श्रीरस्तु
श्रीमते नारायणाय नमः
श्रीमते रामानुजाय नमः
श्रीनारदपुराणान्तर्गत–श्रीमद्यादवागिरिमाहात्म्यम्
प्रथमोऽध्यायः
व्यासादीनां बदरीस्थ–नारायण–समीपगमनम्
एकदा मुनयः सर्वेऽप्यैकान्त्येन व्यवस्थिताः ।
प्रापुर्नारायणं देवं नरनारायणाश्रमे ।। (१)
व्यासो वसिष्ठः कपिलो मार्कण्डेयश्च काश्यपः ।
अत्रिर्दक्षो भरद्वाजः विश्वामित्रश्च शौनकः ।। (२)
गौतमो जमदग्निश्च पुलस्त्यः कुम्भसम्भवः ।
वाल्मीकिर्वामदेवश्च वैशम्पायनभार्गवौ ।। (३)
एते चान्ये च मुनयः सर्वे विष्णुपरायणाः ।
सर्वे वेदार्थतत्वानां निर्णेतारो युगे युगे ।। (४)
ते तत्र मुनिरूपेण तिष्ठन्तं मुनिसत्तमाः ।
नारायणं नमश्चक्रुर्नरं चैव ततः परम् ।। (५)
तुष्टुवुश्च हृषीकेशं ततस्स्तव्यं स्तवप्रियम् ।
श्रुतिसिद्धान्तशुद्धाभिः स्तुतिभिस्तोत्रकोविदाः ।। (६)
ऋषयः –
भगवन् देवदेवेश नमो नारायणाय ते ।
रक्षकस्त्वं हि विश्वस्य शेषी चासि श्रियःपते ।। (७)
मातापितृसहस्त्रेभ्यो वत्सलोऽसि च देहिनां ।
अवलम्बनमस्माकं करुणा तव केवलम् ।। (८)
भवन्तं शरणं प्राप्ता भवसन्तापहारिणम् ।
पश्यन्ति सूरिभिस्सार्ध तद्विष्णोः परमं पदम् ।। (९)
अग्नौ प्रोतमिषीकाणां तूलं यद्वत्प्रदूयते ।
त्वामाश्रित्य प्रदूयन्ते पाप्मानस्तद्वदेव नः ।। (१०)
आलोकय कटाक्षैस्त्वम् अनुकम्पाब्धिवीचिभिः ।
अस्मानपि परां भक्तिं वहतस्त्वत्पदाम्बुजे ।। (११)
इत्थं नानाविधैस्स्तोत्रैः स्तुतस्स पुरुषोत्तमः ।
उवाच मुनिशार्दूलान् गुरुभिर्वाक्यविस्तरैः ।। (१२)
भगवान् –
स्वागतं भवतामद्य सुखमस्त्वधिकं हि वः ।
युष्माकं दर्शनेनाऽहं परितुष्यामि भूयसा ।। (१३)
मद्भक्ता हि मम प्राणाः ममात्मा ज्ञानिनां वराः ।
तल्लाभादपरं लाभं न च मन्ये कदाचन । । (१४)
भवदागमने कार्यं ब्रूतं यूयं ममाखिलम् ।
संश्रितत्राणहेतुर्मे सर्वो रूपपरिग्रहः । (१५)
मुनिभिश्चोदितस्तत्र पाराशर्यो मुनिस्ततः ।
सर्वं विज्ञापयामास समागमनकारणम् ।। । (१६)
व्यासः –
मन्त्राणां परमो मन्त्रः योऽयमष्टाक्षरात्मकः ।
उपदेष्टाऽसि तस्य त्वं तव शिष्यास्ततो वयम् ।। (१६)
दैवतं त्वं गुरुश्च त्वं माता च त्वं पिता च नः ।
न हि नारायणादन्यः कश्चिद्-बन्धुर्मनीषिणाम् ।। (१७)
अज्ञातज्ञापनं यत् स्यात् अप्रवृत्तप्रवर्तनम् ।
सर्वं च भवदायत्तम् अस्माकं पुरुषोत्तम ।। (१८)
कलिरद्य महीं सर्वाम् आक्रम्य खलु वर्तते ।
अतस्तद्दोषनिर्मुक्तं स्थानं त्वं वक्तुमर्हसि ।। (१९)
यत्रैते परया भक्त्या सेविष्यन्ते भवत्पदम् ।
मुनयः कमलाकान्त-कमलाकरलाळितम् ।। (२०)
इति तद्वचनं श्रुत्वा भगवान् भक्तवत्सलः ।
स्थानं सगुणमाख्यातुं सन्तोषादुपचक्रमे ।। (२१)
नारायणः –
अस्ति दक्षिणदेशीयः कश्चिदास्तिकसंश्रयः ।
नारायणगिरिः नाम संसारार्णवतारकः ।। (२२)
सह्याद्रेस्स गिरिः पूर्वः सह्यजायास्तथोत्तरः ।
दूरादालक्ष्यते शृङ्गैः दुःखसागरसेतुभिः ।। (२३)
तत्रार्चनविधानेन तपसा चाधिदैवतम् ।
अभ्यर्च्य विविधान्कामान् लभते कमलासनः ।। (२४)
अत्रोपदेष्टृ-रूपेण वर्ते बदरिकाश्रमे ।
उपदेष्टव्य-रूपेण वर्ते तत्र महीधरे ।। (२५)
हृदयं मम तत्स्थानं श्रुतीनां नयनं शुभम् ।
मुनीनामपि सर्वस्वं मुक्तेश्च प्रथमाधुरम् ।। (२६)
दक्षिणोत्तरभेदेन द्वावेतौ हि ममाश्रमौ ।
सत्त्वोत्तराणां भूयस्त्वात् स तु सर्वोत्तरो गिरिः ।। (२७)
गुणस्त्रितयभेदेन प्रकृतिः भिद्यते नृणां ।
नारायणाद्रिनिष्ठानां न रजोऽस्ति कुतस्तमः ।। (२८)
श्रीरङ्गे वृषभाद्रौ च क्षेत्रे सत्यव्रते मम ।
विष्णुलोके च या प्रीतिस्सा प्रीतिस्तत्र जायते ।। (२९)
तत्र शेषश्च तनुते शेषवृत्तिं युगे युगे ।
अशेषशेषिणे मह्यं शेषासनमुखैः सह ।। (३०)
अनन्तः प्रथमं रूपं लक्ष्मणश्च ततः परम् ।
बलभद्रस्तृतीयश्च कलौ कश्चिद्भविष्यति ।। (३१)
अर्चितः कृष्णरामाभ्यां तत्राऽहं द्वापरे यतः ।
तेन यादवशैलोऽयमिति लोकेषु कथ्यते ।। (३२)
सहस्रशिखरस्सोऽयं साक्षाच्छेषात्मको गिरिः ।
वैकुण्ठादपि यत्राऽहं रमया सहितो रमे ।। (३३)
वैकुण्ठाद्यखिलस्थानसारस्य यदुभूभृतः ।
सेवया कृत्स्नमत्स्थानसेवाऽप्यन्तर्भविष्यति ।। (३४)
वैकुण्ठवासिनस्सर्वे शेषशेषाशनादयः ।
तिर्यक्स्थावरजन्मानि श्रयन्ते यदुभूधरे ।। (३५)
अहं च बदरी भूत्वा तस्य शैलस्य मूर्धनि ।
वसामि मुनिशार्दूलैः वन्दितस्सनकादिभिः ।। (३६)
पशवः पक्षिणस्तत्र प्राकृताश्चापि मानवाः ।
दूरतो हि नमस्यन्ते क्रूरैः शमनकिङ्करैः ।। (३७)
यादवाद्रेः जिगमिषा येषां केषाञ्च विद्यते ।
तेषां देशे यमभटा न गच्छन्ति कदाचन ।। (३८)
भवन्तस्तत्र गत्त्वैव भवसन्तापशान्तये ।
काले काले च सेवन्तां कल्याणतीर्थमद्भुतम् ।। (३९)
यत्र तीर्थे निमज्जन्तो यतयः संश्रितव्रताः ।
उन्मज्जन्ति भवान् बोधिकल्लोलकलहान्तरात् ।। (४०)
पुष्करे न तथा प्रीतिर्न गङ्गायां न यामुने ।
यथा कल्याणतीर्थस्य तीर्थे कल्याणचेतसाम् ।। (४१)
तीर्थे तत्रामले स्नात्वा मुच्यन्ते सर्वकिल्विषैः ।
नास्तिकश्च कृतघ्नश्च परीवादरतोऽपि च ।। (४२)
परप्रशंसानिष्ठश्च स्वप्रशंसापरायणः ।
यज्ञविघ्नकरश्चापि वेदाध्ययनदूषकः ।। (४३)
परदारानुरक्तश्च पाकभेदकरोऽपि च ।
परद्रव्यापहारी च पाषण्डागमतत्परः ।। (४४)
शूद्रान्नभक्षकश्चापि श्वादीनामुपलालकः ।
धर्मविक्रयशीलश्च श्राद्धभुग्ग्रामयाजकः ।। (४५)
देवताद्रव्यहारी च दर्पदम्भादिसंयुतः ।
नित्यं नगरवासी च नृपसेवोपजीवकः ।। (४६)
कन्याविक्रियकारी च काकवत् सर्वभक्षकः ।
गवां क्लेशकरश्चापि ब्राह्मणानाञ्च निन्दकः ।। (४७)
विष्णुभक्तिविघाती च वृपलीपतिरेव च ।
शौचाचारविनिर्मुक्तः शरणागतघातकः ।। (४८)
एतैरन्यैश्च मुच्यन्ते पापैः पापरता जनाः ।
नरसिंहगिरिं तत्र दूरे नमत भक्तितः ।। (४९)
यस्य दर्शनमात्रेण दूरं गच्छति दुष्कृतम् ।
प्रह्लादो हि महाभागः प्रणयं मयि धारयन् ।। (५०)
प्रतिष्ठां कारयामास तत्र मां सिंहरूपिणम् ।
आरोहन्ति गिरिं ये तु ते च सेवार्थिनो मम ।। (५१)
नावरोहन्ति संसारसागरावर्तगह्वरे ।
धर्ममर्थञ्च कामञ्च लभन्ते मोक्षमन्ततः ।। (५२)
अज्ञानवारको नाम कश्चिदश्वत्थपादपः ।
तीर्थस्य पश्चिमे भागे कल्याणस्यावलोक्यते ।। (५३)
अंबरीषो विकुक्षिश्च पुरा रुक्माङ्गदस्तथा ।
शुकश्च पुण्डरीकश्च यदन्ते मामुपासत ।। (५४)
पञ्चभागवत-स्थानमतस्तत्स्थानमुच्यते ।
मुच्यन्ते हि च तत्स्थानदर्शनादपि पातकैः ।। (५५)
अहं हि मम भक्तानां ददामि निखिलं फलम् ।
कल्याणसरसः पूर्वं नरसिंहगिरेरधः ।। (५६)
क्षेत्रं सिद्धिकरं पुंसां वाराहं स्थानमुच्यते ।
वराहरूपी भगवान् वसुधामवलोकयन् ।। (५७)
यत्र श्रुतीनामुत्तंसं श्लोकद्वयमुपादिशत् ।
वैकुण्ठवर्धनं नाम क्षेत्रं तत् सत्यमुच्यते ।। (५८)
प्रमाणं तस्य विज्ञेयं परितो योजनद्वयम् ।
यावद्दृष्टिपथं याति पर्वतोऽयं मुनीश्वराः ।। (५९)
तावत्प्रमाणकं सर्वं मुक्तिक्षेत्रं तदुच्यते ।
शुद्धसत्वमयं तत्र विमानं मम दृश्यते ।। (६०)
आनन्दमयमित्येव यस्य नामाऽपि कथ्यते ।
नमस्कारेऽपि किं तस्य कीर्तनादर्शनादपि ।। (६१)
आजन्ममरणं यत्स्यादघं तदपि नश्यति ।
अवतीर्णं हि वैकुण्ठादाद्ये कृतयुगे च तत् ।। (६२)
जगतामुपकाराय स्वयं सङ्कल्पतो मम ।
पश्चादपि विमानस्य प्राकारान्तरमध्यतः ।। (६३)
सुदर्शनं च लक्ष्मीश्च वर्तेते सर्वकामदे ।
ये तत्र मार्जनं चक्रुः ये च तत्रोपलेपनम् ।। (६४)
दीपप्रदानं ये चाऽपि ये वा स्थण्डिलमण्डनम् ।
चामरस्मेरपार्थास्ते छत्रछायाश्रिताः पुनः ।। (६५)
चक्रवर्तिपदं प्राप्य मोदन्ते पुत्रपौत्रकैः ।
अधिकारावसाने तु ददाम्यहमनुत्तमम् ।। (६६)
अविशेषं फलं तेषां शेषशेषाशनादिभिः ।
अशेषचिदचिद्वस्तु शेषिणो मम काङ्क्षितम् ।। (६७)
भक्तिः केवलमन्यैस्तु परीक्षे भावबन्धनम् ।
विशुद्धां मृत्तिकां तत्र ललाटे धारयन्ति ये ।। (६८)
अन्येष्वपि यथास्थानमङ्गेषु यतचेतसः ।
सद्यस्संशुद्धरूपेभ्यः तेभ्यो बिभ्यति दानवाः ।। (६९)
भूतप्रेतपिशाचाश्च तथा वेताळजातयः ।
श्वेतद्वीपात् खगेशेन शुद्धमृद्रव्यमाहृतम् ।। (७०)
यादवाद्रौ विनिक्षिप्तम् अक्षयं तन्ममाजया ।
सत्त्वस्य प्रकृतिश्शुद्धा शुद्धा तत्रापि मृत्तिका ।। (७१)
अतस्सत्वमयं स्थानं आदरादधिगच्छत ।
अष्टतीर्थमहिमाननुवर्णनम्
उत्तरत्राऽस्य शैलस्य धारानिर्मलरूपिणी ।। (७२)
काचित्पतति कल्याणी काङ्क्षितार्थप्रदायिनी ।
यस्या वैकुण्ठगङ्गेति नामधेयं विदुर्बुधाः ।। (७३)
सा हि विष्णुपदादेव साक्षान्निपतिता भुवि ।
ये पिबन्ति जलं भक्त्या ये वा ततीरवासिनः ।। (७४)
विज्ञानं प्राप्य मोदन्ते ते वै वैकुण्ठवासिभिः ।
त्रिविक्रमस्य पादाब्जे ब्रह्मणा क्षालिते सति ।। (७५)
आसीद्धरजटाजूटमाला विष्णुपदी नदी ।
विरजा-तोयमादाय ततो वैकुण्ठवासिनः ।। (७६)
पुनः प्रक्षाळयामासुः पुण्यतीर्थाऽभिलाषिणः ।
तत्तीर्थं पतितं किञ्चित् पार्श्वे यादवभूभृतः ।। (७७)
सा हि वैकुण्ठगङ्गेति धारा तत्र निगद्यते ।
भक्तिसारो महायोगी मत्पदैकस्तुतव्रतः ।। (७८)
तत्रत्यो मत्पदं ध्यायन् चिरं वैकुण्ठमाप सः ।
तस्यां वैकुण्ठगङ्गायां प्रोक्षणैर्मम रोधकाः ।। (७९)
कामादिदोषा नश्यन्ति शमाद्या भान्ति सद्गुणाः ।
नयनादपवर्गस्य नयनं स्थानमुच्यते ।। (८०)
तत्र केशवसान्निध्यं कृतिनो मन्वते सदा ।
नारायणह्रदं प्राहुर्नयने तीर्थमद्भुतम् ।। (८१)
अयत्रादेव जायन्ते यदन्ते मन्त्रसिद्धयः ।
क्लेशापहारिणं पुंसां केवलं दर्शनादपि ।। (८२)
केशवं नयनस्थं तं ध्यात्वैव विबुधोत्तमः ।
विरक्तो विष्णुचित्तस्तु नारायणपदद्वयम् ।। (८३)
शरणं प्राप्य तत्रैव जगाम परमं पदम् ।
नारायणह्रदस्नानं नरकाङ्गारनाशनम् ।। (८४)
नारायणाङ्घ्रिस्मरणं जनयेन्मरणे नृणाम् ।
दक्षिणे चास्य सरसः कल्याणस्योत्तरे शुभे ।। (८५)
तीर्थं पाराशरं पुण्यं भासते मधुरोधकम् ।
मन्नियोगेन मद्भक्तः पुरा तत्र पराशरः ।। (८६)
पुराणं वैष्णवं चक्रे तटे तीर्थस्य तस्य हि ।
मैत्रेयकुण्डमित्यस्य तीर्थस्य कतिचित् बुधाः ।। (८७)
दक्षिणापथदेशीया वदन्त्याख्यां पुराविदः ।
उत्तरापरभागेन शैलस्यास्य प्रसर्पति ।। (८८)
परीता यज्ञवृक्षैश्च यादवीति महानदी ।
खादिरैश्च पलाशैश्च तत्रत्यैरेव पावनैः ।। (८९)
ये यजन्ति परं धाम लभन्ते ते हि मामकम् ।
यादवेन्द्रो महीपालः तस्यास्तीरे तपश्चरन् ।। (९०)
रौद्रं पदमवाप्याऽथ क्रमान्मुक्तिं परामगात् ।
तस्य यादवशैलस्य पार्श्वे दक्षिणतः स्थिताम् ।। (९१)
परिधानशिलां दृष्ट्वा प्रणमन्ति द्विजोत्तमाः ।
यस्याः प्रणामं कुर्वाणाः प्रणम्यन्ते सुरासुरैः ।। (९२)
सा हि सत्त्वमयी पुंसां सद्यस्सत्वं प्रयच्छति ।
पुरा हि शाक्यपाषण्डकाणादाद्या महीतले ।। (९३)
त्रैय्यां वैय्याकुलीं चक्रुर्वक्रैर्वचनविस्तरैः ।
अन्तेवासिभिराम्नायैस्साकं मानुषरूपधृत् ।। (९४)
त्रिदण्डधारी भूत्त्वाऽहं निरास्थमहमीदृशान् ।
दत्तात्रेयस्य मे तत्र तदा कापायसङ्ग्रहः ।। (९५)
अतो मत्परिधानेन शिलाया नाम कथ्यते ।
ये तत्र परिगृहन्ति नराः काषायशाटिकाम् ।। (९६)
मद्भावेन नमस्यास्ते मद्भक्तषूत्तमोत्तमाः ।
वेदानुपादिशं तत्र शिष्याणामहमर्थतः ।। (९७)
तस्मात्पुष्करिणीं तत्र वेदपुष्करिणीं जगुः ।
उपत्यकायां शैलस्य तस्याः पश्चिमभागतः ।। (९८)
दर्भतीर्थमिति ख्यातं तीर्थमस्ति महत्तरम् ।
मम सन्यासिरूपस्य यत्रासीद्दर्भसङ्ग्रहः ।। (९९)
शाण्डिल्योऽपि मुनिश्रेष्ठः तत्र मामर्चयत्पुरा ।
पञ्चरात्रस्य कृत्स्नस्य य एवाऽसीत्प्रवर्तकः ।। (१००)
पाञ्चकालिकधर्मोऽपि येनाऽभूद्विशदीकृतः ।
प्रयाणकाले तत्रत्यैर्दभैर्ये तल्पमाश्रिताः ।। (१०१)
ते हि संसारदुःखेभ्यो मुक्ता यास्यन्ति मत्पदम् ।
गिरेः पश्चिमतस्तीर्थं दिव्यमन्यच्च दृश्यते ।। (१०२)
पलाशतीर्थमित्याहुर्यस्य नाम पुराविदः ।
विश्वामित्रेण शप्तानां वसिष्ठकुलजन्मनाम् ।। (१०३)
यत्रासीन्मत्प्रसादेन पुरा शापविमोक्षणम् ।
तस्य चोत्तरतः किञ्चित्तीर्थस्यास्ति महत्तरम् ।। (१०४)
पद्मतीर्थमिति ख्यातं तीर्थं पद्मोपलालितम् ।
सनत्कुमारो मुनिभिः सनकाद्यैस्समन्वितः ।। (१०५)
यत्र पद्ममुपादाय पुरा मामभ्यपूजयत् ।
पद्मतीर्थ-समुद्भूत-पद्माक्ष-मणिमालिकाम् ।। (१०६)
कण्ठे बिभ्रति ये नित्यं ते हि वैकुण्ठगामिनः ।
इति कल्याणतीर्थस्य परितः पावनोदकाम् ।। (१०७)
अष्टतीर्थमिमां प्राहुरष्टाक्षरमयीं बुधाः ।
स्मृत्याऽपि यस्याश्शुध्यन्ति किं पुनर्मज्जनादिभिः ।। (१०८)
सा हि सर्वेषु तीर्थेषु प्रशस्ता कथ्यते बुधैः ।
तत्तीरतुलसीकाष्ठमणिभिर्ये विभूषिताः ।। (१०९)
शुद्ध्यन्ति तेषां दृष्टयैव महापातकिनो नराः ।
यतयो मां निषेवन्ते यदुशैलस्य मूर्धनि ।। (११०)
स्थानान्तरे कृतं पुण्यं पुण्यस्थाने दशोत्तरम् ।
पुण्यस्थाने च यत्पुण्यं पुष्करे तच्छतोत्तरम् ।। (१११)
सहस्रगुणितं तच्च प्रयागे तु कृतं भवेत् ।
साळग्रामे कृतं तच्चेत् भवेत् कोटिगुणं पुनः ।। (११२)
शतकोटिगुणं तस्मात् कृतं यादवभूधरे ।
तत्रापि मम भक्तानां सन्निधौ क्रियते यदि ।। (११३)
तद्दृष्टिपरिपूतं तत्कोटिकोटिगुणं भवेत् ।
दुर्दर्शनमरातीनां मामकानां सुदर्शनम् ।। (११४)
पालनाय गिरेस्तस्य परिभ्रमति तेजसा ।
यस्तु यादवशैलस्थान् मद्भक्तान् पीडयिष्यति ।। (११५)
सुदर्शन-महाज्वाला-मालाशलभ एव सः ।
द्वापरान्ते कलिस्तत्र प्रवेष्टुं द्रुतमागतः ।। (११६)
वेत्रदण्डधरैस्सद्यः ताडितो मम किङ्करैः ।
वत्सरं वाऽथ मासं वा पक्षं सप्तदिनानि वा ।। (११७)
त्रिरात्रमेकरात्रं वा यो वसेद्यदुभूधरे ।
स एव मम भक्तस्यान्नान्यः प्रियतरो मम ।। (११८)
यस्तु फाल्गुनमासस्य पौर्णमास्यां निषेवते ।
यामं वापि तदर्धं वा मां तत्र यदुभूधरे ।। (११९)
अनुगच्छामि तं नित्यं जननीव स्तनन्धयम् ।
गत्वा यूयं मुनिश्रेष्ठाः तत्र कृत्वा ममार्चनम् ।। (१२०)
उपलभ्य परां भक्तिं संसृतिं सन्तरिष्यथ ।
गत्वा गत्वा निवर्तन्ते सर्वे धर्मपरायणाः ।। (१२१)
मां प्राप्य न निवर्तन्ते यादवाद्रिनिवासिनम् ।
इत्युक्त्वा विरते देवे मुदिता मुनयश्च ते ।। (१२२)
प्रणम्य पुनरप्याहुः प्रणतोत्तारकं हरिम् ।
मुनयः –
नारायण नमस्तेऽस्तु नराणामयनं भवान् ।। (१२३)
संक्षेपाद्यदुशैलस्य माहात्म्यं कथितं त्वया ।
तदिदं विस्तराच्छोतुं वाञ्छामो वयमच्युत ।। (१२४)
त्वं हि नः परमो बन्धुः त्वं हि नः परमा गतिः ।
इत्युक्तस्तैर्मुनिश्रेष्ठैः प्रत्युवाच ततो हरिः ।। (१२५)
नारायणः –
सनत्कुमारो भगवान् सर्वं श्रुत्वा पितामहात् ।
तस्य शैलस्य माहात्म्यं नारदाय ततोऽब्रवीत् ।। (१२६)
स एव भवतामेतत् वक्तुमर्हति नारदः ।
इत्युक्त्वाऽन्तर्दधे तत्र मुनीनां भावितात्मनाम् ।
पुरतः पुण्डरीकाक्षः पूर्णषाड्गुण्यलक्षणः ।। (१२७)
इति किल मुनिमुख्यानीरयित्वा वचोभिः
परिणतमिव लक्ष्म्याः प्रार्थितानां फलानां ।
यदुगिरिगतमन्तर्दशिनां चक्रवर्ती
यदुकुलबहुमान्यं चिन्तयामास देवम् ।। (१२८)
इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरि–माहात्म्ये विष्णुमुनिसंवादे संक्षेपतो यादवाद्रिप्रशंसादिकथनं नाम प्रथमोऽध्यायः
अथ द्वितीयोऽध्यायः
व्यासादिमहर्षि–सन्निधिं प्रति नारदागमनम्
ततः करतलोल्लासि-वीणावादनलालसः ।
आविर्बभूव भगवानग्रतस्तत्र नारदः ।। (१)
स मुनिस्तपसां राशिः सत्त्वस्यैकसमुच्चयः ।
भगवान् ज्ञानवैराग्यभक्तीनामेकभाजनम् ।। (२)
वैकुण्ठचरणाम्भोज-सेवाहेवाकशालिनाम् ।
नासीरे वर्तते नित्यं नारदो हि महामुनिः ।। (३)
स तत्र श्रुतिसीमन्त-सीमालङ्कारमौक्तिकम् ।
उपवीणयितुं देवं नारायणमुपागमत् ।। (४)
न यज्ञैर्नापि विज्ञानैः प्रणामैर्न चार्चनैः ।
न च योगैस्तथा तुष्येद्यथा सङ्कीर्तनाद्धरिः ।। (५)
रसायनं मनुष्याणां रसनायाः परो रसः ।
रक्षा सकललोकानामहो नारायणाक्षरम् ।। (६)
भक्तिगद्गदया वाचा गायन्तं गरुडध्वजम् ।
ददृशुर्मुनिशार्दूलं मुनयस्तत्र संयताः ।। (७)
अथ तानरविन्दाक्षपरभक्तिपरिष्कृतान् ।
पप्रच्छ स मुनिश्रेष्ठः प्रणयोत्फुल्लया गिरा ।। (८)
नारदः –
किं कारणमिति ब्रूत कृतिनामत्र सन्निधौ ।
चरितार्थो भवाम्यद्य भवतामवलोकनात् ।। (९)
पृष्टास्तेनापि मुनयः सर्ववृत्तमुदैरयन् ।
मुनयः –
वयं कलियुगे प्राप्ते वासं पुण्यं विचिन्महे ।। (१०)
अस्माकं सर्ववासानां अधिकं गुणवैभवैः ।
नारायणाद्रिं भगवान् प्राह नारायणः स्वयम् ।। (११)
उक्त्वा संक्षेपतस्तस्य प्रभावं भगवान्पुनः ।
भवान् वक्ष्यति तत्सर्वं विस्तरादिति चाब्रवीत् ।। (१२)
भवान् कलु महाभागो भगवद्ज्ञानयोगिनाम् ।
मुनीनामग्रगण्योऽभूत्, मूर्तिस्सत्त्वस्य निर्मला ।। (१३)
अतो यादवशैलस्य माहात्म्यं श्रोतुमिच्छताम् ।
अस्माकमभिलाषस्य पूरकस्त्वं भविष्यसि ।। (१४)
नारायणः कथं तत्र स्वयं सन्निदधे पुरा ।
कथं वा तस्य शैलस्य कलिदोषनिहन्तृता ।। (१५)
अर्चितस्तत्र देवेशः केन केनाधिकारिणा ।
तीर्थं वा तत्र कल्याणनाम्ना कथमुदीर्यते ।। (१६)
तत्रत्यायाश्च मृत्स्नायाः प्राशस्त्यं केन हेतुना ।
कथमासीत्पुरा तत्र नरसिंहस्य सन्निधिः ।। (१७)
वैकुण्ठवर्धनाभिख्या क्षेत्रस्यास्य कुतोऽभवत् ।
को वा नयनवासेन प्राप विष्णोः परं पदम् ।। (१८)
तत्रापराधिनां पुंसां किन्नु दुःखं भविष्यति ।
तत्र नारायणः श्रीमान् कथं च परितुष्यति ।। (१९)
सर्वमेतत् मुनिश्रेष्ठ भवान्नो वक्तुमर्हति ।
इति तद्वचनं श्रुत्वा नारदो मुनिसत्तमः ।। (२०)
अनुयुक्तमशेषं तदारेभे वक्तुमुत्सुकः ।
नारदोक्तजगत्सृष्ट्यादिः
शृणुध्वमृषयस्सर्वे श्रुतं यत्तन्मया पुरा ।। (२१)
सनत्कुमारात्सर्वेषां विज्ञानानां च सागरात् ।
अहं हि परिदष्टानाम् अनात्मगुणपन्नगैः ।। (२२)
औषधं स परं मन्ये गुरोरज्ञानवारणात् ।
पुरा चराचरं विश्वं पुरुषोत्तमलीलया ।। (२३)
तमोमात्रावशेषेण रूपेणैव व्यवस्थितम् ।
तमोऽपि च परे ब्रह्मण्यविभागेन च स्थितम् ।। (२४)
प्रधानं पुरुषश्चेति शरीरद्वितयं हरेः ।
आधेयत्वविधेयत्वशेषत्वैरखिलं जगत् ।। (२५)
धारकस्य नियन्तुश्च शेषिणो हि हरेस्तनुः ।
अतस्तदात्मकत्वेन प्रधानपुरुषावपि ।। (२६)
विश्वकारणभावेन विश्रुतौ निगमेषु च ।
स्वातन्त्र्येण तयोरस्ति कारणत्वं स कुत्रचित् ।। (२७)
पुरुषाः खलु तत्काले पुरुषार्थविवर्जिताः ।
अविशेषादचिद्वर्गैरवसादं प्रपेदिरे ।। (२८)
अवलोक्य विनिर्मुक्तभोगान्प्रकृतिसंश्रयान् ।
पुरुषान्पुण्डरीकाक्षे करुणा काप्यजायत ।। (२९)
रक्षणार्थं ततस्तेषां सिसृक्षां प्राप माधवः ।
पुराणपुरुषस्यास्य सङ्कल्पात्प्रकृतिः पुनः ।। (३०)
महदादिप्रभेदेन विचकार गुणैस्ततः ।
महानहङ्कृतिं चक्रे सात्विकादिविभागतः ।। (३१)
गुणभेदादहङ्कारः स्त्रैविध्यमगमत्ततः ।
इन्द्रियाणां समुत्पत्तिरहङ्काराच्च सात्विकात् ।। (३२)
तन्मात्रान्तरितत्वेन तामसाद्भूतसंप्लवः ।
द्वयोरुपकृतिं चक्रे राजसाहंकृतिस्तयोः ।। (३३)
पञ्चानामपि भूतानां शब्दाद्या उत्तरोत्तरम् ।
अधिकत्वेन जायन्ते तस्मात् पञ्चगुणा मही ।। (३४)
तन्मात्रा भूतभेदोऽयं सूक्ष्मस्थूलविभागतः ।
यथा हि कलिलं पश्चाद्दधिरूपेण जायते ।। (३५)
तथा तन्मात्ररूपं तद्भूतत्वमधिगच्छति ।
असंहितत्वादेतानि नानावीर्यान्वितानि हि ।। (३६)
पृथक्भूतानि भूतानि माण्डसृष्टावशक्नुवन् ।
ततः पञ्चसु भूतेषु पञ्चीकरणमातनोत् ।। (३७)
भगवान् सत्यसङ्कल्पः कर्तुं कार्यपरम्पराम् ।
चतुर्भिः परभागैः स्यादर्धमर्धं स्वभागतः ।। (३८)
इति पञ्चसु भूतेषु पञ्चीकरणमिष्यते ।
तेषु तेषु च भूतेषु तत्तद्वयवहृतिः पुनः ।। (३९)
भूयस्त्वात् स्वात्मभावस्य मतिरप्येवमिष्यते ।
दशोत्तरैरावरणैः परीतं परमः पुमान् ।। (४०)
अण्डमुत्पादयामास ततः कनकपिण्डवत् ।
भूतैर्भूतादिना चैव महता च ततः परम् ।। (४१)
अण्डं ह्येतदखण्डस्य कारणं परिवार्यते ।
समष्टिसृष्टिम्सर्वेषां व्यष्टिः पश्चाद्भविष्यति ।। (४२)
अण्डमध्ये नतः पश्चादेष कारणपूरुषः ।
स्तूयमानस्त्रयीभागैः अधिशिष्ये जलाशयम् ।। (४३)
नारायणशब्दनिर्वचनम्
तदा हि सूयमानस्य शतशस्तस्य नामभिः ।
नाऽन्यत् प्रियं तथा चक्रे नारायणपदं यथा ।। (४४)
इदं हि शुद्धिर्वचसां श्रुतीनामवलंबनम् ।
सूरीणामपि सर्वेषां कर्णेष्वमृतसेचनम् ।। (४५)
नारायणपदं यस्य जिह्वाग्रे वर्तते सदा ।
नारायणः श्रिया सार्धं नैव मुञ्चति तं क्षणम् ।। (४६)
अर्थं विनाऽपि शब्दोऽयं त्रायते महतो भयात् ।
किं पुनर्ज्ञायमानार्थः कृतीनां पादसेवया ।। (४७)
आपो हि नारशब्दार्थः नारा विष्णोः समुद्भवाः ।
अयनं ता यदस्यासंस्तेन नारायणः स्मृतः ।। (४८)
नारं सरोरुहं प्रोक्तं ज्वलद्योनिमयं पुरा ।
यस्य नाभौ समुत्पन्नं स वै नारायणः स्मृतः ।। (४९)
अक्षरत्त्वान्नरा जीवा नारास्तेषां समुच्चयः ।
तेषामयतां याति तेन नारायणस्स्मृतः ।। (५०)
अथवा नेतृभूतोऽयं नरो नारं चराचरम् ।
वासस्थानमिदं तस्य तेन नारायणस्स्मृतः ।। (५१)
ज्ञानशक्त्यादयो यद्वा गुणा नारा इति स्मृताः ।
षाड्गुण्यपरिपूर्णोऽयं तेन नारायणस्स्मृतः ।। (५२)
षाड्गुण्यं वासुदेवस्य यथा व्यूहेऽपि तत् समम् ।
संकर्षणादिभेदस्तु गुणाभिव्यक्तिमात्रतः ।। (५३)
ज्ञानशत्यादिभिष्षड्भिः तद्भेदैः करुणादिभिः ।
अतो नारायणश्श्रीमान् सर्वत्र परिपूर्यते ।। (५४)
विश्वान्तर्यामिवालस्य यथा हि जठरे जगत् ।
षाड्गुण्योदरमाश्रित्य वर्तन्ते गुणकोटयः ।। (५५)
समुद्रशायिनस्तस्य नाभेराभरणात्मकम् ।
आविर्वभूव दिव्यं तत् पङ्कजं यदपङ्कजम् ।। (५६)
उद्बभूव ततस्तस्मात् उद्गताञ्जलिबन्धनः ।
भक्त्या नम्रशिराः कश्चित् भृशमुल्लसिताननः ।। (५७)
स चतुर्वदनो जातो युक्तं तस्मात् चतुर्भुजात् ।
इति श्रुतिभिरष्टासु दिशास्वाभाषि भाषितम् ।। (५८)
तमेनं वर्धयामास कारुण्यस्तन्यदायिनी ।
करुणैवापरा विष्णोः कमला कमलालया ।। (५९)
पारलौकिकमैश्वर्यम् ऐहलौकिकमेव वा ।
सर्वं सम्पद्यते लक्ष्म्याः करुणापरिणामतः ।। (६०)
ततो विज्ञापयामास विष्णोरेषानपायिनी ।
वेदोपदेशं बालस्य भगवन्कर्तुमर्हसि ।। (६१)
सहधर्मचरीवाक्यात्स च सन्तोषदायिनः ।
एवं विज्ञापितः पश्चात् ओमित्याह श्रियःपतिः ।। (६२)
श्रुत्वा तद्वचनं बाल्यात् ओमोमोमित्युदीरयन् ।
हसितं दिव्यदम्पत्योः पित्रोश्चक्रे पितामहः ।। (६३)
आश्चर्येण हसन् पश्चादित्याह स च माधवः ।
पितामहोऽपि तच्छ्रुत्त्वा तदेवावर्तयत्पुनः ।। (६४)
प्रणवं प्रणवाद्यं च द्वयमक्षरमालपन् ।
कमला कमलेशाभ्यां लालितः कमलासनः ।। (६५)
वेदादिः प्रणवश्चासीत् अकारस्तस्य कारणम् ।
तस्यार्थश्च परं ब्रह्म नारायण इति श्रुतिः ।। (६६)
बहुशः प्रणवालाप-बन्धुराननमात्मजम् ।
दृष्ट्वा तुतोष भगवान् दयानिर्भरया दृशा ।। (६७)
उपादिक्षत्ततश्श्रीमान् स्वयमष्टाक्षरं विधेः ।
तद्धि सर्वस्य वेदस्य कारणं भवतारणम् ।। (६८)
चतुरोऽपि ततो वेदानध्यैष्ट चतुराननः ।
साक्षान्नारायणादेव सर्वरक्षापरायणात् ।। (६९)
अर्थानपि च वेदानामनर्थविनिवारकान् ।
तस्मै प्रथमपुत्राय प्रोवाच परमः पुमान् ।। (७०)
ज्येष्ठाय खलु पुत्राय वक्तव्यं मनसि स्थितम् ।
शिष्याय वा प्रणयिने तत्त्वविज्ञानचेतसे ।। (७१)
शरीरं स्यन्दनं विद्धि विद्धि धुर्यांश्च पूरुषान् ।
मद्गुणांश्च गुणान्विद्धि मां च त्वं विद्धि सारथिम् ।। (७२)
सर्वेष्वपि च धर्मेषु पारतन्त्र्यमिति स्मरन् ।
मामेव साधनं विद्धि विद्धि मामेव तत्फलम् ।। (७३)
एवं प्रबोधितस्तेन ब्रह्मा सर्वज्ञतां ययौ ।
न खल्वस्मात् परं किञ्चित् ज्ञातव्यमवशिष्यते ।। (७४)
ततः प्रसादसंफुल्ललोचनः पद्मलोचनः ।
अष्टाक्षरस्य मन्त्रस्य प्रभावमपि चाब्रवीत् ।। (७५)
अष्टाक्षरमहिमानुवर्णनम्
ब्रह्मन् अष्टाक्षरो मन्त्रः श्रुतीनां दृष्टिरिष्यते ।
धर्मार्थकाममोक्षाणां चतुर्णामपि साधनम् ।। (७६)
कृतं बहुविधैर्मन्त्रैः कृतं यन्त्रैः नियन्त्रितैः ।
कृतं च कर्मणां तन्त्रैः यस्त्वष्टाक्षरसन्निधिः ।। (७७)
साधारणो ह्ययं मन्त्रः सर्वास्वपि च मूर्तिषु ।
अन्यानुकूलतां यान्ति मूर्तिमन्त्रास्सहस्रशः ।। (७८)
व्यापकेषु च मन्त्रेषु त्रिष्वप्येष परो मतः ।
व्याप्यव्यापकयोरत्र विशेषेणाववोधनात् ।। (७९)
ततो हि विष्णुगायत्र्यामाद्योऽयं मन्त्र उच्यते ।
मन्त्रोऽयं सद्गुरोरेव श्रोतव्यो नान्यतोऽपि च ।। (८०)
न खल्वन्धस्य जात्यन्धः प्रदातुं यष्टिमर्हति ।
यथा मे श्रीनिवासत्वम् असाधारणमिष्यते ।। (८१)
तथा नारायणपदं त्रय्यन्तेषु निगद्यते ।
नारायणपदं लोके नाम यस्य प्रकीर्त्यते ।। (८२)
अपवर्गो हि तन्मातुः अयत्नादेव सिद्ध्यति ।
आसने शयने याने भोजनादौ च कर्मणि ।। (८३)
मन्त्रमष्टाक्षरं ब्रह्मन् मध्ये चित्तं निवेशय ।
मन्त्रस्यास्य प्रभावेन विश्वं सृक्ष्यसि पद्मज ।। (८४)
अधिकारावसाने च मामेव प्राप्स्यसि ध्रुवम् ।
अथ प्रणम्य स हि तं पद्मया पद्मलोचनम् ।। (८५)
सन्तोषोत्फुल्लवदनः सर्वलोकपितामहः ।
मनसा वर्तयन्नेव मन्त्रमष्टाक्षरं परम् ।। (८६)
ससर्ज सकलं विश्वं जङ्गमाजङ्गमात्मकम् ।
तस्य ज्येष्ठोऽभवत्पुत्रो विरूपाक्षो महामतिः ।। (८७)
विष्णुभक्तिपराणां यः प्रथमः परिकीर्तितः ।
पुरन्दरमुखैस्सर्वैः सदा सेवाविधायिभिः ।। (८८)
स हि देवैः स्तुतो नित्यं देव देव इतीर्यते ।
उपदिश्य ततस्तारमुत्तारकमनुत्तमम् ।। (८९)
वेदानध्यापयामास शम्भुमम्भोजसम्भवः ।
वेदानधीत्य विधिवत् सोऽपि विष्णुपरायणः ।। (९०)
अवाप्य सम्पदं दिव्यामखिलैरपि पूज्यते ।
अदिशत्सर्वभूतानामैहिकं वाप्यनैहिकम् ।। (९१)
पुरुषार्थं ततस्सर्वमर्थितः पुरशासनः ।
सर्वे वेदास्समस्ताश्च ऋषयः पद्मसम्भवात् ।। (९२)
बभूवुर्बहुधा तस्माद्यद्विस्तारोऽखिलं जगत् ।
सृष्टिं पितामहश्चक्रे चक्रे रक्षां हरिस्स्वयम् ।। (९३)
संहारमपि सर्वेषां शङ्करश्च करिष्यति ।
प्रसादक्रोधजौ विष्णोः प्रथमौ तौ दिवौकसाम् ।। (९४)
अभूतां तन्नियोगेन सृष्टिसंहारकारकौ ।
ततो दक्षादिभिः पुत्रैस्सेवितश्चतुराननः ।। (९५)
विष्णोरभ्यर्चनं कर्तुं चिन्तयामास चेतसा ।
इयेष च ततः पश्चादर्चारूपमवेक्षितम् ।। (९६)
यस्मिंश्च परया भक्त्या परिचर्यां विधास्यति ।
फलप्रदः स्वयं विष्णुः फलश्च स्वयमेव हि ।
लप्स्ये तस्मात्तमेवाहमिति मेने पितामहः ।। (९७)
पुलकितनिखिलाङ्गः पूर्वदृष्टं पुमांसं
फणिपति-शयनन्तं पद्मनाभं पयोधौ ।
नियमितमतिरन्तर्निनिमेषं निदध्याद्-
उपनिषदवतंसं मन्त्रमुच्चारयन्सः ।। (९८)
शमितनिखिलतापं शङ्खचक्रादिचिह्नं
शरणमुपगतानां शाश्वतं भागधेयम् ।
अपि च हसितलेशैरादरं व्याहरन्तं
पुरुषमभजदन्तः पुण्डरीकायताक्षम् ।। । (९९)
इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरि–माहात्म्ये नारदागमनादिकथनं नाम द्वितीयोऽध्यायः
अथ तृतीयोऽध्यायः
ब्रह्मणः पुरो भगवदाविर्भावः
ततः कळकलैस्सार्धं काहळीनादमेदुरः ।
अश्रूयत नभो मध्ये दिव्यदुन्दुभिनिस्वनः ।। (१)
ध्वनिश्च पाञ्चजन्यस्य निगमान्तैरनुद्रुतः ।
शुश्रुवे शुभकोटीनां कारणं वैरिदारणम् ।। (२)
शरण्यस्सर्वलोकानां नारायण उपागतः ।
शङ्खचक्रगदापाणिः नारायण उपागतः ।। (३)
इति काहलिनादेन कर्णध्वमृतसेचनं ।
कुर्वता सहसा योगाद्विरराम पितामहः ।। (४)
अष्टाभिः दृष्टिभिः पश्चादष्टाक्षरमहातपाः ।
ददर्श मुख्यमालोकं दिशास्वष्टासु विस्तृतम् ।। (५)
गच्छ गच्छेति रभसाद्वदन्तस्ते चकाशिरे ।
वेत्रदण्डधराः केचित्ततो वैकुण्ठवासिनः ।। (६)
वीणादण्डधरैः विष्णोः गाथागानपरायणैः ।
नभोमण्डलमावव्रे नव्यैरपि च गायकैः ।। (७)
ततः करतलोल्लासि हेमवेत्रविभूषितम् ।
ददर्श सम्भ्रमोपेतं देवं सूत्रवतीसखम् ।। (८)
तस्य पार्श्वस्थिताश्चण्डप्रचण्डाद्याः प्रपेदिरे ।
पुण्डरीकासनस्याक्ष्णाम् अष्टानामष्टपात्रताम् ।। (९)
गजामनादिकानन्यान् गजसिंहगतिक्रमान् ।
शेषासनस्य सचिवान् सविशेषं व्यलोकयत् ।। (१०)
रुद्रासुकीर्त्योर्भूषाभिरङ्कितं भुजदण्डयोः ।
तमप्यण्डजषण्डेशं ददर्शाग्रे स चाण्डजः ।। (११)
फणामणिसहस्रेण नीराजितरमापतिम् ।
भक्तिसम्भ्रान्तमूर्धानम् अपश्यद्भुजगोत्तमम् ।। (१२)
रमाया विभ्रमांभोजं राकाचन्द्रस्य मातृकम् ।
अदृश्यत नभो मध्ये विष्णोरातवारणम् ।। (१३)
विरजापवनोद्धूतपट्टिकामण्डितस्ततः ।
अलक्षि गरुडारूढो वैकुण्ठविजयध्वजः ।। (१४)
अथ माला परिभ्रान्तैर्विपुलैः भृङ्गमण्डलैः ।
तटित्पटलसङ्कीर्ण-काळमेघैरिवावृतम् ।। (१५)
दिवाकरसहस्राणां दैन्यदानविनोदिभिः ।
सुवर्णकलशैः दूरात् सूचितैश्चर्यवैभवम् ।। (१६)
मुहुश्शिञ्जितनादेन मुक्तिमार्गप्रदर्शकान् ।
आम्नायानुद्गिरन्तीभिः किङ्किणीभिरलङ्कृतम् ।। (१७)
आयुधैः पञ्चभिर्दिव्यैः बद्धाञ्जलिपुटैरपि ।
उदारध्वनिभिर्छ्रव्यैः उदीरितजयस्वनम् ।। (१८)
इति विभ्राजितं व्योम्नि विस्फारितविलोचनः ।
विष्णोः विमानमद्राक्षीदुन्मुखः कमलासनः ।। (१९)
सम्भ्रान्तास्सत्यलोकस्थास्सर्वेपि सनकादयः ।
गरुडध्वजिनं दृष्ट्वा विस्मयं परमं गताः ।। (२०)
जगाम परमाश्चर्यमासनादुज्जगाम च ।
तुतोष च ततो ब्रह्मा बभ्राम च ननर्त च ।। (२१)
भूषणं भुवनानां तद्विमानं वैष्णवं विधेः ।
अग्रतस्स्थापयामास ततस्सैन्यधुरन्धरः ।। (२२)
उवाच च शुभं वाक्यम् उद्वमन्नमृताम्बुधिम् ।
सन्तोषोत्फुल्लवदनं सरसीसहसम्भवम् ।। (२३)
पृतनानाथः –
तव भक्त्या प्रसन्नोऽयं कमलारमणः पुमान् ।
आजगाम पदाद्दिव्यादाश्चर्यकरुणानिधिः ।। (२४)
तुलसीमालिकामोद-वासनावासितोरसम् ।
आराधय जगन्नाथमानन्दैकार्णवस्स्वयम् ।। (२५)
अयं हि तव सर्वस्वं तारको भववारिधेः ।
अद्य यावत्कृतानां ते तपसां चरमं फलम् ।। (२६)
नारदः –
प्रणम्य पृतनानाथं प्रथमस्त्रिदिवौकसाम् ।
अद्राक्षीदरविन्दाक्षमक्ष्णामनुपमं फलम् ।। (२७)
अन्योन्यालापशलिभ्यां मणिभूषणशिञ्जितैः ।
लक्ष्मीकरसरोजाभ्यां लालिताङ्घ्रिसरोरुहम् ।। (२८)
स्फुरत्किरीटमकुट-हार-केयूर-नूपुरैः ।
अन्यैरपि यथारूपमनुरूपैः विभूषणैः ।। (२९)
आयुधैरपि चक्राद्यैरलङ्कारप्रयोजनैः ।
भूषितं भुवनोद्भासि वैजयन्त्या च मालया ।। (३०)
श्रीवत्सेन च पद्माया मणिपीठेन मण्डितम् ।
पुण्डरीकदलाम्नाय-पण्डितेक्षणपद्धतिम् ।। (३१)
राकाशशाङ्कसौभाग्यपरिभाविमुखाम्बुजम् ।
कम्बुग्रीवं सुविस्तीर्णकवाट-घटितोरसम् ।। (३२)
चतुर्भुजमुदाराङ्गं पीतकौशेयवाससम् ।
सदा समस्त-जगतां शरण्यपदपङ्कजम् ।। (३३)
अनुभूयैवमापादम् अतिसौन्दर्यविग्रहम् ।
तुष्टाव पुण्डरीकाक्षं पङ्केरुहसमुद्भवः ।। (३४)
प्रणमन्तं स्तुवन्तं च नृत्यन्तं च पितामहम् ।
वल्गन्तं चापि तिष्ठन्तं वहन्तं शिरसा पदम् ।। (३५)
धावन्तं दूरतो दूरादाधावन्तं पुनः पुनः ।
वल्कलं चोत्क्षिपन्तं तं गायन्तं गद्गदस्वनैः ।। (३६)
इत्थमन्यैश्च सन्तोषसन्तान-कलिकायितैः ।
सुरभीकृतसर्वाङ्गं सम्भ्रमैः भगवान् हरिः ।। (३७)
दृष्ट्वा तुतोष कारुण्यदीर्घिका-दीर्घलोचनः ।
अथाजग्गुस्तुरास्सर्वे सह गन्धर्वकिन्नरैः ।। (३८)
ननृतुः प्रीतियोगेन विष्वगप्सरसां गणाः ।
तालैरुत्ताळनादैश्च मर्दलैः दलितांभरैः ।। (३९)
विकसद्रणितैश्चापि नर्तकीकरकङ्कणैः ।
गीतैरपि च सङ्गीतवेदिनां श्रुतिसङ्गतैः ।। (४०)
हाहाकारैश्च गन्धर्व-सार्वभौम-मुखोद्गतैः ।
प्रतिशब्दैर्ध्वनीनां च विमानोदरसम्भवैः ।। (४१)
जयोक्त्या च जगत्सर्वं शब्दात्मकमिवाभवत् ।
प्रशान्तसम्भ्रमो ब्रह्मा ततः परमपूरुषम् ।। (४२)
तुष्टाव परया भल्या साकं जयजयोक्तिभिः ।
वाक्यैरपौरुषेयैश्च संप्रहृष्टतनूरुहः ।। (४३)
ब्रह्मकृतभगवद्–स्तुतिः
नारायण नमस्तुभ्यं वासुदेव नमोऽस्तु ते ।
नमस्समस्तलोकानां विष्णवे प्रभविष्णवे ।। (४४)
अच्युताय नमस्तुभ्यं अनन्ताय नमो नमः ।
गोप्त्रे समस्तलोकानां गोविन्दाय नमो नमः ।। (४५)
पराय व्यूहरूपाय विभवाय च ते नमः ।
अन्तर्यन्त्रे समस्तानाम् अर्चारूपाय ते नमः ।। (४६)
कारणाय नमस्तुभ्यं रक्षकाय च ते नमः ।
नमस्संहरते तुभ्यं नमो वैकुण्ठदायिने ।। (४७)
नमस्ते श्रीनिवासाय शरणागतवत्सल ।
नमस्तुभ्यं नमस्तुभ्यं पुनस्तुभ्यं नमो नमः ।। (४८)
धारकोऽसि समस्तानां जगताञ्च जगत्पते ।
अजायमानो बहुधा जायमानो विराजसे ।। (४९)
न हि कर्मनिमित्तं तत्प्राकृतं वा न चेतरत् ।
देवोऽसि त्वं मनुष्योऽसि तिरश्चां बन्धुरप्यसि ।। (५०)
तद्वत् त्रिमूर्तिष्वेकोऽसि त्वमेव त्वं वयं वयम् ।
ईक्षणध्मानसंस्पर्शैः प्रजानां पालनाय हि ।। (५१)
मत्स्य-कूर्म-वराहादिरूपैः विहरते भवान् ।
कारुण्यरूपया लक्ष्म्या सहितस्त्वं युगे युगे ।। (५२)
विश्वं पालयसे नान्यः कश्चित् पालयिता सताम् ।
दासोऽहं तव लक्ष्मीश मम वश्याश्च देवताः ।। (५३)
तस्मात्सर्वस्य लोकस्य नाथोऽसि मधुसूदन ।
वैदिकेषु च सर्वेषु कर्मस्वाराध्यते भवान् ।। (५४)
अपरे कञ्चुकप्रायाः पितृदेवादयस्तव ।
त्वत्पादे पर्यवस्यन्ति नमोवाकाश्च वैदिकाः ।। (५५)
क्रियन्ते वारवाणाय न हि राज्ञां नमस्क्रियाः ।
न त्वदन्यं निषेवन्ते नाथ मोक्षाभिलाषिणः ।। (५६)
व्यत्यस्तेष्वधिकारेषु ततः कर्मफलान्यपि ।
प्रतिभूरिव लक्ष्मीश स्वयमेव प्रयच्छसि ।। (५७)
अतोऽहं शङ्करश्चापि ये चान्ये मद्वशङ्गताः ।
सर्वे देवास्त्वदायत्ता भवामो मधुसूदन ।। (५८)
शरणं त्वां प्रपन्नोऽस्मि शरण्यं शरणार्थिनाम् ।
आत्मसात्कुरु सर्वञ्च मां मदीयं च माधव ।। (५९)
त्वामर्चयितुमिच्छामि वाञ्छां मे पूरय स्वयम् ।
नारदः –
इति विज्ञापयामास विज्ञानजलधिर्विधिः ।। (६०)
प्रसन्नवदनश्श्रीमान् प्रत्युवाच पितामहम् ।
भगवान् –
अभ्यर्च्य मामिह ब्रह्मन् युगानामयुतं भवान् ।। (६१)
कारयिष्यति पुत्राद्यैर्वसुधायां ममार्चनम् ।
ततस्सनत्कुमाराद्यैस्सत्पुत्रैः परिवारितः ।
अर्चयामास गोविन्दमरविन्दायतेक्षणम् ।। (६२)
इति सह सनकाद्यैरिन्दिरालोचनेन्दोः
परिचरणविधाने पण्डितः पद्मयोनिः ।
पदकमललतानां पारिजातस्य विष्णोः
अकृत-चरणसेवामर्चनानां सहस्त्रैः ।। (६३)
इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये भगवदाविर्भावादिकथनं नाम तृतीयोऽध्यायः
अथ चतुर्थोऽध्यायः
भूलोकं प्रति भगवदागमनम्
मुनयः –
आविर्भावं मुनिश्श्रेष्ठ श्रुत्वा भगवतो वयम् ।
धन्या भवामस्त्वद्वाक्यात् श्रुतिसन्तोषकारणात् ।। (१)
कथमेतन्महाभाग कथं प्राप्य वसुन्धराम् ।
जगदानन्दयामास भगवान् भक्तवत्सलः ।। (२)
नारदः –
कदाचित् कलशाम्बोधेरागतो मुनिसत्तमः ।
सनत्कुमारो भगवान् सनकाद्यैस्समन्वितः ।। (३)
नारायणपरो भक्त्या प्रणिपत्य कृताञ्जलिः ।
विनयावनतो भूत्वा ब्रह्माणमिदमब्रवीत् ।। (४)
सनत्कुमारः –
अहं पुत्रश्च शिष्यश्च तवाऽस्मि कमलासन ।
कषायमृदितास्सर्वे हृदये मे दयाळुना ।। (५)
भवता भगवद्ज्ञानभक्तिवैराग्यदायिना ।
वेदानध्यापयत्पूर्वं भवान्वेदान्तसंयुतान् ।। (६)
कर्मब्रह्मविचाराभ्यां संशयांश्च न्यवारयत् ।
रहस्यं च प्रकाशं च सर्वं सर्वविदां वरात् ।। (७)
अवगच्छामि भवतो नाऽन्यो गुरुरिहास्ति मे ।
अद्य खल्वहमिच्छामि भगवन्तं सनातनम् ।। (८)
देवं नारायणं भक्त्या भवतार्चितमर्चितुम् ।
अतो मे देहि दिव्यं तद्विमानमतुलं प्रभो ।। (९)
यत्र नारायणश्श्रीमान् रमया सह वर्तते ।
नारदः –
इति तद्वचनं श्रुत्वा चिन्तापरवशः क्षणम् ।। (१०)
स्थित्वा पितामहः पश्चाद्दातुं तस्मै मनो दधे ।
अब्रवीदथ सन्तोषादात्मपुत्रं पितामहः ।। (११)
ब्रह्मा –
सनत्कुमार मे पुत्रा बहवस्सन्ति सात्विकाः ।
प्रियोऽसि भगवद्ज्ञानभक्तिभ्यां त्वं विशेषतः ।। (१२)
पुत्रस्स एवं ज्ञातव्यो नान्ये पुत्रा मनीषिणाम् ।
यस्य नारायणश्श्रीमान् आजन्ममरणं धनम् ।। (१३)
नारदः –
इत्युक्त्वा प्रियपुत्राय विष्णोरमिततेजसः ।
विप्रयोगासहत्वेन विधावन्तर्विषीदति ।। (१४)
भगवान् पुण्डरीकाक्षो भक्तवात्सल्यवारिधिः ।
अमृतस्यन्दिभिर्वाक्यैराह पङ्कजसम्भवम् ।। (१५)
भगवान् –
मा विषीद महाभाग शेखराय प्रयच्छ माम् ।
इदं मे रूपमन्यत्ते ददामि हृदयोद्भवम् ।। (१६)
नारदः –
इत्युक्त्वा कमलाकण्ठभूषणाङ्कनशालिना ।
करेण कान्तं रूपं तद्ददौ पुत्राय वेधसे ।। (१७)
ततः प्रीतमतिर्ब्रह्मा तरुणं रूपमद्भुतम् ।
सहितं पद्मया भूम्या समुत्थाय समाददे ।। (१८)
भक्त्या परमया युक्तस्तद्रूपं पद्मसम्भवः ।
असेवत सरस्वत्या सावित्र्या च निषेवितः ।। (१९)
सनत्कुमारमालोक्य प्राह पङ्कजसम्भवः ।
ब्रह्मा –
अस्ति सह्यगिरेः पूर्वः पुण्यः कश्चन भूधरः ।। (२०)
शुद्धसत्त्वमयी तत्र दृश्यते शुभमृत्तिका ।
तत्रैतत् स्थापयित्वा त्वं विमानं वत्स वैष्णवम् ।। (२१)
नारायणपदाम्भोजपरिचर्यापरो भव ।
विमानं ह्येतदतुलं वैकुण्ठात्स्वयमागतम् ।। (२२)
विष्णुभक्ति-विनिर्मुक्तैः वेदनिन्दापरायणैः ।
नास्तिकैश्च दुराचारैः भगवद्भक्तदूषकैः ।। (२३)
त्यक्तवर्णाश्रमाचारैः न स्पृष्टव्यं कदाचन ।
नारदः –
ततस्सनत्कुमारस्तु भगवन्तं सनातनम् ।। (२४)
लब्ध्वा पितामहात्प्रीतो मेरुशृङ्गमुपागमत् ।
अथ तस्य विमानस्य प्रकारैरवकुण्ठिता ।। (२५)
कनकाचलशृङ्गाणां द्युतिरासीत्समन्ततः ।
अवलोक्य विमानं तत्सुरलोकसुलोचनाः ।। (२६)
चक्षुषामनिमेषाणां साफल्यं प्रतिपेदिरे ।
ततस्तद्दर्शनोदीर्णसन्तोषाश्रुतरङ्गिताः ।। (२७)
अग्रे ववन्दिरे दूरादमराः स्तुतिशालिनः ।
तदा जग्मुस्सुरास्साकं प्रमोदं प्रमदाजनैः ।। (२८)
परमब्रह्मभूतस्य पद्मनाभस्य दर्शनात् ।
अन्वगच्छन्विमानं तदधिरुह्य स्ववाहनम् ।। (२९)
बृन्दारकवरास्सर्वे पुरन्दरपुरोगमाः ।
गन्धर्वाप्सरसस्सिद्धाः साद्ध्याश्च पुरतो ययुः ।। (३०)
शरदम्बुदसन्तान-निकुरुम्ब-मनोहरैः ।
अग्रतो ददृशे शृङ्गैः पुरमर्दनभूधरः ।। (३१)
विमानं वैष्णवं दृष्ट्वा विष्णुभक्तिपरायणः ।
ननर्त सहसा तोषात् शम्भुः कल्पान्तनर्तकः ।। (३२)
तुष्टाव देवदेवेशम् अर्धचन्द्रशिखामणिः ।
रुद्रकृतभगवद्स्तुतिः
अहो नु खलु सौभाग्यम् अक्ष्णां यैरवलोक्यसे ।। (३३)
अरविन्दाक्षलक्ष्म्या त्वम् आराधितपदाम्बुज ।
गण्यन्ते सिकतास्सिन्धौ गण्यन्ते वर्षबिन्दवः ।। (३४)
न गण्यन्ते भवन्नाभि-सरो-नळिनसम्भवाः ।
आहुः षाड्गुण्यसर्वस्वमाहुर्विश्वस्य कारणम् ।। (३५)
आहुर्मुक्तिप्रदातारं आहुस्त्वामस्त्रिलोचनम् ।
अन्तयन्तासि सर्वेषाम् अरविन्दविलोचन ।। (३६)
आब्रह्मकीटपर्यन्तं क्रीडा पुत्रायते तव ।
नमस्ते जगदीशाय नारायण नमोऽस्तु ते ।। (३७)
लक्ष्मीवक्षोरुहामोद-वासितांसाय ते नमः ।
नमः कमलनेत्राय नमः कारुण्यशालिने ।। (३८)
शरणागतसर्वस्वचरणाय च ते नमः ।
नारदः –
इति स्तुत्वा जगन्नाथमिन्दिरारमणं भवः ।। (३९)
अन्वगच्छदशेषाणां नाथं वृषभवाहनः ।
आजगाम भगवानळकामभितः पुरीम् ।। (४०)
विश्रवस्तनयेनापि स्तुतस्स पुरुषोत्तमः ।
अथाससाद भगवानैहिकं परमं पदम् ।। (४१)
मुनिभिश्च समाकीर्णं रम्यं बदरिकाश्रमम् ।
नरनारायणौ यत्र वर्तेते मुनिरूपतः ।। (४२)
सनत्कुमारप्रमुखाः सनकाद्या मुनीश्वराः ।
तत्र संस्थापयामासुः विमानं विमलप्रभम् ।। (४३)
उषितं खल्विहाशेषजगतां पतिना पुरा ।
सनकाद्यैरुपेतेन सादरं मुनिपुङ्गवैः ।। (४४)
ततो नारायणः श्रीमानाराध्यत दिनत्रयम् ।
मुनिना मुनिशार्दूलैरनुयातमिह स्थितैः ।। (४५)
अथ सर्वैस्सुरैस्सार्धम् अब्जयोनिसुतो मुनिः ।
ददर्श पर्वतं दिव्यं दक्षिणाशाविभूषणम् ।। (४६)
अपश्यद्विधिना प्रोक्तं तुलसीपरिवारितम् ।
स मुनिः पर्वतस्सोऽयं सत्वोत्तर इतीरितः ।। (४७)
इति निश्चित्य सहसा सन्तोषं परमं ययौ ।
विष्वक्सेनाभिवन्द्यन्तं तं शेषं साक्षात् श्रियःपतेः ।। (४८)
ववन्दे भक्तिभारेण पङ्कजासननन्दनः ।
अथ तस्य मुनिश्श्रेष्ठो मध्ये शृङ्गं महीभृतः ।। (४९)
दिव्यमालोकयामास तीर्थं तीर्थैर्निषेवितम् ।
सनत्कुमारो भगवान् सदसत्प्रविवेचकः ।। (५०)
इदं खलु महत्स्थानम् इह सर्वेश्वरं हरिम् ।
आराधयिष्ये गोविन्दम् अशेषार्थप्रदायिनम् ।। (५१)
इति मत्वा तटे तस्य सरसस्समुनीश्वरः ।
विमानं स्थापयामास विधिनाभ्यर्चितं पुरा ।। (५२)
पञ्चलक्षप्रमाणं यद्योजनानां पुराभवत् ।
पितामहस्य भवने पूजितं सुरपुङ्गवैः ।। (५३)
पारे कल्याणतीर्थस्य विमानं विपुलं हि तत् ।
पञ्चपूरुषमात्रेण रूपेण ददृशे जनैः ।। (५४)
भगवानपि भक्तानां परतन्त्रस्स्वलीलया ।
तदन्तः प्रमितेनैव रूपेण ददृशे जनैः ।। (५५)
आयुधान्यपि दिव्यानि भूषणान्यपि विस्तृतम् ।
रूपं विहाय तद्रूपस्वरूपं रूपमाप्नुवन् ।। (५६)
आश्चर्यमिदमाश्चर्यमहो नारायणः पुमान् ।
अप्रमेयप्रमेयाभ्यां रूपाभ्यामवलोक्यते ।। (५७)
इति वल्कलमुत्क्षिप्य मुनयो विस्मिताशयाः ।
ननृतुश्च ववल्गुश्च नन्दनश्च वितेनिरे ।। (५८)
अहो नु खलु कल्याणं अहो कल्याणमद्य नः ।
अत्र नारायणश्श्रीमान् वैकुण्ठात्स्वयमागतः ।। (५९)
इति सर्वेऽपि तत्रत्यास्सन्तोषेण बभाषिरे ।
तस्मात्कल्याणतीर्थं तदभवन्मुनिपुङ्गवाः ।। (६०)
स्थापयित्वा विमानस्थं प्राङ्मुखं पुरुषोत्तमम् ।
पाञ्चरात्रविधानेन समभ्यर्च्य च भक्तितः ।। (६१)
सर्वेषां सुरमुख्यानां वितेने मुनिसत्तमः ।
भगवच्चरणाम्भोजतीर्थतोयनिषेवणम् ।। (६२)
ववन्दिरे ततस्सर्वे वासुदेवपदाम्बुजम् ।
साष्टाङ्गेन प्रणामेन सन्तस्सन्तोषसन्नताः ।। (६३)
ततस्सुराश्च कोटीररत्नकोटिमरीचिभिः ।
भक्त्या नीराजयामासुः भगवत्पादपीठिकाम् ।। (६४)
सनकादीन्प्रति भगवदुक्त–कल्याणतीर्थमहिमा
भगवानपि तान्सर्वान् भक्तिपूजान् विलोकयन् ।
अपाङ्गैरमृतासार-सम्पातसुमनोहरैः ।। (६५)
उवाच मधुरं वाक्यं औदार्यकरुणानिधिः ।
भगवान् –
पुरा वराहरूपेण वसुधां विभ्रता मया ।। (६६)
उषितं खलु तीर्थस्य कल्याणस्यास्य पूर्वतः ।
मग्नोत्थितस्य जलधौ ममाङ्गाद्गळितं जलम् ।। (६७)
तेन पूर्णमिदं तीर्थं तस्मात्पुण्यं पुरातनम् ।
तस्मादेतस्य तीर्थस्य तीर्थं वहत मूर्धनि ।। (६८)
तथोर्ध्वगतिकामानां मुनीनामूर्ध्वरेतसाम् ।
वाञ्छा वराहरूपस्य मम सेवाविधायिनाम् ।। (६९)
ऊर्ध्वपुण्ड्र-विधानार्थं चोदितो गरुडो मया ।
शुद्धामुपाहरद्दिव्यां श्वेतद्वीपस्य मृत्तिकाम् ।। (७०)
भागे कल्याणतीर्थस्य निचिक्षेप च पश्चिमे ।
तस्माच्छ्रेष्ठा समस्तानामेषा शुद्धा मृदामभूत् ।। (७१)
स्नात्वा कल्याणतीर्थेऽस्मिन्धृत्वा शुद्धाञ्च मृत्तिकाम् ।
इमा मद्भक्तियोगेन मत्सायुज्यमवाप्स्यथ ।। (७२)
अधिकारानुरूपेण भजन्ते ये च मामिह ।
तेऽपि कामानभीष्टान् स्वान् लप्स्यन्ते मत्प्रसादतः ।। (७३)
यस्तु कल्याणतीर्थस्य तीरे पिण्डोदकक्रियाम् ।
पितृणां कुरुते तस्य पितरः प्रीतचेतसः ।। (७४)
पुत्रान्पौत्रान्प्रदास्यन्ति पुण्येषु निरतान् सदा ।
अध्यात्मगुणसम्पन्नान् अपवर्गपरायणान् ।। (७५)
अस्य तीर्थस्य तीरेऽस्मिन्ये यजन्ति द्विजोत्तमाः ।
फलं सहस्रगुणितं लभन्ते ते हि वाञ्छितम् ।। (७६)
अपवर्गमवाप्स्यन्ति मत्प्रसादादतः परम् ।
ये तु निष्कामभावेन यजन्ते मामिह स्थितम् ।। (७७)
अहं फलप्रदस्तेषाम् अहमेवोत्तमं फलम् ।
तीरे कल्याणतीर्थस्य दानं कुर्वन्ति ये नराः ।। (७८)
लब्ध्वा वसुमतीं सर्वां चतुरर्णवमेखलाम् ।
पुत्रपौत्रपरीतास्ते मोदन्ते चक्रवर्तिनः ।। (७९)
व्रतानि यानि पुण्यानि तान्यत्रैवाचरन्नरः ।
संप्राप्य ब्रह्मणो लोकं ब्रह्मणा सह मोदते ।। (८०)
ऐश्वर्यं वापि पुत्रान्वा तथाऽरोग्यादिकं फलम् ।
सहसा यत्प्रसादेन सर्वमत्र भविष्यति ।। (८१)
फाल्गुनी पौर्णमासी या तस्यामहमिहागतः ।
तस्मात्पौर्णमासीनां पौर्णमासी प्रशस्यते ।। (८२)
अतस्सर्वेषु वर्षेषु तस्यां यूयमिहागताः ।
मम तीर्थेन पूताङ्गा गच्छथ त्रिदशाधिपाः ।। (८३)
नारदः –
श्रुत्वा भगवतो वाक्यम् इति सर्वे सुराधिपाः ।
पुरमर्दनमुख्यास्ते स्वं स्वं स्थानम् प्रपेदिरे ।। (८४)
मया च सनकाद्यैश्च युक्तस्स मुनिपुङ्गवः ।
सनत्कुमारस्तत्रैव भगवन्तमथार्चयत् ।। (८५)
चिरमिति परदैवं चिन्तयन्निन्दिरायाः
स्तनतटमकरीभिः स्थापिताङ्कं भुजेषु ।
परिमितफलचिन्तावर्जितः पर्यचारीत्
परिणतपरभक्तिः पद्मयोनिः कुमारः ।। (८६)
अधिपतिरमराणामञ्जनं वा रमायाः
त्रिभुवनसुकृतानां तादृशं वा विपाकम् ।
अकृतकवचनानामप्यदृश्यं पुमांसं
यदुगिरितटभाजां लोचनान्यन्वभूवन् ।। (८७)
इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये भगवदागमनादिकथनं नाम चतुर्थोऽध्यायः
अथ पञ्चमोऽध्यायः
सुचरितोपाख्यानम्
ततस्ते मुनयस्सर्वे स्थित्वा बदरिकाश्रमे ।
श्रुत्वा नारदवाक्यं तदब्रुवन्नारदं पुनः ।। (१)
मुनयः –
धन्या वयं भगवतस्समागमनकीर्तनात् ।
प्राशस्त्यं मृत्तिकायाश्च प्रत्यपाद्यत भूयसा ।। (२)
विशुद्धाया मुनिश्रेष्ठ मुक्तिहेतोः विशेषतः ।
नाम कल्याणतीर्थस्य प्रतिपन्नं भवद्गिरा ।। (३)
वराहरूपिणो विष्णोः सन्निधिस्सम्यगीरिता ।
अवशिष्टं तथान्यन्नः स्वयं वक्तुमिहार्हसि ।। (४)
गङ्गा हि सर्वतीर्थेषु प्रशस्ता भुवि कथ्यते ।
कथं कल्याणतीर्थस्य भवताधिक्यमुच्यते ।। (५)
नारदः –
शृणुध्वं मुनिशार्दूला वृत्तं किञ्चित्पुरातनम् ।
आधिक्यं तस्य तीर्थस्य दृश्यते येन सर्वतः ।। (६)
पुरा सुचरितो नाम ब्राह्मणोऽभून्महातपाः ।
सुशीला नाम तस्यासीत्पत्नी काचित्पतिव्रता ।। (७)
सुमतिश्च सुवृत्तिश्च तस्य पुत्रौ बभूवतुः ।
स तु सर्वाणि तीर्थानि सकुटुम्बो जगाम च ।। (८)
स्थानान्यपि च दिव्यानि पुण्यान्यायतनानि च ।
कावेरीं तुङ्गभद्राञ्च ताम्रपर्णीं सरस्वतीम् ।। (९)
शोणां गोदावरीं कृष्णां नर्मदाञ्च पयस्विनीम् ।
कृतमालां प्रतीचीञ्च रामसेतुं तथैव च ।। (१०)
पाण्डुरङ्गं कुरुक्षेत्रं पुण्यं च पुरुषोत्तमम् ।
अनन्तशयनं रम्यं श्रीकूर्मं सिंहभूधरम् ।। (११)
इत्थं गोकर्णमुख्यानि स्थानान्यन्यानि पर्यटन् ।
न जगाम कदाचिच्च नारायणगिरेस्तटम् ।। (१२)
न च कल्याणतीर्थस्य तीर्थे चक्रे निमज्जनम् ।
कदाचित्पर्यटन्नेव गङ्गातीरमुपागमत् ।। (१३)
उपागतोऽपि नापश्यद्गङ्गां सुचरितोऽपि सन् ।
पप्रच्छ गङ्गा कुत्रेति तत्रत्यान् पुरतस्स्थितान् ।। (१४)
अग्रतः प्रवहत्येषा हरचूडाविभूषणम् ।
इति तैरुच्यमानोऽपि नापश्यदमरापगाम् ।। (१५)
अद्य मे खलु दौर्भाग्यमग्रतस्तिष्ठति ध्रुवम् ।
आगतोऽपि न पश्यामि हरिपादतरङ्गिणीम् ।। (१६)
इति सञ्चिन्तयन्नन्तः सन्तापकलुषीकृतः ।
विषण्णवदनो भूत्वा तुष्टाव सुरनिम्नगाम् ।। (१७)
गङ्गे विष्णुपदाम्भोज-सङ्गमङ्गलरूपिणि ।
प्रकाशय स्वरूपं ते मम सन्तापशान्तये ।। (१८)
इत्युक्तवति विप्रेन्द्रे कन्या काचिददृश्यत ।
अन्यया कन्यया सार्धमसितोत्पलशोभया ।। (१९)
विषण्णं ब्राह्मणं दृष्ट्वा किं ब्राह्मण विषीदसि ।
इति प्रोवाच सा कन्या मधुरं मधुराकृतिः ।। (२०)
ब्राह्मणः –
अहमद्य विषीदामि सुरसिन्धोरदर्शनात् ।
कृतप्रयासवैफल्यात् किं दुःखं प्राणिनां शुभे ।। (२१)
कन्या –
न हि पापकृतां पुंसां सा दृष्टिमधिगच्छति ।
ब्राह्मणः –
यद्यहं पापकर्माऽस्मि सैव मे क्षाळयत्वघम् ।। (२२)
हरिपादनदीं मुक्त्वा कुतस्स्यादघसङ्क्षयः ।
कन्या –
अहं भवामि वैकुण्ठपादाम्बुरुहवाहिनी ।। (२३)
इयं मम वयस्या सा यमुनां यमिनां प्रिया ।
पुरा हि दुरितं किञ्चित्कृतं सुचरितं त्वया ।। (२४)
तेषु तेषु च देशेषु पर्यटन् दक्षिणापथे ।
भवान् सर्वेषु तीर्थेषु स्नात्वा नारायणाचलम् ।। (२५)
नागच्छन्नापि कल्याणतीर्थे चक्रे निमज्जनम् ।
पापमन्यत्किमधिकं पुण्यतीर्थव्यतिक्रमात् ।। (२६)
तत्तीर्थं सर्वतीर्थेभ्यः प्रभावैरतिरिच्यते ।
अहं हरिपदाम्भोज-संश्लेषात्सर्वतोधिका ।। (२७)
वराहरूपिणो विष्णोस्सर्वाङ्गीणं तु तज्जलम् ।
सन्निधत्ते च तत्तीरे सदा नारायणः स्वयम् ।। (२८)
न मुञ्चन्ति च तन्नित्यं नारायणपरायणाः ।
यत्र स्नानं वितन्वन्ति नारायणपरायणाः ।। (२९)
पुण्यनद्यस्समस्ताश्च सन्निधिं तत्र तन्वते ।
अहं वसामि चैत्रे हि मासे चान्द्रे सरोवरे ।। (३०)
अनन्तसरसस्तीर्थे वैशाखे तु वसाम्यहम् ।
आषाढे तुङ्गभद्रायामापगानां शिरोमणौ ।। (३१)
मासे प्रोष्ठपदे स्वामिपुष्करिण्यां तु मे स्थितिः ।
तुलायामागते सूर्ये कावेर्यां तु वसाम्यहम् ।। (३२)
फाल्गुने मासि संप्राप्ते मासानामुत्तमोत्तमे ।
अहं कल्याणतीर्थस्य मध्ये वर्ते मनोरमे ।। (३३)
तदा सर्वनदीनां च सन्निधिस्तत्र जायते ।
ये तदा तत्र मज्जन्ति हरिभक्त्या समन्विताः ।। (३४)
फलन्ते सर्वतीर्थानां लभन्ते नात्र संशयः ।
अतस्त्वं गच्छ तत्रैव स्नात्वा पश्चान्ममाकृतिम् ।। (३५)
वीक्षसे वाहिनीरूपां मधुजित्पदवाहिनीम् ।
नारदः –
इत्युक्तस्स तया तत्र कन्यया धन्यरूपया ।। (३६)
उवाच विनयोपेतस्तां विष्णुपदवाहिनीम् ।
सुचरितः –
दूरदेशपरिभ्रान्त्या परिश्रान्तोऽस्मि भूयसा ।। (३७)
अहं गन्तुं न शक्रोमि पुत्रौ मे बालकाविमौ ।
तस्मात्त्वमेव कल्याणतीर्थं गङ्गे भव स्वयम् ।। (३८)
नारदः
इत्युक्त्वा सादरं भक्तिनम्रेण ब्राह्मणेन सा ।
यमुनावक्त्रमालोक्य किञ्चिदुत्स्मितकारिणी ।। (३९)
रूपं प्रकाशयामास दयया दिव्यवाहिनी ।
तुतोष ब्राह्मणस्तेन तुष्टाव च पुनः पुनः ।। (४०)
उवाच मधुरं वाक्यं गङ्गा सुचरितं ततः ।
गङ्गा –
कल्याणतीर्थनाम त्वं त्रिरावर्त्य ममान्तरे ।। (४१)
सकुटुम्बो निमज्ज त्वं सर्वं प्राप्स्यसि वाञ्छितम् ।
नारदः –
ब्राह्मणोऽपि ततः प्रीतः तन्नामावर्तयन्मुहुः ।। (४२)
ममज्ज जाह्नवीतोये मधुजित्पदसम्भवे ।
उन्ममज्ज ततः पश्चादुल्लसत्पद्ममण्डले ।। (४३)
कल्याणतीर्थकल्लोलमध्ये सुचरितद्विजः ।
सकुटुम्बस्समुत्थाय तीर्थतोयात् सविस्मयम् ।। (४४)
सर्वमालोकयामास यदुशैलस्य वैभवम् ।
तटे कल्याणतीर्थस्य तापसा ममुपस्थिताः ।। (४५)
तीर्थोत्थितममुं दृष्ट्वा विस्मयं प्रतिपेदिरे ।
अन्वयुञ्जत को ब्रह्मन् भवान् कस्माच्च कारणात् ।। (४६)
इहागमनमासीत्ते सर्वं कथय तत्वतः ।
इति तेषां वचः श्रुत्वा ब्राह्मणस्सर्वमेव तत् ।। (४७)
वृत्तमावेदयामास तेषां कौतुकशालिनाम् ।
स च पप्रच्छ तान् सर्वान् किमेतत्स्थानमित्युत ।। (४८)
ते पुनर्विस्मयाविष्टास्तस्य सर्वं बभाषिरे ।
कल्याणतीर्थं तच्छ्रैष्ठ्यं माहात्म्यं यदुभूभृतः ।। (४९)
ततः स्नानं तदङ्गञ्च तथान्यानपि कृत्स्नशः ।
कालोचितानि कर्माणि कृत्वा ब्राह्मणपुङ्गवः ।। (५०)
तत्रानन्दमयाख्यस्य विमानस्यान्तरे स्थितम् ।
भक्त्या नारायणं देवं सिषेवे भक्तवत्सलम् ।। (५१)
अपरिग्रहशीलोऽयं यावल्लब्धोपजीवनः ।
चकार नियतं वासं नारायणगिरेस्तटे ।। (५२)
विष्णोनिवेदितेनैव देहधारणमातनोत् ।
अनिवेदितमन्नाद्यं भुक्तवान्न कदाचन ।। (५३)
तस्य पुत्रोऽभवत्तत्र तृतीयोऽपि महामतिः ।
स तस्य जातकर्माद्यं चक्रे वेदविधानतः ।। (५४)
अकरोत्तस्य नामापि नारायण इति द्विजः ।
हरिभुक्तावशिष्टेन वर्धितस्स च बालकः ।। (५५)
अवाप पित्रोरधिकां विष्णुभक्तिं दिने दिने ।
कदाचिदभवद् देशः सर्वो दुर्भिक्षपीडितः ।। (५६)
अश्मवृष्टिनिपातेन नष्टौषधिफलोदयः ।
तदा कुटुम्बसंश्लेषात् सुशीला पतिमब्रवीत् ।। (५७)
सुशीला –
भगवन् रक्षणीयास्ते बालाः पुत्रास्सती वधूः ।
अकार्यकरणेनापि नः त्वं रक्षितुमर्हसि ।। (५८)
वदामि चापलादेतद्वनिताजनसंश्रयात् ।
सर्वधर्मविदे तुभ्यम् अथवा किं वदाम्यहम् ।। (५९)
दारिद्र्यवारणो नाम वर्तते द्रमिडेश्वरः ।
स ते दास्यति सर्वस्वं वाञ्छितादधिकप्रदः ।। (६०)
नारदः –
इति तस्या वचश्श्रुत्वा पुत्राभ्यां सहितो द्विजः ।
प्रतस्थे भवनात्स्वस्मात् प्राज्ञः प्राप्तुं नृपालयम् ।। (६१)
व्याक्षिप्ते राजकार्येण स च राज्ञि स पुत्रकः ।
राजधानीनिवासेन यातनाशतमन्वभूत् ।। (६२)
ततो लब्ध्वा धनं किञ्चिन्मार्गे चोरैर्निपीडितः ।
ताडितो लगुडैश्चापि चिरादेवागमद्द्विजः ।। (६३)
त्यक्त्वा नारायणं देवं दूरं यातस्य मे फलम् ।
नालमेतदिति प्राह पुत्रयोस्स च भूसुरः ।। (६४)
सुचरितपुत्रस्य रत्नभिक्षाप्रदानम्
गते पितरि तत्काले मातुरन्तिकसंश्रयः ।
नारायणः क्षुधायुक्तस्तामेवान्नमयाचत ।। (६५)
अन्नं पात्रे निधायाऽथ ददौ पुत्राय सा वधूः ।
अब्रवीच्च तदा मात्रा दत्तेऽन्ने स तु बालकः ।। (६६)
अनिवेदितमेतद्धि मातर्भोक्ष्ये कथन्त्विति ।
निवेदय त्वमेवैतदिति माता तमब्रवीत् ।। (६७)
ततो निवेदयामास विष्णोः विश्वजगत्पतेः ।
भुङ्क्ष्व नारायणेत्युक्त्वा बालो नारायणाह्वयः ।। (६८)
प्रणनाम च साष्टाङ्गं प्रसन्नहृदयः परम् ।
चतुर्मुखमुखैर्दत्तं नैवेद्यं च चतुर्विधम् ।। (६९)
अनादरेण स्वीकुर्वन्नवलोकनमात्रतः ।
बालस्य भक्त्या भगवान् बुभुजे तच्छ्रिया सह ।। (७०)
शिष्टमन्नं च तत्पात्रे नैव किञ्चिदभूत्तदा ।
सर्वं भगवता भुक्तम् इति प्रीतस्स बालकः ।। (७१)
मातुरन्तिकमासाद्य ययाचेऽनं ततः परम् ।
पूर्व दत्तं क्व पुत्रेति मात्रा पृष्टश्च बालकः ।। (७२)
सर्वं भगवता भुक्तम् इत्याह जननीं प्रति ।
भक्षितं तच्च मन्वाना मार्जाराद्यैः क्रुधा च सा ।। (७३)
सन्तर्जयन्ती वचसा पुत्रं तं पुण्यचेष्टितम् ।
भिक्षित्वा पुत्र जीवेति भिक्षापात्रं ददौ ततः ।। (७४)
स तु नारायणः प्रीतो मिक्षार्थं यान् गृहानगात् ।
तान् गृहान् अगमल्लक्ष्मीस्तदा वैकुण्ठवल्लभा ।। (७५)
माता सर्वस्य लोकस्य मधुसूदनमानिनी ।
दर्वीमादाय बालस्य ददौ भिक्षां गृहे गृहे ।। (७६)
यद्दत्तं रमया तद्धि सर्वं रत्नमभूत्ततः ।
अतिभारादशक्तस्सन् वोढुमेकेन पाणिना ।। (७७)
उभाभ्यामपि पाणिभ्याम् उद्वहन् शिरसापि च ।
सुवर्णरत्नपूर्णं तत्पात्रं मात्रे न्यवेदयेत् ।। (७८)
बालो नारायणश्श्रीमान् कौतूहलसमन्वितः ।
आदाय तच्च हस्ताभ्यां माता पुनरभाषत ।। (७९)
गृहाण पात्रं भिक्षां त्वं पुनः पुत्रक कुर्विति ।
स तथैव पुनश्चक्रे पुनः प्रादात्तथा रमा ।। (८०)
सप्तकृत्वश्च सा माता पुत्रं भिक्षामकारयत् ।
पद्मा तथैव पात्रं तत् सप्तकृत्वोऽप्यपूरयत् ।। (८१)
अष्टमे त्वथ पर्याये माता पात्रं ददौ महत् ।
विहसन्ती विलोक्यैतत् भिक्षान्नमदिशद्रमा ।। (८२)
ततो माता तदादाय दत्वा पुत्रस्य शेषतः ।
स्वयं च बुभुजे तुष्टा सुशीला वृत्तशालिनी ।। (८३)
प्रातर्वृत्तमशेषं च पृच्छन्ती तनयं निशि ।
पालयन्ती धनं लब्धमाप्रभातमजागरीत् ।। (८४)
ततस्तु ताडितश्चोरैः क्षीणशक्तिः कृशाकृतिः ।
क्षुत्क्षामोदरनेत्राभ्यां पुत्राभ्यामन्वितः पिता ।। (८५)
अतिलङ्घ्य चिरान्मार्गमाजगामातिविह्वलः ।
ततस्सा लज्जिता पत्नी सर्वाङ्गीणव्रणान्वितम् ।। (८६)
उपाचरच्च भर्तारमुदन्तं च न्यवेदयत् ।
ब्राह्मणस्स च बालस्य वृत्तमाकर्ण्य सर्वशः ।। (८७)
विचिन्त्य पद्मां तां मेने यासीद्भिक्षाप्रदायिनी ।
अहो नु खलु मे मौढ्यमशेषार्थोपलम्भनम् ।। (८८)
समस्तफलदायिन्या लक्ष्म्या सततसेवितम् ।
पत्रैः पुष्पैः फलैश्चापि पुंसां सर्वस्वदायिनम् ।। (८९)
मुक्त्वा नारायणं देवमन्यः कस्मान्मयाश्रितः ।
कृष्णमेघे कृपापूर्णे तिष्ठत्येवान्यभिक्षवे ।। (९०)
अपत्रपाविहीनाय मह्यमस्तु नमो नमः ।
इति सञ्चिन्त्य मनसा भेजे नारायणं सदा ।। (९१)
ततो नारायणं बालं वेदानध्यापयद्द्विजः ।
शास्त्राण्यपि च सर्वाणि स्वयमावेदयन्मुदा ।। (९२)
लक्ष्म्या दत्तं धनं लब्ध्वा तेन ब्राह्मणपुङ्गवः ।
सन्तुष्टः प्रियया सार्धं सदाचारान्वितः सदा ।। (९३)
तटे कल्याणतीर्थस्य तपसा तोषिताच्युतः ।
सहस्रगुणितं नित्यं भोजयामास भासुरान् ।। (९४)
ब्राह्मणं धनिनं श्रुत्वा तद्धनं हर्तुमिच्छया ।
लुण्टाकाः केचिदाजग्गुः छन्नवेषधरास्ततः ।। (९५)
ममज्जुस्तत्र कल्याणतीर्थे ते च मनोरमे ।
अङ्गेष्वपि ललाटायेष्वाबभ्रश्शुद्धमृत्तिकाम् ।। (९६)
आवर्तयन्तोऽनुपदं नाम नारायणस्य च ।
प्रणेमुर्विष्णुभक्तांश्च प्रसन्नहृदयान्मुहुः ।। (९७)
दृष्ट्वा तान्प्रार्थयामास भोक्तुं सुचरितस्ततः ।
ततो बुभुजिरे तस्य गृहे विष्णुनिवेदितम् ।। (९८)
नारायणपदाम्भोजतीर्थं चाप्यपिबन्मुदा ।
ततस्तेषां च सर्वेषां सत्चोत्तरमभून्मनः ।। (९९)
दृष्ट्या सुचरितस्यास्य शुद्धान्नेन ततः परम् ।
कल्याणतीर्थतोयस्य पानेनापि मुहुर्मुहुः ।। (१००)
अब्रुवन्ब्राह्मणं पश्चात्सर्वे ते सत्वशालिनः ।
वयं चोरा भवद्द्रव्यहरणाय समागताः ।। (१०१)
अस्मानुपाचरस्त्वं च वेषमात्रेण भक्तितः ।
ब्राह्मणोऽपि च तान्प्राह नित्यं ब्रह्मणि निष्ठितः ।। (१०२)
अहार्यं हि मम द्रव्यं नारायणपदद्वयम् ।
इति तद्वचनं श्रुत्वा सन्तोषाश्रुतरङ्गिताः ।। (१०३)
पुलकाञ्चितगात्रास्ते सहसा तं ववन्दिरे |
उपायं वद निश्चित्य सद्यः प्राप्तुं हरेः पदम् ।। (१०४)
इति तैरञ्जलिं बध्वा प्रार्थ्यमानो मुहुर्मुहुः ।
स च तेषामुपादिक्षच्चरणौ शरणं हरेः ।। (१०५)
सद्यो विमुक्तिकामानां संसारोद्वेगशालिनाम् ।
नान्यः कश्चिदुपायोऽस्ति भगवच्चरणादृते ।। (१०६)
चरणौ शरणं प्राप्य ततो नारायणस्य ते ।
तदानीमेव सम्प्रापुः सर्वे विष्णोः परं पदम् ।। (१०७)
ततस्सुचरितैः पुत्रैः पौत्रैः पत्न्या समन्वितः ।
तत्र नारायणं देवमाराध्य च यथेप्सितम् ।। (१०८)
अन्ते तस्यैव चरणौ प्राप वैकुण्ठवासिनः ।
इदं सुचरिताख्यानं ये शृण्वन्ति पठन्ति च ।। (१०९)
नारायणोपमं पुत्रं लभन्ते पुण्यशालिनम् ।
धनञ्च वर्धते तेषां ते भवन्त्यन्नदायिनः ।
भुञ्जते ये च तद्गेहे तेऽपि यास्यन्ति सद्गतिम् ।। (११०)
सुचरित इति सेवां कल्पयन्यादवाद्रौ
सुखमलभत पुत्रैस्साकमव्याहतं तत् ।
उपरि च परमं तद्धाम गत्वा मुरारेः
उपधिविरहवर्यं किङ्करैश्वर्यमाप ।। (१११)
इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरि–माहात्म्ये सुचरितोपाख्यानं नाम पञ्चमोऽध्यायः (Continued)