|| हस्त्यद्रि सम्बन्धि सन्दोहः ||
|| हस्तिगिरि दर्शनम् Part 3||
HASTHIGIRI DARSANAM Part 3
(सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्)
श्रीः
श्रीमते रामानुजाय नमः
श्रीब्राह्मपुराणान्तर्गतं श्रीहस्तिगिरिमाहात्म्यम् (Continued)
अथ श्रीहस्तिगिरिमाहात्म्ये दशमोऽध्यायः
भृगुः –
वरदं पुण्यकोट्यन्तर्वरदं वेदिमध्यगम् ।
कियन्तं कालमेकाग्र्यः पूजयामास पद्मभूः ।। (१)
नारदः –
यावत् त्रेतायुगप्राप्तिः तावत् ब्रह्माप्यपूजयत् ।
जितेन्द्रियो जितक्रोधो यतवाक्कायमानसः ।। (२)
दिव्यैर्भोगैर्दिवानक्तं स्तुतिभिर्वन्दनैरपि ।
ध्यानैः प्रदक्षिणैः स्तोत्रैस्तोषयामास केशवम् ।। (३)
ततः कृतयुगेऽतीते प्राप्ते त्रेतायुगे हरिः ।
पितामहमुवाचेदं वचनं प्रीतिपूर्वकम् ।। (४)
श्रीभगवानुवाच –
त्वयात्रैव चिरं कालं पूजितोऽहं पितामह ।
अनन्येनैव योगेन दुर्लभेनैव योगिनाम् ।। (५)
अतस्तव प्रसन्नोऽस्मि वृणीष्व वरमीप्सितम् ।
वरदानाय सर्वेषां अत्रैवाहं व्यवस्थितः ।। (६)
ब्रह्मा –
अत्र सर्वं मया लब्धं त्वत्प्रसादात्सुदुर्लभम् ।
न चास्ति प्रार्थनीयं मे कृतार्थोऽस्मि जगद्गुरो ।। (७)
त्वय्येव वर्तते नाथ मञ्चित्तमनियन्त्रितम् ।
किमन्यत्प्रार्थनीयं मे त्वत्पदाम्भोरुहस्मृतेः ।। (८)
त्वत्प्रसादाद् चिरं कालं तपस्तप्तं सुदुष्करम् ।
ततस्ते परमं रूपम् ईदृशं दृष्टवानहम् ।। (९)
प्रार्थनीयमिदं नाथ यदि मय्यस्त्यनुग्रहः ।
अत्रैव त्वत्पदांभोजपरिचर्यां प्रसीद मे ।। (१०)
त्वत्पादकमलादन्यन्नैव वाञ्छति मे मनः ।
त्वद्दर्शनसमाह्लादसदृशं नास्ति किञ्चन ।। (११)
अतोऽत्र निवसिष्यामि त्वत्पादकमलाश्रयः ।
ब्रह्मलोकनिवासो मे त्वया हीनो न रोचते ।। (१२)
इत्युक्त्वा शिरसा ब्रह्मा वन्दयित्वा जनार्दनम् ।
तत्पदांभोरुहद्वन्द्वं प्रतिजग्राह बाहुभिः ।। (१३)
नारदः –
तमुवाच जगन्नाथः पद्मपत्रनिभेक्षणः ।
अनादिर्जगतो हेतुः स्थावरस्य चरस्य च ।। (१४)
श्रीभगवानुवाच –
सर्गस्थितिविनाशाश्च लीलैव जगतो मम ।
न मेऽस्ति कारणं किञ्चित् कार्यं वापि कदाचन ।। (१५)
त्वमेव भूत्वा सर्गादौ सृजामि भुवनान्यहम् ।
चरस्थिरविभागेन प्रविभिन्नान्यनेकशः ।। (१६)
यज्ञयोनिरनन्तात्मा दुर्विज्ञेयस्सनातनः ।
अहमिन्द्रानुजो विष्णुः जातस्तदनुपालने ।। (१७)
अचिन्त्यमहिमा व्यापी दुर्विज्ञेयस्सुरासुरैः ।
रुद्रोऽहं शङ्करो भूत्वा नाशयामि जगत्त्रयम् ।। (१८)
अव्यक्तमविकारश्च भूतेन्द्रियगुणास्तथा ।
वसवोऽग्निर्यमो वायुर्वरुणो धनदस्तथा ।। (१९)
सर्वे देवाश्च गन्धर्वा मनुष्या यक्षकिन्नराः ।
पशवः पक्षिणो वृक्षास्तृणगुल्मलतादयः ।। (२०)
भूतं भव्यं भविष्यच्च सर्वं स्थावरजङ्गमम् ।
सर्वे ममांशसंभूताः मत्तो नान्यं न विद्यते ।। (२१)
वर्णानामाश्रमाणां च कर्ताहं कर्मभेदतः ।
श्रुतिस्मृत्युदितं कर्म कुर्वन्ति मम शासनात् ।। (२२)
न शक्नोति जनः कश्चिन्मदाज्ञामतिवर्तितुम् ।
पातयामि यमो भूत्वा मदाज्ञालङ्घिनो नरान् ।। (२३)
अशास्त्रविहितेनैव मार्गेण गतचेतनः ।
मामर्चयति यो नित्यं स नरः पातकी भवेत् ।। (२४)
मम प्रीतिकरं विद्धि मदाज्ञापरिपालनम् ।
अतिक्रम्य तु यो मूढः मामुपास्ते हतो हि सः ।। (२५)
श्रुतिस्मृत्युदितं कर्म मदाज्ञा तस्य दिष्यते ।
मत्कर्मकरणे वासौ यस्तस्मिन्प्रतितिष्ठति ।। (२६)
करोति प्रतिषिद्धानि धर्मबुद्ध्यापि यो नरः ।
स याति नरकं घोरं परमज्ञानवानपि ।। (२७)
मम प्रियचिकीर्षुस्त्वं यदि पद्मसमुद्भव ।
ब्रह्मलोकमितो गत्वा मदाज्ञां परिपालय ।। (२८)
मत्समीपनिवासस्ते मद्भक्तस्य तु दुर्लभः ।
धीरो भव मम प्रीत्यै जगतां सर्वकर्मसु ।। (२९)
मद्भक्तो मन्मना भूत्वा मामेव सततं स्मर ।
ब्रह्मलोके स्वयं स्थित्वा मदाज्ञां परिपालय ।। (३०)
भवता न व्यथा ब्रह्मन्यावदाभूतसंभवम् ।
अत्राहं निवसिष्यामि प्रलयेष्वपि सर्वदा ।। (३१)
ग्रसित्वा तजगत्सर्वं तदा मां प्राप्स्यसि ध्रुवम् ।
यस्त्वार्चयति संयुक्तो नियतात्मा दृढव्रतः ।। (३२)
देवतिर्यधनुष्येषु मद्भक्तस्स भविष्यति ।
जगतस्सर्वकरणे ज्ञापितोऽसि मया पुरा ।।
तत्रैव तव कर्तव्या स्थितिर्मदनुशासनात् ।। (३३)
चैत्रमासि सिते पक्षे चतुर्दश्यामिहागतः ।
पौर्णमास्यामनन्यात्मा मामुपास्य दिवानिशम् ।। (३४)
विशेषेण मया दत्तं तदेवं मम पूजनम् ।
समागम्येह लोकेऽस्मिन् तद्दिने पूजयस्व माम् ।। (३५)
इयं काञ्चीति विख्याता पुरी त्वत्कीर्तिवर्धनी ।
मम प्रीतिकरी पुण्या न कदाचिद्विनश्यति ।। (३६)
पुण्यकोटीति विख्याते विमानेऽस्मिन्सनातने ।
मामनुस्मर युक्तात्मा सततं पद्मसंभव ।। (३७)
समतीते कृतयुगे त्रेताख्यस्समुपागतः ।
इतो गत्वा स्वकं लोकं प्रशाधि भुवनत्रयम् ।। (३८)
गजेन्द्रो नाम धर्मात्मा मद्भक्तो भुवि वर्तते ।
तस्मै दत्तं मया पूर्वं त्रेतायां मम पूजनम् ।। (३९)
त्रेतायुगे व्यतीते तु द्वापरेऽथ समागते ।
अर्चयिष्यति मामत्र बृहस्पतिरुपागतः ।। (४०)
ततः कलियुगे प्राप्ते शेषः फणभृतां वरः ।
अर्चयिष्यति मामत्र यावदाभूतसंप्लवम् ।। (४१)
गच्छन्तिष्ठन्स्वपन्भुञ्जन् मामेवानुस्मरन्निह ।
परमं सर्वमन्त्राणां मन्त्रमेतज्जपस्व मे ।। (४२)
ओङ्कारमग्रतः कृत्वा द्व्यक्षरं नम इत्यथ ।
प्रणतार्तिहरायेति पदमेनं समुच्चरन् ।। (४३)
कीर्तयेद्यन्विमं मन्त्रं मामेवानुस्मरन्सदा ।
मामेवैष्यति देहान्ते स मुक्तस्सर्वकिल्बिषैः ।। (४४)
तत्समीपं न गच्छन्ति पिशाचग्रहराक्षसाः ।
चोरव्याघ्रादयस्तद्वत् तथा व्याधिभयादयः ।। (४५)
विमानमेतत्पश्यन्ति यत्र स्थित्वा नरा मम ।
न तत्र भूतरक्षांसि वर्तन्ते मम शासनात् ।। (४६)
आवयोः परमं गुह्यं संवादं पुण्यवर्धनम् ।
कीर्तयेत् शृणुयाद्वापि मद्भक्तस्स भविष्यति ।। (४७)
नारदः –
इत्युक्तस्तु तदा ब्रह्मा विष्णुना प्रभविष्णुना ।
गमनाय मतिं चक्रे तदाज्ञामनुपालयन् ।। (४८)
प्रदक्षिणं परिक्रम्य प्रणिपत्य पुनःपुनः ।
प्रेक्षमाणो मुखं विष्णोः निर्जगाम शनैश्शनैः ।। (४९)
यावत्सत्यव्रतक्षेत्रे न्यवसत्कमलासनः ।
तावत्काञ्चीमुपागम्य पुरीं परमभास्वराम् ।। (५०)
न्यवसत्प्राणिनस्सर्वे ब्रह्मलोकनिवासिनः ।
समर्चयन्तो देवेशं वरदं भक्तवत्सलम् ।। (५१)
तैस्सर्वैस्सहितो ब्रह्मा कृतकृत्यस्तदा मुने ।
प्रणम्य शिरसा देवं प्रययौ स्वालयं प्रति ।। (५२)
अथ सुरमुनिसिद्धैस्सेव्यमानः कृतात्मा विगलितभयशोकक्रोधमोहाभिलाषः ।
नवमृदुकलकण्ठैः किन्नरेगीयमानः सरसिजवनतिसूतिः धाम भूयः प्रपेदे ।। (५३)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीस्तिगिरिमाहात्म्ये हिरण्यगर्भप्रयाणं नाम दशमोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये एकादशोऽध्यायः
भृगुः –
तस्मिन् कृतयुगेऽतीते गते सरसिजासने ।
त्रेतायान्तु गजेन्द्रेण कथं तत्रार्चितो हरिः ।। (१)
नारदः –
गते तस्मिन् सुरज्येष्ठे क्षेत्रे सत्यव्रते हरिः ।
अतिष्ठद्वरदो नित्यैर्दिव्यैः परिजनैर्वृतः ।। (२)
गरुडः पक्षिराट् शेषः विष्वक्सेनादयस्तदा ।
सुदर्शनश्च भगवान् चक्ररूपो महाद्युतिः ।। (३)
पाञ्चजन्यो जलाधीशः शङ्खरूपो महाध्वनिः ।
कौमोदकीचतच्छक्तिः सर्वदुष्टभयङ्करी ।। (४)
पद्माख्यो वसुधाधीशः महानंबुजरूपधृक् ।
शार्ङ्गाख्यो गगनाधीशः धनुर्वेदधरो महान् ।। (५)
कौस्तुभो धिषणाधीशो मणिरूपधरश्शिवः ।
सर्वेषामीश्वरी लक्ष्मीः पद्महस्ता यशस्विनी ।। (६)
वसुन्धरा च चार्वङ्गी नीलोत्पलदलेक्षणा ।
विष्वक्सेनो महातेजा गणानामीश्वरोऽव्ययः ।। (७)
तदधीनास्तथैवान्ये परिवरास्सहस्रशः ।
स्वाधिकारेषु निरता देवराजं निषेविरे ।। (८)
महद्वनमभूद् दुर्गं तदा काञ्ची महापुरी ।
सिंहव्याघ्रमृगाकीर्ण-घोरविन्ध्याटवी यथा ।। (९)
महागह्वरदुर्धर्षे सर्वर्तुकुसुमोचिते ।
कोकिला-लापललिते मत्तषड्पदनादिने ।। (१०)
मत्तमातङ्गसङ्घुष्ट-पद्मकानन-शोभिते ।
हंससारससन्नादे किन्नरीगणनादिते ।। (११)
सिद्ध-चारण-गन्धर्व-यक्षविद्याधरान्विते ।
चन्दनागरु-पुन्नाग-चूत-चम्पक-संवृते ।। (१२)
स्निग्धगंभीरमधुर-मयूरस्वननादिते ।
विशुद्धसलिलोपेतदीर्घिकाशतशोभिते ।। (१३)
नदीपुलिनविश्रान्त-राजहंसोपशोभिते ।
तरुणार्कद्युतिस्मेर-पङ्कजामोदसंवृते ।। (१४)
स्फुरत्पाटलकल्हारकैरवोत्पलकानने ।
स्मेर-केसर-सौगन्धि-निर्जितामरनन्दने ।। (१५)
विकसत्केतकीसङ्ग-मन्दमारुत-सौरभे ।
कदाचिल्लीलया सार्धं लक्ष्म्या लक्ष्मीपतिर्मुने ।। (१६)
सञ्चचार वने तस्मिन् सर्वं तु कुसुमोचिते ।
क्रीडन्वै स नदीतीरे पुण्यवृक्षसमाश्रिते ।। (१७)
प्रविवेश वनं घोरं लक्ष्म्या सह जनार्दनः ।
धर्माभितप्तां वसुधामसिञ्चञ्जलदास्तदा ।। (१८)
तथैव धर्ममक्लिन्ना न भवेत्सा वनस्थली ।
यत्र यत्र चरेत्तस्मिन् वने लक्ष्मीसहायवान् ।। (१९)
तत्र तत्र चचारोच्चैः पक्षौ विस्तीर्य पक्षिराट् ।
चरत्यखिललोकेश-लीलयैव तदा वने ।। (२०)
चरितार्थाभवन् सर्वे तं दृष्ट्वा वनचारिणः ।
विचित्रकुसुमाकीर्णां प्रसन्नसलिलाशयाम् ।। (२१)
स्फुरत्कमलकल्हार-चरन्मीनकुलाकुलाम् ।
घनशैवालसञ्च्छन्नां महाह्रदसमाकुलाम् ।। (२२)
नदीं वेगवतीं दृष्ट्वा प्रहर्षमतुलं ययौ ।
चरत्यखिललोकेशे वीक्षमाणे वनस्थलीम् ।। (२३)
ससृजुः पुष्पवर्षाणि स्थले वन्यस्थलीरुहाः ।
रराज तरुनिर्मुक्तैः पुष्पैश्च सुमनोहरैः ।। (२४)
सत्यव्रतमही सर्वा नभस्ताराङ्कितं यथा ।
सहत्कल्हारसंभेद-संभृतामोदशीतलः ।। (२५)
पवनः पूगकान्तार-सङ्गमन्दगतिर्ववौ ।
न ततापातिघर्मांशुः अंशुमानपि तद्वने ।। (२६)
पूर्णबिंबश्चकाशेन्दुः वने चरति माधवे ।
वासन्तिकानि शरदि वसन्ते शारदानि च ।।
समृद्धान्यभवं तत्र ननृतुश्च मुदान्विताः ।। (२७)
लक्ष्मीं लक्ष्मीपतिं दृष्ट्वा मेघं सौदामिनीं तथा ।। (२८)
ये तु तस्मिन् वने पूर्वं निर्मिता विश्वकर्मणा ।
तास्सर्वाः कुमुदांभोजैः विचेरुः गृहदीर्घिकाः ।। (२९)
मत्तद्विपगणास्तस्मिन् विचेरुश्च महामुने ।
विचेरुर्मृगयूथानि नवशाद्वलभूमिषु ।। (३०)
माधवी मल्लिका नागाः केतकी करवीरकाः ।
मन्दाराश्च मधुकाश्च नीपाः कुरवकास्तथा ।। (३१)
वञ्जुलाश्शतपत्राश्च बभूवुः पुष्पशालिनः ।
तत्सर्वं दर्शयन्देव्यै चचार वरदो वने ।। (३२)
सर्वलोकेश्वरस्साक्षात् अक्षयो विश्वकृद्विभुः ।
विनिवृत्य तदा तस्मात् तया सह मनोहरात् ।। (३३)
अनन्तसरसस्तीरं स कदाचित्समभ्यगात् ।
तस्य पश्चिमतीरे तु तपस्यन्तं तपोधनम् ।। (३४)
ददर्श सुमहाभागं दिव्यं देवपुरोहितम् ।
तिष्ठन्तमेकपादेन बाहू विक्षिप्य चोर्ध्वगौ ।। (३५)
उत्पिञ्जरजताहारं त्वगस्थिस्नायुबन्धनम् ।
उद्वीक्षमाणमनिशं विमानं पुण्यवर्धनम् ।। (३६)
जपन्तं सततं वाचा गायत्रीं वेदमातरम् ।
निवातदीपनिष्कम्पं निर्द्वन्द्वं निष्परिग्रहम् ।। (३७)
निर्मलं निरहङ्कारं क्रोधलोभविवर्जितम् ।
क्षुत्पिपासादिभिर्दुःखैः पीडितं चाप्यचञ्चलम् ।। (३८)
आत्मवत्सर्वभूतानि पश्यन्तं मुनिपुङ्गवम् ।
तं दृष्ट्वा सहसा तस्य समीपं स समभ्यगात् ।। (३९)
श्रिया च सह तन्वङ्गया भूत्वा षोडश वार्षिकः ।। (४०)
राजलक्षणसंपन्नः सर्वाभरणभूषितः ।
पद्मपत्र विशालाक्षः चन्द्रबिंबनमानसः ।। (४१)
सदृशी तस्य तन्वङ्गी हंस-सुन्दर-गामिनी ।
चचार पार्श्वतः तस्य सर्वाभरणभूषिता ।। (४२)
तमुवाच तपस्यन्तं भगवान्भूतपावनः ।
समस्तजगताधारः सदारो मानुषाकृतिः ।। (४३)
श्रीभगवानुवाच –
कस्त्वं तपसि दुर्धर्षे वर्तसे विजने वने ।
किं त्वया प्रार्थ्यते ब्रह्मन् वदस्व यदि रोचते ।। (४४)
इत्युक्तस्स तदा तेन तापसो मुनिसत्तमः ।
उपरम्य समाधेस्तं प्रत्युवाच पुरःस्थितम् ।। (४५)
ब्राह्मणः –
राजपुत्र मया किं ते ब्राह्मणेन तपस्विना ।
गच्छ गच्छ वनादस्मात् सिंहव्याघ्रभयाकुलात् ।। (४६)
किमर्थमनया सार्धं वर्तसे त्वं निरायुधः ।
मनुष्या नात्र वर्तन्ते सिंहत्रस्ता महावने ।। (४७)
किं युवामनुजानन्ते बान्धवा वनगोचरौ ।
किमर्थं निर्जने बाल्यादागतौ निर्भयाविह ।। (४८)
अत्रैव बहवो व्याघ्राः क्षुधार्ता घोरदर्शनाः ।
मामादायैव निस्सारमिति मत्वा च तत्यजुः ।। (४९)
तावदस्मादितो गच्छ न स्थातव्यं क्षणं त्वया ।
आगमिष्यन्ति ते व्याघ्राः क्षुधार्तास्सिलिलार्थिनः ।। (५०)
इत्युक्तस्तेन विप्रेण देवराजः श्रियःपतिः ।
ईषदुत्स्मयमानस्तं पुनर्वचनमब्रवीत् ।। (५१)
श्रीभगवानुवाच –
अरण्ये वा गृहे वापि न भयं तपतांवर ।
यत्र कुत्र च वर्तेऽहं न भयं मे कदाचन ।। (५२)
अभयं सर्वभूतेभ्यो यः प्रयच्छति सर्वदा ।
कुतस्तस्य भयं विप्र सर्वभूतहितैषिणः ।। (५३)
यत्पृष्टस्त्वं मया पूर्वं तद्वदस्व तपोधन ।
महत्कौतूहलं तस्य श्रवणे मम जायते ।। (५४)
ब्राह्मणः –
भरद्वाजसुतस्याहं पौत्रोऽयं व्रजितस्सुतः ।
जातिस्मरोऽस्मि देवानां गुरुः पूर्वत्र जन्मनि ।। (५५)
बहून्यब्दसहस्राणि घोरे तपसि तिष्ठतः ।
ममात्रैव व्यतीतानि निर्जने पुण्यवर्धने ।। (५६)
तपश्चरणहेतुर्मे शृणुष्व कथयामि ते ।
यदि कौतूहलं श्रोतुं वर्तते राजपुत्रक ।। (५७)
परित्यक्ता मया पूर्वं श्ववधूः शरणङ्गता ।
तद्दोषक्षालनायैव क्रियतेऽत्र मया तपः ।। (५८)
अत्र यत्क्रियते कर्म पुण्यपापात्मकं नरैः ।
ज्ञानतोऽज्ञानतो वापि यत्सम्यक् धृतिकोविदः ।। (५९)
पश्यैतदखिलं वत्स विमानममितद्युति ।
पुण्यकोटीति विख्यातं स्मरणादेव मुक्तिदम् ।। (६०)
स्वयंव्यक्तमिदं धातुः हयमेधे महात्मनः ।
अस्मिन् हि भगवान्विष्णुः व्यक्तरूपः चतुर्भुजः ।। (६१)
न मया शक्यते द्रष्टुं पापसंवृतचेतसा ।
अतस्तं द्रष्टुकामोऽहं तपाम्यहमकल्मषः ।। (६२)
करिष्येऽत्र तपो घोरं न मे निष्कृतिरन्यथा ।
बहवस्तपसा विष्णुम् उपास्येह गतां ह सः ।। (६३)
विमुक्ताः कर्मबन्धेभ्यः परां सिद्धिं अरोगताम् ।
अत्र विष्णुमुपास्यैव निर्द्वन्द्वा वीतमत्सराः ।। (६४)
योगसिद्धिं परां प्राप्ताः योगिनो बहवः पुरा ।
चतुर्बाहुरुदाराङ्गः पीतवासाः चतुर्भुजः ।।
दिव्यैः परिजनैरस्मिन् पूज्यते गिरिमूर्धनि ।। (६५)
न स शक्योऽत्र सन्द्रष्टुं नरैर्दुष्कृतकारिभिः ।
स्वधर्मनिरताश्शान्ताः तं पश्यन्ति जनार्दनम् ।। (६६)
चरन्ति विष्णुभूतानि बहून्यत्राभितो वने ।
तानि पापसमाचारं दृष्ट्वा निघ्नन्त्यसंशयः ।। (६७)
अत्र रक्षःपिशाचाद्याः न वर्तन्ते कदाचन ।
विष्णुदूतपरित्रासाः परितो योजनद्वये ।। (६८)
त्वमस्मिन् सरसि स्नात्वा कृतकृत्योऽनया सह ।
प्रणम्य वरदं तत्र प्रार्थयस्वाभिवाञ्छितम् ।। (६९)
राज्यं वा विजयं वाथ पुत्रान्वाथ यदिच्छसि ।
तत्सर्वं प्रार्थितो देवस्तव दास्यत्यसंशयः ।। (७०)
महाभोगस्त्वमस्मिन्किमागतोऽस्य निवारितः ।
दुष्प्रधर्षो ह्ययं देशः प्रवेश्यो हि यतात्मना ।। (७१)
तव सन्दर्शनादासीत् सुप्रसिद्धं मनो मम ।
इत्युक्तो मुनिना तेन स्मयमानमुखांबुजः ।।
आरुरोह श्रिया सार्धं हस्त्यद्रिशिखरं ततः ।। (७२)
भृगुः –
श्रिया सार्धं हृषीकेशः तस्य प्रत्यक्षतां गतः ।
अदत्वैव स्वयं किञ्चित् किमर्थं गतवांस्तदा ।। (७३)
नारदः –
गुह्यमेतत्त्वया पृष्टं श्रोतव्यं हितकाङ्क्षिभिः ।
कथयाम्यधुना सम्यक् शृणुष्व सुसमाहितः ।। (७४)
सर्वदा सर्वगो विष्णुरच्युतः पुष्करेक्षणः ।
न तेन रहितं किञ्चित् दृश्यते श्रूयतेऽपि वा ।। (७५)
यथा तैलं तिले सर्पिः दध्नि दारुष्विवानलः ।
अदृश्यस्सर्वभूतेषु तथा सर्वगतो हरिः ।। (७६)
मथनाद्यैर्यथा तानि सुव्यक्तं याति यत्नतः ।
भक्तिनिर्मथिते नैव व्यक्तिं याति तथा हरिः ।। (७७)
करस्थं नैव जानाति यथान्धो रत्नमुत्तमम् ।
तमसा मूढमनसो नैव जानन्ति किञ्चन ।। (७८)
तिरोदधृतिपापानि विष्णुसन्दर्शने न च ।
तेषु नष्टेषु तस्यैव स्वयं भाति जनार्दनः ।। (७९)
सततं वेष्टिभिः पापैः दुस्तरे ब्राह्मणो गुरुः ।
अतो दृष्ट्वैव पुरतो नैव जानाति किञ्चन ।। (८०)
अतस्तत्सन्निधिं गत्वा तेन चाभाष्य संवृतः ।
न तस्मै दर्शयामास स्वकं रूपं तदा हरिः ।। (८१)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये वरद–बृहस्पति–संवादो नाम एकादशोऽध्यायः
श्रीहस्तिगिरिमाहात्म्ये द्वादशोऽध्यायः
भृगुः –
कथं देवगुरोर्ब्रह्मन् महतः पापसंभवः ।
तारितो यन्निमित्तं स देवराजस्य दर्शने ।। (१)
नारदः –
पुरा देवसभामध्ये महेन्द्रस्समुपाविशत् ।
सर्वैःपरिवृतो देवैः बृहस्पतिपुरोगमैः ।। (२)
वसिष्ठप्रमुखास्सर्वे मुनयस्संशितव्रताः ।
उपतस्थुस्तदा सर्वे महेन्द्रममितद्युतिम् ।। (३)
मुनिभिः कथिताः पुण्याः कथाश्शुश्राव वृत्रहा ।
प्रसङ्गात्कथयामासुः नियमं च सतां मतम् ।। (४)
धर्मनिर्णयशुश्रूषुः मुनीनां भावितात्मनाम् ।
तानपृच्छन्मुनीं तत्र सुरश्रेष्ठश्शचीपतिः ।। (५)
इन्द्रः –
कश्चित् स्वगृहसंवासी सदाचाररतो वशी ।
इष्टापूर्तादिकं कुर्वन् देवपित्त्र्यरतस्तथा ।। (६)
करोति नियतः सम्यगतिथीनाञ्च सत्क्रियाः ।
हिरण्यधान्यावस्त्राणि श्रोत्रियेभ्यो ददाति च ।। (७)
धर्माविरोधेनादत्ते क्षेत्राणि च धनानि च ।
तपस्वाध्यायनिरतो यतवाक्कायमानसः ।। (८)
साङ्ख्ययोगरतो नित्यं कर्मयोगपरस्तथा ।
अध्यात्मनिरतो नित्यं सर्वभूताभयप्रदः ।। (९)
स्वदारनिरतश्शान्तः सर्वभूतहिते रतः ।
निवृत्तासत्कथालापः कामक्रोधविवर्जितः ।। (१०)
धर्मेणोत्पाद्य पुत्रांश्च वर्तते नियतात्मना ।
कश्चित्पुत्रकलत्रादीन् विहाय विगतस्पृहः ।। (११)
तीर्थयात्रापरो नित्यं देहमात्रपरिग्रहः ।
व्रतोपवासनिरतो मृदुश्शान्तो जितेन्द्रियः ।। (१२)
शीलाचाररतो मौनी निर्द्वन्द्वो वीतमत्सरः ।
निश्परिग्रहवान् धीरः मितभुक् सत्यसङ्गरः ।। (१३)
जपशीलो विसृष्टान्नः विमुक्तातिथिपूजकः ।
पुण्यक्षेत्रेषु सर्वेषु कुर्वन् श्राद्धादिकाः क्रियाः ।। (१४)
तेषु तेषु यथाशक्ति श्रोत्रियेभ्यो ददाति च ।
तपस्वाध्यायनिरतो ज्ञानयोगपरायणः ।। (१५)
नगरग्रामतीर्थेषु पावनेषु समन्ततः ।
चरन्न नियतावासो यथालब्धाशनश्शुचिः ।। (१६)
वर्तते निरहङ्कारो भयशोकविवर्जितः ।
द्वयोः पुरुषयोरित्थं सततं वर्तमानयोः ।
युष्माभिः कथ्यतां सम्यक् कः श्रेष्ठ इति तापसाः ।। (१७)
नारदः –
इति तद्वचनं श्रुत्वा सन्दिहाना महर्षयः ।
अग्रतः तं समासीनं बृहस्पतिमथाब्रुवन् ।। (१८)
ऋषयः –
त्वमस्माकं सुराणाञ्च गुरुर्वाचस्पते मतः।
अतस्त्वं वद निश्चित्य पृच्छते बलशत्रवे ।। (१९)
स च मत्वा गृहे वासमसारमिति तत्त्वतः ।
तीर्थयात्रा परश्रेष्ठ इत्युवाच बृहस्पतिः ।। (२०)
तच्छ्रुत्वा मुनयस्सर्वे बृहस्पतिसमीरितम् ।
बभूवुः क्रोधनाविष्टा देवाश्च परमर्षयः ।। (२१)
गुरुणा भाषितं यत्तु श्रुतिस्मृतिविगर्हितम् ।
इति निर्भत्स्य सहसा तमूचुश्च महर्षयः ।। (२२)
अज्ञानाद्यदि वा ज्ञानात् अशास्त्रीयं त्वयेरितम् ।
अतस्त्वं वसुधां गत्वा जायस्वात्यन्तदुःखभाक् ।। (२३)
नारदः –
ततस्स नर्मदातीरे कदन्नाहारकुत्सिते ।
ब्राह्मणस्य सुतो जज्ञे गुरुर्मन्त्रजितो मुने ।। (२४)
जातमात्रे तु जननी जगाम यमसादनम् ।
क्लेशेन महता पित्रा रक्षितो बालकन्तदा ।। (२५)
मृदुशय्या न तत्रासीत् न च दंशनिवारकः।
न च स्नानादिकं काले ववृधे शुचिसंस्तरे ।। (२६)
यया कयाचित् कृपया रक्षितो बालकः तदा ।
इत्थं संवर्धितो बाल्ये शयानो यत्र कुत्रचित् ।। (२७)
अत्यन्तसङ्कटे गेहे न्यवसच्छोकपीडितः ।
भृशं निर्वेदमापन्नो मनोरथशताकुलः ।।
स्वबन्धुभिरवज्ञातो नरो जीवन्मृतो यथा ।। (२८)
पीडितो व्याधिभिर्नित्यं किञ्चित्कर्तुमीश्वरः ।
पूर्वजन्मवशादेव सर्वशास्त्रार्थतत्ववित् ।। (२९)
इत्थं तस्मिन्महादुःखे वर्तमाने महामुने ।
आजगाम नृपः कश्चित् तस्मिन् ग्रामे ससैनिकः ।। (३०)
सुतस्तस्य महीपस्य सप्तवर्षो महामुने ।
कुंभस्थशाबकं मातुः पार्श्वस्थं सन्ददर्श ह ।। (३१)
तमादाय स्वयं बालः कुतूहलसमन्वितः ।
अगाधे सहसा गर्ते गृहे चिक्षेप दुर्मतिः ।। (३२)
पुत्रनाशादतिक्रुद्धा श्ववधूस्तं नृपात्मजम् ।
ददंश दशनैस्तीक्ष्णैः जङ्घयोरुभयोरपि ।। (३३)
ततःपरमतिक्रुद्धाश्शूलमुद्गरपाणयः ।
आजग्मुः श्ववधूं हन्तुं बहवो राजकिङ्कराः ।। (३४)
सा च वाचा गृहीत्वान्यं बालकं भयविह्वला ।
तस्यैव गेहं सहसा ब्राह्मणस्य विवेश ह ।। (३५)
प्रविश्यान्तर्गृहं भीता वीक्षमाणा समन्ततः ।
त्राहि त्राहीति सहसा ब्राह्मणं शरणं ययौ ।। (३६)
न शङ्का तद्गृगृहे जाता किङ्कराणां विचिन्वताम् ।
तामदृष्ट्वा निवर्तन्ते सर्वे नृपति-किङ्कराः ।। (३७)
विनिवर्त्यसु संरब्धाः तदन्वेषणतत्पराः ।
व्यतिष्ठन् सङ्गतास्सर्वे वीधिकान्तस्थलाश्रयाः ।। (३८)
स तु तां ब्राह्मणो भुञ्जन् श्ववधूं पुरतः स्थिताम् ।
कम्पमानां भयादार्तां वीक्षमाणां समन्ततः ।। (३९)
संभ्रान्तः क्रोधसंविष्टो निमीलितविलोचनः ।
उवाच वचनं पुत्रानियं निर्यास्यतामिति ।। (४०)
सा च भूयस्तमेवाह ब्राह्मणं पुत्रगृद्धिनी ।
क्रोधेन महताविष्टं निमीलितविलोचनम् ।। (४१)
श्ववधूः –
बहिस्तिष्ठन्ति बहवः शूरा मां हन्तुमुद्यताः ।
क्षणं क्षमस्व मामत्र त्वामहं शरणा गता ।। (४२)
नारदः –
स तु तद्वचनं श्रुत्वा रोषाविष्टोऽभवत्पुनः ।
तनूजं सर्वदोषाणां बीजं देहपरिग्रहः ।। (४३)
यतो रूपं समास्थाय मानुषं दुःखभाजनम् ।
ईदृशं वचनं प्राह गुरुस्सर्वदिवौकसाम् ।। (४४)
ततस्तां मुसलैर्दण्डैः प्रकृत्यात्यन्तनिर्घृणाः ।
बहिर्निर्यापयन्त्यस्मतत्पुत्रास्तत्प्रचोदिताः ।। (४५)
तां बहि स्थाप्य सुदृढं बबन्धुश्च कवाटकम् ।
सा च संस्मार दुष्कर्म स्वकृतं पूर्वजन्मनि ।। (४६)
तत उच्चैर्जगादे मां गाथां च श्ववधूस्स्वयम् ।
पश्यन्ती सततं क्रूरान्नागतान् नृपकिङ्करान् ।। (४७)
शूलदण्डप्रहरणान् भयार्ता पुत्रगृद्धिनी ।
श्ववधूः –
यत्पुरा मद्गृहाद्भिक्षुः परिनिर्यापितो मया ।। (४८)
सहस्रगुणितं भूयस्तत्तदेवोपभुज्यते ।
यदाचरति यत्कर्म पुण्यपापात्मकं पुरा ।। (४९)
तदेव तेन भोक्तव्यमहो नु नियमो विधिः ।
ज्ञानतोऽज्ञानतो वापि यत्कृतं कर्म निन्दितम् ।। (५०)
कर्तव्यं सहसा तस्य प्रायश्चित्तं मनीषिणः ।
परित्यज्यति यो मूढो भयार्तं शरणं गतम् ।
प्रायश्चित्तं न तत्रासीदिति वेदानुशासनम् ।। (५१)
इति ब्रुवन्तीं विप्रं तं स्मरन्तीं पूर्वजन्मनि ।
मार्गमाणस्तु तां दृष्ट्वा निर्जग्मुः नृपकिङ्कराः ।। (५२)
शाबकञ्च समादाय जघ्नुरत्यन्तनिर्घृणाः ।
स्मरन्तो राजपुत्रस्य व्यथामत्यन्तनिर्घृणाः ।। (५३)
स तु तस्या वचः श्रुत्वा ब्राह्मणो धर्मसंहिताम् ।
विव्यधे धर्मपाशेन वेष्टितो भृशदुःखितः ।। (५४)
विचिन्वन् सर्वशास्त्रेषु नापश्यत्पापनिष्कृतिम् ।
ततस्सन्तप्तहृदयः स्मृत्वा याम्याश्च वेदनाः ।। (५५)
ययौ भागीरथीतीरं पुण्यवृक्षसमावृतम् ।
तत्रोपविष्टमद्राक्षीत् भारद्वाजं महामुनिम् ।। (५६)
तपःकृशितसर्वाङ्गं चीरवल्कलवाससम् ।
तं प्रणम्य महाभागं ब्राह्मणो विगतज्वरः ।। (५७)
तस्मै विज्ञापयामास निजं कर्म यथातथम् ।
स च क्षणमुनिर्ध्यात्वा भारद्वाजो महामतिः ।। (५८)
भारद्वाजो महातेजा ज्ञातवांश्च बृहस्पतिम् ।
जानाम्यहं द्विजश्रेष्ठ तव पापस्य निष्कृतिम् ।। (५९)
मा भैषीस्त्वमितो धीरः शृणुष्व वचनं मम ।
अस्ति सत्यव्रतं नाम क्षेत्रं पापविनाशनम् ।। (६०)
यत्र काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ।
तत्र गत्वापनेतव्यं पातकं द्विजसत्तम ।। (६१)
तत्रैवाचरितं कर्म सद्यः सर्वफलप्रदम् ।
तत्राभ्यर्च्य जगन्नाथं हयमेधेन केशवम् ।। (६२)
प्रत्यक्षं दृष्टवान्पूर्वं पद्मयोनिः पितामहः ।
पुरादिक्करिणस्तत्र पूजयित्वा जनार्दनम् ।। (६३)
प्रत्यक्षं ददृशुस्सर्वे वरदं भक्तवत्सलम् ।
तत्रैव शेषपर्यङ्के शयानं मधुसूदनम् ।। (६४)
समाराध्य चिरं कालं सत्यकेतुर्महामतिः ।
प्रत्यक्षं दृष्टवानत्र पद्मपत्रनिभेक्षणम् ।। (६५)
सन्ति तत्रैव तीर्थानि शतमष्टोत्तरं द्विज ।
सन्त्यनेकानि दिव्यानि देवतायतनानि च ।। (६६)
तत्तत्तस्यैव क्षेत्रस्य सदृशं न कश्चित् दृश्यते भुवि ।
तत्र गत्वा स्वकं पापमपमार्ष्टुं त्वमर्हसि ।। (६७)
सर्वदुष्कृतनाशस्ते भविता नात्र संशयः ।
पुण्यकोटीति विख्यातं विमानं तत्र दृश्यते ।। (६८)
तस्य दर्शनमात्रेण संप्रणश्यन्त्यघानि च ।
तन्मध्ये पुण्डरीकाक्षो भगवान् भक्तवत्सलः ।। (६९)
दिव्यैः परिजनैः नित्यं पूज्यतेऽत्र महात्मभिः ।
स न शक्यस्त्वया द्रष्टुं पापसंवृतचेतसा ।। (७०)
तपसा क्षालिते पापे तं दृष्ट्वा पूजयिष्यसि ।
समीपे तस्य नागाख्यं सरः काञ्जनपङ्कजम् ।। (७१)
तस्य तीरं समासाद्य कुरुष्व परमं तपः ।
जितेन्द्रियो जितक्रोधो विमानमवलोकयन् ।। (७२)
जपस्व देवीं गायत्रीं यावत्त्रेतायुगावधि ।
ततो दिव्यं स्वकं रूपं लब्ध्वा विष्णोः प्रसादतः ।।
पूजयिष्यसि तं देवं द्वापरे वेदिमध्यगम् ।। (७३)
नारदः –
इत्युक्तो ब्राह्मणस्तेन भारद्वाजेन धीमता ।
तं प्रणम्याभ्यनुज्ञातो ययौ सत्यव्रतं प्रति ।। (७४)
अनन्तसरसि स्नात्वा तस्मिन्नियतमानसः ।
विमानाभिमुखस्तिष्ठन् चकार परमं तपः ।। (७५)
अनन्तसरसि स्नानात् स मुक्तस्सर्वकिल्बिषैः ।
तथापि विष्णोः पूजार्थं समारब्धं परं तपः ।। (७६)
पूज्यतामात्मनो मत्वा द्वापरे गुरुणा हरिः ।
कारयामास तेनैव स्वयमन्तर्गतस्ततः ।। (७७)
अतप्ततपसा विष्णुर्न पूज्यो वेदिमध्यगः ।
अतस्तत्पूजनार्हत्वं लब्धश्चक्रे महत्तपः ।। (७८)
तपसा तस्य सन्तुष्टो लक्ष्म्या सार्धं जगत्पतिः ।
तेन संभाष्य विप्रेण ययौ मानुषरूपधृक् ।। (७९)
न स्वकं दर्शितं रूपं तस्मै दत्तं न किञ्चन ।
न च पापविमोक्षाय कारणं दर्शनं हरेः ।। (८०)
निर्दग्धकल्मषो वापि नाभक्तः पुरुषोत्तमम् ।
यथावन्नैव जानति तस्मात्तेन न दर्शितम् ।। (८१)
तपश्चरन्ति ते विष्णुं द्रष्टुकामा दृढव्रताः ।
नातप्ततपसा विष्णुः हस्तिशैलस्य मूर्धनि ।। (८२)
अर्चनीयस्ततस्तेन सुतप्तं दुश्चरं तपः ।
तपोभिर्जायते भक्तिः तदा दृष्टो जनार्दनः ।। (८३)
तदभावात् स्वकं रूपं ब्राह्मणाय न दर्शितम् ।
ततस्तस्मिन् गते विष्णौ लक्ष्म्या सह महामुने ।। (८४)
पुनर्बबन्ध तपसि मनः स्थिरमतिर्द्विजः ।
स्नात्वा विमानच्छायायाम् अनन्तसरसि स्थितः ।
जपन्वाचाथ सावित्रीं विमानाभिमुखोऽभवत् ।।
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे द्विज–भारद्वाजसंभाषणं नाम श्रीहस्तिगिरि माहात्म्ये द्वादशोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये त्रयोदशोऽध्यायः
नारदः –
एतस्मिन्नेव काले तु विप्रे तपसि तिष्ठति ।
पूज्यमाने च वेद्यन्तः दिव्यैः परिजनैः हरौ ।। (१)
गजेन्द्रः नाम धर्मात्मा विष्णुभक्तो दृढव्रतः ।
चचार वसुधां कृत्स्नां करिणीयूधसंवृतः ।। (२)
यत्र यत्र सुगन्धीनि सन्ति पुष्पान्यनेकशः ।
तत्र तत्र चिरंकालं वसन्विष्णुमपूजयत् ।। (३)
मेरुपार्श्वे चिरं कालं सर्वपुष्पसमन्विते ।
पूजयामास देवेशं भावभक्तिसमन्वितः ।। (४)
प्रयागे पुष्करे रम्ये तथा बदरिकाश्रमे ।
गङ्गासागरयोश्चैव सङ्गमे पुरुषोत्तमे ।। (५)
क्षेत्रेष्वन्येषु पुण्येषु निवसन् सुदृढव्रतः ।
गन्धपुष्पादिभिर्दिव्यैः अर्चयामास केशवम् ।। (६)
स कदाचिन्महातेजाः पुण्यक्षेत्रदिदृक्षया ।
चिन्तयन्मनसा विष्णुं दक्षिणाभिमुखो ययौ ।। (७)
ततो गोदावरीतीरे पुण्यवृक्षसमाश्रये ।
ददर्श सुखसंविष्टं मृकण्डं मुनिपुङ्गवम् ।। (८)
ज्वलनार्कप्रतीकीशं चीरवल्कलवाससम् ।
जपन्तं विष्णुगायत्रीं भानुमण्डलवीक्षकम् ।। (९)
समीपं तस्य सहसा जगाम स गजाधिपः।
धर्मशीलः प्रशान्तात्मा सर्वत्र समदर्शनः ।। (१०)
स च दृष्ट्वा समीपस्थं गजेन्द्रममितद्युतिम् ।
उत्थाय सहसा तं वै ववन्दे तपसां निधिः ।। (११)
मन्यमानश्च तं विष्णुमात्मरक्षार्थमागतम् ।
स्वागतैः पूजयामास मृकण्डुः परमार्थवित् ।। (१२)
ततस्सत्कृत्य विधिवत् विष्णुभक्तं गजाधिपम् ।
विनयावनतो भूत्वा तमुवाच तपोधनः ।। (१३)
मृकण्डुः –
अधुना तपसां सिद्धिं महतामपि दुर्लभा ।
उपलब्धा मया यत्त्वं मत्समीपमिहागतः ।। (१४)
दुर्लभं सर्वलोकेषु विष्णुभक्तस्य दर्शनम् ।
विपाकेनैव पुण्यानां लब्धमेतन्मयाधुना ।। (१५)
अनन्यो विष्णुभक्तस्त्वं तत्पदाम्भोजसंश्रयः ।
निर्ममो निरहङ्कारस्सर्वत्र प्रियदर्शनः ।। (१६)
तमेव सततं ध्यायन् तस्मिन्नेवाभिवर्तसे ।
तद्दर्शनपरो नित्यं तत्कीर्तनपरायणः ।। (१७)
तत्कर्मपरमोऽसि त्वं कर्मणा मनसा गिरा ।
तमेव सततं युक्तं कर्मणो सिद्धिमिच्छसि ।। (१८)
अतस्त्वद्दर्शननैव कृतार्थोऽस्मि गजेश्वर ।
अनायासेन मे प्राप्तो विष्णुभक्तसमागमः ।। (१९)
स धन्यः खलु लोकेऽस्मिन् पुरुषः क्षीणकल्मषः ।
यत्समीपं समायाति विष्णुभक्तो दृढव्रतः ।। (२०)
नश्यन्ति सर्वपापानि विष्णुभक्तस्य दर्शनात् ।
हृदये वर्तते यस्य गोविन्दो भक्तिसङ्गतः ।। (२१)
न केवलमिहैव त्वं विष्णुभक्तो गजेश्वर ।
समर्चयसि देवेशं पूर्वस्मिन्नपि जन्मनि ।। (२२)
पूर्वजन्मनि विप्रस्त्वं विष्णुभक्तो महातपाः ।
महाशान्त इति ख्यातः सर्वभूतहिते रतः ।। (२३)
माययैव महेन्द्रस्य गजेन्द्रत्वमुपागतः ।
अतस्तव गजेन्द्रत्वं रूपमात्रं तु केवलम् ।। (२४)
नारदः –
इत्थं संभावयामास गजेन्द्रं मुनिसत्तमः ।
मृकण्डुर्विविधैस्तोत्रैरुपचारैश्च भक्तितः ।। (२५)
भृगुः –
गजेन्द्रत्वं कथं प्राप्तः वासवस्यैव मायया ।
ब्राह्मणो वृत्तसंपन्नस्तद्वदस्व महामुने ।। (२६)
नारदः –
महाशान्त इति ख्यातो ब्राह्मणो वेदपारगः ।
स्वाध्यायनिरतो विष्णुं सततं पर्यपूजयत् ।। (२७)
वर्णाश्रमाचाररतो देवद्विजगुरुप्रियः ।
शान्तो दान्तो मृदुर्मौनी विष्णुभक्तो बभूव ह ।। (२८)
अनाराध्य जगन्नाथं न चैवाश्नाति किञ्चन ।
न चानिवेदितं किञ्चित् क्षुधार्तोऽप्युपजीवति ।। (२९)
विष्णुपादोदकादन्यत् ग्रीष्मार्तोऽपि न चापिबत् ।
यमैश्च नियमैश्चैव निर्जितं भुवनत्रयम् ।। (३०)
संपरित्यज्य पुत्रादीन् क्षेत्राणि च धनानि च ।
एकाकी नियताहारः तर्तुं संसारसागरम् ।। (३१)
त्रिकूटशिखरे रम्ये पुण्यवृक्षसमन्विते ।
निराशी निरहङ्कारो निर्द्वन्द्वो वीतमत्सरः ।। (३२)
प्राणायामपरो धीरो नासाग्रन्यस्तलोचनः ।
अष्टाक्षरं जपन् ब्रह्म चकार परमं तपः ।। (३३)
तपसा तस्य निष्कृष्टं चचाल वसुधा भृशम् ।
न तताप सहस्रांशुः क्षुब्धास्सप्त महार्णवाः ।। (३४)
विमानानि नभो मध्ये न विचेरुस्त्रिदिवौकसाम् ।
ज्वलनो नापि जज्वाल न ववर्ष बलाहकः ।। (३५)
न शशाक दिवि स्थातुं वृत्रहापि शचीपतिः ।
न ववौ श्वसनो व्योम्नि न शशासान्तको जगत् ।। (३६)
इत्थं लोकत्रयं तस्य तपसा व्याकुलीकृतम् ।
न जानन्ति स्म विबुधाः तपसा तस्य वाञ्छितम् ।। (३७)
ततस्तस्य तपोभङ्गं कर्तुकामश्शचीपतिः ।
आहूयाप्सरसस्सर्वा वचनं प्राह सादरम् ।। (३८)
इन्द्रः –
हिताय जगतां यूयं निसृष्टाः परमेष्ठिना ।
रूपयौवनसंपन्नाः फुल्लेन्दीवरलोचनाः ।। (३९)
शुचिस्मिताः सुकेशान्ताः घनपीनपयोधराः ।
सुभ्रुवो मन्दगामिन्यो मदमन्थरगीतयः ।। (४०)
युष्माभिर्मोहितं सर्वं सदेवासुरमानुषम् ।
युष्मद्दृष्टिनिपातास्त्रैः मम शत्रुजयस्सदा ।। (४१)
पुरतो योषितो दृष्ट्वा कस्समाधौ प्रतिष्ठति ।
निर्गच्छति मनस्तस्य धनुषस्सायको यथा ।। (४२)
यूयमेव हि सर्वत्र बलमस्माकमापदि ।
नाशक्यमस्ति युष्माकं त्रिषु लोकेषु किञ्चन ।। (४३)
उपस्थितमिदानीं नस्सर्वानर्थकरं भयम् ।
प्रशमस्तस्य कर्तव्यो युष्माभिरसितेक्षणाः ।। (४४)
नारदः –
तच्छ्रुत्वाऽप्सरसां श्रेष्ठा रंभा मधुरभाषिणी ।
प्रणम्य प्राञ्जलिस्स्थित्वा तमुवाच सुरेश्वरम् ।। (४५)
रंभा –
यत्प्रशासति देवोऽस्मान् तत्तथैव विदधीमहे ।
तत्प्रदेहि सदास्माकं जीविताशा सुरेश्वर ।। (४६)
कैलासं ब्रह्मलोकं वा श्वेतद्वीपमथापि वा ।
प्रवेश्यामो वयं यत्र वर्तन्ते यत्र शत्रवः ।। (४७)
अस्मद्दृष्टिपातास्त्रैर्मोहितास्तव शत्रवः ।
अर्चयिष्यन्ति नः पादान् शेखरीकृत्य च स्वयम् ।। (४८)
तस्यास्तद्वचनं श्रुत्वा तदानी वृत्रसूदनः ।
कृतकृत्यमिवात्मानं मन्यमानोऽब्रवीदिदम् ।। (४९)
इन्द्रः –
त्रिकूटशिखरे रम्ये तपश्चरति तापसः ।
महाशान्त इति ख्यातः सर्वत्र प्रियदर्शनः ।। (५०)
जितेन्द्रियो जितक्रोधो वासुदेवपरायणः ।
निराशीर्निरहङ्कारो निर्द्वन्द्वो वीतमत्सरः ।। (५१)
तप्यते तपसा तस्य जगत्स्थावरजङ्गमम् ।
मतन्तस्य न जानीमः तपतस्सु दुरात्मनः ।। (५२)
यूयं तत्रैव गच्छध्वं मत्प्रियार्थं समत्सराः ।
रूपयौवनसंपत्तिं दर्शयन्तश्च तां स्वयम् ।। (५३)
उपविष्टास्ततस्तत्र तपस्यन्तं दृढव्रतम् ।
तपसस्तं महाघोरात् क्षोभयध्वं विलोभनैः ।। (५४)
नारदः –
तमामन्त्र्य तु ताः सर्वा महेन्द्रं सुरयोषितः ।
ययुः त्रिकूटशिखरं यत्रास्ते स तपोधनः ।। (५५)
घृताची मेनका रम्भा मिश्रकेशी तिलोत्तमा ।
ऊर्वशी पुण्डरीका च मन्थराक्षी मदोद्धता ।। (५६)
एतास्सर्वानवद्याङ्ग्यः सङ्गता मदविह्वलाः ।
निर्वातदीपनिष्कम्पं ददृशुस्तं तपोधनम् ।। (५७)
कुशास्तरणसंविष्टं नासाग्रन्यस्तलोचनम् ।
तपः कृषितसर्वाङ्गं ज्वलन्तमिव पावकम् ।। (५८)
हृत्पुण्डरीकमध्यस्थं पुण्डरीकाक्षमच्युतम् ।
ध्यायन्तं तदनुध्यानजनिताह्वाननिर्व्यथम् ।। (६०)
तं दृष्ट्वा तत्समीपस्थास्सर्वा मधुरं जगुः ।
ननृतुश्च मदोद्रिक्ता वीणावेणुसमन्विताः ।। (६१)
कथाः कन्दर्पदलिताः कथयन्ति स्म विह्वलाः ।
क्ष्वेलन्ति स्म नदन्ति स्म हसन्ति स्म मदालसाः ।। (६२)
इत्थं तत्पुरतः स्थित्वा समस्तास्सुरयोषितः ।
चेष्टाश्च विविधाश्चक्रुः चारुवल्गुनपूर्विकाः ।। (६३)
न तताप रविस्तत्र तीव्रमिन्द्रप्रचोदितः ।
संह्लाद-सुरभिर्वायुर्ववौ स्पर्शसुखावहः ।। (६४)
अमृतांशुश्च ववृधे मदयन् सुरयोषितः ।
सर्वर्तुकुसुमोपेतस्तत्र कालोऽभवत्तदा ।। (६५)
इत्थं बहुविधाश्चेष्टाः कुर्वन्त्यस्तास्सुरस्त्रियः ।
न शेकुलोचने तस्य समुन्मीलयितुं मुनेः ।। (६६)
स च ध्यात्वा जगन्नाथं शङ्खचक्रगदाधरम् ।
नारायणं हृषीकेशं जगतः कारणं परम् ।। (६७)
विश्वेश्वरमजं देवं सुहृदं सर्वदेहिनाम् ।
नाचिन्तयत्समीपस्थाः स्त्रियस्ता मुनिपुङ्गवः ।। (६८)
नारदः –
तं समीक्ष्य सुदुद्धर्षमूचुरप्सरसस्ततः ।
व्रीळारोषभयाविष्टाः परितस्तस्य विष्टिताः ।। (६९)
अप्सरसः –
कोऽयमास्ते सुदुर्मेधा निमीलितविलोचनः ।
उपस्थितमनादृत्य स्वयमप्सरसां गणम् ।। (७०)
समीपस्थमसंप्रेक्ष्य तत्सर्वं तपसः फलम् ।
किमत्र चिन्त्यतेऽनेन मूग्धेनैव दुरात्मना ।। (७१)
मुखान्यप्सरसां दृष्ट्वा सहस्राक्षश्शचीपतिः ।
सुराधीशः सुखेनाक्ष्णां साफल्यं समुपाश्नुते ।। (७२)
यज्ञादीनि च कर्माणि कुर्वन्त्यस्मत्कृते नराः ।
धनधान्यादि दास्यन्ति ब्राह्मणेभ्यो बहूनि च ।। (७३)
विचरन्ति च घोराणि तथाप्यस्मत्कृते नराः ।
सर्वधर्मांश्च कुर्वन्ति नियता विजितेन्द्रियाः ।। (७४)
यश्चास्माकं प्रियालापान् न शृणोति मनोहरान् ।
अचेतनो वृथा जीवी कीर्त्यते स नराधमः ।। (७५)
स्तनाश्लेषन्तु सुतन्वङ्ग्या लभते यस्सुदुर्लभम् ।
न धन्यः पुरुषो लोके कीर्त्यते पुण्यकोविदैः ।। (७६)
विद्यानामार्जितं बाल्ये ब्राह्मणस्य विधीयते ।
यौवने विषया भोगो वृद्धभावे तथा तपः ।। (७७)
अयमत्यन्तसुभगः सुकुमारनुर्युवा ।
घोरे तपसि दुर्बुद्धिः तिष्ठत्यत्यन्तदुष्करे ।। (७८)
अदेशकाले चरितं यत्तपः तन्निर्धमकम् ।
तन्नजानाति मूढोऽयमनाथो ज्ञानवञ्चितः ।। (७९)
तपसां फलमित्याहुः स्त्रियश्शास्त्रविचक्षणाः ।
तन्न जानाति दुर्बुद्धिः अशास्त्रज्ञो मतिक्षयात् ।। (८०)
तपसः फलमुत्सृज्य क्रियतेऽनेन किं तपः ।
करस्थं रत्नमुत्सृज्य मतिमानन्यदिच्छति ।। (८१)
दिव्याङ्गना मनुष्याणां पूजनीया विशेषतः ।
अयमस्माननादृत्य किमास्तेऽत्यन्तदुर्मतिः ।। (८२)
पूज्यपूजामकृत्यैव क्रियते येन यत्तपः ।
तत्तस्य निष्फलं प्राहुर्वेदशास्त्रविशारदाः ।। (८३)
इत्थं सङ्कल्पमानासु तासु तापसपुङ्गवः ।
नाचिन्तयत् सतास्सर्वा घुष्यन्तीरिव गर्दभाः ।। (८४)
मन्यमानस्ततस्ताभिः तपोविघ्नमुपागतम् ।
मनसा चिन्तयामास नियतस्स जितेन्द्रियः ।। (८५)
किन्नेमाः प्रेषिताः क्रूराः मत्सकाशं दुरात्मना ।
सर्वाऽनर्थतरोर्मूलं स्त्रियः प्राहुर्मनीषिणः ।। (८६)
श्रुतं विज्ञानमास्तिक्यं लज्जाधीः धर्मशीलता ।
स्त्रीणां दर्शनमात्रेण सर्वं नश्यत्यसंशयः ।। (८७)
धैर्यपारङ्गतो यस्तु सर्वशास्त्रविशारदः ।
योषिद्दर्शनमात्रेण स च क्षुभ्यति मोहितः ।। (८८)
स्त्रियो हि नरकद्वारं निर्मितं विश्वयोनिना ।
अतस्तद्दर्शनं पापं तापसानां विशेषतः ।। (८९)
अयं हि जगतो भूत्यै धात्रा स्त्रीपुंविभागतः ।
निर्मितो देहिनां सर्गस्ततो लोकः प्रवर्तते ।। (९०)
अन्योन्य-प्रणयादेव मुह्यन्त्यज्ञान-संवृताः ।
पुरुषाश्च स्त्रियो दृष्ट्वा ताश्च दृष्ट्वा नतास्तथा ।। (९१)
तपसैवमुपस्तर्तुम् अहमज्ञानसागरम् ।
विषयेभ्यो निवृत्त्याऽत्र स्थितोऽस्मिन् विजने वने ।। (९२)
अत्रैवोत्पादितो धात्रा विघातस्तपसो मम ।
स्त्रियो हि खलु सर्वत्र तपसो विघ्नहेतवः ।। (९३)
दूरतः परिहर्तव्याः स्त्रियः प्राहुर्मनीषिणः ।
किं मयात्रैव कर्तव्यं कार्यं न प्रतिभाति मे ।। (९४)
उत्तितीर्षुं महाघोरं दुस्तरं भवसागरम् ।
विषयाख्यो महाग्राहो मध्ये गृह्णाति पूरुषम् ।। (९५)
नारदः –
इत्थं सञ्चिन्तयित्वा तु धर्मलोपभयार्दितः ।
जितेन्द्रियो जितक्रोधस्सर्वत्र समदर्शनः ।। (९६)
अक्षोभ्योऽपि स्वयं क्रूरान्मत्वा मन्मथसायकान् ।
नारायणं हृषीकेशं सहसा शरणं ययौ ।। (९७)
अथ सुरवनिताश्च निष्प्रकम्प्यं मुनिवरमभ्यभवन्न शापभीत्या ।
कलुषितहृदयाः वृथा प्रलापाः मदनमदाकुलितास्तदाभितस्थुः ।। (९८)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे अप्सरोगण–विप्रलोभो नाम श्रीहस्तिगिरिमाहात्म्ये त्रयोदशोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये चतुर्दशोऽध्यायः
नारदः-
अथाग्र्यबुद्धिर्वरदं वरेण्यं तमात्मयोनिं मुनिरात्मगुप्त्यै ।
अशेषदुःखौघविघातहेतुं प्रणम्य तुष्टाव वचोभिरग्र्यैः ।। (१)
अनाद्यनन्तं पुरुषं पुराणं परं परस्मात् भुवनेशमीड्यम् ।
निराश्रयं निष्कलमप्रमेयं हरिं हृदिस्थं शरणं प्रपद्ये ।। (२)
आजन्मवृद्धिक्षयकालहेतुं हिरण्मयं शङ्खरथाङ्गपाणिनम् ।
गुणाश्रयं निर्गुणमप्रमेयं जगन्निवासं शरणं प्रपद्ये ।। (३)
विरिञ्चि-रुद्रेन्द्र-मरुत्-सखानां स्थितिर्यदाज्ञा परिपालनाय ।
तमीश्वराणां परमं परेशं सरोजनाभिं शरणं प्रपद्ये ।। (४)
नभोमरुद्वह्निजलक्षितीनां समाश्रयो यस्सकलं बिभर्ति |
तमात्मतृप्तं विमलं विशोकं सहस्रबाहुं शरणं प्रपद्ये ।। (५)
यतः परन्नापरमन्यदस्ति जगत्त्रयं यत्र निविष्टमेतत् ।
प्रधानपुंसौ च यतः प्रसूतौ तमेव विष्णुं शरणं प्रपद्ये ।। (६)
मदव्ययं नित्यमजं शिवञ्च सनातनं ब्रह्मविदो वदन्ति ।
तमीशितारं ध्रुवमप्रमेयं सहस्रनेत्रं शरणं प्रपद्ये ।। (७)
यस्मात्प्रसूतानि जगन्ति पूर्वं विनिर्गता यस्य मुखाश्च वेदाः ।
तमेकरूपं बहुरूपरूपं श्रियःपतिं विश्वगुरुं प्रपद्ये ।। (८)
यतो विभातेन्दुहुताशनार्काः यमक्षरं वेदविदो वदन्ति ।
यदव्ययं ज्योतिरजं शिवञ्च जगन्निवासं शरणं प्रपद्ये ।। (९)
समस्तभूतानि चराचराणि विसृज्य देवो मनसैव पूर्वम् ।
महार्णवान्तः स्वपिति स्वयं यस्तमादिदेवं शरणं प्रपद्ये ।। (१०)
महार्णवादेव तरङ्गभेदा यथैव जाता बहुधा विकीर्णाः ।
तथैव यस्मात्पुरुषाच्च जाताः तमेकमीशं शरणं प्रपद्ये ।। (११)
अपारसंसारमहार्णवान्तर्निमज्जतां प्राणभृतां गतिर्यः ।
तमच्युतं पुष्करपत्रनेत्रं चतुर्भुजं विश्वसृजं प्रपद्ये ।। (१२)
जगत्त्रयत्राणविधित्सयैव नभैर्हिरण्यं निजघानदैत्यम् ।
सनातनं सादितदैत्यसङ्घं तं श्रीनृसिह्मं शरणं प्रपद्ये ।। (१३)
त्वक्चर्ममांसास्थिपुरीषमूत्रश्लेष्मांत्रशुक्लादिसमुच्चयेषु ।
गात्रेष्वसारेषु यथा न मे स्यात् स्पृहा तथात्वं वरद प्रसीद ।। (१४)
नमः परमकल्याणनिधये परमात्मने ।
अच्युतायाप्रमेयाय निर्गुणाय नमो नमः ।। (१५)
नमस्सहस्रशिरसे नमस्सततभास्वते ।
नमः कमलनेत्राय नमोऽनन्ताय विष्णवे ।। (१६)
नमस्त्रिमूर्तये धात्रे नमस्त्रियुगशक्तये ।
नमस्समस्तसुहृदे नमस्सततजिष्णवे ।। (१७)
शङ्खचक्रगदापद्मधारिणे लोकधारिणे ।
स्फुरत्किरीटकेयूरमकुटाङ्गदधारिणे ।। (१८)
निर्भयाय निरीशाय निर्विकाराय ते नमः।
पाहि मां पुण्डरीकाक्ष शरण्यं शरणागतम् ।। (१९)
त्वमेव सर्वभूतानाम् आश्रयः परमा गतिः ।
त्वयि स्थितं यथा चित्तं न मे चञ्चलतां व्रजेत् ।। (२०)
तथा प्रसीद देवेश शरणं त्वां गतोऽस्म्यहम् ।
न क्वचिद्विष्णुभक्तानां श्रुतपूर्वः पराभवः ।।
अतो मां रक्ष देवेश भयादस्मादुपस्थितात् ।। (२१)
क्व कामविवशा बुद्धिः क्व ते पादांबुजस्मृतिः ।
द्वयोः स्थितिर्न चैकत्र तेजस्तिमिरयोरिव ।। (२२)
त्वत्पदांभोरुहद्वन्द्व-मधुपानसमुद्यतम् ।
न मां कन्दर्पबाणास्तु भ्रमयन्तु मनीषिणः ।। (२३)
मनस्त्वयि यथा नाथ वर्तते मम संप्रति ।
तथैव सर्वकालेषु वर्ततां त्वत्प्रसादतः ।। (२४)
त्वयि प्रसन्ने सर्वत्र किमलभ्यं जगत्पते ।
त्वद्भक्तस्यापवर्गो वा स्वर्गो वा नैव दुर्लभः ।। (२५)
यस्त्वया वीक्षितो मर्त्यः त्वद्भक्तिस्तस्य जायते ।
अपेक्षितस्त्वया यस्तु भोगेच्छा तस्य जायते ।। (२६)
अतो मामधुना रक्ष मन्दप्रभवविह्वलम् ।
त्वमेवानन्यशरणो गतोऽस्मि शरणं हरे ।। (२७)
समाधिभङ्गोऽयमुपस्थितो मम प्रचोदितः केनचिदल्पमेधसा ।
त्वमेव मां रक्ष भयार्तिनाशन त्वदन्यतो नास्ति गतिर्नचापदि ।। (२८)
इति सहायमुदीर्य भूतयोनिं हृदयसरोरुहकर्णिकान्तरस्थम् ।
सरसिजदृशमीश्वरं स पश्यन् सपदि समाधिपरो बभूव भूयः ।। (२९)
तं दृष्ट्वा तापसश्रेष्ठं निमीलितविलोचनम् ।
निराशाः प्रययुः सद्यः सुराणां दिव्ययोषितः ।। (३०)
प्रशशंसुर्महेन्द्राय तापसं सुदुरासदम् ।
सुराङ्गना निरुत्साहा व्रीलिता मुक्तगौरवाः ।। (३१)
स च तासां वचः श्रुत्वा विषण्णो बलसूदनः ।
गजरूपेण तपसो भङ्गं कर्तुं मनो दधे ।। (३२)
ततः स्वयं गजो भूत्वा करिणीभिस्समावृतः ।
प्रययौ स तदा तत्र समास्ते हि तपोधनः ।। (३३)
चचार करिणीयूथैः सह तस्य समीपतः ।
मदयन् मदगन्धेन मन्दमन्दगतिर्द्विजम् ।। (३४)
चरन्तं परितः स्वैरं गजयूथं स तापसः ।
अशङ्कितमतिस्स्वस्थो ददर्शोन्मीलितेक्षणः ।। (३५)
पुरतस्तस्य बलभित् गजेन्द्रः काममोहितः ।
रेमे कयाचिद्दुर्बुद्धिः करिण्या सह मायया ।। (३६)
रममाणञ्च तं दृष्ट्वा कुञ्जरं काममोहितम् ।
विचचार क्षणं चित्तं महर्षेस्तस्य धीमतः ।। (३७)
ततस्सञ्चिन्तयन्विप्रः तपोभङ्गकरान्बहून् ।
गजाय स्पृहयामास मोहितस्तस्य मायया ।। (३८)
तद्दोषात्सहसं स्पृष्टस्स तु जज्ञे महागजः ।
महाबलो महातेजा मत्तद्विजगणेश्वरः ।। (३९)
स रेमे करिणीयूथैश्चिरकालमनाकुलः ।
न तु सस्मार मोहान्धः पूर्वजन्मकृतानि च ।। (४०)
न चैवापूजयद्विष्णुं माययैव शचीपतेः ।
न कामविवशं चित्तं विष्णुं स्मरति चञ्चलम् ।। (४१)
सालग्रामे गजश्रेष्ठस्स कदाचिद्यदृच्छया ।
चरंश्चक्रसरिन्मध्ये व्यगाहत मदोद्धतः ।। (४२)
ततस्स दोषैर्निर्मुक्तो विषयासङ्गसंभवैः ।
सस्मार पुण्डरीकाक्षं पूजितं पूर्वजन्मनि ।। (४३)
गर्भजन्मादिभिर्दुःखैः स्मृतिभङ्गो न चान्यथा ।
स सर्वसङ्गनिर्मुक्तः जितक्रोधो जितेन्द्रियः ।। (४४)
सर्वभूतान्तरात्मानं विष्णुमेवाभ्यपूजयत् ।
विचरन् पृथिवीं कृत्स्नां पुण्यदेशदिदृक्षया ।। (४५)
मुनिं गोदावरीतीरे मृकण्डुं सन्ददर्श ह ।
तमागतं मुनिश्रेष्ठो मृकण्डुर्गजयूथपम् ।। (४६)
अभ्युत्थायाभिवाद्याथ श्रद्धया पर्यपूजयत् ।
स मुनिस्तं गजश्रेष्ठं साक्षाद्विष्णुमिवागतम् ।। (४७)
मन्यमानः कृती भूयस्तुष्टाव विविधैः स्तवैः ।
कृतकृत्योऽस्म्यहं यत्त्वामागतोऽस्म्यविशङ्कितः ।।
अनालक्षित-संरम्भा लक्ष्यते पुण्यसिद्धयः ।। (४८)
आराधितो मया पूर्वमच्युतः पुष्करेक्षणः ।
यदिदं दुर्लभं लब्धं विष्णुभक्तस्य दर्शनम् ।। (४९)
स्वस्त्यस्तु तव कल्याणी वर्धते कीर्तिरव्यया ।
अनन्या विष्णुभक्तिस्तेन प्रच्युतिमृच्छति ।। (५०)
आराधितस्त्वया पूर्वं भगवान्मधुसूदनः ।
तथैवाद्यापि सततं पूज्यते माधवस्त्वया ।। (५१)
पुण्याणामपि पुण्योऽसि पूज्यानां पूज्य एव च ।
त्वय्येव सततं विष्णुः वर्तते भक्तवत्सलः ।। (५२)
मया लब्धमिदं पुण्यं दर्शनं तव दुर्लभम् ।
परिणामेन तपसो न त्वमन्येन लभ्यसे ।। (५३)
दर्शनं विष्णुभक्तानां कीर्तनं स्मरणं तथा ।
सर्वदा सर्वपापघ्नमिति वेदविदो विदुः ।। (५४)
पूर्वजन्मकृतानां मे पुण्यानां फलसिद्धयः ।
अद्य प्राप्ता मया यत्त्वं दृष्टोऽसि भगवन् मया ।। (५५)
जगत्पवित्रास्ते नित्यं विष्णुमभ्यर्चयन्ति ये ।
दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः ।। (५६)
अस्मिन्गोदावरीतीरे स्फुरत्कल्हारपङ्कजे ।
पूजयस्व महाभाग पुण्डरीकाक्षमात्मवान् ।। (५७)
कानिचिद्दिवसान्यत्र नेयान्यस्मत्समीपतः ।
ममापि जन्मसाफल्यं भवितास्मत्प्रसादतः ।। (५८)
इति मुनिवचनं निशम्य रम्यं नियतमना गजयूथपो महात्मा ।
उपचितफलपुष्पतोयगन्धैः हरिमखिलेशमपूजयत्तथैव ।। (५९)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये मृकण्डु–गज–संवादो नाम चतुर्दशोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये पञ्चदशोऽध्यायः
नारदः –
गजेन्द्रस्तत्र कल्हारपद्मकाननशोभिते ।
वसन्गोदावरीतीरे निनाय दिवसान्बहून् ।। (१)
मृकण्डुश्च गजेन्द्रश्च कथयन्तौ शुभाः कथाः ।
परस्परं चिरात्कालात्सुखिनौ तौ बभूवुतुः ।। (२)
स कदाचिन्मुनिश्रेष्ठं मृकण्डुं मुनिसत्तमम् ।
पप्रच्छ भुवि पुण्यानि नगराण्यचलाश्च ये ।। (३)
सर्वपापहराण्यद्य वदस्व मुनिसत्तम ।
मृकण्डुः –
पृथिव्यां सन्त्यनेकानि नगराण्यचलांस्तथा ।। (४)
गदितुं न मया शक्यं तेषां सङ्ख्या न विद्यते ।
सप्तैतानि महाभाग नगराण्यचलांस्तथा ।। (५)
येषां स्मरणमात्रेण क्षणान्नश्यन्ति किल्बिषाः ।
अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका ।। (६)
पुरी द्वारवती चैव सप्तैते मोक्षदायिकाः ।
मन्दरो रैवतस्सह्यो महेन्द्रो गन्धमादनः ।
तुषारो हस्तिशैलश्च सप्तैते गिरयस्तथा ।। (७)
नगरीणाञ्च सर्वासां पुरी काञ्ची विशिष्यते ।
गिरीणान्तु तथान्येषां श्रेष्ठो हस्तिगिरिस्स्मृतः ।। (८)
यः पुरा परितस्तत्र वेद्यर्थं विश्वयोनिना ।
शोभितो हयमेधेन पद्मयोनेः प्रियैषिणा ।। (९)
अतस्तत्सदृशो नास्ति हरिस्सन्निहितो यत् ।
यत्स्मृतेस्सर्वपापानि संप्रणश्यन्त्यसंशयः ।। (१०)
यस्स्मरेत्प्रातरुत्थाय हस्तिशैलं समाहितः ।
न तस्य दुष्कृतैर्बाधा भवत्यमलचेतसः ।। (११)
पुरीणामपि सर्वासां श्रेष्ठा पापहरा हि सा ।
एका काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ।। (१२)
यस्यामिष्टो हरिस्साक्षादश्वमेधेन वेधसा ।
सैव भारतवर्षेऽस्मिन् पुरी पुण्यविवर्धिनी ।। (१३)
यस्यान्तर्वर्तते साक्षाद्-व्यक्तरूपश्चतुर्भुजः ।
सर्वलोकगुरुस्साक्षात् हयमेधेन तोषितः ।। (१४)
वेगवत्युत्तरे तीरे पुण्यकोटयां हरिः स्वयम् ।
वरदस्सर्वभूतानां अद्यापि परिदृश्यते ।। (१५)
सत्यव्रतमिति ख्यातं तत्क्षेत्रं पुण्यवर्धनम् ।
न तस्य सदृशं किञ्चिद्-दृश्यते क्षेत्रमुत्तमम् ।। (१६)
विमानं पुण्यकोट्याख्यं दृश्यते यत्र दूरतः ।
तस्य सन्दर्शनादेव सर्वपापैः प्रमुच्यते ।। (१७)
यस्तु सत्यव्रतक्षेत्रे काञ्ची मध्ये जगद्गुरुम् ।
दर्शयेत् पुण्यकोट्यन्तः स पूज्यस्सर्वदेवतैः ।। (१८)
वरदं पुण्यकोट्यन्तः वृश्चिकस्थे दिवाकरे ।
अर्चयेद्गन्धपुष्पाद्यैः स मुक्तो याति तत्पदम् ।। (१९)
प्रोक्तं तीर्थद्वयं तत्र सर्वपापप्रणाशनम् ।
अनन्ताख्यं सरस्तावत् पुण्या वेगवती नदी ।। (२०)
तयोश्शतगुणं पुण्यमनन्ताख्यं सरो महत् ।
न तस्य सदृशं तीर्थं विद्यते भुवि किञ्चन ।। (२१)
स्नात्वा वेगवतीतोये सत्यव्रतसमीपतः ।
अश्वमेधसहस्राणां फलं प्राप्नोति मानवः ।। (२२)
अनन्तसरसि स्नात्वा विमानच्छाययान्विते ।
विमुक्तस्सर्वपापेभ्यो विष्णुलोकं स गच्छति ।। (२३)
क्षेत्रे सत्यव्रते तस्मिन् पुरी काञ्चीति विश्रुता ।
सर्वपापहरा पुण्या योजनत्रयविस्तृता ।। (२४)
तन्मध्ये पुण्यकोट्याख्यं विमानं दृश्यतेऽधुना ।
दृश्यते देवदेवेशः तन्मध्ये वरदो हरिः ।। (२५)
पुष्यमासे सिते पक्षे एकादश्यामुपोषितः ।
द्वादश्यां वेगवत्यान्तु स्नात्वा नियतमानसः ।। (२६)
पायसेनैव वरदं पूजयेद्यः प्रसन्नधीः ।
स मुक्तस्सर्वपापेभ्यो न चेहाजायते पुनः ।। (२७)
तत्र गत्वा महाभाग पूजयस्व जनार्दनम् ।
एकान्ते भगवान्विष्णुः तत्र तिष्ठति सांप्रतम् ।। (२८)
तं दृष्ट्वा पुण्डरीकाक्षं वरदं वेदिमध्यगम् ।
तत्र साफल्यमक्ष्णोस्ते भविता नात्र संशयः ।। (२९)
प्रथमं तत्र गत्वा त्वं स्नात्वा नागाह्वये ह्रदे ।
प्रणम्यानन्तरं देवं अनन्तं लोकपावनम् ।। (३०)
ततो विवरमासाद्य तस्य शैलस्य मूलतः ।
पुलस्त्यं विवरान्तस्थमदृश्यं मुनिपुङ्गवम् ।। (३१)
अभिवाद्य ततस्तेन प्रेषितं यत्कुरुष्व तत् ।
स हि तत्रैव वसति पुलस्त्यो मुनिसत्तमः ।। (३२)
नृसिंहाख्यं स तत्रैव मन्त्रं द्वात्रिंशदक्षरम् ।
चतुर्मुखमुखाल्लब्धं तं सिसाधयिषुः स्वयम् ।। (३३)
विष्णोः प्रतिकृतिं कृत्वा नृसिंहस्य सुशोभनम् ।
समर्चयति युक्तात्मा नृसिंहं मन्त्रदेवताम् ।। (३४)
पिधाय च बिलद्वारं तं शिलाशकलेन च ।
सिंहव्याघ्रादिभिर्भीत्या समास्ते जपतां वरः ।। (३५)
स त्वां दृष्ट्वा स्वकं रूपं दर्शयिष्यत्यसंशयः ।
ततस्तेनाभ्यनुज्ञातो नृसिंहं प्रणवप्रभुम् ।। (३६)
ततः प्रदक्षिणीकृत्य नागाद्रिं तं महायशः ।
आरुह्य शिखरं तस्य पूजयस्व जगत्पतिम् ।। (३७)
त्वया संपूजितस्तत्र वरदो भक्तवत्सलः ।
स दास्यत्यात्मसालोक्यं तव तवाभक्तसुदुर्लभा ।। (३८)
तस्य तद्वचनं श्रुत्वा मृकण्डोश्च महामुने ।
गजेन्द्रस्तु महातेजा ययौ सत्यव्रतं प्रति ।। (३९)
तत्रैव सुचिरं कालमर्चयामास केशवम् ।
अनन्तेनाभ्यनुज्ञातः पुलस्त्येन च धीमता ।। (४०)
काञ्चीमध्ये पुरा तेभ्यः निर्मिते विश्वकर्मणा ।
वापीकूपतटाकेभ्यो हेमाम्भोजानि चाग्रहीत् ।। (४१)
अनन्ततीर्थपद्मानि नाग्रहीत्स कदाचन ।
दर्शनार्थं हि देवस्य स्थापितानि दिवानिशम् ।। (४२)
ततस्तस्मिन् महापुण्ये शान्तव्याघ्रादिके तदा ।
पशवश्च मनुष्याश्च विचेरुर्विगतज्वराः ।। (४३)
पुलस्त्योऽपि महातेजाः निर्भयस्तस्य तेजसा ।
गिरेर्विवरमुद्घाट्य नृसिंहं पर्यपूजयत् ।। (४४)
अन्यैश्च विविधैः पुष्पैः स्वयं पक्वैः फलैस्तथा ।
पूजयामास वरदं भक्तियुक्तो गजाधिपः ।। (४५)
सांस्पर्शिकैश्च विविधैस्तथैवाभ्यवहारिकैः ।
मनोरमैर्विचित्रैश्च भोगैरप्युपचारिकैः ।। (४६)
प्रदक्षिणैर्जपैस्स्तोत्रैः कथालापैश्च सर्वदा ।
गजेन्द्रो वेदिमध्यस्थं वरदं पर्यपूजयत् ।। (४७)
परिचर्यापरस्यास्य गजेन्द्रस्य महात्मनः ।
करिणीनां सहस्राणि पद्मानि च दिने दिने ।। (४८)
मनोहराणि पुष्पाणि फलानि च समन्ततः।
समाहृत्योदकं रम्यं ददुस्तस्मै महात्मने ।। (४९)
कदाचिद्योगनिरतः कदाचित्पूजने रतः।
अचिन्तयन्न चैवास्य मनसा विष्णुना विना ।। (५०)
सदसं कल्पयामास गजेन्द्रः सुदृढः व्रतः ।
कर्मयोगेन देवेशं परितोषयितुं हरिम् ।। (५१)
ददुर्दश सहस्राणि पद्मानि च दिने दिने ।
आहृत्यार्चयितुं विष्णुं मतिं चक्रे महामनाः ।। (५२)
तथा संपूजितस्तेन गजेन्द्रेण महात्मना ।
वरदः पुण्यकोट्यन्तः यावत् त्रेतायुगावधि ।। (५३)
त्रेतायाश्चरमे भागे महानासीदवग्रहः ।
वर्षाणाञ्च सहस्राणि न ववर्षुर्वलाहकाः ।। (५४)
परिशुष्काभवत्पृथ्वी घर्मतप्ता समन्ततः ।
तृणवृक्षलतागुल्मान्यलक्ष्यन्त भुवि क्वचित् ।। (५५)
गजेन्द्रश्च समाहृत्य कथञ्चित्कमलानि सः ।
पर्यपूजयदत्यर्थं दृढभक्तिसमन्वितः ।। (५६)
कमलानि च नाद्राक्षीत् पृथिव्यां स कदाचन ।
तदा न किञ्चिद्बुभुजे गजेन्द्रो नियतव्रतः ।। (५७)
कदाचित्प्रययौ तूष्णीं उदीचीन्दिशमात्मवान् ।
सहितः करिणीयूथैः पद्मान्वेषणतत्परः ।। (५८)
नदीगिरितटाकेषु कमलानि विचिन्वता ।
कमलानि न लब्धानि गजेन्द्रेण न कानिचित् ।। (५९)
ततस्सञ्चिन्तयामास गजेन्द्रो भृशदुःखितः ।
अरण्ये निर्जने घोरे क्षुत्पिपासादिपीडितः ।। (६०)
का गतिर्मम सर्वत्र न लभ्यन्तेऽम्बुजानि च ।
चरता वसुधां कृत्स्नां सर्वत्रापि विचिन्वता ।। (६१)
श्लथानि मम गात्राणि घूर्णिते च विलोचने ।
परिभ्रमति चित्तञ्च किं मया क्रियतामिति ।। (६२)
इत्थं सञ्चिन्तयाने तु गजेन्द्रे दृविक्रमे ।
त्रिकूटशिखराद्वायुः ववौ स्पर्शसुखावहः ।। (६३)
उद्वहान्कमलामोदं कल्लोलासङ्गशीतलः ।
भूतानि घर्मतप्ताः प्रीणयन्काननौकसः ।। (६४)
तमाघ्राय ततो गन्धं प्रहृष्टस्स गजाधिपः ।
ययौ गन्धानुसारेण त्रिकूटशिखरं प्रति ।। (६५)
तस्य शैलस्य शिखरे सरः फुल्लसरोरुहम् ।
दशयोजनविस्तारं शतयोजनमायतम् ।। (६६)
कुमुदोत्पलकल्हारैश्शोभितं सिद्धसेवितम् ।
वकुलैः पाटलैश्चूतैः चम्पकैश्च समावृतम् ।। (६७)
ददर्श परमप्रीतः स्वच्छाम्भस्तज्जलाशयम् ।
यक्षकिन्नरगन्धर्वैर्मुनिभिश्च निषेवितम् ।। (६८)
तत्प्रविश्य सरोमध्यं कुतूहलसमन्वितः ।
काञ्चनाब्जानि जग्राह सुबहूनि महामनाः ।। (६९)
तत्र कश्चिन्महाग्राहस्तीक्ष्णदंष्ट्रो महाननः ।
जग्राहाङ्घ्रिं गजेन्द्रस्य तमश्चन्द्रमसं यथा ।। (७०)
अनादृत्य तु तं ग्राहं गजेन्द्रो बलदर्पितः ।
कमलान्येव जग्राह पुनः पुनरनाकुलः ।। (७१)
तस्मादुद्धर्तुमारेभे जलमध्यान्महागजः ।
तञ्चकर्ष गृहीत्वाङ्घि क्रूरदंष्ट्रो जलेचरः ।। (७२)
तञ्चकर्ष महाग्राहं गजेन्द्रश्च सरस्तटे ।
स च तं सरसो मध्ये चकर्ष महतो बलात् ।। (७३)
इत्थं ग्राह गजेन्द्रौ तौ युयुधाते परस्परम् ।
अन्योन्यबलसंदृप्तौ वर्षाणि सुबहूनि च ।। (७४)
ततो जलचरस्यासीत् बलवृद्धिर्दुरात्मनः ।
बलहानिस्तथैवासीत् गजेन्द्रस्य महात्मनः ।। (७५)
ततस्संशुष्ककण्ठोऽसौ घूर्णाक्षस्संश्लथद्वपुः ।
न शशाक गजाधीशः प्राणान्धारयितुं क्षणम् ।। (७६)
ततस्तु चिन्तयामास कम्पमानवपुस्स्वयम् ।
विसृज्याश्रूणि निश्चेष्टः सन्निरुद्धमनोरथः ।। (७७)
नाहं कलेबरस्यास्य त्राणार्थं मधुसूदनम् ।
त्रातारं सर्वभूतानां प्रार्थयामि जगद्गुरुम् ।। (७८)
कथं वास्मान्महाक्लेशात् विमुक्तोऽहं सुखी पुनः ।
अर्चयिष्ये हरिं दृष्ट्वा वरदं कमलेक्षणम् ।। (७९)
इत्थं सञ्चिन्त्य सहसा गजेन्द्रस्सुमहामतिः ।
प्रणतार्तिहरं दध्यौ वरदं वेदिमध्यगम् ।। (८०)
विमाने पुण्यकोट्याख्ये हस्तिशैलस्य मूर्धनि ।
तिष्ठन्तमच्युतं नित्यं सर्वभूतहिते रतम् ।। (८१)
तुष्टाव च परिश्रान्तो गजेन्द्रो गद्गदस्वरः ।
पुष्कराग्रं समुत्क्षिप्य विष्णुं तत्राह्वयन्निव ।। (८२)
गजेन्द्रः –
त्राहि त्राहि जगन्नाथ शङ्खचक्रगदाधर ।
महाग्राहगृहीतं मामनाथं भक्तवत्सल ।। (८३)
मम सीदन्ति गात्राणि न च पश्यामि किञ्चन ।
न शक्नोमि क्षणं स्थातुमितो रक्ष जनार्दन ।। (८४)
शरणं त्वां प्रपन्नोऽस्मि सर्वकारणकारणम् ।
अनादिमव्ययं विष्णुमच्युतं ब्रह्म शाश्वतम् ।। (८५)
आधारं सर्वभूतानामनाधारमनामयम् ।
त्वां प्रपद्ये गतिं दिव्यां पुरुषं शाश्वतं विभो ।। (८६)
त्वद्भक्तस्सर्वदुर्गाणि समतीत्य जनार्दन ।
कृतात्मा परमं दिव्यं शाश्वतं पदमश्नुते ।। (८७)
पीड्यमानमनेनैव ग्राहेण जलचारिणा ।
रक्ष मां देवदेवेश वर्तते महती व्यथा ।। (८८)
नारदः –
तस्य तद्वचनं श्रुत्वा वरदो भक्तवत्सलः ।
आरुह्य गरुडं शीघ्रं ययौ यत्र गजाधिपः ।। (९०)
दृष्ट्वा ग्राहगृहीताद्धि गजेन्द्रं क्षपितौजसम् ।
बिभेद सहसा नक्रं चक्रेण क्रूरनेमिना ।। (९१)
ततो जलात्समुत्थाय ग्राहो गन्धर्वरूपधृक् ।
हरिं प्रणम्य संस्तुत्य ब्रह्मलोकमुपाविशत् ।। (९२)
ततो ग्राहग्रहान्मुक्तो गजेन्द्रो विष्णुपादयोः ।
करस्थकमलान्येव वरदाय न्यवेदयत् ।। (९३)
ततः प्रसन्नो भगवान् पूर्णचन्द्रनिभाननः ।
पस्पर्श करपद्येन प्रणतं गजयूथपम् ।। (९४)
संस्तुतश्च ततस्तेन वरदो भक्तवत्सलः ।
सालोक्यं तस्य दत्वाथ ययौ हस्तिगिरिं प्रति ।। (९५)
निर्मुक्तगजरूपञ्च महाशान्तं तपोधनम् ।
दिव्यरूपधरं शान्तमारोप्य गरुडोपरि ।। (९६)
माहात्म्यं विष्णुभक्तानां सर्वलोकेषु दर्शयन् ।
प्रययौ सर्वभूतात्मा सिद्धगन्धर्वसेवितः ।। (९७)
निर्मुक्तकल्मषास्तत्र वर्तन्ते दिव्यसूरयः ।
अभितो हस्तिशैलस्य देवराजदिदृक्षवः ।। (९८)
यथैव परमव्योम निर्गुणं दिव्यमव्ययम् ।
परितो हस्तिशैलस्य दिव्यं तेजोमयं तथा ।। (९९)
तत्रैवाराधितो विष्णुर्वरदो वेदिमध्यगः ।
पुण्यकोटिविमानान्तः गजेन्द्रेण महात्मना ।। (१००)
इत्थं पुरा करिवरः करिशैलशृङ्गे संपूज्य तत्र वरदं सरसीरुहाक्षम् ।
त्रेतावसानसमये परमस्य पुंसः सालोक्यसंज्ञमपवर्गमपि प्रपेदे ।। (१०१)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये गजेन्द्रमोक्षो नाम पञ्चदशोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये षोडशोऽध्यायः
भृगुः –
भगवन् हस्तिशैलाग्रे हरिर्देवपुरोधसा ।
कथमभ्यर्चितस्सम्यक् विस्तरेण वदस्व मे ।। (१)
नारदः –
त्रेतायुगे व्यतीतेऽथ द्वापरे तु समागते ।
सुराणामसुराणाञ्च महद्युद्धमभूद्दिवि ।। (२)
निर्जिताश्च तदा देवाः दानवैर्बलदर्पितैः ।
परित्यज्य दिवं भीता वनं जग्मुरितस्ततः ।। (३)
ततो निर्मन्थ्य दैतेयाः तां पुरीममरावतीम् ।
उद्यानानि विचित्राणि चक्रुः पीडां दिवौकसाम् ।। (४)
ततस्संभूय विबुधाः सेन्द्रास्संक्षीणवृत्तयः ।
अभिगम्य च धातारं प्रणिपत्येदमब्रुवन् ।। (५)
देवाः –
भगवन् सह दैतेयैरस्मात्कस्मादभूद्रणम् ।
न चासीद्विजयोऽस्माकं वयं तैरेव निर्जिताः ।। (६)
क्षीयन्तेऽस्मद्बलान्येव वर्धन्ते तद्बलानि च ।
कारणं तत्र नो ब्रूहि जगतस्त्वं हि कारणम् ।। (७)
ब्रह्मा –
शृणुध्वं कारणं तत्र वक्ष्येऽहं तु सुरर्षभाः ।
यस्माद्विनिर्जिता यूयं दैतेयैश्च दुरात्मभिः ।। (८)
इदानीं दिवि युष्माकं गुरुश्शप्तो बृहस्पतिः ।
मुनिभिः क्रोधसंविष्टैः दिवः प्रच्यावितः पुरा ।। (९)
अतो विनिर्जिता यूयं दैतेयैः सपुरोहितैः ।
तदा प्रभृति सङ्क्षोभः त्रिदिवस्याभवन्महान् ।। (१०)
अवग्रहैः च बहुभिः पीड्यते च वसुन्धरा ।
अतः सध्यस्समाहूय गुरुं सर्वदिवौकसाम् ।। (११)
पुरोहितं कुरुध्वं वो बहुवृद्धिर्भविष्यति ।
सत्यव्रतेऽधुना क्षेत्रे ह्यनन्तसरसस्तटे ।। (१२)
तपश्चरति युक्तात्मा सुतः चित्रशिखण्डिनः ।
चित्रापूर्णासु तत्रैव वत्सरे वत्सरे पुनः ।। (१३)
अहं संपूजयिष्यामि हरिं हस्तिगिरीश्वरम् ।
गच्छध्वं तद्दिने यूयं पुरीं काञ्चीं दिवौकसः ।। (१४)
अहमप्यागमिष्यामि समारार्द्ध जगद्गुरुम् ।
तस्य तद्वचनं श्रुत्वा प्रणिपत्य पितामहम् ।। (१५)
प्रययुर्ब्रह्मसदनात् कृतकृत्यधियस्तदा ।
सचित्रापौर्णमास्यां तु पद्मयोनिस्समाहितः ।।
देवदेवं समाराद्धुं पुरीं काञ्चीमुपागमत् ।। (१६)
समेयुस्तत्र ते सर्वे देवास्सेन्द्रपुरोगमाः ।
प्रणम्य तुष्टुवुस्तत्र वरदं वेदिमध्यगम् ।। (१७)
ददृशुश्च तपस्यन्तं द्विजरूपधरं गुरुम् ।
विमानं पुण्यकोट्याख्यं वीक्षमाणं समाहितम् ।। (१८)
समाराध्य दिवानक्तं वरदं चतुराननः ।
ततो विज्ञापयामास सुरकार्यं च शार्ङ्गिणे ।। (१९)
ब्रह्मा –
प्रसीद देवदेवेश पुराण पुरुषोत्तम ।
त्वमेव कर्ता भोक्ता च जगत्त्राता सनातनः ।। (२०)
भवत्यखिललोकेषु यदा धर्मस्य संक्षयः ।
तस्य त्राता हि सर्वत्र त्वमेव मधुसूदन ।। (२१)
इदानीं त्रिदिवस्यासीत् विनाशो धर्मसंक्षयात् ।
परिभ्रमन्ति दैतेयैरर्दिताश्च दिवौकसः ।। (२२)
अपराधगुरुं स्वर्गं मयि तिष्ठति वृत्रहा ।
अतस्संपीड्यते स्वर्गो दैतेयैर्धर्मसंक्षयात् ।। (२३)
इमे समागता देवाः वृत्रशत्रुपुरोगमाः ।
निर्जिता दानवैर्देवास्त्वामेव शरणं गताः ।। (२४)
गुरुं पुरोधसं कृत्वा परित्राहि जगत्त्रयम् ।
अस्मिन्पुरोहिते जाते धर्मबुद्धिर्भविष्यति ।। (२५)
मुनिशापान्मनुष्यत्वमुपेत्य स बृहस्पतिः ।
त्रिदिवात्प्रच्युतोऽत्रैव वर्तते भुवनेश्वर ।। (२६)
तेनाज्ञानात्परि त्यक्ताश्ववधूश्शरणं गतौ ।
तद्दोषक्षालनायास्मिन् क्षेत्रेऽनन्तसरस्तटे ।। (२७)
बहून्यब्दसहस्राणि तेन तप्तं परं तपः ।। (२८)
नारदः –
स तु तद्देहमुत्सृज्य मानुषं दुःखसागरम् ।
ततो विष्णोः प्रसादेन दिव्यं रूपमुपागमत् ।। (२९)
ततस्तं सर्वदेवानामुवाच वचनं गुरुः ।
गुरुः –
कृतकृत्योऽस्म्यहं नाथ तारितस्त्वत्प्रसादतः ।। (३०)
पातकानि प्रणष्टानि दुःखानि प्रशमं ययुः ।
मुनिशापाद्विनिर्मुक्तः स्वरूपं प्राप्तवानहम् ।। (३१)
त्वामेव दृष्टवांश्चात्र परितो लभ्यमात्मना ।
मम विज्ञापनमिदं प्रसीद पुरुषोत्तम ।। (३२)
त्वयि प्रत्यक्षतां याते लब्धमेवाभिवाञ्छितम् ।
यथा त्वं पूजितस्तेन गजेन्द्रेण महात्मना ।। (३३)
त्रेतायां द्वापरे तद्वत् पूजां प्रतिगृहाण मे ।
मयैतत्सुचिरं कालं प्रार्थितं तव दर्शनम् ।। (३४)
लब्धमेवं प्रसादं मे त्वत्पदाम्भोरुहार्चनम् ।
नारदः –
इत्युक्तस्तेन गुरुणा प्रत्युवाच जनार्दनः ।
प्रसन्नवदनः श्रीमान् वरदो भक्तवत्सलः ।। (३५)
श्रीभगवान् –
तव मत्पूजनं दत्तं द्वापरे तु मया युगे ।
यावत्कलियुगप्राप्तिः तावत्संपूजयस्व माम् ।। (३६)
अत्रैव तु गुरो नित्यं मत्पूजाप्रवणे त्वया ।
नश्यन्तु दिवि दुःखानि सर्वसंपद्भविष्यति ।। (३७)
नारदः –
इत्युक्ते विष्णुना तेन विधातृप्रमुखास्सुराः ।
तं प्रणम्य समामन्त्र्य प्रययुः प्रीतमानसाः ।। (३८)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये बृहस्पति–शापमोक्षणं नाम षोडशोऽध्यायः
अथ श्रीहस्तिगिरिमाहात्म्ये सप्तदशोऽध्यायः
नारदः –
ततो देवगुरुस्तत्र पूतात्मा गतकल्मषः ।
हरिं हस्तिगिरेमूर्ध्नि नित्ययुक्तोऽभ्यपूजयत् ।। (१)
पाञ्चरात्रोक्तमास्थाय विधिं भोगापवर्गदम् ।
अन्वपूजयदेकाग्रस्सदा तद्भावभावितः ।। (२)
सत्वस्थस्सात्विकैर्भोगैरनन्यो वीतमत्सरः ।
प्रशान्तस्सत्यवाङ्मौनी नियतो दृढमानसः ।। (३)
गुरुणाभ्यर्च्यमानेऽस्मिन् वेदिमध्ये जनार्दने ।
धनधान्यसुसंपूर्णा बभूव वसुधा मुने ।। (४)
नाशक्नुवंश्च दैतेयाः पीडने त्रिदिवौकसाम् ।
प्रवर्तन्ते स्म सततं यज्ञदानतपःक्रियाः ।। (५)
न कदाचिदनावृष्टिः नासीद्राष्ट्रपरिप्लवः ।
न धर्मव्यत्ययो लोके नैव धर्मव्यतिक्रमः ।। (६)
कुशध्वज इति ख्यातस्तस्मिन्काले महामतिः ।
अयोध्याधिपतिः कश्चिदासीदिक्ष्वाकुवंशजः ।। (७)
शशास स महातेजा महीं सागरमेखलाम् ।
स्वभुजाक्रान्तभूपालस्सत्यधर्मपरायणः ।। (८)
स कदाचिन्नृपश्रेष्ठः पुत्रार्थी यतमानसः ।
ययाज धनधान्याभ्यां पुत्रीयामिष्टिमादधात् ।। (९)
तदन्ते सङ्गतान् सर्वानभिष्ट्रय प्रसाद्य च ।
मुनीनभ्यर्थयामास स नृपः पुत्रमात्मनः ।। (१०)
महर्षीणाञ्च सर्वेषां सर्वलोकनमस्कृतः ।
सर्ववेदार्थतत्त्वज्ञो वेदव्यासस्ततोऽब्रवीत् ।। (११)
व्यासः –
शृणु वत्स महीपाल तत्त्वतस्ते हितं वचः ।
भविष्यति सुतो येन सर्वलोकप्रकाशकः ।। (१२)
स तु यज्ञेन भविता पुत्रस्तव महीपते ।
उपायं शृणु वक्ष्यामि येन सिद्धिर्भविष्यति ।। (१३)
वेगवत्युत्तरे तीरे क्षेत्रे सत्यव्रताख्यके ।
अस्ति काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ।। (१४)
हस्तिशैल इति ख्यातस्तत्र तिष्ठति भूधरः ।
तन्मूर्ध्नि पुण्यकोट्याख्यं विमानञ्च विराजते ।। (१५)
तन्मध्ये देवदेवेशः पद्मपत्रनिभेक्षणः ।
वरदस्सर्वभूतेभ्यो हरिस्तिष्ठति सर्वदा ।। (१६)
तत्र गत्वा तु संपूज्य वरदं भक्तवत्सलम् ।
प्रार्थयस्वात्मनः पुत्रं किं वान्यद्यद्यदिच्छसि ।। (१७)
तत्प्रसादान्महीपाल सर्वलक्षणसंवृतः ।
अचिरादेव पुत्रस्ते भविता नात्र संशयः ।। (१८)
नारदः –
स तु तस्य वचश्श्रुत्वा वेदव्यासस्य भूपतिः ।
तं प्रणम्य समामन्त्र्य ययौ हस्तिगिरिं प्रति ।। (१९)
बृहस्पतिमुखाल्लब्धं मन्त्रमष्टाक्षरं ततः ।
तत्र संपूजयामास वरदं वेदिमध्यगम् ।। (२०)
अनन्तसरसि स्नात्वा नियतो नियतेन्द्रियः ।
विविधैरनपानैश्च दिव्यस्रक्चन्दनादिभिः ।। (२१)
स्तोत्रैः प्रदक्षिणैर्दिव्यैः मन्त्रैः ध्यानैः जपैरपि ।
उपवासैश्च दानैश्च तोषयामास केशवम् ।। (२२)
तत्प्रसादेन सहसा तस्यासीत्पृथिवीपतेः ।
सर्वलक्षणसंपन्नः पुत्रो धर्मविवर्धनः ।। (२३)
सर्वविश्वजिदित्येव नाम चक्रे गुरुस्तदा ।।
तेजोबलसमायुक्तो ववृधे सोऽपि वीर्यवान् ।। (२४)
तस्मिन्नेव विनिक्षिप्य पुत्रे स्वधुरमात्मवान् ।
कुशध्वजस्समभ्यर्च्य वरदं मुक्तिमभ्यगात् ।। (२५)
विश्वजित्तु महीं कृत्स्नां सद्वीपवनसागराम् ।
शशास भुजवीर्येण महेन्द्रस्त्रिदिवं यथा ।। (२६)
स काञ्चीं समनुप्राप्य कुशध्वजसुतो वशी।
छित्वा वनानि सर्वाणि पुरीं चक्रेऽथ पूर्ववत् ।। (२७)
हर्म्यप्रासादसंयुक्तां हाटकोच्छ्रितगोपुराम् ।
वीथीशतसमायुक्तां विशालायतवेदिकाम् ।। (२८)
नवीचकार सर्वाणि देवतायतनानि च ।
उद्यानानि विचित्राणि कारयामास पूर्ववत् ।। (२९)
उपवास सुचिरं कालं तस्मिन्नेव पुरे नृपः ।
नृपशेखररत्नौघज्वलार्चितपदद्वयः ।। (३०)
हेमरत्नविचित्राणि गोपुराणि समन्ततः ।
हस्तिशैलस्य परितः कारयामास विश्वजित् ।। (३१)
प्रददा देवराजाय नगरग्रामपत्तनान् ।
सुबहूनभितो वीरः कुशध्वजसुतो वशी ।। (३२)
निधाय स्वधुरं तस्मिन् देवराजे तु विश्वजित् ।
तदाज्ञयैव सर्वाणि शशास भुवनानि च ।। (३३)
अनावृष्ट्यादिकं नासीत् न च कालविपर्ययः ।
न व्याधिर्न भयं चोरात् न क्षुधार्तिः न चानृतम् ।। (३४)
फलपुष्पसमृद्धाश्च वृक्षगुल्मलतास्तथा ।
बभूव मेदिनी कृत्स्ना समृद्धा सस्यमालिनी ।। (३५)
यथाकालन्तु पर्जन्यो ववर्षात्यन्तभावितः ।
अन्तकोऽपि न जग्राह प्राणान् तस्मिन् प्रशासति ।। (३६)
तोषितस्तत्र भगवान् हविर्भिः तेन देवराट् ।
पुरे तस्मिन्मुनिश्रेष्ठ काञ्चनानि ववर्ष ह ।। (३७)
स तत्र सुचिरं कालं वसन् सत्यपराक्रमः ।
विविधैर्हेमपद्मैश्च वरदं पर्यपूजयत् ।। (३८)
सत्यसन्ध इति ख्यातस्तस्यासीन्नृपतेस्सुतः ।
स तु तस्मिन्पुरे स्थित्वा देवराजमपूजयत् ।। (३९)
मुचुकुन्द इति ख्यातो मुकुन्दसमविक्रमः ।
तस्यासीन्नृपतेः पुत्रो महाबलपराक्रमः ।। (४०)
निवेद्य स च सर्वस्वं देवराजपदाब्जयोः ।
शशास जगतीं कृत्स्नां असपत्नामनाकुलाम् ।। (४१)
तस्य पुत्रोऽथ सर्वज्ञः तस्य सन्तापनस्सुतः ।
सहस्रांशुश्च तस्यासीत् मरीचिरिति तत्सुतः ।। (४२)
तस्य सत्यजिदित्यासीत् सुजनो नाम तत्सुतः ।
इत्थं तत्रैव नगरे बहवः पृथिवीभुजः ।
शशासुः पृथिवीं कृत्स्नां देवराजपदाश्रयाः ।। (४३)
ततः कलियुगे प्राप्ते वरदो वेदिमध्यगः ।
अर्चितो गुरुणा सम्यक् द्वापरे तु युगे तथा ।। (४४)
अब्रवीत्परमप्रीतो बृहस्पतिमुपाश्रितम् ।
वीक्षमाणश्च संपूर्णं लोचनाभ्यां तदा मुने ।। (४५)
श्रीभगवान् –
अत्रैव सुचिरं कालम् अर्चितोऽहमनाकुलम् ।
अतश्च सुप्रसन्नोऽहं प्रार्थयस्व यदिच्छसि ।। (४६)
गुरुः –
प्रार्थनीयं च मे नाथ किमलभ्यं मयाधुना ।
यन्मयाभ्यर्चितो ह्यासीदभूमिस्त्वं मनोगिराम् ।। (४७)
ममाप्यत्र निवासोऽस्तु सततं त्वत्प्रसादतः ।
प्रार्थनीयं न चैतस्माद्विद्यते मधुसूदन ।। (४८)
तस्य तद्वचनं श्रुत्वा तमाह पुरुषोत्तमः ।
दर्शयन्नात्मनो भावं शरण्यः शरणार्थिनाम् ।। (४९)
श्रीभगवान् –
गुरुत्वं सर्वदेवानां तव दत्तं मया पुरा ।
निवासश्च सुरावासो यावदाभूतसंप्लवम् ।। (५०)
रक्षिताहं सुराणान्तु विशेषेण सदा गुरो ।
अतो मत्प्रीतये तत्र निवसन्पूजयस्व माम् ।। (५१)
पालयित्वा चिरं कालं त्रिदिवं मम शासनात् ।
लोकानां प्रलये प्राप्ते मामेवेष्यत्यसंशयः ।। (५२)
मासि प्रोष्ठपदे पुण्ये श्रवणे प्रतिवत्सरम् ।
अत्रैवागत्य मामेव पूजयस्व दिवानिशम् ।। (५३)
इत्युक्ते हरिणा तेन संस्तुत्य वरदं गुरुः ।
प्रणम्य देवदेवेशं जगाम त्रिदशालयम् ।। (५४)
गते वाचस्पतौ तत्र वरदो वेदिमध्यगः ।
अनन्तेनार्चनीयोऽभूत् यावदाभूतसंप्लवम् ।। (५५)
पूज्यमाने तु तेनैव हरौ हस्तिगिरौ स्वयम् ।
कलिदोषो न तत्रासीत् क्षेत्रे सत्यव्रते तदा ।। (५६)
रक्षितं सर्वलोकानां पूज्यते तत्र तेन सः ।
अनन्तेनैव तत्रैव युगदोषः कथं भवेत् ।। (५७)
तत्रैव सततं विष्णुः सन्निधत्ते जगत्पतिः ।
तदाज्ञयैव धर्मश्च चतुष्पाद्वर्तते तथा ।। (५८)
उपास्य वरदं तत्र सर्वे भक्तिसमन्विताः ।
राज्यं पुत्रधनैश्वर्यं लभन्ते सार्वलौकिकम् ।। (५९)
इत्येतत्कथितं सर्वं विस्तरेण मया तव ।
हस्तिशैलस्य माहात्म्यं क्षेत्रस्य नगरस्य च ।। (६०)
य इदं शृणुयान्नित्यं विष्णुभक्तिसमन्वितः ।
कीर्तयेद्यश्च तौ विष्णोः सायुज्यमभियास्यतः ।। (६१)
माहात्म्यं हस्तिशैलस्य ये स्मरन्ति दिने दिने ।
विमुक्तास्सर्वपापेभ्यो विष्णुभक्ता भवन्ति ते ।। (६२)
सायं प्रातर्य इदमखिलं पुण्यमाख्यानमग्र्यम्
ध्यायन्विष्णुं प्रणतसुहृदं हस्तिशैलस्य मूर्ध्नि ।
सद्यस्त्यक्त्वा स हृदजनित-क्रोधलोभाभ्यसूयः
प्राप्नोत्यायुः श्रियमपि यशो देवदेवप्रसादात् ।।
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये अनन्ताभ्यर्चनं नाम सप्तदशोऽध्यायः
श्रीहस्तिगिरिमाहात्म्ये अष्टादशोऽध्यायः
भृगुः –
कथितो विस्तरेणैव हयमेधस्त्वया विधेः ।
आविर्भावस्त्वया विष्णोः हस्तिशैलस्य मूर्धनि ।। (१)
श्रुत्वैत्कृतकृत्योऽस्मि त्वत्प्रसादान्महामुने ।
न मया सदृशो लोके नरो धन्यतमः क्वचित् ।। (२)
इदानीं श्रोतुमिच्छामि त्वत्प्रसादान्महामुने ।
त्वदन्यस्सर्वधर्माणां वक्ता मे भुवि कश्चन ।। (३)
मेरुशृङ्गे पुरा ब्रह्मा याज्ञवल्क्याय धीमते ।
योगमष्टाङ्गसंयुक्तं यमाह कमलासनः ।। (४)
तन्ममाचक्ष्व भगवन् शुश्रूषोर्योगमुत्तमम् ।
त्वामुपास्य न सर्वत्र विद्यते दुर्लभं नृणाम् ।। (५)
नारदः –
सर्वगुह्यतमं गुह्यं प्राहुः योगं योगविचक्षणाः ।
तथापि शृणु वक्ष्यामि त्वदनुग्रहकाम्यया ।। (६)
यज्ञदानतपस्सत्यस्वाध्यायातिथिसत्क्रियाः ।
एतास्सर्वास्तु योगस्य कलान्नार्हन्ति षोडशीम् ।। (७)
तव वक्ष्यामि तं योगं शृणुष्व सुसमाहितः ।
श्रवणार्हस्तु योगस्य न त्वदन्यो हि वर्तते ।। (८)
मनसो निग्रहः प्रोक्तस्सर्वयोगस्य संग्रहः ।
तस्यैव संश्रयाद्योगी तस्मात्प्रच्यवतेऽवशः ।। (९)
वैराग्यं समतास्तिक्यं धृतिर्मौनं विमानिता ।
मनसो निग्रहोपायः कीर्तितो योगवित्तमैः ।। (१०)
व्याधिर्विषादो व्यायामः जडतानिष्टचिन्तनम् ।
समाजो विषयप्रीतिरेता योगविघातकाः ।। (११)
योगाङ्गान्यधुना वक्ष्ये कीर्तितानि च वेधसा ।
येभ्यो योगस्य संसिद्धिर्भविष्यति नृणां ध्रुवम् ।। (१२)
यमः प्रकीर्तितः पूर्व नियमश्च तथासनः ।
प्राणयामः संयमश्च प्रत्याहारश्च धारणा ।। (१३)
तथा ध्यानसमाधिश्च प्रोक्तो योगविचक्षणैः ।
अष्टाङ्गानि तु सङ्ग्राह्याण्यन्यथा न भवेद्धि सः ।। (१४)
सर्वभूतहितं प्रोक्तं योगस्यायतनं महत् ।
श्रद्धा च सौमनस्यञ्च विशुद्धिस्सत्यवादिता ।। (१५)
चराचराणां भूतानां वाङ्मनःकायकर्मभिः ।
अनभिद्रोहशीलस्स्याद्योगी सततसंयुतः ।। (१६)
न चैवानृतवादी स्यान्न वृथा जल्पतत्परः ।
असत्कथारतिर्न स्यान्न विषादपरो भवेत् ।। (१७)
आत्मप्रशंसा निन्दां च परगर्हां परस्तुतिम् ।
असत्यहासोपालम्भपरिवादांश्च वर्जयेत् ।। (१८)
पत्रपुष्पफलादीनि वस्त्रधान्यादिकं तथा ।
परक्रियान्यदत्तानि नाददीत कदाचन ।। (१९)
परदारान्न वीक्षेत परदोषान्न विस्तरेत् ।
परवादांस्तथा योगी स्वगुणान्न च कीर्तयेत् ।। (२०)
ब्रह्मचर्यरतो नित्यं गुरुशुश्रूषको भवेत् ।
धनधान्यादिकं योगी गृह्णीयान्न कदाचन ।।
गृह्णीयाद्देहरक्षार्थं अन्नपानादिकं मितम् ।। (२१)
वाङ्मनःकर्मभेदेन त्रिविधं शौचमाचरेत् ।
येन निस्संशयं ज्ञानं स्वयमेव प्रकाशते ।। (२२)
परप्रियहितालापो वाग्छुद्धिरिति कीर्तिता ।
शुभानुध्यानमनिशं मनश्शुद्धिरितीष्यते ।। (२३)
स्वधर्माचारनिरताः कायशुद्धिरिति स्मृता ।
येन निष्कल्मषं चित्तं स्ववशे प्राप्यते हि सा ।। (२४)
कैवल्यं(समत्वं) परमं यायात् संपदागमनाशयोः ।
तथा शीतोष्णयोोंगे दर्शने शत्रुमित्रयोः ।। (२५)
प्रियाप्रियश्रुतौ तद्वत् सर्वत्र समतां व्रजेत् ।
व्रतोपवासनिरतो जपहोमपरायणः ।। (२६)
देवानृषीन्मनुष्यांश्च पूजयेद्भक्तितो गृही ।
विशुद्धमन्नमश्नीयात् प्रतिषिद्धानि वर्जयेत् ।। (२७)
ततोऽस्य विमलं चित्तं प्रत्यक्प्रवणतां व्रजेत् ।
स्वाध्यायपरमो योगी योगसिद्धिं च विन्दति ।। (२८)
मौनी स्वाध्यायसंपन्नो न विघातैः विरुध्यते ।
जपेदष्टाक्षरं युक्तो द्वादशाक्षरमेव वा ।। (२९)
ततः प्रक्रमते सम्यगात्मज्ञानं न संशयः ।
गन्धपुष्पादिभिर्विष्णुं अर्चयेत्प्रयतो वशी ।।
प्रदक्षिणस्तुतिध्यानैस्तस्मिन्नेव नयेन्मनः ।। (३०)
यमैश्च नियमैश्चैव संयुक्तस्सत्यसङ्गरः ।
एकाकी नियताहारो युञ्जीत सततं नरः ।। (३१)
समे शुद्धे विविक्ते च निम्नोन्नतविवर्जिते ।
कुशास्तरणपर्यङ्के समासीत यतात्मवान् ।। (३२)
आसनं स्वस्तिकं बध्वा पद्म-वीरासनं तथा ।
यतेन्द्रियमनोबुद्धिः वीतरागो विमत्सरः ।। (३३)
उपविश्यासने युक्तः प्राणायामञ्च धारयेत् ।
त्रि चतुः पञ्च षट् सप्त दश द्वादश चैव वा ।। (३४)
सगर्भ धारयेद्धीरो देहशुद्ध्यर्थमात्मवान् ।
ध्यानमन्त्रसमायुक्तस्सगर्भः परिकीर्तितः ।। (३५)
निरोधः केवलं वायोरगर्भः प्राणसंयमः ।
पृथ्व्यंबुवायुतेजांसि विलाप्य स्वगुणेषु च ।। (३६)
ज्ञानेन्द्रियाणि सर्वाणि तथा कर्मेन्द्रियाणि च ।
शब्दादिभ्यस्समाहृत्य भूतादौ विनिवेशयेत् ।। (३७)
शब्दादींश्च तथा तस्मिन् प्रविलाप्य तथात्मनः ।
भूतादींश्च तथा बुद्धौ बुद्धिञ्च प्रकृतौ न्यसेत् ।। (३८)
निवेशयेच्च तां भूयो निर्गुणे परमात्मनि ।
ततो निष्कल्मषं मत्वा पुरुषं पञ्चविंशकम् ।। (३९)
धारयेत्तन्मनोध्येये वासुदेवे समाहितः ।
विषयेषु यथा चित्तं न निर्गच्छति संयुतः ।। (४०)
तथैव धारयेद्विष्णौ योगयुक्तः स्थिरासनः ।
न किञ्चित् चिन्तयेद्धीरो नासाग्रन्यस्तलोचनः ।। (४१)
चिन्तयेत्प्रथमं विष्णोः स्थूलं रूपमनाकुलः ।
आब्रह्म स्तंभपर्यन्तं स्थूलं विद्धि महामुने ।। (४२)
ततः क्रमेण निर्दोषं सूक्ष्मरूपं विचिन्तयेत् ।। (४३)
सूक्ष्मञ्च द्विविधं प्रोक्तं तद्भेदं गदतश्शृणु ।
शङ्खचक्रगदापद्मलक्ष्मीकौस्तुभलक्षणम् ।। (४४)
प्रसन्नवदनं सौम्यं पद्मपत्रनिभेक्षणम् ।
पीतांबरधरं चारु वनमालाविभूषितम् ।। (४५)
शुद्धस्फटिकसङ्काशं विज्ञानमयमव्ययम् ।
निष्कलं निरवद्यं च निर्गुणं षड्गुणान्वितम् ।। (४६)
अन्यत्सर्वगतं सूक्ष्ममप्रतर्क्यमलक्षणम् ।
अशब्दमक्षयं नित्यं निर्विकल्पं निरञ्जनम् ।। (४७)
वासुदेवाख्यमव्यक्तं परमं ब्रह्म शाश्वतम् ।
इत्थं रूपद्वयं सूक्ष्मं विष्णोर्यत्नेन चिन्तयेत् ।। (४८)
तथैव भावयेद्युक्तो मनः प्रत्यक्षगं हरिम् ।
सन्ततं चिन्तयेद्विष्णुं योगयुक्तो गतक्लमः ।। (४९)
शब्दस्पर्शादिकान् भोगान् न कदाचिद्विचिन्तयेत् ।
एकाक्षरं परं ब्रह्म जपेन्नियतमानसः ।। (५०)
ध्यायीत परमं ब्रह्म वासुदेवाख्यमव्ययम् ।।
योगविघ्नकरानन्यान्नियमानपि वर्जयेत् ।। (५१)
न च युक्तस्य कर्तव्यमिति ब्रह्मविदो विदुः ।
इत्याचरंश्च तथाचारान् योगरक्षार्थमात्मवान् ।। (५२)
करोति सततं तस्मात्तद्विघातांस्तु सता न्यसेत् ।
इत्थं ध्यात्वा हरिं योगी सुखासीनो गतव्यथः ।। (५३)
निराशी निर्ममो भूत्वा प्रशान्तिमधिगच्छति ।
विकल्परहितं ध्यात्वा ततो विष्णुं सनातनम् ।। (५४)
विनिष्पन्नसमाधिस्तु भूयस्तन्मयतां व्रजेत् ।
ततो विगलितक्लेशः क्षीणकर्माशयो वशी ।। (५५)
निरस्तातिशयानन्दः तद्विष्णोः पदमृच्छति ।
इति सम्यक्समाख्यातो योगसारो मयाधुना ।।
साङ्खयं योगमथो वक्ष्ये शृणुष्व सुसमाहितः ।। (५६)
नाडी भेदादपगततमः कल्मषस्तासु नीत्वा प्राणयामैः नियमितगतिं वायुमापूरणेन ।
हृत्वाद्यन्तः स्फुरितममृतं ज्योतिरष्टाक्षराख्यं यस्तं पश्येत् स भवति नरो निर्ममस्सर्वकालम् ।। (५७)
इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये भृगु–नारद–संवादे अष्टादशोऽध्यायः
समाप्तोऽयं ग्रन्थः