|| हस्त्यद्रि सम्बन्धि सन्दोहः ||
|| हस्तिगिरि दर्शनम् Part 2||
HASTHIGIRI DARSANAM Part 2
(सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्)
श्रीः
श्रीमहादेवीनायिका–समेत–श्रीदेवाधिराज–परब्रह्मणे नमः
श्रीमत्प्रणतार्तिहर–वरद–परब्रह्मणे नमः
श्रीमते रामानुजाय नमः
श्रीब्राह्मपुराणान्तर्गतं श्रीहस्तिगिरिमाहात्म्यम्
स्वस्त्यस्तु । समस्तमङ्गलानि सन्तु ।
श्लोकैकदेश–श्रवण–पठनमात्रेण वक्तुः श्रोतृणां च धर्मादिनिखिल–पुरुषार्थसिद्धिप्रदे
श्रीब्राह्म्ये पुराणे भृगु–नारद–संवादे श्रीहस्तिगिरिमाहात्म्ये प्रथमोऽध्यायः
भृगुः –
भगवन् मुनिशार्दूल वर्णाश्रमसमाश्रिताः ।
आख्याता बहवो धर्माः भवता मे सनातनाः ।। (१)
उत्पत्तिः कथिता धातुः विष्णुनाभिसरोरुहात् ।
देवतिर्यङ्नराणां च संभवः कथितस्तथा ।। (२)
धर्मार्थकाममोक्षाणां स्वरूपं च यथातथम् ।
देहिनां कर्मबन्धश्च तद्धेतुश्च सुविस्तृतः ।। (३)
प्रधानपुंसो रजयोः स्वरूपं च समीरितम् ।
विद्याविद्ये च कथिते लोकभेदाश्च विस्तृताः ।। (४)
पुण्यक्षेत्राणि सर्वाणि कथितानि समासतः ।
नगराणि च पुण्याणि विशेषानि महीतले ।। (५)
सालग्रामं कुरुक्षेत्रं तथा बदरिकाश्रमम् ।
पद्मनाभं गयाक्षेत्रं उत्पलावतकं तथा ।। (६)
क्षेत्राण्येतानि पुण्यानि कथितानि त्वयाऽनघ ।
अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका ।। (७)
पुरी द्वारवती चैव सप्तैते मुक्तिदायकाः ।
इत्येवं भुवि पुण्यानि क्षेत्राणि नगराणि च ।। (८)
कीर्तितानि सुपुण्यानि पर्वताश्च वनानि च ।
श्रुत्वैतदखिलं त्वत्तः कृतकृत्योऽस्मि सांप्रतम् ।। (९)
प्रसादमगमच्चित्तं छिन्ना मे सर्वसंशयाः ।
इदानीं श्रोतुमिच्छामि त्वत्तोऽहं मुनिपुङ्गव ।। (१०)
त्वदन्यः सर्वधर्माणां वक्ता मे भुवि दुर्लभः ।
त्वमेव सर्वधर्माणां गुरुरव्यय इष्यते ।। (११)
त्वामुपास्यैव मुनयः शृण्वन्ति परमं हितम् ।
यत्तु सत्यव्रतं नाम क्षेत्रं पापविनाशनम् ।। (१२)
पुण्यक्षेत्रेषु सर्वेषु तस्यैव श्रैष्ठ्यमुच्यते ।
आश्चर्या बहवस्तत्र संक्षेपात् कथितास्त्वया ।। (१३)
आदौ कृतयुगे तत्र चक्रे यज्ञं पितामहः ।
तत्र काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ।। (१४)
विधातुरश्वमेधार्थं निर्मिता विश्वकर्मणा ।
अस्ति हस्तिगिरिर्नाम तत्र शैलवरो महान् ।। (१५)
विधात्राऽप्यर्चितो विष्णुः तस्य शैलस्य मूर्धनि ।
पुण्यकोटीति विख्यातं विमानं पुण्यवर्धनम् ।। (१६)
वेदिमध्यात् समुत्तस्थौ तस्य मूर्ध्नि स्वयं पुरा ।
तन्मध्ये भगवान् विष्णुः अभिव्यक्तो हरिस्स्वयम् ।। (१७)
आराधितोऽभवद् धात्रा हयमेधेन मृद्गिरौ ।
वेगवत्युत्तरे तीरे पुण्यकोट्यां हरिः स्वयम् ।। (१८)
वरदस्सर्वभूतानाम् अद्यापि परिदृश्यते ।
इति संक्षेपतः प्रोक्तं यत्पुरा भवता मम ।। (१९)
विस्तरेणैव तत्सर्वं श्रोतुमिच्छाम्यहं मुने ।
हस्तिशैलस्य माहात्म्यं काञ्च्याख्यनगरस्य च ।। (२०)
आविर्भावं तथा विष्णोः कथयस्व यथाक्रमम् ।
नारदः –
गुह्यमेतन्महाभाग यत्पृष्टोऽहमिह त्वया ।। (२१)
अस्य श्रवणमात्रेण मृत्युमत्येति मानवः ।
न चास्य सदृशं किञ्चित् विद्यते गुह्यमुत्तमम् ।। (२२)
अस्य श्रोता च वक्ता च न पुनर्भवमृच्छति ।
अतोऽहं कथयिष्यामि शृणु गुह्यमिदं महत् ।। (२३)
आधारं सर्वगुह्यानां तदेव जगति ध्रुवम् ।
पुराऽहं सुचिरं कालं तपस्तप्त्वा सुदुष्करम् ।। (२४)
द्रष्टुकामः परं विष्णोः स्वरूपं ध्यानचक्षुषा ।
न मे चित्तं समाधातुं शक्तिरासीत् कदाचन ।। (२५)
श्वेतद्वीपं समासाद्य तत्राद्राक्षं महामुनीन् ।
ध्यायतः परमं ब्रह्म वासुदेवाख्यमव्ययम् ।। (२६)
तान् प्रणम्य महाभागान् यतवाक्कायमानसान् ।
अहमप्यास्थितो योगमुपविष्टोऽस्मि संयतः ।। (२७)
न मे चित्तं समाधातुं शक्तिरासीत्कदाचन ।
बहिर्निर्गत्य मच्चित्तं विषयानन्वगाद्बलात् ।। (२८)
न कर्मणा न दानेन न तपोभिश्च दुष्करैः ।
मनसो निग्रहे दक्षः कश्चिदस्ति कदाचन ।। (२९)
यत्नैश्च विविधस्तस्य निग्रहेऽहमनीश्वरः ।
तस्मान्निर्गत्य सहसा मेरुपूर्वमुपागमम् ।। (३०)
तस्मिन्नेव तदा ब्रह्मा देवर्षिगणसेवितः ।
संस्तूयमानो योगीन्द्रैः प्रसन्नस्समुपाविशत् ।। (३१)
तं प्रणम्य सुसंपूज्य याज्ञवल्क्यस्तपोधनः ।
पर्यपृच्छद्यथान्यायं योगमष्टाङ्गलक्षणम् ।। (३२)
तेन पृष्टस्तथा ब्रह्मा याज्ञवल्क्येन धीमता ।
उवाच परमं योगमङ्गानि च पृथक् पृथक् ।। (३३)
तमेवाहं समुत्थाय प्रणिपत्य पितामहम् ।
अन्वपृच्छमिदं गुह्यं परमं योगसिद्धये ।। (३४)
भगवन् सर्वलोकेश सर्वकारणकारण ।
त्वमेव सर्वलोकानामाधारः परमा गतिः ।। (३५)
त्वामुपास्यैव मुनयो लभन्ते परमं हितम् ।
त्वद्भक्तानां हि सर्वेषां दुर्लभं नैव विद्यते ।। (३६)
श्रोतुमिच्छाम्यहमिदं योगिनामीप्सितं वरम् ।
वक्तव्यमेतद्भक्ताय मह्यं शुश्रूषवे गुरो ।। (३७)
मम दुर्निग्रहं चित्तं न समाधौ प्रवर्तते ।
तदेवाचक्ष्व भगवन् येन तद्विनिगृह्यते ।। (३८)
निगृहीते तु मच्चित्ते त्वत्प्रसादात्पितामह ।
सर्वभूतान्तरात्मानं तं द्रक्ष्यामि जनार्दनम् ।। (३९)
इति पृष्टो मया ब्रह्मा प्रसन्नेनान्तरात्मना ।
यदुवाच तदा मह्यं मनोनिग्रहसाधनम् ।। (४०)
तदेव तव वक्ष्यामि शृणुष्व सुसमाहितः ।
न हि प्रियतमः कश्चित् विद्यते त्वत्समो मम ।। (४१)
सृष्ट्वैव तदखिलं ब्रह्मा जगत्स्थावरजङ्गमम् ।
आदौ कृतयुगे विष्णुं द्रष्टुकामो बभूव ह ।। (४२)
तत्र त्रिपथगामध्ये स्थित्वा चक्रे महत्तपः ।
एकाकी निर्ममश्शान्तो निर्द्वन्द्वो निष्परिग्रहः ।। (४३)
यमैश्च नियमैश्चैव प्राणायामैः दृढव्रतः ।
संयतस्सततं मौनी नासाग्रन्यस्तलोचनः ।। (४४)
दुर्निग्रहं मनस्तस्य न च विष्णौ प्रतिष्ठितम् ।
बलान्निर्गत्य सहसा विषयानन्ववर्तत ।। (४५)
ततश्चिन्तापरवशो बभूव कमलासनः ।
असमर्थस्समाधातुं मनश्चञ्चलमस्थिरम् ।। (४६)
ततो विषण्ण-वदने विमनस्के विधातरि ।
उच्चचाल महानादा तत्र वागशरीरिणी ।। (४७)
वाणी –
भो भो ब्रह्मन् विषादस्ते न कर्तव्यस्सुदुष्करे ।
उपायरहितैश्चित्तं निगृहीतुं न शक्यते ।। (४८)
शृणुष्व निग्रहोपायं यथावत् कथयामि ते ।
येन दुर्निग्रहं चित्तम् उपयास्यति निश्चलम् ।। (४९)
कुरुष्व मनसश्शुद्धिमश्वमेधैः पितामह ।
शुद्धे मनसि सद्यस्ते समाधिर्भविता स्वयम् ।। (५०)
सहस्रमश्वमेधानां यष्टव्यं चित्तशुद्धये ।
अनायासात्सहस्रं ते कृतं स्याद्येन तच्छृणु ।। (५१)
जम्बूद्वीपे महापुण्ये वर्षे भारतसंज्ञके ।
गङ्गाया दक्षिणे भागे योजनानां शतद्वये ।। (५२)
पञ्चयोजनमात्रेण पूर्वाम्बोधेस्तु पश्चिमे ।
पुण्यवृक्षसमाकीर्णं सप्तयोजनविस्तृतम् ।। (५३)
यत्तु सत्यव्रतं नाम क्षेत्रं पापविनाशनम् ।
विष्णोः प्रीतिकरं नित्यं सिद्धगन्धर्वसेवितम् ।। (५४)
तत्र गत्वाश्वमेधेन यजस्व पुरुषोत्तमम् ।
ततः प्रसन्नचित्तस्त्वं भविष्यसि न संशयः ।। (५५)
एकस्तत्र कृतो धर्मो वर्धते तु सहस्रधा ।
तस्य क्षेत्रस्य माहात्म्यान्नात्र कार्या विचारणा ।। (५६)
तत्र सन्निहितो विष्णुः सर्वदा सर्वगः प्रभुः ।
ददाति च फलं सद्यः कर्मणामीश्वरस्स्वयम् ।। (५७)
हस्तिशैल इति ख्यातस्तत्र शैलवरो महान् ।
दृश्यते तस्य शिखरे पूजनीयस्त्वया हरिः ।। (५८)
दिङ्नागैरर्चितस्तस्मिन् पुरा नारायणः प्रभुः ।
ततो हस्तिगिरिर्नाम ख्यातिरासीन्महागिरेः ।। (५९)
कल्पयित्वा तमेवाद्रिं सम्यगुत्तरवेदिकाम् ।
तन्मूर्ध्नि वरदं विष्णुं यजस्व गरुडध्वजम् ।। (६०)
उदक्पश्चिमभागस्थं वल्मीकं महतो गिरेः ।
पूजनीयश्च तत्रास्ते शेषः फणभृतां वरः ।। (६१)
सर्वपापहरं यत्तु तत्र नागाह्वयं सरः ।
तस्य दक्षिणतीरे तु यज्ञशाला प्रकल्प्यताम् ।। (६२)
इत्थं तत्राश्वमेधेन तोषयस्व जनार्दनम् ।
एकेनैवाश्वमेधेन तत्सहस्रकृतं भवेत् ।। (६३)
भवन्ति तत्र सहसा कर्मणां फलसिद्धयः ।
अतस्तत्रैव कर्तव्यो हयमेधः पितामह ।। (६४)
हरिर्नारायणो देवो हयमेधेन तोषितः ।
प्रत्यक्षं दृश्यते तत्र सर्वलोकेश्वरस्स्वयम् ।। (६५)
नारदः –
इति तद्वचनं श्रुत्वा प्रीतः पूर्णमनोरथः ।
पितामहः समुत्थाय ययौ सत्यव्रतं प्रति ।। (६६)
तत्रापि सुचिरं कालं तपश्चक्रे सुदुष्करम् ।
अनन्तसरसस्तीरे सर्वपापप्रणाशने ।। (६७)
स तप्त्वा सुचिरं कालं तस्मिन्नेव पितामहः ।
ततश्चक्रेऽश्वमेधाय मतिं मतिमतां वरः ।। (६८)
देवानृषीन् मनुष्यांश्च सिद्धचारणपन्नगान् ।
यक्षविद्याधरगणान् गन्धर्वान्श्च तथा सुरान् ।। (६९)
समाहूयात्र कर्तव्यमिति मत्त्वा पितामहः ।
सहसा विश्वकर्माणं समाहूयेदमब्रवीत् ।। (७०)
हरिरत्राश्वमेधेन यष्टव्यो विश्वकृन्मया ।
तदर्थ-क्रियतां सद्यो यत्कर्तव्यं त्वयाधुना ।। (७१)
देवा मनुष्याः पितरो यक्षगन्धर्वदानवाः ।
त्रैलोक्यान्तर्गतास्सर्वे शतशोऽथ सहस्रशः ।। (७२)
सर्वेऽप्यत्रागमिष्यन्ति मम यज्ञदिदृक्षवः ।
त्वं तेषामपि सर्वेषां निर्मिमीथाः पुरं महत् ।। (७३)
पृथक् पृथगसंबाधं हर्म्यप्रासादसंयुतम् ।
धनधान्यसमृद्धिञ्च सर्वोपकरणान्वितम् ।। (७४)
सन्तक्ष्य परितश्शैलमिदं सर्वमनोहरम् ।
तस्य मूर्ध्नि महाभाग कुरुष्वोत्तरवेदिकाम् ।। (७५)
वल्मीकमेतत्संस्थाप्य उदक्पश्चिमगोचरम् ।
विभुरत्रैव वसति शेषस्सर्वनमस्कृतः ।। (७६)
अत्रैव पूज्यते विष्णुः अनन्तेन महात्मना ।
माहात्म्यादस्य सरसि सन्निधत्ते हरिस्स्वयम् ।। (७७)
अतोऽस्य सदृशं नास्ति क्षेत्रं पुण्यविवर्धनम् ।
सुसमीक्रियतामेतत् क्षेत्रं यज्ञार्थमात्मनः ।। (७८)
वापीकूपतटाकानि रम्याणि विपुलानि च ।
उद्यानानि विचित्राणि निर्ममस्व महामते ।। (७९)
नारदः –
इति तद्वचनं श्रुत्वा प्रणिपत्य कृताञ्जलिः ।
तदाज्ञा प्रतिजग्राह विश्वकर्मा महामनाः ।। (८०)
निर्ममे मनसैवाथ पुरं देवपुरं यथा ।
वीथिकाशतसाहस्रं विशालायतवेदिकम् ।। (८१)
विचित्रवलभैर्युक्तं विचित्रोच्छ्रयगोपुरम् ।
मेरुमन्दरसङ्काशं हर्म्यप्रासादसंयुतम् ।। (८२)
नानारत्नमयैश्चित्रैः तोरणैरुपशोभितम् ।
द्वारैश्चित्रैश्च कक्ष्याभिः अलङ्कारैर्मनोहरम् ।। (८३)
रथैर्मनोहरैर्हेमैः परार्थैरासनैर्युतम् ।
मनोहरैर्महाशालैस्संयुतञ्च महानिधैः ।। (८४)
विचित्रभक्ष्यभोज्याद्यैः सरसैश्चाभिपूजितम् ।
विस्तरेणैव सर्वेषां निर्मिता गृहदीपिकाः ।। (८५)
ब्राह्मणानां नृपाणाञ्च देवानाञ्च पृथक्पृथक् ।
ऋषीणाञ्चैव सर्वेषां वैश्यानाञ्च विशेषतः ।। (८६)
यथार्हं कल्पयामास स्थानानि विविधान्यपि ।
वापीकूपतटाकानि सुबहूनि च निर्ममे ।। (८७)
यज्ञशालां विशालां च सर्वलक्षणसंयुताम् ।
निर्ममेऽथ समीकृत्य महीं शैलसमीपतः ।। (८८)
नागाद्रिं परिसन्तक्ष्य निम्नोन्नतविवर्जितम् ।।
तच्छृङ्गञ्च समीकृत्य चकारोत्तरवेदिकाम् ।। (८९)
इत्थं कृत्वाथ तत्सर्वं मनसा सुमनोहरम् ।
ब्रह्मणे दर्शयामास विश्वकर्मा महात्मने ।। (९०)
ततो मुनिगणान् सर्वानाहूयानुमतश्च तैः ।
विसृज्याश्वं पुनस्तस्मिन् वत्सरान्ते समागते ।। (९१)
देव-दैतेय-गन्धर्व-मनुष्यादींश्च सर्वशः ।
समाहूय ततश्चक्रे हयमेधं पितामहः ।। (९२)
मरीचिरङ्गिराश्चात्रिः वसिष्ठः पुलहो वसुः ।
परावसुः क्रतुश्चैव हारीतः कण्वकर्दमौ ।। (९३)
शातातपस्सुयज्ञश्च धनुशाक्षश्च तित्तिरिः ।
रैक्वश्च षोडशैते च ऋत्विजो मुनयो वृताः ।। (९४)
बृहस्पतिरभूद्धोता वसिष्ठोऽध्वर्युरेव च ।
सत्ययज्ञस्तथोद्गाता मरीचिश्च प्रजापतिः ।। (९५)
बभूवुः ऋत्विजश्शेषाः कण्वाद्या मुनयः क्रमात् ।
अध्यक्षं वरयामास याज्ञवल्क्यं पितामहः ।। (९६)
देवाश्च पितरस्सर्वे ब्राह्मणा वेदपारगाः ।
योगिनस्सनकाद्याश्च भूपाला धर्मवत्सलाः ।। (९७)
यक्ष-दैतेय-गन्धर्व-सिद्धचारण-किन्नराः ।
यज्ञसन्दर्शनायैते तस्मिन्नेव समागताः ।। (९८)
ततस्समस्तयज्ञानां भोक्तारं पुरुषोत्तमम् ।
यज्ञस्य दैवतं ध्यात्वा धाता यष्टुं प्रचक्रमे ।। (९९)
क इति ब्रह्मणो नाम तेन तत्राञ्चितो हरिः ।
तस्मात् काञ्चीति विख्याता पुरी पुण्यविवर्धनी ।। (१००)
सरसिजवसते रथाश्वमेधे-क्रतुवरदर्शनकौतुकानुषक्तैः ।
असुर-सुर-नरादिभिस्समेतैः क्षुभितमहाब्धिसमं पुरं तदासीत् ।। (१०१)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये प्रथमोऽध्यायः ।
श्रीहस्तिगिरिमाहात्म्ये द्वितीयोऽध्यायः
नारदः-
अथ दीक्षाविधानाय प्रक्रान्ते कमलासने ।
तमुवाच गुरुर्होता पुरोधास्त्रिदिवौकसाम् ।। (१)
आहूयतामिह ब्रह्मन् तव पत्नी सरस्वती ।
इहागतायां तस्यां हि कर्तव्यं तदनन्तरम् ।। (२)
कल्पनीयाश्चतस्रोऽस्यांस्तव पत्न्योऽथ धर्मतः ।
कल्पितानां च सर्वासां ज्येष्ठा पत्नी सरस्वती ।। (३)
तयैव सह कर्तव्यः क्रतुरेष जगत्पते ।
अत आहूयतामद्य जगत्पूज्या सरस्वती ।। (४)
नारदः –
इति तद्वचनं श्रुत्वा यष्टुकामः पितामहः ।
उवाच स्वयमाहूय वसिष्ठं मुनिपुङ्गवम् ।। (५)
सरस्वत्यां समध्यास्ते नद्यामद्य सरस्वती ।
तदाह्वानं त्वया कार्यं गच्छ शीघ्रं तपोधन ।। (६)
इदानीं सा मयि क्रुद्धा मया पूर्वं विमानिता ।
दुराराध्या मया तस्मादनुनीया नयस्व ताम् ।। (७)
नारदः-
इति तद्वचनं श्रुत्वा तं प्रणम्य कृताञ्जलिः ।
वसिष्ठः प्रययौ शीघ्रं यत्रास्ते सा सरस्वती ।। (८)
तत्र तां प्रणिपत्याथ प्रतिपूज्य च मातरम् ।
उवाच वचनं प्रीत्या मृदुपूर्वं सरस्वतीम् ।। (९)
वसिष्ठः –
त्वं गतिस्सर्वभूतानां त्वं जनित्री यशस्विनी ।
त्वया प्रकाशितं सर्वं सर्वे त्वां पर्युपासते ।। (१०)
सर्वे धर्माः प्रवर्तन्ते त्वत्प्रसादाद्धि मानिनि ।
त्वत्प्रसादात् चतुर्वक्त्रः ससर्ज भुवनत्रयम् ।। (११)
इदानीं प्रेषितस्तेन विधात्राऽहमिहागतः ।
महत्कौतूहलं तस्य तव सन्दर्शनं विधेः ।। (१२)
तत्समीपं मया सार्धमितो गन्तुं त्वमर्हसि ।
त्वया हीनो विधिर्भाति प्रभाहीन इवांशुमान् ।। (१३)
श्रिया हीनो यथा विष्णुः ज्योत्स्ना हीन इवोडुराट् ।
अध्वरो दक्षिणाहीनो यथा भुवनपावनः ।। (१४)
विद्याहीनो द्विजो यद्वत् क्षमाहीनं तपो यथा ।
हिताय सर्वलोकानां मत्प्रियार्थं च भारति ।। (१५)
समीपं ब्रह्मणो गन्तुमितोऽर्हसि नमोऽस्तु ते ।
शृणुष्वैतन्महाभागे त्वदागमनकारणम् ।। (१६)
यन्निमित्तमिहैवाहं प्रेरितस्तेन वेधसा ।
पतिस्ते सुचिरं कालं तपस्तप्त्वा सुदुष्करम् ।। (१७)
इदानीमश्वमेधेन यष्टुकामः श्रियःपतिम् ।
क्षेत्रे सत्यव्रते पुण्ये सिद्धगन्धर्वसेविते ।। (१८)
त्वत्समागमनाकाङ्क्षी ह्यास्ते मुनिगणैस्सह ।
तत्र तत्प्रेरितेनैव पुरी पुण्या मनोहरा ।। (१९)
योजनत्रयविस्तारा निर्मिता विश्वकर्मणा ।
समीपेऽनन्ततीर्थस्य यज्ञशाला च निर्मिता ।। (२०)
संभृतानि समस्तानि यज्ञोपकरणानि च ।
तेषां संभावनायैव देवी गन्तुं त्वमर्हसि ।। (२१)
धर्मपत्न्या त्वया हीनो यज्ञो नैव प्रवर्तते ।
नारदः-
तस्य तद्वचनं श्रुत्वा रोषविष्फारिताधरा ।। (२२)
निवृत्तगमनाकाङ्क्षा वसिष्ठञ्चेदमब्रवीत् ।
सरस्वती –
क्रियतां तेन तत्रैव हयमेधोऽपि वेधसा ।। (२३)
नाहं तत्रागमिष्यामि पुत्र तेनावमानिता ।
नमोऽस्तु ब्रह्मणे तस्मै लोकनाथाय वेधसे ।। (२४)
यत्प्रसादादिहस्थाऽहं धारयिष्यामि जीवितम् ।
मयि क्रौर्यं न मन्येथाः शृणु वृत्तं यथातथम् ।। (२५)
श्रुते यस्मिन् त्वयैवेतद्युक्तमित्येव वक्ष्यसि ।
पुरा ब्रह्मसभामध्ये देवर्षिगणसेविते ।। (२६)
उपविष्टो मया सार्धं ब्रह्मा त्रिजगदीश्वरः ।
अशृणोत् किन्नरीणाञ्च गीतं श्रुतिसुखावहम् ।। (२७)
तस्मिन्काले समाजग्मुः मुनयस्तत्र केचन ।
मद्भक्ताश्च श्रियो भक्ताः विवदन्तः परस्परम् ।। (२८)
प्रशशंसुश्च केचिन्मां च तत्र केचित् श्रियं तथा ।
सर्वे ते परिपप्रच्छुर्मुनयस्सदसि स्थितान् ।। (२९)
मुनीन्देवांश्च मध्यस्थान् मन्यमानाश्च तत्त्वतः ।
वयमत्रागता युष्मान् पृष्टुकामा यथातथम् ।। (३०)
का श्रेष्ठा श्रीसरस्वत्योः एतन्नः कथ्यतामिति ।
त आसाञ्चक्रिरे तूष्णीं मुनयश्च दिवौकसः ।। (३१)
वीक्षमाणास्तु मामेव वरार्हासन-संस्थिताम् ।
तैरपृष्टस्तदा चासीत् स्वयमेव पितामहः ।। (३२)
सन्दिहानांस्तु तान् सर्वान् आहूय मम सन्निधौ ।
ब्रह्मा –
का श्रिया स्पर्धते लोके विष्णुवक्षःस्थलस्थया ।। (३३)
ईशाना सर्वलोकानां विष्णुपत्नी यशस्विनी ।
ममापि सर्वलोकानामन्येषां साऽधिदैवतम् ।। (३४)
अतो लक्ष्मीसमा नास्ति भाविता न च योषिताम् ।
तदंशभूतास्सर्वा हि स्त्रियो याश्च परावराः ।। (३५)
विष्णोरंशांश्च लेशाश्च पुरुषाश्च परावराः ।
सरस्वती-
ततोऽहं तद्वचश्श्रुत्वा वीडितास्स्त्रीस्वभावतः ।। (३६)
विनिगृह्यैव तां व्रीडामिदमप्रार्थयं पतिम् ।
मम श्रैष्ठ्यं नदीभ्यो वा प्रसीद भुवनेश्वर ।। (३७)
त्वत्प्रसादात्ततः श्रेष्ठां सर्वे संभावयन्तु माम् ।
इति संप्रार्थितो ब्रह्मा मामनाद्रुत्य मत्पतिः।। (३८)
मुनीनाञ्च ऋषीणाञ्च मद्भक्तानाञ्च सन्निधौ ।
श्रेष्ठां सर्वनदीनाञ्च गङ्गां विष्णुपदोद्भवाम् ।। (३९)
मन्यमानो मयि क्रुद्धो मामुवाच पुनर्वचः ।
विष्णुपादोदकसमं न भूतं न भविष्यति ।। (४०)
तस्मान्न लभ्यते श्रैष्ठ्यमन्यत्संप्रार्थ्यतामिति ।
ततोऽहमिव सङ्क्रुद्धा समुत्थाय वरासनात् ।। (४१)
अन्तर्धानगता देशमिमं प्राप्तास्मि मामकम् ।
ममैवांशसमुद्भता नदीयं लोकविश्रुता ।। (४२)
सरस्वतीति विख्याता शुभा पुण्यजलाश्रया ।
अत्रैव निवसिष्यामि सततं मुनिपुङ्गव ।। (४३)
पुण्यवृक्षसमाकीर्णे पुण्यशैलमनोहरे ।
अत्रैव क्रियतां यज्ञो ब्रह्मणा परमेष्ठिना ।। (४४)
तस्य सर्वात्मना धातुर्यदि मय्यस्त्यनुग्रहः ।
अन्यथा नागमिष्यामि तत्समीपमहं पुनः ।। (४५)
तत्समीपमितो गत्वा वद सर्वं मयेरितम् ।
आगच्छ सह तेनैव तस्यैतद्यदि रोचते ।। (४६)
हिताय सर्वलोकानां प्रवर्तन्ते भवादृशाः ।
नारदः –
इत्युक्तोऽथ वसिष्ठस्तां प्रत्युवाच कृताञ्जलिः ।। (४७)
धातुः प्रियहितं मत्वा स्वयमेव तपोधनः ।
वसिष्ठः –
त्वमेव सर्वं जानासि कस्त्वां देवि प्रशासति ।। (४८)
त्वत्प्रसादेन वै सर्वं जगच्चेतयते सदा ।
तथापि यत्त्वया प्रोक्तमिदानीं मम सन्निधौ ।। (४९)
अत्रैव हयमेधोऽपि विधात्रा क्रियतामिति ।
नैवं भवत्या वक्तव्यं त्वं हि विज्ञानदीपिका ।। (५०)
देशकालविशेषेण फलभेदोऽस्ति कर्मणाम् ।
यत्तु सत्यव्रतक्षेत्रं सर्वकर्मफलप्रदम् ।। (५१)
विष्णोः प्रीतिकरं नित्यं तत्र सन्निहितो हरिः ।
योगिनो मुनयस्सिद्धास्सततं शंसितव्रताः ।। (५२)
तत्रैवोपासते नित्यं भगवन्तं सनातनम् ।
निवसन्ति च ये जाता म्रियन्ते वाऽत्र ये नराः ।। (५३)
न ते यमस्य सदनं यान्ति दुष्कृतिनोऽपि वा ।
नित्यनैमित्तिकाः काम्याः क्रियास्तत्र प्रवर्तिताः ।। (५४)
सहस्रशो विवर्धन्ते देवि तत्क्षेत्रगौरवात् ।
ज्ञानिनोऽज्ञानिनो वापि क्रियावन्तोऽक्रिया अपि ।। (५५)
तत्पदं वैष्णवं यान्ति सत्यक्षेत्रनिवासिनः ।
असमाहितवाक्वित्ताः श्रद्धाभक्तिविवर्जिताः ।। (५६)
डाम्भिकाः पिशुना मूर्खाः विकर्मस्था जडाश्शठाः ।
असंस्कृता दुरात्मानः कर्महीनास्सुहृद्रुहः ।। (५७)
कृतघ्नाः परदोषज्ञाः मातापित्रोरपूजकाः ।
स्वधर्माचाररहिताः परधर्मपरायणाः ।। (५८)
वेदनिन्दापरा ये च ये चान्ये प्रतिलोमकाः ।
एतेऽपि यदि कुर्वन्ति तत्र दानादिकाः क्रियाः ।। (५९)
तेषामपि भवत्येव फलसिद्धिरभीप्सिता ।
अतस्तत्रैव कर्तव्यो विधात्रा सहसा क्रतुः ।। (६०)
तत्र सन्निहितो विष्णुः सदा यज्ञप्रभुर्विभुः ।
अनन्ततीर्थे यस्स्नात्वा विष्णुमाराधयेच्छुचिः ।। (६१)
यज्ञदानतपोहोमैः तस्य विष्णुः प्रसीदति ।
क्षेत्राणि भुवि पुण्यानि सन्त्यनेकानि भामिनि ।। (६२)
तेषां सत्यव्रतक्षेत्रसादृश्यं नैव विद्यते ।
मया चतुर्मुखेनापि गदितुं नैव शक्यते ।। (६३)
सत्यव्रतस्य माहात्म्यं सत्यमेतद् ब्रवीमि ते ।
यानि व्रतानि तत्रैव कृतानि विगुणान्यपि ।। (६४)
तानि सत्यव्रतानि स्युः इति सत्यव्रतं स्मृतम् ।
एकयज्ञेन यज्ञानां सहस्रं यजतेऽब्जभूः ।। (६५)
यदि ते तत्र शीघ्रं त्वं देवि गन्तुमितोऽर्हसि ।
नारदः –
तस्य तद्वचनं श्रुत्वा पुनराह सरस्वती ।। (६६)
निवृत्तगमनाकाङ्क्षा रोषविस्फुरिताधरा ।
नागमिष्याम्यहं तत्र तथा तेनावमानिता ।। (६७)
मया विना महायज्ञो विधात्रा क्रियतां मुने ।
नारदः –
इत्युक्तोऽथ सरस्वत्या वसिष्ठो मुनिपुङ्गवः ।
तां प्रणम्य यथान्यायं ययौ सत्यव्रतं प्रति ।। (६८)
निशम्य तद्वाक्यमथ प्रियेरितं तपोधनोक्तं सरसीरुहासनः ।
चकार यज्ञं विधिवत्तया विना जनार्दनाराधनभोगलालसः ।। (६९)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरिमाहात्म्ये द्वितीयोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये तृतीयोऽध्यायः
भृगुः –
कथं विना सरस्वत्या धर्मपत्न्या महामुने ।
हयमेधं महायज्ञं चकार चतुराननः ।। (१)
नारदः –
सरस्वत्या वचः श्रुत्वा वसिष्ठेन समीरितम् ।
तमूचू ऋषयस्सर्वे ब्रह्माणं लोककारणम् ।। (२)
ऋषयः –
परित्याज्या त्वया भार्या भर्तुर्वचनलङ्घिनी ।
तत्र दोषो न चाऽस्तीति त्वं हि वेत्थ यथातथम् ।। (३)
भगवन् भर्तुराज्ञां या शिरसा नैव धारयेत् ।
तस्यास्त्यागे न दोषस्स्यादिति वेदानुशासनम् ।। (४)
अतिवादकरीं भार्यामसतीमतिकोपनाम् ।
त्यजेद्धर्मस्य रक्षार्थं तथैवाप्रियवादिनीम् ।। (५)
सर्वलक्षणसंयुक्ता पितुर्भर्तुर्व्यतिक्रमम् ।
करोति सा परित्याज्येत्येष धर्मस्सनातनः ।। (६)
शृणुष्व सर्ववाक्यानि सर्वलोकपितामह ।
सरस्वतीपतित्वं हि लोकयात्रैव केवलम् ।। (७)
पतिस्त्वं सर्वलोकानां धाता कर्ता च शाश्वतः ।
अनन्तमव्ययं ब्रह्म त्वामाहुर्वेदवादिनः ।। (८)
निर्णीतमिदमस्माभिः वेदशास्त्राविरोधतः ।
तदेव क्रियतामद्य भगवन् यदि रोचते ।। (९)
नैवागच्छति सा देवी धर्मपत्नी यदि स्वयम् ।
तदंशभूता सावित्री पत्नीत्वे कल्प्यतां तव ।। (१०)
सा सर्वेभ्योऽपि वेदेभ्यस्सारभूता समुद्धृता ।
प्रायश्चित्तं हि सावित्री विहिता सर्वकर्मसु ।। (११)
न सावित्रीसमं लोके पवित्रं पुण्यवर्धनम् ।
अतस्तया सहैवायं कर्तव्यो हि महाक्रतुः ।। (१२)
श्रद्धा तुष्टिः मतिश्चान्यास्तव पत्न्यो भवन्ति याः ।
इत्थं कृतो हि संपूर्णो भविष्यति महाक्रतुः ।। (१३)
नारदः –
इत्युक्तो मुनिभिः ब्रह्मा तथेति प्रीतमानसः ।
सावित्रीं कल्पयामास श्रद्धाद्याश्च यथाक्रमम् ।। (१४)
दीक्षां कृत्वाश्वमेधाय नीत्वा द्वादशवासरान् ।
प्रवर्ग्यादीनि कर्माणि कारयामास पद्मभूः ।। (१५)
प्रवर्ग्योपसदाख्येषु क्रियमाणेषु कर्मसु ।
पृथक्पृथक् मरीच्याद्याः ऋत्विजः पूजितास्तदा ।। (१६)
समागतानां सर्वेषां पूजार्थं चतुराननः ।
ब्राह्मणानां समर्थानां सहस्राणि न्ययोज्ययत् ।। (१७)
सर्वेषामर्हणां चक्रुः यथार्हं ते द्विजोत्तमाः ।
विशेषेण तदा चक्रुः ब्राह्मणास्त्रिदिवौकसाम् ।। (१८)
सुरसंभावनां दृष्ट्वा साभ्यसूयास्सुरद्विषः ।
समेत्य यज्ञशालायां निर्जग्मुः क्रोधमूर्च्छिताः ।। (१९)
मन्त्रयित्वा मिथस्सर्वे मखभङ्गाय वेधसः ।
योद्धुकामास्ततस्तत्र बभूवुस्त्रिदशैस्सह ।। (२०)
सुदुर्द्धर्षा दुरात्मानो महाबलपराक्रमाः ।
अन्योन्यबलसन्दृप्ताः अन्योन्यविजगीषिणः ।। (२१)
ततो विरोचनस्सर्वान् दैतेयानसुरेश्वरान् ।
उवाच वचनं चेत्थमालोक्य मतिमान् वरः ।। (२२)
विरोचनः –
युद्धो नैवात्र कर्तव्यो विबुधैस्सह संप्रति ।
तत्कारणं वो वक्ष्यामि शृणुध्वं वदतो मम ।। (२३)
विष्णुरेवेज्यते तेन विधात्रा दैत्यसूदनः ।
श्रूयतां कारणञ्चान्यद् युद्धस्य विनिवृत्तये ।। (२४)
अनालोच्य कृतं युद्धं करिष्यति विपर्ययम् ।
एतत्तु वैष्णवं क्षेत्रं तत्र सन्निहितो हरिः ।। (२५)
अतस्सर्वात्मनास्माकं बलहानिर्भविष्यति ।
उपायश्चिन्त्यतामन्यो मखभङ्गाय वेधसः ।। (२६)
अनुपायकृतं कर्म फलसिद्धिर्न विन्दति ।
उपायं तत्र वक्ष्यामि येन भङ्गो भवेत् क्रतोः ।। (२७)
कुरुध्वं तत्र सन्नाहं मद्वचो यदि रोचते ।
धर्मपत्न्या सरस्वत्या विनाऽयं यजतेऽब्जभूः ।। (२८)
तथा विघातः कर्तव्यः प्रेर्यतां सा सरस्वती ।
नारदः-
तथेति तद्वचश्श्रुत्वा ते सर्वे विबुधद्विषः ।। (२९)
द्विजरूपं समास्थाय निवृत्ताः कामरूपिणः ।
सरस्वतीं नदीं गत्वा तुष्टुवुस्तत्र भारतीम् ।। (३०)
सा च सद्यस्स्तुतिप्रीता तेषां दृष्टिपथं गता ।
तां दृष्ट्वा पूजयामासुः स्तोत्रैश्च विविधैः पुनः ।। (३१)
स्तोत्रेण सदृशं नास्ति देवतानां प्रसादने ।
नमस्तुभ्यं नमस्तुभ्यं भवशोकविनाशिनी ।। (३२)
त्वमेव सर्वलोकानां गतिरत्यन्तदुर्लभा ।
त्वं शक्तिस्त्वं मतिर्विद्या त्वं सुधा त्वं यशस्विनी ।। (३३)
त्वं सृष्टिस्त्वं विभूतिस्त्वं वषट्कारस्त्वमेव यत् ।
त्वं स्वाहा त्वं हविर्देवी त्वमेव सकलं महत् ।। (३४)
स्थावरं जङ्गमं वापि भूतं भव्यञ्च यज्जगत् ।
त्वत्प्रसादाच्चतुर्वक्त्रः ससर्ज भुवनत्रयम् ।। (३५)
त्वामुपास्य सहस्राक्षः सुराणामीश्वरोऽभवत् ।
यत्त्वया रहितं किञ्चित् तमोभूतं तु तद्भवेत् ।। (३६)
अन्तर्बहिश्च सर्वेषां तमो नूनं त्वमेव हि ।
त्वत्कटाक्ष-प्रतिक्षेप-क्षपिताशेषकल्मषः ।। (३७)
व्याजहार विधिर्वेदान् प्रलयान्तर्हितान्पुनः ।
त्वां स्तोतुं न च शक्तास्स्मो वयमप्यल्पमेधसः ।। (३८)
केवलं कृपया प्राप्ता त्वमस्मदृष्टिगोचरम् ।
ये त्वामुपासते भक्त्या वरदामभयप्रदाम् ।। (३९)
तेषां मनोरथाः पूर्णाः भविष्यन्ति न संशयः ।
नारदः –
संस्तुता ब्राह्मणैरित्थं सुप्रसन्ना सरस्वती ।। (४०)
उवाच सम्यक् ज्ञात्वा तानसुरान् कामरूपिणः ।
प्रसन्नाऽस्मि द्विजश्रेष्ठाः स्तोत्रैः भक्तिपुरस्सरैः ।। (४१)
वरं वृणीध्वं भद्रं वो यदर्थं यूयमागताः ।
अस्मिन्क्षेत्रे तु मद्भक्ता ये मामर्चन्ति मानवाः ।। (४२)
ददामि वाञ्छितं तेषां न वृथा मदुपासनम् ।
नारदः –
इत्युक्तास्ते सरस्वत्या कृतकृत्यास्सुरारयः ।। (४३)
कृताञ्जलिपुटाः स्थित्वा तामूचुरसितेक्षणाम् ।
ब्राह्मणाः –
त्वया दृष्टाः किमन्यन्नः प्रार्थनीयं यशस्विनि ।। (४४)
दर्शनं तव सर्वेषां फलानामुपरि स्थितम् ।
तव सन्दर्शनायैव वयमत्र समागताः ।। (४५)
त्वां दृष्ट्वैव वयं देवि कृतकृत्यास्स्म संप्रति ।
यत्र यत्र च वर्तन्ते ब्राह्मणा वेदपारगाः ।। (४६)
तत्र तत्र च ते देवि न सहन्ते पराभवम् ।
विशेषेण वयं देव्या यशःपरिभवं नवम् ।। (४७)
नैव सोढुं समर्थाः स्म त्वद्भक्त्या वरवर्णिनि ।
यज्ञार्थं वयमाहूता देवाश्च परमर्षयः ।। (४८)
देवि सत्यव्रतक्षेत्रे ब्रह्मणा परमेष्ठिना ।
समागतेषु चास्मासु तत्रैव मुनिभिस्सह ।। (४९)
धर्मपत्नी विहाय त्वां धाता यष्टुं प्रचक्रमे ।
सावित्रीमात्मनः पत्नीं कल्पयित्वा महर्षिभिः ।। (५०)
ऋत्विग्भिः दीक्षितो ब्रह्मा ह्यभीष्टफलसिद्धये ।
तं दृष्ट्वैव वयं क्रुद्धाः प्रतीकार-चिकीर्षवः ।। (५१)
निवेदयितुकामास्ते त्वत्समीपमिहागताः ।
प्रमाणं तत्र कर्तव्यं देवि त्वं यदनन्तरम् ।। (५२)
मखभङ्गस्त्वया कार्य इत्येवं प्रतिभाति नः ।
अपकार-प्रतीकारः सतां सर्वत्र सम्मतः ।। (५३)
अपकारः कृतस्तेन विधात्रा त्वयि मानिनी ।
नारदः –
इत्युक्ता दानवैर्देवी तथेत्याह सरस्वती ।। (५४)
अनुज्ञाता तया देव्या प्रययुस्सुरशत्रवः ।। (५५)
अथ विधिमखभञ्जनाय धातुः वदन-सरोरुहषण्डराजहंसी ।
कृतमतिरतिरं ह सा नदी सा भवितुमधिश्रयदाशु सह्यशैलम् ।। (५६)
इति ब्राह्म्ये पुराणे भृगु नारदसंवादे श्रीहस्तिगिरि माहात्म्ये तृतीयोऽध्यायः ।
अथ श्रीहस्तिगिरिमाहात्म्ये चतुर्थोऽध्यायः
नारदः –
ततस्सा सह्यशैलस्य निर्गत्योत्तरभागतः ।
आस्थायाति महद्वेगं ययौ सत्यव्रतं प्रति ।। (१)
पातालतलपर्यन्तं दारयन्ती वसुन्धराम् ।
धारयन्ती भुवो भागं विनदन्ती महारवा ।। (२)
उत्पतद्भिः पतद्भिश्च कल्लोलैरुपशोभिता ।
घोषेण महता तस्याः संपूर्यत जगत्त्रयम् ।। (३)
प्रेरयामास वेगेन पर्वतान्पुरतः स्थितान् ।
केचिच्छिखरसंरोधात् लेलिहाना त्रिविष्टपम् ।। (४)
कल्लोलभुजविक्षेपा चरन्मीनविलोचना ।
फेनमन्दस्मिता लोलभृङ्गमाला विभूषिता ।। (५)
कलहंसरवालापा धातुचन्दनरञ्जिता ।
नवशैवलकेशान्ता स्मितकल्लोलकर्णिका ।। (६)
तीरवृक्षसमाकीर्णैः कुसुमैः कृतपत्रिका ।
परिपूर्ण-महावर्त-निम्ननाभिमनोरमा ।। (७)
जलपूरापुत-प्रस्था विपुलाद्रिघनस्तनी ।
प्रियस्य वसतिं यान्ती नवयोषिदिवा बभौ ।। (८)
दग्धारण्यस्थलीसङ्गात् कालुष्यं सहसा ययौ ।
दुर्जनानां समायोगात् मानसं योगिनामिव ।। (९)
स्फटिकोपलसंयोगात् प्रससारातिनिर्मला ।
विष्णुभक्तिमिवासाद्य मानसं संयतात्मनः ।। (१०)
क्वचिन्नीलघनश्यामा शारदभ्रसमा क्वचित् ।
क्वचित्सन्ध्याभ्रसदृशा हरितालसमा क्वचित् ।। (११)
शनैः शनैः क्वचिद्याति क्वचिच्छीघ्रतरं ययौ ।
सङ्क्षिप्य च क्वचिद्याति विस्तीर्णा च क्वचित् क्वचित् ।। (१२)
प्रत्यङ्मुखी क्वचिद्याति परावृत्य तथा क्वचित् ।
क्वचित्प्रयाति गम्भीरा क्वचिदाहृत्यसंहृता ।। (१३)
उत्पाट्य पादपान्वेगात् प्रचिक्षेप बहिः क्वचित् ।
क्वचितदुन्मीलितैर्वृक्षैः वनराजिरिवा बभौ ।। (१४)
नगरग्रामदुर्गाणि वनान्युपवनानि च ।
पुरोगतानि सहसा प्लावयामास वेगतः ।। (१५)
इत्थं संक्षोभन्ती सा नगरग्रामवासिनः ।
न दूरतो महावेगात् ययौ सत्यव्रतं प्रति ।। (१६)
इज्यते हयमेधेन विधात्रा यत्र केशवः ।
तत्समीपं समासाद्य ननादोच्चैर्महानदी ।। (१७)
भ्रमद्गिरिवरप्रख्याम् अर्धयोजनविस्तृताम् ।
ददृशुस्तां समायान्ती सत्यव्रतनिवासिनः ।। (१८)
तां दृष्ट्वा भयवित्रस्ताः पौरजानपदास्तदा ।
किमेतदिति संभ्रान्ताः चुक्रुशुर्भयविह्वलाः ।। (१९)
ततः कृत्यमजानन्तो यज्ञवाटं प्रपेदिरे ।
यत्रास्ते विबुधैस्सार्धं भगवानब्जसंभवः ।। (२०)
प्रवदन्ति स्म ते सर्वे भयसन्त्रस्तचेतसः ।
रक्षध्वं विबुधांश्चास्मान् रक्षध्वं चतुरानन ।। (२१)
पश्चिमोदधिरायाति प्लावयन् वसुधातलम् ।
तिरोहिता दिशस्सर्वा नभश्च प्रलये तथा ।। (२२)
अधुना तेन सकलं जगदेकार्णवं कृतम् ।
भयमेतत्समुद्धर्तुं न च शक्ष्यामहे वयम् ।। (२३)
इत्युक्त्वा क्रियमाणेषु प्रवर्गारम्भकर्मसु ।
उपमर्दं विधेश्चक्रुः पौरजानपदास्तदा ।। (२४)
ततस्ते मुनयो देवा ये चान्ये सदसि स्थिताः ।
समुत्थस्तुः भयाविष्टाः किमेतदिति चाब्रुवन् ।। (२५)
ऋत्विजः स्रुक्स्रुवादीनि विसृज्य च पुनः पुनः ।
कर्तव्यता-विमूढाश्च विनिर्जग्मुः ततस्ततः ।। (२६)
गन्तुकामाश्च तेऽप्यासन् देवा देवपुरं प्रति ।
यक्षविद्याधराश्चैव संप्रतस्थुरितस्ततः ।। (२७)
भगवान् प्राह संत्रस्तान्माभैष्टेति पितामहः ।
पप्रच्छुर्मुनयस्सर्वे ब्रह्माणं लोककारणम् ।। (२८)
मुनयः –
कोऽयं जलागमो ब्रह्मन् वसन्तसमयेऽधुना ।
त्वमेव सर्वं जानासि ब्रूहि नो भुवनेश्वर ।। (२९)
नारदः –
ब्राह्मणाश्च तथैवान्ये ये जना भयविह्वलाः ।
परिवार्य सुसंभ्रान्ताः स्तमूचुश्चतुराननम् ।। (३०)
ब्राह्मणाः –
रक्षणीयास्त्वया ब्रह्मन् वयमस्माद्भयादिह ।
त्वं हि कर्तास्य जगतः तवाशक्यं न विद्यते ।। (३१)
नारदः –
इत्युक्तस्तैस्तदा ब्रह्मा यजमानो जनार्दनम् ।
विषण्णवदनो भूत्वा चिन्तयामास पद्मभूः ।। (३२)
ततो ध्यात्वा क्षणं सर्वम् अपश्यच्चतुराननः ।
दानवानाञ्च चरितं सरस्वत्यास्समागमम् ।। (३३)
प्रतिषिद्धो मम क्रोधो यजमानस्य तां प्रति ।
इति मत्वा न चुक्रोश धर्मभङ्गभयाद्विधिः ।। (३४)
ज्ञात्वा क्रतुविघातञ्च प्राणिपीडामुपागताम् ।
अनन्यगतिरीशानं केशवं शरणं ययौ ।। (३५)
नारायणं जगद्योनिं प्रणतार्तिहरं हरिम् ।
त्रातारं सर्वभूतानां सर्वभूताभयप्रदम् ।। (३६)
हृत्पुण्डरीकमध्यस्थं जगतः प्रभुमव्ययम् ।
सुहृदं सर्वभूतानां तुष्टाव चतुराननः ।। (३७)
ब्रह्मा –
त्राहि मां पुण्डरीकाक्ष प्रणतं शरणागतम् ।
त्राता कर्ता च भोक्ता च त्वमेव मधुसूदन ।। (३८)
दुःखशोकभयार्तानां गतिरात्यन्तिकी पुरा ।
न च त्वद्भक्तियुक्तानामशुभं विद्यते क्वचित् ।। (३९)
त्वत्पदाम्भोरुहद्वन्द्वप्रवणं च मनो मम ।
अतो मां रक्ष देवेश भयादस्मादुपस्थितात् ।। (४०)
येनेदं जगदखिलं धृतं विधात्रा विश्वं यज्जठरगतं युगान्तकाले ।
यो वेदानवति समेत्य मत्स्यरूपी तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (४१)
यो देवानसृजदनाद्यनन्तरूपो विश्वात्मा विधूततमोरजोभिरीड्यः ।
धत्ते मां कमठवपुर्महीमजस्रं तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (४२)
यः पृथ्वीमसुरभयाद्रसातलस्थाम् उद्धर्तुं खुरनिहतक्षुतासुरौघः ।
वाराहीं तनुमभजत्रयीनिवासः तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (४३)
हैरण्यं कुलिशदृढं पुरा नखाग्रैः वक्षो यस्सपदि निवारयाञ्चकार ।
प्रलादप्रियहितकृन्नृसिंहरूपो तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (४४)
स्वर्लोकस्थितिकरणाय धात्रीं त्रेधा विक्रमितुमयाचता सुरेशम् ।
भूत्वा वामनतनुरीश्वरस्सुराराणां तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (४५)
यः क्षत्रं निशितपरश्वधेन सर्वं छित्वा तत्क्षतजजलेन कर्म पित्र्यम् ।
चक्रे विक्रमविभवैकसंपदीशः तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (४६)
यो लोकत्रयमवनाय चेश्वराणाम् ईशानो दशवदनं रणे निहन्तुम् ।
रामोऽभूद्दाशरथीरुदारवीर्यः तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (४७)
यः पृथ्वीमसुरभयातिभङ्गुरार्ताम् उद्धर्तुं सपदि हलायुधो बभूव ।
कालिन्दी-कर्षणदर्शितात्मवीर्यः तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (४८)
कंसादीन्स्त्रिदशरिपून् अपाचिकीर्षुं यः पृथिव्यामिह यदुनन्दनो बभूव ।
बालार्कद्युतिविलसत्सरोजनेत्रः तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (४९)
पाषण्डान् कलिकलुषीकृतस्वधर्मान् निश्शेषं सपदि निराकरिष्णुरीशः ।
यः कल्कीभवति नितान्तघोररूपः तं देवं शरणमहं गतोऽस्म्यनन्तम् ।। (५०)
त्वां स्तोतुं वरद न चास्म्यहं समर्थः विश्वेशं विधृतजगत्त्रयं महान्तम् ।
कारुण्यादिह परिरक्ष केवलं मे विश्वात्मन् क्रतुवरमेनमब्जनाभ ।। (५१)
इत्थं स्तुतो जगद्धात्रा भगवान् मधुसूदनः ।
इज्यमानोऽश्वमेधेन प्रसन्नोऽभवदच्युतः ।। (५२)
पश्चिमे यज्ञशालायास्समीपे मुनिसत्तम ।
आविर्बभूव भगवान् शङ्खचक्रगदाधरः ।। (५३)
शयानश्शेषपर्यङ्के कुन्देन्दुधवलप्रभे ।
फणारत्नसहस्रां शौनवास्तरणविस्तृते ।। (५६)
नीलजीमूतसङ्काशः पद्मपत्रनिभेक्षणः ।
संस्तूयमानो योगीन्द्रैरभितो भक्तिसंयुतैः ।। (५७)
सेव्यमानो विशालाक्ष्या लक्ष्म्या कमलहस्तया ।
धरण्या च जगद्धर्त्र्या धाता विश्वस्य विश्वभुक् ।। (५८)
तं दृष्ट्वाऽभिप्रणम्याथ तुष्टुवुस्त्रिदिवौकसः ।
वसिष्ठप्रमुखास्सर्वे ऋषयश्च तपोधनाः ।। (५९)
ततस्सरस्वती देवी महावेगादुपागता ।
योजनद्वयमात्रे तु ददर्श पुरुषोत्तमम् ।। (६०)
प्रणम्य सा महाभगा सर्वलोकगुरुं हरिम् ।
चिन्तयामास सहसा सन्निरुद्धमनोरथा ।। (६१)
सरस्वती –
मां निरोद्धुमयं शेते भगवान्भक्तवत्सलः ।
विधातुर्यज्ञरक्षार्थं स्वयमेव ममाग्रतः ।। (६२)
सर्वेषामपि भूतानां गुरुरेषस्सनातनः ।
सर्वभूतान्तरात्मानं न शक्यमतिवर्तितुम् ।। (६३)
नारदः –
इत्थं विचिन्तयन्ती सा तत्समीपं शनैर्ययौ ।
न शशाक ततो गन्तुं निरुद्धा विष्णुसेतुना ।। (६४)
निरुद्धे तु महावेगे विष्णुना प्रभविष्णुना ।
प्रत्यस्रोतोवहा भूयो ववृधे सा सरस्वती ।। (६५)
ततो विकीर्णा बहुधा प्रययौ सागरं प्रति ।
दक्षिणोत्तरभागाच्च पूर्वभागात्ततो हरेः ।। (६६)
विष्णोरुत्तरभागेन प्रययौ सागरं प्रति ।
शुक्तिका कनका सृप्रा वेगा चैव प्रवेगिका ।। (६७)
अञ्जना चण्डवेगेति कीर्तितास्सप्तनामभिः ।
विष्णोः दक्षिणभागे तु प्रययौ सागरं प्रति ।। (६८)
तस्या वेगवतीत्याख्या बभूव भुवनत्रये ।
सन्निरुद्धे जले विष्णोः पश्चिमे योजनद्वये ।। (६९)
प्रागुदक्प्रवणा वेगात् प्रययौ सागरं प्रति ।
तां तु क्षीरनदीं प्राहुः प्रसन्नसलिलोद्वहाम् ।। (७०)
सर्वपापक्षयकरीं सिद्धगन्धर्वसेविताम् ।
इत्थं विकीर्णा बहुधा प्रययौ सागरं प्रति ।। (७१)
शयानस्याग्रतो विष्णोरुभयोरपि पार्श्वयोः ।
ततस्तस्याग्रतो विष्णोर्यत्रोत्तस्थौ सरस्वती ।। (७२)
विशुद्धगात्री तन्वङ्गी योषिद्रूपा यशस्विनी ।
तत्र स्थित्वा जगन्नाथं प्रणिपत्य सरस्वती ।। (७३)
संस्तुत्य विविधैस्स्तोत्रैः स्वयमन्तर्दधे पुनः ।
तत्तीर्थमभवत्पुण्यं महापातकनाशनम् ।। (७४)
शयानस्याग्रतो विष्णोर्यत्रोत्तस्थौ सरस्वती ।
कुण्डतीर्थमिति ख्यातं पावनं केशवप्रियम् ।। (७५)
तत्र कुर्वन्ति ये स्नानं न ते यान्ति पुनर्भवम् ।
इत्थं विष्णोः प्रसादेन यजमानस्य वेधसः ।। (७६)
यज्ञशाला जलोत्पीडा नापीडयदुपागता ।
ततस्तन्महदाश्चर्यं दृष्ट्वा मुनिगणास्तदा ।। (७७)
शशंसु ब्रह्मणे तस्मै ध्यायते मधुसूदनम् ।
प्रशशंसुश्च बहुधा तमेवात्यन्तगौरवात् ।। (७८)
ध्यायन्तमच्युतं भक्त्या रक्षणार्थं महाक्रतोः ।
ऋषयः-
विष्णुभक्तिस्तव ब्रह्मन् प्रत्यक्षफलदायिनी ।। (७९)
जलपूरं निषिद्धं हि यद्विष्णुना त्वद्धितैषिणा ।
विष्णुभक्ता महात्मानः न तेषामस्ति दुर्लभम् ।। (८०)
विष्णुभक्ता विपद्यन्ते न कदापि क्वचित्क्वचित् ।
तत्प्रभावं न जानन्ति नरा मायाविमोहिताः ।। (८१)
इति ब्रुवन्तो मुनयस्तं प्रणेमुः पितामहम् ।
नारदः –
तत् श्रुत्वा कथितं सर्वं विष्णोरद्भुतकर्मणः ।। (८२)
प्रहर्षोत्फुल्लनयनो बभूव चतुराननः ।
समुत्थाय ततो विष्णुं शयानं पद्मसंभवः ।। (८३)
प्रणम्य परिसन्तुष्टः तोषयामास संयतः ।। (८४)
ब्रह्मा –
इत्थं निरोधे हयमेधभङ्गविधान-सन्नद्धमहाजलौघे ।
जनार्दनेनाब्ज-समुद्भवोऽपि प्रचक्रमे कर्तुमथाश्वमेधम् ।। (८५)
इति ब्राह्म्ये पुराणे भृगु–नारद–संवादे श्रीहस्तिगिरि–माहात्म्ये चतुर्थोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये पञ्चमोऽध्यायः
भृगुः –
भगवन्नागतां देवीं नदीरूपां सरस्वतीम् ।
किमाहूय विधिश्चक्रे किमनादृत्य पद्मभूः ।। (१)
नारदः –
ततस्समागतां देवीं नदीरूपां सरस्वतीम् ।
दृष्ट्वा मुनिगणास्सर्वे लोकधात्रे व्यजिज्ञिपन् ।। (२)
भगवन्नागता देवी त्वत्समीपमिहागता ।
आहूयतां त्वया सा च स हि धर्मस्सनातनः ।। (३)
नारदः-
इति तद्वचनं श्रुत्वा तानुवाच पितामहः ।
संप्रहृष्टमना भूयस्तद्दर्शनसमुत्सकः ।। (४)
आगता चेत् जितक्रोधा मत्सकाशं मनस्विनी ।
आहूयतामिहेदानीं युष्माभिस्सा सरस्वती ।। (५)
नदीनामाधिपत्यं हि प्रार्थितोऽहं तया पुरा ।
तद्दत्तमधुना तस्यै मयैव ऋषिसत्तमाः ।। (६)
अतो यतध्वमाह्वाने तस्या यूयं तपोधनाः ।
उपायैर्विविधैश्चापि मम प्रियचिकीर्षया ।। (७)
इत्युक्ता मुनयस्तेन तत्र वै संशितव्रताः ।
वेगवत्युत्तरे तीरे स्थित्वा तां परितुष्टुवुः ।। (८)
ततो वेगवतीमध्यात् समुत्तस्थौ सरस्वती ।
योषिद्रूपा सुतन्वङ्गी नीलोत्पलविलोचना ।। (९)
उत्तुङ्गस्तनविस्तीर्ण-विशुद्धां शुकधारिणी ।
विशुद्धगात्रा बिम्बोष्ठी सर्वाभरणभूषिता ।। (१०)
विचित्रवलयाबद्ध-भुजयुग्मा सरस्वती ।
दुग्धोदधि-समुद्भूता यथा लक्ष्मीर्यशस्विनी ।। (११)
तां दृष्ट्वा मुनयो देवीं प्रसन्नमुखपङ्कजाम् ।
प्रहृष्टास्तुष्टुवुर्हृष्टां प्रभामण्डललक्षिताम् ।। (१२)
ततस्तामब्रुवन् देवीं भारतीं सलिलोत्थिताम् ।
ऋषयः –
प्रसीद त्वं जगद्धात्री जगत्पूज्ये सरस्वति ।। (१३)
प्रणिपातः कृतोऽस्माभिरेहि यज्ञालयं प्रति ।
श्रेष्ठ्यं सर्वनदीनाञ्च त्वया प्राप्तं यदृच्छया ।। (१४)
अस्य क्षेत्रस्य संबन्धात् विष्णेः प्रीतिकरस्य हि ।
श्रैष्ठ्यं दत्तं नदीभ्यस्ते विधात्रा च महात्मना ।। (१५)
अतः प्रसीद सुमुखिस्वभावात् त्वं गरीयसी ।
इदं सत्यव्रतं नाम क्षेत्रं पापविनाशनम् ।। (१६)
नित्यं सन्निहितो विष्णुरिह देवस्सनातनः ।
तत्प्रसादादिह स्था त्वं सर्वेभ्योऽपि गरीयसी ।। (१७)
न त्वया सदृशं किञ्चित् पावनं विद्यते परम् ।
विष्णोरायतने यत्तु यत्तु क्षेत्रे च वैष्णवे ।। (१८)
विद्यते सलिलं देवि तत्तीर्थमधिकं स्मृतम् ।
पञ्च तीर्थानि सन्त्यत्र नागाद्रेरभितश्शुभे ।। (१९)
अनन्ततीर्थं ब्राह्मञ्च हेमाम्भोजसरस्तथा ।
अग्नितीर्थं कुशाख्यञ्च कीर्तितानि मनीषिभिः ।। (२०)
मुनिभिस्सिद्धसङ्घैश्च ऋषिभिश्च समन्ततः ।
उदक्पश्चिमदिग्भागे नागाख्यं नागभूभृतः ।। (२१)
प्रागुदीच्यान्तथा ब्राह्मं प्राच्यां हेमाब्जकं सरः ।
आग्नेय्यां दिशि वह्न्याख्यं पश्चिमायां कुशाख्यकम् ।। (२२)
अनन्ते मखवान् स्नात्वा देवेन्द्रत्वमुपागमत् ।
ब्रह्मतीर्थे वसुस्स्नात्वा परं ज्ञानमुपागमत् ।। (२३)
मतङ्गो हेमपद्माख्ये स्नात्वा मुक्तिमुपागमत् ।
वह्न्याख्ये हुतभुक् स्नात्वा विप्रशापाद्विमुक्तवान् ।। (२४)
कुशतीर्थे ऋभुस्स्नात्वा त्रिकालज्ञो बभूव ह ।
एतेषामपि सर्वेषां श्रेष्ठं नागाह्वयं सरः ।। (२५)
तत्समा त्वं च पञ्चानां षष्ठा भव सरस्वति ।
यत्फलं लभते स्नात्वा गङ्गासागरसङ्गमे ।।
त्वयि स्नात्वा लभेन्मर्त्यः तत्सहस्रगुणं फलम् ।। (२६)
यत्तु सत्यव्रताख्येऽस्मिन् क्षेत्रे सकृदपि त्वयि ।
स्नायात्स सर्वपापेभ्यो मुच्यते नात्र संशयः ।। (२७)
इत्युक्ता मुनिभिस्तुष्टा वसिष्ठाद्यैस्सरस्वती ।
नदीमध्यात्समुत्तीर्य यज्ञशालामुपागमत् ।। (२८)
स च सार्धं तया चक्रे हयमेधं पितामहः ।
सावित्र्या च तथान्याभिः श्रद्धाद्याभिश्च संयुतः ।। (२९)
प्रवर्ग्यादीनि कर्माणि ऋत्विजश्चक्रिरे ततः ।
नियुक्ता ब्राह्मणास्सर्वानागतानभ्यपूजयन् ।। (३०)
विविधैरन्नपानैश्च सायं प्रातस्समाहिताः ।
यथार्हं पूजितास्सर्वे देवर्षिमनुजादयः ।। (३१)
वस्त्रैराभरणैः पुष्पैः धनधान्यैश्च पूजिताः ।
ब्राह्मणास्तुष्टुवुर्हृष्टाः यजमानं पितामहम् ।। (३२)
क्रियमाणे तदा यज्ञे विधात्रा मुनिसत्तम ।
क्षुत्पिपासादयो भूम्यामवकाशं न लेभिरे ।। (३३)
ब्राह्मणा वेदपारज्ञाः स्त्रियो वृद्धाश्च बालकाः ।
ऋत्विजोऽपि मुनिश्रेष्ठाप्रहृष्टे नाब्जयोनिना ।। (३४)
गन्धपुष्पादिभिः दिव्यैः पूजिताश्च पृथक् पृथक् ।
तोषितास्सममन्नाद्यैश्च धात्रा तस्मिन्महाक्रतौ ।। (३५)
वस्त्रधान्यप्रदानेषु ह्यधिकारो हि विद्यते ।
अन्नदानप्रदाने तु समास्सर्वे प्रकीर्तिताः ।। (३६)
प्रशशंसुः प्रयोगज्ञाः क्रिया ऋत्विक्प्रचोदिताः ।
ब्राह्मणाश्च तथैवान्यास्तुष्टुवुर्यज्ञदर्शनात् ।। (३७)
दिवसे दिवसे तस्मिन्निष्टका मुनिभिर्वृताः ।
इष्टकाचितयष्षट्च पुरीषचितयस्तथा ।। (३८)
उपसद्दिवसेष्वेव तथाग्निचयनं मुने ।
न न्यूनं नातिरिक्तं च तत्रासीत्कर्म किञ्चन ।। (३९)
प्रवर्ग्यादीनि कर्माणि द्वादशैव दिनानि तैः ।। (४०)
नीत्वान्त्यदिवसे तत्र यूपाश्च स्थापिताः क्रमात् ।
एकविंशतियूपाश्च स्थापिताश्शास्त्रवित्तमैः ।। (४१)
खादिराश्च तथा बिल्वाः पालाशाश्च यथाक्रमम् ।
षड्बिल्वाष्षट् च पालाशाः खादिराश्च तथैव षट् ।। (४२)
राज्जुवातः स्थितो मध्ये ह्यभितो द्वौ तु दारवौ ।
परितः खादिरा बिल्वाः पालाशाश्च यथाक्रमम् ।। (४३)
स्थापिताश्शास्त्रकुशलैः विद्वद्भिर्मुनिपुङ्गव ।
सुसूक्ष्मैश्च सितैर्वस्त्रैः ततस्संवेष्टिताश्च ते ।। (४४)
गन्धमाल्यादिभिश्चैव यूपास्सर्वे ह्यलङ्कृताः ।
कल्पयित्वाऽथ नागाद्रिं तथैवोत्तरवेदिकाम् ।। (४५)
अग्निष्टोमादिकं कर्म कर्तुं समुपचक्रिरे ।
तद्दिने पशवो बद्धाः यूपेष्वेकादशैव ते ।। (४६)
पवित्रं विधिवत्कृत्वा प्रोक्षणाद्यैश्च तांस्ततः ।
पशून् संज्ञापयन्ति स्म श्रपयन्ति स्म तानपि ।। (४७)
जुहुवाञ्चक्रिरे वह्नौ ऋत्विजोऽथ हवींषि च ।
ततस्सर्वेषु पशुषु हूयमानेषु पद्मभूः ।। (४८)
यज्ञं यज्ञेश्वरं विष्णुं वरदं भक्तवत्सलम् ।
अग्निमध्ये स्थितं ध्यात्वा तस्मै सर्वं निवेदयत् ।। (४९)
यज्ञमूर्तिरनन्तात्मा वैकुण्ठः प्रीयतामिति ।
तत्सर्वं प्रतिजग्राह ब्रह्मणा विनिवेदितम् ।। (५०)
सर्वलोकगुरुस्साक्षात् वरदो हव्यकव्यभुक् ।
यः पशुप्येनं मन्त्रेण यद्देवत्योऽभिधीयते ।। (५१)
स पशुस्तेन मन्त्रेण तद्देवत्यो हि हूयते ।
तथापि त्रिदशैः स्वांशो लभ्यते न कदाचन ।। (५२)
गृहीतं विष्णुना सर्वं धातुः प्रियचिकीर्षया ।
ततः प्रकुपिता देवाः सर्वयज्ञांशभागिनः ।। (५३)
उपविष्टा बभूवुस्ते ह्यन्यान्यमुखवीक्षणाः ।
अस्मिन्भागोऽयमस्मभ्यं दीयतेऽस्मत्समक्षतः ।। (५४)
न चायं लभ्यतेऽस्माभिः किमेतदिति चाब्रुवन् ।
ततस्सर्वे समुत्थाय संभ्रान्तास्त्रिदिवौकसः ।। (५५)
यजमानं विधातारं पप्रच्छुरमितौजसम् ।
किमिदं कल्पितोऽस्माकं त्वया लोकपितामह ।। (५६)
यज्ञभागो न चास्माभिः लभ्यते त्वत्समक्षतः ।
ततस्तद्वचनं श्रुत्वा तानुवाच पितामहः ।। (५७)
ईषदुत्स्मयमानस्तु स्मरन्विष्णुं सनातनम् ।
ब्रह्मा –
शृणुध्वं कारणं तत्र वक्ष्येऽहं वै सुरर्षभाः ।। (५८)
मद्दत्तो येन यज्ञांशो न लभ्यं ते दिवौकसः ।
न यष्टव्या मया यूयं कदाचिदपि देवताः ।। (५९)
अन्येनापि भवाम्भोधीं तर्तुकामेन केनचित् ।
हेयस्थितिपरायुष्मान् ये तु स्वर्गादिकाङ्क्षिणः ।। (६०)
लभन्ते चेप्सितान् कामान् भवद्विरुपपादितान् ।
तर्तुकामास्तु ये लोके ह्यसारं भवसागरम् ।। (६१)
ते यजन्ति जगन्नाथं सततं गरुडध्वजम् ।
द्रष्टुकामस्तमेवाहमच्युतं पुष्करेक्षणम् ।। (६२)
अश्वमेधं करिष्यामि तद्दैवत्यमिहाव्ययम् ।
यः पिता सर्वभूतानामाधारः परमेश्वरः ।। (६३)
कर्ता भोक्ता च गोप्ता च वासुदेवस्स इज्यते ।
मया यूयं समाभ्रान्ताः मुनयश्च द्विजास्तथा ।। (६४)
यज्ञसन्दर्शनायैव केवलं त्रिदिवौकसः ।
आगता येऽत्र ते सर्वे तं द्रक्ष्यन्ति जनार्दनम् ।। (६५)
ततस्सर्वे संभ्रान्तां लोकानां हितकाम्यया ।
आदित्यानाञ्च रुद्राणां वसूनामश्विनोस्तथा ।। (६६)
दुर्लभं दर्शनं विष्णोः सिद्धानां योगिनामपि ।
दत्तं युष्मन्मुखाद्भुङ्क्ते हविस्स्वर्गादिभिः हरिः ।। (६७)
मुमुक्षुभिस्तथा भुङ्क्ते स्वयमेव जनार्दनः ।
फलं ददाति सर्वेषां स एव परमः पुमान् ।। (६८)
न चान्यः कर्मणां भोक्ता फलदो वापि कश्चन ।
द्वे रूपे ब्रह्मणस्तस्य विष्णोरमिततेजसः ।। (६९)
स्थूलसूक्ष्मविभेदेन स्वर्गमोक्षफलप्रदे ।
स्थूलं स्वर्गादिफलदं सूक्ष्मं मोक्षफलप्रदम् ।। (७०)
स्थूलं यूयं वयं सर्वे सूक्ष्म श्रीवत्सलक्षणम् ।
द्विविधा विहितास्तेन समस्ता वैदिकाः क्रियाः ।। (७१)
संसारफलदाश्चैव निर्वाणफलदास्तथा ।
युष्मत्कृते कृतं कर्म संसारफलदं भवेत् ।। (७२)
विष्णवे यत्कृतं तस्मै तन्निर्वाणदमिष्यते ।
यज्ञदानादिकं कर्म यत्सकामैः अनुष्ठितम् ।। (७३)
स्वर्गादिफलदं तेषां तद्भवत्यल्पमेधसाम् ।
अकामैस्तु कृतं कर्म तदेव ज्ञानपूर्वकम् ।। (७४)
अपवर्गप्रदं कर्म तेषामेव न संशयः ।
स्वर्गादिफलदा यूयं कर्मणां तत्प्रचोदिताः ।
अपवर्गप्रदो विष्णुः अकामानां स्वयं विभुः ।। (७५)
युष्मानेव यजन्तेऽत्र ये तु स्वर्गादिकाङ्क्षिणः ।
तमेवैकं यजन्तेऽत्र ते तु निर्वाणकाङ्क्षिणः ।। (७६)
देवाः-
एकक्रियाद्विधा ब्रह्मन् कथं स्वर्गापवर्गतः ।
भवेदिति महानेषः संशयो नः प्रजायते ।। (७७)
एतन्नो वद तत्त्वेन संशयो येन नश्यते ।
त्वमेव सर्वलोकानां कारणं परमं मतः ।। (७८)
ब्रह्मा-
संक्षेपेणैव तद्वक्ष्ये शृणुध्वं देवसत्तमाः ।
येन वस्संशयो नश्येदिहैवाज्ञानसंभवः ।। (७९)
विद्याविद्येति विख्याते मोक्षभोगफलप्रदे ।
ज्ञातव्ये द्वे सुरश्रेष्ठाः वेदवेदाङ्गपारगैः ।। (८०)
विद्या-ज्ञानमविद्या तु कर्मकेवलमुच्यते ।
अनयोर्दृश्यते भेदः फलभेदेन सर्वदा ।। (८१)
यत्कर्म विद्यया सार्धं क्रियते तद्विमुक्तिदम् ।
तया विरहितं यत्तु तत्संसारफलप्रदम् ।। (८२)
तत्राविद्या द्विधा भिन्ना गौणमुख्यविभेदतः ।
ऐहिकार्थप्रदा गौणी मुख्या स्वर्गफलप्रदा ।। (८३)
अविद्या विहिता विद्या नैव मोक्षाय कल्प्यते ।
तथैव सहिता सैव निर्वाणफलदायिनी ।। (८४)
अश्वमेधादिकं कर्म विद्यया सह निर्मितम् ।
मोक्षायैव भवेत्सत्यमुक्तमेतन्न संशयः ।। (८५)
ददाति मनसश्शुद्धिमविद्या ज्ञानसंहितम् ।
विशुद्धं तेन विद्यायां वर्तते सुदृढं मतः ।। (८६)
कुतश्शुभाश्रये विष्णौ जायते ज्ञानसन्ततिः ।
तया विमुच्यते देही दुःखसंसारबन्धनात् ।। (८७)
स्वरूपं श्रूयतां तस्याः विद्याया गदतो मम ।
यन्न जानाति मूढात्मा तमोमोहसमावृतः ।। (८८)
सर्वेषामपि भूतानामीश्वरः कारणं हरिः ।
तेन सृष्टं जगत्सर्वं इदं स्थावरजङ्गमम् ।। (८९)
तेन संवर्धिते नित्यं तस्मिन्नेव प्रतिष्ठितम् ।
तस्मिन्नेव लयं याति स एव सकलं जगत् ।। (९०)
लीलेव तस्य जगतां सर्गस्थितिलयक्रियाः ।
न तस्य कारणं कार्यं विद्यते ह्यव्ययात्मनः ।। (९१)
यथा तरङ्गफेनाद्याः जायन्ते महतोऽम्बुधेः ।
तथैव विष्णोर्जायन्ते प्रधानपुरुषादयः ।। (९२)
ऊर्णनाभिर्यथा सृष्ट्वा स्वयं तद्गृह्यते पुनः ।
तथा सृष्ट्वैतदखिलं स्वयं स ग्रसते हरिः ।। (९३)
तेनेदमखिलं व्याप्तं जगत्सदसदात्मकम् ।
अतस्स एव सकलं न तदन्योऽस्ति कश्चन ।। (९४)
विभिन्नमिव पश्यन्ति नरा मायाविमोहिताः ।
स एव सर्वमित्येव संपश्यन्ति मनीषिणः ।। (९५)
ये तु देवादयो भेदाः दृश्यन्ते त्रिदिवौकसः ।
सा माया केवलं विष्णोः न चास्ति परमार्थतः ।। (९६)
स एव सत्यममृतं परं ब्रह्म सनातनम् ।
निर्गुणो निर्मलश्शान्तो निराधारो निरञ्जनः ।। (९७)
अव्ययः पुरुषोऽनादिरन्न्तात्मा शाश्वतश्शिवः ।
प्रधानपुरुषाद्याश्च स एव पुरुषोत्तमः ।। (९८)
तस्माद्विष्णोस्समुद्भूतं न जातन्नैव किञ्चन ।
तस्मात्कर्माणि जातानि फलानि विविधानि च ।। (९९)
स एव कर्ता भोक्ता च क्रिया कार्यञ्च कारणम् ।
स एव हव्यं कव्यञ्च हवनं हव्यवाहनः ।। (१००)
इत्येवमुदितं यत्तु ज्ञानं विद्या हि सुस्मृतम् ।
यो नरस्समाप्नोति नरो मुक्तिमृच्छति ।। (१०१)
तमेवोद्दिश्य यत्कर्म क्रियते वैदिकं नरैः ।
तदेव विद्यासहितं कीर्तितं ब्रह्मवादिभिः ।। (१०२)
अतो यत्क्रियते कर्म युष्मदाराधनात्मकम् ।
स्वर्गादिफलदं तेषां केवलं नात्र संशयः ।। (१०३)
अतस्तं द्रष्टुकामोऽहं वरदं पुरुषोत्तमम् ।
अश्वमेधेन यक्ष्येऽहं क्षेत्रे सत्यव्रतेऽधुना ।। (१०४)
अतो विषादं युष्माभिः न कर्तव्योऽत्र मां प्रति ।
अहङ्कारो महानद्य शाम्यतां वस्समुत्थितः ।। (१०५)
समूलं सर्वपापानां रजोगुणसमुद्भवः ।
अपि हन्याद् गुरूंस्तेन संयुक्तः पुरुषाधमः ।। (१०६)
अज्ञानतिमिरान्धानामनात्मज्ञानिनां नृणाम् ।
अहमेव ममता बुद्धिरहङ्कार इतीष्यते ।। (१०७)
श्लेष्म-विण्मूत्रसंपूर्णे नवद्वारे रजोज्वले ।
अनित्येऽशुचिदुर्गन्धे महाव्याधिसमाश्रये ।। (१०८)
पञ्चभूतमये देहे सर्वदुःखसमाश्रये ।
अहङ्कारविमूढात्मा कुरुते ममतां नरः ।। (१०९)
शरीरार्थञ्च कुरुते पातकानि सहस्रशः ।
दानतश्च स्वयं भुङ्ते याज्याः कर्मनिबन्धनाः ।। (११०)
तस्मात्त्याज्यो ह्यहङ्कारः पापहेतुस्सुदुस्सहः ।
तेनैव दूषितं चित्तं न कदाचित्प्रसीदति ।। (१११)
त्यजत सहजशत्रुं दुःखसन्तापदाव-
ज्वलनजननभूमिं यूयमद्याभिमानम् ।
सपदि भवति युष्मत्क्रोधलोभाभ्यसूया-
मदमदनभयानां संप्रणाशः क्षणेन ।। (११२)
इति ब्राह्मपुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये पञ्चमोऽध्यायः ।
अथ श्रीहस्तिगिरिमाहात्म्ये षष्ठोऽध्यायः
नारदः –
एवमुक्तास्तु ते धात्रा प्रपन्नास्त्रिदिवौकसः ।
तमूचुर्लोकधातारं अहङ्कारजिगीषवः ।। (१)
देवाः –
दुस्तरोऽयमहङ्कारो यस्त्वया परिकीर्तितः ।
येन शक्यं परित्यक्तुं तन्नो ब्रूहि पितामह ।। (२)
ब्रह्मा –
गुणत्रयमयी माया जनित्री विश्वभाविनी ।
प्रधानमिति यामाहुः साङ्ख्य-योग-विचक्षणाः ।। (३)
महदाख्याऽभवत्तस्या बुद्धिस्तु त्रिगुणात्मिका ।
सत्त्वं रजस्तम इति त्रिगुणास्संप्रकीर्तिताः ।। (४)
अहङ्कारसमुद्भूतो बुद्धेर्भूतादिसंज्ञिकः ।
जाताः तस्मादहङ्कारात् पञ्चतन्मात्रसंज्ञिकाः ।। (५)
शब्दस्स्पर्शो रसो रूपं गन्ध इत्येव पञ्च च ।
एतैर्व्याप्तानि भूतानि चराणि स्थावराणि च ।। (६)
पृथिव्यापस्तथा तेजो वायुराकाश एव च ।
तन्मात्रेभ्यस्समुद्भूताः पञ्चैते सुरसत्तमाः ।। (७)
एकादशेन्द्रियाण्यस्मादहङ्काराच्च जज्ञिरे ।
वैकारिकात्तैजसिकात् त्रैगुण्याद्बुद्धिसंभवः ।। (८)
घ्राणं जिह्वा तथा चक्षुः त्वक् श्रोत्रमिति पञ्च च ।
बुद्धीन्द्रियाणि भूतानां ग्राहकाणि शरीरिणाम् ।। (९)
उपस्थः पाणिपादौ च पायुर्वागिति पञ्च च ।
कर्मेन्द्रियाणि चैतेषां आहुरेकादशम्मनः ।। (१०)
चतुर्विंशतिधा भिन्ना प्रकृतिस्तु यथाक्रमम् ।
तदात्मकमिदं सर्वं देवतिर्यङ्नरात्मकम् ।। (११)
पुरुषो नाम निर्द्वन्द्वः निष्कलो निष्परिग्रहः ।
अदृश्योऽतीन्द्रियो व्यापी निर्गुणः पञ्चविंशकः ।। (१२)
बध्यतेऽनीशयानीशः प्रसुप्त इव मायया ।
न शक्नोति बहिर्गन्तुं यूपे बद्धः पशुर्यथा ।। (१३)
जन्ममृत्युजरादुःखभयव्याधिभिराकुलः ।
आत्मानं नैव जानाति गुणमायासमावृतः ।। (१४)
ज्ञानस्वरूपो निर्दोषो निर्द्वन्द्वो निष्परिग्रहः ।
नैव स्त्री न पुमान्नैव षण्डश्चिन्मात्रसंज्ञिकः ।। (१५)
तया तिरोहितज्ञानस्वरूपो जन्यतेऽन्यथा ।
अचेतनमनित्यञ्च प्राकृतं दुःखभाजनम् ।। (१६)
तत्संबन्धसमुद्भूतैः इच्छाद्वेषादिभिर्युतः ।
कलेबर-परित्राणपरस्तदनुरूपतः ।। (१७)
पुण्यपापात्मकं कर्म कुरुते गतचेतनः ।
आध्यात्मिकादिकं दुःखमनुभुङ्क्ते ऽवशो वशी ।। (१८)
प्रीत्यप्रीतिविषादांश्च कलेबर-समुद्भवान् ।
अहङ्कारविमूढात्मा पश्यत्यात्मगुणानिव ।। (१९)
परिभ्रमति तद्देहे तोषणे परितोषितः ।
तद्भोगायैव कुरुते परहिंसामहर्निशम् ।। (२०)
इत्थं संसारदुःखेऽस्मिन् मायया परिवेष्टितः ।
परिभ्रमन्नरो दुःखान्निष्कृतिं नाधिगच्छति ।। (२१)
निबद्धः क्लेशपाशेन परिभ्रमति मोहितः ।
लूतातन्तुवितानेन वेष्टितो मशको यथा ।। (२२)
पशु-पुत्र-गृहाराम-क्षेत्र-बन्धु-सुहृत्सु च ।
ममत्वाकुलचित्तोऽसौ नववृत्तिमुपाश्रितः ।। (२३)
गच्छस्तिष्ठन् स्वपन्भुञ्जन् बुद्ध्याध्यायन्नासीन एव च ।
व्याकुलो देहयात्रासु वर्तते पशुवन्नरः ।। (२४)
धनवान्निर्धनो वापि पण्डितो जड एव च ।
शोकचिन्ताविमूढात्मा न देही लभते सुखम् ।। (२५)
यत्सुखं लभते देही शब्दस्पर्शादिसंभवम् ।
दुःखायैव तदेव स्यात् इति नास्त्यत्र संशयः ।। (२६)
स्वभावस्त्रिविधो ज्ञेयो नियतस्सर्वदेहिनाम् ।
सात्विको राजसश्चैव तामसश्चेति सर्वथा ।। (२७)
तत्प्रकारांश्च वक्ष्यामि शृणुध्वं वस्सुरर्षभाः ।
यद् ज्ञात्वा न पुनर्देही वर्तते दुःखसागरे ।। (२८)
ज्ञान-विज्ञान-सन्तोष-श्रद्धास्तिक्य-समन्विताः ।
सदाचाररताश्शान्ताः जायन्ते सात्विका भुवि ।। (२९)
राग-द्वेष-भय-क्रोध-शोक-नास्तिक्य-संयुताः ।
अहङ्कारबलोद्भिक्ताः जायन्ते राजसास्तथा ।। (३०)
अधर्मसहिता मूर्खाः निरीहा वेदनिन्दकाः ।
प्रमादाज्ञानमोहान्धाः जायन्ते तामसा नराः ।। (३१)
सात्विका मोक्षमार्गस्थाः राजसा भोगलालसाः ।
उभयन्नैव जानन्ति तामसा मोहसंवृताः ।। (३२)
सात्त्विकस्सत्त्वसंपन्नो निष्कामो विगतस्पृहः ।
अपाणिपाद-चपलश्शुचिर्नियतमानसः ।। (३३)
ज्ञानयोगपरो मौनी शीलाचारसमन्वितः ।
स्वाध्यायशीलो धर्मात्मा शान्तोदान्तस्समाहितः ।। (३४)
उत्पत्तिं सर्वभूतानां प्रलयं च यथास्थितम् ।
यथावदभिजानाति सत्यवादी मिताशनः ।। (३५)
समस्सर्वेषु भूतेषु लोभडम्भविवर्जितः ।
वर्णाश्रमाचाररतो वीतरागो विमत्सरः ।। (३६)
आत्मानं सर्वभूतेषु पश्यत्येकत्वमास्थितम् ।
अद्रोही सर्वभूतानां हितकृत्सत्यसङ्गरः ।। (३७)
अभेदेनात्मनो नित्यं परमात्मानमच्युतम् ।
हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् ।। (३८)
अनन्ययाजी सततं यजते पुरुषोत्तमम् ।
तमेव सर्वयज्ञानां भोक्तारमजमव्ययम् ।। (३९)
यथावदभिजानाति ज्ञानसंशुद्धमानसः ।
स्वधर्मैश्शास्त्रविहितैर्भक्तिश्रद्धासमन्वितः ।। (४०)
सर्वदेवमयं विष्णुं यजते पुरुषोत्तमम् ।
सततं चिन्तयन्विष्णुं सर्वाधारमनामयम् ।। (४१)
जपहोमादिभिः नित्यं नयत्यन्तसंयुतः ।
एक एव परो विष्णुरनन्तात्मा जगद्गुरुः ।। (४२)
तन्मायैवेदमखिलमिति पश्यत्यनन्यधीः ।
इत्थं नीत्वा नरः कालं सात्विकस्सुदृढव्रतः ।। (४३)
सूर्यद्वारेण देहान्ते याति तद्वैष्णवं पदम् ।
विष्णुभक्ता यतात्मानः कामक्रोधविवर्जिताः ।
यद्गत्वा न निवर्तन्ते याति तद्वैष्णवं पदम् ।। (४४)
राजसः कर्मनिरतः त्रिवर्गफललालसः ।
अहङ्कारपरीतात्मा स्वधर्मव्यापकस्सदा ।। (४५)
यक्षगन्धर्वरक्षांसि भूतप्रेतनरोरगान् ।
यजन्ते सततं रागात् नियतस्सुदृढव्रतः ।। (४६)
डम्भार्थं यजते यज्ञैः ख्यातिशीलस्समुत्सकः ।
भोक्तारं सर्वयज्ञानां नैव जानाति केशवम् ।। (४७)
स्वर्गार्थं यजते यज्ञान् रक्षार्थं भुवनस्य वा ।
नैव जानाति रागान्धः कर्मणां शाश्वतं फलम् ।। (४८)
मदान्धो धनदुर्मानी स्वात्मसम्भावनापरः ।
युष्माभिर्पूजितैर्दत्तान्युपभुङ्क्ते फलानि च ।। (४९)
पितृदेवमनुष्याणामृषीणाञ्च समर्चने ।
वैषम्यं नैव जानाति सर्वत्र समदर्शिनः ।। (५०)
वासुदेवेन सर्वेषां साम्यं पश्यति दुर्मतिः ।
अतो न विष्णुमेवैकं यजते पुरुषोत्तमम् ।। (५१)
इत्थं क्रियापरो लोके वर्तमानस्तु राजसः ।
भूम्यादिमार्गतश्चान्ते पुण्यान् लोकानवाप्नुयात् ।। (५२)
यमलोकञ्च पुण्यान्ते याति पापानुसारतः ।
नारकीं यातनां भुङ्क्ते जायते च पुनःपुनः ।। (५३)
यद्यत्पृथिव्यामुद्भूतं तत्तद्भवति दुःखितः ।
ततश्च सर्वभूतानामन्तत्वमुपगच्छति ।। (५४)
ततः पशुमनुष्याद्यैः पर्यायेणोपभुज्यते ।
उपभुक्तोऽन्नरूपेण रेतस्त्वमुपगच्छति ।। (५५)
जायते च पुनर्गर्भे पुमान् स्त्रीषण्ड एव वा ।
सर्वत्र दुर्लभं जन्म मानुषन्देहिनस्सुराः ।। (५६)
अतस्तल्लभते देही पुण्यकृत्पापसंक्षये ।
जातश्च कुरुते कर्म पुण्यपापात्मकं पुनः ।। (५७)
तत्फलान्युपभुङ्क्ते च ततो लोकान्तरं गतः ।
इत्थं प्रवर्तमानेऽस्मिन् राजसो दुःखसागरे ।। (५८)
कदाचिदपि संसारान्निष्कृतिं नाधिगच्छति ।
तामसो मोहसंयुक्तो जडः पशुसमो वृतः ।। (५९)
हैतुको निरनुक्रोशः शौचाचारविवर्जितः ।
देहत्राणपरो मूढः शिश्नोदरपरायणः ।। (६०)
अन्नपानादिभोगेन कृतकृत्यमतिश्शठः ।
विषयानेव सततं प्रवदत्यतिदुर्मतिः ।। (६१)
वृथा जल्परतो नित्यं वैदिकांश्च विनिन्दति ।
जरामरणदुःखैश्च पर्यायेणातिपद्यते ।। (६२)
गर्भस्थो लभते दुःखं जायमानस्सुदुस्सहः ।
अन्त्यकाले महाक्लेशमनुभुङ्क्ते पुनःपुनः ।। (६३)
न तच्छक्यं मया वक्तुं दुःखमुत्क्रान्तिकालजम् ।
निरुद्धश्वासविश्लिष्टगात्रसन्धिः स्फुरद्वपुः ।। (६४)
शुष्ककण्ठोष्ठवदनो पूर्णनेत्रो महाव्यथः ।
स्मरन्पुत्रकलत्रादीन् तद्वियोगात्सुदुःखितः ।। (६५)
एते कथं भविष्यन्तीत्यतीव ममताकुलः ।
यमस्य किङ्करैरुग्रैः शूलमुद्गरपाणिभिः ।
घातितः कर्मबन्धेषु मुह्यमानः पुनः पुनः ।। (६६)
विधून्वन् पाणिपादांश्च विवशः पाशसंयुतः ।
पाशेन महता युक्तो निर्गच्छति शरीरतः ।। (६७)
अन्धकारे महाघोरे शिलाकण्टकसंयुते ।
मार्गे निम्नोनते दुर्गे कृष्यमाणः इतस्ततः ।। (६८)
क्षुत्पिपासादिभिर्दुःखैः पीडितोऽत्यन्तदुःसहैः ।
सिंहव्याघ्रमृगव्यालैः भक्ष्यमाणो भयङ्करैः ।। (६९)
त्यज्यन्मनो विरूपाक्षैर्गिस्थैः यमकिङ्करैः ।
नेत्रे समुद्धरिष्यन्ति क्रव्यादास्तस्य देहिनः ।। (७०)
याभ्यामतिथयो गेहे क्षुधार्तार्न परिवीक्षिताः ।
पाटयन्ति च वज्रेण तस्य वक्त्रं पथि स्थिताः ।। (७१)
प्रत्याख्याताः पुरा येन भिक्षवो गृहमागताः ।
नाराचैरग्निसन्तप्तैः क्षोधयिष्यन्ति विलोचने ।। (७२)
परदाराः परस्वञ्च याभ्यामेवाभिवीक्षिताः ।
सालावृकाश्च दंशन्ति सुतीक्ष्णरशना पथि ।। (७३)
पोषितानि परद्रव्यैः यानि गात्राणि देहिनः ।
पादौ बध्वास्य पाशेन कर्षयन्ति पथि स्थिताः ।। (७४)
याभ्यां विमानिता विप्राः गुरवः पशवस्तथा ।
इत्थं मार्गे बहून् केशाननुभूय सुदुस्सहान् ।। (७५)
यमस्य सदनं गत्वा तं पश्यन्त्यतिभीषणम् ।
यातनाः कर्मनिरताः नारका यमचोदिताः ।। (७६)
अनुभुङ्क्ते दृढैर्गात्रैः निजकर्माण्यनुस्मरन् ।
नारकानि सुदुःखानि न शक्यं गदितुं मया ।। (७७)
सर्वेभ्यो दुस्सहं दुःखं यमस्य मुखदर्शनम् ।
छेदयन्ति च शस्त्रौघैः दहयन्ति पुनःक्वचित् ।। (७८)
छित्वा छित्वा कुठारेण क्षिपन्ति क्षारकर्दमे ।
प्रक्षिपन्ति समुद्दीप्ते महाज्वालाकुले तथा ।। (७९)
उत्क्षिप्य खड्गधारासु पातयन्ति पुनः पुनः ।
बध्वा दास्यन्ति सिंहेभ्यो व्याघ्रेभ्यश्चातिनिघृणाः ।। (८०)
क्वाथयन्ति च मूषायां तैलान्तर्देहिनं पुनः ।
उच्चान्निपात्य शूलाग्रादुद्धरिष्यन्ति किङ्कराः ।। (८१)
विशंस्यते च शस्त्रेण शस्त्रिभिः परिकुंरिताः ।
दंशन्ति जन्तवस्सूक्ष्माः क्षुत्पिपासादिदुःखिताः ।। (८२)
एवं बहुविधैः दुःखैः निजकर्मनिबन्धनैः ।
श्रान्तस्तस्माद्विनिर्गत्य पुनर्गर्भं प्रयाति च ।। (८३)
अण्डजं स्वेदजं वापि दारुजं वोद्भिजं तथा ।
मृदुगात्रो दृढप्रज्ञो गर्भस्थो वर्तते तदा ।। (८४)
क्लेशाद् गर्भसमुद्भूताद् गर्भस्थोंऽभुजते पशुः ।
तमोदुःखेन महता जायते योनिसङ्कटात् ।। (८५)
चण्डालः पुल्कसो वापि शूद्रो वा दुःखमोहितः ।
देवद्विजगुरूणाञ्च हैतुको दूषकोऽशुचिः ।। (८६)
नास्तिको भिन्नमर्यादः पापकृत्पापच्छन्नधीः ।
मूर्खः क्षुब्धोति दुर्मानी कामक्रोधवशं गतः ।। (८७)
बह्वाशी कुत्सितानाशी विरूपः कुलपांसनः ।
अस्नातभोजी निर्लज्जो ब्रह्मस्वहरणे रतः ।। (८८)
एवं नीत्वा वृथा जीवी वर्षाणि सुबहूनि च ।
ततो लोकान्तरं गत्वा जायते च पुनर्यथा ।। (८९)
इत्थं संसारचक्रेऽस्मिन् वर्तमानस्य देहिनः ।
कदाचिदपि संसारात् निस्तृतिर्न भविष्यति ।। (९०)
एवं गुणविभेदेन विभिन्ना देहिनस्सुराः ।
कर्माणि च विभिन्नानि भिन्नाश्च गतयस्तथा ।। (९१)
सात्विकाः कीर्तिता येऽत्र मोक्षमार्गपरायणाः ।
ते सर्वे निरहङ्काराः निर्ममा वीतमत्सराः ।। (९२)
राजसानान्तु सर्वस्वमहङ्कार उदाहृतः ।
तामसानाञ्च भवति तमसा संवृतो हि सः ।। (९३)
सर्वानर्थकरो मूलोऽयमहङ्कारोऽभिधीयते ।
तेन मूढा न विन्दन्ति निर्गुणं देहिनस्सुराः ।। (९४)
अचेतनमनित्यञ्च दुःखालयमशाश्वतम् ।
देहमेवैनमात्मानं मन्यते स्मयदूषिताः ।। (९५)
न गतिर्विद्यते तेषां कदाचिदपि मुक्तिदा ।
अतस्त्याज्यो ह्यहङ्कारो दुःखान्निपतितीर्षुभिः ।। (९६)
अहङ्कारं परित्यज्य स्वस्थान्तःकरणो वशी ।
समर्चयति यो विष्णुं स याति परमां गतिम् ।। (९७)
अतो यूयमहङ्कारं विसृज्य यतमानसाः ।
अनसूयापराश्शान्ताः क्रोधलोभविवर्जिताः ।। (९८)
क्रियमाणां हरेः पूजां वैदिकीमाश्वमेधिकाम् ।
दृष्ट्वा मया च सन्तुष्टिं व्रजध्वं त्रिदिवौकसः ।। (९९)
नारदः –
अथोपदिष्टं वचनं निशम्य पितामहेनाब्जसमुद्भवेन ।
व्यपेतदोषास्त्रिदिवौकसोऽपि विनिर्गताहङ्कृतयो बभूवुः ।।
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरिमाहात्म्ये षष्ठोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये सप्तमोऽध्यायः
नारदः –
ततस्तेषु प्रशान्तेषु मुनयस्संशितव्रताः ।
प्रातस्सवनशेषन्तु चक्रिरे मुनिसत्तमाः ।। (१)
माध्यन्दिनञ्च सवनं तृतीयसवनं तथा ।
स्नाह्निकं ध्यानिकं कर्मकर्तुमारेभिरे ततः ।। (२)
अश्वं बध्वा तु यूपे तु तं समालाभ्य मन्त्रतः ।
विशस्याश्वं सुसंस्कृत्य होमार्थं चक्रिरे हविः ।। (३)
वपाहोमार्थमश्वस्य लोहितं सुशृतं कृतम् ।
निरुप्तानि तथान्यानि हवींषि सुशृतानि च ।। (४)
ऋत्विक्प्रचोदितान्यस्मिन् अन्यैश्च मुनिपुङ्गवैः ।
ऋग्यजुस्सामघोषस्तु समुत्तस्थौ महाध्वनिः ।। (५)
सर्वेभ्यो वेदघोषेभ्यः समघोषो महानभूत् ।
अन्वघोषयदत्यर्थं तेन ब्रह्माण्डमण्डलम् ।। (६)
तेनैव वेदघोषेण सर्वे रक्षःपिशाचकाः ।
त्रैलोक्यान्तर्गताः स्थानात् विनिर्जग्मुस्ततस्ततः ।। (७)
मनुष्याणाञ्च सर्वेषां पश्यतां त्रिदिवौकसाम् ।
आसीन्मनोहरो धातुरश्वमेधविधिस्तदा ।। (८)
ततो वसिष्ठो धर्मात्मा वह्निध्ये धूमके ।
मन्त्रेण जुहुवांचक्रे वपां परमपावनाम् ।। (९)
यजमानश्च तां भक्त्या पद्मयोनिः पितामहः ।
तस्मै निवेदयामास विष्णवे परमात्मने ।। (१०)
सर्वलोकेश्वरो देवः प्रणतार्तिहरो हरिः ।
अनया वपया साक्षात् गुरुर्मे प्रीयतामिति ।। (११)
ततोऽग्निमध्ये वरदं दध्यौ सरसिजासनः ।
अञ्जलिं प्रयतो बध्वा निमीलितविलोचनः ।। (१२)
मनांसि सुप्रसन्नानि सर्वेषामभवत्तदा ।
प्रदक्षिणार्चिर्जज्वाल वह्निरुत्तरवेदिकः ।। (१३)
हविर्भुजो महानासीत् पावनस्सार्वलौकिकः ।
तमोमोदं समाघ्राय मोदन्ति स्म दिवौकसः ।। (१४)
सुप्रसन्नमभूद्व्योम मानसं योगिनो यथा ।
प्रसन्नाश्च दिशस्सर्वा विधातरि समाहिते ।। (१५)
ववौ सर्वसुखस्पर्शः स्पर्शकल्हारशीतलः ।
दिव्यगन्धवहो वायुः विधातरि समाहिते ।। (१६)
श्रीवरदराज–प्रादुर्भावघट्टः
तत उत्तरवेद्यन्तर्वह्निमध्यान्महामुने ।
समुद्बभूव सहसा नियुतार्कसमप्रभः ।। (१७)
तेजसा तेन महता विद्योदितमिदं जगत् ।
अन्तर्बहिश्च सर्वेषां नष्टमन्धं तमस्तदा ।। (१८)
तं दृष्ट्वा विस्मितास्सर्वे वह्निमध्यात्समुत्थितम् ।
किमेतदिति संभ्रान्ताः समुत्तस्थुस्सभासदः ।। (१९)
अश्रूयत महान् शब्दो दिव्यः श्रोत्रसुखावहः ।
शुद्धभक्त्योपसंपन्नैः एकान्तिभिरुदीरतः ।। (२०)
प्रसीद देवदेवेश प्रणतार्तिहराच्युत ।
त्वमेव गतिरस्माकं प्रपन्नानां जनार्दन ।। (२१)
वासुदेव नमस्तुभ्यं त्वदावेशितचेतसः ।
करुणापरिपूर्णाभ्यां लोचनाभ्यां विलोकय ।। (२२)
ओतं प्रोतमिदं सर्वं त्वय्येव परमेश्वर ।
तव सौम्यमिदं रूपं धन्या वयमुपास्महे ।। (२३)
इत्थं श्रुतेऽथ संजज्ञे दिव्यदुन्दुभिनिस्वनः ।
ततो मधुरगीतिश्च किन्नरीभिरुदीरिता ।। (२४)
तत उत्तरवेद्यन्तः वह्निमध्यान्महाद्युतिः ।
विमानमतुलं दिव्यं समुत्तस्थौ स्वयं महत् ।। (२५)
तन्मध्ये पुण्डरीकाक्षो वरदो भक्तवत्सलः ।
आविर्बभूव सर्वेषां भूतानामभयप्रदः ।। (२६)
नीलजीमूतसङ्काशः पूर्णचन्द्रनिभाननः ।
करुणापूर्णदृष्टिभ्यां वीक्षमाणश्चतुर्मुखम् ।। (२७)
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
दिव्यकौशेयवसनो दिव्याभरणभूषितः ।। (२८)
ज्वलत्किरीटकेयूर-स्फुरत्कर्णावतंसकः ।
विचित्रहार-केयूर-लसत्कन्धरबन्धनः ।। (२९)
सुकपोलोचितासङ्ग-स्फुरन्मकरकुण्डलः ।
प्रहर्षोत्फुल्लनयनैः स्नेहसंपूर्णमानसैः ।। (३०)
सनन्दनादिभिस्सिद्धैः वीक्ष्यमाणो मुहुर्मुहुः ।
अनन्यमानसैर्नित्यैः अनुरक्तैरनातुरैः ।। (३१)
संस्तूयमानो मुनिभिर्दिव्यलोकनिवासिभिः ।
सेव्यमानः श्रिया पार्थे शातकुंभनिभश्रिया ।। (३२)
नीलजीमूतसङ्काश-स्थिरविद्युत्प्रकाशया ।
धरण्या च सुतन्वङ्ग्यालोकधात्र्या समन्वितः ।। (३३)
अतसीकुसुमश्यामो गात्रलक्ष्म्या महामुने ।
ततो बभूव सहसा पुष्पवृष्टिर्नभस्थलात् ।। (३४)
दिव्यदुन्दुभिनिर्घोषस्ताळकाहळसंयुतः ।
तत उत्तरवेद्यन्तः प्रभामण्डलमण्डितम् ।। (३५)
पश्चिमाभिमुखं विष्णुं ददृशुस्ते दिवौकसः ।
तं दृष्ट्वा विस्मितास्सर्वे कृताञ्जलिपुटास्सुराः ।। (३६)
सहस्रादित्यसङ्काशे विमाने गिरिमूर्धनि ।
तिष्ठन्तं हविरश्नन्तं ददृशुस्ते दिवौकसः ।। (३७)
प्रणेमुर्नम इत्येवं वदन्तो वरदं तदा ।
भास्वन्तं वेदिमध्यस्थं वरदं त्रिदिवौकसः ।
संभ्रान्तास्तुष्टुवुर्हृष्टाः पश्यन्तस्तन्मुखांबुजम् ।। (३८)
देवाः –
प्रसीद देवदेवेश प्रधानपुरुषोत्तम ।
वरदं सर्वभूतानां त्वां प्रपन्नास्स्म माधव ।। (३९)
विश्वेश्वरं विश्वसृजं विश्वरूपमनीश्वरम् ।
परात्परतरं विष्णुं सर्वकारणकारणम् ।। (४०)
निर्गुणं निर्मलं शान्तं निरवद्यं निरञ्जनम् ।
निष्कलं निष्क्रियं शुद्धं निरपेक्षं निरामयम् ।। (४१)
निरनिष्टमनाधारं लोकाधारं धराधरम् ।
अचिन्त्यमक्षयं विष्णुं त्वां प्रपन्नास्स्म माधव ।। (४२)
अनन्यशरणा नाथं मत्वा व्याकुलचेतसः ।
त्वामेव शरणं प्राप्ताः रक्षास्मान्मधुसूदन ।। (४३)
त्वत्तो जातमिदं सर्वं त्वय्येव स्थितमच्युत ।
त्वय्येव लयमभ्येति त्वमेव सकलं जगत् ।। (४४)
त्वमव्ययः परः शास्ता परिणामविवर्जितः ।
ईशानस्सर्वभूतानां पुरुषः परमोऽव्ययः ।। (४५)
तव मायैव निर्वाते नियंते वादिकल्पना ।
त्वमेव कारणं ब्रह्म शाश्वतञ्चामरेश्वर ।। (४६)
परमात्मन् न जानन्ति त्वामज्ञानमोहिताः ।
त्वमेव चिन्त्यसे नित्यं प्रध्वस्ताशेषकिल्बिषैः ।। (४७)
तव लीलैव सकलं जगत् स्थावरजङ्गमम् ।
नामरूपविकल्पाभ्यां न चापि परमार्थतः ।। (४८)
त्राता भोक्ता तथा ज्ञाता ज्ञानं ज्ञेयमनामयम् ।
अविकल्पविकल्पाढ्यं त्वमेवाखिलमव्ययम् ।। (४९)
अनादिनिधना वेदाः शास्त्राणि विविधानि च ।
इतिहासपुराणानि त्वमेव पुरुषोत्तम ।। (५०)
आब्रह्मस्तम्भपर्यन्तं विश्वं विश्वेश्वराव्यय ।
त्वयैव विधृतं तस्मात् त्वत्समो नास्ति कश्चन ।। (५१)
त्वमादिरन्तो मध्यञ्च जगतोऽस्य जनार्दन ।
त्वयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। (५२)
तारितास्स्म वयं नाथ ब्रह्मणा परमेष्ठिना ।
अभूमिर्योगिचिन्तानां यस्त्वमस्माभिरीक्षितः ।। (५३)
अहो महानुभावोऽयमब्जयोनिः पितामहः ।
त्वमागतोऽसि यद्दत्तहविर्ग्रहणतत्परः ।। (५४)
यज्ञ-दान-तपो-होम-ध्यानाध्ययनकर्मभिः ।
दुर्लभं दर्शनं यस्य स त्वमस्माभिरीक्षितः ।। (५५)
प्रसीद पुण्डरीकाक्ष प्रसीद पुरुषोत्तम ।
प्रसीद देवदेवेश रक्षास्मान् शरणागतान् ।। (५६)
नारदः –
एवं संस्तुत्य विबुधाः वैकुण्ठं पुरतः स्थितम् ।
तत्पदाम्भोरुहद्वन्द्वं शरणं प्रतिपेदिरे ।। (५७)
इत्थमादौ कृतयुगे जम्बूद्वीपे तु दक्षिणे ।
भागे भारतवर्षे तु क्षेत्रे सत्यव्रताख्यये ।। (५८)
चैत्रमासे सिते पक्षे चतुर्दश्यां तथा मुने ।
शोभने हस्तनक्षत्रे रविवारसमन्विते ।। (५९)
वपाहोमे प्रवृत्ते तु प्रातस्सवनकालिके ।
धातुरुत्तरवेद्यन्तः प्रादुरासीज्जनार्दनः ।। (६०)
अथ सुरमनुजादयस्तदानीं वरदमुदीक्ष्य वितानवेदिमध्ये ।
रजनिकरमिवोदयाद्रिशृङ्गे कुमुदवनानि यथा ययुः प्रमोदम् ।। (६१)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरिमाहात्म्ये सप्तमोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये अष्टमोऽध्यायः
नारदः –
ततः प्रदीप्तानलवेदिमध्यगं निजप्रभामण्डलमण्डितं हरिम् ।
सुनिर्मलं निर्मलचित्तगोचरं ददर्श संहृष्टमनाश्चतुर्मुखः ।। (१)
निशाकरार्कप्रभशङ्खचक्रिणं ज्वलत्सहस्रांशुसमानशेखरम् ।
समुल्लसद्रत्नविचित्रकुण्डलं सुरेन्द्रचापप्रतिमध्रुवं विभुम् ।। (२)
महेन्द्रनीलाभललाटनिश्चल-प्रदीप्त-संपत्तिलकोज्वलाननम् ।
उदारसौभाग्य सितावतंसिक ललाटलोलालक राजिराजितम् ।। (३)
समुल्लसत्काञ्चनबाहुबन्धनं समुल्लसत्काञ्चननूपुरद्वयम् ।
कुशेशयावेशितपादपङ्कजं विभक्तगुल्फं त्रसुरस्थिरे स्थितम् ।। (४)
अविश्लथन्मांसल गूढजानुकं क्रमानुवृत्तोरुयुगोचिताम्बरम् ।
प्रसन्नवक्त्रं स्मितशोभिताधरं विशाललोलाम्बुजलोचनद्वयम् ।। (५)
उदारसौभाग्यकपोलकुण्डलं सुनासिकाकल्पलतं महाभुजम् ।
ततस्समुद्वीक्ष्य पुरःस्थितं हरिं वितानवेद्यामतसीसुमप्रभम् ।। (६)
सतत्क्षणोद्भूतसुखार्णवाप्लुतो ययौ तदाकृत्यविवेकमूढताम् ।
उपाविशन्मौनमुपागतः क्षणं जगौ ननर्ताक्रमतानकं पुनः ।। (७)
रुद्रोऽथ भूयस्तमुदैक्षतक्षणं ततः परं क्ष्वेलनतत्परोऽभवत् ।
प्रदक्षिणं प्रेत्य तदाऽप्रदक्षिणं प्रयाति रुद्रं पुनरेति सन्निधिम् ।। (८)
करेण पस्पर्श ममार्ज तद्वपुः प्रियेण गाढं परिषस्वजे स्वयम् ।
पुनःपरिक्रम्य ननाम पादयोः बहुप्रलापप्रवणोऽभवत्क्षणम् ।। (९)
इति प्रहर्षाद्विवशश्चतुर्मुखः चकार चेष्टा विविधास्तदग्रतः ।
ततस्समाधाय मनः प्रसन्नधीः जगद्गुरुं प्रेक्ष्य पुरःस्थितं हरिम् ।। (१०)
प्रणम्य बद्धाञ्जलिरानताननो जगद्गुरुं स्तोतुमथारभत्पुनः ।। (११)
ब्रह्मा –
प्रसीद देव प्रणतार्तिनाशन प्रभावितोऽहं भवताव्ययात्मना ।
अगोचरस्सर्वमनोगिरामपि त्वमेव मद्दृष्टिपथं गतोऽसि यत् ।। (१२)
अनादिमध्यान्तमजं पदं परं निरञ्जनं निर्गुणमक्षयं शिवम् ।
तदव्ययं ज्योतिरचिन्त्यमक्षरं त्वमेव विज्ञानमयं जनार्दन ।। (१३)
अणोरणीयां समनन्तमव्ययं महान्तमव्यक्तमनन्तमीश्वरम् ।
परात्परं कारणकारणं हरिं निराश्रयं त्वां प्रवदन्ति सूरयः ।। (१४)
यथाग्नितप्ताः पयसस्स्फुलिङ्गकाः सहस्रशोऽन्ये परितस्सरन्ति हि ।
तथैव जीवाश्च भवत्सकाशतो विनिर्गतास्सत्वरजस्तमोवृताः ।। (१५)
यज्ञान्तकृत् यज्ञपतिहुताशनो हविविधिः कर्तृफलानि कर्मणाम् ।
विकारहीनो जगदेककारणं त्वमेव विज्ञानमयं गुणाधिकम् ।। (१६)
असच्च सच्चान्यमपारमक्षयं निरस्तदुःखञ्च विशोकमन्वहम् ।
असूक्ष्ममस्थूलमदीर्घमव्ययं निराश्रयं त्वां वरदं समाश्रये ।। (१७)
मेघोज्झितान्यद्रि-गुहान्तरेषु यथा समुद्रं सलिलानि यान्ति ।
तथैव सर्वत्र हुतानि यानि विशन्ति तान्येव भवन्तमीशम् ।। (१८)
त्वन्मायया विश्वमिदं विमूढं न चैव जानाति निजस्वरूपम् ।
त्वय्येव जातं त्वयि वृद्धिमेति त्वय्येव विश्वं विलयं प्रयाति ।। (१९)
स्थूञ्च सूक्ष्मं परमपारभूतं त्वमेव विज्ञानमयञ्च धाम ।
परावरेशं निहितं गुहायां निरत्ययं निष्कलमामनन्ति ।। (२०)
त्वमीश्वरस्सर्वगुरुर्गरीयान् न तिर्यगूर्ध्वञ्च तथाप्यधस्तात् ।
न चक्षुषा पश्यति कश्चन त्वां हृदिस्थमव्यक्तमनन्तरूपम् ।। (२१)
यदव्ययं साङ्ख्यविदो वदन्ति सुनिर्मलं केवलमप्रमेयम् ।
विकारहीनं प्रकृतेः परञ्च त्वमेव विश्वेश्वर विश्वरूप ।। (२२)
अदृश्यमग्राह्यमगोत्रमव्ययं महत्सुसूक्ष्मं त्वमनन्तमीड्यम् ।
परात्परं नित्यमजं शिवश्च तव प्रभावो भुवनातिरिक्तः ।। (२३)
सुरा मनुष्याः पशवश्च वृक्षाः सरीसृपाश्शैलसरित्समुद्राः ।
पिशाच-यक्षग्रह-तारकाश्च रक्षांसि भूतानि सुरद्रुमाश्च ।। (२४)
पयोमुचो मेघवराश्च विद्युन्नभोमरुद्वह्निजलानि पृथ्वी ।
एतानि सर्वाणि हरे त्वदीयसङ्कल्पमात्रेण समुद्भवन्ति ।। (२५)
सुरेश वैश्वानर कालरक्षो जलेशवायूत्तरदिक्पतीशाः ।
दिशा गजाश्शेषकुलाचलाश्च तवैव रूपाणि न च त्वदन्ये ।। (२६)
बहूनि दुःखानि सुरेशजन्म जरामयोत्क्रान्ति समुद्भवानि ।
अतीत्य निर्वाणमवाप्तुकामाः त्वामेव धीराश्शरणं प्रयान्ति ।। (२७)
अनेकजन्मार्जितपापराशेर्न जातु चित्तं त्वयि सन्निधत्ते ।
विकृष्यमाणं विषयैरसङ्ख्यैश्चरत्यजस्रं परमप्रहृष्टम् ।। (२८)
निरुद्धनिश्वासकफादियोगात् सुदुष्प्रधर्षस्त्वमनीशयोगैः ।
तथापि कारुण्यतयैव नाथ चिराय मे दृष्टिपथं गतोऽसि ।। (२९)
यान्येव कर्माणि करोति जन्तुः तान्येव पापानि भवन्ति तस्य ।
न निष्क्रियः कश्चिदिहास्ति लोके स त्वां कथं पश्यति लोकनाथ ।। (३०)
भवार्णवे दुःखमहाजलौघे भयातिशोकाभिनिवेशपूर्णे ।
प्रियासुहत्प्रेमरसातिगूढे निमग्नमभ्युद्धर मामनन्त ।। (३१)
क्षेत्राणि मित्राणि धनानि नाथ पुत्राश्च दाराः पशवो गृहाणि ।
त्वत्पादपद्मप्रवणात्मवृत्तेः भवन्ति सर्वे प्रतिकूलरूपाः ।। (३२)
अज्ञानमोहान्धतमोऽभिभूताः न त्वां प्रपश्यन्ति सदा हृदिस्थम् ।
पुनःपुनर्जन्मजराभयेषु सुखेषु दुःखेषु परिप्लवन्ति ।। (३३)
भवाब्धिमध्ये विनिमज्जतान्तु परागतिर्देहभृतां त्वमेव ।
पिता च माता च सुहृच्च बन्धुः त्वमेव सर्वं मम देवदेव ।। (३४)
भक्तिं प्रसीद भगवन् त्वयि निर्मलां मे नित्यं त्वदीयपदपद्मनिषेवणाञ्च ।
त्वद्दर्शनैकरसतां च दृशोरजस्रं त्वन्नामकीर्तनपटुत्वमनन्तवाचाम् ।। (३५)
मायाविमोहितमतिर्भगवन्न जाने कृत्यं कृतं च करुणाञ्च हिताहिते च ।
त्वत्पादपद्मकरुणापहृतात्ममोहः त्वामात्मनोऽगतिरहं शरणं गतोऽ स्मि ।। (३६)
पापानि पूर्वचरितानि बहूनि यानि शक्यन्न तानि गदितुं युगकोटिभिर्मे ।
वेत्थ त्वमेव सकलं जगदन्तरात्मन् तस्मात्त्वदङ्घ्रियुगलं शरणं गतोऽस्मि ।। (३७)
त्वन्नाभीरुहपुण्डरीकजनितस्सर्गादिकाले ह्यहं
त्वां स्तोतुं कथमीश्वरोऽस्मि जगतः पूर्वं परं कारणम् ।
तेजो वीर्यबलावबोधजलधि ज्योतिः परस्मात्परं
त्वामेवं शरणं गतोऽस्मि कृपया संरक्ष मां केवलम् ।। (३८)
नारदः –
इत्युक्त्वा शिरसा पपात सहसा तत्पादपद्मद्वये
प्रीतः पूर्णमनोरथश्च पुरुषं ध्यायन्पुरोऽवस्थितम् ।
वैकुण्ठं वरदं वरेण्यमनघं भक्तप्रियं पद्मभूः
निर्दोषं निरनिष्टमच्युतमजं नीरभ्रपिञ्छप्रभम् ।। (३९)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि माहात्म्ये अष्टमोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये नवमोऽध्यायः
नारदः –
ततः प्रसन्नो भगवान् पुण्डीकायतेक्षणः ।
श्लक्ष्णगम्भीरनिर्घोषं तमुवाच चतुर्मुखम् ।। (१)
श्रीभगवानुवाच –
प्रसन्नोऽस्मि समुत्तिष्ठ स्तोत्रेण चतुरानन ।
दर्शिता मयि ते भक्तिः अनन्यान्त्यन्तदुर्लभा ।। (२)
मत्कृते सुचिरं कालं त्वया तप्तं महत्तपः ।
अतस्सन्दर्शितं तुभ्यं रूपमेतन्मयाऽव्ययम् ।। (३)
यजिष्टोऽहं त्वया ब्रह्मन् हयमेधेन भक्तितः ।
ततः प्रसन्नेन मया दर्शितं रूपमद्भुतम् ।। (४)
मम सौम्यमिदं रूपं शङ्खचक्रगदाधरम् ।
न देवा न च गन्धर्वा न च पश्यन्ति योगिनः ।। (५)
यज्ञदानतपोहोमैः अदृश्योऽहं कदाचन ।
अनन्ययैव भक्त्या मां पश्यन्ति ब्रह्मवादिनः ।। (६)
अनन्यां मयि ते भक्तिं जानामि कमलोद्भव ।
अतः प्रियतमं विद्धि त्वया दत्तं हविर्मम ।। (७)
आगतोऽस्म्यहमत्रैव त्वदर्थं व्यक्तविग्रहः ।
न केवलं चतुर्वक्त्र तव प्रियचिकीर्षया ।। (८)
यदेतद्भवता दृष्टं विमानमतुलप्रभम् ।
पुण्यकोटीति विख्यातं सर्वपापविनाशनम् ।। (९)
अस्य सन्दर्शनं ब्रह्मन् दुर्लभं योगिनामपि ।
मत्प्रसादादिदं लब्धं भवता हृष्टचेतसा ।। (१०)
पुण्यकोटिविमानान्तः ये मां द्रक्ष्यन्ति मानवाः ।
भ्रूणहत्यादिभिः पापैः मुच्यन्ते नात्र संशयः ।। (११)
हिताय सर्वभूतानामाविर्भूतमिदं महत् ।
विमानं दिव्यमतुलं पुण्यकोटीति विश्रुतम् ।। (१२)
अत्राहं हयमेधेन तोषितो भक्तितस्त्वया ।
अतो विमानमध्येऽस्मिन् दृष्टवानसि मां स्वयम् ।। (१३)
वैदिकीभिः क्रियाभिर्मां ये यजन्ति दृढव्रताः ।
न हि तत्सदृशास्सन्ति मम प्रियचिकीर्षया ।। (१४)
वरं वृणीष्व भद्रं ते वाञ्छितं यस्त्वयानघ ।
तदेव तव दास्यामि ध्रुवं नास्त्यत्र संशयः ।। (१५)
नारदः –
तस्य तद्वचनं श्रुत्वा विष्णोरमिततेजसः ।
प्रणिपत्याञ्जलिं बध्वा तमाह चतुराननः ।। (१६)
ब्रह्मा –
परिपूर्णं मया लब्धं वाञ्छितं त्वत्प्रसादतः ।
न चान्यं नाथ मे लब्धमेतस्मादेव दर्शनात् ।। (१७)
इदं हि परमं रूपं तव दिव्यं सुरेश्वर ।
प्रार्थितं सुचिरं कालं लब्धमेतन्मयाऽधुना ।। (१८)
इदं हि प्रार्थ्यते नित्यं योगिभिर्विजितेन्द्रियैः ।
अनायासेन ते लब्धं त्वत्प्रसादान्मयाऽधुना ।। (१९)
त्वद्रूपं द्रष्टुमृषयो मुनयस्संशितव्रताः ।
ब्रह्माचरं चरन्त्यन्ये सर्वभूतहिते रताः ।। (२०)
त्वां द्रष्टुकामा मुनयः चरन्ति परमं तपः ।
द्रष्टुकामा महायज्ञैः त्वां यजन्ते हि यज्वनः ।। (२१)
प्राणायामान् प्रकुर्वन्ति निराहारा द्विजोत्तमाः ।
तीर्थानि च निषेवन्ते त्वद्दर्शनसमुत्सुकाः ।। (२२)
गन्धपुष्पादिभिर्नित्यं यजन्ते त्वां दृढव्रताः ।
पुत्रमित्रकलत्रेषु निस्स्पृहा योगिनस्सदा ।। (२३)
त्वां यजन्ति जितक्रोधाः निर्द्वन्द्वा निष्परिग्रहाः ।
यज्ञैर्दानैर्जपैर्होमैः तपस्स्वाध्यायसंयमैः ।। (२४)
तव सन्दर्शनायैव देवेन्द्रस्त्वामुपासते ।
तव सौम्यमिदं रूपं दुर्लभं सर्वदेहिनाम् ।। (२५)
त्वत्प्रसादान्मया लब्धं केवलं मधुसूदन ।
सुतप्तं सुचिरं कालं मया त्वद्दर्शनेच्छया ।। (२६)
स्वप्नेष्वपि न दृष्ट यदिह प्रत्यक्षतां गतम् ।
स्फुरत्कमलपत्राक्ष पीतवासश्चतुर्भुज ।। (२७)
श्रीवत्साङ्क महाबाहू सर्वभूतहिते रत ।
न चान्यत्प्रार्थनीयं मे दुर्लभात्तव दर्शनात् ।। (२८)
न ह्यलब्धं मया किञ्चिदधुना मधुसूदन ।
इदन्तु प्रार्थनीयं मे यदि ते मय्यनुग्रहः ।। (२९)
सर्वलोकहितं तात दुर्लभं च जगत्त्रये ।
तव दिव्यमिदं रूपं सर्वभूताभयप्रदम् ।। (३०)
फुल्लेन्दीवरसङ्काशं पीतांबरधरं शिवम् ।
देवतिर्यङ्मनुष्याणां सदा प्रत्यक्षगोचरम् ।। (३१)
अत्र तिष्ठतु देवेश हस्तिशैलस्य मूर्धनि ।
वैकुण्ठे तु यथैव स्याद् यथैव क्षीरसागरे ।। (३२)
तथा सत्यव्रतक्षेत्रे वासस्तेऽत्र भवेदिह ।
हस्तिशैलस्य शिखरे सर्वलोकनमस्कृते ।। (३३)
पुण्यकोटिविमानेऽस्मिन् पश्यन्तु त्वां सदा सुराः ।
चतुर्बाहुमुदाराङ्गं वनमालाविभूषितम् ।। (३४)
वरदं सर्वभूतानां सर्वैश्वर्यसमन्वितम् ।
अत्रैव द्रष्टुकामा ये समागच्छन्ति दूरतः ।। (३५)
सर्वपापविनिर्मुक्ता यान्तु ते परमां पदम् ।
नारदः –
इत्थं संप्रार्थितस्तेन वरदो वेदिमध्यगः ।
प्रसन्नवदनः श्रीमान् इदमाह महामुने ।। (३६)
श्रीभगवान् –
प्रार्थितं यत्त्वया ब्रह्मन् तद्दत्तमधुना मया ।
येन संप्रार्थितोऽत्राहं तस्य तद्भविता ध्रुवम् ।। (३७)
अभिव्यक्तोऽहमत्रैव केवलं त्वत्कृतेऽधुना ।
त्वदाराधनसन्तुष्टः किं प्रदास्यामि सुव्रत ।। (३८)
अत्राहं निवसिष्यामि त्वत्प्रियार्थं पितामह ।
वाञ्छितं सर्वभूतेभ्यो दस्यामि च सुपूजितः ।। (३९)
ये यजन्तेऽत्र मां नित्यं श्रद्धाभक्तिसमन्विताः ।
ते लभन्तेप्सितान् कामान् ते ममैतदनुशासनम् ।। (४०)
यत्र कुत्र वसन्वापि धार्मिकोऽधार्मिकोऽपि वा ।
मां स्मरन्पुण्यकोट्यन्तः सर्वपापैः प्रमुच्यते ।। (४१)
अयनादिषु कालेषु पुण्येषु यतमानसः ।
मा स्मरन्पुण्यकोट्यन्तः स मुक्तस्सर्वकिल्विषैः ।। (४२)
यस्त्रिरात्रमुपोष्यात्र मामर्चयति भक्तितः ।
कृतकृत्यस्तु सहसा ब्रह्महत्या व्यपोहति ।। (४३)
हेमरत्नादिकं धान्यं वस्त्राण्यपि पशूनपि ।
क्षेत्रोद्यानादिकं वापि पत्रपुष्पफलादिकम् ।। (४४)
ददाति श्रद्धया मह्यम् अस्मिन् क्षेत्रे तु मानवः ।
प्रतिगृह्णामि तत्सर्वम् अहमत्यन्तगौरवात् ।। (४५)
तेभ्यो ददाम्यभीष्टानि फलानि च पितामह ।
यस्स्मरेत्प्रातरुत्थाय मम क्षेत्रमिदं नरः ।
पुरीमिमाञ्च स नरो मुच्यते सर्वकिल्बिषैः ।। (४६)
सत्यव्रतमिदं क्षेत्रं सततं यस्तु कीर्तयेत् ।
मम लोकमवाप्नोति न चेह जायते पुनः ।। (४७)
मत्समाराधनायेयं निर्मिता महती पुरी ।
अतस्सर्वपुरीणाञ्च पुण्यश्लोका भविष्यति ।। (४८)
जातो वापि मृतो वापि पापानामतिपापकृत् ।
मम लोकमवाप्नोति न पुनर्भवमृच्छति ।। (४९)
श्वःखरोष्ट्रमृगव्याळपशुपक्षिसरीसृपाः ।
अस्मिन् क्षेत्रे समुत्पन्नाः मद्भक्तिं यान्ति नैष्ठिकीम् ।। (५०)
श्रद्धयाऽश्रद्धया वापि यत्कर्म क्रियतेऽत्र वै ।
तत्सर्वफलदं तस्य न कदाचिद्विनश्यति ।। (५१)
रूपमेति मया व्यक्तं पुराप्यत्रैव तिष्ठति ।
नित्यं सन्निहितो ह्यत्र यथाहं क्षीरसागरे ।। (५२)
अत्रैवार्चयते नित्यं शेषः फणभृतां वरः ।
त्वत्कृते निवसाम्यत्र न मां द्रक्ष्यन्ति मानवाः ।। (५३)
अस्मिन् गिरिवरे पूर्व दिग्गजाः किल धाविताः ।
गन्धपुष्पादिभिर्दिव्यैः भक्ष्यैः मामभ्यपूजयन् ।। (५४)
पुरा वराहरूपेण धरणीयं मयोद्धृता ।
क्षुरैर्निहत्य दैतेयान् पातालतलवासिनः ।। (५५)
तदा मां द्रष्टुकामोऽयमनन्तो लोकधारकः ।
अत्रैव वसुधां भित्वा समुत्तस्थौ रसातलात् ।। (५६)
तदाप्रभृति विख्यातमेतत्पुण्यजलं सरः ।
अनन्तसर इत्येतत्सर्वपापविनाशनम् ।। (५७)
निवसत्यत्र वल्मीके पन्नगेन्द्रो मम प्रियः ।
तदाप्रभृति तीर्थस्य स एवास्याधिदैवतम् ।। (५८)
अनन्तसरसि स्नात्वा मामर्चयति यो नरः ।
स सर्वैः पूज्यते लोके देवगन्धर्वदानवैः ।। (५९)
सत्यव्रतं सत्यफलप्रदमेतत् पितामह ।
पुण्यानामपि सर्वेषां पावनं सिद्धसेवितम् ।। (६०)
इदानीं सन्निधानेन विमानस्यास्य भास्वतः ।
अश्रद्धया कृतं वापि बद्द्धयते कर्म कोटिभिः ।। (६१)
नित्यं सन्निहितोऽत्राहं प्रत्यक्षो नैव कस्यचित् ।
त्वयाहं दृष्टवानत्र प्रत्यक्षेण पितामह ।। (६२)
अभिव्यक्तोऽहमत्रैव हविर्ग्रहणतत्परः ।
त्वत्प्रियार्थं त्वया तस्मात्तारितं भुवनत्रयम् ।। (६३)
देवा मनुष्याः पशवो मद्भक्ता ये पितामह ।
त्वामर्चयन्तु ते सर्वे ममैतदनुशासनम् ।। (६४)
क्रतुशेषं त्विदानीं त्वं यजस्व यतमानसः ।
न मे यज्ञेन सदृशं पूजनं विद्यतेऽब्जज ।। (६५)
देवतिर्यङ्मनुष्याणाम् अहं प्रत्यक्षतां गतः ।
अत्रैव निवसिष्यामि सत्यमेतद्ब्रवीमि ते ।। (६६)
आगताश्चैव ये ब्रह्मन् अश्वमेधदिदृक्षवः ।
मत्प्रियास्ते च संसिद्धिं लभन्तेऽत्र न संशयः ।। (६७)
प्रणतार्तिहरेत्येवं सततं कीर्तयस्व माम् ।
विनश्यन्ति च दुःखानि विवर्धन्ति सुखानि च ।। (६८)
चैत्रे मासे सिते पक्षे चतुर्दश्यामनन्यधीः ।
मामेवाभ्यर्चयात्र त्वं वेदिमध्ये व्यवस्थितम् ।। (६९)
माधवे मासि नक्षत्रे श्रवणे पुण्यवर्धने ।
अनन्तसरसि स्नात्वा ये मां द्रक्ष्यन्ति मानवाः ।। (७०)
सततं मां नमस्यन्तः कथयन्तश्च मत्कथाः ।
जन्मबन्धविनिर्मुक्ताः ते यान्ति परमां गतिम् ।। (७१)
आषाढ-शुक्लद्वादश्याम् अर्चयन्ति च ये नराः ।
चतुरष्टेषु मासानां मत्साम्यं यान्ति ते ध्रुवम् ।। (७२)
एकरात्रं त्रिरात्रं वा सप्तरात्रमथापि वा ।
निवसेद्यस्स सहसा मुच्यते सर्वकिल्बिषैः ।। (७३)
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।
पूजयित्वात्र मामेव मुच्यते महतो भयात् ।। (७४)
नारदः-
इत्युक्त्वा शिरसा ब्रह्मा भक्तिपूतेन चेतसा ।
अर्चयामास देवेश वरदं भक्तवत्सलम् ।। (७५)
पाञ्चरात्रविधिः प्रोक्तः सर्वाम्नायसमन्वितः ।
विधिमोक्षप्रदः शुद्धः शुचिकृत्सर्वदेहिनाम् ।। (७६)
तेन मार्गेण वरदं वेदिमध्ये व्यवस्थितम् ।
राजोपचारैर्विविधैः पूजयामास पद्मभूः ।। (७७)
ततो विज्ञाप्य भूतानामीश्वराय पितामहः ।
उक्थानशेषमखिलं चक्रे सप्तर्षिभिस्सह ।। (७८)
अतिरात्राह्निकं कर्म ततश्चक्रुर्यथाविधि ।
समाहितधियो भूत्वा ऋत्विजः परमपावनाः ।। (७९)
तत्पदाम्बोरुहाधार-ज्वलने च समुज्वले ।
जुह्वायाञ्चक्रिरे सर्वे हवींषि मुनयस्तदा ।। (८०)
त्रिदशा मुनयस्सिद्धा मनुष्याश्च समागताः ।
तद्धविस्सर्वमश्नन्तं वरदं ददृशुस्तदा ।। (८१)
ततस्सन्तुष्टुवुस्सर्वे हविर्गन्धमुखं हरिम् ।
कृताञ्जलिपुटास्थित्वा संपश्यन्तो हरिं मुने ।। (८२)
ज्योतिष्टोमातिरात्रौ च अभिजिद्विश्वजित्तथा ।
अप्तोर्यामश्च विधिवत् निवृत्तास्ते महर्षिभिः ।। (८३)
इत्थं कर्मणि संपूर्य सर्वाणि मुनिसत्तमैः ।
ऋत्विग्भ्यश्च ततो ब्रह्मा समृद्धां दक्षिणां ददौ ।। (८४)
सदस्येभ्यस्तथान्येभ्यो ब्राह्मणेभ्य पितामहः ।
प्रददौ धनधान्यानि वस्त्राण्याभरणानि च ।। (८५)
चतुर्धाकृत्य वसुधां ऋत्विग्भिः प्रददौ क्रमात् ।
गवां शतसहस्राणि नियुतान्ययुतानि च ।। (८६)
ततस्तां ऋत्विजस्सर्वे वसुधाञ्च पशूनपि ।
प्रददुर्देवराजस्य चरणांबुजयोः मुने ।। (८७)
इत्थमाराध्य देवेशं हयमेधेन केशवम् ।
देवर्षिगणसंयुक्तः चक्रेऽश्वभृथमब्जभूः ।। (८८)
ततो देवर्षिभिस्सार्धं कृतकृत्यः पितामहः ।
निर्ययौ यज्ञशालायाः स्नानार्थं ऋषिभिस्सह ।। (८९)
उदग्पश्चिमदिग्भागे वेद्यास्त्रिंशद्धनुर्मिते ।
अनन्तसरसि स्नातुं मनश्चक्रे महामनाः ।। (९०)
प्रसन्नसलिले पुण्ये गम्भीरे पुण्यवर्धने ।
लोलकल्लोलविलसत् काञ्जनाम्बुजकानने ।। (९१)
राजहंससमाकीर्णे मत्तकारण्डवाकुले ।
मत्तषट्पदसन्नाद-निर्मिताशेषकिन्नरे ।। (९२)
महावराहदेवेशं द्रष्टुकामो रसातलात् ।
निर्ययौ यत्र भगवाननन्तः पन्नगेश्वरः ।। (९३)
तीर्थे तस्मिन्महापुण्ये सिद्धसङ्घनिषेविते ।
समाहूतानि सर्वाणि तीर्थानि मुनिभिस्तदा ।। (९४)
तानि सर्वाणि सरसि सङ्गतानि स्वयं तदा ।
उदतिष्ठत्तदा गङ्गा प्रसन्नसलिलोद्वहा ।। (९५)
प्रापूर्यन्त तदा भूयो महानागाह्वयं सरः ।
तां दृष्ट्वा विस्मितास्सर्वे गङ्गां भुवनपावनीम् ।। (९६)
प्रणेमुः प्रीतमनसः प्रशंसन्तः परस्परम् ।
हेमकुम्भात्समादाय गङ्गासलिलमब्बभूः ।। (९७)
अभ्यषिञ्चत्ततो भक्त्या वरदं वेदिमध्यगम् ।
पुनः प्रक्षाल्य सलिलैः तत्पदाम्भोरुहद्वयम् ।। (९८)
ऋत्विग्भ्यश्चाथ देवेभ्यः ऋषिभ्यश्च ततो ददौ ।
ततो नागाह्वयं तीर्थं सर्वतीर्थसमन्वितम् ।। (९९)
पश्यन्तो मुनयस्सर्वे प्रशंसुश्च परस्परम् ।
अत्रिः –
अस्मिन्सरसि यस्स्नात्वा पूजयेद्वरदं हरिम् ।
सर्वपापविनिर्मुक्तः स याति परमं पदम् ।। (१००)
पुलस्त्यः –
अस्मिन्नागाह्वये तीर्थे यः स्नात्वा भक्तिपुरस्सरम् ।
वरदं प्रणमेभक्त्या मुच्यते सर्वपातकैः ।। (१०१)
बृहस्पतिः-
अस्मिन्नागाह्वये तीर्थे यः स्नायाद् अवशोऽपि सः ।
स मुक्तः सर्वपापेभ्यः भविता पुण्यकृद्ध्रुवम् ।। (१०२)
वसिष्ठः –
यस्मिन्नवभृथं स्नानं चकार चतुराननः ।
तस्मिन् सरसि यः स्नायात् स मुक्तस्सर्वकिल्विषैः ।। (१०३)
नारदः –
इत्युक्त्वा मुनयस्सर्वे तस्मिन् सस्नुः यथाविधि ।
विमानं पुण्यकोट्याख्यं वीक्षमाणा महुर्मुहुः ।। (१०४)
पद्मयोनिश्च तैस्सार्धं नागतीर्थे विगाह्य च ।
दध्यौ पद्मपलाशाक्षं पश्चिमाभिमुखं हरिम् ।। (१०५)
कृतकृत्यस्ततो ब्रह्मा प्राप्तसर्वमनोरथः ।
वरदं सर्वभूतानां समाराद्धुं प्रचक्रमे ।। (१०६)
ततो देवमनुष्याद्याः समाहूताश्च ये जनाः ।
विधात्रा समनुज्ञाताः प्रययुस्ते यथागतम् ।। (१०७)
ब्रह्मणश्चरितं सर्वमाविर्भावं तथा हरेः ।
आश्चर्यं प्रययुः प्रीताः प्रशंसन्तः परस्परम् ।। (१०८)
अथ सरसिजसंभवः कृतात्मा सुरवरमौलिविराजिताङ्घियुग्मम् ।
व्यवसितमतिरग्र्य-गन्धपुष्पैः वरदमपूजयदात्मयोनिरीशम् ।। (१०९)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये अश्वमेधावभृथस्नानं नाम नवमोऽध्यायः