாரே, திருமங்கை மன்னன் அந்த தலையாரித் தலைவனையும் கூட்டிக்கொண்டு அனைத்துக்கொத்துப் பரிவாரத்துடன் திருவாலவட்டம் முதலான உடமைகள் ஒன்றிலும் குறையாமே கொண்டு வந்து ஒப்புவிக்க, பின்னர் ஶ்ரீ பார்த்தஸாரதி (தெள்ளிய சிங்க) ஸ்வாமி திருமங்கை மன்னனுக்கு திருப்பரிவட்டம் திருமாலை ஶ்ரீசடகோபன் முதலானவைகளை சாதித்தருளி “வாடினேன் வாடி” என்கிற திவ்யபிரபந்தம் கேட்டருளத் திருவுள்ளம் பற்றினார்.
திருக்கார்த்திகைத் திருநாள் பட்டோலை
ஶ்ரீஶைலேஶ தயாபாத்ரம் . . . .குணார்ணவம்। யதீந்த்ர ப்ரவணம் வந்தே . . . முநிம்।।
ஏதத்ரைலோக்ய நிர்மாணத்ராண ஸம்ஹாரகாரணம்।
ஶ்ரீமத் ஶ்ரீரங்கநாதஸ்ய ஶாஸநம் ஶாஶ்வதம் பரம்।।
ஸ்வஸ்தி ஶ்ரீவிஜயாப்யுதய சாலிவாஹன சகாப்தம் . . . க்கு ஸ்வஸ்தி கல்யப்தம் . . . .க்கு பிரபவாதி கதாப்தம் . . . க்கு . . . வருஷம் கார்த்திகையில் கார்த்திகைநாள் ‘பொங்கோதம் சூழ்ந்த புவனியும் விண்ணுலகும் அங்காதும் சோராமே” ஆள்கின்ற ஶ்ரீபார்த்தஸாரதிஸ்வாமி நம் ஶடகோபனுக்கு நினைந்து அனுப்பும் ஶாஸநம்.
மார்கழி மாதத்து சுக்லபக்ஷம் ப்ரதமையில் முத்துடைத்தாமம் நிறைதாழ்ந்த பந்தல் கீழ் நம் திருமாமணி மண்டபத்தில் கோப்புடைய சீரிய சிங்காதனத்தின் மேல் நாமும் நம் நாச்சிமார்களும் வீற்றிருந்து உம்முடைய பாட்டுக்களும் கலியன் உள்ளிட்டார் பாட்டுக்களும் கேட்கத் திருவுள்ளமானோம். அன்றளவும் நெஞ்சினால் நினைந்தும் வாயினால் மொழியாமல் இருக்கும்படிக்கு ‘பெருமானரையில் பீதக வண்ணவாடைகொண்டு என்னை வாட்டம் தணிய வீசிரே” என்கிறபடியே உடுத்துக் களைந்த பீதகவாடையும் சூடிக்களைந்த துளபமும் சாத்திக்களைந்த மாலையும் மிடத்துக்கு எண்ணெயும் நம்தழையிடுவான் கையில் வரக்காட்டினோம்-ஸ்வீகரிக்கவும்.
இராப்பத்து சாத்துமுறை ஆழ்வார் திருவடிதொழுத பிறகு அநுஸந்தானம்
स्वसंकल्पानुविधायि स्वरूप स्थिति प्रवृत्तिस्वशेषतैक स्वभाव प्रकृति पुरुष कालात्मक विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण भोगस्थानरूप निखिल जगदुदय विभवलयलील सत्यकाम सत्यसंकल्प परब्रह्मभूत पुरुषोत्तम महाविभूते श्रीमन्नारायण श्रीवैकुण्ठनाथ अपारकारुण्य सौशील्य वात्सल्य औदार्य ऐश्वर्य सौन्दर्य महोदधे अनालोचित विशेषाशेष लोकशरण्य प्रणतार्तिहर आश्रित वात्सल्यैकजलधे अनवरतविदित निखिलभूत जातयाथात्म्य अशेष चराचरभूत निखिल नियमक निरत अशेष चिदचिद्वस्तु शेषिभूत निखिल जगदाधार अखिल जगत्स्वामिन् अस्मत्स्वामिन् सत्यकाम सत्यसंकल्प सकलेतरविलक्षण अर्थिकल्पक आपत्सख श्रीमन्नारायण अशरण्यशरण्य अनन्यशरण: त्वत्पादारविन्दयुगलं शरणमहं प्पद्ये।
லோக ஸம்ரக்ஷணமாக நம்மாழ்வாரை ஸாதித்தருளவேணும்.
சேதநஸம்ரக்ஷணார்த்தமாக நம்மாழ்வாரை ஸாதித்தருளவேணும்
நம்மாழ்வாரை ஸாதித்தருளவேணும். தந்தோம், தந்தோம்.
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धर: । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।
बृन्दारण्य निवासाय बलरामानुजाय च । रुक्मिणीप्राणनाथाय पार्थसूताय मङ्गलम्।।
शुभमस्तु