यादवाद्रिदर्शनम् Part 2
श्रीयदुगिरिनायकीस्तवः
वाधूल–श्रीनिवासार्य–कृपासंपन्न–वैभवम् ।
कौशिक–श्रीनृसिंहार्यं कल्याणगुणमाश्रये ।।
श्रियं देवीमशरणश्श्रये संश्रित-वत्सलाम् ।
पत्न्या यया भगवतः पारम्यमवगम्यते ।। (१)
ईषदुन्मिषितापाङ्गायत्त-तत्त्वत्रयोदयाम् ।
यतिराजस्नुषामिडे यदुशैलेशवल्लभाम् ।। (२)
क्षीराम्भोधितपःफलं कमलिनी-सौगन्ध्य-सारोदयः
सर्वस्वं पुरुषोत्तमस्य शरणं चास्माकमार्द्रागसाम् ।
माङ्गल्यं भुवनोदरस्य महिमा वात्सल्यकारुण्ययोः
क्षेमायास्तु सदा समस्तजगतां श्रीर्यादवाद्रीश्वरी ।। (३)
मादृक्षशिक्ष्यजनतत् क्षणरक्षणाय
प्रेयोनि-योजनचणप्रणयावलोकाम् ।
नारायणप्रणयिनीं यदुशैलनेत्रीं
देवीमनन्यशरणः शरणं प्रपद्ये ।। (४)
हे श्रीः श्रीयादवाद्रीश्वरि तवशिशिरापाङ्ग-संपर्कधन्याः
त्रय्यान्तैः सेतिहासैः नयपथि युवयोस्तत्त्वमध्यक्षयन्ति ।
सिद्धोपायोऽनपायो हरिरितरसहायासह स्त्वन्तुतस्य
स्वातन्त्र्यं न्यञ्चयन्ती जननि पुरुषकारोऽसि तद्वल्लभेति ।। (५)
उद्घोषयत्पूरुषकारभावम् उपेयभावं सहजं भवत्याः ।
तन्मन्त्ररत्नं यदुशैलबन्धावेकान्तमिन्दे त्वदनन्यबन्धात् ।। (६)
म्रदिमसुशीलतासुलभताश्रितवत्सलता
प्रणयदयाप्रसाद ऋजुतादि महार्घगुणान् ।
अयि जननि त्वदेकनियतानुपजीव्य विभुः
यदुगिरिदीपिके भजति संश्रयणीयदशाम् ।। (७)
मातः श्रीयदुभूभृदङ्कणमणीमञ्जर्ययन्ते पतिः
फुल्लत्त्वत्पदपद्म-संभृतरजस्सौगन्ध्य-सन्धुक्षितः ।
श्रीमानस्तसमाधिकः प्रतिहतावद्यो गरीयान् गुणैः
भूमा मङ्गळमङ्गळं ननु परं ब्रह्मेति जोघुष्यते ।। (८)
परव्यूहभेद-प्रभिन्नात्मकान्तानुरूप-स्वरूपस्वभावानुभावा ।
सदाभोगली लेसमुल्लासयन्ती प्रियङ्गाहसे लक्ष्मि भद्रायनस्त्वम् ।। (९)
नित्यापूर्वनिमेषनिस्सहमिथो लावण्यसारोदया
स्वादप्रस्तुत-निस्तरङ्गजलधिस्तेमित्यमत्यद्भुतम् ।
द्वन्द्वस्तद्यदुशैलनेत्रि युवयोरद्वन्द-मंक्ष्णांशतैः
दिव्ये धामनि सूरयश्चुलकयन्त्याबद्ध-दास्योत्सवाः ।। (१०)
प्रच्छायस्मितकंबुकंधर-लसद्दोर्वल्लितुङ्गस्तन-
प्रक्षीणोदरबन्धुरोरुयुगळप्रोन्निद्रपादांबुजम् ।
कौमाराञ्चितयौवनाङ्कुरदशं लावण्य-सारन्तरां
इन्दे श्रीयदुशैलनाधरमणि त्वद्गात्रमीषन्नतम् ।। (११)
चूडोत्तंस-किरीटरत्न-मकुटी-लालाटनासामणी
ताटङ्कां गद-हार-कङ्कणकणत्काञ्चीरणन्नूपुराः ।
दिव्यस्रग्वसनाङ्ग-राग-मकरीपत्रादयो वा यदु-
क्ष्माभृन्मङ्गळ-देवते तव वपुर्वाऽलङ्क्रियाशंसनः ।। (१२)
हारिद्रचूर्णकलितोल्लसदिन्दुलेखा-
सौभाग्यशालितिलकं सुवसन्नतभ्रु ।
आकर्ण-नेत्र-मनिशोदित-मन्दहास-
मम्ब त्वदानन-मनुक्षण-मीक्षिषीय ।। (१३)
नेतुर्विभूतियुग संसृतिसारखण्डाः
तत्पुण्डरीक-नयनत्वयशोनिदानम् ।
मादृक्षदोषगणनावसरानन्तयाः
जीयासुरम्ब तव वीक्षणयोर्विलासाः ।। (१४)
श्रीमत्याङ्गिक-सौष्ठवे जननि वा लावण्यपूरे मनो
वाग्दूरे तव सौकुमार्य-विभवे सौन्दर्यसंपद्यपि ।
यद्वद्रीश्वरि विभ्रमभ्रमिषुवा का वा दशा मज्जतः
कान्तान्तःकरणस्य तावकदृशोः प्रान्ते पुनः कूणिते ।। (१५)
शीलादेकरसं द्रुतं करुणया स्वामित्त्वतस्सत्त्वरं
व्रेम्णाक्षुब्धमनीश-मुत्सुकतया वात्सल्यपर्याकुलं
मातस्स्वामिनि यादवाद्रि-रमण-प्राणप्रिये ते मनः
शंसत्येवदृशोर्युगं श्रितजने सौहार्द-कूलङ्कषम् ।। (१६)
मन्दस्मितेन मम चेतयसीव जीवं
आलोकितै-रमृतवर्षण-मिवादधासि ।
मय्याश्रिते यदुगिरीश्वरि किन्नु धत्से
वात्सल्य संभ्रममथोत्सुकितेव धेनुः ।। (१७)
निस्सीमभूमकरुणापरिणाहवद्भिः
निम्नोन्नत-क्रमनिसर्ग-पराङ्मुखीनैः ।
वात्सल्यसार-मतिवाङ्मनसं वहद्भिः
मातर्निरन्तरयमां मधुरैरपाङ्गैः ।। (१८)
अभयवरदहस्ता-वस्मदाश्वासहेतोः
इतरकमलहस्तावीश्वरावर्जनाय ।
द्वयमिदमभिनन्दन्त्यम्ब नूनं तवैते
स्मितवदनविशालापाङ्गसुभ्रूविलासाः ।। (१९)
यदुगिरिरमणोरस्सौध-सौभाग्यमेतत्
निखलनिगमशाखापल्लवोल्लासि-कल्पम् ।
शरणमशरणानां शाश्वतं दैवतं नः
तव चरणयुगं श्रीस्सन्ततं सन्निधत्ताम् ।। (२०)
निखिलचिदचिद्व्यापिन्यात्मेश्वरेप्यनपायिनी
सुरनरसमे देवे तत्तद्विहारसहायिनी ।
दशमुखपुरीबन्दीभावे किमित्यकृथामतिं
द्रवयसि मनो येनार्याणां जनन्यतिवत्सला ।। (२१)
कूपोपान्तचरे शिशाविव महापायैकताने चिरात्
जीवे संसरति त्वमम्ब चकिता कृत्वाऽवतारान्बहून् ।
तत्तत्कालिक-गोपनौपयिकता माभूदितीवान्वहं
नाथेनानुगता यदुक्षितिधरे बध्नासि नस्सन्निधिम् ।। (२२)
अभिमतिमनयन्निमां देशिकाः
प्रभवति भवतीति विस्त्रम्भिताः ।
अहमहह सुदुर्भरस्तद्भृशं
जननि जयति सांप्रतं तेदया ।। (२३)
अस्माकं जननी जगत्रयगुरोः रामानुजस्य स्नुषा
विश्वं यस्य वशे स एष भवति भ्रूकिङ्करो नः पिता ।
इत्थं बद्धशतैश्च वत्सलतयाप्येतत्परं प्रार्थ्यते
यत्स्यामत्र परत्र चापियुवयोरेकान्त-विस्रंभभूः ।। (२४)
इति श्रीकौशिककुलतिलक–श्रीशैलसूरिकृतिषु यदुगिरिनायकी–स्तवः संपूर्णः
यदुगिरिनारायणस्तवः
आशासे षट्पदा मोदवहां गुरुपरम्पराम् ।
श्रीनारायण-पादाब्ज-मधुधारामिवापराम् ।। (१)
एधतां यतिराजस्य साम्राज्यं सर्वतोमुखम् ।
यत्र संपत्कुमारोऽपि युवराजपदास्पदम् ।। (२)
वन्दे भगवत: पादूंवकुळामोदमेदुराम् ।
तत्पदामर्श-संपन्न-मञ्जुशिञ्जामनोरमाम् ।। (३)
स्वामी सुशीलस्सुलभः सर्वज्ञः सर्वशक्तिधृत् ।
वत्सलो यत्सहायस्तां वन्दे यदुगिरीश्वरीम् ।। (४)
अस्ति स्वस्तिवहं लक्ष्मी संस्तुतं वस्तु निस्तुलम् ।
भूनिळास्तनकस्तूरी भूषितं यदुभूधरे ।। (५)
समिन्धे श्रीतनुलतास्वर्णसंबन्ध बन्धुरः ।
यदुभूधर-कोटीर-स्फुरमरकताङ्कुरः ।। (६)
ईक्षे प्रतिक्षणं लक्ष्मीपदलाक्षारसोक्षितम् ।
श्रीयादवाचलशिखाशेखर-श्यामलोत्पलम् ।। (७)
परेषां शङ्खचक्राद्यैः स्वेषामभयमुद्रया ।
हितं प्रियं च कलयन् पायाद्यदुगिरीश्वरः ।। (८)
यदभ्यस्तानन्दाऽमृतजलधिकल्लोलकणिका
रसास्वादाध्माता श्रुतिरपि विहस्तानिविवृते ।
स्वकीयं सार्वज्ञं प्रभवति नयस्य स्वविषये
यदुक्ष्माभृन्नाथं तमहह वयं स्तोतुमुदिताः ।। (९)
गन्तुं वर्त्मगरुत्मतः प्रयततां खञ्जस्वयं जानुना
वोढुं वल्गतु दुन्दुभः स्वशिरसा शैषीमशेषान्धुरम् ।
स्वैरं प्रक्रमतां वितस्ति विमितस्त्रैविक्रमान्विक्रमान्
आचार्यैः स्तुतमास्तुमोवयममी श्रीयादवाद्रीश्वरम् ।। (१०)
अहहगणनांन्यक्कुर्वाणा गुणा यदुभूमिभृत्
परिबृढकथं सोढारस्ते पुनस्स्तुतिसाहसम् ।
अपि तु भगवन्नेते स्वैरं यतीशवशंवदाः
सरस-मधुरस्मेरा-संपत्यतोयमुपक्रमः ।। (११)
वार्क्षं माक्षिक-माजिघृक्षति न किं खर्वोनवादित्सते
बालः किं शशिनं सिषाधयिषति श्रेयो न किं वालसः।
तुष्टूषामितरां तथा यतिपतेः संपत्स्तुतं किन्तु तत्
सर्वं प्राप्य रुचिप्रकर्षजमिति प्राज्ञस्समाधित्सतु ।।(१२)
अपि च मम वचांसि प्रायशो वेदवादात्
अपि यदुकुलनाथं स्वैरमावर्जयन्ति ।
न किमु मृगमदेन्दुस्मेर-काश्मीरलेपा
दपि रमयति गोष्ठापान्त-जम्बालचर्चा ।। (१३)
प्रियं कुलधनं प्रभुं पितरमीश्वरं मातरं
गुरुं प्रणतवत्सलं परमबन्धुमापत्सखम् ।
यदुक्षितिधरोपरि व्यवसितात्मदानं न को
यतिप्रवरनन्दनं हृदयचन्दनं वन्दते ।। (१४)
महसान्निधये त्रयीशिखामणये मङ्गळमङ्गळात्मने ।
यदुभूधर-शृङ्ग-बन्धवे स्पृहयामद्भुत शीलसिन्धवे ।। (१५)
अस्मै नमो यदुगिरिप्रवराय सूरि-
सेव्याङ्घ्रये विमलसत्वगुणोत्तराय ।
यश्श्वेतमृत्तिलकितोधृत-वैष्णवश्रीः
श्रीकान्त-मव्यवहितं जगतां व्यनक्ति ।। (१६)
चाम्पेयान्यपचिन्वतामुपवने मालाकतां श्रीपतेः
आकृष्योपनयन्ति यत्र कवयस्स्वैरं दुरापान्यपि ।
ईडे क्रोडमुखावखात विततावालापटासेचन-
न्यञ्चत्कुञ्जर-पुष्कराम्बु शिशिरं श्रीयादवक्ष्माधरम् ।। (१७)
यत्रानुषङ्गिक-निवासलवोऽपि सूरि
संसद्धुरा-विनिमय-श्रियमातनोति ।
तासु प्रसन्न-हरिचन्दनशेखरासु
श्रीयादवाचलतटीषु कुटीमुपेयाम् ।। (१८)
इयमभिवन्द्यतां यदुधराधरमौळिधृता
नृहरिगृहान्त-गोपुर समुन्नतिरुन्मिषिता ।
परिणत-भूरिभाग्य जनलोचन भृङ्गकुलं
ललितवतंस-कैतकशिखै सुखाकुरुते ।। (१९)
रहसि सहरिरंसायात कंसारिकान्ता
चरणकमलसिक्तालक्तरक्तोपकठाः ।
यदुधरणि भृतोमी जन्मकान्तारपान्थ-
श्रमहरतरुमृष्टास्सानवो नः पुनीरन् ।। (२०)
रघुपति-चापकोटि-दृढकुट्टिन विस्फुटतोवलोच्चल-
द्विमलझरीषु कृष्णबलरोपित कल्पमहीजराजिषु ।
यतिपतिपादरेणु-परिमर्श-पवित्रशिलासु निर्भराः
यदुगिरिसानुसीमसु रमेमहि साभिमतास्समाश्शतम् ।। (२१)
कुरवकमल्लिका-वकुळ-चंपक-कुन्दलता
र्पितकुसुमावतंस-मकरन्दरसोपचिताः ।
यदुकुलदेवता पदसरोजपराग-धरा-
श्चिरमवगाहिषीय यदुशैलझरीलहरीः ।। (२२)
पदे तत्र विष्णोः परत्वानुभूत्या
परं निर्वृतास्तस्य सौलभ्यलोभात् ।
यदुक्षाभृदन्तेवसन्त्यत्रमुक्ता नुमस्तान्
समस्तान् चरस्थास्नुरूपान् ।। (२३)
अधूर्जटजटाटवी-तटकपालसंपूरणामजह्नु-
जठरानल-क्वथन-खिन्नयादः कुलाम् ।
असागरचितावनोपचितसास्थिभस्मोत्करा-
मनुज्झित यदुक्षमाधरपदां भजे स्वर्नदीम् ।। (२४)
निर्णीचोच्चभिदं निराकृतगुणावद्यावमर्शं जना-
नाप्लाव्यानुजिघृक्षतीं सुरुचिरा-गाध-प्रसन्नाद्भुताम् ।
श्रीमद्यादवभूधरे सुचरितोल्लासावहामन्वहं
कल्याणी-मवगाहिषीय करुणां नारायणस्यापराम् ।। (२५)
हरेर्वराहरूपिणः श्रमाम्बुसंभवं श्रमोपहम् ।
भविष्णु विष्णु पद्युपासितं सरश्चरीकरोतु मङ्गळम् ।। (२६)
सेयं वैष्णव-नर्म-हर्म्य-शिखरोदञ्चपताकावळी
सङ्घर्षक्षत-चन्द्र-निस्सृतसुधालिप्तेव देदीप्यते ।
श्वेतद्वीपविवर्त मूर्तिरनघ-श्रीभूमि नीळासख-
श्रीनारायण चित्तनिर्वृतिकरी नारायणाख्यापुरी ।। (२७)
अश्रान्तोत्सव-बद्ध-कौतुक-यतिक्षोणीशसंपत्सुत-
प्रस्थानोत्सुकपौरयौवत-सुसंमृष्टप्रतोलीमुखाम् ।
पुल्लत्पल्लवतोरणच्युत मधुस्यन्दापनीतश्रमा-
शेषागन्तु जनामि मामनिमिषं सेवेपुरीं यादवीम् ।। (२८)
तत्तादृक्षगजेन्द्रमोक्षण-रथारोहक्षण-स्वर्धुनी-
तीर्थाध्यक्षण पूर्वपर्वमहिते यस्मिन्यतीन्द्राज्ञया ।
आमातङ्ग-वसिष्ठ-मेति जनतामुक्तैकरस्यां श्रियं
सोयं प्रत्यहमस्तु वज्रमकुटी दिव्योत्सवो वात्सरः ।। (२९)
स्वाङ्गीकारोपहारी कृतनतदुरिता स्वाङ्ग्घ्रि रेणुप्रभाव-
प्रेक्षा साक्षीकृतास्मत्सह-पठित चतुर्वेदिसर्वापराधाः ।
श्रीमन्नारायणाङ्घ्रिद्वय परिचरणैश्वर्य गर्वादुदस्त-
श्रीवैकुण्ठोपकण्ठा यदुगिरि-कटक-स्वामिनो मे स्वदन्ताम् ।। (३०)
शुचि-रुचिरं मनोज्ञ-चरितं नळिनाक्षदया-
मृतसरसीरसार्द्र-मनुरञ्जित-मञ्जुरवम् ।
इदमिह पक्षपात-मनिमित्तक-माद्रियते
यदुगिरिहेमसानुरसिकं मयि हंसकुलम् ।। (३१)
क्रेतुं नः प्रभवन्ति हन्त यतिराड्जन्मोत्सवोन्मस्तक-
प्रेमव्युत्क्रम-नृत्यदार्यचरणोत्क्षिप्ता यदुक्ष्माभृतः ।
धूळ्यो याः किल रङ्गवेङ्कटमुख-श्रीदिव्यदेशाश्रितैः
अर्च्चन्ते नियमेन तीर्थवटिकारूपेण गोपायिताः ।। (३२)
मधुरिपुजलनिधिदृगमृतवीची
कृतपरिचितमुरुमणिगणकीर्णाम् ।
परिसर-नतसुर-सदसमुपासे
यदुगिरितट-भुवितदजिरवेलाम ।। (३३)
तांबूलदर्पण-पतद्ग्रहताळवृन्त-
भृङ्गारधौत-वसनाभरणस्रगादीन् ।
आभिभ्रतो यतिपति प्रणिधीन्विभोः
द्विपञ्चाशतः परिजनप्रवरान् भजामः ।। (३४)
द्रुहिणि सनकयोगि-नारायणात्रेयसंरक्षितं
यतिपतिकृपयेह सर्वात्मसेव्यां दशां प्रापितम् ।
निगमशिखरवत्परब्रह्मगर्भं यदुक्ष्माधर-
प्रवणमनुभवेय-मानन्दसञ्ज्ञंविमानं मुहुः ।। (३५)
शुभोदारस्निग्धाद्भुतमहितसंस्थानमभित
स्सरन्तीभिर्भाभिर्हरित यदशेषाश्चहरितः ।
परंज्योतिस्साक्षादकरवमिहानन्दनिलये
विमाने मञ्जूषोन्मिषितमिवशातं मरकतम् ।। (३६)
युगपदुदितभास्वत्कोटिधामासुधाब्धि-
स्नपित इव सुजात-स्निग्धदिव्यामृतश्रीः ।
भुवन भवनभूषा ज्योतिषां ज्योतिरेष-
स्सुरति यदुमहीभृन्मौळिरत्न-प्रदीपः ।। (३७)
जगत्संभवक्षेमशिक्षादिदक्षं
परंक्षोणिलक्ष्मीकटाक्षैकलक्ष्यम् ।
यदुक्ष्माधरे मोक्षदानैकदीक्षं
महः पुण्डरीकाक्ष मधक्षयामः ।। (३८)
अये श्यामोदारः किमय-ममृताध्मातजलदः
तमालद्रुः किं वा पृथुल-ललितोद्धामविटपः ।
यदुक्ष्माभृत्सानु-प्रगुणितविलासोनुकलभः
किमु क्रीडाशैलश्श्रिय इह महानील महितः ।। (३९)
दरीधर्ति-नीलाद्रि-लीलां मुकुन्दो बरीभर्ति हेमस्नुतां पीतवासः ।
वरीवर्ति चक्रांबुजं पुष्पवत्तां चरीकर्ति शृङ्गश्रियं रत्नमौळिः ।। (४०)
मुखांबोजासक्तः किमलकतमः कोपकलुषः
किमु श्रीमच्चक्षुस्स्वजनिभवनोत्कः किमथवा ।
जगच्छक्षुस्सूक्ष्मान्मिषति यदुशैलेष मकुटी
मिषेणप्रत्यूषे तदिदमुपतिष्ठे महिमहः ।। (४१)
न्यञ्चन्मैळि-मणिप्रभाविनमितं प्रोद्यन्मुखेन्दुद्युति
प्रत्यावर्त्तित-मूर्ध्वपुण्ड्रविमलच्छायाविभक्ताकृति ।
पार्श्वोच्छृङ्खलशङ्खचक्ररुचिभिः प्रायो विशीर्णं यदु-
क्ष्माभृद्वल्लभ-चूर्णकुन्तलतमः फालान्त-मालंबते ।। (४२)
अमी यदुधराधरेश्वर किरीटरत्नाजन्किराः
परत्त्वमुखरामुहुर्मुहुरभीषयिष्यन्तनः।
मृदुस्मितसुधारसोक्षित-कटाक्षलीलायिता-
न्यकृत्रिमसुशीलतां सपदिनावदिष्यन्यदि ।। (४३)
अनिमित्त-दयामृतसिक्तमृदुस्मित-चन्द्रिकमस्तसमस्ततमः ।
यदुशैलपतेर्मुखमिन्दु-सखं प्रमदं ममदृक्कुमुदं कुरुते । (४४)
दृशोर्विशालमायितं भ्रुवोश्च नीलमानतं
स्मिते मृदूद्गतंसितं रदेषु सान्द्रमुज्वलम् ।
स्फुरद्विकासिगण्डयोश्वलं विलंबिकुंतले
यदुक्षमाधरे शिशुर्मुखं सुखं करोति नः ।। (४५)
नीलभ्रूमरुकाग्र-मायतदृगंभोजंमिषन्नासिका
चांपेयं धवलोर्ध्वपुण्ड्र-कपटोदं चच्छिकाकैतकम् ।
उत्फुल्लाधर-पल्लवं क्षितिरमाली लोचितं कन्धरा-
काण्दोदञ्चि यदुक्षमाधरपतेः मन्ये मुखं कन्तुकम् ।। (४६)
स्फुरच्चक्षुर्मीनाच्छ्रवणललितावर्त महितात्
यदुक्ष्माभृत्सानु-प्रणयिमुखलावण्य-जलधेः ।
सुधासूते रोष्ठद्वयरुचिर वीचीविषमितात्
उदेति भ्रूवेलावनपिहितभागोऽळिकशशी ।। (४७)
भ्रूमध्यतः प्रतिपदेन्दुकलावदात-
श्चेतो धिनोति तिलको यदुशैलबन्धोः ।
लालाटकान्त्यमृततसङ्ग्रहणाय लक्ष्मी-
निक्षिप्त-मौक्त-चषकत्रियमाददानः ।। (४८)
भ्रूसेतुबन्ध विधृताक्षि तटाककुल्या
कल्याकटाक्ष सरणिर्यदुशैलनेतुः ।
निम्मोन्नतस्थल जलादिभिदानपेक्षम्
आप्लावयत्यमुमिमं करुणासकुल्या ।। (४९)
अकस्मादस्माकं प्रचुरपरितापप्रशमनैः
कटाक्षोर्मिक्षेपै-रनवधिकृपासौरभवहैः ।
सुधसिन्धुस्साक्षादयमिह यदुक्षाधरतटे
स्वसेवासौम्याज्रिपयि कमभिकषें वितनुते ।। (५०)
तन्मन्दस्मित-विस्मितं तदलकावर्तानुवृत्तंमुहु
स्तद्बिंबाधर-रागरक्तमनुतत्सौगन्ध्यसम्मोदितम् ।
तद्भ्रू-विभ्रमलब्ध-विभ्रमशतं तद्रक्तरंगोर्मिळं
मच्चेतो यदुशैल-वल्लभ-मुखच्छायोन्मुखं वर्तते ।। (५१)
कर्णिका मकरयुग्रमुदग्रं कर्णपाश बडिशं विनिगीर्य ।
वेष्टते यदुगिरीश मुखांशूत्कृष्यमाणमिदमंसतटाकात् ।। (५२)
पाञ्चजन्य मुपनीय-सरूपं रूपसौष्ठवविवेचनचुञ्चुः ।
यादवाचलपतिर्गळकंबु तारहारकलितं किमतानीत् ।। (५३)
पार्श्वोदञ्चन्न्यञ्चत् कुञ्चद्भुजकल्पविटमञ्जर्यः ।
शङ्खरथाङ्गगदाभयमुद्रा भद्राय यादवाद्रीन्दोः ।। (५४)
श्रीभूमी कुचकुंभनिर्भर परीरंभप्रमोदादिव
श्रीदिव्यायुधभव्यभूषण परावर्तावलेपादिव ।
तारुण्याद्भुतयौवनव्यतिकरोत्साहादिवामी यदु-
क्ष्माभृद्वल्लभबाहवस्सुपृथुलोदग्राः परं जाग्रति ।। (५५)
विटपाः किल कल्पपादपानां मधुपावर्जित पल्लवप्रसूनाः ।
यदुशैलपतेर्भुजास्सुवृताः फलवर्गान् सुवतेऽत्र सूरिभोग्यान् ।। (५६)
आभ्यामङ्कयतेतिवोपनयतश्श्रीशङ्खचक्रे उभा-
वेतावाश्रयतेति वक्ति गदया निर्पश्यपादौपरः ।
माभैषैत्यपरो व्यनक्ति यदुभूभृद्वल्लभास्मादृशाम्
आद्याचार्य चतुर्भुजैः प्रगुणयाचार्यकप्रक्रियाम् ।। (५७)
स्वतश्यामोदारं तरुणतुलसीवामहरितं
सितं मुक्ताहारैर्मणिवररुचा भास्वरमिदम् ।
रमापादालक्तारुणमिह यदुक्ष्माधरपते
रुरश्चित्ते धत्ते मम रुचिविभेदान्नवनवान् ।। (५८)
श्रीकान्त-कल्याणगुणानुषक्त-मुक्तावळी-संस्तुत-दिव्यधाम ।
वक्षो यदुक्षोणिधरेश्वरस्य मन्ये परं व्योमपरार्ध्यभूम ।। (५९)
निगिरदपि जगन्ति क्षाममुद्यद्बुभुक्षं
सुचरितसुत-भिक्षास्वाद-संपूर्णकामम् ।
यदुधरणिधरेन्दोस्तुन्दमादौ यशोदा
कलितकनकदाम-ग्रन्थिलक्ष्मप्रतीक्षे ।। (६०)
श्री यादवाचलपते: कलयेवलग्नं
कक्ष्यावनद्ध-कनकत्सरु-खड्गवल्लि ।
गाढं निकृन्तदिवनिष्टुरकर्मबन्ध-
निर्बन्ध-बन्धुर-चतुर्विध-देहबन्धम् ।। (६१)
विद्यद्भूम्ना तडित्त्वानिवनवतरणिच्छायये वाञ्जनाद्रिः
वेला हैमस्थलीभिजलधिरिवनभस्सान्द्रसान्ध्यश्रियेव ।
आक्रीडः कर्णिकारैरिव कनकुथेनेवदन्तावळोसौ
देवः पीतांबरेण प्रथयति सुषुमां यादवक्ष्माधरेन्दुः ।। (६२)
एवं प्रायानुपूर्वी यदपिकरिकरे स्निग्धतादूरदूरे
रंभास्तंभे प्रसक्ता यदपि चकियती स्निग्धताक्वानुपूर्वी ।
स्यातां स्नैग्ध्यानुपूश्व्यौकृतक-मरतकस्तंभके नो मृदुत्वम्
मन्ये मृग्योपमाने यदुशिखरि पेरूरुकाण्डप्रकाण्डे ।। (६३)
किंकाहळ्यौ किन्नु पूगीकुहळ्यौ श्रीभूवाह्ये किं समीच्यौ कळाच्यौ ।
मुग्धस्निग्धोदारदिव्यानुपूश्व्यौ किं वा जङ्घे यादवक्ष्माधरेन्दोः ।। (६४)
विभोः पादांभोजं तदिदमशरणैकशरणु-
वरं प्राप्यं प्राप्तं यदुगिरिशिखा-शेखरसखम् ।
यदा मर्शादाशु द्रवति भृशमाकाशमवशा-
वपि ग्रावाजीवत्यपि मिषति दग्धामिषमपि ।। (६५)
सुचरित-सुमति-सहित-परचरण-प्रणयमननुगुणमिव परिगणयन् ।
यदुगिरि परिवृढ-चरणमशरणः शरणमगम-मिह परिचरणपरः ।। (६६)
क्षमालक्ष्मि कल्पव्रतति विततां नाति शिशिरां
अनुष्णामभ्यर्णोन्मिषदमृतसौगन्ध्यसुभगाम् ।
भवव्यध्वभ्रान्ति प्रभवपरितापप्रशमनीं
श्रये पादच्छायां यदुगिरितटे कल्पतरोः ।। (६७)
उद्यन्मौळिमुदारफालमुचितश्वेठोर्ध्वपुण्ड्रं शुभो-
दञ्चद्भ्रूलतमायतायित-दृगंभोजं सुजातस्मितम् ।
कंबुग्रीवमुदग्रबाहुविपं लक्ष्मीलसद्वक्षसं
वन्दे सुन्दरमध्यमेरुचरणं श्रीयादवाद्रीश्वरम् ।। (६८)
उत्फुल्लपद्मपद मुल्लसदूरुकाण्डम् उद्दामकाञ्चिमुपनीतसुवर्णचेलम् ।
अजानुबाहुमरुणाधरमायताक्षम् आशास्महे सपदि यादवशैलनाथम् ।। (६९)
शमयति तमस्सूते सत्त्वं धिनोति शुभां धियं
घटयति सतां सक्तिं दत्ते सदार्यमाश्रयिम् ।
भवपथपरिभ्रान्तिं रुन्धे व्यनक्ति परं पदं
यदुगिरिशिखारूथं ज्योतिः किमप्यतिमानुषम् ।। (७०)
अव्याजं दयते स्मरत्युपनयित्यालोकतेऽङ्गीकरो-
त्युत्सङ्गे कुरुते प्रसीदति मुहुर्मूर्धानमाजघ्रति ।
आनन्दाननुभावयत्यभिमतैर्दास्यामृशैः प्लावय-
त्येष श्रीयदुशैल मङ्गळनिधिर्नारायणोऽस्मत्कुलम् ।। (७१)
प्रेमार्द्रया कमलयाक्षमयासमेतम्
अंसां सघट्टनरसोत्पुलकाङ्गभागम् ।
प्राग्दक्षिणे तदिह संयमि सार्वभौम
संसत्प्रसूतमपरं वपुराविरस्ति ।। (७२)
श्रीभूस्तन-श्रुतिरोयतिशेखराङ्क-
श्री यादवाचलशिखा-सुलभोपलंभम् ।
आपन्नतापहरमा श्रितकामधेनुम्
आशास्महे कमपि पूरुषनंबुजाक्षम् ।। (७३)
उत्तुङ्गमुकुटे विशालमळिके वक्रं भ्रुवोरायतं
नेत्रान्ते रुचिरं कपोलफलके स्मेरं मुखांभोरुहे ।
भीतं वक्षसि संस्थुलंभुजवने मृग्यं वलग्ने सुसं-
क्लिष्टं पादयुगे यतीन्द्रहृदयवासं महस्संश्रये ।। (७४)
हस्तारविन्द कलिताभय-शङ्खचक्रम्
अब्जासनाहितपदाब्ज-मुदग्रमौळिम् ।
आविस्मितं सुवदनं यतिराजसूनोः
संस्थानमेव शरणं शरणर्थिनां नः ।। (७५)
अञ्चत्किरीट मलकावृत फालमायन्
नेत्राब्जमङ्कुरितहासमुदग्रनासम् ।
विश्वग्भुजं विपुलवक्षसमीक्षषीय
संपत्सुतं तत इतः पुरतोऽभितश्च ।। (७६)
जनो यत्सीमान्ते यतिनृपतिवार्तामहिमवित्
कुटीं कुर्वन्नीष्टे परमपदवाटी वितरणे ।
तदार्यागारान्तावकरमपनेतुः किलसमाः
शतं भोगस्थानं भवतु मम नारायणपुरम् ।। (७७)
अचिन्तयित्वा मद्वृत्तमालोक्याचार्यसन्ततिम् ।
दयानिधे निधेहि त्वद्दासदास्य श्रियं मयि ।।
इति श्रीकौशिककुलतिलक–श्रीशैलसूरिकृतिषु यदुगिरिनारायणस्तवः संपूर्णः