नवतिरुप्पदि माहात्मियम् Part 1

श्रीवैकुण्ठनाथ विजयासन भूमिपाल-देवेशपङ्कजविलोचनचोरनाट्यान् ।

निक्षेपवित्त मकरायतकर्णपाशौ-नाथम् नमामि वकुळाभरणेनसार्धम् ।

बृह्माण्डपुराणान्तर्गत नवतिरुपति माहात्मियम्

श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे ताम्रातटक्षेत्रप्रशम्सा

प्रथमोऽध्यायः

शुक्लाम्बरधरम्विष्णुम् शशिवर्णम् चतुर्भुजम् ।

प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये ।

व्यासायविष्णुरूपाय व्यासरूपायविष्णवे ।

नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः ।

श्रीशैलेशदयापात्रम् धीभक्त्यादि गुणार्णवम् ।

यतीन्द्रप्रवणम् वन्दे रम्यजामातरम् मुनिम् ।

नैमिशेपुण्यनिलये क्षेत्रे बहुगुणान्विते ।

सत्रम्कर्तुम् समायाताः ऋषयोब्रह्मवादिनः ।

भारद्वाजोगौतमश्च कण्वः कात्यायनोसितः ।

अङ्गिरा जामदग्निश्च वसिष्टोऽत्रिपराशरः ।

नारदः पर्वतश्चैव शौनकः शुनकः शुचिः ।

देवलम् काश्यपो गार्गो मरीचिर्मौनभार्गवः।

विश्वामित्रो वामदेवः कृष्णद्वैपायनस्तथा ।

एतेचान्येचमुनयः तत्र सर्वेव् समागताः ।

तेषाम् शिष्याः प्रशिष्याश्च बहुळास्तु समागताः ।

सर्वे विद्याव्रतस्नाताः सर्वे धर्मपरायणाः ।

वेदशास्त्रार्थविदुषो ब्रह्मध्यानपरायणाः ।

तेषामेवम् प्रभावानाम् ऋषीणामतितेजसाम् ।

इतरेतरसम्वादः सुमहानभवत्तदा ।

केचित्तत्र कुरुक्षेत्रम् प्रशम्सन्ति मुनीश्वराः ।

केचिद्वैनैमिशारण्यम् केचित्काशीम्गयाम्परे ।

गङ्गातटमहत्पुण्यम् केचिद् बदरिकाश्रमम् ।

गोदावरीतटेपुण्यम् क्षेत्रमस्तीति केचन ।

सरस्वतीतटेक्षेत्रम् प्रशम्सन्तिमहत्तमम् ।

इति केचित् परेसेतुम् कुम्भघोणमथापरे ।

कावेरीतटमेवेति केचित् गोकर्णमित्युतः ।

अनन्तशयनम्पुण्यम् पृथग्वादाः प्रजज्ञिरे ।

एतस्मिन्नेवकाले तु तत्र सूतस्समागतः ।

सूतात्मजम् समायातम् दृष्ट्वासर्वे महर्षयः ।

प्रहृष्टमनसःसर्वे हर्षेणोत्फुल्ललोचनाः ।

आसनाद्युपचारेण सूतमभ्यर्च्यते द्विजाः ।

तत्सम्शयम् पृष्टुकामाः क्षेत्रस्यविविधस्य च ।

अबृवन् मुनयस्सर्वे व्यासशिष्यम् महामुनिम् ।

सूतपुत्र महाप्राज्ञ! सर्वशास्त्रविशारद ।

लोकेस्मिन् पुण्यनिलयम् पुण्यतीर्थसमन्वितम् ।

विष्णुप्रीतिसमायुक्तम् विष्णुसान्निध्यसम्युतम् ।

वैष्णवाधिष्ठितम् क्षेत्रम् तत्समाचक्ष्व सूतज ।

एते मुनिगणाः क्षेत्रम् विविधम् प्रबृवन्ति वै ।

सर्वज्ञस्त्वम् विचार्यैव समाचक्ष्वोत्तमोत्तमम् ।

इति तेषाम् वचःशृत्वा ऋषीणाम् ब्रह्मवादिनाम् ।

सूतपुत्रो महाप्राज्ञः इदम् वचनमब्रवीत् ।

क्षेत्राणामुत्तमम् क्षेत्रम्प्रवक्ष्ये मुनिसत्तमाः ।

अस्मद्गुरूम् नमस्कृत्य वेदव्यासम्जगद्गुरुम् ।

नारायणमहम् नत्वा ब्राह्मणान् वेदपारगान् ।

अस्ति दक्षिणदिग्भागे मलयानामपर्वतः ।

तत्र प्रसूता नदीकाचित् ताम्रपर्णीति विशता ।

पुण्यतीर्थसमायुक्ता गौरीसहसमुद्भवा ।

तस्यास्तटवरे रम्ये ह्युभयस्मिन्ननुत्तमे ।

क्षेत्रम् पुण्यतमम्लोके विष्णुसान्निध्यसम्युतम् ।

नित्यम्कल्याणनिलयम् वैष्णवानन्दवर्धनम् ।

मलयाद्रेः पुरा भागे पूजितम् सुरमानुषैः ।

दक्षिणस्यसमुद्रस्य पश्चिमे लोकविश्रुतम् ।

अनेक तीर्थसम्युक्तम् सिद्धक्षेत्रमनुत्तमम् ।

यत्र वै तिन्त्रिणीवृक्षो निर्निद्रःपापनाशनः ।

यस्यमूले माहाविष्णुः ज्ञानमुद्रावहन् विभुः ।

लोकरक्षाम् वितनुते तस्मात् तत् क्षेत्रमुत्तमम् ।

इति मुनिकथितम् तत्क्षेत्रमाहात्म्यमेवम् तटभुविशुभनद्यास्तिन्त्रिणीवृक्षमूले ।

स्थितमनघमजस्रम् ज्ञानमुद्रावहन्तः हरिमपिमुनिमुख्याः प्रीतियुक्ता बभूवुः ।

इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे ताम्रातटक्षेत्रप्रशम्सा नाम प्रथमोऽध्यायः।

  1. श्रीवैकुण्ठम् – वैकुण्ठनाथ (चोरनाथ) स्वामि माहात्म्यम्

द्वितीयोऽध्यायः

श्री चौरनाथस्य ध्यानम्

श्रीवैकुण्ठपुरे हरिर्विहरते वैकुण्ठवल्यान्वितः

तम् नाथस्सुरनायकस्य वरदः श्रीताम्रपर्णीतटे ॥

तत्रैवेन्द्रविमानभूषणमणिर्दिव्यैस्सदासूरिभिः

सेव्यस्वाङ्घ्रि सरोरुहाश्रितभव प्रध्वम्सनैकव्रतः ॥

ऋषय ऊचुः –

कानि क्षेत्राणि तत्रासन् कानि तीर्थानि तत्र तु ।

केषामर्थेहरिस्तत्र प्रसादमकरोद्विभुः ।

कोयम् स तिन्त्रिणीवृक्षः किमर्थम् केशवः स्वयम् ।

ज्ञानमुद्राम् वहन्नित्यम् समास्ते मुनिसत्तम ।

के वा तत्र समायाता मुक्तिप्राप्ताविकल्मषाः ।

एतत्सर्वम् महाभाग! विस्तरेणसमाहितः ।

अस्माकम् श्रोतुकामानाम् वक्तुमर्हसि सुव्रत ।

श्रीसूतः-

साधुसाधु महाप्राज्ञाः प्रश्नोऽयं धर्मसम्हितः ।

यदेतत श्रोतुकामानाम् युष्माकमहमादरात् ।

प्रवक्ष्यामि मुनिश्रेष्ठाः शृणुध्वम् सावधानतः ।

ताम्रायाः श्चोत्तरेतीरे दक्षिणे च तटेवरे ।

बहूनिपुण्यक्षेत्राणि शिवविष्णुगुहादिभिः ।

नित्यसान्निध्ययुक्तानि तथादुर्गाविनायकैः ।

काङ्क्षितार्थप्रदैर्नृणाम् सुखोदर्कानि भूरिशः ।

विशेषात्तत्र वक्ष्यामि नव क्षेत्राणिभूसुराः ।

केशवप्रीतियुक्तानि सर्वपापापहराणि च ।

श्रीमद्भिर्वेदविद्भिश्च बृह्मविद्भिर्द्विजोत्तमैः ।

नित्यम् तत्र वसद्भिश्च पूजितानि मुमुक्षुभिः ।

क्षत्रविद्छूद्रसन्घैश्च स्वस्वधर्म समन्वितैः ।

मुदितैर्नित्ययुक्तानि धनधान्यसमन्वितैः ।

एवमेवातिरम्येषु क्षेत्रेषु मुनिपुङ्गवाः ।

भगवान् वासुदेवोसौ नित्ययुक्तस्सनातनः ।

सान्निध्यमकरोत्प्रीत्या परयाच समन्वितः ।

श्रियाभूम्या समेता वै नीळया च जनार्दनः ।

भक्तानामनिशम् शर्मकरोतिविभुधेश्वरः ।

तत्र तत्र स्थितेक्षेत्रे भगवान् हरिरव्ययः ।

अद्भुतानि च दिव्यानि कर्माणिकुरुतेमुदा ।

तत्तत्क्षेत्रस्यनामानि तत्तत्क्षेत्रस्थितस्य च ।

हरेस्त्वद्भुतनामानि तत्तत्कालेब्रवीम्यहम् ।

इदानीम् सम्प्रवक्ष्यामि प्रथमक्षेत्र वैभवम् ।

नवानाम् क्षेत्रमुख्यानाम् हरेरद्भुतकर्मणः ॥

क्रमेणाहम् प्रवक्ष्यामि तन्निभोधत सत्तमाः ।

ताम्रपर्युत्तरतटे नानापादपसङ्कुले ।

नानापक्षिमृगाकीर्णे हम्ससारस सङ्कुले ।

कोकिलारवसङ्घुष्टे बृङ्गराजविनादिने ।

तत्र पुण्यम् महत्क्षेत्रम् वैकुण्ठाख्यमनुत्तमम् ।

विशृतम् त्रिषुलोकेषु साक्षाद्वैकुण्ठसन्निभम् ।

यस्मिन् क्षेत्रे पुरा बृह्मा परमम् तप्तवाम्स्तपः ।

ऋषय ऊचुः-

सूतसूतमहाभाग विधिम् किम् तप आचरत् ।

केनपापेन धातारम् ज्ञानशून्यमगात् पुरा ।

कस्मिन् देशे तपश्चके केनवा दर्शितामही ।

तत्सर्वम् कथयस्वाद्य विस्तारात् श्रोतुमागताः ।

पुराणज्ञ महाप्राज्ञ त्वत्तः पूताभवाम हि ।

श्री सूतः-

प्रश्न एष भवत्प्रोक्तः साधु तत् कथयामि वः ।

पुरा हिमवतःपृष्ठात् ताम्रपर्णीसरिद्वरा ।

गौरीभुजसृजोरूपा लोपामुद्रासहायिनी ।

अगस्त्यघटिकानीरसहिता परमाङ्गना ।

विन्द्याद्रिम् कुम्भजन्माऽथ निगृह्यपरमौजसा ।

दक्षिणाम् दिशमागत्य दक्षिणामकरोत् सुधीः ।

मलयाद्रेश्शिरोभागे तपश्चक्रे महामुनिः ।

तत्र तत्र नदीश्रेष्ठालोकानाम् पुण्यदायिनी ।

प्रवृत्त घटिकायाद्रेः सरिदम्भुजशोभिता ।

पूर्वाब्धिमागमिष्योहमितिनिश्चित्यभामिनी ।

हम्ससारससन्क्षुब्ध जलराशिर्महोर्मिणी ।

तटद्वयलसद्दिव्य शिवविष्णुस्थलात्मिता ।

निर्निद्रतिन्त्रिणीवृक्ष दक्षिणानुपशोभिता ।

सा नदी पुण्यनिलया जनानान्कूलवासिनाम् ।

भुक्तिमुक्तिप्रदानृणाम् देवभक्त्युपदेशिनी ।

ताम्रपर्ण्युत्तरेतीरे तपःकर्तुम् विधिस्तदा ।

तत्पूर्वम् सोमकोनाम देवशत्रुर्महासुरः ।

ब्रह्मणोवेदशास्त्राणि ज्ञानम् सृष्टिकरम्सदा ।

सामर्थ्यम् सर्वमहरत् सोऽसुरः क्रूरकर्मकृत् ।

तत्काले लोककृत्ज्ञानशून्योऽभूत् बहुकालतः ।

तपःकर्तुम् मनोदद्रे भुवि पुण्यस्थले विधिः ।

स्वदण्डम् माणवम् कृत्वा तमुवाचाम्बुजासनः ।

भूलोके दण्ड मे वस्तुम् स्थलम् पश्य शुचिम् वटो।

इत्युदीर्यमुनीन्द्रास्तमामन्त्र्य वटुराययौ ।

सोऽपि पुण्यस्थलम् दृष्ट्वा ताम्रपर्ण्यास्तटम् ययौ ।

पूर्वाब्धे पश्चिमे भागे जयन्तीति पुरीस्थिता ।

तद्वने मोहिनीकाचित् आसुरीपूर्वपापिनी ।

वर्णिनम् तम् समालोक्य मोहिता मदनेन सा ।

तयापि मोहितस्सोऽथ रेमे बहुतिथिष्वयम् ।

यद्ब्रह्मदण्डो नायाति कालातीतमनेकधा ।

इति सन्चिन्त्य बहुधा कलशीमवदद्विधिः।

कुण्डिके बालिके भूमौ तपःस्थानम् विचार्यताम् ।

भुविपुण्यमयेदेशे पूर्वम् याति सुवर्णभाक् ।

नायात्यद्यापिदण्डोऽसौ गच्छ शीघ्रम् धरातले ।

कलशीबालिकारूपम् कृत्वा भूमितलम् ययौ ।

तत्तद्देशम् विचिन्त्याथ ताम्रातटमुपाययौ ।

ताम्रपर्ण्युत्तरतटे बिचार्यस्थलमुत्तमम् ।

कलशीपुण्यतोयाढ्यम् नानाद्रुमसमाकुलम् ।

तमालतालपूगाढ्यम् रसालामलैर्युतम् ।

पद्मकल्हारगन्धाड्यम् चम्पकाशोकशोभितम् ।

एवम् भूतम् तपःस्थानम् ज्ञात्वासर्वगुणान्वितम् ।

कलशीब्रह्मणःस्थानमेत्य तत्पादवन्दनम् ।

कृत्वा वाचम् सुधाकारा मूचे बालातुपद्मजम् ।

भो भो देव महभाग पुण्यस्थलमहम् भुवि ।

अपश्यम् ताम्रपर्ण्यास्तु कूलेनिर्निद्रर्तित्रिणी ।

कल्पवृक्षसमोवृक्षः नृणाम् कामफलप्रदः ।

तस्योत्तरतटेरम्ये दृष्ट्वा पुण्यमनामयम् ।

वनम् सर्वर्तुसहितम् नानापुष्परसान्वितम् ।

मयूरकोकिलाराव शारिकाशुरशब्दिदम् ।

पश्येहम् पुण्यमाहात्म्यस्थलमागत्य सम्स्थितम् ।

पादमूलम् नमस्कृत्य सर्वज्ञकथितम् मया ।

कलशीवाक्यमाकर्ण्य ब्रह्मालोकपितामहः ।

तयाबालिकयासार्धम् तप्तुम् भुवि समाययौ ।

कलशाख्ये महातीर्थे स्नात्वा जपपरायणः ।

वासुदेवम् महात्मानम् नारायणमनामयम् ।

तुष्टावजगतीनाथम् ब्रह्मालोकपितामहः।

नमस्तेस्तुहृषीकेश पुराणपुरुषोत्तम ।

अप्रमेयगुणानन्त गम्भीरगुणसागर ।

आदिदेवमहादेव देवदेवनमोस्तुते ।

इति तेनस्तुतोविष्णुर्भगवान् भूतभावनः ।

प्रसादमकरोत्तस्य ब्रह्मणःपरमेष्ठिनः ।

मेघगम्भीरयावाचा विरिञ्चिमिदमब्रवीत् ।

नच मे सृष्टिसामर्थ्यम् न च ज्ञानम् सु निर्मलम् ।

जगतस्सृष्टिसामर्थ्यम् ज्ञानम् च मम दीयताम् ।

इति प्रतिसमादिष्टोब्रह्मणा हरिरव्ययः ।

ददौ ज्ञानञ्च जगतः सृष्टिसामर्थ्यमेवच ।

तत् गृहीत्वापुनर्वाक्यञ्चि ब्रह्मोवाच जनार्दनम् ।

भगवन् वस सर्वेश देवदेवजगद्गुरो ।

वैकुण्ठाख्ये तव क्षेत्रम् नित्यम् सन्निहितो भव ।

तीर्थेऽस्मिन् कलशाख्येतु ये निमज्जन्ति मानवाः ।

तेषामपि भवेन् मुक्तिः प्रसादात्तव केशव ।

तथेत्युक्त्वा वासुदेवः तत्र सन्निहितोऽभवत् ।

स तु वैकुण्ठनाथाख्यः चोरनाथत्वमाप यत् ।

तत्कारणमहम् वक्ष्ये कस्यचित् तस्करस्य च ।

भक्तस्य परमार्तस्य चोरनाथस्य तापसाः ।

अथ मुनिगणमुख्याः सूतपुत्रस्यवाक्यम्-

श्रुतिमुखमनुगीतम् सम्यगाकर्ण्यविष्णोः ।

चरितमनति तृप्ताः श्रोतुकामश्च भूयो-

वचनमनघमूचुः चोरनाथः कथाम्सः |

इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीवैकुण्ठक्षेत्रप्रशम्सा नाम द्वितीयोऽध्यायः ।

तृतीयोऽध्यायः

तमामन्त्र्यविरिञ्चोपि जगाम त्रिदिवम्पुनः।

ऋषयः

कस्तस्करः कथम्भक्तिर्जाता भगवतिप्रभौ ।

सन्चिन्त्यमकरोत्तस्य केनविष्णुः सनातनः ।

विस्तारात् श्रोतुकामानम् ब्रूहिनस्सूतनन्दन ।

अधुनाहम् प्रवक्ष्यामि पुराशक्रस्यधीमतः ।

कथितम् सर्वपापघ्नम् नारदेनसुरर्षिणा ।

तच्छृणुध्वमशेषाणाम् विष्णो श्चरित मुत्तमम् ।

ऋषयः

कथम् वज्रधरस्याह कथान्देवर्षिरद्भुताम् ।

भुविचोरपतित्वम् वा बैकुण्ठेशस्यसुव्रत ।

नारदः

किन्निमित्तम् वै शक्रस्यसदनम् प्रति ।

आगतःकथयामास चोरनाथस्यवैभवम् ।

इति तेषाम् वचःशृत्वा नैमिशारण्यवासिनाम् ।

सूतःपौराणिकश्रेष्ठम् इदम् वचनमब्रवीत् ।

श्रीसूतः

शृणुध्वम्मुनयःसर्वे देवराजकथामिमाम् ।

पुरावृत्रवधेशक्रो हत्यामाप सुदारुणाम् ।

ब्राम्यमाणस्तयाविप्रा मेरोःपुष्करिणीययौ ।

मृणाळतन्तुरन्ध्रेषु वसित्वाबहुकालतः ।

देवतागुरुणासार्धम् इन्द्रमन्वेष्टुमागताः ।

पुष्करिण्यास्तटेस्थित्वा तुष्टुवुश्च शचीपतिम् ।

ततश्शक्रस्तटस्यान्तादुत्थितो लज्जयान्वितः ।

गुरुम्बृहस्पतिम् नत्वा देवैस्सह समागतः ।

तम् दृष्ट्वा देवसङ्घास्ते वन्दनासनपूजनैः ।

बहुमानम् ततःकृत्वा पृष्ट्वानामयमद्भुतम् ।

देवेन्द्रम् हत्ययुक्तम् वृत्रस्यहननोद्यया ।

आहुःसर्वमशेषेण नारदस्य सुरर्षिणः ।

तच्छृत्वा नारदोवाक्यमुवाच नमुचिद्विषम् ।

शचीपते महाबाहो शृणुमेवापरम् वचः ।

भुविपुण्यस्थलान्येव सन्तितीर्थान्यनेकशः ।

ताम्रायाश्चोत्तरेतीरे वैकुण्ठाख्ये हरिप्रिये ।

ब्रह्मणःप्रादुरभवत् सृष्ट्यादि ज्ञानदायकः ।

कलशाख्ये महातीर्थे स्नात्वा बृह्मा सुनिर्मलः ।

सर्गसामर्थ्यमगमत् वैकुण्ठेशप्रसादतः ।

पुनर्वैकुण्ठनाथोपि चोरनाथत्वमापसः ।

वैकुण्ठाधिपतिःपूर्वम् कथञ्चोराधिपो भवत् ।

तद्वदस्व महातेजः श्रोतुकामस्य मे प्रभो ।

वज्रहस्तस्य तद्वाक्यम् शृत्वाब्रह्मसुतो मुनिः ।

शक्रस्य कथयामास चोरनाथस्य वैभवम् ।

वीरगुप्त इति ख्यातो वैश्योऽभूल्लोकविश्रुतः ।

तस्य जातस्तु शूद्रायाम् नाम्ना व कालदूषकः ।

जन्मप्रभृति दुष्टात्मा चौर्य्मे वकरोति सः ।

बहुभिर्दस्युभिर्युक्तः परेषाम् हरतेधनम् ।

एवम् वसति दुर्बुद्धिः वैकुण्ठनगरेवरे ।

अन्ये च बहवश्चोरा स्तत्सहायाः सुरेश्वर ।

चोराणामग्रनीस्सोयम् पापात्माकालदूषकः ।

हृत्वापरेषाम् द्रव्याणि गायकेभ्यःप्रयच्छति ।

वेश्यापतिरसौ नित्यम् धनम् तासाम् प्रयच्छति ।

ब्राह्मणानाम्धनम्चैव सदाहरति निर्घृणः ।

गोधनम् क्षत्रवैश्यानाम् हृत्वाकीणाति नित्यशः ।

यदाहर्तुम् धनम्गच्छेत् तदागत्वासुराधिप ।

विष्णोरायतनम् नित्यम् प्रार्थयद्धरिसन्निधौ ।

भक्त्यापरमयायुक्तो निरामयमधात्मनः ।

अर्धरात्रेगणैस्सार्धम् भक्तिमान्विनयान्वितः ।

वैकुण्ठपतिमासाद्य नमस्कृत्य जनार्दनम् ।

प्रदक्षिणम् ततःकृत्वा प्रस्थितश्चौर्यकर्मणि ।

बद्धाञ्जलिपुटोभूत्वा मिदमाहविशाम्वरः ।

वैकुण्ठाधिपदेवेश देवदेव जगत्पते ।

हर्तुःकामो धनम्भूरि गमिष्यत्त्वत्प्रसादतः ।

सुखेन तद्धनम् गृह्य यदिप्रत्यागतोस्म्यहम् ।

तव तद्द्रविणस्यार्धम् दास्यामि पुरुषोत्तम! ।

इत्येवम् प्रार्थयामास स वैश्यःकालदूषकः ।

परद्रव्याऽपहारार्थम् गच्छति स्वगणैस्सह ।

यम् यम् देशम् समाविश्य तस्करस्सतु गच्छति ।

तत्र तत्र सुखेनास्य लभ्यते द्रविणम् बहु ।

स्तेयोपायैरनेकैश्च मन्त्रतन्त्रक्रियान्वितैः ।

आयुधैर्विविधैर्युक्त स्तथाखननसाधनैः ।

तस्कराणाम् पतिश्चैवम् मूष्णाति विविधम् धनम् ।

ब्राह्मणक्षत्रिय विशाम् शूद्राणाम्च तथैव च ।

इतरेषाम् जनानाम् च गृहम् गत्वा स वैश्यजः ।

हिरण्यम् च सुवर्णम् च मुक्तामाणिक्यमेव च ।

नानाविधम्चाभरणम् मुष्णातिस्तेययोगतः ।

गोधनानि च धान्यानि पण्यद्रव्याण्यनेकशः ।

प्रगृह्य गत्वाचान्यत्र विक्रीणाति यथार्थवत् ।

ऋजुश्शान्तो निष्कपटः शुद्धभावसमन्वितः ।

एतस्मिन्स्तेय योगे तु न च केनापि दृष्टवान् ।

मामकम् धनमेतेन मुष्टितञ्चेतिनोक्तवान् ।

मुषित्वारात्रिकाले तु प्रातस्स्नात्वाविशाम् वरः ।

वैश्यगृहम् ततो गत्वा धूतैर्बहुभिरन्वितः ।

दिव्यत्यक्षैर्मुदायुक्तो ददाति द्रविणम् बहु ।

नटानाम् गायकानाम् च वैश्यानाम् च वणिग्वरः।

भुङ्क्ते भोजयतेवापि दूर्तानेव शतक्रतोः ।

एवम्धनानिचाहृत्य स्वगणैरन्वितो बली ।

विष्णोरर्धम् तथा वित्तम् द्रविणम् स्वयमाहृतम् ।

ददौ स्वानुचराणाम् च यत्किञ्चिद् द्रविणम् ततः।

द्रविणार्धप्रदानेन विष्णोरमित तेजसः ।

स्नानात् कलशतीर्थे च सभार्यो वर्ततेसुखम् ।

ततः काले बहु तिथे स वैश्यः :कालदूषकः ।

तस्करैर्बहुभिस्सार्धम् तेषामधिपतिःस्वयम् ।

यथा पूर्वम् स निश्चित्य नमस्कृत्य जनार्दनम् ।

कालयोगाद्दुराधर्ष स्सोर्धशास्त्रेसुनिर्भयः ।

तद्देशवासिनो राज्ञो निवेशनमुपागमत् ।

कोशसम्रक्षिणस्तत्र प्रसुप्ताः कालयोगतः ।

कवाटम् विवृतम्किञ्चित् कुञ्चिकोद्धाटनेन च ।

तत्प्रविश्यगृहम्भूरि द्रविणम् स्वगणैस्सह ।

कोशसम्रक्षिणः सर्वे प्रबुद्धास्तदनन्तरम् ।

कवाटम् विवृतम् दृष्ट्वा चान्वयुस्ताम्श्च तस्करान् ।

दैवयोगाद्वैश्यपुत्र स्त्वादाय विफुलम् धनम् ।

पूर्वमेवगतःसोथ कैश्चित् चोरसमन्वितः ।

शेषास्तु राजभृत्यानाम् वशम्नीताश्च तस्कराः ।

तान् गृहीत्वा राजभटा निक्षिप्तम्कुत्रतद्धनम् ।

भवद्भि र्भुवि विक्षिप्तम् सत्यम् वदत निर्भयाः ।

उक्तम्भयेनेतरतोभवद्भिर्निपात्यते ह्युग्रतरो हि दण्डः ।

युष्माकमित्येव वचोनिशम्यते तस्करास्सत्यमथ बृवन्ति ।

इति तृतीयोऽध्यायः।

चतुर्थोऽध्यायः

श्रीसूतः-

इति तेषाम् वचश्शृत्वा तस्करावाक्यमबृवन् ।

वीरगुप्तसुतेनाद्यचोरनाथेन वैभवात् ।

कालदूषकनाम्नानु नीतम् युष्मद्धनम् बहु ।

इति प्राणपरीक्षार्थम् सत्यमेववचोब्रुवन् ।

तेषाम् तद्वचनम् शृत्वा राजभृत्यादुरासदाः ।

तान् प्रगृह्य ततो गत्वा राज्ञे सर्वम् न्यवेदयन् ।

राजा तद्वचनम् शृत्वा कुत्रासौ कालदूषकः ।

इति राज्ञाऽनुपृष्टास्ते तस्करावाक्यमब्रुवन् ।

वैकुण्ठाख्ये पुरवरे वैश्यपुत्रो वसत्ययम् ।

तमनार्यम्भटैश्शीघ्रम् शास्तुमर्हसि भूमिप ।

वयम् तस्य सहायार्थमागताः केवलम् नृप ।

कवाटोद्धाटनम् तेन कृतम् नान्येन केनचित् ।

धनम् हृतम् वा न च वा न जानीमो वयम् नृप ।

ततः प्रबुद्धास्ते दूताः सोयमन्तर्दधे नृप ।

सर्व एव तु ते भृत्याः तदागत्यरुषान्विताः ।

अस्मानबन्धुसहितान् तवाग्रम् प्रापयन् नृप ।

चोराणाम् वचनम् शृत्वा राजाधर्मपरायणः ।

एतैस्सार्धम् भटाशीघ्रम् गत्वा तत्र तु तस्करम् ।

समानयध्वम् सहिता इति होवाच पार्थिवः ।

अथ राज्ञो वचश्शृत्वा नृपभृत्यास्स तस्कराः ।

यत्राऽसौ वर्तते दस्युस्तम् देशम्मगमत् दृतम् ।

एतस्मिन्नन्तरे सोऽथ वैश्यपुत्रो धनान्वितः ।

सहायैर्बहुभिर्युक्तः केषाञ्चित् ग्रहणातुरः ।

कालदूषस्सुतन्तप्तो विष्णोरायतनङ्गतः ।

स्वकीयवचनादेव राजभृत्यार्दितम् हि माम् ।

गृहीत्वा माम् तस्करपतिम् वधिष्यन्ति न सम्शयः ।

इति कृत्वा मर्ति चोरः हरिरेवगतिर्मम ।

द्रविणार्धप्रदानेन येनाहम् रक्षितः पुरा ।

तमेव शरणम् यामि नान्योस्ति मम कश्चन ।

महत् द्रव्यमुपानीतम् सर्वम् दास्याम्यहम् हरेः ।

इति निश्चित्य मनसा प्रार्थयामास केशवम् ।

परमार्थस्य मे देव शरणम् भव माधव ।

एतस्मिन्नेव काले तु वैकुण्ठाधिपतिस्स्वयम् ।

वृद्धब्राह्मणरूपेण कालदूषकमब्रवीत् ।

को भवान् धनम् चैतत् किमर्थम् परितप्यसे ।

सत्यमेव वदस्स्वाद्य निर्भयस्त्वम् गतस्सुतः ।

तद्विप्रवचनम् शृत्वा कालदूषोऽब्रवीदिदम् ।

वैश्यस्य वीरगुप्तस्य स्वपुत्रःकालदूषकह् ।

चौर्येणकर्मणाब्रह्मन् प्रमत्तानाम् धनम् हरन् ।

अहम् कालम् नयिष्यामि प्रसादात् शार्ङ्गधन्विनः ।

यद्यद्धनम् हरिश्शेषम् तदर्धम् चक्रपाणिनः ।

दास्यामि तस्य कृपया न कुत्राप्यस्ति मे भयम् ।

इदानीम् समनुप्राप्तम् भयम् वक्ष्यामि सुव्रत ।

आनपेतम् नरपतेः प्रमत्ताः कोशरक्षकाः ।

गताश्च तत् गृहम् भूरि धनम् प्राप्स्यामहे वयम् ।

इत्यवोचुस्सहायास्ते तद्वचोरुचितम् मम ।

ततो द्रुततरम् गत्वा प्रमत्तान् वीक्ष्य रक्षणः ।

किञ्चिदुद्घाटनादेव कवाटम् विवृतम् भवत् ।

तत् प्रविश्यतु तत्भूरि धनमादाय पुष्कलम् ।

सोऽहम्कैश्चिद्गणैस्सार्धम्पूर्वमेव विनिर्गतः ।

विनिर्गते मयि तदा प्रबुद्धाःकोशरक्षकाः ।

तान् प्रबुद्धानहम् ज्ञात्वा सदनम् पूर्वमागतः ।

केचिन्ममगणास्तत्र राजभृत्यवशम्गताः ।

तेषु गृहीतमात्रेषु मम व्याकुलितम् मनः ।

स्तेययोगयुतम् कश्चित् न माम् जानाति तस्करम् ।

वैकुण्ठेश प्रसादाच्च न मे परिभवःक्वचित् ।

हृतस्यार्धम् प्रदास्यामि द्रविणस्य हरेरहम् ।

न्यवेदयम्श्च ते भीताः तस्करा स्तस्कराधिपम् ।

माम् नृपाय तदा राजा स्वभृत्यैर्घातयिष्यति ।

तन्निमित्तमहम् भूरि सर्वद्रव्यमुपाहृतम् ।

विष्णवे सम्पदास्यामि रक्षिष्यति यदि प्रभुः ।

इति तद्वचनम् शृत्वा द्विजरूपी जनार्दनः ।

प्रोवाच तस्करम् वाक्यम् भगवान् भूतभावनः ।

रक्षिष्यति हृषीकेशः सधनो मद्गृहे वस ।

करेगृत्वा तम् वैश्यम् शिवायरुचिते गृहे ।

वस त्व मत्र निर्विण्णः भविष्यति सुखम् तव ।

इत्युक्त्वा कालदूषस्य रूपमास्थाय केशवः ।

तद्राजभवनम् प्रायात् बहुभिर्दस्युभिर्युतः ।

ततो वर्त्मनि तान् भृत्यान् राज्ञो दृष्ट्वाथ तस्करान् ।

प्रहर्षमतुलम् लेभे चोररूपधरो हरिः ।

ततस्ते तस्कराभृत्यानिदम् वचनमबृवन् ।

चोरनाथोऽयमायाति कालदूषकनामतः ।

तम् दृष्ट्वा रक्षिणःसर्वे गृहीतुमुपचक्रमुः ।

तानुवाच ततोधीरः किमर्थम् माम् गृहीष्यथ ।

युष्मद्दोषानविज्ञाय गच्छामो राजसम्सदम् ।

तथेत्युक्त्वा तु ते सर्वे गताराजानिवेशनम् ।

राज्ञे निवेदयामासु श्चोरनाथमुपागतम् ।

ततो राजासमानीय चोरनाथमथाब्रवीत् ।

किमर्थम् मद्गृहेमूढ! धनम्चापहृतम् त्वया ।

वधार्हमपि दृष्टा त्वाम् करुणाजायते मम ।

कस्त्वम् कुतश्च आयातः क्वच में धनमुत्तमम् ।

इति पृष्टः तदावाक्यम् राजानमिदमब्रवीत् ।

चोरनाथोऽहमायातो वैकुण्ठनगराद्विभो ।

जीवनार्थम्हतम् भूप! त्वद्धनम् मयि वर्तते ।

तव दोषमविज्ञाय त्वद्भृत्यानामरिन्दम ।

किम् माम् दूषयसेवीर अधर्मात्तव पार्थिव ।

…. ||?

चत्वारो वित्तदायादाः धर्मगोरग्निभूमिपाः ।

धर्महीनम् नरम् विद्धि त्रिभिस्तैः परिदूषितम् ।

चोरःप्रमत्ते जीवन्ति इति ब्रह्मविदान्मतम् ।

तस्कराःपिशुनाःक्रूरा व्याधिर्दारिद्यमेवच ।

सुखदुःखम् हर्षरोषौ विपत्सम्पत्तथैवच ।

एते स्वभावेतिष्ठन्ति धर्माधर्मी भया भये ।

एते सर्वे प्रवर्तते तत्तत्कर्मानुरूपतः ।

न तस्करेषु राजेन्द्र! कर्तव्यामन्युरीदृशः ।

स्वदोषमिति विज्ञाय धर्ममाचर भूमिप! ।

धर्मेरतानाम् सर्वेषाम् न तस्करभयम् क्वचित् ।

राजिकम् दैविकम् वापि भयम् तेषाम् न विद्यते ।

इति तद्वचनम् शृत्वा भूपो धार्मार्थसम्हितम् ।

आश्चर्यमतुलम् लेभे किन्तु चोरस्यभाषितम् ।

इति चिन्तयतस्तस्य बुद्धिरासीत्सुरेश्वर ।

नैवम् प्रधर्षितुम् शक्यम् तस्करेणकृतागसा ।

अचिन्त्यमहिमाह्येषः पुरुषोभाति निश्चयम् ।

इति नरपतिमुख्यः कान्तिसौभाग्ययुक्तम् – जनन सफलहेतुम् पूर्णकामम् पुमासम्।

सपदि मधुरवाक्यैः प्रीणयम्श्चोरनाथम् विमलमतिरुदारम् पूजयामासपूज्यम् ।

इति चतुर्थोऽध्यायः

पञ्चमोऽध्यायः

श्रीनारदः-

तम् पूजयित्वा पूजार्हम् राजा सन्तुष्टमानसः.

चोरनाथाकृतिधरम् पुरुषम् वाक्यमब्रवीत्.

चोरनाथमहाभाहो त्वामहम् पुरुषोत्तम.

……..?

तस्यासौ तेनवाक्येन तत्र हृष्टो हरिस्स्वयम्.

उवाच वचनम् श्लक्ष्णम् मेघगम्भीरयागिरा.

न तस्करोऽस्म्य महाराजन् श्रीमान्वैकुण्ठनायकः.

यदर्थमागतोसम्यत्र तच्छृणुष्व नराधिप.

तस्करः कालदूषोयम् त्वद्भयार्त्तोमहीपते.

मामेवशरणम्प्राप्तो मद्भक्तश्च विशेषतः.

तस्करस्यापिमूर्खस्य मयिभक्तिर्धृडा नृप.

तथा पापरथस्यापि भक्तिर्यास्यादरिन्दम.

तस्य प्रीतोस्म्यहम् राजन् सद्धर्मनिरतोपि सन्.

यस्तुभक्तिम् न कुरुते मयि देववरोत्तमे.

स मे वन्ध्याभवेन्न्यूनम् स पापी स च तस्करः.

स एव कर्मबाह्यश्च सर्वाचारबहिष्कृतः.

सदाचारविहीनोपि पापकर्मरतोपि वा.

यःकुर्यात् सुधृडम् भक्तिम् मयिचाव्यभिचारिणीम्.

सामात्यसच धर्मात्मा दानयज्ञ तपाम्सि च.

व्रततीर्थजपादीनि शुभकर्माणि यानि च.

सर्वाणि तानि मद्भक्त्या ह्यासन् तेनकृतानि च.

तस्यापि भक्तियोगम् च तस्करस्य वदामि ते.

यद्यपिस्यादयम् पापःस्तेयकर्मरुचिस्तदा.

स्वर्णस्तेयानिपापानि करोत्यनुदिनम् नृप.

ब्रह्मस्वहरणेयुक्तः सततम् निर्विशङ्कया.

सर्वपापानि कुरुते वेश्यासक्तोति निर्घृणः.

एवमेषस्तथाव्यापि मयिभक्त्यासमन्वितः.

वैकुण्ठाख्ये मम क्षेत्रे वसत्यनुदिनम् विभो.

निमज्जत्यमलेतीर्थे कलशाख्ये च सोऽन्वहम्.

यदाहर्तुम् धनम् गच्छेत् तदागत्यमुदान्वितः.

निलयम् वासुदेवस्य ममचात्भुतकर्मणः.

प्रार्थयत्यखिलान् कामान् नमस्कृत्यच माम् प्रति.

हर्तुकामोधनम्देशे गमिष्याम जनार्दन.

सुखेन यदि लप्स्यामि द्रविणार्धम् ददामि ते.

इति सम्प्रार्थ्य नत्वा माम् कृत्वा वापि प्रदक्षिणम् ।

पुनश्चरतिहृष्टात्मा धनान्याहर्तुमोजसा ।

मत्प्रसादान्नृपश्रेष्ठ! धनम् बहुविधम् महत् ।

सुखेन लब्ध्वा तेजस्वी पुनरागत्य माम् प्रति ।

यथोक्तवाद द्रविणमर्धम् दत्वाग्रहम् स्वकम् ।

गत्वा दत्वा सहयानाम् यत्किम्चिद्रविणम् ततः ।

सुखम् वसति हृष्टात्मा निर्भयो विगतज्वरः ।

अप्रमत्तग्रहम् क्वापि न गच्छति स तस्करः ।

नहिधर्मरतस्यापि यस्यकस्यापिदेहिनः ।

मच्छन्दादेवराजेन्द्र न स वेद स तस्करः ।

एवमेवग्रहम्राजम् स्तवानुग्रहकाम्यया ।

तस्यापि तस्करस्याथ गुणान् प्रार्थयता मया ।

मत्प्रेषितेन राजेन्द्र! तेन सम्मूषितम् तव ।

न तम् प्रतित्वया कार्या दोषबुद्धिः कदाचन ।

न जानातीदृशम्कृत्यम् मयाकृतमरिन्दम ।

तेन चौर्यम्कृतमिति जानीषे त्वम् नराधिप ।

सचापिमन्यतेराज्ञो हृतम्द्रव्यमितिस्वयम् ।

इति तस्य वचश्शृत्वा चोरनाथस्य शार्ङ्गिणः ।

हृष्टरोमामहातेजाः परमानन्दनिर्भरः ।

साष्टाङ्गमकरोत्तस्य प्रणामन्नरपुङ्गवः ।

स्तुत्वास्तितिभिरग्र्याभिरिदम्वचनमब्रवीत् ।

धन्योस्म्यनुग्रहीतोस्मि कृतार्थोस्मि जनार्दन ।

जन्मजन्मान्तरेमन्ये कृतपुण्योस्मिकेशव ।

यत्भवान् सर्वलोकेश योगिनामतिदुर्लभः ।

स्वयमागम्यमद्नेह मनुगृह्णासि माम् प्रभो ।

अभिनन्द्य नृपोधीमान् भूयो वचनमब्रवीत् ।

ईदृशाचारयुक्तस्य तस्करस्याल्पतेजसः ।

कथम् भक्तिर्दृढाजाता त्वयिचाव्यभिचारिणी ।

केनवा कर्मणा तस्य जन्मान्तरकृतेन च ।

इति राज्ञो वचश्शृत्वा भगवान् वाक्यमब्रवीत् ।

जन्मन्यनन्तरेरूपम् अयम्ब्राह्मणवम्शजः ।

धर्मवान् पुण्यशीलश्च मद्भक्तश्चमदाश्रयः ।

धनदान्यानिसन्त्यज्य बहूनि विविधानि च ।

तथाप्ययम् परार्थेषु स्पृहाम् वितनुतेऽनिशम् ।

अन्यायतः परार्थेषु यस्स्पृहाम् कुरुते नरः ।

स तस्करोभवेनूनम् अन्यजन्मन्यसम्शयः ।

सदाचारयुतोवापि मम भक्तियुतोपि वा ।

परार्थ लोलुपोमर्त्यो ह्यन्यायेन स तस्करः ।

य़त्रकुत्रापि जातस्य मद्भक्तस्याप्यधर्मतः ।

सर्वाण्युज्जन्ति कर्माणि शुभानि नरपुङ्गव ।

मद्भक्तिर्नजहात्येनम् नकदाचिदमङ्गळम् ।

परदारापरद्रव्य परहिम्सरताजनाः ।

जायन्ते पुत्रहीनाश्च तस्कराक्षयरोगिणः ।

अन्यायतः परद्रव्य स्पृहाम्कृत्वा त्वयम् नृप ।

अस्मिन्जन्मनिसञ्जातो पूर्वजन्मतपः फलात् ।

एवमेतस्य वृत्तान्तम् जन्मान्तरकृतम् नृप ।

उक्तम् तव मया पूर्वम् किम्भूयश्श्रोतुमिच्छसि ।

इति तद्वचनम् शृत्वा राजावचनमब्रवीत् ।

अद्यप्रभृति लोकेषु चोरनाथ इति स्वयम् ।

प्रख्यातस्त्रिषुलोकेषु सार्वाभीष्टफलप्रदः ।

वैकुण्ठाख्ये तवक्षेत्रे सुचिरम् वस्तुमर्हसि ।

तथेत्युक्त्वा चोरनाथो तमाहूयच तस्करम् ।

राज्ञातेनाकरोत्सख्यम् त्वद्द्रव्यमखिलम् नृपे ।

निवेद्यान्तर्दधे विष्णुः सराजा प्रीतमानसः ।

विमुच्य तस्करान् सर्वान् सम्पूज्य विनयान्वितः ।

गत्वाचायतनम् विष्णोः सधनस्सपुरस्सरः ।

वसन्तेपुण्यसमये चैत्रेमासि नराधिपः ।

उत्सवम् कारयामास विविधाद्भुतदर्शनम् ।

चोरेणनृपतिःसार्धमलङ्कृत्य पुरोत्तमम् ।

बहुद्रव्य व्ययम् कृत्वा ब्राह्मणानाम्विशेषतः ।

षड्रसोपेतमन्नञ्च दत्वा सर्वजनस्य च ।

जनकोलाहलस्तत्र सम्भूतश्चाद्भुतोपमः ।

ततःप्रीतोजगन्नाथ श्चोरनाथोजनार्दनः ।

ददौ मुक्तिम् ततो धीमान् तयोस्तस्कर भूपयोः ।

प्रतिवर्षम् सुरश्रेष्ठ तौचोभौ नृप तस्करौ ।

चक्रतुश्चोत्सवम्भूरि चैत्रमासे विशेषितः ।

श्रीसूतः-

नारदस्य वचोरम्यम् शृत्वा देवपतिस्तदा ।

प्रहर्षमतुलालेभे सम्पूज्यच मुनीश्वरम् ।

ततःपरम् सुरास्सर्वे इन्द्रेणसहभूतले ।

पुण्यस्थानम् विचिन्त्याथ चिन्तयामासुरद्भुतम् ।

ताम्रपर्ण्युस्तटेरम्ये वैष्णवम् वनमुत्तमम् ।

पुण्यवृक्षसमायुक्तम् पुन्नागाशोकशोभितम् ।

पाटलीकैतकीजाति मल्लिका कुसुमैर्युतम् ।

तत्र देवास्समागम्य वैकुण्ठक्षेत्रकानने ।

कलशीतीर्थतीरे तु कुम्भस्थापन पूर्वकम् ।

देवेन्द्र स्थापयित्वात्वाऽथ तत्र वैकुण्ठसन्निधौ ।

वेदान्तमन्त्रैस्वाभ्याङ्गै स्साङ्गोपाङ्गैर्महाजपैः ।

कलशैस्तीर्थपूर्णैश्च स्थापयामास वज्रिणम् ।

तथो वैकुण्ठनाथाख्य विष्णुम् कृत्वा प्रदक्षिणम् ।

शक्रेण सार्धमागत्य तुष्टुवुर्मधुसूदनम् ।

वज्री कलशितीर्थस्यमाहात्म्यात् पापमोचनात् ।

चोरनाथस्य सेवाभिः प्रपेदे बहुळाम् श्रियम् ।

तदाप्रभृति वज्री स आश्वयुङ्मासिमासि च ।

नक्षत्रेऽश्वयुजे पुष्ये पौर्णमास्याम् विशेषतः ।

उत्सर्वम् चोरनाथस्य कारयामासवित्तदः ।

उक्तम् वो मुनिशार्दूल चोरनाथस्यवैभवम् ।

नृपस्य तस्करस्यापि कैवल्यफलमुत्तमम् ।

यथावदधुना प्रोक्तम् युष्माकम् मुनिसत्तमाः ।

य इदम् शृणुयान्नित्यम् भक्त्या परमयायुतः ।

यश्चापि पठते नित्यम् नास्ति तस्यपराजयः ।

तच्छ्रुत्वा सूतपुत्रेण वर्णितम् चित्रमद्भुतम् ।

वैकुण्ठक्षेत्रमाहात्म्यम् तीर्थस्य कलशस्य च ।

माहात्म्यम् चोरनाथस्य हरेरद्भुतरूपिणः ।

सम्प्रहृष्टामुनिगना पूजयन् सूतनन्दनम् ।

हरिचरितमुदारम् सूतपुत्रो महात्मा विमलमतिरमेयम् वर्णयित्वा मुनीनाम् ।

पुनरपि च मुरारेः क्षेत्रमाहात्म्यमन्यत् क्वकथयदमितौजा स्सादरम् पूज्यमानः ।

इति पञ्चमोऽध्यायः

  1. श्रीवरगुणमङ्गै विजयासन स्वामि माहात्म्यम्

षष्टोऽध्यायः

ध्यानम्

प्रख्यातो विजयासनो विजयकोट्याख्यवैमानिके

स्वासीनोदयदिङ्मुखौ वरगुण श्रीवल्लभस्तत्पुरे ।

नित्यानन्द विदायकोज्वलवपुः साक्षात्कृतो वह्निना

भास्वत् भास्करचन्द्रकोटिसदृश साकम् सुरे सेवितः ।।

वैकुण्ठस्य पुरोभागे विष्णोक्षेत्रमनुत्तमम् ।

श्रिमद्वरगुणम् नाम यत्रास्ते विजयासनः ।

हरिर्भुवनविख्यात स्तीर्थमस्तिमहत्तरम् ।

सर्वाघनाशनम् नाम तीर्थे तस्मिन् महत्तरे ।

रोमशस्सहशिष्येण तेपे तत्र महत्तपः ।

वेदवित्सर्वशास्त्रार्थ तत्वज्ञस्स्मृतिपारगः ।

धर्मनित्योदयाशीलो सज्जनप्रतिपूजकः

फलमू लाशनोदान्तः साक्षाद्धर्म इवापरः ।

त स्यचैषप्रभावस्य शिष्यःकश्चिन् महामतिः ।

सत्यवान्मामविज्ञातः सत्यवादी धृडव्रतः ।

वेदाभ्यसरतोनित्यम् सदाशिश्रूषते गुरुः ।

तयोर्धमात्मनोरर्थे प्रसादमकरोद्विभुः ।

सर्वाघनाशतीर्थम् च सत्यतीर्थमभूत्तदा ।

ऋषय ऊचुः-

सूतसूत महाप्राज्ञ पुराणार्थविचक्षण ।

गुरुशिष्य विवादम् च विजयासन वैभवम् ।

ब्रूहितस्सर्वमेतत्तु सत्यतीर्थ कथाम् शुभाम् ।

सर्वाघनाशनम् तीर्थम् सत्यतीर्थम् कथम् भवेत् ।

मुनीनाम्वचनम् शृत्वा सूतःपौराणिकोत्तमः ।

सर्वम् कथयदव्यग्रो मुदितेनान्तरात्मनः ।

पुरा विश्वसखस्याथ राज्ञस्तस्य महात्मनः

सनकेनानुकथितम् तद्वदामि मुनीश्वराः ।

शृणुध्वम् सावधानेन वक्ष्यमाणमनुत्तमम् ।

आस्ति धर्मपुरम् नाम विशृतम् पुटभेदनम् ।

कावेर्या दक्षिणेतीरे तत्रासीत् वसुधाधिपः ।

सोयम् विश्वसखो नाम राजा परमधार्मिकः ।

धर्मज्ञस्सत्यसङ्धश्च प्रजानाम् च हितेरतः ।

यदृच्छयागमत्तस्य पुरम् स मुनिपुङ्गवः ।

सनकोयोगिनाम् श्रेष्ठो ब्रह्मसूनुरकल्मषः ।

तमागतमभिप्रेत्य राजा परमधार्मिकः ।

आसनाद्यर्घ्यपाद्याद्यैः पूजयामास तत्ववित् ।

ततःपरमुवाचेदम् को भवान् सूर्यसन्निभः ।

मम भाग्यवशद्ब्रह्मन् प्राप्नोसि करवाणि किम् ।

बदस्व मुनिशार्दूल तवागमन कारणम् ।

इति राज्ञो वचश्शृत्वा प्रत्युवाच मुनीश्वरः ।

सनकोऽहम् महाराज! निष्कामोब्रह्मणस्सुतः ।

यदृच्छया चराम्येनाम् महीम् पार्थिव सत्तम ।

निस्पृहस्य न मे कार्यम् किञ्चिदस्ति तवान्तिके ।

शृत्वा तद्योगनिष्ठस्य वचनम् राजसत्तमः ।

पृष्टुकामः कथाचित्राम् सुप्रीतेनान्तरात्मना ।

धन्योस्म्यनुगृहीतोस्मि कृतार्थोस्मि न संशयः ।

दर्शनादेव ते बृह्मन् सद्यो निर्दूत कल्मषः ।

अहम् त्वाम् प्रष्टुमिच्छामि विश्ववृत्तान्त दर्शनम् ।

कानिक्षेत्राणिपुण्याणि कानि तीर्थानि वा पुनः ।

विष्णुप्रीतिकराण्यत्र मुनिभिःपूजितानि च ।

तत्समीक्ष्यमुनिश्श्रेष्ठ कृपया वद विस्तरात् ।

इति तद्राजसिम्हस्य वाक्यमद्भुतविस्तरम् ।

पुण्यक्षेत्रस्यमाहात्म्य श्रवणेषु समुत्सुकम् ।

सनको योगिनाम्श्रेष्ठस्तदाप्राह नृपोत्तमम् ।

शृणु राजन् प्रवक्ष्यामि भगवत् क्षेत्र वैभवम् ।

यस्य ते धार्मिकीबुद्धिरियम्जाता सुदुर्लभा ।

इति प्रशस्य राजानम् ब्रह्मर्षिरतुलप्रभम् ।

भगवत्क्षेत्रमाहात्म्यम् वक्तुमेवोपचक्रमे ।

सन्ति भूमितले राजन् क्षेत्राणि विविधानि च ।

तीर्थानि च सपुण्यानि तत्र तत्र महीपते ।

तथापि सम्प्रवक्ष्यामि सुमहत्पुण्यवर्धनम् ।

क्षेत्रम् विष्णोःप्रियतमम् प्रशस्तम् भुवनत्रये ।

अस्ति दक्षिणदिग्भागे ताम्रपर्णीमहानदी ।

साक्षाद्दक्षिणगङ्गाया मलयाचल कन्यका ।

तस्याश्चैवोत्तरेतीरे वैकुण्ठक्षेत्रमुत्तमम् ।

साक्षाद्वैकुण्ठमेवैतत् तत्पुरस्तान्नरेश्वर ।

श्रीमद्वरगुणम् नाम विष्णुक्षेत्रमनुत्तमम् ।

सिद्धिक्षेत्रसमम् ज्ञात्वा रोमशस्तपसान्निधिः ।

तत्रागत्य स शिष्यासस्स्नात्वा सर्वाघनाशनम् ।

तीर्थमुख्यतपस्तीव्रम् चकार नृपसत्तम ।

तस्यशिष्यो महाप्राज्ञः सत्यवानतिधार्मिकः ।

तम् तप्यन्तम् मुनिवरम् शिष्यःपरिचचारह ।

विद्याविनयसम्पन्नश्शुचिर्दक्षो जितेन्द्रियः ।

एवम् शिश्रूषमाणस्य तस्य तुष्टोऽमितप्रभः ।

उवाचवचनम् श्रीमान् मुनिःपरमधार्मिकः ।

किमभिप्रायमुद्दिश्य नित्यम् शिश्रूषसे मुने ।

शिश्रूषया तव प्रीतो गुणेनानुत्तमेन च ।

भिन्नाभिलाषितम् मत्तस्तत्भवान् वक्तुमर्हसि ।

तस्य तद्वचनम् शृत्वा गुरोश्शिष्यस्तथाब्रवीत् ।

नहिमेऽभिमतम् किञ्चित् तव शुश्रूषणात्गुरो ।

तथाप्यहम् प्रवक्ष्यामि यन्मे मनसिवर्तते ।

तच्छृणुष्व महाभाग! शमादिगुणसागर ।

तीर्थेस्मिन् स्नानतो दृष्टमाश्चर्यम् मुनिसत्तम ।

मत्स्यजीविकरातस्तु कश्चिद्वैविकृताननः ।

ज़लेप्रसार्य महतीम् वागुराम् मुनिपुङ्गव ।

जग्राह विविधान् मत्स्यान् निर्घृणोनयवर्जितः ।

तान् गृहीत्वाभिचक्राम तीरम्पुनरनुत्तमम् ।

वागुरन्तस्थितान्सर्वान् मत्स्याभूममथानयत् ।

भूतलस्थान्सदानेकः प्रसार्य सच लुब्धकः ।

पुनरप्यगमश्शीघ्रम् हर्तुकामोझषानयम् ।

एतस्मिन्नेव काले तु तत्रागच्छत्भयानकः ।

तीक्ष्णकोपोमहासर्पः तेददष्ट्रोमृतोपतत् ।

पृथिव्याम् वागुराहस्तो विचक्षःक्षीणवर्जितः ।

पुनर्नदृष्टस्सर्पोयम् यत्र कुत्रेति निर्गतः ।

गतोवा कुत्रगत्येव न जानीमोवयम् मुने ।

आश्चर्यमिवपश्यामि प्राणिहिम्सारतस्य च ।

निर्घृणस्य नृशिन्शस्य किरातस्य दुरात्मनः ।

आजगाम महद्दिव्यम् विमानम् सूर्यसन्निभम् ।

तदारुह्यविमानम् सो देवतुल्यवपुर्धर ।

पूज्यमानोस्सरोभिश्च गन्धर्वैरतुलप्रभुः ।

दिव्याभरणसम्युक्तो दिव्यस्त्रीगन्धवान् मुने ।

रोचमानोग्निसन्काशो जगाम त्रिदिवम् पुनः ।

मत्स्यग्रहणशीलस्य मायिनस्सामरस्य च ।

दुर्मितिप्रतिपन्नस्य तस्य साध्यम् मुनीश्वर ।

कथम् विमानमगमत् कथम् सोति दिवम्गतः ।

केनपुण्यप्रभावेन वक्तुमर्हसि सुव्रत ।

तस्मिन्मृते तदानीतान् मत्स्यानादाय पक्षिणः ।

क्षणार्धेनमृगाश्चैव जग्मुस्सङ्गृष्टमानसाः ।

एतदाश्चर्यभूतम् मे लुब्धकस्य दुरात्मनः ।

विमानगमनम् राष्ट्वा सम्शयेस्थास्यते मनः ।

तञ्चिष्यवाक्यम् मधुरम् निशम्य सरोमशस्तस्य धृतिर्महात्मना ।

उवाच वाक्यम् परमार्थ युक्तम् दृष्टम् त्व्यायन्महदत्भुतम् तत् ।

इति षष्टोऽध्यायः।

सप्तमोऽध्यायः

श्रीरोमशः-

ज्ञातम् मया तु तत्सर्वम् ज्ञानदृष्ट्या द्विजर्षभ ।

आश्चर्यनिलयम् सर्वम् कथयिष्यामि तत्वतः ।।

शृणु शिष्य महाप्राज्ञ तव शुश्रूषणादहम् ।

प्रीतिमानिदमन्यञ्च कथयामि न सम्शयः ।

पुण्यक्षेत्रस्य माहात्म्यम् रहस्यम् परमाद्भुतम् ।

पुण्यक्षेत्रमृतानाम् च पापिनामपि सद्गतिः ।

किम् पुनस्तस्यशीलानाम् धर्मिष्टानाम् महात्मनाम् ।

काश्यान्तु मरणान्मुक्तिः नैमिशे पुष्करे तथा ।

कुरुक्षेत्रम् तथैवोत्र क्षेत्रेवरगुणाबिधे ।

ताम्रातटस्थितानाञ्च क्षेत्राणामिदमुत्तमम् ।

कुरुक्षेत्रादिमुख्यानाम् क्षेत्राणामपिचोत्तमम् ।

महीतमेष्विदम्क्षेत्रम् गुणदोहि वरम् मुने ।

तस्माद्वरगुणम् नाम मुनिभिःक्षेत्रमुच्यते ।

कस्मिन् क्षेत्रे तु ये मर्त्याः महापापपरिप्लुताः ।

कळेबराणिमुच्यन्ते ते यान्ति परमाङ्गतिम् ।

जन्मान्तरतपोयोगात् लभन्ते मृति तत्र वै ।

नाकुर्वतस्तपोविप्रमतिरस्ति न सम्शयः ।

किरातस्यास्य विप्रेन्द्र पूर्वजन्मकृतेन च ।

सुकृतेन मृतिर्लब्ध्वा नृशम्शस्यदुरात्मनः ।

प्राणिहिम्सरतस्यापि क्षेत्रेवरगुणान्विते ।

विजयासन सान्निध्यात् तीर्थस्यास्यगुणोदयात् ।

सर्वाघनाशनस्याथ क्षेत्रमेतत् प्रशस्यते ।

शिष्यः-

जन्मान्तरेकिरातोयम् सुकृतम् किञ्चकारा ।

मरणप्राप्कम् क्षेत्रे ह्यस्मिन् पुण्यतमो गुरो ।

केनकर्मविपाकेन किरातोभून्महामुने ।

विजयासन नाम्नश्च हरेःसान्निध्यमत्र वै ।

कस्यहेतोर्महाभाग विस्तरात्वक्तुमर्हसि ।

सनक:-

एतच्छृत्वाशुभम्वाक्यम् शिष्येणोक्तम् नराधिप ।

विस्तरात् वक्तुमारेभे किरातचरितम् मुनिः ।

किरातोयम् मुनिश्रेष्ठ! पूर्वमासीन्नराधिप ।

धर्मिष्ठश्वदान्यश्च दयाळुर्दीनरक्षकः ।

दातायज्वागुरून् विप्रान् पूजयन् तोषयिष्यति ।

जितेन्द्रियोजितक्रोधो विदर्भाधिपतेः सुतः ।

वीरकेसरिणोधीमान् विश्वसार इति शृतः ।

तस्य धर्मात्मनोनित्यम् प्रजा धर्मेण रक्षितः ।

कालयोगेनमहता पापाचारेण केनचित् ।

सख्यमासीन् मुनिश्रेष्ठ! धूर्तेनकलुषात्मन ।

तस्य सम्सर्गदोषेण धर्मलोपोभवेन्मुने ।

अधर्मनिरतोभूपो ह्यनाचाररतःसदा ।

वेश्यासक्तो विनीतश्च जारिणीमभिगच्छति ।

तस्याःकृतेनृपोवाक्यात् दूर्तस्यकलुषात्मनः ।

अनागसमधर्मेण तद्धनानिप्रगृह्य च ।

अवधीत्तन्नरम् विप्र श्रूयताम् वैश्यसम्भवम् ।

धनिनम् धर्मशीलञ्च तदा सर्वजनस्य च ।

हाहाकरोमहानासीत् अधर्मोयम् नृपसत्तम ।

दूर्तवाक्याच्चजारिण्या कृतेधनिनमुग्रधीः ।

हतवान् वैश्यतनयम् इति होवाचधिक्कृतः ।

पुरितस्यजनास्सर्वे स्त्रीबाल युव वृद्धकाः ।

अधर्मनिरतोभूपः क्षयरोगेणपीडितः ।

मृतोयमपुरङ्गत्वा नरकाननुभूयच ।

अनेककोटिकल्पान्ते किरातःसमजायत ।

अनागसान्तुभूतानाम् हिम्साम्कुर्वन्ति यो नराः ।

ते निमjजन्तिनिरये कल्पकोटिशतान् बहून् ।

जारिण्यासत्तहृदयो जारभावम् गतश्च यः ।

तम् गृहीत्वा यमभटाः क्रूरःक्रूरेणकर्मणा ।

नीत्वा यमपुरम् घोरम् उत्पाट्यवृषणम् स्वकम् ।

विनिक्षिपन्ति तस्यास्ये सूच्यानेत्रेतुदन्ति च ।

तप्तामयोमयीम्भार्याम् ज्वालामालासमाकुलाम् ।

आलिङ्ग्यतामतिकूरम् ब्रुवन्ति यमकिङ्कराः ।

नालिङ्गितेततस्तस्मिन् शरीरे तस्य योजयन् ।

अनुभूयततस्तीव्राम् यातनाम् मनुजाधमाः ।

जायन्ते विविधाम् योनिम् तत्तत्कर्मानुरूपतः ।

अयम् नृपाधमोप्यत्र किरातः समजायत ।

पूर्वम् पुण्यमयङ्कृत्वा पश्चात्कालविपर्ययात् ।

दुष्कृतम् कृत्वान्ब्रह्मन् तेन पुण्यप्रभावतः ।

क्षेत्रे वरगुणाख्येस्मिन् जन्मप्राप्तमनुत्तमे ।

मरणम्चापि सम्प्राप्तम् निर्वैरत्वमुपागतः ।

सहतो वश्यतनयो नापराधोद्यजन्मनि ।

पूर्ववैरमनुस्मृत्य सर्पोभूत्वा महाविषः ।

किरातम् दुष्ट्वान् विप्र निर्वैरोभूज्जनाधिपः ।

एतत्क्षेत्रस्यमाहात्म्यात् निर्वैरो वीतकल्मषः ।

दिव्यम् विमानमारुह्य किरातस्त्रिदिवङ्गतः ।

अनागसोर्थहरणादभूत्वा तानि दुर्मतिः ।

माम्सानिसो मृतो मूर्खो यथा तद्धनमाहृतम् ।

तथैव तेन नीतानि माम्सानि विविधानि च ।

काकश्येनास्तथागृध्राः श्वापदाश्च हरन्त्युत ।

एवम् पापस्य पुण्यस्य विपाकोपि न मुञ्छति ।

जन्मान्तरेष्वपि मुने पुमाम्समनुयास्यति ।

आन्यायेन तु ये मर्त्याः परस्वानि हरन्ति च ।

तेषामपि धनम् सर्वम् हरन्त्येऽन्ये बलान्विताः ।

यथा किरात माम्सानि हरन्ति मृगपक्षिणः ।

ये विहिम्सन्ति मनुजाः प्राणिनो नापराधिनः ।

तानप्येवम् प्रहिम्सन्ति हिम्सिताश्चान्यजन्मनि ।

तथा हि वैश्यतनयः किरातम् सर्परूपवान् ।

एवमेव महाभाग! क्षेत्रस्यास्य च वैभवम् ।

तत्क्षेत्रमाहात्म्यमनूत्तमम् महच्छृत्वा

गुरोर्विप्रवरस्य वाक्यतः ।

स सत्यवान् सम्परिहृष्टमानसः

पुनःप्रहर्षादिदमब्रवीन्नृप ।

आश्चर्यमेतद्विमलम् मनो मे ज्ञातम् विचित्राम् कथिताम् कथाम् त्वया ।

सम् शृण्वतः सादरमेवभूयो ह्यनन्त सान्निध्यमपि ब्रवीहि मे ।

इति सप्तमोऽध्यायः।

अष्टमोऽध्यायः

श्रीरोमशः-

विजयासनस्य सान्निध्यकारणम् प्रब्रुवामि ते ।

शृणु त्वम् सावधानेन कथ्यमानम् मुने मया ।

रेवानदीतटेरम्ये ह्यग्रहारे महानभूत ।

पुण्यघोष इतिख्यातः तस्मिन् वसति धार्मिकः ।

वेदविद्दययोपेतो नाम्ना सुचरितव्रतः ।

महानासीत् द्विजस्यास्य पुरतो दीर्घतपामुने ।

सतु दीर्घतपान्नित्यम् पितृ शुश्रूषणेरतः ।

मातृ शुश्रूषणम् कुर्वन् गुरून् शुश्रूषतेनिशम् ।

कुर्वन् त्रिषवणस्नानम् भैक्षमन्नमथाश्नुते ।

अग्निम् विप्रान् स्तथावृद्धान् नित्यम् प्रणमते मुने ।

वेदानधीतवान्सर्वान् वसन् गुरुकुलेऽनिशम् ।

वेदविद्याव्रतस्नातो ब्रह्मचारीधृडव्रतः ।

सचासनजयम् कृत्वा तपस्तप्तुम् मनोदधे ।

तस्यैव चिन्तयानस्य कुत्रतप्स्यामहे तपः ।

इति तस्याग्रतश्रीमान् हरिर्नारायणस्स्वयम् ।

बृद्धब्राह्मणरूपेण प्रोवाच मुनिपुत्रकम् ।

अस्माञ्चितयसे विप्र तत्भवान् वक्तुमर्हसि ।

इति वृद्धवचःशृत्वा मुनिपुत्रोऽब्रवीदिदम् ।

तपस्तप्तुमहम् विप्र! पुण्यस्थलमनुत्तमम् ।

चिन्तयामि च मनसा स्थलम् पुण्यतमम् मुने ।

यदिजानासि वै ब्रह्मन् तपस्थानमनुत्तमम् ।

सद्यस्सिद्धिकरम् रम्यम् तद्भवान् वक्तुमर्हसि ।

आसनस्य जयम् कृत्वा तपस्तप्तुम्समुत्सहे ।

द्विजपुत्रवचश्शृत्वा हरिर्ब्राह्मणरूपवान् ।

उवाच वचनम् श्लक्ष्णम् मुनिसूनुमकल्मषम् ।

जानामि तपसस्थानम् पुण्यम् लोकेषु विशुतम् ।

यत्र तप्त्वा तपःपुण्यम् द्रक्ष्य्से तत्रवात्भुतम् ।

तद्देशम् सम्पविक्ष्यामि शृणुत्वम् द्विजपुत्रक ।

आगस्त्यचरितेदेशे मध्ये सह्यमहेन्द्रयोः ।

मलाद्रिरितिख्यातो हिमवानिव पर्वतः ।

तत्प्रसूतानदीकाचित् ताम्रपर्णीजलाशुभा ।

यस्यास्तीररुहावृक्षाहू फलाड्याः पुष्पषाळिनः ।

यस्यास्तटवनेरम्ये निर्निद्रस्तिन्त्रिणीद्रुमः ।

कल्पद्रुमसमो नित्यम् विभातीष्टफलप्रदः ।

तस्या नद्यास्तटेपुण्ये ह्युत्तरेसिद्धसेविते ।

क्षेत्रम् वरगुणम् नाम तीर्थम् सर्वाघनाशनम् ।

तत्र गच्छाचरतपो जयम् कृत्वासनस्य च ।

तत्रैव तपसस्सिर्धि अवाप्स्यसि न सम्शयः ।

हरिर्नारायणादेव स्तवतुष्टो भविष्यति ।

इत्युक्तान्तर्दधेदेवस्तस्तुष्टो द्विजात्मजः ।

तद्देशमगमच्चीघ्रम् स्नात्वा तीर्थेह्यनूपमे ।

तपश्चचार सुमहत् स्वाध्यायनिरतस्सदा ।

सतुदीर्घतपाः शिष्यः देवदेवम् जगत्पतिम् ।

त्रिसन्ध्याम् पूजयामास द्वादशाक्षरविद्यया ।

ततःकालेनमहता देवदेवोजगत्पतिः ।

तस्यासनजयम् दृष्ट्वा तपश्चर्यम् च माधवः ।

सुप्रीतस्सुवरार्हस्य वरम्दातुमनुत्तमम् ।

विजयासनमासीनम् ध्यायन्तम् हरिमीश्वरम् ।

द्वादशाक्षरमन्त्रम् च जपन्तम् यमिनाम् वरम् ।

उवाचपरमप्रीतो द्विजपुत्रमिदम् वचः ।

वरदोस्मि महाभाग वरम् वरयसुव्रत ।

तस्य तद्वचनम् शृत्वा हरेरद्भुतकर्मणः ।

अभितुष्टाव देवेशम् वासुदेवम् जगत्पतिम् ।

नतोस्म्यहम्त्वाखिललोकनाथम्

सनातनम् सर्वहितावतारम् ।

अनादिमाद्यम् तवहीनरूपम्

सताम् हितम् दुष्टभयानकम् च ।

अहम्कृतार्थोस्मि तव प्रसादात्

तप्तम् न पश्चाद्भुतमत्र दृष्टम् ।

त्वद्दर्शन योगिदुरापमेतत् तस्मादहम्

धन्यतरो हि लोके ।

आसनस्यजनादेव तपश्चर्या विशेषतः ।

सर्वाघनाशतीर्थस्य स्नानपुण्यप्रभावतः ।

त्वम् मे दृष्टिपथम् प्राप्तः सत्यमस्तु वचस्तव ।

सर्वाघनाशतीर्थम् सत्यतीर्थम् भवत्विदम् ।

तद्वचस्सत्यमित्येव त्वयोक्तम् द्विजरूपिणा ।

अत्रागत्य तपस्तीव्रम् त्वत्प्रकाशनकारणम् ।

सत्यतीर्थमितिख्यातम् तीर्थम् भवतु माधव ।

बिजयासन नामा त्वम् ख्यातो नित्यमिहाच्युत ।

सर्वकामप्रदो नृणाम् सान्निध्यम् कुरु केशव ।

ब्रह्मध्यानपरो यस्य ब्रह्मनिर्वाणमृच्छतु ।

इति तस्य वचश्शृत्वा प्रहस्य मधुसूदनः ।

सान्निध्यमकरोत्तत्र विजयासन इत्यतः ।

सर्वाघनाशनम् तीर्थम् सत्यतीर्थमभूत् द्विज ।

तस्य तुष्टो जगन्नाथः सायुज्यम् च ददौ पुनः ।

सतु दीर्घतपा विप्र जीवमुक्तो महातपाः ।

नैष्टिकब्रह्मचर्येण सायुज्यम् परमम् गतः ।

सत्यवानपि तच्छृत्वा रोमशस्यमुखाच्युतम् ।

प्रहर्षमतुलम् लेभे पूजयामास तम् नृप ।

गुरुशुश्रूषया राज! सत्यतीर्थ निषेवणात् ।

विजयासन नाम्नश्च हरेरपि च सेवया ।

जीवन् मुक्तोमहाराजा विष्णुसायुज्यमापसः ।

सनकमुनिवरोक्तम् वाक्यमकर्ण्यभूपो मुदमगमदनन्तम् भूय एवाद्भुतश्रीः ।

हरिचरितमुदग्रम् श्रोतुकामोमुनीन्द्राः वचनमपि बभाषे वासुदेवाङ्घ्रिभक्तम् ।

इति वरगुणक्षेत्रमाहात्म्यो नाम अष्टमोऽध्यायः।

नवमोध्यायः

सतु विश्वसखो भूयो श्रोतुकामो हरेःकथाम् ।

मुनीन्द्रास्तमुवाचेदम् सनकम् यमिनाम् वरम् ।

राजोवाच –

अत्यद्भुतमिदम् ब्रह्मन् श्रीपतेः क्षेत्र वैभवम् ।

शृण्वतो मम विप्रेन्द्र न तृप्तिरुपजायते ।

सुदुर्लभमिदम् मन्ये वैकुण्ठप्रियदर्शनम् ।

मम भाग्यवशाल्लब्धम् त्वद्दर्शनमचिन्तितम् ।

सत्वम् मुकुन्दाश्रयिणाम् मुनीनाम् महात्मनाम्

मुख्यतमः प्रतीतः।

त्वामेवसन्तः प्रवदन्ति हम्स

माध्यात्मनित्यम् परमम् महान्तः ।

भवत्कृपायाः प्रथमम् हि पात्रम्

भवान् विधित्वामथ विप्रवर्य ।

दयाम् कुरु त्वम् मधुसूदनस्य

कथामृतैःपोषयमामुदारैः ।

इत्येवमुक्तम् वचनम् निशम्य

राज्ञाम् वरिष्ठेन नयानितेन ।

उवाचवाक्यम् प्रणयाभियुक्तम्

मुदानृपम् भागवतः प्रधानः ।

शृणु राजन्! महाभाग मधुजित् क्षेत्रवैभवम् ।

कथयामि पुनस्त्वन्यत् पुळिनोलयमद्भुतम् ।

क्षेत्रम् वरगुणस्याथ प्रागुदीच्याम् दिशिप्रभो ।

भूमिपाल इति प्रोक्तो नित्यम् सन्निहितो हरिः ।

तीर्थमैन्द्रम् महाराज यत्रैषोयज्ञमुत्तमम् ।

चकर सु महान् विघ्नो यत्रजातश्च राक्षसा ।

भूमिपालप्रसादेन निर्विघ्नोह्यभवत्कृतः ।

सच राक्षसमुख्यश्च मुक्तिम्प्राप्तोह्यनुत्तमाम् ।

आश्चर्यनिलयाम्पुण्याम् कथाम् शृत्वा जनाधिपः ।

भूमिपालस्यचरितम् पुळिनालयवासिनः ।

श्रोतुकामाम् मुनिश्रेष्ठ न्नरश्रेष्ठोबवीमिदम् ।

स केन हेतुना ब्रह्मन् भूमिपालोऽभवद्धरिः ।

किमर्थमयजश्चक स्तन्देवम् पुळिना करे ।

तस्य तीर्थस्य महतः कस्मार्दैद्रमुदाहृतम् ।

कोवा राक्षसमुख्याश्च कथमिन्द्रस्यवज्रिणः ।

विघ्नञ्चकार विप्रेन्द्र कथम् विघ्नो निवारितः ।

भूमिपालेन हरिणा कयास्तुत्या प्रसादितः ।

कथम् मुक्तिङ्गतःसोपि योगिनामपि दुर्लभाम् ।

विस्तारात् श्रोतुमिच्छामि त्वत्तोहम् ब्रह्मसत्तम ।

इत्येवम् राजराजस्य वाक्यम् मधुरभाषिणः ।

प्राञ्जलेर्याचमानस्य शृत्वोवाचविधेसुतः ।

प्रशस्य राजशार्दूल मनघम् विनयान्वितम् ।

शृणु राजन् कदाचित्तु भगवान् भूतपावनः ।

श्रियासमन्वितोदेवः समारुह्य खगेश्वरम् ।

रमणीयेप्रदेशे तु विहर्तुम् रमया सह ।

नदी तटानिसर्वानि गिरिप्रस्रवणानि च ।

तटाकानि च रम्यानि वनान्युपवनानि च ।

नगरानि च सर्वानि क्षेत्राणि विविधानि च ।

परिचक्राम तेजस्वी सर्वम् तद्भूमिमण्डलम् ।

नापश्यद्रमणीयम् तु कुत्रापि मनसःप्रियम् ।

एवम् भूमितलम् सर्वम् परिक्रम्य जनार्दनः ।

ताम्रा नदीतटे रम्ये ददर्श पुळिनालयम् ।

रमणीयम् मनोरम्य वालुकावनसेवितम् ।

सालैस्तालैस्तमालैश्च पुन्नागैःपिचुमन्दकैः ।

नालिकेरैरशोकैश्च चम्पकाशोकचूतकैः ।

दाडिमैर्मल्लिकाभिश्च मल्लिकाजातिपुष्पकैः ।

हम्स सारससङ्घुष्टम् मत्तभ्रमरनादितम् ।

कोकिलारवसम्युक्तम् बर्हिकेका समाकुलम् ।

स्वच्छमम्भस्सुतीर्थम् च

नित्यम् पुळिनमाश्रितम् ।

दृष्ट्वा देवश्च देवी च ननन्दतुरकल्मषौ ।

रेमे तत्र श्रियासार्धम् देवो नारायणप्रभुः ।

जगुःकळञ्च गन्धर्वाः ननृतुश्चाप्सरोगणाः ।

देवास्सर्वे समायाताः विमानवरमास्थिताः ।

एतस्मिन्नन्तरे राजन् रममानम् श्रियासह ।

दृष्ट्वा नारायणम् देव्याः दृष्ट्वा कोपो महानभूत् ।

मत्सपत्न्याच रमते मामुत्सृज्य जनार्दनः ।

असूययारुषाविष्टा रसा पाताळमभ्यगात् ।

पाताळम् तु प्रविष्टायाम् धरण्याम् सचराचरम् ।

ऊद्विघ्नमभवद्राजन् जगतस्सर्वमथाकुलम् ।

तम् दृष्ट्वा देवगन्धर्व सिद्धाश्च परमर्षयः ।

देवदेवमथोचुस्ते नारायणमकल्मषम् ।

आकाले प्रळयग्रस्तम् जगत्सर्वम् जनार्दनम् ।

न जानीमो वयम् देव प्रळयस्यास्य कारणम् ।

देवानाम् वचनम् शृत्वा प्रहस्य मधुसूदनः।

तानब्रवीत् श्रियासार्धम् माम् दृष्ट्वा च वसुन्धरा ।

आसूययेवकुपिता रसातलमुपागता ।

ताम् प्रसाद्यानयिष्यामि मावोस्तु भयमीदृशम् ।

इत्युक्त्वा भगवान् विष्णु प्रविश्यच रसातलम् ।

ताम् प्रसाद्यजगन्नाथः क्षमामालिङ्ग्य स प्रियम् ।

प्रमृज्य वक्रम् पाणिभ्यामिदम् वचनमब्रवीत् ।

किमर्थम् कुप्यसेभीरु वक्तव्यम् कोपकारणम् ।

त्वयि मे प्रीतिरतुला न पद्मायाम् मम प्रिये ।

तज्जानन्ती कथम् देवी कुप्यसे कोपमुत्सृज ।

प्रसादम्कुरु सुश्रोणि मयि त्वम् वरवर्णिनि ।

प्रसाद्यमाना देवेन हरिणा धरिणी पुनः।

कोपमुत्सृज्य सहसा सबाष्पमिदमब्रवीत् ।

मामुत्सृज्य कथम् देव सपत्न्या मम रम्स्यसे ।

मय्येव प्रीतिमान् भूत्वा पुरेदानीम् कथम् तया ।

वक्तुमिच्छसि धर्मज्ञ इतो दुःखतरम् नु किम् ।

…माम् मरणसामर्थ्यम् सपत्नीनाम् समुच्छ्रयम् ।

प्रसन्नतु महाम्येतद्विशामीह रसातलम् ।

नेत्राश्रुपरीताकी गन्तुम् पाताळमुद्यता ।

पाताळेपतमानाम् ताम् दृष्ट्वा पङ्कजलोचनः ।

कृपयापरयाविष्टो वसुधाम् पर्यपालयत् ।

तेनैव पालिता देवी सात्विताच पुनःपुनः ।

तासाम् सपत्नीम् मन्येथाः पद्माम् पद्मायतेक्षणे ।

तवप्रियसखी पद्मा पूर्वमेवतु सा प्रिये ।

तामाह्वयेति मामुक्त्वा स्वयमेवसमुद्यता ।

ताम् निवार्यमहाभागे ह्यागतोस्मि तवान्तिकम् ।

सपत्नीभावमुत्सृज्य सखीभावम् समाचर ।

तेन वाक्यैर्बहुविधैस्सान्त्विताधरणी तदा ।

आजगामामरेशेन विष्णुना प्रभविष्णुना ।

यथावत् स्थापितापृथ्वी पद्मया च प्रसादिता ।

लक्ष्मीप्रियसखी त्वम् च जगाम वसुधापुनः ।

ततो देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः ।।

तुष्टुवुर्देवदेवेशम् श्रीभूमिसहितम् विभुम् ।

ऊचुश्च परमम् वाक्यम् देवास्सिद्धगणास्तदा ।

पाताळम् पतमानाम् ताम् वसुधामभ्यसूयया ।

परिपाल्यजगत्यस्मिन् भूमिपाल इति प्रभो ।

वक्ष्यन्ति मुनयस्सर्वे त्वामेव मधुसूदन ।

अस्मिन्क्षेत्रे महापुण्ये नाम्ना वै पुळिनालये ।

श्रीभूमि सहितोदेव नित्यम् सन्निहितो भव ।

इति तेषाम् सुरर्षीणाम् वाक्यादेवजनार्दनः ।

श्रियाभूयासमेतस्तु नित्यम् सन्निहितोऽभवत् ।

भूमिपालमनुज्ञाप्य जग्मुस्त्रिदशपुङ्गवाः ।

एवमेव महाराज भूमिपालो जनार्दनः ।

श्रीभूमिसहितोरेमे यथासुखमसौ पुनः।

इति हरिरमलात्मा पायारन्तुकामः पुळिननिलयमेव प्राप्यरेमे मुदा सः ।

भुवमथकृपयासौ पालयन् भूमिपालः सुरर्षिगणमुख्यैः पूज्यमानो बभूव ।

इति नबमोऽध्यायः।

……………….

  1. तिरुप्पुळिङ्गुडि भूमिपालस्वामि माहात्मियम्

दशमोऽध्यायः

ध्यानम्

श्रीमत्काशिनिभूपतित्व भगवान् श्रीतिन्तॄणी मन्दिरे ।

पूर्वासावदनो भुजङ्गशयनः पद्मोद्भवासङ्गतः ।

श्रेष्ठम् वारुणतीर्थराज विलसत् तीरे यथावारिधी ।

रेजेच श्रुतिसारशेखरलसत् मूर्तिःपराचोदितः ॥

सनकः-

एवम् श्रियाधरण्या च सम्युक्तो भूमिपालकः ।

शेते सुखेन राजेन्द्र तत्रैव पुळिनालले ।

ततः कालेनमहता देवराजः शतक्रतुः ।

विमानवरमास्थाय पौलाम्यासहितोनृप ।

उत्तरस्याम् दिशि तदा हिमवन्तमुपागमत् ।

हिमवञ्चिकरेरम्ये गङ्गातटवरेषु च ।

रेमेरमयताश्श्रेष्ठो मुदापरमयायुतः ।

एतस्मिन्नेवकाले तु कश्चित् ब्राह्मणपुङ्गवः ।

तत्रागच्छन् नरश्रेष्ठ तपस्वीमृगरूपधृत् ।

गङ्गातटवरेरम्ये सम् सम्वृते बहुभिर्मृगैः ।

मृगयासक्तमनसा वज्रीवज्रधरोनृप ।

वज्रेणाभ्यहरत्विप्रम् मृगरूपधरम् तदा ।

आहारे मरणेचैव स्वापकाले तथैव च ।

यस्यसत्वस्य यद्रूपम् तद्रूपम् भवतिध्रुवम् ।

तस्मान्मरणकाले तु मृगरूपम् विहायसः ।

विप्रोभूत्वाऽपतत्भूमौ तपस्वी वेदपारगः ।

तम् विप्रम् पतितम् दृष्ट्वा मृगशापवपुर्धरम् ।

विषादमगमत्तीव्रम् पौलोम्या सह देवराट् ।

अज्ञानाद्विहतोविप्रो मृगोऽयमिति वै मया ।

इति चिन्तापरीतन्तम् बृह्महत्यासमाविशत् ।

तया प्रपीडितम् शक्रम् देवास्सग्निपुरोगमा ।

बृहस्पतिम् पुरस्कृत्य मन्त्रयामासुरर्थवत् ।

ताम्रपर्ण्याम् महानद्याम् क्षेत्रे तु पुळिनालये ।

शक्रमादायगच्छामो भूमिपालस्य सन्निधौ ।

तत्र स्नात्वा शुभजले नमस्कृत्य च भूमिपम् ।

इष्ट्वा यज्ञेनमहता ब्रह्महत्याम् व्यपोहति ।

इति निश्चित्य मनसा गत्वा च पुळिनलयम् ।

ताम्रायाम् स्नानमात्रेण सद्यःपूतोऽभवत्वृषा ।

नमस्कृत्यमहीपालम् श्रीभूमिसहितम् हरिम् ।

द्विजहत्याकृतात्पापात् विमुक्तस्तु पुरन्दरः ।

सर्वैमरुद्गणैः सार्धम् यष्टुम् समुपचक्रमे ।

स तीर्थस्य च देवेन्द्रो ददौ वरमनुत्तमम् ।

मम नाम्नाकृतम् तीर्थम् भविष्यति न सम्शयः ।

अत्र ये तु निमज्जन्ति तेषाम् मुक्तिर्न सम्शयः ।

इति दत्वा वरम् शक्रोऽयजद्यज्ञेन केशवम् ।

ततो वै यजमानस्य देवराजस्य धीमतः ।

यज्ञस्य विघ्नमकरोत् राक्षसःपिशिताशनः ।

तेन दत्तवरेणाथ रक्षसाक्रूरकर्मणा ।

निर्जितो देवराजस्तु भूमिपालमतोषयत् ।

पूजयापरयाचैव तुष्टाव पुनरीश्वरम् ।

इन्द्रः –

देवदेव महादेव पुराणपुरुषोत्तम ।

शङ्खचक्रगदाम्बोज विलसत्भुजमाधव ।

पद्माक्ष परमेशान पयोधरनिभाव्यय ।

पुण्यश्लोकऽप्रमेयात्मन् पाहिमाम् शरणागतम् ।

त्वमेवसर्वलोकानाम् कर्ताकारयिता प्रभो ।

त्वमक्षरम् परम्ब्रह्म सत्यम् ज्ञानम् परम् महत् ।

सच्चिदानन्दरूपस्त्वम् सदसत्कर्मणःफलम् ।

प्रमाता सर्वभूतानामनादि निधनोऽव्ययः ।

रक्ष माम् यज्ञविघ्नेन परमार्तिगतम् हरे ।

भूमिपालनमस्तेस्तु शरणागतवत्सल ।

इत्यभिष्टूयदेवेशः कृताञ्जलिपुटस्तदा ।

ध्यायन्नारायणम् देवम् प्रणम्यशिरसा ततः ।

देवराजोमहातेजाः तस्थौ तत्र श्रियाज्वलन् ।

इन्द्रेणाभिष्टुतोराजन् भूमिपालो जनार्दनः ।

प्रादुरासीत् ततस्तस्य पुरतो वासवस्य वै ।

शङ्खचक्रधरो राजन् किरीटिकनकाङ्गदः ।

पीतवासः परार्थ्येन चन्दनेनानुलेपितम् ।

मेघगम्भीरयावाचा खगराजोपरिस्थितः ।

उवाच वचनम् शक्रम् प्रहस्य नृपसत्तमः ।

देवराज महाभाहो कुशलम् स्वागतम् विभो ।

देवानाञ्च मुनीनाम् च कुशलम् ते पुरस्य च ।

अस्माद्भयादमित्रघ्नस्तूयसे मामितस्तवैः ।

तुष्टोहमनयास्तुत्या वेदसम्मितयाप्रभो ।

वक्तुमर्हसिधर्मज्ञ तत्करिष्यामि ते वचः ।

इत्युक्तम् भगवत्वाक्यम् शृत्वा देवपतिः स्वयम् ।

पुनःपुनरभिष्टूय नमस्कृत्य पुनःपुनः ।

उवाच देवराट्वाचम् आनन्दाश्रुपारिप्लुतः ।

अज्ञानाद्धिमयापूर्वम् ब्रह्महत्याकृता विभो ।

तद्दोषशमनार्थाय तव सान्निध्यतशुभे ।

तीर्थेस्नात्वा महीपालः पूतपापोह्यहम् वरम् ।

दत्वा तीर्थस्य महतो मन्नाम्नाकृत लक्षणम् ।

कृत्वा त्वाम् यष्टुकामोऽहम् उद्युक्तःपुरुषोत्तमः ।

ततो वै यजमानस्य मम विघ्नोऽयमागतः ।

यज्ञस्यपुण्डरीकाक्ष रक्षसाक्रूरकर्मणा ।

तेनदत्तवरेनाहम् योद्धुकामोव्यवस्थितः ।

निर्जितोहम् महीपालः त्वामहम् शरणङ्गतः ।

अविघ्नोयम्यथायज्ञो मयि निर्व्वर्त्यते हरे ।

तथा कुरु जगन्नाथ! नमस्तेस्तु जनार्दन ।

इति तस्य वचश्शृत्वा वासुदेवोब्रवीदिदम् ।

इन्द्रतीर्थतटारम्ये तव यज्ञः प्रवर्त्यताम् ।

रक्ष्यमाणो मयादेव निर्विघ्नोस्तु तवाध्वरः ।

यज्ञविघ्नकरम्रक्षः गदयापोथयाम्यहम् ।

इति विणोर्वचश्शृत्वा देवराजः शतक्रतुः ।

इन्द्रतीर्थ तटारम्ये त्वयजत्पुरुषोत्तमम् ।

ततो यज्ञे प्रवृत्तेतु राक्षसःपिशिताशनः ।

तत्रागच्छत् नृपश्रेष्ठ शक्रोपर्याकुलेक्षणः।

ववर्षरुधिरौघेन वेदरक्तावृता च सा ।

ततो देवर्षिगन्धर्वैः स्तूयमानोजगत्पतिः ।

ग़दयापोथयामास मूर्ध्नि तस्य तु राक्षसः ।

ग़दयाऽभिहते राजन् राक्षसः पिशिताशनः ।

पपात सहसाभूमौ रुधिरेणपरिप्लुतः ।

वमन्नास्येन रुधिरम् वेष्टमातो ममारच ।

ततो मृतस्य तस्यासीत् रूपमर्कस्यसन्निभम् ।

विमानवरमास्थाय देवानाम् सन्निधौनृप ।

तुष्टावपरयाभक्त्या देवदेवम् जनार्दनम् ।

तेनस्तुतो महाराजन् भूमिपालोजनार्दनः ।

उवाचवचनम् धीरम् को भवान् सूर्यसन्निभः ।

केनकर्म विपाकेन राक्षसत्वम् तवागतम् ।

तस्य तद्वचनम् शृत्वा तदा वैमानिकोऽब्रवीत् ।

पूर्वजन्मनि देवेश त्वहम् ब्राह्मणयोनिजः ।

वेदाध्ययनशीलश्च व्रतचर्यारतस्सदा ।

धरण्याम् मत्समोनास्ति गार्हस्त्ये मधुसूदन ।

नाम्नासुयज्ञशर्माहम् वासिष्टस्य महात्मनः ।

सुव्रतस्यात्मजोयज्ञम् यष्टुम् समुपचक्रमे ।

ततो यज्ञेसमाप्ते तु ऋत्विजो गुरवो मम ।

अब्रुवन् सहितास्सर्वे देहिनो यज्ञदक्षिणाम् ।

धनलोभेन महता न तेषाम् दत्तवान् धनम् ।

तेनरुष्टा मयाक्षिप्ता ऋत्विजो गुरवो मम ।

याजकान् ब्राह्मणान् विप्रान् वचनैः परुषाक्षरैः ।

अधिक्षिप्य न दत्ता सा त्वया वै यज्ञ दक्षिणा ।

यस्मात् क्रूरेण मनसा तस्मात्क्रूरस्तु राक्षसः ।

भविष्यसिन सन्देहः पिशिताशीदुरासदः ।

तैःशप्तो दुःखितो भूत्वा यावमानः कृताञ्जलिः ।

धनम् विविधमादाय अनुनीतास्तदाद्विजाः ।

ततस्ते तु महात्मानः कृपयापुरुषोत्तम ।

शापस्याम् तम् तदोचुस्ते नगृह्यतु धनम् मम ।

दुरात्मन्न तव द्रव्यम् गृहीष्यामो द्विजाधम ।

नह्यस्माकम् वचो मिथ्या भविष्यति च राक्षसः ।

ततो वर्षसहस्रान्ते इन्द्रस्तु पुळिनालये ।

हरिक्षेत्रे महीपालम् यजिष्यति तदामखात् ।

अस्मात्प्रसादात् बलवान् यज्ञविघ्नम् करिष्यसि ।

त्वयाच निर्जितश्चेन्द्रो भूमिपालम् भजिष्यति ।

भूमिपालो हरिस्त्वाम् तु हनिष्यति न सम्शयः ।

ततो निर्हृतपापस्तु स्वर्गलोकम् गमिष्यसि ।

इति तैरेवमुक्तोहम् तदाचादत्तदक्षैणः ।

सद्योहम् रक्षसाम्भावमागतो मधुसूदन ।

इति तद्वचनम् शृत्वा सर्षिसङ्घस्सनातनः।

*स देवःप्रशशम्साथ ब्राह्मणानाम् वचःशुभम् ।

ब्राह्मणानाम् वचःसत्यम् ब्राह्मणानाम् वचो मम ।

यज्ञम् दानम् तपःपूर्तम् सर्वम् ब्राह्मणपूजनम् ।

न विप्रपूजनादस्ति नान्यद्धर्ममनुत्तमम् ।

इति प्रशस्य देवेशस्तत्रदेशे सुखम् हरिः ।

इन्द्रो देवगणैस्सार्धम् तत्र दृष्ट्वाऽद्भुतम् महत् ।

दक्षिणाहीनयज्ञस्य निष्फलत्वम् विचिन्त्य च ।

ब्राह्मणानाम् महत्वम् च दृष्ट्वा विप्रानपूजयत् ।

निवृत्तपातकश्चन्द्रः स्वर्गम् देवगणैर्ययौ ।

अदत्त दक्षिणो विप्रः क्षीणपापोब्दिवम् ययौ ।

एवम् महीपालवराग्रगण्य

श्रीभूमिपालस्यमहाप्रसादात् ।

निवृत्त यज्ञश्च विधूतपापो

दिवम् ययौ देवगणैर्महेन्द्रः ।

स विप्रशापान्निहतो द्विजस्तु

सन्दृश्य भूदेव वरत्वमेवम् ।

अदत्तदानोपि हरेःप्रसादात्

दिवम् गतो राजवराद्यपश्यत् ।

देवर्षिणोक्तम् वचनम् निशम्य राजा तदाहृष्ट मना बभूव ।

पुनश्चविष्णोश्चरितम्महार्थम् श्रोतुम् विधेःसूनुमपूजयत्सः ।

इति दशमोऽध्यायः

  1. तुलैविल्लिमङ्गलम् देवनाथस्वामि माहात्मियम्
  2. अरविन्दलोचन स्वामि माहात्मियम्

एकादशोऽध्ययः

ध्यानम्

दीर्घाग्रासितलोचनातदबला श्रीदेवदेवोहरिः ।

यस्मिन् पूर्वमुख सुरेन्द्रवदनः श्रीताम्रपर्णीतटे ।

आसीनश्च विमानमर्थिसुभगम् नाम्नाच गुप्तम् महत्-

तमिन् निष्तुलमङ्गलाख्य नगरे सर्वान् इमाम् भावये ॥

यः श्रीमच्छठकोपदेशिकविभो मातापिताचाऽभवत्-

तञ्चाहूय कृपानिधि स्वनिलये तत्सूक्तिरत्नम् मुदा ।

शृत्वास्मै स्वपदारविन्दयुगळम् माल्यम् च दत्तै स्वयम्-
तम् श्रीदेवपतिम् नमामि सततम् प्राप्यम् परम्मोक्षदम् ॥

श्रीसूत उवाच-
पूज्यमानो नृपेनाथ देवर्षिस्सनकस्तदा ।
पुनरण्यद्धरेःक्षेत्रमाहात्म्यमवदद्विजाः ।
सनक उवाच-
शृणु राजन् प्रवक्ष्यामि हरेःक्षेत्रकथाम् शुभाम् ।
यःशृणोति कथाम् दिव्याम् तस्यायुःश्रीश्च वर्धते ।
तस्यारोग्यम् भवेन्नित्यम् सर्वाभीष्टम् च सिध्द्यति ।
यस्मिन् क्षेत्रे हरिः श्रीमान् कश्चिनोः प्रियकाम्यया ।
प्रसादमकरोद्राजन् कृत्वा रूपद्वयन्तयोः ।
देवेशः पङ्कजाक्षश्च देवौ सुरनराकृती ।
विराजमानौ वपुषा वर्तते वरदावुभौ ।
यस्मिन्नपि महत्तीर्थम् अश्वतीर्थमनुत्तमम् ।।
यस्मिन्तीर्थवरे स्नाता नीरोगा निरुपद्रवाः ।
श्रीमन्तःकीर्तिमन्तश्च भवन्तिगतकल्मषाः ।
सूत उवाच –
एतच्छृत्वा शुभम् वाक्यम् सनकस्य मुखाच्छृतम् ।
प्रत्युवाच नृपोभूयः तच्छृणुध्वम् द्विजर्षभाः ।
राजा –
अस्मिन् क्षेत्रे कथम् केन कारणेन हरिःस्वयम् ।
अकरोदश्विनोः ब्रह्मन् प्रसादममलात्मनोः ।
अश्वतीर्थम् कथञ्चासीत् तत्र के स्नानमाचरन् ।
कस्माद्रोगाद्विमुक्तास्ते सर्वामयविनाशने ।
एतत्सर्वमथान्यच्च विस्ताराद्वतुमर्हसि ।
तव शिष्यस्यदासस्यसर्वयोगविदाम्वर ।
ब्रूयुस्निग्धस्य शिष्यस्य गुरवोगुह्यमप्युत ।
राज्ञाविश्वसखेनाथ पृष्टो देव मुनिस्तदा ।
सर्वम् सम्यगुदाहर्तुम् मनो दध्रे महामनाः ।
लोकानामुपकरार्थम् चरन्ति ब्रह्मवादिनः ।
सिञ्चन्त्यमृतकल्पैश्च वचनैर्माधवीयकैः ।
ततःपरमुवाचेदम् राजानम् वीतकल्मषम् ।
पुळिनालयमुख्यस्य पुरस्तात् पृथिवीपते ।
केदारनिलयम् नाम क्षेत्रमद्भुतदर्शनम् ।
सर्वसस्य समायुक्तम् शालिव्रीहि यवान्वितम् ।
क्षेत्रम् बहुविधम् सस्यम् फलत्येव न सम्शयः ।
तस्मिन् क्षेत्रवरे पूर्वम् नासीत् गोष्पदमात्रकम् ।
सस्यहीनम् स्थलम् राजन् सर्वकामसमन्वितम् ।
नित्यपुष्पानित्यफलाः तत्रस्थास्तरवोऽपिच ।
तत्र कश्चिन्मुनिवर स्तपसाद्योतितप्रभः ।
आत्रेयस्सुप्रभो नाम तत्र यष्तुमनोदधे ।
स चिन्तयित्वामनसा क्षेत्रेस्मिन् बहुधाफलम् ।
अत्र जातानि सर्वाणि फलानिरसवन्ति च ।
गन्धवन्ति च पुष्पाणि शान्ताश्च मृगपक्षिणः ।
दिव्यक्षेत्रमिवाभाति बहुसस्यफलोदयात् ।
यजेयम् यदि यज्ञेन विशेषफलभागहम् ।
भवेयन्नात्रसन्देहो तृप्यन्ति सुरसत्तमाः ।
देवेशश्चापि भगवान् विष्णुस्तृप्यतिसाम्प्रतम् ।
इति निश्चित्यमनसा सुप्रभोहृष्टमानसः ।
केदारान् पाम्सु भिर्विप्रः प्रपूर्य स महामतिः ।
समीकृत्य ततस्तत्र कृत्वा शालाम् सु विस्तराम् ।
ऋत्विजो वेदसम्पन्नान् कृत्वा ब्राह्मणपुङ्गवान् ।
ऋत्विग्भिब्राह्मणैस्सार्धम् आत्रेयो मुनिपुङ्गवः ।
*क्षेत्रम् सम्शोधनम् चक्रे सददर्शाद्भुतम् नृप ।
ज्योतिर्मयीम् तुलाम्चापि कार्मुकम् च महत्तरम् ।
दृष्ट्वा विप्रस्तदोवाच ऋत्विजो ब्रह्मवादिनः ।
मङ्गलम् मङ्गळम् विप्राः क्षेत्रमेतदनुत्तमम् ।
अत्रादौदृश्यते चित्रा कस्य वैश्यस्य वा तुला ।
कस्य राज्ञो महच्चापम् दृश्यतेत्वत्भुतोपमम् ।
इत्युक्त्वा तैर्द्विजैस्सार्धम् जग्राह धनुरुत्तमम् ।
तुलाम्चादाय ते सर्वे तस्मिन् तत्र मुदान्विताः ।
एतस्मिन्नन्तरे राजन् करस्पर्शान् महात्मनाम् ।
सत्सङ्गत्या तदा जाता तुलानारी धनुःपुमान् ।
रूपयौवनसम्पन्नौ वराभरण भूषितौ ।
दिव्यस्रग्गन्धसहितौ दिव्याम्बरधरौ शुभौ ।
बभूवतुस्सदा राजन् दम्पतीशुभलक्षणौ ।
सत्सङ्गादेव राजेन्द्र मुक्तशापौ बभूवतुः ।
सत्सङ्गात्परमम् नास्ति मित्रम् मित्रवताम् वर ।
मित्रादप्यधिकम् मन्ये प्राणिनाम् सत्समागमम् ।
इहैव रक्षतेमैत्रम् जन्तूनामितरेतरम् ।
सताम् समागमम् राजन् इहामुत्रच रक्षणम् ।
आत्मनःशुभकामेन पुरुषेणविपश्चिता ।
धर्म प्रयतमानेन कार्यम् साधुसमागमम् ।
तस्मात्सत्सङ्गमाद्राजन् दम्पतीवीतकल्मषौ ।
तौ तस्याम् यज्ञशालाया मास्थितौ वरवर्णिनौ ।
तौ दृष्ट्वा ब्राह्मणास्सर्वे विस्मयाविष्टचेतसः ।
आब्रुवन् द्विजवर्यास्ते तावुभौ वरदम्पती ।
कौ युवाम् दम्पतीह्यद्य पुरा भूत्वा तुलाधनुः ।
तुलात्वम् कार्मुकत्वम् च युवाम् वा केनकर्मणा ।
आश्चर्यमिव पश्यामो बररूपधरौयुवाम् ।
वक्तुमर्हथ सत्येन युवयोर्वृत्तमीदृशम् ।
तद्विप्राणाम् वचश्शृत्वा दम्पती तावथोचतुः ।
आवाम् विद्याधरौविप्रा जानीद्धम् शापकारणात् ।
तुलाधनुश्च सञ्जातौ क्षेत्रेस्मिन् पुण्यसत्तमे ।
तत्र विद्याधरःप्राह तदाशापस्य कारणम् ।
विद्याधरोहम् विप्रेन्द्राः कल्याणीयम् ममाङ्गना ।
अनया मोहितो विप्राः विवस्त्रोऽहमथाभवम् ।
अत्रान्तरे वै श्ववणो मुक्तज्यामिवकार्मुकम् ।
विवस्त्रमशपन्मान्तु कार्मुकत्वम् भजेतिच ।
तुलावन्निश्चलाम् दृष्ट्वा विवस्त्राम्गुह्यकेश्वरः ।
तुलावन्निश्चलायस्मात् तस्मात्भव तुलाङ्गने ।
इत्युक्त्वा वचनङ्घोर मावाभ्याम् सप्रसादितः ।
शापस्याम् तमुवाचाथ कुभेरस्सदयोगिरा ।
लोकपालावमानेन भवतोरीदृशम्भयम् ।
भविष्यति न सन्देहः क्षेत्रे केदारवर्तिनि ।
तत्र कश्चिन् मुनिवरो यक्ष्यति त्रिदशेश्वरम् ।
तत्रागतानाम् विप्राणाम् करस्पर्शात्तदैव हि ।
मुक्तशापौ युवाम् भूत्वा यथापूर्वत्व मर्हथ ।
तस्मादत्राहमुत्पन्नः कार्मुकम् द्विजपुङ्गवाः ।
इयम्जातातुलादेवा द्युष्माकम् सुमहत्तराः ।
समागमाद्यथापूर्वम् आवयोरभवत्वपुः ।
क्षेत्रस्यास्य च माहात्म्यात् साधूनाम् दर्शनेन च ।
आवाम् विमुक्तशापौ च गमिष्यावो यथासुखम् ।
इत्यनुज्ञाप्य तान् विप्रान् विमानवरमास्थितः ।
जगामत्रिदिवम् राजन् सभार्यस्सुरसत्तम ।
सभार्ये निर्गते तस्मिन् यजमान पुरस्सराः ।
ऊचुःसर्वे महात्मानम् ऋत्विजो ब्राह्मणान् नृप ।
इदम् केदारनिलयम् क्षेत्रमत्भुतदर्शनम् ।
तुलाकार्मुकवद्यस्मात् तत्तयोर्मङ्गलप्रदात् ।
तस्मादिदम् महाक्षेत्रम् तुलाकार्मुकिमङ्गळम् ।
इत्येव विश्रुतम् लोके भवत्वद्भुत सन्निभम् ।
अत्र तप्तम् हुतम् चेष्टम् कृतमन्यत्तथापि वा ।
अन्यक्षेत्रकृतात् पुण्यात् सर्वम् शतगुणम् महत् ।
भविष्यति न सन्देहः इति दत्वावरम् द्विजाः ।
सुखेन याजयामासुः विधिदृष्टेन कर्मणा ।
ततो भागार्थिनो देवाः तत्र सर्वे समागताः ।
अब्रुवन् यजमानम् तम् प्रणमन्तमवस्थितम् ।
तव यज्ञेन भक्त्या च सन्तुष्टान् विद्द्धि भूसुर ।
वरम् वरय भद्रम् ते तद्यन्मनसिचेच्छसि ।
देवानाम् तद्वचश्शृत्वा सुप्रभो वाक्यमब्रवीत् ।
यदियज्ञेनसन्तुष्टाः क्षेत्रेन सुरसत्तमाः ।
देवेश इति नाम्ना तु सर्वे देवेश्वरो हरिः ।
नित्यम् वसतु लक्ष्मीवान् तुला कार्मुकि मङ्गलम् ।
तस्य तद्वचनम् शृत्वा देवास्सर्वे तथास्त्विति ।
हरिम् प्रणम्य शिरसा तत्रवासमकल्पयन् ।
तस्य विप्रस्य राजेन्द्र यज्ञवाटे स्थितो हरिः ।
उत्तरस्याम् दिशि ततो हरिः पद्माकरम् महत् ।
तद्दृष्ट्वा तत्र देवेशः पद्माकर समीपतः ।
पङ्कजाक्षो वसत्तत्र नाम्ना पङ्कजलोचनः ।
इत्येवम् पङ्कजाक्षश्च देवेशश्च मुदान्वितौ ।
प्रसादम् चक्रतुर्वीरा वश्विनोःकारणान्तरे ।
सुरमुनिकथितम् तश्छार्ङ्गिणक्षेत्रमेतत् सुरपति वनजाक्षा वासभूतम् नृपेन्द्र ।
श्रुतिसुखमुपगीतम् सम्यगाकर्ण्यभूयः श्रवणमतिरथासीदश्विनोः प्रीति हेतुम् ।

इति एकादशोऽध्यायः

द्वादशोऽध्यायः

राजोवाच –
विप्रस्य यज्ञवाटे तु देवैस्सम् प्रार्थितो हरिः ।
न्यवसत्तत्र देवेशः श्रियासार्धम् जगत्पतिः ।
के कथम् देवदेवेशः पद्माकरमनुत्तमम् ।
गत्वा तत्र कथम् केन कारणेन मुनीश्वर ।
सुप्रभेणकृतम् यज्ञम् समाप्यत्वागतो मुने ।
अश्विनोःप्रीतिमन्तौ तौ देवेशः पद्मलोचनः ।
कथम् प्रसादम् कुरुतः तद्वदस्व मुनीश्वर ।
तस्य राज्ञो वचश्शृत्वा सनकः प्रत्यभाषत ।
शृणु राजन् प्रवक्ष्यामि का पुण्यतमाम् शुभाम् ।
शृणु तत्सावधानेन अनन्यमनसा विभो ।
तुलाकार्मुकवत् क्षेत्रे इष्टा यज्ञमनुत्तमम् ।
देवतानाम् हविर्भागम् दत्वा देवान् प्रणम्य च ।
देवप्रसादाद्देवेशम् श्रियासार्धमवस्थितम् ।
पूजयामास विप्रेन्द्रः ब्राह्मणैबहुभिर्वृतम् ।
ततो देवास्समुनयः जग्मुरेव यथागतम् ।
सुप्रभोऽपि महातेजाः ऋत्विग्भ्यो दक्षिणाम् ददौ ।
दक्षिणाम् प्रतिगृह्याथ ब्राह्मणा वेदपारगाः ।
तुलाकार्मुकवत्क्षेत्रम् देवेशञ्चापि चापि माधवम् ।
प्रशन्तोगताः सर्वे यथागतमरिन्दम ।
ततस्ससुप्रभो नाम पद्माकरमथोत्तरे ।
तत्र गत्वा समानीय सदा देवेशमर्चति ।
तत्पद्मगन्दधमाघ्राय प्रीतो भवति माधवः ।
कुत्रानीय तु पद्मेन सदामामर्चति द्विजः ।
इति सञ्चिन्त्य मनसा देवेशस्तद्विजोत्तमम् ।
फुल्लपद्मकरम् रम्यम् श्रीमत्स्वच्छजलाशयम् ।
दृष्ट्वा प्रीतिसमोविष्टो द्विजोत्तममथाब्रवीत् ।
पद्माकरे तटेरम्ये वस्तुमिच्छामि सुव्रत ।
पद्ममालामहम् बिभ्रन्नहम् पङ्कललोचनः ।
सर्वर्तुमपि विप्रेन्द्र रमणीयाब्जसेविते ।
भवतो यज्ञवाटोपि यथोक्तम् देवकिन्नरैः ।
तथा वसामि तत्रैव देवेश इति नामधृत् ।
अत्रापि पङ्कजाक्षश्च त्वन्निमित्तम् वसाम्यहम् ।
पद्मात्प्रियतरम् नास्ति पुष्पेषु मम भूसुर ।
यथा विप्रात् प्रियतरो मानवेषु न कश्चन ।
तस्मात् पद्मदळेनैव योमामर्चति नित्यशः ।
तम् विनापरुषश्रेष्ठन्नान्यः प्रियतरो मम ।
तस्मात्स्वमपि विप्रेन्द्र भूयःपद्मदळैःस्वयम् ।
देवेशम् पङ्कजाक्षम् माम् नित्यमर्चय सुव्रत ।
त्वयार्चितेन पद्मेन कृतनामाभवत्प्रियात् ।
दास्यामि तव विप्रेन्द्र योगिनामपि दुर्लभाम् ।
गतिम् वसेहसुचिरम् कालम् माम् पूजयन् हरिम् ।
रूपद्वयधरम् लोके प्रख्यातम् पुरुषोत्तमम् ।
इति तद्वचनम् शृत्वा पङ्कजाक्षस्यभूसुरः ।
देवेशम् पङ्कजाक्षम् च पूजयन्यवसत्सुखम् ।
शृत्वा पङ्कजमाहात्म्यम् विशेषात् भूसुरोत्तमः ।
तत्रत्यानि च पद्मानि समानीयान्वहम् द्विजः ।
अर्चत्यद्भुतकर्माणम् देवेशम् पद्मलोचनम् ।
तेन पुण्यप्रभावेन मुक्तिम् प्राप्तो द्विजर्षभः ।
मुक्तिम् प्राप्तेतु विप्रेन्द्रे सुप्रभे पुण्यकर्मणि ।
आश्विनावागतौ राजन् तम् देशम् भिषजाम् वरौ ।
तपस्तप्तुम् महाभागौ तुलाकार्मुकि मङ्गळे ।
ब्रह्मणा तु समादिष्टौ यज्ञभागार्थिनौ नृप ।
अश्विनोर्नास्ति यज्ञेषु भागम् भैषज्यकर्मणोः ।
तयोर्निन्दितयोराजन् तस्मादेतौ सुदुःखितौ ।
ब्राह्मणश्शरणम् प्राप्तौ यज्ञभागार्थिनौ तदा ।
ब्रह्मलोकम् तदा गत्वा प्रणम्य परमेष्टिनम् ।
ऊचतुस्तम् महात्मानम् विधातारम् विशाम्पते ।
आवयोर्भवता तस्मात् यज्ञभागो न कल्पितः।
अमृतप्राशिनौ देव मृतसञ्जीविनौ शुभौ ।
अकल्मषावनुदिनम् प्राणिनाम् रोगहारिणौ ।
तयोस्तद्वचनम् शृत्वा ब्रह्मलोकपितामहः ।
उवाच वचनम् धातारौ अश्विना वुभौ ।
भवभ्द्यामत्रचोक्तम् यत् तत्सत्यम् सत्यमेव हि ।
तथापि भिषजाम् श्रेष्ठौ युवाम् भैषज्यकर्मणा ।
ऋषयश्चसुरास्सर्वे निन्दन्तिनितरामुभौ ।
भैषज्यम् कुरुतेयस्तु धर्मतःसुसमाहितः ।
सोपि सत्पुरुषैर्लोके निन्द्यतेनात्रसम्शयः ॥
धर्मबाह्यो वेदबाह्यो यज्ञभाह्यो भिषक् स्मृतः ।
न पङ्क्तिभोजनम् कुर्यात् भिषजा हि न तत्गृहे ।
भुञ्जीयादल्पमप्यन्नम् प्राणैःकण्ठगतैरपि ।
क्षुत्पिपासार्धितानाम् च ब्राह्मणानाम् गवाम् तथा ।
वारयत्यन्नपानीयम् सोभिषक्वान्यजन्मनि ।
अन्नविघ्नकृतोऽन्नम् वैन् अ भोक्तव्यम् कदाचन ।
न पिबेत्त्तत्गृहेवापि पानीयम् तम्न भोजयेत् ।
तस्मान्निन्द्यतमोलोके भिषक् च प्राणिनाम् ध्विम् ।
तस्माद्युवामितो गत्वा ताम्रपर्ण्यास्तटे शुभे ।
क्षेत्रम् पुण्यतमम् विष्णोः तुलाकार्मुकि मङ्गलम् ।
तत्र गत्वा तपस्तप्त्वा देवेशाब्जविलोचनौ ।
प्रणम्य परयाभक्त्या ततः पुत्रौभविष्यथः ।
इति तद्वचनम् शृत्वा ब्राह्मणम् परमेष्टिनः ।
तथेति च प्रतिज्ञाय आश्विनेयौ मुदान्वितौ ।
प्रणम्य सर्वधातारम् जग्मतुस्तौ नदी तटे ।
दृष्ट्वा क्षेत्रम् मुरारेस्तु तुलाकरुकिमङ्गळम् ।
तत्र स्नात्वा यथान्यायम् सरित् श्रेष्ठजलेशुभे ।
देवेश पङ्कजाक्षञ्च ववन्दाते तदाश्विनौ ।
पद्मान्यादाय मुदितावानर्चितुररिन्दम् ।
सन्ध्ययोरुभयोरेवम् स्नात्वा जपपरायणौ ।
प्रणेमतुर्माहात्मानौ देवेशाम्बुजलोचनौ ।
नदीनाम् प्रवरस्नानात् तयोःपादाभिवन्दनात् ।
अर्चनात् पद्मपत्राणाम् धूतपापौ बभूवतुः ।
तयोर्भक्तिमथज्ञात्वा देवेशाम्बुजलोचनौ ।
अश्विनोः प्रियकामार्थम् तदाचाविर्बभूवतुः ।
स्रग्विणौगरुडारूढौ उभौदृष्ट्वा जनार्दनौ ।
विस्मयाविष्टहृदयौ परम् हर्षमवापतुः ।
तौ दृष्ट्वा प्रणतौ भूत्वा तुतोषतुरथाश्विनौ ।
युवामहो देववरप्रधानावनुग्रहार्थम् कृपयासमेतौ ।
यदावयोर्भाग्यवशाददृश्यौ
प्राप्तौमुदादृष्टिपथम् पुराणौ ।
स्तोतुम् न शक्तौ श्रुतिभिर्विमृग्यौ
ध्यातुम् न शक्तौ यमिनामलभ्यौ ।
दैवानुयोगात्तपसःप्रभावात्
युवामिदानीम् कृपयाप्रसन्नौ ।
इत्यादिवाक्यैरमलैरभिष्टुतौ
महानुभावौ जगतामधीश्वरौ ।
तावूचतुस्थौ भिषजाम् वरिष्टौ
देवेश फुल्लाम्बुजपत्रनेत्रौ
कौ युवाम् तु किमर्थम् वा तेपाते परमम् तपः ।
आवाम् प्रीतावितिज्ञात्वावृणुतम् वरमुत्तमम् ।
तयोर्भगवतोर्वाक्यम् अश्विनौसुरसत्तमौ ।
शृत्वास्तुत्वा स्तुतिवरैः पुनरेवोचतुस्तदा ।
ज्ञातव्यमावाम् देवेश पङ्कजाक्ष सनातनौ ।
अश्विनौ देवभिषजौ युवाम् शरणमागतौ ।
आवाम् निन्दन्ति मुनयः सुरास्सर्वे जनार्दनौ ।
यज्ञेभागम् न दीयन्ते ह्यावयोर्द्विजपुङ्गवाः ।
आवाम् भागर्थिनौखेदाद्युवाम् शरणमागतौ ।
युवयोस्तु प्रसादेन भागार्हौचाप्यनिन्दितौ ।
भवावस्सर्वलोकेशौ युवाभ्याम् वरमुत्तमम् ।
दातव्यम् च पुनस्तीर्थम् इदम् वचनमूचतुः ।
अश्वितीर्थमितिख्यातम् भवत्वत्रच ये नराः ।
निमज्जनपरास्तेषाम् दयया न च पातकम् ।
तयोस्तद्वचनम् शृत्वा देवेशाम्बुजलोचनौ ।
तथेतिच प्रतिज्ञाय देवानामन्त्र्यसत्वरम् ।
ऊचतुर्जगताम् नाथौ ब्रह्मादीन्सुरपुङ्गवान् ।
अनिन्दिताविमौ देवाः मत्प्रसादादथाश्विनौ ।
भागार्हावेवयज्ञेषु तयोर्भागःप्रकल्प्यताम् ।
आश्विनीतीर्थमित्येव तीर्थमस्त्वितिदमुत्तमम् ।
आस्मिन् तीर्थेतु यत्स्नात्वा भक्त्याचावाम् नमस्यति ।
तस्यारोग्यम् भवेन्नूनम् आयुश्श्रीश्चापि वर्धते ।
देवप्रवरयोर्वाक्यम् शृत्वा देवास्तथोश्विनोः ।
भागम् प्रकल्पयन् राजन् यज्ञे मुनिगणैस्सह ।
तीर्थस्य च वरम् दत्वा प्रणम्य मधुसूदनौ ।
अश्विभ्याम् सह ते देवाः जग्मुरेव यथागतम् ।
तत्रैव सम्स्थितौ देवौ देवेशाम्बुजलोचनौ ।
तदाप्रभृति राजेन्द्र तस्मिन्तीर्थेह्यनुत्तमे ।
निमज्य मानवास्सर्वे गतरोगा गतक्लमाः ।
भवन्ति मनुजास्तीर्थम् प्रशम्सन्ति तथाश्विनौ ।
तथा देववrauचाथ देवेशाम्बुजलोचनौ ।
तत्र स्नात्वा द्विजःकश्चित् प्रणम्य मधुसूदनौ ।
कुष्टरोगी गतक्लेशो बभूवनृपसत्तम ।
इति स नृपतिमुख्यस्तस्यचाकर्ण्यवाक्यम् कमलभवनसूनैः प्रीतिमान्

पूजयित्वा ।
सनकमतिरहस्यम् ह्यश्विनोः तीर्थमुख्ये विगळित निजरोगम् श्रोतुकामो बभूव ।
इतितुलाकार्मुकिमङ्गळक्षेत्र माहात्म्यो नाम द्वादशोऽध्यायः
***************

  1. पेरुङ्गुळम् – चोरनाट्यस्वामि माहात्मियम्
    त्रयोदशोऽध्यायः

ध्यानम्
आनन्दालयनामदेय सहितम् यस्मिन्विमानम् महत्-
तीर्थम्यद्बृहत्तटाकमिति वै मायोनटोमाधवः-
प्रत्यक्षो हरि दिङ्मुखस्सुरपते देव्यासमम् बालया-
तत्वै दिव्यबृहत्तटाकनगरम् चित्तेसदा भावये ।राजा-

को विप्रः केनपापेन तस्य कुष्ठोभवेन्मुने।

तत्र स्नात्वा कथम् मुक्तः तत्ब्रूहि मुनिपुङ्गव।

मुनिः-

आश्चर्यमिदमाख्यातम् कथयामि नृपोत्तम।

अस्तिचोत्तरदिग्भागे गङ्गात्रिपथगा नदी।

तस्यास्तटवरे कश्चिदग्रहारो महानभूत्।

अकळङ्क इति ख्यातः तस्मिन् वसति धार्मिकः।

ब्राह्मणो वेदविन्नित्यम् ब्रह्मचर्यपरायणः।

सत्यशील इति ख्यातो भारद्वाजकुलोद्भवः।

तस्य पुत्रास्त्रयो राजन् वह्निसारो विभीतिकः।

स्वर्णकेतुस्त्रितीयोसौ वेदविद्या विशरदाः।

सर्वे विनयसम्पन्नाः पितृशुश्रूषणे रताः।

व्रतस्नातश्च ते सर्वे कृतदारा भवन् नृप।

तेषामेवम् प्रभावानाम् सभार्याणाम् गृहेसताम्।

पितास्वर्गम् गतस्तेषाम् मध्यमस्तु विभीतकः।

कुष्टरोगोभवत्तस्य सुमहा सुमहानतिदारणः।

तेनरोगेणमहता सर्वाङ्गम् कृमिनम् न्पि।

नखा विगळिता राजन् कराड्यङ्गुळयस्तथा।

रोगार्तसुय चिकित्साम् वै चक्रतुर्ब्रातरावुभौ।

वर्धतेऽनुदिनम्रोगो नशाम्यति चिकित्सया।

तत्पीडया तयाब्रात्रोः बृशदुःखमजायत ।

एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा।

तत्रागच्छन् मुनिवरः तम् दृष्ट्वा भ्रातरावुभौ।

अभिवाद्यार्घ्यमावेद्य तदावचनमूचतुः।

स्वागतम् ते मुनिश्रेष्ठ भवतः करवाम किम्।

आवयोर्भाग्ययोगेन दुःखसन्तप्तयोर्भृशम्।

त्वद्दर्शनमिदम् प्राप्तम् दुःखस्यान्तो भवेद्घृवम्।

साधूनाम् समचित्तानाम् मुकुन्दचरणेषिणाम्।

दर्शनान्तो भवेद्भन्धः इत्यूचुर्मुनिसत्तमाः।

सत्यम् भवतु तेषाम् तु वचनम् भावितात्मनाम्।

आवाम् च दर्शनादेव मुक्तदुःकभयौ मुने।

तयोस्तद्वचनम् शृत्वा मुनिःकारणमास्थितः।

उवाच वचनम् किम् वा भवतोर्दुःख कारणम्।

तत्भ्रूतयदिचाद्यैव व्यपनेष्याम्यहम्शुचम्।

इति तद्वदतस्तस्य मुनेः शृत्वा वचस्तदा।

ऊचतुर्वचनम् मन्दम् दुःखशोकभयार्दितौ।

शृणुत्वम् मुनि शार्दूल दुःकारणमावयोः।

भ्रातायम् मध्यतो धीमान् कुष्टरोगी विभीतकः।

नित्यम् ताम्यति दुःखार्तो तेनावाम्बृशदुःखितौ।

भ्रातृस्नेहात्समानीय भिषजो निपुणाम्स्तथा।

करिष्यावश्चिकित्सम् च तथापि द्विजवर्धते।

रोगो न शममायाति पतन्त्यङ्घ्रिकरानखाः ।

अङ्गुळ्यश्च विशीर्यन्ते भार्यातप्यति तस्य च ।

तेनदुःखेन महता मनस्सीदतिचावयोः ।

किम् कृत्वाप्रशमम् रोगः समायाति मुने बद।

तयोस्तद्वचनम् शृत्वा नारदः प्रत्युवाच ह॥

पूर्वजन्मन्ययम् भ्रात्रा युवयोर्द्विजपुङ्गवौ।

ब्राह्मणःकृत्रिमेणाथ गोधनानि गुरोःस्वयम्।

जहारगुरुशापेन तदाशप्तोऽभवत्पुरा।

अमर्षवशमापन्नो यदागत्यममालयम्।

भार्ययाचोदितेनथ गोधनान्याहृतानि वै।

कृत्रिमेणाहृतस्याथ तव जन्मन्यनन्तरे।

कुष्ठरोगोभवेन्नूनम् सर्वाङ्गम् कृमिणावृतम्।

पतत्यतिकराङ्गुळ्यो विशीर्णानखरास्तदा।

भार्या च तवदुर्बुद्धिस्त्वया सार्धम् सुदुःखिता।

भविष्यति नसन्देहः त्वविमानद्गुरोर्मम।

इति शापम् तदा दत्वा रोषादन्तर्गृहम् ययौ।

अन्यायतस्तदाहृत्वा गोधनानि गुरोरयम्।

स्त्रियासञ्चोद्यमानस्तु तयासार्धमयम् द्विजः।

कुष्टरोगीविशीर्णाङ्गोजातश्च भवतोःकुले।

अन्याद्धरतेगावो यस्तस्य नृपसत्तम।

कुष्टरोगो भवेन्नूनम् विशीर्ण नखराङ्गुळिः।

नारदस्य वचःशृत्वा भ्रातरौ वाक्यमूचतुः।

कृपयामुनिशार्दूल गुरुद्रव्यापहारिणः ।

गुरुशापहतस्याद्य प्रायश्चित्तम् वितीर्यताम्।

तयोर्वाक्यमपि शृत्वानारदो वाक्यमब्रवीत्।

जन्मान्तरकृतम् पापम् व्याधिरूपेण भादते।

तच्छान्तिरौषधैर्मानैर्जप होमाऽर्चनादिषु ।

तस्मादहन्नू प्रवक्ष्यामि प्रायश्चित्तमथास्यतु।

ताम्रपर्ण्यास्तटेरम्ये तुलाकर्मुकवच्छुभम्।

क्षेत्रमस्ति महस्त्पुण्यम् तत्र तीर्थमनुत्तमम्।

आश्वितीर्थमितिज्ञेयम् तत्रस्नात्वा प्रणम्य च।

जगन्नाथौ कृपाविष्टौ देवेशाम्बुजलोचनौ।

सद्यो निर्दूतपापस्तु कुष्टरोगाद्विमुच्यते।

सभार्याःक्षिप्रमेवायम् भवभ्द्याम् सहितोऽधुना।

गच्छत्ववश्यम् स्न्हानम् च करोतुशुभवारिणी।

इत्युक्त्वा तावनुज्ञाप्य देवर्षिर्नारदस्तदा।

ज़गाम त्रिदिवम् राजन् अनुगृह्य कृपानिधिः ।

विनिर्गते मुनौ तस्मिन्भ्रातरौ भ्रातरम् तथा।

सभार्यन्तु समानाय्य तुलाकार्मुकिमङ्गलम्।

 

अश्वितीर्थे महापुण्ये स्वापयामासतु र्नृप।

स्नात्वा प्रनम्यदेवेशम् पङ्कजाक्षम् विभीतकः।

किञ्चित्कालमुवासाथ भ्रातृभ्याम् भार्यया सह।

स्नात्वा पद्मानिचादाय समर्चितदिवानिशम्।

एतस्मिन्नेव काले तु वागभूदशरीरिणी।

पूतपापोऽसिभद्रम् ते रोगान् मुक्तो भविष्यसि।

इत्युदीरित मात्रे तु देवदुन्दुभि निस्स्वनः।

श्रूयते पुष्पवृष्टिश्च पपात गगनात्भुवि।

आश्चर्यमिव तद्देहात कुष्टरोविनिर्गतः।

विनिर्गते तदा रोगे रूपयौवनसम्पदा।

सम्युक्तःप्रभयादीप्तो बभौसर्वाङ्ग सुन्दरः।

कुष्टरोगाद्विनिर्मुक्तो भ्रातृभ्याम् भार्यया सह।

चिरकालम् ततः स्नात्वा प्रणम्य च जनार्दनौ।

मुदा परमयायुक्तो जगामस्सन्निवेशनम्।

स भ्रातृभार्यस्ससुखम् गार्हस्त्यमनुवर्तयन्।

प्रतिवर्षम् ततो विप्रो मासिचाश्वयुजे शुभे।

द्विरात्रम् सहितस्यत्र रेवत्यामश्विदैवते।

नक्षत्रे पौर्णिमास्याम् च तत्र स्नानम् विशेषतः।

स्नात्वा तत्रच देवेश पङ्कजाक्षम् प्रणम्य च।

यथास्थानम् पुनर्गत्वा भ्रातृभार्यासमन्वितः।

भुक्त्वा भोगान् बहुविधान् पुत्रपौत्रसमन्वितः।

श्रियम्चाप्यतुलम् प्राप्य बलमारोग्यमेव च।

साङ्ख्ययोगेन महता विष्णुसायुज्यमापसः।

एवमेव महबाहो ह्यश्विनोस्तीर्थ वैभवम् ।

तच्छ्रुत्वा नृपशार्दूलः परम् विस्मयमागतः।

तदश्विनोस्तीर्थवरस्यमुख्यम् शृत्वा द्विजाद्राजवराग्रगण्यः।

सम्पूज्यधातुःसुतमप्रमेयम् पप्रच्छभूयोपि हरेश्चरित्रम्।

इति अश्वितीर्थ प्रशम्सा नाम त्रयोदशोऽध्यायः।

चतुर्दशोऽध्यायः

भगवन् क्षेत्रमाहात्म्यम् यथावत् कथितम् त्वया।

सुधासारमयम् बृह्मन् श्रुतम् श्रोतृसुखावहम्।

नदीनाम् पुण्यतोयानाम् परिष्टायामहामते।

ताम्रपर्ण्यास्ततेरम्ये शुभवत्युत्तरे पुनः।

श्रोतुमिच्छामि यत्क्षेत्रम् विष्णुतुष्टिकरम् मुने।

विष्णुलीलासमायुक्तम् तत्भवान् वक्तुमर्हति।

कल्याणनिलयस्यास्य कैवल्यफलदायिनः।

हरेः शृत्वा कथम् दिव्याम् कस्य वा तृप्यते मनः।

इति राज्ञाम् वरिष्ठस्य मुखादाकर्ण्यभारतीम्।

उवाचवचनम् श्लक्ष्णम् मुदाभागवतोत्तमः।

शृणु राजन् प्रवक्ष्यामि भूयाप्यपरमत्र ते।

कथयामि हृषीकेश सौभाग्यविस्तरम्।

यस्तुलाकार्मुकवतः क्षेत्रस्य प्रागुदङ्दिशि।

ताम्रायाश्चोत्तरे पार्श्वे क्रोशमात्रे नरेश्वर।

बालिकावनमित्येव क्षेत्रमद्भुत दर्शनम्।

यत्रबालातपस्तेपे कुमारीवरवर्णिनी।

प्रफुल्ल पङ्कजोपेतम् तटाकम् महदस्तिहि।

तत्र साबालिकास्नात्वा तपश्चरति नित्यशः।

तस्याःप्रातुरभूद्देव श्चक्रपाणिश्चतुर्भुजः।

तत्रशेते महाविष्णुः पुनरुत्थायसोऽच्युतः।

महामायम् महाक्रूरमसुरन्लोककण्ठकम्।

तम् हत्वा माययादेवो मूर्ध्नि तस्य न्नर्तसः।

काळियस्य फणारङ्गे यथापूर्व ननर्तह।

तथाकुर्वति तस्मिन्स्तु नटनम् मुरवैरिणी।

जगुःकळम्च गन्धर्वा ननृतुश्चाप्सरोगणाः।

मृदङ्गादीनि वाद्यानि विश्वावसपुरोगमाः।

विरिञ्चिप्रमुखादेवाः चोरनाट्यमितिप्रभुः।

ऊचुस्तम् देवदेवेशम् मायानटन कारिणम्।

राजा-

काबाला सा कथम् तेपे तपःपरमदुष्करम्।

तस्याःकथम् हरिर्देवः प्रातुर्भूतस्सुराग्रणीः।

बालिकाकाननेविष्णुः शयानः कथमुत्थितः।

आसुरम् घातयामास कोऽसुरस्तस्य मूर्धनि।

किमर्थमकरोद्ब्रह्मन् नटनम् नाट्यकोविदः।

एतत्सर्वम् सुविस्तार्यचोरनाट्यकथाम मुने।

वक्तुमर्हसि धर्मज्ञ बालिकावनवैभवम्।

सन्ति सत्पुरुषालोके त्वादृशाविगतस्पृहाः।

मादृशानाम् महाभाग भवसागरतारकाः।

अद्वुधस्सज्जनोबन्धु र्नबन्धुर्बन्धुरुच्यते।

अर्थानापेक्षतेसाधुर्नसाधुः केवलम् सुहृत्।

तस्मात् प्रशस्यते साधुः सर्वेषामुपकारकृत्।

निस्पृहोवीतरागस्त्वम् मान्तरायकृपालय।

सूतः-

प्रशस्यमानम् क्षितिपेनचैवम्

महानुभावः परमार्थदर्शी।

ऊवाचवाक्यम् प्रणयाभियुक्तम्

विवश्वसृदसूनुरमुम्, नरेन्द्रम्।

शृणु राजन् प्रवक्ष्यामि बालिकावनमुत्तमम्।

तटाकवनमित्येव पूर्वमासीन् मनोरमम्।

फुल्लेन्दीवरपद्माड्यम् हम्ससारससेवितम्।

महातटाकमतुलम् स्वच्छन्तोयमकर्दमम्।

रम्यपुष्पफलोपेतम् शालितण्डुलसेवितम्।

मधूकतिन्त्रिणीवृक्ष शोभितम् तन्निशाम्यतु।

ब्राह्मणःपृथिवीपाल वेदसार इति श्रुतः।

तरुण्याभार्ययासार्धमवसत्त्योगिनाम् वरः।

अन्वहम् सोपिकुरुते तपश्चर्याम् स्त्रियासह।

वेदसारो महा प्राज्ञः स्नात्वा प्रातर्नदीजले।

तटाकवनमागत्य सर्वकार्याणिकारयेत्।

भार्याकुमुद्वतीनाम तस्य तस्याम् च बालिका।

सर्वलक्षणसम्पन्ना जाता परमशोभना।

ववृधे चन्द्रलेखेव शारदीशुक्लपक्षके।

नामकर्मद्विजश्शक्रो नाम्ना तु कमलावती।

सा वर्धमाना पित्रा च मात्रा च वरवर्णिनी।

तयोःप्रीतिरभूत्तस्याम् कल्याणगुणसम्पदा ।

कन्यारत्नम् ततो दृष्ट्वा वर्धमानम् तु दम्पती।

ततश्चिन्ताम् प्रपेदाते कस्मै देयाति सुन्दरी।

तयोश्चिन्तयतोरेवम् साबालावरवर्णिनी।

श्रीपतिम् पतिमिच्छन्ती तपस्तेपेऽतिमानुषम्।

पञ्चवर्षकुमारीयम् तत्रैव विपिनोत्तमे।

मात्रापित्रा वार्यमाणा नाश्रुणोत् सा पितुर्वचः।

मातुश्चमनसा नित्यम् ध्यायन्ती पुरुषोत्तमम्।

तपश्चचारबाला सा दृडाम् दृष्ट्वा जनार्दनः ।

तस्याम् प्रियम् चिकीर्म्स्तु तत्र प्रादुरभूद्धरिः।

शेषपर्यङ्कशयने कमलाङ्के जगत्पतिः।

शयानःपादमूले तु धरण्या समुपाश्रितः।

विष्वक्सेनादिमुख्यैश्च सेवितः परिषद्गणैः ।

सर्वाभरणसम्युक्तः सर्वायुधधरो हरिः।

सन्निकर्षे शयानस्तु तस्यास्तामिदमब्रवीत्।

किमर्थम् तप्यसे बाले का त्वम् ब्रूहिवरानने।

तस्य तद्वचनम् शृत्वा शेषपर्यङ्कशायिनः।

सन्तप्तावेपमानाङ्गी उवाच कमलावती।

वेदसारस्य विप्रस्य कुमुद्वत्याम् श्रियःपते।

जातामहम् जगताम्नाथ नाम्ना तु कमलावती।

श्रीपतिम् पतिमिच्छन्ती चरामि परमम् तपः।

मात्रापित्रावार्यमाणा न शृणोमि वचस्तयोः।

एवमुक्तस्तया देव स्तामालिङ्ग्य च सत्वरम्।

शिरोदेशे श्रियम् दृष्ट्वा पादमूले भुवः पुनः।

न्यवेशयदमेयात्मा निजवक्षस्थलम् हरिः।

देवदुन्दुभयोनेदुः तस्मिन् काले तदद्भुतम्।

जगुःकलञ्चगन्धर्वा ननृतुश्चाप्सरो गणाः।

साधुसाध्विति देवानाम् साधुवादो महानभूत्।

हरिवक्षस्थले सा तु रममाण तपस्विनी।

प्रहर्षमतुलम् लेभे तदा सा कमलावती।

ततो देवाश्च गन्धर्वाः सिद्धाश्च परमर्षयः।

प्रहृष्ट वदनाश्चोचुः दृष्ट्वाश्चर्यम् हरेस्तदा।

तपस्सिद्धिश्च बालायाः बालिका वनमित्युत।

तदाप्रभृति राजेन्द्र तत्तटाकवनम् पुनः ।

बालिकावन मित्येव प्रसिद्धम् जगतीतले।

एवमुक्त्वा सुरास्सर्वे प्रणम्य मधुसूदनम्।

प्रशम्सन्तश्च ताम् बालाम् जग्मुरेव यथागतम्।

वेदसारोऽपि विप्रेन्द्र स्तत्र दृष्ट्वाद्भुतम् महत्।

निजपुत्र्यास्तपश्चर्याम् प्रसादम् चाच्युतस्य च।

वक्षोदेशे निवासम् च निजपुत्र्या हरेःस्वयम्।

निरीक्ष्य परमप्रीतो भार्ययासहधर्मवित्।

बालिकाकानने तत्र पूजयन् मधुसुदनम्।

श्रीभूमि सहितम् देवम् शेषपर्यङ्कशायिनम्।

तस्य वक्षस्थले रम्ये भ्राजन्तीम् निजबालिकाम्।

दृष्टा प्रीतसमायुक्तः पूजयामास माधवम्।

सनक:-

द्विजकुलतिलकोसौ वेदसारोऽति हृष्टः कमलनयनमाद्यम् बालिकारण्यमुख्ये।

नृपवरतनयाम् ताम् तस्य वक्षस्थलस्थाम् शुभमतिरत दृष्ट्वा वस्तुमैच्छत् स भार्यः।

 

इति तिरुक्कुळन्दै(बालिकावन) क्षेत्रमाहात्म्योनाम नामचतुर्दशोऽध्यायः ।

 

पञ्चदशोऽध्यायः

 

सनक:-

शयानम् कमलावत्या श्रियाभूम्या सहाच्युत।

पूजयामासधर्मज्ञो वसन् तत्र जनाधिप।

एवम् सम्वसतस्तस्य पुत्राःपौत्राश्चजज्ञिरे।

स्नुषाश्च प्रस्नुशाश्चैव पुत्रिकाश्चापरास्तथा।

पुत्रपौत्रपरीवारो बहुसन्तानसम्युतः।

अवसत् सुसुखम् राजन् वेदसारो मुदान्वितः।

एवमन्ये च बहवो ब्राह्मणा वेदपारगाः।

श्रीमन्तः कीर्तिमन्तश्च वसन्ति नृपसत्तम।

तस्य माहात्म्यमाकर्ण्य बालिका काननस्य च।

तत्र वासम् प्रकुर्वन्ति क्षत्रविट्छूद्रजातयः।

एवम् जन समाकीर्णो महान् जनपदोऽभवत्।

हृष्टपुष्टजनाकीर्णम् बालिकावनमुत्तमम्।

कृपया तस्यदेवस्य बालिकावनवासिनः।

पुत्रपौत्राभिसम्युक्ताः सर्वेदीर्घायुषो भवन् ।

वेदसारो महाप्राज्ञः स्वसन्तानैस्सुहृज्जनैः।

ब्राह्मणैरन्वितो विष्णुम् पूजयन् न्यवसत् सुखम्।

एवम् निवसतस्तस्य वेदसारस्य धीमतः।

भार्याकुमुद्वती सा च तटाके स्नातुमागता।

ताम् गृहीत्वाऽसुरःकश्चि दश्मसार इतिश्रुतः।

बलवान् विकटाकारो रौद्रकर्माजनाधिप।

उत्तरस्याम् दिशि तदा हिमवान्नाम पर्वतः।

तस्मिन्नुपययौ वीरः क्रोशन्तीम् रुदतीम् तदा।

एतस्मिन्नन्तरे प्राज्ञो वेदसारो महाद्युतिः।

स्नात्वा नद्याम् यथपूर्वम् पूर्वाम् सन्ध्यामुपास्य च।

…पौषमासस्य पौर्णमास्याम् शुभोदयम्।

पुष्यनक्षत्रमतुलम् तस्मिन्नेवाहनि प्रभो।

स्नात्वा घटैर्महाप्राज्ञः तोयमादाय सद्विजः।

ब्राह्मणैर्वेदसम्पन्नैः स्वस्तिवाचनपूर्वकम्।

अभिषेकादिकम् कृत्वा पूजयित्वा विधानतः।

षोडशेनोपचारेण तदा सम्पूज्य माधवम्।

ध्यायन्नारायणम् देवम् शङ्खचक्रगदाधरम्।

चतुर्भुजम् विशलाक्षम् शेषपर्यङ्कशायिनम्।

श्रिया च कमलावत्या धरण्या च समावृतम्।

एवम् ध्यानपरे तस्मिन् वेदसारे महाद्युतौ।

प्रादुर्भूता तदा वाणी गगनेचाशरीरिणि।

अयम् तपति धर्मात्मा ध्यानयुक्तो जितेन्द्रियः।

अस्य धर्मात्मनो भार्यामाजहाराऽसुराधमः।

अश्मसार इति ख्यातः इत्युत्तवान्तर्दधे पुनः।

तच्छृत्वाभयसन्त्रस्तो वेदसारःकृताञ्जलिः।

नमस्कृत्य हृषीकेशम् ब्राह्मणानिदमब्रवीत्।

गृहे भार्याम् विनिक्षिप्य नद्याम् स्नातुम् विनिर्गतः।

नहिमिथ्याभवेत् वाणी दैवीचाकाश गोचरा।

एवम् चिन्तयतस्तस्य ब्रुवतो नृपसत्तम।

शिशवस्तत्रचागत्य तम् विप्रमिदमब्रुवन्।

तात तात महाप्राज्ञ तवभार्या मनस्विनी।

तटाके स्नातुकामा सा गता न पुनरागता।

कालातीतिम् विदित्वा तु मृगयन्ते सुतास्तव।

न पश्यन्ति च ते सर्वे विनष्टाम् मातरम् सुताः।

इति तेषाम् वचश्शृत्वा शिशूनाम् द्विजपुङ्गवः।

रक्षिष्यति हरिर्देवो मम भार्याम् ददाति च।

इति कृत्वामतिम् विप्र स्तुष्टाव मधुसूदनम्।

नमो नमस्तेस्तु नृसिम्हविष्णोः

जनार्दनानन्तगुणाप्रमेय।

विश्वाधिकस्त्वम् विविधाकृतिस्त्वम्

विश्वस्य सृष्टापुनरेव गोप्ता।

त्वमेव हन्त प्रळयेऽपि सर्वम्

जगत्स्थितस्यात्तव नाभि पद्मे।

मायामयस्त्वम् मनुजाधमास्त्वाम्

अन्तर्बहिः पूर्णमचिन्त्यरूपम्।

नैवाभिजानन्ति महानुभाव

जानन्तिचाध्यात्मविदो महान्तः।।

एवम् स्वभावैः स्वगुणैःसमेतम्

त्वामीश्वरम् सत्यमजम् पुराणम्।

अहम् प्रपन्नोस्मि जगन्निवासम्

शयानमत्राम् भुजलोचनत्वाम्।

प्रसीददेवेश विभो नमस्ते पाहि

त्वमार्तम् शरणम् प्रपन्नम्।

इति स्तुत्वा वासुदेवम् प्रणम्यच पुनः पुनः।

बद्धाञ्जलिपुटस्तस्थौ तत्रैवद्विजपुङ्गवः।

ततः प्रीतो हरिस्तत्र शयानः पुनरुत्थितः।

मेघगम्भीरया वाचा द्विजमेन्द्रमिदमब्रवीत्।

स्तुत्यानया द्विजश्रेष्ठ मम प्रीतिरनुत्तमा।

मम पूजापरे नित्यम् सदाध्यानपरेत्वयि।

वद यस्माद्भयम्त्वद्य तदहम् शमयामि ते।

इति तद्वचनम् शृत्वा ब्राह्मणा विनयान्वितः।

उवाचवचनम् मन्दम् मुकुन्दम् मुरवैरिणम्।

 

भगवन् स्नातुकामोहम् निर्गतस्तनीम् वराम्।

मम भार्या तटाकेस्मिन् गतास्नातातु निन्दिता।

केनानीता न जानीमो नैव सा पुनरागता।

गृहे पुत्राश्च पौत्राश्च स्नुषास्सर्वा रुदन्ति हि।

शिशूनाम् वचनादेव ज्ञातम् नैवगतोस्म्यहम्।

स्नात्वाहमत्रचागत्य ब्राह्मणैः सम्वृतोबृशम्।

भवत्पूजारतस्तत्र स्थितोऽहम् मधुसूदन।

विचार्यचाक्षताम् भार्याम् देहि मे पुरुषोत्तम।

विद्याप्रवसतोमित्रम् दानम् मित्रम् मरिष्यतः।

आतुरस्य भिषङ्मित्रम् भार्यामित्रम् गृहे सतः।

नगृहम् गृहमित्याहुः गृहिणीम् गृहमुच्यते।

यस्य नास्ति गृहेभार्या तद्गृहम् शून्यमुच्यते।

भार्याहीनम् गृहम् शून्यम् भार्याहीनो नरोमृतः।

भार्याहीनस्य मर्त्यस्य न सुखम् नच सत्क्रिया।

यज्ञदानतपोहोमः व्रतचर्यादिषुप्रभो।

सहायभूतभार्या सा ताम् विनानोपपद्यते।

तस्मात्भार्याम् प्रयच्छत्वम् यम् विना सर्वकर्मसु।

आनर्हो मनुजोलोके पुराण पुरुषोत्तम।

इति तद्वचनम् शृत्वा प्रहस्य मधुसूदनः।

उवाच वचनम् विप्रम् विचिन्त्यमनसा हरिः।

तवभार्यापहर्तारम् जानामि द्विजसुव्रत।

अक्षताम् प्रदास्यामि निर्विण्णम् भवतेअङ्गणाम्।

इत्युक्त्वा वासुदेवोसौ गरुत्मन्तमुदारधीः।

आरुह्यचोत्तरामाशाम् जगाम हरिरव्ययः।

तत्र दृष्ट्वाऽसुरपतिम् अश्मसारम् महाबलम्।

हिमवच्चिखरेरम्ये तद्गुहायाम् द्विजप्रियाम्।

दृष्ट्वाचादाय गरुडेस्थापयित्वा गुणानिधिः।

आजगामाथ देवेश स्त्वरयामनुजाधिप।

अश्मसारोपि दुर्बुद्धिः पृष्ठतोऽनुजगामह ।

बालिकावनमागत्य ददौ भार्याम् द्विजाय सः।

आसुरोप्यनुवव्राज बालिकावनमुत्तमम्।

तयोस्समभवद्युद्धम् घोररूपम् भयानकम्।

अश्मसारस्यविष्णोश्च तदद्भुतमिवाभवत्।

प्रादुश्चक्रे स मायावी मायाम् बहुविधाम् नृप।

असुरप्रहिता मायाम् माधवः शत्रुकर्शनः।

चक्रेणाभ्यहरत् श्रीमान् शरणागतवत्सलः।

एवम् तयोर्महायुद्धम् द्रष्टुम् त्रिदशपुङ्गवाः।

आगतास्सहितास्तत्र विमानवरमास्थिताः।

ततस्समभवद्युद्धम् तुमुलम् रोमहर्षणम्।

परस्परमभिघ्नन्तौ परस्परजयेषिणौ।

आश्मासारस्य मायित्वात् सोऽवरुह्य विहङ्गमात्।

पादौ गृहीत्वा तस्याजौ गरुडःपन्नगम् यथा।

भ्रामयित्वा शतगुणम् भूमौनिक्षिप्य वेगतः।

तिष्ठन् मूर्ध्नि ततःचक्रे नर्तनम् मधुसूदनः।

मायिनस्तस्य शिरसी जगन्माया विशारदः।

मोहयन् सर्वभूतानि माययाच ननर्तह।

काळियस्य फणारङ्गे यथापूर्वम् ननर्तह।

तथास्य शिरसि श्रीमन् दिव्यनृत्तम् चकारसः।

नर्तमाने तदा तस्मिन् देवदेवे जगत्पतौ।

जगुः कळञ्च गन्धर्वा ननृतुश्चाप्सरोगनाः।

मृदङ्गान्यभ्यवाद्यम् तु विश्वावसु पुरोगगमाः।

एतस्मिन्नेव काले तु पुष्पवृष्टिर्महत्यभूत्।

देवाः सर्वे मुमुदिरे दृष्टानाट्यम् हरेर्नृप।

ततो देवर्षिगन्धर्वा स्सिद्धाश्च परमर्षयः।

गङ्गामाहूय तत्तोयै रभ्यषिञ्चन् जनार्दनम्।

चोरनाट्यमिति प्रोचु स्ततो हृष्ट जनार्दनः ।

विसृज्यासुरमुख्यम् तम् धूतपापमथाच्युतः।

तस्य मुक्तिम् ददौ श्रीमान् कृपया पुरुषोत्तमः।

वेदसारम् महामानम् सान्त्वयित्वा जनार्दनः।

गङ्गामाभाष्यदेवेश स्तत्र त्वम् स्थीयतामिति।

सचोरनाट्य इत्येव नाम्नाविष्णुः सनातनः।

श्रीभूमि कमलावत्या सार्धम् तत्रावसत् सुखम्।

प्रणम्य हि पुरास्सर्वे जग्मुरेव यथागतम्।

वेदसारः सदापूज्य भक्त्या परमया नृप।

सभार्यास्तस्य सायुज्यमवाप निजयोगतः।

चोरनाट्यस्य चरितम्मुक्तम् तब नृपोत्तम।

य इदम् शृणुयान्नित्यम् पठेद्वा सततम् नरः।

तस्य मुक्तिर्नसन्देहः सत्यमेबनिबोध वै।

ताम्रपर्णुत्तरतटे चैतावत् क्षेत्रमुत्तमम्।

दक्षिणेऽपि महाराजन् तटे क्षेत्राणि सन्ति च।

अत्यद्भुतानि तीर्थानि प्रवराणिमहान्ति च।

निर्निद्रस्तिन्त्रिणीवृक्ष स्तीरेयस्मिन् विराजते।

कल्पद्रुमसमो नित्यम् वाञ्छितार्थप्रदोनृणाम्।

 

इति मुनिवरवाक्यम् श्रेष्ठमाकर्ण्यभूप स्तटभुवि पिशुनद्याम् दक्षिणायाम् महात्मा।

कमलममरपूज्यम् श्रीपतिक्षेत्रसारम् विधिसुतमतिपूज्य श्रोतुमेवोत्सुकोभूत्।

 

इति पञ्चदशोऽध्यायः

 

 

  1. तिरुक्कोळूर् – निक्षेपवित्तस्वामि माहात्मियम्

षोडशोऽध्यायः & सप्तदशोद्यायः

 

ध्यानम्

पैशुन्योक्तिपुरे भुजङ्गशयनो निक्षेपदाता हरिः ।

देवीपल्लवनायकी सहचरा श्रीताम्रपर्णीतटे।

ख्याते श्रीकरनाम्नि दिव्यनगरे राजद्विमानोत्त मे ।

वित्ताधीश्वर वाञ्छितप्रद विभुच्छित्तेस्तु मे प्राङ्मुखः।

 

सूत उवाच-

ताम्रपर्ण्युत्तरतटे षड्क्षेत्राणिमहान्ति च।

आख्यातानि मुनिश्रेष्ठ सर्वाण्येतानिविसतरात्।

दक्षिणेपि तटेरम्ये विचित्राण्यद्भुतानि च।

क्षेत्त्राणि तानिवक्ष्यामि त्रीणि पुण्यतमानि च।

ततो मुनिवरश्रेष्ठम् नृपाणामुत्तमम् महान्।

उवाचवचनम् रम्यम् विनयेन समन्वितः।

दक्षिणेऽपि तटे ब्रह्मन् क्षेत्राणि विविधानिच।

तानिसर्वाणि मे भूयो वक्तुमर्हसि गौरवात्।

पूजानियोसि सर्वज्ञ योगिनाम् त्वमनुत्तमः।

इति भूमिप तत् शृत्वा सौ योगिनाम् वरः।

ताम्रादक्षिणकूलस्थम् क्षेत्रमाहात्म्यमब्रवीत्।

ब्रह्मण्य शृणु राजेन्द्र त्रिवर्गफलदायिनीम्।

हरिक्षेत्र कथाम् पुण्याम् सर्वपापप्रणाशिनीम्।

श्रेष्ठायाः सरितः पार्श्वे दक्षिणेत्वविदूरतः।

क्रोशमात्रा नृपश्रेष्ठ सप्तमङ्क्षेत्रमुत्तमम्।

यस्मिन्क्षेत्रे च वर्तन्ते सुतराम् निधनो नव।

कुभेरस्य पुराद्राजन् गिरिजाशाप कर्शिताः।

निधतस्वयमागत्य यत्र तप्त्त्वा महत्तपः

यत्र तीर्थम् महत्पुण्यम् निधितीर्थमितिस्मृतम्।

निधीनाम् तपसो योगात् प्रार्थितः पुरुषोत्तमः।

निधीनाम् रक्षणम् कुर्वन् तेषु शेते हरिःस्वयम्।

उमाशापाभिभूस्तस्तु कुभेरः परमम् तपः।

यत्र तप्त्वा पुनर्लेभे निधीन् विष्णुः प्रसादतः।

अन्येऽपि बहवोमर्त्याः यत्र स्नात्वा जनार्दनम्।

प्रणम्य विपुलाम् प्राप्ताः श्रियमन्वय वर्धिनीम्।

यस्य देवस्य नामाभूत् भुवि निक्षेपवित्तकः।

इति मुनि कथितम् तद्राजवर्योऽतिधीमान्

निधिगुणमखिलम् तत् श्रोतुकामो विचित्रम्।

गिरिवरतनुजायाः शापहेतुम् च विष्णोः

निधिवररचितम् तत् स्तोत्रमप्युत्सुको भूत्।

कस्माच्च देवी कुपिता भवानी

शापम् कुबेरस्य कथम् चकार।

कथम् विनष्टा निधयश्च तस्य

शापाद्धितस्याशुभप्रियस्य।

कथम्म् प्रपन्ना निधयश्च विष्णुम्

स्तुत्याकया कुत्र किमर्थमेतत्।

तीर्थम् महात्तन् निधि तीर्थमेष

स्नात्वा कुबेरः कथमापवित्तम्।

निक्षेपवित्तः कथमस्य नाम

शेतेकथम् तेषु हरिर्महात्मा।

केवात्रलोकेमनुजाः प्रधानाः

स्नात्वा च तीर्थे धनिनो भवेयुः।

नृपस्य वाक्यम् मधुरम् निशम्य

सयोगिनाम् श्रेष्ठतमेऽतिहृष्टः।

प्रचक्रमे वक्तुमभिप्रसन्नोमुदा

हरिक्षेत्र तथा प्रवृत्तिम्।

राजन् शृणुष्वावहितोमहार्थम्

मयोच्यमानम् वचनम् सुनिर्मलम्।

शृत्वात्विदम् पापयुतोऽपि पापात्

विमुच्यते याति सुमेधिशीलम्।

अस्तिचोत्तरदिग्भागे कैलासो नाम पर्वतः।

तस्मिन् वसति धर्मात्मा पार्वत्या सह शङ्करः ।

तत्समीपे कुबेरस्तु परिभूतो निशाचरैः।

ब्रह्मणा समनुज्ञातो निर्मिताम् विश्वकर्मणा।

अळकामावसद्राजन् निधीनामिश्वरस्सुखम्।

तपसा तोषयित्वा तु शङ्करम् गुह्यकेश्वरः ।

तस्य प्रियसखित्वञ्च जगामधनदस्तदा।

पूर्वमासीत् कुबेरोऽसौ रूपलावण्यसम्युतः।

श्रियाज्वलति नित्यश्रीर्विमानेपुष्पके वसन्।

सतु सख्यात् शिवस्याथ क्वचिच्चन निवार्यते।

केनापि तत्र गत्वा तु नमस्कृत्य महेश्वरम्।

उमयासहितम् देवम् स्थित्वा तत्र चिरम् पुनः।

गमिष्यतिपुरम् भूपश्चैवम् प्रतिदिनम् स्वयम्।

देव्याश्च तस्य देवस्य तस्मिन्प्रीतिरनुत्तमा।

एवम् प्रीतिसमायुक्त स्सदा वैश्रवणःप्रभुः।

अवार्यमाण आगम्य गमिष्यति सुहृत्तया।

एवम् स्थितस्यदेवस्य कुबेरस्य जनाधिप।

कालयोगेनमहता वित्तनाथस्य तस्य च।

आर्थनाशस्समभवत् कालो हि दुरतिक्रमः।

त्र्यम्भकसखस्यापि धनदस्य महात्मनः।

कालाभिपन्नास्सीदन्ति स सहायास्सवित्तकाः।

आस्यापि प्राप्तमाख्यास्ये धननाशम् नृपोत्तम।

एकदा रमणीयम् तु रूपम् कृत्वाऽतिसुन्दरम्।

रमयामासदेवेशम् शङ्करम् लोकसुन्दरि।

एतस्मिन्नेवकाले तु सर्वाभरनभूषितः।

यथापुरमगद्धीमान् धनदस्सनिवारितः।

तत्र शर्वाम् समासीनाम् दृष्ट्वा पार्श्वेऽतिसुन्दरीम्।

रूपलावण्यसम्पन्नाम् अयथा पूर्वरूपिनीम्।

दृष्ट्वाकेयमिति श्रीमान् आशङ्क्य धनदस्सदा।

अविकारेन मनसा तामुदैक्षतभामिनीम्।

इति सम्प्रेक्षमाणम्तम् दृष्ट्वा पर्वतनन्दिनी।

मयि भावेन धनदः प्रेक्षते मामयम्कुधीः।

इति सन्चिन्त्य मनसा क्रुद्धावचनमब्रवीत्।

पापाचार सुदुर्बुद्धे यन्माम् भावेनचेक्षसे।

तस्मात् त्वम् विकृताकारो विरूपश्च भविष्यसि।

श्रीमदान्धतयानूनम् यस्मात् कामादवेक्षसे।

यत् त्वाम् कटाक्षेन सदा सादरम् मामवेक्षसे।

तद्विनश्यति ते नेत्रम् निश्रीकश्च भविष्यसि।

इति शप्त्वा धनाध्यक्षम् कोपेनमहतासदी।

सुखेन रमयामास सर्वलोकैकसुन्दरी।

तयाशप्तो वैश्रवणः सद्यो वै रूप्यमागतः

विनष्टनयनश्चैव विरूपो विकृताकृतिः।

विनष्टा निधयः सर्वे दारिद्र्यम् पतितम् गृहे।

तस्य सर्वम् विनष्टम्स्यादेवम् विधमचिन्तितम्।

प्राप्तम् दृष्ट्वा वैश्रवणो विषिदन्निदमब्रवीत्।

भगवन्तमुपासीनम् शङ्करम् शङ्करप्रियः।

शृणुत्वम् देवदेवेश यदम्बा मामिहाशपत्।

अतीवसुन्दरम्दृष्ट्वा वपुर्धारयतीमिमाम्।

अपूर्वामिवपश्यामि केयमित्यभिशङ्कया ताम्।

पश्यतो मम तामीशा मविकारेण चेतसा।

देवतस्यान्न हावोमे न प्रीतिर्लोकमातरि।

इति दुःखपरीतम् तम् विरूपम् विगतश्रियम्।

विनष्ट नयनम् देव मुवाच वृषभध्वजः।

सान्त्वयन् सर्वलोकेश स्सौहार्दन समन्वितः।

कृताम् तस्य गतिः केन लङ्घ्याह्यपि सुरोत्तमैः।

यद्देव्याकृतशापस्त्वम् मातृवत् प्रीतियुक्तया।

तस्माद्विषादम् माकार्षीः कृतान्तोबलवत्तरः।

कृतान्त विहितम् कर्म न केनाप्यतिलङ्घितम्।

शक्ये तयोभिर्वापि निष्कामैर्वीतकल्मषैः।

किम्पुनस्त्विद्विधैर्देव सकामैर्गुह्यकेश्वर।

शृणु वैश्रवण त्वम् हि यन्मामार्थम् पथन्गताम्।

निरीक्ष्यसे कटाक्षेण धूर्तवच्छाभिसारिकाम्।

तस्मान् मे कोपात्पञ्चस्त्वयि वैश्रवण प्रभो।

एतन्मनसि कर्तव्यम् विनष्टम् चक्षुरैव हि।

न पुनर्दातुमिच्छामि वर्णम् च न तथैवच ।

श्रियम् पुनश्च दास्यामि न हि मिथ्यावचो मम।

प्रणष्टायाः श्रियःप्राप्तिः नोपायात् प्राप्यतेन हि।

उपायम् तव वक्ष्यामि प्राप्तये बहु सम्पदाम्।

मत्प्रसादात्ततो गत्वा तपश्चर समाहितः।

अस्ति दक्षिण दिग्भागे ताम्रपर्णी महानदी।

ममदेह समुद्भूता प्रसिद्धा पापनाशिनी।

तस्या दक्षिण तीरे तु पावने परमाद्भुतम्।

धर्मपिशुनम् नामक्षेत्रम् तस्मिन् जनार्दनम्।

आराध्य नाथमिच्छन्त स्तन्नाथाः निधयोऽवसन्।

तेषामुपरिदेवेशः शेते रक्षोकरो विभुः।

निधीनाम् नामधेयेन तीर्थमस्ति महत्तरम्।

निधितीर्थमितिप्रोक्तम् तत्रत्वम् स्नानमाचर।

स्नात्वा निक्षेपवित्तम् च नमस्कुरु जनार्दनम्।

पुनःप्राप्स्यसि सर्वाणि वित्तनिधनदा सह।

तत्र स्नात्वा पुराकाचित् नमस्कृत्य जनार्दनम्।

जन्मातरकृतात् पापात् विमुक्तो धनमाप्तवान्।

निर्वर्त्य वचनम् शृत्वा धनदः प्रत्युवाचह।

कुबेरः-

को वा कथमसौ पापात् जन्मान्तरकृतादपि।

विरक्तोधनमापन्नः तद्वदस्व ममाम्बिके।

अम्बिका-

शृणु देवप्रवक्ष्यामि कुबेर धननायक।

जन्मान्तरकृतम् पापम् यद्विनश्यतमानद।

साकाराभि सम्प्राप्तम् त्वत्पापम् नश्यति धृवम्।

सकाशाद्धनाध्यक्ष मच्छापकलुषीकृताः।

योनाथमिच्छन्तो जनार्दनमुपागमन्।

जनार्दनोपि तान् भूमौ स्थाप्यशेते त्रिविक्रमः।

सोपि निक्षेपवित्तश्च प्रसिद्धस्तीर्थमुत्तमम्।

निधितीर्थम् धनाध्यक्ष पृथितम् पापनाशनम्।

ततः परम् द्विजःकश्चित् पाराशर्य कुलोद्भवः।

अव्रतस्य सुतश्रीमान् धर्मदत्त इति श्रुतः।

वेदविद्यव्रतस्नातो धर्मवादी प्रियम् वदः।

उपयेमे सुताम् वीर सुप्रसन्नस्य धीमतः।

भृगुवम्शप्रसूतस्य कन्याम् कमललोचनाम्।

सुनासाम् सुप्रसन्नाश्च तया वै भार्ययासह।

रेमे ससुचिरम् कालम् बहुधान्यधनैर्युतः।

अष्टौपुत्राश्च तस्यासन् कन्याद्वयमरिन्दम।

एवम् स नर्मदातीरे वर्तते धननायक।

एवम् तु वर्तमानस्य धनम् सर्वम्लयङ्गतम्।

दारिद्र्यम् च भयम् घोरम् बहुपुत्रस्य तस्य वै।

जन्मान्तरकृतात् पापात् दरिद्रो बहुपुत्रकः ।

दुःखेन महतायुक्तो वाक्यमेतदुवाच ह।

अहोकष्टमहोकष्टमहोकष्टम् दरिद्रता।

दरिद्रस्य सुखम् नास्ति दरिद्रस्य वचोऽशुभम्।

दरिद्रस्य सुहृन्नास्ति बन्धुर्नास्त्यधनस्य च।

न करोति वचस्तस्य दरिद्रस्य निजाङ्गना।

न कुर्वन्ति च पुत्राश्च दरिद्रः परिभूयते।

 

यस्यास्ति वित्तम् सतु जीवनाप्तो न निर्धनो जीवितुमत्रयोग्यः।

विनिन्द्यते निर्धन जीवनम् जनैः सुकृत् समाजेषु विशेषतश्च।

सधर्म दत्तस्तु विचिन्त्यचैवम् मनस्समाधाय निगृह्यदुःखम्।

जन्मान्तरे मे कृतकिल्बिषत्वाज् जातोदरिद्रो प्रमुखश्च दुःखी।

 

इति निधिवनक्षेत्रमाहात्म्यो नाम सप्तदशोऽध्यायः

********

अष्टादशोऽध्ययः

अम्बिका

 

धनाध्यक्ष ततः पश्चात् विचिन्त्यद्विजसत्तमः।

बहुपुत्रोऽतिदुःखी च सभार्यः क्लेशसम्वृतः।

भरद्वाजम् समासीनम् नर्मदातीरवासिनम्।

उवाच धर्मदत्तोयमिदम् वचनमुत्तमम्।

भरद्वाज महाबाहो दारिर्द्र्यम् बहुलम् मम।

बहुपुत्रस्य विपेन्द्र पित्र्यम्नष्टम् धनम् बहु ।

अवमानम् प्रकुर्वन्ति मह्यम् सर्वेच बन्धवः।

कारणेन तु केनेदम् सम्प्राप्तम् धननाशनम्।

पूर्वजन्मनि जानासि यदि मे वक्तुमर्हसि।

किम् कृत्वा मम दारिद्र्यम् विनश्यति सुदुःखदम्।

तद्विचर्य मम ब्रूहि सुलभाः साधवोपि च।

इति तस्य वचःशृत्वा भारद्वाजो महामतिः।

ज्ञानदृष्ट्या विचार्याशु धर्मदत्तमथाब्रवीत्।

भारद्वाजः

शृणु विप्र प्रवक्ष्यामि तव दारिद्र्यकारणम्।

जानामि तपसा सर्वम् तव चेष्टितमीदृशम्।

इदानीम् न त्वया विप्र निरयोपमपातकम्।

कृतम् जन्मनि पूर्वस्मिन् दारिद्र्य प्रदमार्तिदम्।

तदहम् ते प्रवक्ष्यामि शृणुत्वम् सावधानतः।

पुरा ब्राह्मणवम्शे त्वम् जातः सत्पुरुषोभवान्।

अर्थम् बहुतवास्तीति प्रथितम् भुवि भूसुर।

तच्छ्रुत्वा नृपतिस्स्त्वाम् वै समाहूय स पृष्टवान्।

तेन पृष्टस्त्ववोचस्त्वम् मिथ्या सर्वेवदन्ति हि।

न धनम् किञ्चिदप्यस्ति मयि भूमिपते वृधा।

प्रवाद स्सुमहानासीत् तच्च्छृत्वा नृपतिः स्वयम्।

विसृज्यत्वाम् नृपः सोथ पुनर्नोवाच किञ्चन ।

ततस्त्वम् सञ्चितानर्थान् निक्षिप्य विपुलान् पुनः।

परान्नरसिको भूत्वा परान्नम् भुञ्जसेऽनिशम्।

न ददासि द्विजातिभ्यः किञ्चिदन्नमपिक्वचित्।

पुत्रदारागृहादीनि न पोषयसि निर्घृणः।

देवकार्याणि सर्वाणि पितृकार्याणि यानि च।

न करोषि नचान्यानि न पोषयसि पुत्रकान्।

वञ्चयित्वा परानेवमुपायैर्बहुभिर्युतः।

यथा राजा न जानाति धनवानिति माम् पुनः।

तथाविधम् करिष्यामीत्येवम् सञ्चिन्त्यमानसे।

स पुत्रदारः सततम् छिद्रम् वासस्सकश्मलम्।

वसानश्चान्नसत्रेषु परगेहेषु वा पुनः।

अश्नासि तदभावे च दृडचित्ततया भवान्।

सपुत्रदारकश्चैव करोषि समुपोषनम्।

एवम् राजभयात् बृह्मन् लोभेन महतावृतः।

गोपयित्वा धनम् भूरि व्ययम् न कुरुषेक्वचित्।

दरिद्र इव लोकेषु चरसि त्वम् सदा द्विज।

अर्थे ते विद्यमानेपि बन्धुमित्र द्विजातिषु।

न त्यागान्न प्रदानाच्च द्वेष्यभावम् गमिष्यत।

केवलम् धर्मनिरतो मनुजः साधुरुच्यते।

कामात्मा केवलम् लोके निन्दत्ये पुरुषोत्तमैः।

धर्मेणार्थपरेलोके पूजितः सर्वसाधुभिः।

धर्मेण कामकामी च पूजितः पुण्यकर्मभिः ।

अर्थकामपरौनूनम् निन्दितौ नास्ति सम्शयः।

तस्मादर्थपरम् त्वाम् तु दृष्ट्वा सर्वेभ्यसूयया।

विनिन्दन्ति विगर्हन्ति विद्विषन्ति मिथो जनाः।

एवम् प्रकाराण्यभवन् वृद्धभावेपि भूसुर।

तवलोभःसमुत्पन्नः सर्वपुण्यविनाशनः।

वर्तमानस्य चैवन्ते धनम्सर्वम् हि तस्करैः ।

नीतन्त्वदीयम् द्रविणम् दानभोग विवर्जितम्।

तेन दुःखेनसन्तप्तः प्रलपन् बहुधागिरः।

बन्धु मित्र सुहृद्भिश्च निन्दतोसि मृतः पुनः ।

यमस्य विषयङ्गत्वा तत्र त्वम् नारकीम् व्यधाम्।

अनुभूयचिरम् भूयो जातोसि धरणीसुरः।

भावयन् यस्तु दारिद्र्यम् विद्यमाने धनेभवान्।

इदानीम् निर्धनोभूतो भावना हि फलप्रदा।

तत्तन् भावनारूपेण भावाना सा न सम्शयः।

न ददाति धनम् मर्त्यः कले सत्पात्र आगते।

न दरिद्रो भवेन्नूनम् स पापी स दुःखभाक् ।

अन्येनार्जितन्वित्तम् दानभोगविवर्जितम्।

राजभिस्त+स्करैर्वापि नीयते विप्रसत्तम।

यथैव तव वित्तानि तदानीम् तानि दस्युभिः।

न्यायार्जितम् धनम् यो वै सत्पात्रे सम्प्रयच्छति।

स्वयम् सपुत्रदारास्तु यो भुङ्क्तेमनुजोत्तमः।

इहामुत्र च लोकेऽसौपरमम् विन्दते सुखम्।

एवमुक्तस्तु विप्रोसौ भरद्वाजेन धीमता।

कुत्र मोक्ष्याम्यहम् पापम् केनस्याम् पुण्यवानहम्।

उपायम् ब्रूहि तत्वेन तस्य पापस्य शान्तये।

भरद्वाजमिनिश्रेष्ठ कृपाळो कृपया वद।

सपुत्रभार्यम् दुःखेन तप्यमानमथावमाम्।

इति तत्वचनम् शृत्वा भरद्वाजस्तपोनिधिः।

उवाच वाक्यम् वाक्यज्ञः कुबेर शृणु तत्पुनः।

अस्ति दक्षिणदिग्भागे ताम्रानाम तटिन्यभूत्।

तस्यास्तटे महाभागे दक्षिणे लोक विश्रुतम्।

अधर्मपिशुनन्नामक्षेत्रम् धर्मनिषेवितम्।

यत्रैव धनदस्याथ वर्तन्ते निधयोनव।

यत्रैव धनदस्याथ वर्तन्ते निधयो नव।

येषु शेते महाविष्णुः नाम्ना निक्षेपवित्तकः।

यत्र तीर्थम् महापुन्यम् निधितीर्थमनुत्तमम्।

तत्र गत्वा च विधिना स्नात्वा दत्वा जनार्दनम्।

नमस्कृत्य ततः पूतो भविष्यसि न सम्शयः।

अर्थधर्मै तु विपेन्द्र वसतस्तत्र वै धृवम्।

तस्य तद्वचनम् शृत्वा धर्मदेत्तो महामतिः।

अनुज्ञाप्य भरद्वाजम् पुत्रदारासमन्वितम्।

अधर्मपिशुनक्षेत्रम् ताम्रादक्षिण तीरके।

गत्वा च निधितीर्थे स स्नात्वा दत्वा च शक्तितः।

नमस्कृत्य च निक्षेपवित्तम् निधिषुशायिनम्।

उवास सुचिरङ्कालम् ततः पूतो महामनाः।

धनधान्य समायुक्तो बन्धुमित्रसमन्वितः।

निजदेशम् ततो गत्वा गोमान् बहुधनान्वितः।

पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः।

गोभूतिल हिरण्यानाम् दानम् चक्रे महामतिः।

अप्रदानादहम् पूर्वम् दरिद्रोऽहमिवाभवम्।

अधर्मपिशुनक्षेत्रे निधितीर्थ निषेवणात्।

निक्षेपवित्तमाहात्म्याम्निधिनाम् सन्निधानतः।

दरिद्रत्वाद्विमुक्तोहमिति कृत्वामतिम् पुनः।

प्रतिवर्षमसौगत्वा स्नास्य ते निधि तीर्थके।

सेवाञ्चकुरुते विष्णोः धनाध्यक्ष द्विजोत्तमः।

भुक्त्वा विपुलान् भोगन्विष्णुसायुज्यमाप्नुवान्।

अम्बिका-

भवानपिधनेशान तत्र गत्वा महाद्भुतम्।

निधितीर्थवरेस्नानम् कुरु कल्याणदायिनी।

नमस्कुरुजगन्नाथम् निधिशायिनमच्युतम्।

ततो निधिवरान् सर्वान् प्राप्स्यसे मत्प्रसादतः।

इति देव्या वचःशृत्वा कुबेरोहृष्टमानसः॥

निधितीर्थम् च निक्षेपवित्तम्चाधर्मपैशुनम्।

मुख्यमित्यभिमन्वानो देवीम् देवम् प्रणम्य च।

तत्रागत्या महाबाहुः निधितीर्थेह्यनुत्तमे।

स्नात्वा निक्षेपवित्तम् च नमस्कृत्यावसत् सुखम्।

सनकः-

स्नानदानसमायुक्तः कुबेरः पृथिवीपते।

भगवन्तमुपागम्य तुष्टाव मधुसूदनम्।

निक्षेपवित्त निखिलार्तिहराप्रमेय

निर्वैरयोगिहृदयाम्बुजवास नित्य।

निर्धूतपापजनबृन्द सुखप्रदारि

निर्भत्सितारिजन वित्तशयान विष्णो।

त्वत् ध्यानयोगेन दुरासदेन

ध्यात्वा त्विदानीम् ममहृत्सरोजे।

इच्छाम्यहम् प्राप्तुमिदम्मुरारे

धनम् विनष्टम् गिरिजाप्रकोपात्।

तव प्रसादात् निधिमस्मदीयम्

यथा प्रपत्स्यामि तथा कुरु त्वम्।

त्वत्त्सन्निकाशे ह्यधुनावसन्तम्

दुरासदम् दुष्कृतकारिभिर्हरे।

इत्येवमुक्तो धनेन विष्नुरभिष्टुतश्चापि पुनःपुनश्च ।

उवाचवाक्यम् हितमर्थयुक्तम् निक्षेपवित्तोनितराम् मनस्वी।

शृणुत्वदीयम् य इमम् धनेश निधिम्

वरम् प्रार्थयसे भवान्यतः।

तेषाम् निधीनाम् महमम्शमेव

दास्यामि साकल्यमहम् न दास्ये।

मामेव सर्वे निधयः प्रपन्नाः येष्वेवनित्यम्

शयनम् करोमि।

नाहम् विमुञ्चामि निधीन्समस्तान् न

ते विमुञ्चन्ति हिमाम् धनेश।

तस्मादम्शेन तेषाम् वै साकल्येन यथा पुरा।

तथैव तद्दशगुणम् मत्प्रसादाद्भविष्यति।

गिरिजायास्त्वयिप्रीतिरतुलाऽस्तु धनाधिप।

एवमुक्त्वा तु देवेशो विष्णुःपुरुवाच ह।

यश्चावयोस्तु सम्वादम् निधीनाम् च स्तवम् पुनः।

पठते निधितीर्थे च स्नास्यते माम् नमस्कृति॥

तस्य नास्ति हि दारिद्र्यम् श्रीश्चाप्यान्वय वर्धिनी।

भविष्यति न सन्देहः प्राप्यते मत्पदम् पुनः।

इति दत्वा वरम् विष्णुः सुष्वाचच वनेनिधौ।

कुबेरोपि महाप्राज्ञः प्राप्य वित्तमनुत्तमः।

अळकायाम् वसन् रेमे त्र्यम्बकस्य सखापुनः।

गिरिजायास्तु तस्मिन् तु जाताप्रीतिरनुत्तमा।

माघमासे तु पुष्ये च द्वादश्याम् शुक्लपक्षके।

प्रादुरासीद्धरिस्तस्य तस्मात् स प्रतिवत्सरम्।

कुबेरस्तस्यचागत्य निधि तीर्थे निमज्य च।

निक्षेपवित्तमनघम् नमस्कृत्याभि पूज्य च।

गमिष्यति न सन्देहस्त्वद्यापि नृपसत्तम।

माघमासे तु पुष्ये च द्वादशी सम्युते यदि।

तत्र स्नातस्य राजेन्द्र धनवृद्धिर्भविष्यति।

इति ते कथितम् राजन् अधर्मपिशुनस्य च।

हरेर्निक्षेपवित्तस्य निधितीर्थस्य चाद्भुतम्।

काम्यम् च सर्वपापघ्नम् धनधान्य विवर्धनम्।

सूतः-

राजानिधीनामपि धर्ममुत्तमम्

निक्षेपवित्तस्य च वैभवम् द्विजात्।

धनस्यनाशम् गिरिजाप्रभावात्

पुनश्च तत्प्राप्तिमचिन्त्यरूपाम्।

शृत्वा महात्मा धनदस्य सर्वम् राजाप्रपेदे परमम् च हर्षम्।

सम्पूज्य धातुस्तनयम् वरेण्यम् पुनश्च विष्णोश्चरितेमनश्च।

 

इति निधिवनक्षेत्रमाहात्म्योनाम अष्टादशोध्यायः।

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.