श्रीमते नारायणाय नमः
श्रीमते रामानुजाय नमः
श्रीपद्मपुराणान्तर्गत–श्रीमद्यादवगिरिमाहात्म्यम्
* * *
वसिष्ठः –
शृणु राजन्प्रवक्ष्यामि प्रभावं माघमासजम् ।
यमाकर्ण्य नरो भक्त्या सर्वपापैः प्रमुच्यते ।। (१)
पुरा राधन्तरे कल्पे वर्तमाने कृते युगे ।
कुत्सोऽभूत्समुनिः श्रीमान् ब्रह्मसूनुरकल्मषः ।। (२)
स कर्दममुतां कन्याम् उपयेमे विधानतः ।
तस्याञ्च तस्य पुत्रोऽभूत् कौत्सो वंशविवर्धनः ।। (३)
पश्चमेऽब्दे पिता तस्य कुत्सो ब्रह्मोपदिष्टवान् ।
कृतोपनयनः पित्रा ब्रह्मचर्यपरायणः ।। (४)
वसन गुरुकुले नित्यं अग्निकार्यञ्च सन्ध्ययोः ।
कुर्वन् त्रिषवणस्नानं भिक्षाशी विजितेन्द्रियः ।। (५)
कृष्णाजिनधरो नित्यं नित्यं स्वाध्यायतत्परः ।
केशान्तमञ्चन् विध्युक्तं पालाशं दण्डमव्रणम् ।। (६)
कटीतटलसन्मौञ्जी कमण्डलुधरस्सदा ।
शुभ्रकौपीनवान् शुद्धः शुभ्रयज्ञोपवीतवान् ।। (७)
समिद्भिस्तु लसन्मूर्धा सर्वेषां नयनप्रियः ।
नमस्करोत्यहरहो मातरं पितरं गुरुम् ।। (८)
आचार्यमन्यान् वृद्धांश्च यतीन्द्रान्ब्रह्मवादिनः ।
ब्रह्मयज्ञरतो धीमान् नित्यानुष्ठानतत्परः ।। (९)
पवित्रपाणिः कुरुते देवर्षिपितृतर्पणम् ।
पुष्पचन्दनगन्धादि कदाचिदपि न स्पृशेत् ।। (१०)
मौनधृङ्मधुपिण्याक-लवणक्षारवर्जितः ।
पादुकोपानहारोह-दर्पणालोकवर्जितः ।। (११)
दन्तधावनताम्बूल-शिरोवेष्टनवर्जितः ।
नीलं पीतं तथा रक्तं वस्त्रकाञ्चनभूषणम् ।। (१२)
अन्यानि यान्यनर्हाणि ब्रह्मचर्याश्रमस्य च ।
सदाचाररतश्शान्तः तानि सर्वाणि न स्पृशेत् ।। (१३)
तादृशाचारसम्पन्नो विशेषाब्रह्मचार्यसौ ।
मज्जनं कुरुते भक्त्या मकरस्थे दिवाकरे ।। (१४)
माघे मासे विशेषेण देहशुद्धिं करोत्यलम् ।
चान्द्रायणादिभिः कृच्छ्रैः स कौत्सः प्रथमाश्रमे ।। (१५)
चित्तशुद्धिं परां प्राप मकरादित्यमज्जनात् ।
अस्यां पश्चिमवाहिन्यां कावेर्यां दुर्लभं नृणाम् ।। (१६)
समुद्रगानां सकलापगानां
प्रत्यक् प्रवाहञ्च उदक् प्रवाहम् ।
प्रयागतीर्थादधिकं वदन्ति
मयाद्य लब्धं कृतपूर्वपुण्यैः ।। (१७)
मज्जनं मकरादित्येहालब्धं भाग्यवानहम् ।
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोस्मीऽति हृष्टधीः ।। (१८)
ततस्त्रिषवणस्नानं कुरुते सह्यजाजले ।
तेन माघत्रयं स्नानं कावेरी पश्चिमांभसि ।। (१९)
तेन पुण्येन शुद्धात्मा निर्ममो निस्स्पृहो नृप ।
मातापितृभ्यां गुरुणा विसृष्टस्तपसे ययौ ।। (२०)
एकयोजनमात्रेण कावेर्या उत्तरे तटे ।
नारायणगिरावेषनाम्नैवाघौघनाशने ।। (२१)
तुङ्गैः शृङ्गैर्दिवस्पृष्टैः सानुभिश्च विराजितम् ।
द्रुमैः फलयुतैश्चापि शोभिते शुभदर्शनैः ।। (२२)
मृगसर्पमहाव्याळ-द्विजयक्षनिषेविते ।
बहुपुष्पलताभिश्च सम्यक्प्रच्छन्नभूतले ।। (२३)
सुखवातानुचरिते शीतलोदकशोभिते ।
भ्रमरै: गीयमानैश्च पिबद्भिः पुष्पजं मधु ।। (२४)
शैलकन्दरनिष्णातैः कोकिलैः मधुरस्वनैः ।
सुस्वरं गीयमानैश्च गन्धर्वैश्च निषेविते ।। (२५)
नृत्यद्भिश्च महाबर्हैः मयूरैरुपशोमिते ।।
किन्नरेन्द्रैश्च गायद्भिः शोभिते धृतकुण्डलैः ।। (२६)
अश्वत्थप्लक्षबिल्वैश्च शोभिते बहुशाखिभिः ।
तिलकैः पुष्पितैश्चापि कृतमालैश्च पुष्पितैः ।। (२७)
अशोकैनक्तमालैश्च चन्दनैः स्यन्दनैस्तथा ।
खर्जूरैः पुष्पितैश्चापि भ्राजयद्भिर्महीधरम् ।। (२८)
पुन्नागनारिकेलाम्र-पनसार्जुनपाटलैः ।
कपित्थतिन्त्रिणीनिम्ब-रंभासकलदाडिमैः ।। (२९)
शोभमाने गिरौ तस्मिन्नानाश्चर्यसमाकुले ।
तस्मिन् सरोऽस्ति कलिकल्मषहारिवारि
कल्याणतीर्थमभिवाञ्छितसिद्धिदायि ।
कल्लोललोलकमलांतिकसन्निविष्ट-
हंसावळीभिरनिशं परिशोभमानम् ।। (३०)
निमज्य तस्मिन्नपि माघमेकं
तत्पश्चिमे रोधसि सन्निविष्टः ।
चक्रे तपो निश्चलगात्रयष्टि-
निर्वातनिष्कम्प इव प्रदीपः ।। (३१)
विस्मृत्य विषयान् जिंहान् स्थितः पाषाणकाष्ठवत् ।। (३२)
अन्तर्यच्च बहिर्यच्च ऊर्ध्वं यच्चाप्यधश्च यत् ।
निष्ठामवाप्य तत्सर्वम् अहमेवेत्यचिन्तयत् ।। (३३)
पिपासया समागत्य मृगास्तस्मिन् जलाशये ।
कण्डूयन्ते स्वशृङ्गेण काष्ठबुद्ध्या दिने दिने ।। (३४)
ततो विष्णुरमोघात्मा जगन्मूर्तिर्जनार्दनः ।
हृदयस्थो यथा सेव्यः तथैवाग्रे स्थितोऽभवत् ।। (३५)
मृगशृङ्ग महाप्राज्ञ ततः प्रीतोऽस्म्यहं हरिः ।
इत्युक्त्वा ब्रह्मरन्धे तं पस्पर्श पुरुषोत्तमः ।। (३६)
अतः प्रबुद्धो विरतस्समाधितो
विलोकयामास पुरस्स्थितं हरिम् ।
सहस्रसूर्यप्रतिमेन राजता
महाभिषेकाभरणेन भास्वरम् ।। (३७)
ससम्भ्रमस्ततो नत्त्वा स्तोतुं समुचक्रमे ।
मृगशृङ्गः –
नारायणाय नळिनायतलोचनाय
नाथाय पत्ररथनायकवाहनाय ।
नाळीकपद्मरमणीयभुजान्तराय
नव्याम्बुदाभरुचिराय नमः परस्मै ।। (३८)
ओं नमो वासुदेवाय लोकानुग्रहकारिणे ।
धर्मसंस्थापनार्थाय यथेच्छावपुषे नमः ।। (३९)
सृष्टिस्थित्युपसंहारान्मनसा कुर्वते नमः ।
संहत्य सकलान्लोकान् शायिने वटपल्लवे ।। (४०)
सदानन्दाय शान्ताय चित्स्वरूपाय विष्णवे ।
स्वेच्छाधीनचरित्राय निरीशायेश्वराय च ।। (४२)
मुक्तिप्रदायिने सद्यो मुमुक्षूणां महात्मनाम् ।
वसते पक्वचित्तानां हृदये योगिनामपि ।। (४३)
चराचरमिदं कृत्स्नं तेजसा व्याप्य तिष्ठते ।
विश्वाधिकाय महते महतोऽणोरणीयसे ।। (४४)
स्तूयमानपदाब्जाय वाक्यैरुपनिषद्भवैः ।
अपारघोरसंसारसागरोतारहेतवे ।। (४५)
नमस्ते लोकनाथाय लोकातीताय ते नमः ।
नमः परमकल्याणनिधये परमात्मने ।। (४६)
अच्युतायाऽप्रमेयाय निर्गुणाय नमो नमः ।
नमस्सहस्रशिरसे नमस्सततभास्वते ।। (४७)
नमः कमलनेत्राय नमोऽनन्ताय विष्णवे
नमस्त्रिमूर्तये धात्रे नमस्त्रियुगशक्तये ।। (४८)
नमस्समस्तसुहृदे नमस्सततविष्णवे
शङ्खचक्रगदापद्मधारिणे लोकधारिणे ।। (४९)
स्फुरत्किरीटकेयूरमकुटाङ्गदधारिणे ।
निर्द्वन्द्वाय निराशाय निर्विकाराय ते नमः ।। (५०)
त्राहि मां पुण्डरीकाक्ष शरण्यशरणागतम् ।
त्वमेव सर्षभूतानां आश्रयः परमा गतिः ।। (५१)
त्वयि स्थितं यथाचित्तं न मे चञ्चलतां व्रजेत् ।
तथा प्रसीद देवेश शरणं त्वां गतोऽस्म्यहं ।। (५२)
नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमो नमः ।
वसिष्ठः –
इति स्तुत्वा हृषीकेशं नमस्कृत्वा पुनःपुनः ।। (५३)
आनन्दबाष्पनयनः पुलकीकृतविग्रहः ।
शिरस्यञ्जलिमाधाय तूष्णीं तत्पुरतस्स्थितः ।। (५४)
इति श्रीपद्मपुराणे माघमाहात्म्ये यादवाचलवैभवो नाम चतुर्थोऽध्यायः
अथ पञ्चमोऽध्यायः
भगवान् –
मृगशृङ्गानया स्तुत्या पराग्रीतिरजायत ।
माघमासे परे ह्यस्मिन् तवैतन्मजनेन च ।। (१)
तपसा च प्रहृष्टोऽस्मि श्रान्तोसि नितरां मुने ।
यज्ञैस्सदक्षिणैरन्यैः दानैश्च नियमैर्यमैः ।। (२)
अहं तथा न तुष्यामि यथा माघनिमज्जनात् ।
इत्युक्त्वा तं पुनः प्राह मोक्षेच्छु मुदिताननम् ।। (३)
वरं वरय पश्चात्तद्दास्यामि तव वाञ्छितम् ।
मृगशृङ्ग मम प्रीत्यै मदाज्ञां परिपालय ।। (४)
ब्रह्मचर्येण ऋषयो यथा तुष्टास्तथाधुना ।
यज्ञेन देवास्सन्तोष्याः प्रजया पितरः पुनः ।। (५)
अतो भवान् विवाहस्य प्रयत्नं कुरु सर्वदा ।
एतदिष्टतमं मह्यं एतदेव परं प्रियम् ।। (६)
सर्वदा मम तुष्ट्यर्थं करणीयमिदं त्वया ।
भाविजन्मनि विप्रत्वं जीवन्मुक्तो भविष्यसि ।। (७)
ब्रह्मसूनुर्महाज्ञानी ऋभुर्नाम जनिष्यसि ।
वेदान्तवाक्यजं ज्ञानं निदाघायोऽपदिश्य च ।। (८)
पुनस्त्वं परमं धाम समेष्यसि न संशयः
वसिष्ठः –
इति विष्णोर्वचश्श्रुत्वा मृगशृङ्गो महामतिः ।। (९)
पुनरन्यं वरं प्राह देवदेवं कृपानिधिम्।
मृगशृङ्गः –
देव देव जगन्नाथ सर्वदेव नमस्कृत ।। (१०)
अत्र सन्निहितो नित्यं सर्वेषां सर्वकामदः ।
सर्वदा सर्वजन्तूनां सर्वसम्पत्प्रदो भव ।। (११)
इममेकं वरं देहि यद्यनुग्रहभागहम् ।
प्रसिद्धं पुण्डरीकाक्ष प्रणतातिहराच्युत ।। (१२)
वसिष्ठः –
इति ब्रुवाणमाहेदं कृपया गरुडध्वजः
भगवान् –
तथास्तु मृगशृङ्गात्र सर्वदा निवसाम्यहम् ।। (१३)
येर्चयन्ति नरास्तेषां करस्था सर्वसम्पदः ।
विशेषेण सरस्यस्मिन् मकरस्थे दिवाकरे ।। (१४)
निमज्ज्य निखिलैः पापैः विमुक्ता यान्ति मत्पदम्।
व्यतीपातेऽयने वापि सङ्क्रमे विषुवेऽपि वा ।। (१५)
पूर्णिमायाममायाञ्च ग्रहणे चन्द्रसूर्ययोः ।
स्नात्वा दत्त्वा यथाशक्ति मम लोके महीयते ।। (१६)
वसिष्ठः –
एवं ब्रुवति गोविन्दे प्रणम्य स पुनर्द्विजः।
अवदत्पुनरप्येवं भक्तवश्यं हरिं तदा ।। (१७)
मृगशृङ्गः –
कुत्सस्य पुत्रः कौत्सोऽहं कथं मे मृगशृङ्गता ।
एतदाचक्ष्व देवेश त्वद्भक्तस्य कृपानिधे ।। (१८)
भगवान् –
कल्याणसरसस्तीरे त्वय्यत्र तपसि स्थिते ।
मृगाः पिबन्तः पानीयं प्रतिवासरमत्र वै ।। (१९)
अकण्डूयन्त शृङ्गेण शरीरं तव निर्भयाः ।
तथा त्वां मृगशृङ्गाख्यं वदन्ति परमर्षयः ।। (२०)
अद्य प्रभृति लोकोऽयं मृगशृङ्गेति वक्ष्यति
वसिष्ठः –
इति व्याहृत्य सर्वेशः सर्वेषां सर्वदो नृणाम् ।। (२१)
नारायणगिरौ तस्मिन् हरिरद्यापि दृश्यते।
अथ स मृगविषाणस्तत्र सम्पूज्य देवं
निरगमदथ तस्मात्तन्निदेशेन शैलात् ।
जगदुपकृतिहेतौ गार्हपत्ये धृतात्मा
कमलनयनमाद्यं भावयन्नन्तरङ्गे ।। (२२)
मौञ्जीकृष्णमृगचर्मदण्डधृक्
पाणिपल्लवलसत्कमण्डलुः ।
जन्मभूमिमगमज्जितेन्द्रियो
भोजराजपुटभेदनं निजम् ।। (२३)
मृगशृङ्ग मुनिर्यावदायाति निजमन्दिरम् ।। (२४)
तत्पर्वमेव तन्नाम प्रथितं भुवि केवलम् ।
प्रणामं विदधे सम्यग्जनन्यै भुवि दण्डवत् ।। (२५)
पित्रे च विधिवन्नत्वा स्वमुदन्तं न्यवेदयत् ।
गाढमालिङ्गितो मूर्ध्नि समाघ्रातो मुहुर्मुहुः ।। (२६)
आनन्दाश्रुपरीताभ्यां पितृभ्यामभिनन्दितः ।
गुरुं तमभिवाद्याथ पुनस्स्वाध्यायतत्परः ।। (२७)
पितुर्मातुर्गुरोर्नित्यं शुश्रूषणपरायणः ।
अधीताखिलवेदोऽयं गुरुणानुमतः तदा ।। (२८)
व्रतस्नानं तथोत्सर्गं समाप्य विधिपूर्वकम् ।
अवोचत् पितरं कुत्सं मृगशृङ्गो महामनाः ।। (२९)
मृगशृङ्गः –
सुतस्य सम्भवे क्लेशं सहेते पितरौ भृशम् ।
शक्ता वर्षशतेनापि मोकर्तुं तस्य निष्कृतिम् ।। (३०)
अतस्तयोः प्रियं कुर्याद्गुरोरपि च सर्वदा ।
त्रिषु तेषु सुतुष्टेषु ततस्सर्वमवाप्यते ।। (३१)
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
तान्व्यतिक्रम्य यत्कुर्यात्तन्न सिद्ध्येत्कदाचन ।। (३२)
त्रीनेतान् सुसमाराध्य त्रीन् लोकान् विजयेत्सुधीः ।
एतदेव नृणां प्रोक्तं पुरुषार्थचतुष्टयम् ।। (३३)
यदेतेषां हि सन्तोषः उपधर्मोऽन्य उच्यते ।
अधीत्य वेदान् वेदौ वा वेदं वा क्रमतः पितुः ।। (३४)
अतोस्खलब्रह्मचर्यो गृहस्थाश्रममाविशेत् ।
गृहाश्रमात्परो नास्ति यदि पत्नी वशंवदा ।। (३५)
आनुकूल्यं हि दम्पत्योः त्रिवर्गोदयहेतवे ।
अनुकूलं कळत्रञ्चेत् त्रिदिवेन समं भवेत् ।। (३६)
प्रतिकूलं कळत्रं चेत् नरकेण हि किं ततः ।
गृहाश्रमस्सुखार्थाय भार्यामूलं हि तत्सुखम् ।। (३७)
स्वभार्यायां विनीतायां त्रिवर्गोऽपि भवेद्ध्रुवम् ।
जलूकयोपमीयन्ते प्रमदा मन्दबुद्धिभिः ।। (३८)
मृगीदृशां जलूकानां विचारे महदन्तरम् ।
जलूकाः केवलं रक्तं गृह्णन्ति पुनरङ्गनाः ।। (३९)
गृह्णन्ति सर्वमप्युग्राश्चित्तं वित्तं बलं सुखम् ।
दक्षा प्रजावती साध्वी पटुवाक्या प्रियंवदा।। (४०)
गुणैरमीभिस्संयुक्ता सा स्त्री श्रीरूपधारिणी ।
उपयेमे ततो भार्यां सवर्णां साधुलक्षणाम् ।। (४१)
जनकस्यासगोत्रा या मातुरप्यसपिण्डिका ।
दारकर्मणि योग्या सा द्विजानां धर्मवृत्तये ।। (४२)
स्त्रीसम्बन्धेप्यपस्मारक्षयश्वित्रिकुलं त्यजेत् ।
अभिशस्तसमायुक्तां तथा कन्यां प्रसूं त्यजेत् ।। (४३)
रोगहीनां भ्रातृमतीं सुमुखीं चलधीयसीम् ।
उद्वहेत हिजो भार्यां सोमास्यां मृदुभाषिणीम् ।। (४४)
न पर्वतर्क्षवृक्षाभ्यां न नदीसर्पनामिकाम् ।
न परप्रेष्यनाम्नीञ्च प्रेतभूताह्वयाञ्च न ।। (४५)
न चातिरिक्तहीनाङ्गीं नातिदीर्घां न वा कृशाम् ।
नालोमिकां नातिरोम्णीं न स्निग्धीं स्थूलमूर्धजाम् ।। (४६)
मोहात्समुपयमेत्कुलहीनां च कन्यकाम् ।
हीनोपयमनाद्यातिसन्तानस्य विहीनताम् ।। (४७)
लक्षणानि परीक्ष्यैव ततः कन्यां समुद्वहेत् ।
सुलक्षणां सदाचारां पत्युरायुर्विवृद्धये ।। (४८)
इति प्राह मनुःपूर्वं अगस्त्योपि तथाब्रवीत् ।
अन्ये च मुनयस्सर्वेप्येवमाहुर्विपश्चितः ।। (४९)
ईदृशी कुत्र भार्या सा लभ्यते जनकाधुना ।
वसिष्ठः –
मृगशृङ्गस्य तद्वाक्यं मधुरं वेदसम्मितम् ।। (५०)
श्रुत्वा कुत्सः प्रहृष्टात्मा पुनः पुत्रमभाषत ।
कुत्सः –
मा विचारं कुरुष्वात्र मृगशृङ्ग महामते ।। (५१)
ईदृशाचारयुक्तस्य तवाप्राप्यं न विद्यते ।
अनाचारवतां नृणाम् आलस्योपहतात्मनाम् ।। (५२)
अमाघस्नायिनां नृणां तादृशा दुर्लभास्स्त्रियः ।
अकृतातिथिपूजानाम् अनैकादश्युपोषिणाम् ।। (५३)
अमहीदेवभक्तानां तादृशा दुर्लभास्स्त्रियः ।
अमातृपितृभक्तानाम् अगुरुप्रीतिकारिणाम् ।। (५४)
अगोशुश्रूषकाणां च तादृशा दुर्लभास्स्त्रियः।
अदैवपितृकार्याणाम् अदत्त्वा भुञ्जतामपि ।। (५५)
अदानधर्मशीलानाम् अहुत्वा चान्नमश्नताम् ।
अगोपीचन्दनाङ्कानां अमौळितुलसीभृताम् ।। (५६)
गङ्गादिस्नानहीनानाम् अमाघव्रतचारिणाम् ।
अमाघमहिमज्ञानां तादृशाः दुर्लभास्स्त्रियः ।। (५७)
अकावेरीजलस्नानपूतानां ज्ञानमानिनाम् ।
वृथाहङ्कारिणां नृणां दुर्लभास्तादृशास्त्रियः ।। (५८)
ददाति विद्याममलां च कीर्तिं-
आरोग्यमायुर्धनमक्षयं च ।
समस्तपापक्षयमिन्द्रलोकं
किं किं न दद्यात्सुत माघमासः ।। (५९)
सौभाग्यमाचारमपत्यभोगं
सत्संगतिं सत्यमुदारभावम् ।
ख्यातिञ्च शौर्यञ्च बलं ददाति
किं किं न दद्यात्सुत माघमासः ।। (६०)
पुष्टिं पशूनुत्तमवाग्विभूतिं
ददाति विष्णावचलां च भक्तिम् ।
कळत्रभाग्यं कमनीयरूपं
किं किं न दद्यात्सुत माघमासः ।। (६१)
माघस्नानेन सुप्रीतो माधवस्ते मनोरथम् ।
पूरयिष्यति पुण्यात्मन् पुण्डरीकायतेक्षणः ।। (६२)
वसिष्ठः –
इति पितृवचनं निशम्य सत्यं
मुदितमना मृगशृङ्गनामधेयः ।
पुनरपि पितरं प्रणम्य मूर्ध्ना
हृदि हरिमेव दिवानिषं सन्दध्यौ ।। (६३)
इति श्रीपद्मपुराणे माघमाहात्म्ये यादवाचलप्रसङ्गो नाम पञ्चमोऽध्यायः
इत्थं श्रीपद्मपुराणान्तर्गतः श्रीमद्यादवगिरिमाहात्म्य–परपुराणभागः समाप्तिमगमत्