बृह्माण्डपुराणान्तर्गत नवतिरुपति माहात्मियम् (Continued)
तिरुप्पेरै मकरायतकर्णपाशस्वामि माहात्मियम्
एकोनविम्शोऽध्यायः
ध्यानम्
प्रख्याते मकराङ्गकुण्डलधराः प्रालम्बिकर्णाह्वयम्-
तद्वल्यासह पार्वदीशवरदाच्चासीनरूपो हरिः।
यो वै भद्रविमानमध्यविलसत् श्रीशङ्खतीर्थान्विके-
तस्मिन् दक्षिणदिग्बृहद्वरपुरै ध्यायामि तम् प्राङ्मुखम्॥
भगवन् सर्वधर्मज्ञ पुराणार्थ विचक्षण।
वक्तुमर्हसि भूयस्त्वम् क्षेत्राख्यानम् मधुद्विषः।
इत्थपः सु पृष्ठः स विधातृनन्दनो
भक्तः पुराणे पुरुषोत्तमोत्तमे।
हरेःकथाम् मङ्गळनादहर्षितम्
उवाचवाक्यम् जगतीपतिम् तदा।
शृणुष्व राजन्! मधुकैटभारेः
क्षेत्रस्य माहात्म्य मथापरम् च।
सर्वार्थदम् साधु सुपूजितम् च विद्यावताम् ज्ञान सुखप्रदम् च।
अधर्मपिशुनस्यापि प्रागुदीच्याम् दिशि प्रभो।
क्षेत्रम् हरिपदम् नाम श्रीभेराख्यमभूत् पुनः।
श्रीभेराख्य महीपूर्वम् चचार तप उत्तमम्।
श्रियो रूपम् ततः कृत्वा भगवत् प्रीतिहेतवे।
यत्र पूर्वम् जलाधीशो वरुणस्तपसान्निधिः।
मकरायामकर्नाख्यम् तपसाराध्यकेशवम्।
गङ्गादि सर्वतीर्थम् च समाहूय सरित्तटे।
समूही कृत्य तान् सर्वान् ताम्रातोये जलेश्वरः।
अभिषेकम् ततश्चक्रे विष्णोरद्भुतकर्मनः।
तीर्थम् माकरिकम् नाम पूर्वमासीन्नराधिप।
मकरायतकर्णस्तु देवदेवोऽभवत्तदा।
तत्तीर्थम् पुनरेवासीत् पुण्यतीर्थसमूहतः।
समूहतीर्थमित्येव देवास्सर्वेऽब्रुवन् पुनः।
वरुणस्यच देयास्तु धरण्याश्च जनार्दनः।
प्रसादमकरोत्तत्र प्रभयाराजयन् दिशः।
तत्रासन् विप्रमुख्याश्च वेदशास्त्र विशारदाः।
बहुपुत्राश्च धनिदः तथा दीर्घायुषोऽभवन्।
एवम् क्षत्रियविट्शूद्रो बहवः सन्ति तत्र वै।
समूहाख्ये महातीर्थे स्नात्वा विष्णुम् प्रणम्य च।
कृतार्थाः कृतिनश्चैव प्राप्ता विष्णुपदम् पुनः।
राजा-
कथम् क्षमानिजम् रूपम् विहायवरवर्णिनी।
श्रियोरूपम् समास्थाय किमर्थम् तप आचरत्।
श्रीभेरनाम केनासीत् क्षेत्रस्य च भुवस्तथा।
तीर्थम् माकरिकम् नाम कथम् कस्माद्धरोरपि।
मकरायामकर्णत्वम् नामचासीत् महामुने।
किमर्थम् वरुणस्तत्र तपश्चक्रे ह्यनुत्तमम्।
गङ्गादि सर्वतीर्थानि समाहूयच्युतम् पुनः।
मलयाचलकन्याया स्तोयेनसह पाशभृत्।
अभिषेकम् कथम् चक्रे विष्णोर्विश्वपतेर्मुने।
कः स्नात्वा तत्र मुक्तिम् वा प्राप्तस्सर्वसुखान्वितः।
इदमन्यच्च विस्तार्य शम्स मे विधिनन्दन।
सर्वज्ञोसि कृतार्थोसि योगिनामसिचोत्तम।
भक्तानाम् त्वम् प्रयातोसि भगवत्यमितौजसि।
इति स्तुतो नृपेनाथ भगवान् सनकःसुधी।
उवाचेदम् शुभम्वाक्यम् प्रणयप्रीतिसम्युतम्।
शृणुराजन् यथावृत्तम् कथयामि तवानघ।
विष्णोःप्रियतमापूर्वम् धरणीमनुजर्षभ।
कमलायाम् तथा प्रीतिः नास्ति तस्य महात्मनः।
सा क्षमाश्यामवर्णाच सर्वाभरणभूषिता।
विष्णोश्चिन्नम् हरन्ती सा रूपलावण्यसम्पदा।
हेमवर्णा तु कमलम् विमनस्का विशाम्म्पते।
दुर्वाससमुपासीन मुपगम्याब्रवीद्वचः।
ब्रह्मन् हरेर्मयि स्नेहो नास्ति तस्याम् भुवि प्रभोः।
श्यावर्णतया नूनम् प्रीतिस्तस्य महत्यभूत्।
मद्वर्णम् कुरुताम् क्षिप्रम् मद्वाक्येन प्रचोदितः।
समानवर्णाम् ताम् दृष्ट्वा समाप्रितिरपि प्रभोः।
तस्यास्तद्वचनम् शृत्वा दुर्वासाः पद्मकेतनाम्।
उवाच विनयोपेत स्तथाकर्तास्मिते वचः।
इत्युक्त्वा च ययौ क्षिप्रम् यत्रासा धरणीस्थिता।
तत्र गत्वा ददर्शाथ हरेरङ्कगताम्सतीम्।
निर्लज्जाम् धरणीम् दृष्ट्वा गर्विताम् रूपसम्पदा।
दुर्वासाः प्रति सम्रब्ध इदम् वचनमब्रवीत्।
श्यामवर्णतया मह्यम् प्रीतिम् कुर्वति मे प्रियः।
इति गर्वान् मुनिम् माम् त्वमनादृत्य प्रियाङ्कगा।
परिहासकरायस्मात्तस्मा त्व मधुना क्षमे।
सपत्न्या भज रूपम् त्वम् समोऽस्तु प्रणयो हरेः।
इत्युक्त्वा सा क्षमा नूनम् क्षान्त्या परमया युता।
उवाच सान्त्वपूर्वम् सा दुर्वाससमकल्मषम्।
अज्ञानात् त्वामनादृत्य क्रीडितम् हरिणासह।
तस्यैवाङ्कगताब्रह्मन् क्षन्तुमर्हसि सुव्रत।
त्वद्वाक्यादेव मे रूपम् सपत्न्यास्तु भविष्यति।
स्नेहोपि तस्यम् मयि च समञ्श्चैव हरेर्मुने।
यथारूपम् प्रपद्येहम् मम तद्वक्तुमर्हसि।
एवम् प्रसादितो देव्या दुर्वासा वाक्यमब्रवीत्।
चिराय तव तद्रूपम् न प्राप्स्यसि वरानने।
समस्नेहा श्रियासार्धम् हेमवर्णा भविष्यसि।
यथारूपम् तवप्राप्तु मुपायम् कथयामि ते।
ताम्रादक्षिणकूलम् तु क्षेत्म् हरिपदम् क्षमे।
तत्र गत्वा नदीतोये स्नात्वा जपपरायणा।
प्रसादादच्युतस्यैव पूर्वरूपम् तदस्तु ते।
स्नेहश्चाभ्यधिको नूनम् भविष्यति नसम्शयः।
इत्युक्त्वा प्रययौ शीघ्रम् यत्रास्ते कमलापुनः।
उवाच कमलाम् भूयो यथोक्तम् तत्कृतम् मया।
इत्युक्ता प्रीतिसम्हृष्टा चाशास्य मुनिसत्तमम्।
तत्रागच्छाधद्धरिर्यत्र साक्षमा तपते पुरा।
दृष्ट्वा तत्र महीम् लक्ष्मी आत्मतुल्यावपुर्धराम्।
हर्षम् जगाम मनसा पूजतन्मुनिसत्तमम्।
हरेरपि तयोर्देव्यो स्समयोस्समरूपयोः।
समस्नेहोभवत्तस्य चिरकालम् नृपोत्तम।
ततश्चाब्देष्वतीतेषु धरणीबृशदुःखिता।
आधिकाया ममाया समस्तेहो भवद्धरिः।
आधिक्यम् काङ्क्षमाणा सा स्मृत्वा दुर्वाससो वचः।
श्रीभेरनामधेयातु गत्वा ताम्रनदीतटम्।
तद्दक्षिणम् हरिपदम् क्षेत्रमागत्य सा मही।
नद्याम्स्नात्वा तपश्चक्रे श्रीभेरावरवर्णिनी।
अष्टाक्षरम् महामन्त्रम् मुक्तम्दुर्वाससा पुरा।
ज़जापशीला सा चक्रे तोयेन तर्पणम्।
एवम् प्रतिदिनम् चक्रे स्नानम् च जलतर्पणम्।
ततश्चाफाल्गुणे मासे पौर्णमास्याम् नृपोत्तम।
नक्षत्रे भगदैवत्ये स्नात्वा ध्यात्वा जनार्दनम्।
अष्टाक्षरम् महामन्त्रम् जजाप नियमान्विता।
तर्पणम् कर्तुमारेभे हस्तेनादाय तज्जलम्।
ददर्शावस्थोते तत्र कुण्डले मकराकृती।
दृष्ट्वाऽद्भुत तदा तूष्णीम् हर्षेणोत्फुल्ललोचना।
नजलन्तर्पयामास हस्तेनादाय सास्थिता।
मुहूर्तम् चिन्तयित्वा तु मम भर्तुरिमे प्रिये।
कुण्डले लम्भकर्णश्चेत् गण्डदेशोविराजितः।
इत्येवम् चिन्तयन्त्याम् तु देव्याम् देवो जनार्दनः।
लम्भकर्णैः सुरैःसार्धम् उवाच धरणीम् हरिः।
देवि तुष्टोस्मि ते हस्ते कुण्डले मकराकृती।
सन्देहो नात्रकर्तव्यो धरिष्ये कुण्डले शुभे।
मनसा चिन्तयन्तीत्वम् लम्भकर्णे यदि प[रिये। check
मम भर्ता च तस्यैमे कुण्डले शोभयिष्यतः।
ते गृहीत्वा हरिस्तूर्णम् धारयामास कर्णयोः।
पुष्पवृष्टिर्महत्यासीत् देवदुन्दुभिनिस्स्वनः ।
जगुःकळञ्च गन्धर्वाश्च ननृतुश्चाप्सर्तो गणाः।
देवदेव जगन्नाथे धारिते कुण्डलेशुभे।
ततो देवर्षिगन्धर्वा स्तुष्टा ऊचुर्वोवाचो हरिम्।
कुण्डलाभ्याम् लसद्गम्डो राजसे पुरुषोत्तम।
मकरायत कर्णाभ्याम् यस्मात् त्वम् जगदीश्वर।
श्रीभेरनाम्नात्वनया धरन्या सह केशव।
मकरायामकर्णाख्यो वस्तुमर्हसि साम्प्रतम्।
तस्यामपि तवस्नेहो यथापूर्वम् भवत्युत।
रूपञ्च श्यामवर्णाम् च यथावन् मधुसूदनम्।
अस्तुदेव्याधरण्यास्तु तीर्थमेतदनुत्तमम्।
नाम्नामाकरिकम् श्रीमन्तस्तु वै त्वत्प्रसादतः।
देवानाम् वचनम् शृत्वा तथास्त्विति वचो हरिः।
उक्त्वा वासम् ततश्चक्रे धरन्या सह केशवः।
तदाप्रभृति देव्यास्तु श्यामवर्णमभून्नृप।
पूर्वादप्यधिकाप्रीति स्तस्याजाता हरेः पुनः।
तीर्थम् माकरिम्नाम तस्मिन् मकरसम्भवात्।
श्रीभेरनामधेया सा सुराणाम् सन्नधौहरिम्।
उवाच प्रीतिसम्युक्ता प्रीतिमन्तम् जनार्दनम्।
मकरायतकर्णाभ्याम् श्रीमन् मकरभूषण।
इदम् क्षेत्रम् तु मन्नाम्ना मदधीना मदाश्रयाः।
मत्समाश्च स्त्रियस्सर्वा स्त्वत्समामनुजाः प्रभो।
प्रीतिमन्तो भवन्त्वत्र त्वत्प्रसादाज्जनार्दन।
श्रीभेराया तथाचोक्तः प्रहस्य मधुसूदनः।
एवमस्त्विति भद्रम् ते वसावोऽत्र प्रियेऽनिशम्।
इत्युक्ता च तया सार्धम् श्रियाचैव सहप्रभुः।
अवसत् स सुखम् राजन् श्रीमान्मकरभूषणः।
तदाप्रभृति तत्क्षेत्रम् श्रीभेराख्यमभून्नृप।
ब्राह्मणः क्षत्रिया वैश्याशुद्राश्च बहवोऽवसन्।
तेषामपि द्विजाःसर्वे ऋग्यजुस्सामपारगाः।
स्त्रियश्चरूपसम्पन्नाः पुत्रवत्यो गुणान्विताः।
सनकः –
एवम् बहुजनाकीर्णान्नरनारीजनाकुलम्।
हृष्टपुष्ट जनाकीर्णम् धनधान्य समन्वितम्।
अभवल्लोकह्यातम् श्रीभेरपुरमुत्तमम्।
सर्वेधर्मपरानित्यम् वेदशास्त्रविशारदाः।
ब्राह्मणः क्षत्रिया वैश्याशुद्राश्च मनुजर्षभ।
एवमेतन्मया प्रोक्तम् श्रीभेरक्षेत्र वैभवम्।
वरुणस्य तपश्चर्याम् प्रसादम् मधुविद्विषः।
प्रवक्ष्यामि महाभाग शृणु तत्वेन भूमिप।
मकरायामाकर्णम् च श्रीभेराम् धरणीमपि।
नमस्कृत्य सुरास्सर्वे जग्मुरेवयथागतम्।
जलजे कुण्डले दृषाट्वा हृष्ट्वा देवी महीस्वयम्।
अष्टाक्षरम् प्रशम्सन्ती मुमोद हरिणासह।
अष्टाक्षरस्य मन्त्रस्यमहिम्ना भगवान् हरिः।
प्रसादमकरोन्मह्यम् पूर्वरूपमुपागमम्।
अष्टाक्षरस्य मन्त्रस्य महिमा कस्य वा भवेत्।
इति सन्चिन्त्य मनसा मुमोद हरिसन्निधौ।
गतेषु देवेषु तदा मनस्विनी प्रशस्यमाना हरिणामहात्मना।
वरेणरूपेण समन्वितासती ननन्दविष्णोः प्रणयेणपूर्ववत्।
इति तिरुप्पेरै मकरायतकर्णपाशस्वामि माहात्मियम् नाम एकोनविम्शोऽध्यायः।
**************
विम्शोऽध्यायः
सनक:-
शृणु राजन् प्रवक्ष्यामि वरुणस्य महात्मनः।
यथा प्रसादमकरोत् श्रीमान्मकरभूषणः।
असुरान्निर्जितास्सर्वे देवराजेन धीमता।
वज्रेणपीडितासर्वे पश्चिमाशामुपेत्यते।
वरुणस्य पुरीम्रम्याम् रुरुधुर्जगतीपते।
वरुणस्यच तेषाम् च सङ्ग्रामस्तुमुलोऽभवत्।
असुरावारुणीम्सेनाम् गदामुसलपट्टसैः।
कर्दयन् सहितास्सर्वे रोषेणमहतावृताः।
अर्द्यमानाचदुद्राव सेनासावरुणस्य च।
विद्रावितम् बलम्द्ध्रष्ट्वा वरुणःप्रत्ययुध्द्यत।
युध्यमानस्तु वरुणो निर्जितस्तैर्महाबलैः।
दुःखितोभृशसन्तप्तौ नष्टपाशो बभूवसः।
विनष्टपाशम् तम् ज्ञात्वा न्यरुन्धन् तत्पुरीम् शुभाम्।
दानवा वज्रनिर्भिण्णाः वरुणस्य पुरङ्गतः।
युद्धेपलायनम् गच्छेत् पुरीन्त्यक्त्वा सुदुःखितः।
इति तस्य गुरोःशापात् नष्टपाशो जनाधिप।
राजा-
कथम् विनष्टस्तत्पाशः नित्योसौ वरुणस्य च।
कालपाशो यथा तस्य कालस्य मुनिसत्तम।
तद्विनाशस्य हेतुम् मे कथयत्वम् मुनेऽधुना।
सनकः-
प्रवक्ष्यामि नृपश्रेष्ठ! पाशनाशस्यकारणम्।
अयजद्वरुणःपूर्वमनाद्घृत्य बृहस्पतिम्।
वसिष्ठाद्यैर्मुनिगणैः सार्धम् पाशबृदच्युतम्।
तच्छ्रुत्वा रोषमापन्नो देवानाम् वै पुरोहितः।
अशपद्वरुणन्देवः नष्टपाशोभवत्वयम्।
अरिभिःपरिभूतश्च भविष्यति नसम्शयः।
सयस्मान्मामनाधृत्य यज्ञम् चक्रे सुदुर्मतिः।
युद्धे विनिर्जितश्चापि परिभूतश्च शत्रुभिः ।
पलायन परौदुःखाद्धिमवन्त मुपागतः।
पलायिते च वरुणे दानवास्तस्य ताम्पुरीम्।
अध्यासन्नन्वहम्तत्र तेऽसुरा बलदर्पिताः।
ततो दुःखपरीतात्मा स्वैर्गणैःपरिवारितः।
गुरुशापागतन्दोषम् कथम् मोक्ष्याम्यहम् पुनः।
इति चिन्ताकुलन्देवी तत्पत्नीतमुवाच ह।
भवान् गत्वागुरून्देवम् प्रसादयगुरुर्गतिः।
गुरुबृह्मागुरुर्विष्णुः गुरुर्देवोमहेश्वरः।
गुरुस्साक्षात्परब्रह्मा तस्मै श्रीगुरवे नमः।
गुरुरेवाखिलादेवास्तपोदानम् क्रतुर्गुरुः।
गुरुम्विना न पश्यामि रक्षितारम् सदापते।
तस्माद्गुरुन्भजस्वाद्य जोपायम्वदेच्छसः।
तस्यैव वचनात्पूर्वम् देवराजःशतक्रतुः ।
असुरानजयत्सङ्ख्ये सहि नः परमागतिः।
इति भार्यावचश्श्रुत्वा द्रुतङ्गत्वा पुरोहितम्।
पादोश्शरणान्वेषी पपातचरणद्वये।
प्रणमन्तन्तु तम् दृष्ट्वा देवराजपुरोहितः।
विसृज्य कोपसम्हृष्टः कुशलञ्चाब्रवीद्वचः।
महात्मानञ्च सम्रम्भः प्रणिपातावधिर्नृप।
ततः प्रीतङ्गुरुञ्ज्ञात्वा वरुणस्थमथाब्रवीत्।
अज्ञानात् बुद्धिमोहाच्च यत्कृतम् सहसामया।
तत्क्षमस्व महाप्राज्ञ शिष्याणाङ्गुरवोगतिः।
साधूनाम् समचित्तानाम् बुद्धेर्नास्ति हि विक्रिया।
इति तद्वचनम् शृत्वा परित्ष्टो गुरोस्तदा।
उवाच वचनम् हृष्टो यत्कर्तव्यम् मयाऽधुना।
तद्ब्रूहि मा विमर्शोऽत्र कर्तव्या कार्यसाधने।
इति तद्वाक्यमाकर्ण्य वरुणःप्रत्युवाचह।
विनष्टश्च हि मे पाशः शत्रुभिर्निर्जितापुरी।
यथा पाशस्य लाभस्यात् प्राप्यते च पुरीमया।
तथा कुरु विधानम् च त्वम् हि नःपरमाङ्गतिः।
इत्युक्तवति तस्मिन्स्तु गुरुर्ध्यात्वा चिरम् पुनः।
उवाच वाक्यम् वाक्यज्ञो गुरुशापाघनुत्तये।
मयाज्ञत उपायोऽयम् समीचीनःप्रदर्शितः।
अगस्त्य चरिताशायान्नदीकाचित् सुरॊत्तम।
ताम्रपर्णीतिविख्याता मलयाचलकन्यका।
गौरीदेहोद्भवःपुण्या सर्वपाप विनाशिनि।
अनिद्रस्तिन्त्रिणीवृक्षो यस्यास्तटभुवि प्रभो।
उभयस्मिन्तटे यस्याः हरिःप्रीतिकराणि च।
क्षेत्राणि च नवशोभन्ते यथाकाशेनवग्रहः।
तत्रेदमष्टमम् क्षेत्रम् श्रीभेराख्यमनुत्तमम्।
तत्र माकरिकन्नाम तीर्थश्रेष्ठमनुत्तमम्।
यत्र श्रीभेरयासार्धम् धरण्या हरिरव्ययः।
मकरायामकर्णाख्यः श्रीमान् मकरभूषणः।
रूमते तत्र गच्छत्वम् त्मेव शरणम् व्रज।
सतेपाशजयञ्चैव प्रदास्यति न सम्शयः।
तत्र माकरिके तीर्थ स्नात्वा विष्णुम् त्वमर्चय।
अष्टाक्षरेणमन्त्रेण मनूनामुत्तमेन च ।
श्रीभेरामपि ताम् भूमिम् समर्चय विधानतः।
निशम्यवचनम् तस्य तथेत्युक्त्वा जलेशयः।
श्रीभेराख्यम् महाक्षेत्रमागत्य सगणस्स्वयम्।
सभार्यास्सहपुत्रश्च सस्नौ तीर्थेह्यनुत्तमे।
अष्टाक्षरेणमन्त्रेण चार्चयन् देवमच्युतम्।
श्रीभेरम् पूजयन् तत्र न्यवसत्सुसुखम् वशी।
तत्रस्थे ब्राह्मणैस्सार्धम् वेदवेदाङ्गपारगैः।
एवम् सम्वसतस्तत्र महान्कालोत्यवर्तते।
ततश्चफाल्गुणेमासे पौर्णमास्यामिनोदधे।
नक्षत्रे भगदैवत्ये मङ्गळाहे प्रसन्नधीः।
स्नात्वा माकरिके तीर्थे पूर्वाम् सन्ध्यामुपास्यच ।
जपन्नष्टाक्षरम् मन्त्रम् अभितुष्टाव माधवम्।
वरुणः-
जयदेव महादेव श्रीमन्मकरभूषण।
प्रसीद मम सर्वेश शरणम्त्वामुपेयहम्।
ममनाथ रमानाथ श्रीभेरारमणप्रभो।
प्रसीद मकरायामकर्णपाश दयानिधे।
लोकानन्दकराशेष देवसङ्घसुपूजित।
शारणम् त्वाम् प्रपन्नोस्मि प्रसीदपरमेश्वर।
आर्तबन्दधो दयासिन्दधो दीनरक्षणतत्पर।
प्रसादम् मम कल्याणम् कुरु पदानिभेक्षण।
भवपाशस्य विच्छेदकरात्यत्भुतदर्शन।
विनष्टम् मम पाशम् च देहिमे मधुसूदन।
इत्यभिष्टूय देवेशम् गत्वा ताम्रानदीतटम्।
गङ्गादिसर्वतीर्थास्तु समाहूयजलेश्वरः ।
तत्रैव स्थापयामास पुण्ये ताम्रनदीजले।
पुण्यानाम् च नदीनाम् च सागराणम् तथैव च।
देवखात तटाकानम् कूपानाम् सरसमपि ।
तीर्थानाम् च समूहेन मिळित्वा तु नदीजलम्।
आनीयमकरायाम कर्णपाशम् तथास्स्वयम्।
श्रीभेरयाचसहितम् श्रियाचैवसमन्वितम्।
आविर्भूतम्महादेवम् रमारमणमच्युतम्।
अभ्यषिञ्चन्नरव्याघ्रम् वरुणःपाशहेतवे।
ततो देवास्सगन्धर्वाः विमानवरमास्थितः।
पुण्यतीर्थसमूहम् तम् द्रष्टुकामायदृच्छया।
आगतास्त्वञ्चुतम् दृष्ट्वा ववर्षुः पुष्पसन्ततिम्।
देवदुन्दुभयोनेदुः ननृतुश्चाप्सरोगणाः ।
कळञ्जगुश्चगन्धर्वाः प्रहृष्टाःब्राह्मणोत्तमाः।
अभिषेकस्यसमये तदद्भुतमिवाभवत्।
ततॊ हरिःप्रसन्नात्मा श्रीमान्मकरभूषणः।
उवाचवचनम् रम्यम् पुण्यतीर्थजलाप्लुतः।
परितुष्टोस्मिभद्रन्ते पुण्यतीर्थाभिषेचनात्।
अनयाच तवस्तुत्या वरम्वरयसुव्रत।
प्रसन्नम् बुद्धिमान्देव माविमर्शोस्तुतेनच।
श्रीविग्रहपतेर्वाक्यम् शृत्वा तु वरुणस्तथा।
प्रत्यभाषतदेवेशम् वासुदेवम् जगत्पतिम्।
यदितुष्टोऽसि भगवन् दयार्द्राधीर्यदिप्रभो।
गुरुशापद्विप्रनष्टम् पाशम् मे दातुमर्हसि।
शत्रूणाम् विजयञ्चापि देहि मे मधुसूदन।
इत्येवमुक्तस्तेनाथ भगवान्वाक्यमब्रवीत्।
शप्तः केनोपैकारेण गुरूणायाद्साम्पते।
तच्छृत्वाहम् पुनर्दास्ये पाशम् शत्रुजयम् तथा।
भगवद्वाक्यमाकर्ण्य उवाचवचनास्तदा।
अयजङ्क्रतुनात्वम् वै अनाहूयगुरोर्हरे।
तेन रुष्टोगुरुर्माम् च यस्मात्वान्परिभूयसे।
भगवद्वाख्यमाकर्ण्य उवाचवचनस्तदा।
अयजङ्क्रतुनात्वाम् वै अनाहूय गुरुम् हरे।
तेनरुष्टोगुरुर्माम् च यस्मात् त्वम् परिभूयसे।
तस्मात् तवाप्यरिगणैः भवत्वद्यपराभवः।
त्वत्पाशस्य विनाशोपि भवत्वद्यैव निर्गतः।
इति शप्ता गुरुर्माम् च तद्ज्ञात्वा दानवाहरे।
माम् विजित्य पुरात्वेते वसन्ति पुरुषोत्तम।
ततःपरमहन्तम् वै प्रसाद्य गुरुमव्यय।
तेन सञ्चोदितोह्यत्र स्नात्वा माकरिकेजले।
आराधितोसि देवत्वम् सर्वतीर्थोधृतैर्जलैः।
अभिषिक्तोसि देवेश सर्वतीर्थसमूहतः।
समूहतीर्थमित्येव त्वत्प्रसादात् भवत्यज।
एतम् माकरिकन्तीर्थमित्युक्त्वा विररामसः।
उक्त्वा विरमिते तस्मिन् वरुणेमधुसूदनः।
उवाचवाक्यम् धर्मज्ञो धर्मम् मकरभूषणः।
प्रसादितो गुरुर्देवान् नूनन्त्वम् परिरक्षितः।
सनकः-
यस्य कुप्यन्ति गुरवस्तस्य नष्टङ्कुलम् भवेत्।
येन दुर्बुद्धिना लोके गुरवश्चावमानिताः।
तेनब्रह्मादयो देवाः नूनम् सर्वेविमानिताः।
साधून् गुरून् महाप्राज्ञान् ब्राह्मणानतिथीन्यतीन्।
ये तु तानैवमन्येत तेषान्नास्तिसुखम् क्वचित्।
तस्मात् त्वम् हि कृतार्थिसि गुरुसम्प्रीणनादहो।
ममापि मनसःप्रीतिर्जाता त्वयि जलेश्वर।
तव दास्यामि पाशम् च विजयम् जयताम्वर।
इत्युक्ताञ्जलिना तोयमादाय भुवि निक्षिपत्।
ततस्यपाशो ह्यभवत् अग्रे तस्य नृपोत्तम ।
तमादायाशु वरुणः पाशहस्त इवान्तकः।
बभौ दीप्त्या ज्वलन्वीरः पुष्पवर्षोमहानभूत्।
पाशहस्तस्तदावाक्यम् बद्धाञ्जलिपुटोऽब्रवीत्।
श्रीभेरयाधरण्या च श्रियासार्धम् मयार्चितम्।
ये वैत्वामर्चयिष्यन्ति तेषामपि जनार्दनम्।
अनावृष्टिभयम् नास्ति क्षामक्षोभौ हरेतव।
तवपूजारता यत्र कालवर्षों भवेद्दवम्।
आस्मिन्समूहतीर्थे तु ये निमज्जन्ति मानवाः।
तेषामपि भयन्नास्ति राजिकम् दैविकम् भयम्।
अत्र ये मनुजा विष्णोः वर्तन्ते तवसन्निधौ।
दीर्घायुषो वीतरोगाः पुत्रपौत्र समन्विताः।
ब्राह्मणाः वेदसम्पन्नाः समाजोत्सवशाळिनः।
यतितॊ हृष्टपुष्टाश्च भवन्तु त्वत्प्रसादिनी।
तस्यैतद्वचनम् शृत्वा श्रीमान् मकरभूषणः ।
उवाचप्रहसन्वाक्यम् वरुणम् जलनायकम्।
समूहतीर्थमित्येव तीर्थमेतत्भविष्यति।
भवन्तोक्तम् तु यत्सर्वम् तत्तथैवास्तु नित्यशः।
त्वम् गच्छ जित्वा शत्रूम्श्च जयम्प्राप्यपुरे निजम्।
समावेश्य जनम् सर्वम्प्रतिसम्वत्सरम् मम।
पूजाम् कुरु विधानेन फाल्गुणेह्युत्तरेदिने।
पौर्णमास्याम् विशेषेण ततःप्रीतिर्भवेन्मम।
इत्यनुज्ञाप्यदेवेशम् नमस्कृत्य जलेश्वरः।
गत्वाचस्वगणैस्सार्धम् विजित्ययुध्दानवान्।
पाशभृत्स्वपुरम् प्राप्य सभार्योन्यवसत्सुखम्।
प्रतिसम्वत्सरम् राजन्स्नात्वा समूहतीर्थके।
आराध्यमकरम् याम कर्णपाशम् सुहृद्बृतः
स्वर्णान्नदानेन समर्च्य विप्रा नाराध्य देवमकरोरुकर्णम्।
प्रवर्षमानो जलधैस्ससिषे वै सह्याभिपूर्णाम् धरणी प्रकुर्वन्।
एवम् समागत्य पुनश्चयाति जलेश्वरो हृष्टमनानरेन्द्र।
य एतदाख्यानमनुत्तमम् च शृणोतिभोगान् विविधान् लभेत।
पुरा विदर्भाधिपतिर्महात्मा तत स्नात्वा वृष्टिभयार्दितश्च।
अपूजयत् श्रीमकरोरुकर्ण वाक्यात्गुरोस्तत्र सुवृष्टिरासीत्।
निशम्य वाक्यम् सनकस्य मुख्यम्
सम्पूज्यधातुस्तनतम् नरेन्द्र।
उवाच वाक्यम् मकरोरुकर्णम् यथार्चयत्ब्रूहि कथम् सुवृष्टिः।
इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीभेरक्षेत्रमाहात्म्ये वरुणप्रसादो नाम विम्शोऽध्यायः।
एकविम्शोऽध्यायः
राजा
कस्मिन् विदर्भदेशेषु ब्रह्मन् घोरतराऽशुभा।
अनावृष्टिरभूत्केन सोयम् कोवा नृपस्तदा।
कथमभ्यर्च्य देवेशम् श्रीभेरनायकम् मुने।
सुवृष्टिरभवत्तत्र क्षामाक्षोभ निवृत्तिदा।
एतत्सर्वम् विस्तरेण वक्तुमर्हसि मे मुने।
सूतः-
इत्येवमुक्तस्सनकोमहात्मा
नृपेणयोगी हरिभक्तिमुख्यः।
उवाचवाक्यम् विनयाभिपन्नम्
सनातने साधुपथेनिविष्टम्।
यशस्यमारोग्यकरम् सुधर्म
माख्यानमेतत् शृणु पार्थिवेन्द्र।
पुरा विदर्भो नृपतिर्महात्मा
सधर्मसेनः पृथितीस्सुधीमान्।
तस्मिन् नृपेशासति राज्यमुत्तमम्
धर्मेणधर्मार्थ परेमहात्मनि।
आसीदनावृष्टिरतीवदारुणा
नरेन्द्रदोषान्नचकालयोगतः।
देवाभियोगान्नववर्ष तत्र
वलाहको वासवचोदितश्च।
सस्यानितस्मात् गमितानिनाशम्
प्रजाक्षयाश्चापि बभूवघोरः।
ज्वरप्रपीडा सज्वलनप्रपीडा
तदाभवत् घोरतरा नृपेन्द्र।
प्रजाक्षयम् घोरमसौ प्रदृष्ट
सधर्मसेनो व्यथितो बभूव।
व्यथान्वितॊ भूमिपतिस्तदानीम्
गुरून्समाहूय गुणप्रधानान्।
उवाच वाक्यम् परमार्थयुक्तम्
हितायलोकस्य हितोरतश्च।
यनास्मदीये विषयॆनवर्षो
जानामिनाहम् मुनयो निमित्तम्।
मयेदृशम् पातकमत्रनैव
स्वप्नेपिनूनम् कृतमस्तिकिञ्चित्।
निशम्यवाक्यम् नृपतेर्मुनीन्द्राः
प्रत्यूचुरेनम् नृपतिम् तदा ते।
दुर्भिक्षमेतन्नृपसम्प्रवृत्तम् त्वदोषतोनैव च दैवयोगात्।
सीदन्तिदैवोपहता मनुष्याः
दुरत्ययादैवगति न कैश्चित्।
तद्दोषशान्त्यै कुरु धर्ममद्य
त्वस्माभिरुक्तम् मनुजाधिपेन्द्र।
कृतम् यदिस्या प्रशमम् गमिष्यत्
दुर्भिक्षमेतत् न सुखम् जनानाम्।
शृत्वा द्विजानामथभाषितम् तत्
प्रोवाच भूयो नृपतिस्तदानीम्।
धर्मम् वदध्वम् सुतराम् करिष्ये
जनस्य सर्वस्य भवेत् सुखम् च।
परोपकारे निरतम् नरेन्द्र
मूचुस्तदा वेदविdoद्विजेन्द्राः।
यद्दक्षिणस्याम् दिशिपुण्यतोया
ताम्रानदी राजवराग्र्यतस्याम्।
आसीन्महत् दक्षिणतीरमुख्ये
श्रीविग्रहाख्यम् भुवनप्रशस्तम्।
तस्मिन् हरिः श्रीमकरोरुकर्ण
स्समासते पाशभृदर्चितस्सन्।
तमेव गत्वा शरणम् प्रपन्नः
समर्चयत्वम् धृडभक्तियुक्तः।
दुर्भिक्षमेतत् प्रशमम् गमिष्येत्
सुवृष्टिरप्यत्र भवेन्नरेन्द्र।
इत्येवमुक्तस्सहविप्रमुख्यैः
गत्वा तु तीरम् मलयात्मजायाः।
समूहतीर्थे प्रवरेनरेन्द्र स्सस्नौ
द्विजेन्द्रैः सहकेशवम् च।
नत्वा ततस्तत् तटिनीजलौघैः
द्विजाहृतैस्सर्वसरिन्मयैश्च।
तत्र स्थितैर्विप्रवरैस्समेत
स्ततोभ्यषिञ्चत् स सुवृष्टिहेतोः।
कुन्दाब्दकल्हारक जातिपुष्पैः
पुन्नागमन्दारक मल्लिकाभिः।
सकेतकैः कैरवमालतीभि
रभ्यर्चयद्देववर प्रधानम्।
कस्तूरिकर्पूरक चन्दनाद्यैः
धूपैश्चदीपैर्विविधैरनेकैः।
अन्नैश्चभक्ष्यैस्त्रिविधैर्निवेद्यैः
निवेदयामास नृपस्सुशीलः।
एवम् समभ्यर्च्य हरिम् धरित्रीम्
श्रियम् तदानीम् वरुणम् च दे॒वान्।
ततो द्विजान् वेदवरप्रधाना
नपूजयद्वस्त्र धनप्रधानैः।
गोभूमिदानैस्तिलधेनुदानैः
सस्वर्णदानैरभिपूज्य विप्रान्।
तत्रस्थितान् ब्राह्मणपुङ्गवाश्च
ततः प्रहृष्टो नृपतिस्तदाऽभूत्।
प्रणम्यमूर्ध्ना मकरोरुकर्णम्
स्थितम् नृपेन्द्रः द्विजपुङ्गवैश्च।
उवाचवाणि गगनादगोचरा
त्वहोविचित्रम् तवचेष्टितम् नृप।
यदा हि पूजाम् कुरुषेहरेर्भवान्
तदा सुवृष्टिर्विषये तवानघ।
इत्युक्तवाक्यम् नृपतिर्निशम्य
प्रहृष्टरोमाद्विजपुङ्गवैश्च।
प्रणम्यभूयोपि हरिम् समर्चयन्
अनुग्रहाधीशमजम् पुराणम्।
श्रीमन्तमेवम् मकरैरुकर्ण
मभ्यर्च्य भूयोपि विशेषतश्च।
गत्वास्वराष्ट्रम् बहुसस्यसङ्कुलम्
दृष्ट्वा सुवृष्टिञ्च निरामयम् च।
गुरून् समभ्यर्च्य पुरम् प्रविश्य
मुमोद भूयोपि हरिम् स्मरन् सः।
सनकः-
एवमन्योपि राजानो दुर्भिक्षभयपीडिताः।
अनावृष्ट्याच सन्तप्ताः श्रीभेरपुरनायकम्।
अभ्यर्च्यमकरायाम कर्णपाशमहर्निशम्।
मनोरथाम्श्च सम्प्राप्ताः स्वपुराणि गता नृप।
एतत् सर्वम् सुविस्तार्य कथितम् तव भूमिप।
यच्छृणोति नरो भक्त्या इहलोकेपरत्र च।
सुखमाप्नोतिभूपाल न पुनर्जायते भुवि।
एतस्य पश्चिमे भागे कुरुकाख्यमनुत्तमम्।
क्षेत्रम् पुण्यतमन्लोके यत्रास्ते तिन्त्रिणीनगः।
विराजतेमहाशाखः कल्पद्रुमसमाकुलः।
इत्येदमाकर्ण्य नृपोतिधीरो
सम्पूज्ययोगिप्रवरम् वरेण्यम्।
श्रीविग्रहाधीश कथाम् विचित्राम्
नतन्दचानन्द पयोधिमग्नः।
इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीभेरक्षेत्रमाहात्म्यो नाम एकविम्शोऽध्यायः।
- आळ्वार् तिरुनगरि (तिरुक्कुरुकूर्) आदिनाथस्वामि ( श्रीशठकोपसूर्याः) माहात्मियम्
द्वाविम्शोऽध्यायः
आदिनाथस्वामि ध्यानम्
1) आदिबृह्म वसिष्ठदान्तसुरराट् देवैश्च सन्घैस्समम्।
शाङ्खेशेन सुरार्चितम् च भृगुर्मार्कण्डेय लक्ष्मीकरैः।
हस्तैस्तम्बित विन्ध्यसिन्धुमुनिना व्यासेन तत्सूनुभिः ।
आराध्यम् शठवैरिणा च कुरुकापुरीशम् आदिनाथम् भजे ॥
2) यो रात्रौ दक्षिणस्याम् दिशि मथुरकवेर् भासते भास्कराभः।
तस्यारायोध्यो नगर्याम् प्रथिथ शठरिपोः आदिनाथम् दयाळुः।
गोविन्दाख्यम् विमानम् विमलजलवहम् ताम्रपर्णीच तीर्थम्।
प्राचीमुद्दीक्ष्यमाणो वकुळसुमस्रजः सुप्रसन्नस्वरूपः।
सूतः-
अष्टौक्षेत्राणि मुख्यानि कथितानि द्विजोत्तमाः।
नवमक्षेत्रमाहात्म्यम् प्रवक्ष्यामि सुशोभनम्।
यस्यश्रवणमात्रेण नरःपापात्प्रमुच्यते।
तच्छृणुष्वमशेषेण भवन्तोवीतकल्मषाः।
राजा विश्वसखस्सोथ सनकम् योगिनाम्वरम्।
अभिपूज्य प्रणम्यैवमवोचतवचश्शुभम्।
राजा-
भगवन् मुनिशार्दूल कुरुकापुरिवैभवम्।
वक्तुमर्हस्यशेषेण तिन्त्रिणीवृक्षवैभवम्।
ज्ञानमुद्राधरस्यास्य हरेर्वैभवमेव च।
इति पृष्ट्वा सराज्ञाथ सनको योगिपुङ्गवः।
प्रणम्य जगतीनाथम् हरिम् सर्वसुखावहम्।
कुरुकापुरमाहात्म्यम् वक्तुमेवोपचक्रमे।
शृणु राजन् महाभाग वक्ष्यमाणम् मयाधुना।
कुरुकाक्षेत्रमाहात्म्यम् सर्वपापप्रणाशनम्।
ज्ञानदम् कामदन्नित्यम् कलिकल्मषनाशनम्।
यस्मिन्क्षेत्रे नृपश्रेष्ठ पञ्चक्षेत्राणि तानि च।
वक्ष्यामि तव यत्नेन क्रमेणाद्भुतवन्ति च।
आदिक्षेत्रमतःपश्चात् अनन्तक्षेत्रमुच्यते।
वाराहम् क्षेत्रमुख्यञ्च कुरुकाक्षेत्रमेव च।
कमलाक्षेत्रमपरम् ततस्त्वेदनमुत्तमम्।
नवमक्षेत्रमतुलम् पञ्चक्षेत्रसमन्वितम्।
कुरुकापुरमेतद्वै क्षेत्राणाम् मनुजर्षभ।
एकैकम् क्षेत्रमुख्यम् च बहुपुण्यफलोदयम्।
तीर्थाणि च सुरम्याणि सन्तितत्र नृपोत्तम।
अनन्ततीर्थमतुलम् शङ्खतीर्थमनुत्तमम्।
वराहतीर्थमुख्यम् च श्रीतीर्थमपिशोभितम्।
एतेषाम् तीर्थमुख्यानाम् शङ्खतीर्थमनुत्तमम्।
तीर्थेष्वेतेषु ये मर्त्याः निमज्जन्ति नरोत्तमा।
तेषाममपि भवेन्मुक्तिरायुरारोग्यमेव च।
आदिक्षेत्र कथाम् पुण्याम् प्रवक्ष्यामि तवानघ।
इन्द्रार्थर्मकरोद्विष्णुः प्रसादमतुलःप्रभुः।
आदिनाथो महातेजाः तिष्ठन्नेवम् दयानिधिः।
श्रीभूमिनीळाभिस्सार्धम् देवदेवो जनार्दनः।
यस्योवाभिमतेतिष्ठन् वासुदेवस्सनातनः।
तस्मै देवाधिपतये ददौ वरमनुत्तमम्।
सान्निध्यम् कुरुते तत्र तिष्ठन्नेव जगत्पतिः।
आदिदेवो महाविष्णुः तन्नाथत्वमुपागतः।
देवनाथस्य नाथत्वम् ददावेव जनार्दनः।
त्वन्नाथम् मामवेहित्वम् तत्र तिष्ठन्नभाषत।
तत्क्षेत्रमादिक्षेत्रम् च बभूवनृपसत्तम।
राजा-
आदिदेवोमहाविष्णुः अस्मादेशादपाकमात्।
श्रीभूमिनीळाभिस्सार्धम् कस्मिन्याने स्थितो हरिः।
किमर्थमिन्द्रश्चुक्रोश तिष्ठतिष्ठेतिचानघ।
मार्गमाणो हरिन्शक्रः देवैस्साग्निपुरोगमैः।
कस्मिन्देशे किमाश्रित्य कथम् केनभयेन च।
एतत्सर्वमशेषेण वक्तुमर्हसिसाम्प्रतम्।
इति राज्ञो वचश्शृत्व सनकोयमिनाम् वरः।
उवाचपरमप्रीतोवाक्यम् वाक्यविशारदः।
पुरन्दरःपुरा राजन्, नागमैरावताह्वयम्।
आरुह्यसहसासर्वैः देवबृन्दैस्समन्वितैः।
दम्बोळिसहितश्शक्रः शत्रुंजित्वारणे सुधीः।
नन्दनोद्यानमाविश्य रेमेरमयताम् वरः।
तत्र गन्धर्वपतयो जगुर्गन्धर्वमुत्तमम्।
ननर्त रम्भाविपुलम् रूपम् कृत्वा मनोरमम्।
तस्याम् प्रीतिसमाविष्टो देवराजश्शतक्रतुः।
ददौ तस्यैमनोज्ञानिवराण्याभरणानि च।
इन्द्राण्यासह देवेन्द्रो मदिरामथवारुणीम्।
पीत्वाक्षीभोलसोन्मत्तः विचिक्रीडेतया सह।
एतस्मिन्नेव काले तु माता तस्य शतक्रतोः।
आजगामादितस्तत्र काश्यपेनसमन्विता।
तावगे तावदृष्ट्वैव देवराजोमदालसः।
अभ्युत्थानम् न चक्रेसः तदारुष्टःपितासुतम्।
उवाच परमक्रुद्धो वाक्यम् वज्रधरम् नृप।
यन्माम् त्वाम् मातरम् मूढ नजानीषे मदालसः।
श्रियामदान्धयानूनम् प्रभुत्वादविवेकतः।
यौवनेन च गर्विष्टः पूजाम् न कुरुषेयतः।
यौवनम् द्रव्यसम्पत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमुयत्रचतुष्टयम्।
एवमेव हि मूढस्त्वम् वृद्धानन्यान्गुरूणपि।
साधून् विप्रान्नसन्देहः सर्वाम्स्त्वमवमन्यसे।
इतःपरम् त्वम् जरया युक्तोभूयाश्शतक्रतो।
क्षीभस्तु तन्नजानाति नश्रुणोति वचस्तदा।
तदवस्थम् सुतम् दृष्ट्वा तन्माताचादितःपुनः।
उवाच सान्त्वपूर्वम् सा भर्तारममितौजसम्।
मदिरोन्मत्तचित्तस्तु सुतस्तेत्वाम् न वेदसः।
मामागताम् न वेदायम् किमर्थमतिदारुणम्।
कृतमस्मै महाभाग शापरूपमघम्त्वया।
तत्क्षन्तव्यममुष्मिम्स्त्वम् दयाम् कुरु मदालसे।
इत्युक्तस्सतु धर्मात्मा तया देव्योजनाधिप।
ज्ञात्वा तम् मदिरामत्तम् चिन्तयामास काश्यपः।
एतस्मिन्नन्तरे शक्रो देहेदृष्ट्वा जराम्पुनः।
दुःखादुत्सृज्य पौलोमीम् विहायच मदालसाम्।
त्यक्त्वा कण्ठगताम्मालान्मद्योन्मादकरीन्नृप।
स्वस्वभावम् गतःपश्चात् जरयाचापिपीडितः।
मातरम् पितरम् दृष्ट्वा वन्दित्वा चरणौ तयोः।
कुशलञ्चापि तौ पृष्ट्वा पृष्ट्वाचापिनिरामयम्।
उवाचवचनम् मन्दम् पितरौ देवनायकः।
ममदेहेजराम् द्रक्ष्ये न जानाम्यस्यकारणम्।
यदिजानीतपितरौ भवन्तौ वक्तुमर्हथः।
इति तद्वचनम् शृत्वा माता तस्य तथाब्रवीत्।
हे पुत्र तवपित्रा त्वम् शप्तोसि सुरसत्तम।
निःश्रीकश्च जरावाम्श्च भवत्विति सुरेश्वर।
आगतम् पितरम् माम् च नजानासि मदालसः।
अवमानाच्च पित्रोस्तु नीतस्त्वम् हि दशामिमाम्।
अमुम् त्वम् शरणम् गच्छ गतिस्तवपितागुरुः।
रक्षिष्यति भवन्तञ्च काश्यपो जनकस्तव।
यत्र स्थाने धनन्नष्टम् तत्रैव लभते पुनः।
नान्यत्र च विचेतव्यम् यतोनष्टम् ततोलभेत्।
इति मात्रासुराधीशस्सम्यगुक्तः परन्तपः।
पपात चरणैतस्य शरणम् सुरपुङ्गवः।
उवाच वचनम् श्लक्ष्णम् मन्दम् विनयासम्युतम्।
त्वम्मागतम् नजानामि मदिरामत्तचेतनः।
अहोकामस्यवामत्वम् मदिरायास्तु मोहनम्।
पश्यत्वम् जनकार्याद्य रक्षमाम् शरणागतम्।
अवशेनकृतञ्चागः क्षन्तुमर्हसिसुव्रत।
शापस्यान्तम् महाभाग ब्रूहि मे कृपयानिधे।
स्वबाहुमपिछिन्दन्ति साधवोदोषकारणात्।
किम्पुनः पुत्रदाराम्श्च मित्राणि च गृहाणि च।
त्यजन्ति साधवोलोके सर्वानप्यवकारिणः।
तस्य तद्वचनम् शृत्वा काश्यपः पुत्रमब्रवीत्।
वाक्येनानेनतुष्टोस्मि जरानिश्रीअसम्भवम्।
भयम् ते नाशयिष्यामि ह्युपायादेवकेवलम्।
अज्ञानात्मदसम्भूतात् करुणामयिवर्तते।
अन्यथा बुद्धिपूर्वेण कृतम् चेन्नविनश्यति।
उपायम् ते प्रवक्ष्यामि शृणुदेवपतेस्वयम्।
शीघ्रम् गच्छ इतःक्षिप्रम् विमानवरमास्थितः।
श्रीभूमिनीळासहितम् क्षीरोदाद्भूतलम् गतम्।
हरिन्स्तुत्वाऽमितोजास्त्वम् गत्वाह्वानम् कुरुप्रभो।
त्वत्वाक्यश्रवणेकाले विमानम् यत्र तिष्ठति।
तत्र तिष्ठन् हरिस्तोद्य प्रसादम् कारयिष्यति।
आदावेवस्वयम् विष्णुम् नाथम् माम् विद्धिदेवराट्।
इति वक्ष्यामि तच्छ्रुत्वा तम् भजस्व सुरोत्तम।
इति वाक्यम् पितुश्शृत्वा देवैस्साग्निपुरोगमैः।
मातरम् पितरम् नत्वा तावनुज्ञाप्य भूतलम्।
गत्वाददर्शदेवेन्द्रो विमानम् दूरतःशुभम्।
वैष्णवत्वन्तद्विदित्वा तु चुक्रोश सुरसत्तमः।
तिष्ठ तिष्ठेतिदेवेशः पुनःपुनरुदारधीः।
तदा नरवरश्रेष्ठ विमानम् सूर्यसन्निभम्।
अतीत्यपृथिवीम् सर्वाम् ताम्रपर्ण्यास्समीपतः।
श्रीभेरक्षेत्रमुख्यस्य पश्चिमायाम् दिशिप्रभो।
अतिष्ठद्रविसङ्काशम् विमानम् नृपसत्तम।
ताम्रायाः दक्षिणेतीरे पुण्येमहतिशोभने।
विमानम् विमलन्दृष्ट्वा देवराजःशतक्रतुः।
आजगामाथ सहसा तम् देशम् मनुजर्षभ।
आगतम् देवराजम् तु दृष्ट्वा देवोजनार्दनः।
तव नाथम् च माम् विद्धि देवनाथ नसम्शयः।
माभैस्त्वम् तव किम् कार्यम् तिष्ठतिष्ठन् वचोऽब्रवीत्।
तदाकर्ण्य ततःशौरे र्गत्वा तस्य समीपतः।
उवाचवचनम् श्लक्ष्णम् प्रणिपातपुरस्सरम्।
भगवन् सर्वधर्मज्ञ मम नाथदयानिधे।
जरयापीडितम् माम् च दारिद्र्येणच केशव।
पित्रुशापसमुत्थेन त्राहि माम् पुरुषोत्तम।
अत्रैव नियतोवासः कर्तव्यो भवतानघ।
श्रीभूमिनीळाभिस्सार्धम् विमानेन च माधव।
इत्याकर्ण्यवचस्तस्य देवराजस्य धीमतः।
तथास्त्विति कृपाविष्टो वचनञ्चेदमब्रवीत्।
देवराजमहाप्राज्ञ पितृशापःकथम् तव।
सत्यम्वद ततःपश्चात् वक्ष्यामित्वाम् सुराधिप।
इतिविष्णोर्वचशृत्वा इन्द्रम् पुनरुवाचह।
ऐरावतगजारूढ शत्रुञ्जित्वाच सङ्गरे।
पौलोम्यात्वनयासार्धम् पीत्वाहम् मदिराम्पुरा।
क्रीडामानोमदोन्मत्तः क्षीभोग्राम्यसुखेरतः।
नन्दनोपवनेरम्ये रेमे शच्यासह प्रभो।
एतस्मिन्नेवकालेतु पितरौचागतौ मम।
युद्धार्थञ्चगतम् शृत्वा द्रष्टुकामौ जगत्पते।
तत्रागतौ महाभागौ तावहम् न च विद्महे।
मदालसधियामत्तो नजानाम्यागतौ तदा।
पिता तु मम सङ्क्रुद्धो मामविज्ञायमोहितम्।
शापम् सुदारुणम् दत्वा तत्रैवावस्थितोभृशम्।
ततःपरमुवाचेदम् मम माता यशस्विनी।
मदेनमत्तम् तनयम् किमर्थम् शप्तवानसि।
आवामिहागतौनैव जानाति तनयस्तव।
दारिद्र्यम् च जराचैव नूनम् तम् पीडयिष्यति।
ततश्चिन्तापरोदीनः पिता मम तदाभवत्।
एतस्मिन्नन्तरेदेहे जराम् दृष्ट्वा ममानघ।
ताम् दृष्ट्वा व्यधितोभूत्वा त्यक्त्वा कण्ठगताम्स्रजम्।
निर्मदोहम् ततो दृष्ट्वा पितरौव्रीडितोऽभवम्।
अभिवाद्य तस्तौतु दुःखितेनान्तरात्मना।
तावपृच्छमहम्विष्णो जरायाः कारणम् पुनः
ततोऽब्रवीन् मे जननी पितृशापादयम् तव ।
रक्षितापि पितात्वम् च तमेव शरणम्भज।
इत्युक्तस्तु तयासद्य श्वापतम् चरणौपितुः।
अवोचमथवाक्यम् च मयाज्ञानात्कृतम्पितुः।
क्षन्तुमर्हसि धर्मज्ञ माम्पालयकृपालय।
इति प्रसादितोमात्रा मयाचैव पिता ततः।
उवाचवचनम् विष्णो शापमोचनहेतवे।
श्रीभूमिनीळासहितम् विमानवरमास्थितम्।
त्वाम् यान्तम् तपसाज्ञात्वा तम् विष्णुम् शरणम् व्रज।
इत्युक्त्वामामनुज्ञाप्य जगाम त्रिदिवम् पुनः।
ततोऽहम् सहसाभ्येत्य शरणम्त्वामुपागतः।
भवानपि ममार्यस्य नाथ इत्युक्तवानसि।
तद् वाक्यम् तव सत्यम् ते रक्षमाम् शरणागतम्।
इति सुरपतिवाक्यम् माधवस्तन्निशम्य
तदनुमुदितचेताः प्रत्युवाचाद्भुतश्रीः।
इहसुरमुनिबृन्दैः सार्धमत्रैव तीर्थे –
स्नपनमथ कुरु त्वम् मोक्ष्यसे शापदोषात्।
इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे कुरुकामहात्म्ये आदिक्षेत्रप्रशम्सा नाम द्वाविम्शोऽध्यायः।
……….
त्रयोविम्शोऽध्यायः
वराहक्षेत्रप्रशम्सा
श्रीभगवानुवाच
शृणु मे वचनम् शक्र पितृशापस्य मोचने।
तवोपायम् प्रवक्ष्यामि तन्ते प्रत्यक्ष दैवतम्।
हित्वामातरम् पितरम् इन्द्राण्यासहितोऽवशः।
परन्दैवम् वदन्येच भजन्ते अल्पचेतसः।
मातरम् पितरम्मोहाद्योवमन्येत मूडधीः।
सत्यम् तस्य विनाशश्च निरयेषुसमज्जति।
पातकानान्तु सर्वेषाम् निष्कृतिर्विहिताक्वचित्।
पित्रेऽनर्थप्रदानाम् च निष्कृतिर्नास्ति कुत्रचित्।
कामतः पितृनिन्दानाम् नकदाचित्सुखम् भवेत्।
अज्ञानात्द्धित्वयेदानीम् कृतन्तस्य प्रतिक्रियाम्।
प्रवक्ष्यामि सुराधीश तव कल्याणदायिनीम्।
त्वद्वाक्यादेव तिष्ठामि श्रीभूनीळासमन्वितः।
विमानमपिचाकाशे तिष्ठत्यतुलविक्रमः।
आदावेवमयानूनम् नाथ इत्यभिभाषितम्।
तदादिनाथो वत्स्यामि सर्वेषाम् सुखमावहन्।
भवानपि च वाराहे तीर्थेऽस्मिन्सुमनोहरे।
स्नात्वाऽऽदिनाथम् माञ्चैव नत्वाचादिवराहकम्।
आदिक्षेत्रे वसन् नित्यम् भजत्वम् मोक्ष्यसे शुभात्।
इन्द्रः-
अहोचित्रमहोचित्रमहोचित्रमिदम् हरे।
कथम्मेतच्चवाराहम् तीर्थमद्भुतदर्शनम्।
किमर्थम् वर्ततेह्यत्र भगवानादिसूकरः।
एतत्सर्वमशेषेण विस्तराद्वक्तुमर्हसि।
श्रीभगवान्-
वज्रिन् ते कथयिष्यामि मम सूकररूपिणः।
चरितम्परमाश्चर्यम् सर्वपापप्रणाशनम्।
हिरण्याक्ष इति क्रूरो दैत्यानामधिपोबली।
शङ्करम् तपसाराध्य सर्वावध्यत्वमापसः।
सुरानप्यसुरञ्चैवकृत्वान्यान्स्ववशान् पुनः।
शशासनिखिलान् लोकान् बलदर्पसमन्वितः।
ब्राह्मणान् पीडयामास यज्ञविघ्नञ्चकारसः।
सुराणाम् कदनम् चक्रे दुरात्मा सतु वीर्यवान्।
बलोत्सेकेन स महीम् सपर्वतवनार्णवाम्।
पाताळम् प्रापयामास दुरात्माऽतुलविक्रमः।
ततो हाहाकृतम् सर्वम् जगदेतच्चराचरम्।
सन्त्रस्तमभवत्क्षिप्र मुद्विघ्नहृदयान्वितम्।
ततो ब्रह्मादयोदेवाः प्रार्थयन्माम् जनार्दनम्।
हिरण्याक्षहितान्भूमि मुद्धरत्वमितिस्मत्ये।
प्रार्थय्न्माम् ततो देवाः वाराहम् वपुरास्थितः।
प्रविश्यपाताळतलम् शृङ्गकोट्या सुरेश्वर।
भूमिमुद्धारयामास यथावत् स्थापितामही।
हिरण्याक्षमथायातम् हत्वायुद्धेऽतिदारुणे।
विश्रमस्थानमन्विष्य तदातिष्ठन् महीतले।
उवाचाकाशगावाणी ताम्रपर्ण्यास्तटे शुभे।
दक्षिणेप्रोक्तविख्यात मादिक्षेत्रमनुत्तमम्।
तत्र गत्वा नदीतोये स्नात्वा पुण्येऽतिरम्यके।
बहुपादपसङ्कीर्णे विश्रान्तिस्ते भविष्यति।
इतिचाकाशगावाणीम् शृत्वासूकररूपभाक्।
आगम्यतु हरिस्तत्र सस्नौ तीर्थह्यनुत्तमे।
विश्रान्तिमुपगम्याथ धरण्यासहकेशवः।
वासम् चक्रे महाभाग तस्यैधर्माननुत्तमान्।
काङ्क्षत्यै विश्रमस्थाने प्राप्तवान् सूकरम् वपुः।
उपदिश्यसुखम् तत्र न्यवसत् सुरसत्तम्।
तदा प्रभृति तत्तीर्थम् वाराहम् तीर्थमुत्तमम्।
भगवत्क्षेत्रमुख्यम् च वाराहमभवत् पुनः।
तत्र स्नात्वा च नत्वा तम् नत्वामामपि च प्रभो।
पितृशापकृताद्दोषात् विमुक्तस्त्वम् भविष्यसि।
इत्युक्तो हरिणातेन देवराजःपुरन्दरः।
वराहे तीर्थमुख्येतु स्नात्वा चादिवराहकम्।
आदिनाथम् नमस्कृत्य विमानवरमुत्तमम्।
तस्य प्रदक्षिणम् कृत्वा देवबृन्दैस्समन्वितः।
स्वर्णान्नतिलदानानि ब्राह्मणेभ्यःप्रदाप्यच।
न्यवसत् सुचिरङ्काल पूजयन् मधुसूदनम्।
ततः प्राप्तेवसन्ते तु चैत्रमासिच शोभने।
द्वादश्याम् शुक्लपक्षे तु फल्गुण्यामुत्तरेदिने।
स्नात्वा पूर्वामुपास्यैव सन्ध्यामध्यम् दिवाकरे।
प्राप्तेतुष्टाव देवेशो देवदेवम् जनार्दनम्।
श्रीभूमिनीळासहितम् पुराणम् तमादिनाथम् जगतःप्रधानम्।
भजाम्यहञ्चादिवराहरूपम् जरातुरःक्लेश सहस्रभाजी।
प्रसीददेवेश जगन्निवाससम् समन्त्र्यपूर्वम् हि मयात्र तिष्ठन्।
श्रेयोविधास्ये तवचेदमुक्त्वा ह्युपेक्ष्यसे केन च कारणेन।
इति स्तुतोदेव वरेणशौरिः प्रसाद्यमानः पुरुषोत्तमोत्तमः।
ममार्जहस्तेन सुखालयेन तदाविमुक्तो जरयासुरेन्द्रः।
तदाश्रियञ्चापि पुनश्चहर्षादुवाच वाक्यम् विभुधादिनाथम्।
ये वै निमज्जन्ति वराहतीर्थे भजन्तियेचादिवराहमेतम्।
माञ्चादिनाथम् जगतःप्रधानम् तेषामपि स्वस्त्ययनम्सुरेन्द्र।
इत्यनुज्ञाप्य देवेशो देवराजम् कृताञ्जलिम्।
वराहरूपिणःपार्श्वे ह्यतिष्ठत् स विमानकः।
देवराजोऽथ वन्दित्वा तावुभौ सुरनायकौ।
सूकरञ्चादिनाथञ्च जगाम त्रिदिवम्पुनः।
विजरोभीतशोकश्च भगवत्पाणिमार्जनात्।
अतीव बलकान्तिश्च पौलोम्या शुशुभे सह।
इति ते कथितम् राजन् वाराहक्षेत्रवैभवम्।
अनन्तक्षेत्रमाहात्म्यम् कथयामि तवानघ ।
शृत्वादिनाथस्य कथाम् विचित्राम् वाराहरूपस्य च केशवस्य।
प्रीत्यासमेतस्तनयम् विधातु रपूजयच्छापि पुनःपुनश्च।
इति वराहक्षेत्रप्रशम्सा नाम त्रयोविम्शोऽध्यायः ।
चतुर्विम्शोऽध्यायः
अनन्त क्षेत्रप्रशम्सा
सनक:-
शृणु राजन् प्रवक्ष्यामि ह्यनन्तक्षेत्रवैभवम्।
अनन्तोनागरूपेण यत्रास्ते वसुधाधिप।
तिन्त्रिणीवृक्षरूपीसः प्रददाति सदानृणाम्।
अभीष्ठानिफलान्येव यथाकल्पद्रुमो दिवि।
अनन्ताख्यम् महातीर्थम् सर्वपापप्रणाशनम्।
वाराहस्य पुरोभागे शेषतीर्थमनुत्तमम्।
शेषाद्रुमत्वमगमत् केनचित्कारणेन तु।
इत्युक्तवति योगीन्द्र पप्रच्चमनुजर्षभ।
कथम् द्रुमत्वमगमत्शेषःकस्माच कारणात्।
व्यक्तम् तत्कथयास्माकम् तत्तीर्थस्य च वैभवम्।
इति राज्ञाच सम्पृष्टस्तदासौ धातृनन्दनम्।
शेषाख्यानमशेषेण वक्तुम् समुपचक्रमे।
शृणुराजन् यथावृत्तम् इतिहासम् पुरातनम्।
पुरा नारायणोदेवो रावणस्य च वधार्थिभिः।
प्रार्थितः सुरसङ्धैश्च राज्ञोब् दशरथस्य च।
पुत्रत्वमगमद्धीमान् राम इत्यतुलप्रदः।
अनन्तो लक्ष्मणश्चासीत्शङ्खचक्रौ नृपोत्तम।
उभौ भरतशत्रुघ्नौ सीतालक्ष्मीनराधिप।
सपितुर्वचनादेव भ्रातृभार्यासमन्वितः।
प्रविश्यदण्डकारण्यम् हृतभार्यस्तु राक्षसा।
सुग्रीवेण सखित्वम् च प्राप्य बध्वामहोदधौ।
सेतुम् गत्वा दशग्रीवम् स पुत्र बलवाहनम्।
सामात्यभ्रातरम् हत्वा सीताम् प्राप्य रघूद्वहः।
प्राप्यराज्यम् च मेधावी यज्ञैबहुभिरिष्टवान्।
धर्मेणपालयन्नुर्वीम् निहतारिमहायशाः।
लोकापवादभीत्या च त्यक्त भार्या मनागसीम्।
दशवर्षसहस्राणि दशवर्षशतानि च।
राज्यम् कृत्वा महातेजाः भ्रातृभिस्सह राघवः।
वैकुण्ठमगमत्श्रीमान् तस्मिन्कालेतु लक्ष्मणः।
एकान्ते तापसेनाथ जल्पमानस्य योगतः।
य आगतस्स वध्यो मे मम द्रोही न सम्शयः।
इत्युक्त्वा द्वारि तस्थाप्य जजल्प स च राघवः।
दुर्वाससोचोद्यमानः क्रुद्धेन सतु लक्ष्मणः।
एकान्तस्थमुवाचेदम् ततो रुष्टोरघूद्वहः।
रुष्टन्तमग्रजम् ज्ञात्वा सरयूप्रविवेश सः।
पितृनिन्दाकरःपूर्वम् धर्मनिन्दाकरश्च सः।
भ्रातृद्रोहम् ततः कृत्वा सरयू प्रविवेश सः।
तापसन्तु विसृज्याशु दुर्वास समपूज्य च।
वैकुण्ठमगमत्श्रीमान् स्थाप्य राज्ये सुतौपुनः।
तत्रापि दृष्ट्वा शेषम् तु कुपितो वाक्यमब्रवीत्।
आज्ञाच्छेदी मम द्रोही पितृनिन्दापरस्सदा।
धर्मनिन्दापरश्चासि स्थावरत्वम् भजस्वह।
इत्येवमुक्तो हरिणा शेषोदुःखितमानसः।
स्तुत्वा स्तोत्रैर्बहुविधै प्रणम्यच पुनःपुनः।
हरिम् प्रसादयामास ततःप्रीतोऽभवद्धरिः।
उवाच वचनम् मन्दम् स्थावरत्वम् सु निश्चयम्।
शापम् च विफलीकर्तुम् न शक्यम् धरणीधर।
सहायम् ते करिष्यामि वत्स्यामि च तवाग्रतः।
अहम् चा नागसीम्भार्याम् गर्भकाले त्यजम् पुरा।
त्वन्मूले ब्रह्मचर्येण ज्ञानमुद्रा वहन् पुनः।
शठारिरिति नाम्नाहम् स्त्रीसौख्यरहितो वशी।
वत्स्यामि त्वमितो गत्वा क्षेत्रे वाराहसञ्ज्ञिके।
ताम्रा दक्षिण तिरे तु भव त्वम् तिन्त्रिणीनगः।
कारिरित्येव विख्यातो जनिष्यति च काश्यपः।
अदितिर्देवमाता सा जनिष्यति सुभामिनी।
नाम्नाचात्मवती लोके प्रख्याता पुत्रगर्धिनी।
कुरुकाख्ये मम क्षेत्रे मामियम् पूर्णसञ्ज्ञितम्।
भजिष्यति च पुत्रार्थम् पुत्रम् षोढशवार्षिकम्।
लब्ध्वा चिन्तापरासाध्वी मामेवम् पुत्ररूपिणम्।
आदाय तव च क्षेत्रम् भर्त्रासह निवत्स्यति।
ततस्तत् कोटरेस्थीत्वा द्राविडीम् ब्रह्म सञ्ज्ञिताम्।
जगतामुपकारार्थम् कलेरादौकरोम्यहम्।
इत्येवमुक्त्वा भगवानङ्गुलीयम् ददौ पुनः।
एतद्विगळितम् यत्र तत्र त्वम् तिन्त्रिणीनगः।
भविष्यसि न सन्देहः इत्युक्त्वा धरणीधरम्।
प्रस्थाप्य भगवान् विष्णुः अत्रैव सुखमाविशत्।
अङ्गुलीयकमादाय ततोऽनुज्ञाप्य माधवम्।
विचरन् पृथिवीम्सर्वाम् स्तूयमानोमरुद्गणैः।
ताम्रपर्णी तटे गत्वा दक्षिणे लोकविश्रुते।
आदिनाथोत्तरेपार्श्वे ताम्रादक्षिणतः पुरः।
अङ्गुळीयम् विगळितम् ततःस्नात्वा जलेशुभे।
वाराहस्य च तीर्थस्य प्राग्भागे रमणीयके।
यत्रसस्नौ तदानन्त स्तत्तीर्थम् शेषसञ्ज्ञितम्।
तत्र स्नात्वा हरिम् ध्यात्वा नमस्कृत्य जनार्दनम्।
अङ्गुलीयकमाविश्य तस्थौ स धरणीधरः।
देवदुन्दभयोनेदुः पुष्पवृष्टिरभूत्तदा।
बहुवृक्षसमायुक्तः तिन्त्रिणीनग उत्तमः।
विराजते धरापृष्ठे दिविकल्पतरोस्समः।
सर्वपापहरो नित्यम् सर्वलोक नमस्कृतः।
राजतेह्यद्भुताकारो निर्निद्रश्च वनस्पतिः।
अत्यद्भुततमम् दृष्ट्वा ब्राह्मणो वेदपारगाः।
अर्चयन्ति सदापुष्पैः गन्धधूपैर्मनोरमैः।
नैवेद्यैर्विविधैश्चापि पूजयन्ति द्विजातयः।
अनन्तक्षेत्रमेतद्धि तीर्थम् चानन्त सञ्ज्ञितम्।
तिन्त्रिणी नग उत्पत्तिः कथिता तव विस्तरात्।
तिन्त्रिणीनगपुष्पम् च फलम् च नृपसत्तम।
देवतायोग्यमेवैते न्नान्येषामपि देहिनाम्।
शृत्वा च राजा निखिलम् च वृत्तम् स तिन्त्रिणीवृक्षवरस्य मुख्यम्।
सुरद्रुमाणा मधिकस्य तस्य जगाम हर्षम् त्वतिमात्रमेव।
इति श्रीबृह्माण्डपुराणे क्षेत्रकाण्डे कुरुकामाहात्म्ये अनन्तक्षेत्र प्रशम्सा
नाम चतुर्विम्शोऽध्यायः।
……….
पञ्चविम्शोऽध्यायः
सनकः-
शृणु राजन् प्रवक्ष्यामि कुरुकाख्यान मुत्तमम्।
यत्शृत्वा सर्वपापेभ्यो मुच्यते मानवःक्षणात्।
तदहम् सम्प्रवक्ष्यामि सर्वकामफलप्रदम्।
भगवदचनाच्छेषः तिन्त्रिणीनगरूपवान्।
विराजते महाभागा सर्वकामफलप्रदः।
साक्षाच्छेषाकृतिर्वृक्षः कुण्डलीकृत देहबान्।
फणासहस्र सदृशै श्शाखापूगैस्समन्वितैः।
साक्षाच्छेष इवा भान्ति विर्निद्रस्तरु वल्लभः।
एवमत्यद्भुताकारो महाशाखो वनस्पतिः।
सजात इति लोकेषु पृथितोभून्नरोत्तमाः।
ब्राह्मणक्षत्रियाश्चैव वैश्याशूद्रास्तथैव च।
द्रष्टुकामास्तदाश्चर्य मागच्छन् मनुजर्षभ।
यत्र स्नातामनन्तेन तत्र स्नात्वा जलेशुभे।
स्त्रीबालयुववृद्धाश्च सर्ववर्णा जनाधिप।
तिन्त्रिणीवृक्षमासाद्य साक्षाच्छेषाकृतिर्नृप।
मेनिरे विप्रमुख्याश्च तम् शेषमिति मानवाः।
आदिनाथम् च तत्पार्श्वे श्रीभूनीळासमन्वितम्।
दृष्ट्वा तत्र कृतान् सर्वान् हृष्टरूपा बभूविरे।
आश्चर्यनिलयेतस्मिन्ननिद्रम् तिन्त्रिणीनगम्।
बहुभिः पादपैर्युक्तञ्चम्पकाशोकपाटलैः।
पनसैर्वकुळैश्चूतैः पुन्नागैर्नाळिकेरकैः।
अतीवरमणीयम् तम् वृक्षसङ्घम् सहस्रशः।
अनन्ततीर्थके स्नात्वा पूजयन्ति जनाधिप।
शृत्वा शृत्वा च देशेभ्यो जनास्सर्वे नगोत्तमम्।
आगम्य सततम् राजन् अर्चयन्तिविधानतः।
पत्रैःपुष्पैःफलैस्तोयैः गन्धैधूपैर्स्सदीपकैः।
नैवेद्यैर्विविधैश्चैव तथाब्राह्मणभोजनैः।
स्वर्णान्नतिलगोभूमि कन्यकादानपूर्वकैः।
विप्रास्समर्चयन्तिस्म क्षेत्रेऽनन्तफलप्रदम्।
अनन्तस्य महाक्षेत्रमनन्तफलदायकम्।
तत्र किञ्चित्कृतम् पुण्यम् अनन्तफलदायिनम्।
यस्य यस्मान् नगेन्द्रस्य ब्राह्मणावीतकल्मषाः।
वसन्ति नित्यमेवात्र क्षत्रविट्शूद्रजातयः।
यस्य वृक्षस्य शाखासु वसन्ति विहगोत्तमाः।
वल्गुस्वना महाभाग क्रौञ्चसारसकोकिलाः।
बर्हिहम्सास्सुस्वराश्च व्याहरन्ति गिरिश्शुभाः।
तत्रस्थञ्जनमुद्दिश्य तिन्त्रिणीनगसम्स्थितः।
प्रत्यहम् विहगःकश्चित् वाक्यमूचे मनुष्यवत्।
स्वल्पामपि तपश्चर्याम् कुरुकामपि नित्यशः।
षाचर्यामहत्रीज्ञेया अनन्तफलदायिनी।
इति तत्पक्षिणोवाक्यम् शृत्वा सर्वजनस्तदा।
प्रहर्षमतुलम् लेभे पक्षिणा वाक्यगौरवात्।
राजा-
कः पक्षी स किमर्थञ्च वाक्यमीदृशमद्भुतम्।
मनुष्यवाचाकथयत् तन्मेब्रूहि महामुने।
इति राज्ञो वचश्शृत्वा सनको योगिनाम् वरः।
आनन्दाश्रुपरीताक्षो वाक्यमूचे जनाधिपम्।
शृणु तत्पक्षिणोरूपम् कथयामि तवानघ ।
साक्षाद्धर्मः स्वयम् राजन् हम्सरूपधरोनृप।
तिन्त्रिणीनगमुख्यस्य शाखामाश्रित्यशोभनाम्।
ज्ञात्वा तत्क्षेत्रमाहात्म्यम् लोकानुग्रहकाम्यया।
अधस्तान्नागराजस्य स्थितम् प्रतिजनम् नृप।
उवाच वचनम् वल्गु स्वरेणमहता तदा।
अनन्तफलदम् क्षेत्रमनन्तस्यमहात्मनः।
अत्रैवकुरुकाञ्चर्याम् तपसः किम् वृधा जनः।
परिभ्रमतिलोकेषु इति तज्जनमादरात्।
भूत्वा च पक्षी स्वयमेवधर्म
स्सतिन्त्रिणीवृक्षवरस्यमुख्यम्।
शाखावलग्नोवचनम् बभाषे
मनुष्यवाचाकृपयासमेतः।
स्वल्पन्तु नूनम् तपसश्चचर्याम्
लीलान्विताम् वा कुरुकामपीह।
कृताचचर्यामहती भवेत् सा
वदामि सत्यम् मनुजार्य नित्यम्।
इत्यद्भुतम् तद्विहगेन्द्रवाक्यम्
शृत्वा च सर्वे द्विजपुङ्गवास्ते।
महीमिमाम्पुण्यतमा विदीत्वा
सूचुस्तदाताम् कुरुकाम् महान्तः।
पक्षिरूपस्य धर्मस्य वाक्यम् श्रुत्वा नृपोत्तम।
कुरुकाख्ये महाक्षेत्रे बहुपुण्यफलोदये।
वासञ्चक्रुर्जनास्सर्वे मुदापरमया युताः।
तदाप्रभृति राजेन्द्र कुरुकामिति ताम् महीम्।
वदन्ति मनुजास्सर्वे प्रकुर्वन्ति तपाम्सि च।
ब्राह्मणाःक्षत्रियावैश्याः शूद्राश्च मनुजाधिप।
तत्र वासम् प्रचक्रुस्ते नगरी सा बभूवह ।
हृष्टपुष्टजनाकीर्णा नरनारीजनाकुला।
धनधान्य समायुक्ता समाजोत्सवषाळिनी।
महाराजपथाकीर्णा विपणापणशोभिता।
नटनर्तकसम्कीर्णा पताकाध्वजमालिनी।
वेदशास्त्र समासक्तैः ब्राह्मणैरुपशोभिता।
वेदविद्भिर्महीदेवै रनेकक्रतुयाजकैः।
श्रीवैष्णवैर्महाप्राज्ञै स्तथाभागवतोत्तमैः।
एवम्विधैर्महाप्राज्ञैः राजभिश्चसमावृता।
तथा वैश्यश्चशूद्रैश्च भगवद्भक्तिसम्युतैः।
तथास्त्रीभिरनेकाभिः पातिव्रत्यादिसद्गुणैः।
अन्विताभिस्सुरूपाभिः परिपूर्णामुदान्विता।
देवराजपुरीयावत् तथैव कुरुकापुरी।
विराजते महाराज! तिन्त्रिणीनगशोभिता।
कल्पद्रुमयुता यद्वद्राजते ह्यमरावती।
तस्याम्पुर्याम् महाराज! कारिसूनुरकल्मषः।
शठारिरितिविख्यातः ज्ञानमुद्राम् वहन् मुनिः।
भगवानथ विश्वासो ब्रह्मचर्यस्समाहितः।
तिन्त्रिणीवृक्षमूलस्थेन द्राविडीम्ब्रह्मसम्हिताम्।
चकारजगतामेवमुपकाराय माधवः।
तपसा भासमानाञ्च कमलाम् लोकपावनीम्।
कृत्वा वकुळमालाम् च तत्रैव नगरेतथा।
शङ्खराजविमुक्तिञ्च शङ्खतीर्थजलाप्लुतः।
हम्सरूपम् च यस्यासीद्वाहनार्थम् प्रकल्प्यच।
आत्मवत्याजनान्याश्चकारेश्च सुमहात्मनः।
दत्वा मुक्तिश्शठारातिः योगिनामपि दुर्लभम्।
शिष्याचार्यक्रमेणैव ह्यादिनाथम् प्रपद्य च।
भक्तैर्भागवतैस्सार्धम् निवसिष्यति तत्र वै।
कल्पद्रुमस्य मूले तु यथा योगीव्यवस्थितः।
तथैव तिन्त्रिणीमले ज्ञानमुद्राधरो हरिः।
पद्मासने गतो नित्यम् ध्यानयोगसमन्वितः।
वकुळस्यतु मुख्यस्य मालिकारूपया श्रिया।
सार्धम् तत्र महाराज! वसिष्यति नसम्शयः।
कुरुकाक्षेत्रमाहात्म्यमुक्तम् तव जनाधिप।
य एतत्पठते नित्यम् यःशृणोति सदानरः।
तस्यायुःश्रीश्च पुत्राश्च सम्पदश्च विवर्धते।
इहलोकेपरत्रापि विष्णुसायुज्यमाप्नुयात्।
एतत्सर्वम् सविस्तार्य कथितम् तवभूमिप।
किम्पुनस्त्व महाराज श्रोतुमिच्छामि सुव्रत।
तत्पच्छ्यतामहम् वक्ष्ये नात्रकार्यविचारणा।
इति मुनिकथितम् तद्वाक्यमाकर्ण्यभूपः
श्रुतिसुखमनुकूलम् श्रेयसो हेतुभूतम्।
पुनरपिमुदितात्मा पूज्यतम् पूजनार्हम्
श्रुतिसुखमिदमूचे ब्रूहि वृत्तम् शठारे।
इति कुरुकामाहात्म्यम् नाम पञ्चविम्शोऽध्यायः।
………………
षड्विम्शोऽध्यायः
श्रीसूतः-
इत्थम् मुनीन्द्राः कथितम् नृपेन्द्रः शृत्वावचो बृह्मसुतेन तेन।
प्रहृष्टरोमावचनम् बभाषे विधातृसूनुम् विनयाभिपन्नः।
महामुने ब्रूहि कथाम् शठारेः पुण्यामहार्थामतिरम्य चित्राम्।
कःकारिः काचसादेवीनाम्नाचात्मवती शुभा।
कुरुकाख्ये महाक्षेत्रे चकार तप उत्तमम्।
किमर्थम् च तयोस्तत्र भगवान् पूर्णसञ्ज्ञकः।
प्रसादमकरोत्सर्वम् विस्तरेण वदस्व मे।
पुत्रार्थम् तप्यतोस्तत्र तयोर्ब्रह्मन्स्वयम् हरिः।
पुत्रत्वमगमत् श्रीमान् कथम् केन महामते।
कथम् शठारिनिर्गमान् द्राविडानकरोत्प्रभुः।
किमर्थम् तिन्त्रिणीमूले ज्ञानमुद्राम् वहन् हरिः।
आदिनाथम् महाविष्णुम् गुरुभक्त्याऽभजत्सदा।
स्तुतस्त्रु शङ्खराजस्य कथम् मुक्तिम् ददौ पुनः।
शङ्खतीर्थाभिषेकञ्च किमर्थम् सचकार ह।
तपस्विन्याश्रियोब्रह्मन् प्रीत्याशठरिपुस्तदा।
ब्रह्मचर्येण सम्युक्तः कृत्वा वकुळमालिकाम्।
ताम् श्रियम् धारयामास कृत्वा तम् नगरम्पुनः।
तन्नाम्ना तत्र तीर्थञ्च श्रीतीर्थमतुलप्रभम्।
श्रीतीर्थे शङ्खतीर्थे च स्नात्वा मुक्तिङ्गताश्चके।
भाविकार्याणि सर्वाणि बद विस्तरतो मुने।
त्वम् समर्थश्च विपेन्द्र ज्ञानवान् योगिवल्लभः।
अतीतानागतेचैव वेत्सि ब्रह्मविदाम् वर।
कुरुकायाम् महाभाग यच्चकिञ्चिद्भविष्यति।
एतत्सर्वम् सु विस्तार वक्तुमर्हसि सुव्रत ।
इति राज्ञान्वरिष्ठेन स्मारितो भगवत्प्रियः।
सनको योगिनाम् श्रेष्ठः श्रीपतेश्चित्रकर्मणः।
ताम् कथाम् वक्तुमारेभे शठारेरमितौजसः।
राजमुख्यमहाराज वदान्यगुणसागर।
शठारेश्चरितम् कृत्स्नम् कथयामि शृणुष्व भो।
अङ्गदेशपतिश्शूरः वीरवर्मेति विश्रुताः।
काश्यपःस्वयमेवोथ जज्ञेपरमधार्मिकः।
सपूर्वम् सुदेवोभूत् देवकीतस्यचाङ्गता।
अदितिर्देवमाता सा तावुभौ वरदम्पती।
तयोस्समभवत्कृष्णः भगवान् भूतभावनः ।
तस्मिन् जन्मनिताभ्याम् समोक्षार्थम् प्रार्थितोभृशम्।
उवाच देवकीपुत्रः तावुभौवरदम्पती।
मोक्षार्थम् यातमानौ तौ पश्चान्मोक्षम् ददामिवाम्।
कलेरादौजगत्सर्वम् पाषण्डोपहतन्तदा।
भविष्यति ततः पश्चात् युवामङ्गेषु दम्पती।
जायताःपरिपूतौतौ त्वम् कारिरियमाङ्गना।
नाम्नाचात्मवतीलोके विख्यातापरमाङ्गना।
सुमुखाच सुता भूयात् विदर्भाधिपतेस्ततः।
अङ्गाधिपस्य पुत्रस्त्वम् राज्ञोवै वीरवर्मणः।
कल्याणगुणयुक्तोयम् तवभार्या भविष्यति।
राज्ये भवन्तम् सम्स्थाप्य पिता ते वनमेष्यति।
सामन्तराजभिस्तस्मात् पुरान्निर्वास्यसे पुनः।
भार्ययासहितस्त्वम् हि तपस्वी वीतकल्मषः।
अतिच्छन्नेव तद्राज्यम् निर्वेदम् परमङ्गतः।
उत्तरन्तटमासाद्य ताम्रपर्ण्यास्स्त्वमनुत्तमम्।
निवसिष्यसि तत्र त्वम् सभार्यस्सपरिच्छदः।
प्राग्भागे पुण्यनिलये श्रीमद्वरगुणस्य च।
क्षेत्रे च कुरुकारण्ये चिरकालम् तपश्चरन्।
अपुत्रः पुत्रकामी त्वमभवः तत्र वै नृप।
अर्दयित्वा तु पाषण्डान् मायिनोऽहम् पराङ्कुशः।
शठारिरितिविख्यातः कृत्वा वै द्राविडागमम्।
ब्रह्मक्षत्रविशाम् वापि स्त्रीशूद्राणाम् च तारकम्।
तवाभीष्टम् प्रवक्ष्यामि नेदानीमितिकेशवः।
ऊक्तवान् तस्य तद्वाक्यम् तदा शृत्वाह्यौभौ शुभम्।
तत्र स्थित्वा चिरङ्कालम् वसुदेवश्चदेवकी।
स्वर्गम् तौ जग्मतुःक्षिप्रम् निर्मोक्षौ भवताम् तथा।
सनकः-
राजन् कृष्णस्यतद्वाक्यम् स्मृत्वा प्राप्ते कलौयुगे।
पुत्रोऽभूत् काश्यपस्तस्य त्वङ्गदेशाधिपस्य च।
विदर्भाधिपतेस्साच पुत्रीजाताऽदितिस्तदा।
ताम् कारिरूपयेमेथ सुमुहूर्ते सुलग्नके।
आत्मवत्यातयासार्धम् भार्ययामुमुदे सुखम्।
एतस्मिन्नेवकाले तु पिताकारेर्महात्मनः।
पुत्रम् राज्ये विनिक्षिप्य तपोवनमुपागमत्।
तत्र गत्वा तपस्तप्त्वा योगाभ्यासजपेन च।
त्यक्त्वादेहम् महाराज! वीरवर्मादिवङ्गतः।
ततःकारिर्महातेजाः धर्मिष्टो मृदुशीलवान्।
धर्मेणकारयामास राज्यञ्चप्रवरम् सुखी।
एतस्मिन्नन्तरे शूरस्सामन्तोबलवत्तरः।
मृदुशीलम् च विज्ञाय सुरम्यञ्च पुरोत्तमम्।
निरुद्धवान् महाराज बलेनमहतावृतः।
मृदुशीलतयातैस्तु पीडितोरत्नसम्युतः।
सभार्योऽल्पसुखीसाधुः पुरन्त्यक्त्वाभयार्दितः।
पलायन् पुरतस्तस्मात् पुरञ्च प्रविशन् नृप।
सभार्यस्सविनिर्गत्य सर्वम्सम्म्त्यज्य यद्धनम्।
निर्वेदम् परमम् गत्वा मृदुशीलश्च सत्वरम्।
तपसे यतमानस्तु पुण्यनद्याम् नृपोत्तम।
ताम्रायाश्चोत्तरेतीरे कुरुकारण्यनामके।
क्षेत्रेपुण्यकरे तस्मिन् स्थितश्चक्रे तपस्सुखम्।
वैकुण्ठादीनिमुख्यानि गत्वा क्षेत्राणि तानि च ।
तत्र तत्र ततःस्थित्वा दत्वादानानिभूरिशः।
कुरुकायाम् पुनर्गत्वा तिन्त्रिणीनगमुत्तमम्।
दत्वादिनाथामभजत् श्रीभूनीळान्वितम् हरिम्।
प्रणम्यपुण्डरीकाक्षम् पुनर्वै कुरुकाटवीम्।
गत्वा सभार्यस्सुसुखम् न्यवास्तीत् सपरिच्छदः।
एवन्तु वर्तमानस्य नासीत्वश्शकरस्सुतः।
राज्यात्भ्रष्टस्यमेनोस्ति दुःखम्किञ्चिदपिप्रिये।
पुत्रलाभान् महद्दुःखम् वर्तते हृदिशोभने।
इत्युक्त्वा ताम् प्रियाम्भार्याम् तयासहसुखस्स्विनः।
स्थितम् तम् पतिमालोक्य भार्यावचनमब्रवीत्।
यत्नेकृतेन सीधिश्चेत् कोदोषःपरिकीर्तितः।
यत्नात् पुराबलिम् विष्णुः पाताळमनयत्प्रभुः।
यत्नात् पुरन्दरःपूर्वम् जित्वाशत्रून् हि दानवान्।
इयायनाकमतुलम् देवराजत्वमेवच।
यत्नात् द्विजवरःप्राप्तो वसिष्टस्सुरभिम्पुनः।
विश्वामित्रोपि यत्नेन ब्राह्मण्यमगमत्पते।
राजादशरथःपुत्रमवाप बहुयत्नतः।
रामम्राजीवताम्राक्षम् दिवम् च पदमुत्तमम्।
यत्नात् बहुविधात्प्राप्तो गङ्गामपि बगीरथः।
यत्नेनैव यथादेव वसुदेवोहरिम् सुतम्।
यत्नेन महतायुद्धे धर्मपुत्रोजयङ्गतः।
यत्नेन विनताकद्रो रक्षितागरुडेन तु।
एवम् विधाश्चबहवो यत्नेनसुरमानवाः।
वाञ्छितार्थान् बहुविधान् प्राप्त इह परत्र च।
यत्नेनलभ्यते सर्वम् अयत्नस्य कुतस्सुखम्।
तस्मात् पुत्रार्थमावाञ्च यतिष्यायःप्रतोध्रुवम्।
प्राप्स्यावःपुत्रमतुलम् अपुत्रस्यकुतस्सुखम्।
अपुत्रस्य गतिर्नास्ति नास्त्यपुत्रस्य वैधृतिः।
अपुत्रम् नाभिपूजन्ते सुहृदेनैवबान्धवाः।
अपुत्रम् नाभिमन्यन्ते मानवास्तृणवद्भुवी।
अपुत्रस्तु भवेत्पापी सधनोप्यधनः परैः।
दूष्यतेनितरम् भर्तुः पीड्यते ज्ञातिभिस्सह।
मृत्युकाले प्रजास्याशु धनमन्योन्यवैरिणः।
अपुत्रन्तम् मृतम्त्यक्त्वा ह्यर्थम् व्यवहरन्ति ते।
ममेदम् मम च क्षेत्रम् गृहम् मम धनम् मम।
मृतस्योर्ध्वक्रियम् वापि जीवन्नपि शवस्तुसः।
बालस्य हासनर्मादीन् योन पश्यति पापकृत्।
जात्यन्ध इति विज्ञेयः नेत्रयुग्मयुतोपि सह।
शयने भोजनेचैव यस्यनास्त्यौरसस्सुतः।
वृधाजन्म च तस्यासीत् पुरुषाणाम् पशुस्सच।
जानुभ्याम् सहपाणिभ्याम् सुतो यस्य न लेखति।
यस्तुनालिङ्गतेपुत्रम् तस्य जन्मनिरर्थकम्।
पुत्रोयस्यौरसस्तस्य प्रेत्ये सच सुखम् भवेत्।
मृतस्यापि पितुःकुर्यात् पुत्रश्चोर्ध्वःक्रियाम् पुनः।
पुण्यकालेषु सर्वेषु मन्वादिषु युगादिषु।
दर्शपातेच सङ्क्रान्त्या मुपरागामहाळये।
जन्येषु तिथि मुख्येषु पितृप्रीतिकरेषु च।
तिलोदकम् पिण्डदानम् तदा ब्राह्मणभोजनम्।
गोभूतिलहिरण्यानाम् दानमन्यच्चहृष्टधीः।
पितॄनुद्धिश्य सो दद्यात् यदिस्यादौरसस्सुतः।
तस्मात्कारयते पुत्रः पितरम् मातरम् तथा।
पुत्रात्प्रियतरो नास्ति लोकेचान्य स्तु कश्चन।
तस्माद्यत्नम् करिष्यावः पुत्रार्थमधुना पते।
इत्युक्ता विररामाथ सा सती हितभाषिणी।
शृत्वा च कारिर्वचनम् महात्मा पुत्रार्थमेवम् परिदुःखितोऽभूत्।
पत्न्यासुचिन्त्यैव चिरम् पुनश्च तामाचचक्षे तनयार्थमेव।
इति षड्विम्शोऽध्यायः।
……………….
सप्तविम्शोऽध्यायः
सनक:-
प्रतप्ताम् च भृशन्देवीम् पुत्रार्थम् राजसत्तम।
उवाच कारिधर्मात्मा वचनम् च प्रचोदितः।
अलम् खेदेन ते देवि जनयिष्यसि पुत्रकम्।
पुत्रार्थम् तपसात्रैव तोषयिष्ये जनार्दनम्।
तयोस्सम्वदतोरेवम् दम्पत्यो स्सुतकारणात्।
तत्रागच्छन् महाप्राज्ञः तपस्वीब्राह्मणोत्तमः।
देवलस्सुमहातेजाः वेदवित्योगिनाम् वरः।
तमागतमभिप्रेक्ष्य दम्पती तौ प्रणम्य च।
गामर्घ्यञ्चैव दत्वास्मै चासनम् चाप्यनामयम्।
पृष्ट्वातूष्णिम् स्थितौ तत्र ततःप्रोवाच धार्मिकः।
देवलो भूपतिम्प्राज्ञमिदम्वचनमर्थवत्।
कुशलन्ते महाराज! काविवक्षा तवानघ ।
विचक्षुमिव पश्यामि त्वामहम् नृपसत्तम।
वक्तुमर्हसि धर्मज्ञ नात्रकार्यविचारणा।
इत्युक्तवन्तम् विपेन्द्र उवाच नृपपुङ्गवः।
शृणु विप्र प्रवक्ष्यामि यदभीष्टम् ममद्विज।
पुत्रार्थम् परितप्ता मे भार्याभवति दुःखिता।
ताम् दृष्ट्वा दुःखिताम् विप्र ममापिलुळितम् मनः।
न स्वस्थमिव पश्यामि पुत्रलाभः कथम् भवेत्
उपायःकथ्यताम् विप्र यदिजानासि तस्यच।
इतिब्रुवाणम् राजानमुवाच द्विजसत्तमः।
ध्यात्वाचिरम् मुनिर्ज्ञात्वा तपसा तत्सतागमम्।
शृणुराजन् प्रवक्ष्यामि तव पुत्राप्तयेऽधुना।
उपायम् सहभार्यास्त्वम् ब्रह्मचर्यसमन्वितः।
महेन्द्राद्रौ महत्क्षेत्रम् कुरङ्गा इति विश्रुतिः।
तत्र विष्णुर्महातेजाः वर्तते पूर्णसञ्ज्ञिकः।
तत्र काचिन्नदीपुण्या नाम्नासिन्धुनादीति च।
सिद्धाश्रममिति प्रोचुस्तद्देशम् मुनिपुङ्गवाः।
तत्रसर्वाश्च सिद्ध्यन्ति क्रियाधर्मोपबृह्मितः।
तत्र गत्वा नदीतोये स्नात्वा त्वम् सम्शितव्रतः।
भज त्वम् देवदेवेशम् पूर्णसञ्ज्ञम् जनार्दनम्।
तव दास्यति सन्तुष्टः स एव सुतमुत्तमम्।
इत्युक्त्वा तदनुज्ञाप्य मुनिःप्रायाद्यथागतम्।
ततः कारि प्रहृष्टात्मा भार्ययासह धर्मवित्।
कृतार्थामितिचात्मानम् मेने विप्रस्य वाक्यतः।
ततःप्रतस्थे धर्मात्मा भार्ययासहितो नृप।
तत्र गत्वा ददर्शाथ महेन्द्रम् नगसत्तमम्।
सिद्धगन्धर्वनिलयम् मुनिसङ्घनिषेवितम्।
विविधैस्तरुभिर्युक्तम् मृगपक्षि समाकुलम्।
रम्यम् सिद्धाश्रमम् गत्वा ददर्शतटिनीम् ततः।
हम्ससारससङ्कीर्णम् चक्रवाकोपशोभितम्।
शिवामकर्दमाम् रम्याम् गत्वा सिन्धुनदीम्पुनः।
निमज्याभार्ययासार्धम् धूतपापोऽभवत् क्षणात्।
पुनर्गत्वा कुरुङ्गाख्यम् क्षेत्रम् द्विजनिषेविताम्।
तत्रस्थम् हरिमद्राक्षीत् नाम्ना वै पूर्णसञ्ज्ञिकाम्।
नमस्कृत्य जगन्नाथम् सर्वलोक नमस्कृतम्।
पूजाभिर्विविधाभिश्च पूजनार्हमपूजयत्।
ब्राह्मणैःपूजितम्पूर्वम् ऋषिसन्घैरनेकशः।
सर्वाभीष्टप्रदन्तेषा मनादिमतिसुन्दरम्।।
अनेककोटिकल्पेषु महेन्द्रनिलयम् पुनः।
यत्रपूर्वम् तपस्सिद्धिम् तता ब्रह्मादयोऽमराः।
देवर्षयोनारदाद्यैः वसिष्ठाद्या द्विजर्षयः।
तत्र सिद्धाश्रमेरम्ये सकारिर्भार्यया सह।
अवसत् सतपः कुर्वन् किञ्चित्कालमरिन्दम।
तपश्चरन्तम् तम् दृष्ट्वा भगवान् भूतपावनः।
विचिन्त्यमनसासर्वम् पूर्ववृत्तनराधिप।
शेषम् प्रति यथापूर्वमत्यजन् तरुणीम् सतीम्।
अन्तर्वत्नीम् प्रियाम्भार्याम् धर्मपत्नी मनागसीम्।
तद्दोषशमनार्थाय स्त्रीसौख्यरहितो वशी।
ब्रह्मचर्यव्रतपरो ज्ञानमुद्राम् वहन् पुनः।
शेषाहम् निवसिष्यामि त्वन्मूले नगरूपिणः।
ये त्यजन्ति महाभाग सतीम् भार्याम् मनागसीम्।
स्त्रीसौख्यरहितास्ते वै चरन्ति पृथिवीतले।
मूर्खाः कुरूपिणोमूडा वर्तते स्त्रीविनिन्दकाः।
अनागसीम् सतीम्भार्याम् यश्चनिन्दति निर्घृणः।
बृह्मचार्येव भवितान गृहस्थो भवेत्पुनः।
वेश्या वा जारिणीवापि नहितम् वृणुयात्क्वचित्।
ष्त्रीसौख्यरहिता मर्त्यो जायते भुविनिन्दितः।
यः स्वभार्याम् परित्यज्य रूपिणीम् परसुन्दरीम्।
यः पश्यति सजात्यघ्ह्र भ्ह्रूणहाऋत्वतिक्रमात्।
इत्यादिवचनान्युक्त्व पुनरप्युक्तवानिदम्।
कलौ हि रमते पपे जनस्सर्वोपि भूधर।
लुप्यन्ते वेदशास्त्राणि पापानामाकरःकलिः।
जगतामुपकरणार्थम्द्राविडीम्ब्रह्मसम्हिताम्।
कृत्या रक्षाम् विधास्यामि लोकानामिति मे मतिः।
पराङ्कुशो भविष्यामि विनिहत्यच मायिनः।
शेषायोक्तम् विचश्श्चत्वा देवकी वसुदेवयोः।
कल्यादौ युवयोःपुत्रो भूत्वाऽहम् भुविमायिनः।
निहत्य द्विजविट्शूद्र क्षत्रियाणामथापि वा।
स्त्रीणामप्यन्यजातीनाम् उपकारार्थमेव हि।
वेदानाम् सहिताम् सर्वाम् द्राविडीम् वक्तुमुत्सहे।
तदावाम् मुक्तिमतुलाम् दास्यामीति च भाषितम्।
वाक्यम् स्मृत्वा च तद्राजन् भगवान् पूर्णसञ्ज्ञिकः।
पुत्रत्वम् तयोर्गन्तुमुद्युक्तः पुण्यकर्मणा।
तयोस्समीपमागत्य द्विजरूपधरो हरिः।
उवाच तावुभौवाक्यम् कौ युवाम् किमिहागतौ।
तेपो ते च तपोत्युग्रम् वचनम् वदतम् युवाम्।
इति तद्वचनम् श्रुत्वा वाचमूचे नृपस्तथा।
क्षत्रियोऽहम् द्विजश्रेष्ठ कारिरित्यभिविश्रुतः।
इयमात्मवती नाम कल्याणी च ममाङ्गना।
वसामि कुरुकारण्ये ताम्रातीरे सहानया।
तस्माद्देशोदनुप्राप्तः पुत्रार्थम् हरिसन्निधौ।
अत्रसिद्धाश्रमे पुण्ये कुरुङ्गाख्ये द्विजोत्तम।
देवलस्यतु विप्रस्य वाक्यादेवत्विहागतः ।
भजामिदेवदेवेशम् केशवम् पूर्णसञ्ज्ञिकम्।
दद्याद्यदि सुतञ्चाहम् गमिष्यामि ततस्सुखम्।
इत्युदीरितमाकर्ण्य राज्ञावचनमद्भुतम्।
उवाचवचनम् श्लक्ष्णम् राजानम् वीतकल्मषम्।
अच्युतोस्मि तवप्रीत स्तपसाऽनुत्तमेनच।
ददामि तव पुत्रञ्च मद्विधम् वीतरागिणम्।
परेषामङ्कुशम्सौम्यम् तथा षोडशवार्षिकम्।
इत्युक्त्वा वचनम् शृत्वा हरेरद्भुतकर्मणः।
उवाचराजा वचनम् हरिन्लोकगुरुम्प्रभुम्।
अल्पायुषम् कथम् पुत्रन्त दास्यसि त्वम् तवानघ।
तच्छ्रुत्वा वचनन्त भूयो माधवह प्रत्युवाच तम्।
अहमेवागमिष्यामि पुत्रत्वम् युवयोर्भृशम्।
श्रेयो बहुविधास्यामि गच्छत्वम् कुरुकावनम्।
पुत्रप्रसवपर्यन्तम् स्थित्वा तत्र पुनश्शिशुम्।
आदाय भार्ययासार्धम् कुरुकाम् व्रज सुव्रत।
श्रेयोविधास्य तत्राहम् युवयोस्तुल्यरूपयोः।
इत्युक्त्या तावनुज्ञाप्य तत्रैवान्तर्दधे हरिः।
ततस्तुष्टौ महात्मानौ दन्तपतीपुरुषोत्तमम्।
स्तुत्वा स्तोत्रैर्बहुविधैः प्रणम्यच पुनःपुनः।
साक्षाद्धरिम् विदित्वातौ पुत्रम् पुत्रवताम् वरौ।
मेनाते स्वयमेवै तौ पुनर्गत्वा च दम्पती।
कुरुकारण्यमुख्ये तु वर्तते स सुखम् नृप।
रार्भमादत्त वैराज्ञी पत्युवै हृदयङ्गमम्।
ततस्तु सादौहृदलक्षणान्विता विदर्भराजस्य सुतामनस्विनी।
बभौ च तस्याः पतिरिष्टवस्तुना प्रपूरयामास चकाममद्भुतम्।
इति सप्तविम्शोऽध्यायः।
अष्टाविम्शोऽध्यायः
श्रीशठकोपसूर्याः आविर्भाव विषयः
सनक:-
सादधारपुनर्गर्भ मव्यक्तमजरामरम्।
रराज तेन गर्भेण चन्द्रलेखेवशारदि।
घनीभूतम् तदागर्भम् प्रतिमासम् ततस्ततः।
नवमेमासि बभ्राज प्रावृषिद्यौस्सहाम्बुधा।
ततश्च दशमेमासि सम्प्राप्ते शुभखेचरे।
वसन्ते समनुप्राप्ते वैशाखे मासिचोत्तमे।
वैशाखे तारमुख्यैव पौर्णमास्याम् गुरूदये।
लग्ने कर्कटकेचन्द्रे तुलायाम् समवस्थिते।
लाभराशिगतेसूर्ये शुक्रे मीनम् समाश्रिते।
आनुकूलग्रहैर्युक्ते दिने मुख्यतमे हरिः।
सुमुहूर्ते सुलग्ने च ह्यात्मवत्याम् पुरा हरिः।
तेन पुत्रेण सा देवी विरराजवपुष्मता।
पुरावरेण देवानामुपेन्द्राणा दितिर्यथा।
ज़ातमात्रे तु पुत्रेसः कारिःस्नात्वा नदीजले।
विप्रेभ्यो दानमदिशत् गोभूतिलहिरण्यकम्।
ततश्च द्वादशदिने व्यास आगत्य तत्र तु।
ब्रह्मणोचोद्यमानस्तु नामकर्म तथाकरोत्।
शठकोप इति श्रीमानन्वर्थमथ भूमिप।
शठान् कुप्यतियस्मात् सःशठकोप इति स्मृतः।
ततस्सम्पूजितस्तेन कारिणामुनिपुङ्गवः।
यथागतम् जगामाशु व्यासो मुनिगणैस्सह।
गते तस्मिन् मुनिवरे कारिभार्यासमन्वितः।
पुपोष तनयम् नित्यमद्भुताकारमास्थितम्।
बालचन्द्रोपमःपुत्रो ववृधे तस्य वेश्मनि।
बालक्रीडाम् बहुविधैः कुर्वन् प्रीतिन्तयोःपुनः।
इत्येवम् क्रीडमानन्तम् हरिमद्भुतकारिणम्।
पुत्ररूपम् शठारातिम् दृष्ट्वा चोभौ ननन्दतुः।
चूडाकर्मततश्चक्रे त्रितेयेब्धेप्रसन्नधीः।
वेदविद्भिर्विशेषज्ञैः ब्राह्मणैस्सहधर्मवित्।
ततश्चेकादशेवर्षे सकृत्वा मौञ्जिबन्धनम्।
तथोपदिष्टवान् ब्रह्म कृष्णद्वैपायनोमुनिः।
ब्राह्मणान् पूजयित्वा च भक्ष्यभोज्यैरनेकशः।
हिरण्यस्य सुवर्णस्य कृत्वा दानानि भूरिशः।
पूजिता द्विजमुख्याश्च जग्मुरेव यथागतम्।
ततो मेधाविनम् दृष्ट्वा सूर्याग्निस्समतेजसम्।
बुद्ध्याबृहस्पतेस्तुल्यम् चन्द्रवत्प्रियदर्शनम्।
सन्तोषममगमत्प्रीतः भार्यया सहभूपतिः।
ववृधे सततम्पुत्रह मात्रापित्रा च लाळितः।
पितृशुश्रूषणरतो मात्राशुश्रूषणे तथा।
सर्वेषाम् प्रियकारी च ब्राह्मणानामुपासिता।
शमादिगुण सम्पन्नो बुद्धिमान् सबभौमुदा।
भार्गवानाम् कुलेजातममन्यत गुरुम्स्वयम्।
सुनीतम् तम् गुरुम् भुध्वा वसन् गुरुकुलेसुधीः।
अध्येष्टवेदानखिलान् साङ्गोपनिषदस्तथा।
सकृन्निगदमात्रेण तदा जग्राह चाऽखिलम्।
अधीत्यसाङ्ख्यम् योगम् च गुरोर्दत्वा च दक्षिणाम्।
ज्ञानयोगेन महता शुकतुल्योऽभवत्सुधीः।
विदित्वा च जगत्सर्वम् ज्ञानात्ब्रह्ममयन्नृप।
बृह्मानन्दपराक्रान्तो निर्विण्णोब्रह्मणिस्वयम्।
सन्यस्य सर्वकर्माणि ब्रह्मणे वरतिम् वहन्।
बाह्यव्यापाररहितो निर्वेदम् परमङ्गतः।
उन्मत्त इव सौभूयश्चचारानन्द निर्भरः।
उन्मत्तभूतम् तम् दृष्ट्वा पितामाता च तस्य तु।
ज्ञानानन्दरसोपेतमविज्ञाय सुदुःखितौ।
मेधावी वेदशास्त्रज्ञो मम पुत्रो विचक्षणः।
तस्मादयम् महाप्राज्ञः उन्मत्त इव दृश्यते।
बाल्यऐवाखिलान्विद्याम् सकाशो देशिकस्य तु।
सकृन्निगदमात्रेण जग्राह तनयो मम।
मातरम् पितरञ्चैव तथा गुरुजनानपि।
शुश्रूषितस्म नित्याञ्चा द्योन्मत्त इव लक्ष्यते।
नचैव भाषते मात्रा पित्राचान्येन केनचित्।
भूतो भविष्य इत्येव ममन्यतपिता तदा।
पुरैवाहम् माधवेन कुरुङ्गेप्युक्तवानपि।
जातमात्रे कुमारे तु न वस्तव्यम् त्वया वने।
कोरकाख्ये व्रज क्षिप्रम् कुरुकायामितिस्त्वयम्।
तदतिक्रम्य वचनम् स्थितमत्रैवदुर्नयात्।
कुडुम्बिना मया नूनम् सप्राप्तमिदमीदृशम्।
इत्येवम् बहु सञ्चिन्त्य सभार्याश्च पुनःपुनः।
न कृतम् तद्वचस्तस्मात् सम्प्राप्तम् फलमीदृशम्।
उन्मत्तो मम पुत्रोभूताविष्टोऽथवाह्ययम्।
ब्राह्मणान्नयसम्पन्ना नाहूय सतु पुष्पवान्।
अयम् मम सुतो विप्राः वेदशास्त्रार्थपारगः।
विद्वान्विनयसम्पन्नो मेधावी शुभलक्षणः।
उन्मत्त इव विपेन्द्राः दृश्यते तनयो मम।
किमिदानीमयम्मत्तोभूतक्रोधवशत् स्वयम्।
ज्ञानाधिख्येन कर्माणि सन्त्यज्य विरतोपि वा।
बालस्य विरतिर्विप्राः कथम् ज्ञानपरिश्रमः।
विचार्य निग्रहोपायम् बदध्वमधुनास्यतु।
आक्षिप्तस्ताडितोवापि नखेदति नरोदति।
अपूर्वमपि यद्वस्तु तम् दृष्ट्वा नप्रमोदते।
समदुःखसुखेनूनम् भोजनार्थादनेऽपि च।
नकाङ्क्षते च यःकश्चित् भौजनम् यदिदीयते।
तदाभुञ्जति वस्त्रेऽपि च्छादितेन निवार्यते।
एवम् प्रवृत्तिरस्याथ पश्यान्युन्मायलक्षणम्।
एवम् विधम् सुतम् दृष्ट्वा जननीरुदतैभृशम्।
अस्यकर्मविपाकोयम् वदध्वम् मुनिसत्तमाः।
इति तद्वचनम् शृत्वा ब्राह्मणावेदपारगाः।
ऊचुःपरमसम्हृष्टा स्तपसा लब्धचक्षुषः।
मन्यते प्राकृतम् पुत्रमयम् राजा निजात्मजम्।
इति सञ्चिन्त्यमनसा सर्वेते द्विजपुङ्गवाः।
नोन्मादोवर्ततेह्यस्य नहि चित्तस्य विक्रिया।
तस्यामलात्मनोराजन् भूतपीडाम् न विद्यते।
पुत्रस्ते लोकनाथोयम् सर्वलोकनमस्कृतः।
आदिकर्तापरम्ब्रह्मा पुराणपुरुषोह्यसौ।
यन्मायया जगत्सर्वम् मोहितम् तस्य मायया।
मोहितस्त्वन्नरव्याघ्र स भार्यः पुत्र इत्युत।
मन्यसे सतु धर्मात्मा लोकानुग्रहकाम्यया।
पुत्रत्वन्तवगत्वा तु परामत्मनिचाव्यये।
निजरूपोरतिम्प्राप्य परमानन्दशेवधिः।
समदुःखसुखोनून मात्मरामश्चरत्यसौ।
अमुना सह गच्छत्वम् सभार्यः कुरुकामितः।
अयम् शेषी महाभागो शेषस्तु नगरूपवान्।
कुरुकायाम् वसत्वार्यस्तस्यमूले प्रसन्नधीः।
पद्मासनस्थोभगवान् ज्ञानमुद्राम् वहन्नसौ।
सभार्यस्य तव प्रीत्या श्रेयोबहुविधास्यति।
अत्र त्वया न भाषेत नकरोति च ते प्रियम्।
इति तेषाम् वचश्श्रुत्वा ज्ञानिनामतितौजसाम्।
विप्राणाम् पुनरेवाथ सस्मार हरिभाषितम्।
कुरङ्गे हरिणापूर्व मुक्तोहम् तस्य मायया।
नजानामि च तन्मोहात् पुत्रज्जातम् हरिम् स्वयम्।
अहम् पुत्रो भविष्यामि जातपुत्रोव्रजक्षणात्।
कुरुकामिति तेनोक्तम् वचनम् विस्तृतम् पुनः।
इति स्मृत्वा पुनर्हृष्ट स्सम्पूज्य द्विजसत्तमान्।
तैस्सार्धम् शिशुमानीय सभार्यःकुरुकाम् ययौ।
सौम्ये मैत्रेदिनैमुख्ये सुमुहूर्ते सुलग्नके।
दृष्ट्वा च तिन्त्रिणीवृक्षम् आदिनाथादि सूकरौ।
नमस्कृत्य ततःकारि सभार्यास्ससुतस्तदा।
अवसत् तत्र ताम् रात्रिम् ब्राह्मणैस्सह हृष्टधीः।
ततप्रभाते विमले ह्युदिते च दिवाकरे।
सभार्यस्सससुतश्चैव कारिःपुण्यजले शुभे ।
स्नातुकामोद्विजैस्सार्धम् अनन्ताख्यह्यनुत्तमे।
तीर्थे निमज्य तत्रैव शिवाम् सन्ध्यामुपास्य च।
दत्वा दानानि विप्रेभ्यः सभार्यःससुतःपुनः।
वाराहतीर्थमुख्येपि निमज्य विपुलाम् धनम्।
दत्वा द्विजेभ्यस्तत्पश्चात् नदीतीरेह्यनुत्तमे।
वराहस्य च तीर्थस्य प्रत्यक् पञ्चयुगान्तरे।
तीरमासाद्य ते सर्वेऽकथन् विविधाःकथाः।
स्थितास्तत्रान्तरे राज्ञ स्सूनुश्शठरिपुस्तदा।
नदीजलम् समागत्य तोयेनाप्लुत्य तज्जले।
अतिष्ठच्छङ्खराजोऽथ बहुभिःपरिवारितः।
सागरात्तु विनिर्गत्य स्वेच्छया दैवयोगतः।
शठारेः पादमूले तु शरणार्थी यथा नरः।
तथैवचागमत् तस्मिन् योगिनामपि दुर्लभे।
यदृच्छया पादमूले सद्यो निर्दूतकल्मषः।
शङ्खरूपम्परित्यज्य दिव्यरूपमधारयत्।
प्रसुप्तस्य शिरोदेशेविनिक्षिप्तम् ध्जनम् यथा।
कुत्रापि चलितुम् पङ्गोरशक्तस्य यथैव तु।
गङ्गाजलस्य सम्प्राप्ति स्तथा तत्पादसम्श्रयम्।
काकेनस्थीयमानस्य पातस्कालफलस्यच।
तथैव समनुप्राप्तम् शङ्खराजस्य तस्यच।
शठारिःपादसम्स्पर्शात् सद्यो निर्दूत पातकः।
दिव्यरूपधरोभूत्वा दिव्यनारी सुसम्वृतः।
विमानमधिरुह्याशु बालसूर्य इवोदितः।
अदृश्यत ततःसर्वे ब्राह्मणा नृपतिश्चसः।
सभार्यस्तत्र तम् दृष्ट्वा सर्वे प्रमुदिता भवन्।
ततश्शठारिस् तम् दृष्ट्वा भगवान् लोकपूजितः।
जानन्नपि च सर्वेषाम् प्रकाशयितुमात्मनः।
महिमानमिदम् प्राह विमानस्थमनिन्दितम्।
पुमाम्सम् को भवानद्य शठरूपी पुरा पुनः।
दिव्यम् रूपम् समास्थाय देववत् भासि निर्मलः।
अस्मात्ते शङ्करूपम् च दिव्यम् रूपम्पुनःकथम्।
सम्प्राप्तम् वद विस्तारम् परम् कौतूहलम् हि नः।
इति तद्वचनम् शृत्वा देवोवैमानिकोब्रवीत्।
इति अष्टाविम्शोऽध्यायः।
———————-
ऐकोनत्रिम्शोऽध्यायः must be eko
शङ्खराजः-
शृणु देव प्रवक्ष्यामि शठारे पूर्वजन्मनि।
ब्राह्मणो वेदसम्पन्नो जितक्रोधो जितेन्द्रियः।
पुत्रपौत्रसमायुक्तो धनधान्य समन्वितः।
गृहस्थोधर्मनिरतो पुत्रभार्यासमन्वितः।
अवसङ्गृहमुख्येऽहम् कदाचित् पर्यटन्यतिः।
मध्याह्ने गृहमायात स्तदा मम बुभुक्षया।
तमागतमभिप्रेक्ष्य पादौप्रक्षाल्यचासनम्।
दत्वागन्धाक्षतैस्सम्यगभ्यर्च्यान्नम् चतुर्विधम्।
दत्तम् सूपसमायुक्तम् षड्रसोपेतमुत्तमम्।
अग्रतस्तस्य पात्रेतु दृष्ट्वा केशमथोग्रधीः।
रोषेणमहताविष्टो मामवेक्ष्यस भिक्षुकः।
त्यक्त्वान्नम् परुषाण्युक्त्वा गृहम् त्यक्त्वा विनिर्गतः।
प्रसाद्यमानोपि मया प्रसादम् च चकारसः।
अशोधायित्वा तद्दत्तम् भार्यया मम सुव्रत।
यतीनाम् महतान्वापि ब्राह्मणानाम् तथैव च।
सव्यञ्जनमथान्नम् च शोधयित्वा प्रदापयेत्।
केशादिषितेचैवमन्ने कुप्यति निघृणाः।।
अभुक्ते निर्गतेतस्मिन् मम दुःखमभून्महत्।
भार्यामावृश्य नीत्वास्मिन्नुपवासम् कृतम् मया।
तेनकर्मविपाकेन नरका ननुभूयच।
पुनस्समुद्रे सजातः शङ्खराजो महामते।
तद्दिनोपोषणश्चापि तस्य पादोदकाप्लुतात्।
दृच्छयातु सम्प्राप्तः तव पाद समाश्रयम्।
बहुना परिवारेण सम्युतो मलयाचलम्।
सागरात्तु विनिर्गम्य गमिष्यामि धृडव्रत।
तदेतत्काकतालीय मनुप्राप्तम् ममानघ।
त्वत्प्रसादाद्विनिर्मुक्तोऽस्मि यति कोपोघतो शुभात्।
स्वस्तितेस्तु गमिष्यामि त्रिदिवम् देवपूजितम्।
इत्युक्त्वा ते प्रणम्याथ परिक्रम्यप्रदक्षिणम्।
त्रिदिवम् सजगामाशु स्तूयमानोऽमरोत्तमैः।
तस्मिन्विनिर्गतेसर्वे ब्राह्मणास्सच भूपतिः।
सभार्यास्सहिताःसर्वे प्रहृष्टा वाचमूचिरे।
अहोचित्रमहोचित्रम् शङ्खराजविमोक्षणम्।
यश्शठारिपदस्पर्शात् सद्यो निर्दूतकल्मषः ।
त्रिदिवङ्ख समनुप्राप्त श्शङ्खराज इतिस्तुतिम्।
कृत्वा तत्तीर्थमुख्यम् च शङ्खतीर्थमितिद्विजाः।
एतत्पवित्रमित्युक्त्वा सस्नुस्सर्वे द्विजोत्तमाः।
कारिस्सभार्यास्तत्पुत्रम् मेने नारायणम् विभुम्।
तत्पादसलिले तस्मिन् सस्नौ हृष्टःप्रसन्नधीः।
ततः शठारिस्सन्तुष्ट स्तयोर्ज्ञात्वा धृडास्सुधीः।
भक्तिम् तत्र ददौ मुक्तिम् योगिनामपि दुर्लभाम्।
मुक्तिम् प्राप्तेतु तस्मिन्स्तु सभार्या कृपयाहरेः।
शठारिमखिलाविप्रा स्तुष्टुवुर्दिविदेवताः।
पुष्पवर्षम् ववर्षुश्च साधुवादोमहानभूत्।
ततः शठारिविप्रेन्द्रैर्विष्णुभक्तैस्समन्वितः।
दक्षिणामुखमासीनो नगमूलेव्यवस्थितः।
ध्यायन्नारायणम् देव मादिनाथमनामयम्।
याममात्रन्ततस्थित्वाप्रणम्यपुरुषोत्तमम्।
पुनस्साङ्ख्येनयोगेनसमाधिमुपगम्यच।
ब्राह्मणैःक्षत्रियैर्वैश्यैः शूदैर्भागवतोत्तमैः।
सम्युक्तस्तिन्त्रिणीमूले कल्पमूले यथावशी।
तथैव चावसत् भूप प्रत्यञ्चोषसिप्रभुः।
स्नात्वा शठरिपुर्योगी शङ्खतीर्थेह्यनुत्तमे।
ढ्यानयोग समायुक्तो न्यवसत् सुसुखम् वशी।
तस्यैव वसतस्तस्य शठारेरमिततेजसः।
हम्सरूपधरोधर्मः परिचर्याम् चकारसः।
यत्रकुत्रापिगमने तमारुह्य सगच्छति।
ज्ञानोपदेशङ्कृतवाननेकेशा द्विजन्मनाम्।
शठारिस्तिन्त्रिणीमूले ज्ञानमुद्रासमन्वितः।
दिव्यज्ञानप्रदम् शृत्वा पद्मासनसमाश्रितम्।
आगतास्सर्ववर्णाश्च सर्वाश्रमनिवासिनः।
ज्ञानमुद्रायुतोज्ञानमुपदिश्य महामतिः।
ज्ञानदेशिक इत्येव पृथितोभूत् नृपोत्तम।
पाषण्डोपहतम् शृत्वा जगत्सर्वम् पराङ्कुशः।
आरुह्यहम्समतुलम् ब्राह्मणैर्बहुभिर्वृतैः।
तीर्थाटनापदेशेन गत्वाभूमण्डलम् प्रभुः।
विजित्यज्ञानयोगेन पाषण्डहतचेतसः।
मायावादरतान् विप्रान् सराजन्यान् सवैश्यकान्।
शूद्रानन्यान्निहन्त्याशु स्वकम् स्थाप्यमतम् भुवि।
श्रीवैष्णवसमृद्धम् च जगत्कृत्वाह्यनामयम्।
श्रीरङ्गम् प्रथमङ्गत्वा काञ्चीम् श्रीवैङ्कटाचलम्।
यादवाद्रिमयोध्याम् च गङ्गातटमनुत्तमम्।
गोदावरीम् तुङ्गभद्राम् यमुनाम् च सरस्वतीम्।
कावेरीम् वृषभाद्रिम् च सेतुमूलम् प्रविश्य च।
सेतुम् गत्वा पुनस्ताम्राञ्च क्षेत्राणितानि च।
महेन्द्रम् च कुरङ्गाख्यम् गत्वा तोताद्रिमेव च।
कैरळे च पुनर्गत्वा तत्र दृष्ट्वादिकेशवम्।
अनन्तशयनम् गत्वा पुनर्गत्वा जनार्दनम्।
तत्र तत्र च पुण्येषु क्षेत्रेषु विविधेषु च।
तीर्थेषु च सुरम्येषु स्नात्वा ध्यात्वा हरीन् सुधीः।
पाषण्डोपहतान् दृष्ट्वा विजित्यस्वमतान् पुनः।
विष्णुभक्तिप्रियान् सर्वान् जनान् कृत्वापरान्वशी।
पराणामङ्कुशोभूत्वा शठान् सङ्कुप्यभूरिशः।
ज्ञानोपदेशमतुलम् कृत्वा ब्राह्मण सम्वृतः।
पुनरागम्यकुरुकाम् तिन्त्रिणी मूलमाश्रितः।
दिव्यदेशाननुस्मृत्य विष्णुप्रीतिसमन्वितान्।
ध्यात्वाऽऽदिनाथम् देवेशम् लोकानुग्रहकाम्यया।
श्रीगुरोरादिनाथस्य प्रसादादतुलप्रभः।
ऋग्वेदम् च यजुर्वेदम् सामवेदमथर्वणम्।
साङ्गोपनिषदस्सर्वान् निगमान्विश्वहेतवे।
तदाद्राविडरूपेण चकार चरितव्रतः।
कलौ दोषाकरेनित्यम् जन्तूनामविवेकिनाम्।
तारकम् द्राविडम्ब्रह्म चक्रे शठरिपुस्तदा।
सर्ववर्णाश्रमाणाम् च स्त्रीणामप्यन्त्यजन्मनाम्।
उपकाराय चक्रेसौ द्राविडीम् ब्रह्मसम्हिताम्।
लोके प्रचारयामास सर्वे जगृहिरे तदा।
यत् द्राविडागमाभ्यासीद्दशपूर्वान् दशापरान्।
कुलान् तारये मर्त्यः सर्वे निरयवासिनः।
तीर्णा वैकुण्ठमेवाशु जग्मुरेवजनाधिप।
यमस्य नगरीशून्या ततः क्रुद्धोऽभवत् यमः।
शठारिमुपसङ्गम्य वाचमूचे जनाधिप।
ममनास्त्यधिकारेव शून्या ममपुरी विभो।
महापातकयुक्तोपि मामुत्सृज्य हरेःपदम्।
गमिष्यति कुरुक्षिप्रम् ममान्यत् प्राभवम् मुने।
यमस्य वचनम् शृत्वा शठारिःप्रत्युवाच तम्।
मायावादरताये च प्रभुस्तेषाम् भवप्रभो।
नूतनत्वादधीयन्ते गच्छ मच्छासनाद्यम।
द्वैषरागविनिर्मुक्ता येऽभ्यस्यन्ति मानवाः।
चक्राङ्किता महात्मान स्तेयान्ति परमाङ्गतिम्।
इति तद्वचनम् शृत्वा प्रणम्य शठवैरिणम्।
जगामस्वपुरम् शून्यम् जनघोषविवर्जितम्।
गते तस्मिन् यमेभूय श्शठारिर्द्राविडागमम्।
लोके प्रचरयामास धर्माख्यानमनुत्तमम्।
शठरिपुरमलात्मा मायिनस्तान्विजित्य
द्रविडनिगमसारैः पावनीकृत्य मर्त्यान्।
अनयदमलमार्यो वैष्णवम् लोकमुख्यम्
यमपुरमथमर्त्यैश्शून्यमेव प्रचक्रे।
स तिन्त्रिणीवृक्षमुपाश्रितस्सन्
महानुभावो हृदये जनार्दनम्।
ध्यायन् द्विजेन्द्रैर्हरिभक्तियुक्ति
स्वहैव तत्रन्यवसत् सुखम् वशी।
इति क्षेत्रकाण्डे द्राविडागम प्रशम्सा नाम एकोनत्रिम्शोऽध्यायः।
त्रिम्शोऽध्यायः
सनक:-
कमला तु हृषीकेशम् कुरुकायामवस्थितम्।
ब्रह्मचर्यव्रतोपेतम् पद्मासनगतम् पतिम्।
वशिम् वरदम् दृष्ट्वा ज्ञानमुद्रासमन्वितम्।
शठारिरूपिणम् तत्र शेषञ्च नगरूपिणम्।
तन्मूले ज्ञानयोगेन ध्यानचित्तमवस्थितम्।
हम्सरूपम् गरुत्मन्तम् दृष्ट्वानित्यानपायिनी।
रात्वा तु कुरुकाम् लक्ष्मीस्ताम्रास्तटवने शुभे।
अनन्ततीर्थ पुरतः चचार सु महत्तपः।
तपस्यन्ती तु ताम् दृष्ट्वा शठारिर्वीतकल्मषम्।
उवाच तत्र गत्वा तु किमर्थम् कमलेशुभे।
तपश्चरसि माम् विद्धि वशिनम् ब्रह्मचारिणम्।
एवमुक्त्वा तु कमला वशिना शाथवैरिणा।
ऊवाचवचनम् श्लक्ष्णम् रमा दैन्येन चेतसा।
किमुत्सृजसि माम् देव भक्ताम् त्वत्पादसम्श्रयाम्।
मामनन्यपराम् भूयस्सन्त्यक्तुन्नार्हसि प्रभो।
इति दुःखपराम् दृष्ट्वा शठारिःकृपया पुनः।
उवाचवचनम् मन्दम् भूयाः वकुलमालिका।
ब्रह्मचारीत्वयारन्तुम् यमित्वान्नोत्सहे प्रिये।
इदम् च तीर्थमुख्यम् च श्रीतीर्थम् भवतुप्रिये।
येत्वत्र च निमज्जन्ति भवन्तु यमिनोबृशम्।
इत्युदीरितमाकर्ण्य प्रिया भर्तृहितैषिणी।
तथेति चक्रेनिखिलम् तदुक्तम् वरवर्णिनी।
भूत्वा च कमलासुभ्रूः स्वयम् वकुळमालिका।
अदृश्यत तदा तत्र सुमनोज्ञेति निर्मला।
तान्दृष्ट्वा सहसाभूप शठारिरमितप्रभः।
कण्ठेच धारयामास योगिनाम् प्रवरस्तदा।
साधुवादोमहानासीत् ब्राह्मणानाम् तपस्विनाम्।
देवदुन्दुभयोर्नेदुः पुष्पवृष्टिर्महत्यभूत्।
विरराजमहातेजाश्शठारिर्मालया तया।
वैजयन्त्या यथाविष्णुर्मालया शुशुभे पुरा।
श्रीपुरम् चाभवद्राजन् तदाप्रभृति तत्पुरम्।
कमलानगरम् सर्वम् शठारिप्रीतये पुनः।
व्याप्येव तिष्ठती नित्यम् पुरश्रीपुरधारिणी।
रराज नगरी सा च रूपिणीकमलायथा।
दरिद्रस्तु द्विजःकश्चित् श्रीतीर्थेस्म निमज्जति।
अचिरादेव स श्रीमानभवन् नृपसत्तम।
शूद्रःकश्चिन् नृपश्रेष्ठ पतितोऽथ यदृच्छया।
निमज्यानन्त तीर्थे च सद्यो निर्दूतकल्मषः।
विमानवरमास्थाय जगामत्रिदिवम् पुनः।
शठारिरपि धर्मात्मा बिभ्रद्वकुळमालिकाम्।
षोडशाब्दे ततः प्राप्ते पद्मासनगताम् तनुम्।
ज्ञानमुद्राम् वहन्तीम् च तिन्त्रिणी नगमुत्तमम्।
शठारिम् तम् महाभागम् तत्र सान्निध्यकारणम्।
शठारिबिम्बमतुलम् ज्ञानमुद्रासमन्वितम्।
विराजमानम् सततम् तदा वकुळमालया।
तदा भागवताविप्राः राजानश्च विशस्तथा।
शूद्राश्च सततम् नत्वा द्राविडीम् ब्रह्मसम्हिताम्।
अभ्यस्य शङ्खतीर्थे च स्नात्वा तम् शठवैरिणम्।
आदिनाथ हरिम् तत्र तिन्त्रिणी नगमेव च।
पूजयन्तस्समर्चन्तःप्राप्ताःकैवल्यमुत्तमम्।
ऐतच्छृत्वा तु पाण्ड्यानामधिपो नृपसत्तम।
धर्मसार इति ख्यातः सर्वविद्धर्मवान् शुचिः।
श्रीपुरम्म् सतु तत्गत्वा शठारिम् तिन्त्रिणीनगम्।
आदिनाथम् नमस्कृत्य शङ्खतीर्थेह्यनुत्तमे।
दत्वा दानानिमुख्यानि कृत्वा ब्राह्मणभोजनम्।
वसन्ते समनुप्राप्ते वैशाखेमासि भूमिप।
ऊत्सवम् कारयामास धर्मविद्धर्महेतवे।
अलङ्कृत्यपुरस्सर्व मभिषिच्य नदीजलैः।
शङ्खतीर्थाहृतैश्चैव वेदपुण्याह वाचकैः।
स्नापयित्वा शठारातिमलङ्कृत्य ततश्शुभैः।
दिव्यैश्चाभरणैर्वस्त्रै रलङ्कृत्यशुचिःपुनः,
अलङ्कृत्यपुनश्चैव तथा वकुळमालया।
धूपदीपैश्चगन्धैश्च भक्ष्यभोज्यैरनेकशः।
नैवेद्यैर्विविधैश्चैव तथा नीराजनादिभिः।
उपचारैस्समभ्यर्च्य ब्राह्मणानाम् प्रदाय च।
स्वर्णान्नवस्त्रदानानि वैशाखे मुख्यतारके।
एवम् कृत्वा सराजर्षिः प्रतिवर्षम् मुदान्वितः।
पुत्रपौत्रसमायुक्तो धनधान्य समन्वितः॥
अधीत्य द्राविडीन्ताम् च सम्हिताम् वेदसम्मिताम्।
इहलोके सुखीभूत्वा विष्णुसायुज्यमापसः ।
एतत्सर्वम् महाराज कलेरादौ भविष्यति।
आगामिनीम् कथाम् पुण्याम् तव सर्वगुणान्विताम्।
शृण्वतो हृदयेकिञ्चित् वर्तते तच्छकथ्यताम्।
सन्देहो नच कर्तव्यः प्रवक्ष्यान्यखिलम् तव ।
इत्युदीरितमाकर्ण्य राजा विपुलविक्रमः।
परितुष्टः प्रसन्नात्मा शठारि कथयापुनः।
भविष्यत् कथयातृप्तिर्हरे लीलातिरम्यया।
नजायते पुनः कोनु शङ्खतीर्थे ह्यनुत्तमे।
स्नात्वा शठारिम् सम्पूज्य मुक्तिम् प्राप्तोमहातपाः।
तद्ब्रूहि मम योगीन्द्र यदि मे करुणा तव।
नृपस्य वाक्यम् तनयो निश्म्य धातुस्तदा भागवतःप्रधानः।
उवाचवाक्यम् वृकमुक्तिहेतुम् धर्म्यम् यशस्यम् निखिलार्थसिद्धिम्।
इति त्रिम्शोऽध्यायः।
………….
एकत्रिम्शोऽध्यायः
सनकः-
शृणुराजन् प्रवक्ष्यामि वृकमोक्षणमद्भुतम्।
धर्मसारो महाप्राज्ञः शठकोपस्य योगिनः।
स्वर्णान्नदानसम्पूर्ण वस्त्राभरण दानतः।
पूजयन्ब्राह्मणान् सर्वान् चके तस्य महोत्सवे।
अलङ्कृत्यपुरीम् रम्याम् पताकाध्वजशालिनीम्।
श्रीपुरीमभितो राजा चन्दनाऽगरु धूपिताम्।
तोरणाऽलङ्कृताम् कृत्वा वितानवरशोभिताम्।
गीतवादित्रनिर्घोषैर्नट नर्तक सङ्कुलैः।
पूरुहूतपुराकाराम् चकार कमलापुरीम्।
एवम् तु वर्तमाने च वेदवित्भिर्महीसुरैः।
कृतैर्निगमघोषैश्च द्राविडागम निस्वनैः।
पूरिता सा पुरीरम्या दिविदेवपुरी यथा।
रराज नृपतिश्रेष्ठ सर्वकामसमृद्धिनी।
तस्याम् पुर्याम् महातेज तेन राज्ञाकृतोत्सवः।
रत्नासनगतः श्रीमान् सर्वाभरणभूषितः।
शठकोपो विरुरुचे तया वकुळमालया।
श्रियासार्धम् यथाविष्णुः प्रभया भास्करोयथा।
कण्ठस्थाया महाराज! सजा च ज्ञानमुद्रया।
पद्मासनगतो रेजे ज्योत्स्नया चन्द्रमा यथा।
महोत्सवे वर्तमाने तूर्यघोषनिनादिते।
वेदघोषसमायुक्तो नटनर्तकगायकैः।
सङ्कुले तत्रचायातस्तस्य राज्ञश्च पश्यतः।
वृकोमहान्दुराधर्षः काननात्सुसमागतः।
यदृच्छयागतस्थोऽथ शङ्खतीर्थे जलाप्लुतः।
सिम्हव्याघ्रभयत्रस्तः समागम्य नदीतटम्।
क्षुत्पिपासा परिश्रान्तोदैवयोगात् वृकस्तदा।
शङ्खतीर्थे निमज्यापः पपौ पुनः।
श्रीपुरम् तत्प्रविश्याऽथ महाजनसमाकुलम्।
ज्ञानमुद्राधरस्यास्य समीपमुपगम्य च।
ब्राह्मणैःक्षत्रियैर्वैश्यैश्शूद्रैर्बहुभिरावृतः।
तत्समीपमसौ दृष्ट्वा विनिर्गम्य नृपोत्तम।
शठारिमादिनाथम् च तिन्त्रिणीवृक्षमुत्तमम्।
प्रदक्षिणम् परिक्रम्य पुनश्च जनसम्सदि।
मार्गनाशाद्विनिष्क्रम्य तद्देशम् समुपागतः।
तमागतमभिप्रेक्ष्य राजभृत्यास्त्वरान्विताः।
राज्ञश्शासनमाज्ञाय विदृवन्तिस्म तम् वृकम्।
स विदृतोभयाद्दूरमपतत् तृणसम्वृते।
पाताळसदृशेकूपे ममारच ततःपरम्।
मृते तस्मिन् भटास्तत्र तूष्णिमेव च तस्थिरै।
एतस्मिन्नन्तरे तत्र ददृशुर्दिव्यमद्भुतम्।
विमानम् सूर्यसङ्काशम् तदारुह्यवृकःस्वयम्।
दिव्यम् वपुस्समास्थाय दिव्यस्रग्गन्धभूषणः।
स्तूयमानोप्सराभिश्च रराज स तु देववत्।
तम् विमानगतम् दृष्ट्वा भटाश्शीघ्रम् नृपस्यतु।
समीपमुपसङ्गम्य ऊचुर्वाक्यमनन्तरम्।
विद्रितस्तु वृकोऽस्माभिः राजन् दूरात् तृणावृते।
कूपेतु पतितस्थोथ ममारसहसापुनः।
तत्रस्थिता वयम् सर्वे तूष्णीमेव महीपते।
तस्मिन् क्षणे हि पश्यामो विमानवरमुत्तमम्।
दिव्यरूपधरोभूत्वा वृकस्तदधिरुह्य सः।
विराजते महाभाग देवराजसमप्रभ।
तच्छृत्वा धर्मसारोपि पाण्ड्यानामधिपो बली।
विस्मयम् परमम् गत्वा पृशशम्स महामनाः।
शठारातिम् महीपालो ज्ञानमुद्राधरम् हरिम्।
विशेषात् प्रीतिसम्युक्तो ज्ञानसारम् कृपानिधिः ।
विविधैरुपचारैश्च पूजयामास धर्मवित्।
सनकः-
सविमानम् ततो राजन् शठारिम् तिन्त्रिणीनगम्।
प्रदक्षिणम् परिक्रम्य विष्णुदूतैस्समन्वितः।
विष्णुलोकजगामाशु प्रासादात् शठवैरिणः।
शङ्खतीर्थजल स्नानात् जगामगतिमुत्तमाम्।
पापीयाननभिज्ञोपि वृकोमोक्षमवाप सः।
पूर्वजन्मनि दुर्वृत्तः किरातोऽसौ जनाधिप।
प्राणिहिम्सारतो नित्यम् तथापि खलुलुब्दकः।
ब्राह्मणम् वेदसम्पन्न मध्वश्रान्तन्तपस्विनम्।
वर्षातपपरिक्लिन्नम् श्रान्तञ्चामिततेजसम्।
कृपया परयायुक्तो दैवयोगात् सलुब्धकः।
पर्यपालयतक्षिप्रम् तेन पुण्यप्रभावतः।
काननस्थस्य तस्यापि जातम् राजन् नदीजले।
स्नानम् पानम् शठारातेस्सेवनम् मुक्तिहेतुकम्।
एतत्सर्वमनुप्राप्तम् ब्रह्मवित् परिपालनम्।
दर्शनात्ततो भवेत् बन्धो मुकुन्दचरणैषिणाम्।
ब्राह्मणानाम् महाराज! तस्य पापीयसोऽपि च।
ब्रह्मवित् पालनादेव प्राप्तोप्यशुभकर्मणः।
प्राणिहिम्सारतिफलम् वृकरूपम् जनाधिप।
तत् प्राप्यापि पराम् मुक्ति मवाप द्विजपालनात्।
भाविकार्यम् समस्तम् ते मयागीतम् तवानघ।
धर्मसारोपि तम् दृष्ट्वा वृकमोक्षणमद्भुतम्।
दृष्ट्वा प्रीतिसमायुक्तो जगाम गतिमुत्तमाम्।
एवमन्ये च राजानो ब्राह्मणाः क्षत्रियाविशः।
शूद्रास्त्रियोऽन्त्यजातिश्च शठारिम् तिन्त्रिणीनगम्।
प्रणम्य शङ्खतीर्थे च स्नात्वा सिद्धिम्पराङ्गताः।
अङ्गनाकुलटाकाचित् भर्तारम् विविधौषधैः।
वशीकृत्य तु जारेण साकम् रेमे जनाधिप।
तस्यास्तु वशमापन्नो भर्ततान्नभ्यसूययत्।
एवम् तु वर्तमानायाम् तस्यजारो महीपते।
सर्पदष्टोमृतस्तस्सोऽथ परदाररतिर्नृप।
तस्मिन् मृतेच कुलटा स्वभrthraaसह निर्वृता।
शङ्खतीर्थेऽनिशम् स्नात्वा प्रणम्यशठवैरिणम्।
अभ्यस्यद्राविडम् वेदम् जगाम गतिमुत्तमम्।
एतम् सर्वम् च कल्यादौ भविष्यति नृपोत्तम।
आगामिनी कथाप्रोक्ता वर्तमाना च भूमिप।
अतीता च मयाप्रोक्ता कथाते शार्ङ्गधन्विनः।
पुण्यम् यशस्यमायुष्यम् पुत्रपौत्रसमृद्धिदम्।
धर्मार्थ काममोक्षर्थी शृत्वा सर्वानवाप्स्यति।
एतदाख्यानमायुष्यम् विष्णुप्रीतिकरम् शुभम्।
श्रद्धदानोजितक्रोधो दुर्गाण्यतितरत्यसौ।
सूतः-
विरिञ्चितनयेनोक्तम् कथाम् शृत्वा नृपोत्तमः।
प्रदक्षिणम् परिक्रम्य प्रणम्य च पुनःपुनः।
पादावनेऽजिनीरापः पीत्वा च स कुडुम्भवान्।
विविधाभिश्च पूजाभिरभिपूज्य प्रणम्य च।
तूष्णीम् मुनिगनाः राजा स्थितोऽभूत्प्रीतमानसः।
पूजितस्तेन राज्ञातु धात्रिसूनुरकल्मषः।
आशीर्भिरभिनन्द्याशु तमनुज्ञाप्य भूमिपम्।
ज़गाम सत्यलोकम् स ब्रह्मणस्सदनम् पुनः।
विनिर्गते मुनौतस्मिन् राजाबलवताम् वरः।
सान्तःपुरस्सहामात्य स्सपुरोधा मुनीश्वराः।
ताम्रातटमुपागम्य रम्यपुष्प फलोदकम्।
वैकुण्ठादीनि मुख्यानि क्षेत्राणि मनुजाधिपः।
तत्र तत्र च तीर्थेषुस्नात्वा विष्णुम् प्रणम्य च।
दत्वा दानम् बहुविधम् कृत्वा ब्राह्मण भोजनम्।
अनन्तक्षेत्रमासाद्य कल्पद्रुम समन्नगम्।
तिन्त्रिणीवृक्षमुख्यम् च साक्षाच्छेषाकृतिम् द्विजाः।
अनन्ताख्ये ततस्तीर्थे ह्यनन्तफलदायिनी।
स्नात्वा वाराहतीर्थे च प्रीत्याहुतहुताशनः।
इष्टा च यज्ञमतुलम् अनन्तफलदायिनम्।
आदिनाथम् वराहम् च तिन्त्रिणीनगमुत्तमम्।
प्रदक्षिणम् परिक्रम्य नमस्कृत्यपुनःपुनः
दत्वादानानि भूरीणि पुनःप्राप्यस्वमालयम्।
सपुत्रपौत्रसम्युक्तो जगामगतिमुत्तमाम्।
एतत्सर्वम् मुनिश्रेष्ठ स भविष्यम् हरेर्मया।
चरितम् कृत्स्नमेवैतत् क्षेत्रमाहात्म्य मेव च।
कथितम् विस्तरेणैव सर्वाघहरमद्भुतम्।
नवक्षेत्राणि राजन्ते खे यथा च नवग्रहाः।
शृतिसुखमनुगीतम् सूतपुत्रस्य वाक्यम्
मधुरमतिरहस्यन्नैमिशीयामुनीन्द्राः।
मुनिवरमुपचारैः सम्यगाकर्ण्यहृष्टाः तदनु
मधुरावाग्भिः पूजयन्तिस्म पूज्याः।
इति श्रीबृह्माण्डपुराणे क्षेत्रकाण्डे कुरुकामाहात्म्ये एकत्रिम्शोऽध्यायः।
कुरुका नवतिरुपति माहात्मियम् सम्पूर्णम्।।
————————–
श्रीभूमिनीळा आदिनायिका कुरुकूर्नायकीसमेत श्रीआदिनाथ परब्रह्मणे नमः।
श्री शठकोपसूरये नमः ।
श्रीमतेरामानुजायनमः ।
श्रीमद्वरवरमुनये नमः ।
श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे आदिनाथ शठकोपसूर्याः अवतारवैभवाः सम्पूर्णम् ।
एवमेतत्पुरावृत्तम्माख्यानम् भद्रमस्तु वः।
प्रव्याहरतविस्रब्धम् बलम् विष्णोःप्रवर्धताम् ।
श्रीनगर्याम् महापुर्याम् ताम्रपर्ण्युत्तरेतटे।
श्रीतिन्त्रिणीमूलधाम्ने श्रीशठकोपाय मङ्गळम् ।
कायेनवाचा मनसेन्द्रियैर्वा बुद्ध्यात्मनावा प्रकृतेस्स्वभावात्।
करोमि यद्यत्सकलम् परस्मैनारायणायेति समर्पयामि।
सर्वम् श्रीकृष्णार्पणमस्तु।
——————————————————-