श्रीः
श्रीमते रामानुजाय नमः
॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥
॥ श्रीब्रह्माण्डपुराणे श्रीमदहोबिलमाहात्म्यम् ॥ (Continued)
॥ श्रीमदहोबिलमाहात्म्ये षष्ठोऽध्यायः ॥
ऋषयः
कथमेतद्वधम् चक्रे भगवान् पुरुषोत्तमः ।
कथम् वा ब्रह्मणा दत्तमरक्षत्वरमात्मनः ॥ १ ॥
हिरण्यकशिपोश्चैव प्रह्लादस्य महात्मनः ।
कथमासीन्महद्वैरम् तन्मेब्रूहि सविस्तरम् ॥ २ ॥
श्रीनारदः
विप्रचित्तसुतस्यास्य हिरण्यस्य सुरद्विषः ।
चत्वारस्तनया आसन् बलवीर्यगुणालयाः ॥ ३ ॥
अनुह्लादश्च ह्लादश्च सम्ह्लादश्चैव धर्मवित् ।
प्रह्लादश्च महावीर्यो दैत्यवम्शविवर्धनः ॥ ४ ॥
तेषाम् मध्ये महाभागः समदृक् सचराचरे ।
प्रह्लादः परमाम् भक्तिम् य उवाह जनार्दने ॥ ५ ॥
स तु बाल्ये विवेकात्मा गुरोर्वचनगौरवात् ।
पपाठ बालवाक्यानि गुरुगेहे महर्षिभिः ॥ ६ ॥
कदाचिद् गुरुणा सार्धम् जगाम पितृमन्दिरम् ।
पानासक्तस्य पुरतो हिरण्यकशिपोः पदम् ॥ ७ ॥
कराभ्याम् प्रतिजग्राह सुतमुत्थाप्य सोऽसुरः ।
हिरण्यकशिपु प्राह प्रह्लादम् धर्मवित्तमम् ॥ ८ ॥
सुभाषितम् सारतमम् वत्स प्रह्लाद कथ्यताम् ।
शिक्षितम् गुरुणा यत्तु कालेनैतावता त्वया ॥ ९ ॥
प्रह्लाद:
वक्ष्यामि शृणु तातेदम् सारभूतम् तवाज्ञया ।
चित्तम् समाहितम् कृत्वा यन्मे मनसि सम्स्थितम् ॥ १० ॥
आदिमध्यान्तरहितमवृद्धिक्षयमव्ययम् ।
प्रणतोऽस्मि सदानन्दम् सर्वकारणकारणम् ॥ ११ ॥
श्रुत्वैतद्वचनम् घोरम् कोपेन स्फुरिताधरः ।
तद्गुरुम् प्राक्षितम् प्राह किमेतदिति चिन्तयन् ॥ १२ ॥
किमेतत् कृतवान् मूढो विपक्षस्तुतिसम्युतम् ।
बालम् हि मूढमाचेख्युः पुनर्मूढमुपागतम् ॥ १३ ॥
गुरुः
दैत्येन्द्र मयि कोपोऽयमकाण्डे कल्पितः प्रभो ।
मयोक्तम् वचनम् किञ्चिन्न गृह्लाति तवात्मजः ॥ १४ ॥
हिरण्यः
प्रह्लाद कथ्यतामेतत् शिक्षायाः कस्य वा फलम् ।
न मया प्रोक्तमित्याह गुरुस्ते मूढचेतनः ॥ १५ ॥
प्रह्लादः
हृदि स्थितः समस्तानाम् भूतानाम् भगवान् हरिः ।
तमृते परमात्मानम् तात कः केन शास्यते ॥ १६ ॥
हिरण्यः
मयि स्थिते महाभागे त्रैलोक्यैश्वर्यभर्तरि ।
मूढ विष्णुरिति प्रोक्तम् मृषैवेत्यवधारय ॥ १७ ॥
प्रह्लादः
सूक्ष्मज्ञो विभुरज्ञेय आत्मदः शब्ददूरगः ।
यो विश्वम् विश्वतो व्याप्तः स विष्णुः परमेश्वरः ॥ १८ ॥
हिरण्यः
यदयम् बालिश: प्राह वचनम् त्वसमञ्जसम् ।
ध्रुवम् चेतसि यः कश्चिदस्य विष्णुर्दुरात्मनः ॥ १९ ॥
प्रह्लादः
हृदयम् हि ममाविष्टः केवलम् परमेश्वरः ।
भुवादीनखिलान् लोकान् सम्युक्तः सर्वगोचरः ॥ २० ॥
हिरण्यः
निष्क्राम्यतामयम् दुष्ट: शासनीयः पुनः पुनः ।
केनेयम् कल्पिता वार्ता विपक्षस्तुतिसम्युता ॥ २१ ॥
श्रीनारदः
इत्युक्ते बालिशे दैत्याः प्रह्लादम् धर्मसुंयुतम् ।
आनिन्युर्गुरुगेहम् तु नीतिम् जग्राह सोऽप्यथ ॥ २२ ॥
कालेऽतीते तु महति प्रह्लादमसुरेश्वरः ।
समाहूयाब्रवीत् काचित् गाथा पुत्रक गीयताम् ॥ २३ ॥
प्रह्लादः
यस्मात् तु प्रकृतिर्जीवः प्रपञ्चोऽयम् यतो बभौ ।
स मे देवः प्रसन्नः स्यात् कारणस्यापि कारणम् ॥ २४ ॥
हिरण्यः
वध्यताम् वध्यतामेनम् व्यर्थमेतस्य जीवितम् ।
शुष्कवम्श इवाभाति स्वकुलस्य विनाशकः ॥ २५ ॥
इत्थमाकर्ण्य वचनम् दैतेयास्तु सहस्रशः ।
जगृहुः शस्त्रजालानि ज्वालामालाकुलानि वै ॥ २६ ॥
प्रह्लादः
नाक्रमिष्यन्त्यायुधानि सत्यमेतद्वदामि वः ।
दैतेया मयि युष्मासु विष्णुः शस्त्रेषु सम्स्थितः ॥ २७ ॥
तस्य वाक्यमनादृत्य दैत्यास्ते शस्त्रपाणयः ।
प्रह्लादम् परितः स्थित्वा जघृरत्यन्तकोपिताः ॥ २८ ॥
हिरण्यः
प्रह्लाद विनिवर्तस्व जहि शत्रुकथासुत ।
अभयम् ते प्रदास्यामि मौढ्यम् ते कथमागतम् ॥ २९ ॥
प्रह्लादः
भूतानाम् प्रभवै विष्णौ हृदिस्थे कुत्र वा भयम् ।
तस्मिन्स्थिते जन्मजरामृतिके न विपद्यते ॥ ३० ॥
हिरण्यः
भो भो सर्पा गुरोर्भारम् कालकूढविषोल्बणाः ।
समानयत सद्यो वै यमस्यायतनम् प्रति ॥ ३१ ॥
इत्युक्तास्तक्षकमुखाः पन्नगास्तु सहस्रशः ।
ददम्षुः सर्पगात्रेषु मर्मस्वतिविषोल्बणाः ॥ ३२ ॥
प्रह्लादश्चिन्तयन् विष्णुम् गरुडोपरि सम्स्थितम् ।
न वेद सर्व सम्भूताम् वेदनामतिदुस्तराम् ॥ ३३ ॥
सर्पाः
फणिनाम् हृदये तापो विशीर्णा दन्तपङ्क्तयः ।
तव पुत्रस्य गात्रेषु न छिद्रम्विद्यते क्वचित् ॥ ३४ ॥
ततस्तु दिग्गजा मत्ताः प्रेषिताः सुरवैरिणा ।
भूभृच्छिखरमारोप्य पातयन्ति स्म भूतले ॥ ३५ ॥
अपीड्यत स तैर्बालो विषाणैरुग्रकर्मभिः ।
नावाप वेदनाम् किञ्चिद् गोविन्दासक्तमानसः ॥ ३६ ॥
शीर्णा दन्ता गजेन्द्राणामुवाच पितरम् सुतः ।
तात नैतत्त्बलम् मेऽस्ति प्रभावः परमात्मनः ॥ ३७ ॥
यतः शीर्णा गजेन्द्राणाम् दन्ताः कुलिशनिष्ठुराः ।
हिरण्यकशिपुः क्रुद्धो दैतेयानिदमब्रवीत् ॥ ३८ ॥
जाज्वल्यतामयम् वह्निरपसर्पत दिग्गजाः ।
वायो समेधयाग्ने त्वम् दहैनम् पापकृत्तमम् ॥ ३९ ॥
इत्युक्ताश्चितिमारोप्य महाकाष्ठसमुच्छ्रिताम् ।
प्रज्वाल्य दानवा वह्निम् ददहुः सोऽब्रवीद् वचः ॥ ४० ॥
वायुना वर्धितो ह्येष वह्निरत्यन्तमुल्बणः ।
न माम् दहति पश्यामि पद्मास्तरणमीदृशम् ॥ ४१ ॥
इदम् वचनमाकर्ण्य दैत्यराजम् पुरोहितः ।
वचनैश्चन्दयामास दैत्येन्द्रमतिकोपनम् ॥ ४२ ॥
बालोऽयम् किम् न जानाति बाल्यम् दोषकरम् महत् ।
कृत्याकृत्यविमुक्तात्मा बाल्य एव हि वर्तते ॥ ४३ ॥
तस्मादस्मद्वासनया बुद्धियुक्तो भविष्यति ।
नो चेत् कृत्याम् प्रमोक्ष्यामो यया मृत्यम् गमिष्यति ॥ ४४ ॥
इत्युक्त्वा बालको नीतः पुरोहितगृहान् प्रति ।
तत्र स्थित्वा नीतिशास्त्रम् पपाठ बहुविस्तरम् ॥ ४५ ॥
मध्येऽवकाशमालम्ब्य विप्राम्स्तानिदमब्रवीत् ॥ ४६ ॥
विवेको नास्ति युष्माकम् यथादैत्यपतेर्द्विजाः ।
सम्सारे वीतसारेऽस्मिन् कुतः सौख्यम् तु विद्यते ॥ ४७ ॥
सुप्तावस्तास्वयम् जन्तुर्दुःखदुखेन जीवति ।
षड्भावानाम् विकाराणाम् कथम् सम्हरणक्रमः ॥ ४८ ॥
दुःखमेवम् हरिध्यानम् तदेवात्यन्तिकम् भिषक् ।
कथम् तेषाम् न सन्देहो युष्माकमपि लभ्यते ॥ ४९ ॥
इत्येवम् बहुधा प्रोक्तमाकर्ण्य च पुरोहिताः ।
हिरण्यकशिपोर्भीतास्तस्मै सर्वम् न्यवेदयन् ॥ ५० ॥
स तु कोपेन सम्रक्तनयनस्त्वसुरेश्वरः ।
सूदानाहूय बलिनो वचनम् चेदमबवीत् ॥ ५१ ॥
अन्नेन दीयतामस्मै विषम् हालाहलाह्वयम् ।
तद्भुक्त्वा बालिश: क्षिप्रम् यमलोकम् गमिष्यति ॥ ५२ ॥
इत्युक्तैस्तैस्तु तद्दत्तम् प्रह्लादोऽनन्तचिन्तकः ।
जरयामास धर्मात्मा यदा ह्यन्नम् सुसम्स्कृतम् ॥ ५३ ॥
सूदाश्च भयमापन्ना दैत्यराजमथाब्रुवन् ॥ ५४ ॥
राजन् विषम् दत्तमतीव भीषणम्
अस्मोभिरत्यन्त समाहितात्मभिः ।
अन्नेन भक्ष्यैः सह पेयवर्गैः
जीर्णम् विचित्रम् भुवनेष्वदृष्टम् ॥ ५५ ॥
एतच्छ्रुत्वा दैत्यराजः प्राह चैतान् पुरोहितान् ।
त्वरयन्तु विनाशाय दुष्टस्यास्य समीहिताम् ॥
उत्पादयन्तु कृत्याम् वै सद्यो नाशकरीम् पराम् ॥ ५६ ॥
ततः सकाशमागत्य प्रह्लादस्य पुरोहिताः ।
सामपूर्वमथोचुस्ते प्रह्लादम् विनयान्वितम् ॥ ५७ ॥
प्रह्लाद जातो विख्याते कुले महति वेधसः ।
हिरण्यकशिपोः पुत्रो ज्ञातोऽसि पृथिवीतले ॥ ५८ ॥
किम् देवैरल्पवीर्यैस्तु किमनन्तेन शम्भुना ।
समस्तलोकशास्तायम् त्वत्पिता तु हिरण्यकः ॥ ५९ ॥
तस्मात् परित्यज कथाम् विपक्षस्तुतिसम्युताम् ॥ ६० ॥
प्रह्लादः
तथ्यमेतद्गुरुवराः श्लाघ्यमेतद्गुरोः कुलम् ।
पिता च सर्वलोकानाथा श्लाघ्यश्च परिपालकः ॥ ६१ ॥
इदमन्यत् प्रवक्ष्यामि सत्यमेवावधार्यताम् ।
यदुक्तम् किमनन्तेनेत्युक्तम् युष्माभिरञ्जसा ॥
विविधानर्थजननाद्वाक्यमेतदनर्थकम् ॥ ६२ ॥
इत्युक्त्वा सोऽपि मुनिवत् तूष्णीम् तेषाम् व्यवस्थितः ।
पुनः प्रहस्य प्राहेदम् किमनन्तेन सात्त्विकी || ६३ ॥
यस्माद् भवति लोकेऽस्मिन् पुरुषार्थचतुष्टयम् ।
को वा ब्रूते विवेकात्मा किमनेनेत्यचोदितः ॥ ६४ ॥
मरीचिमिश्रा मुनयो जनकाद्याश्च भूमिपाः ।
स्वेप्सितार्थमनुप्राप्ता यस्मात् स केथमल्पकः ॥ ६५ ॥
कथञ्चिद् गुरवो यूयम् श्रोतव्यम् वचनम् मम ॥ ६६ ॥
इत्युक्ते त्वतिसङ्क्रुद्धा दैत्यराजपुरोहिताः ।
कृत्यामुत्पादयामासुर्ज्वालामालाकरालिकाम् ॥ ६७ ॥
सातिभीमातिसङ्क्रुद्धा सम्हरन्ती जगत्रयम् ।
शूलेन निशिताग्रेण प्रह्लादम् सञ्जघान वै ॥ ६८ ॥
यतापात्रे कृतम् दानम् यथा षण्डे तु कन्यका ।
तथा प्रह्लादमासाद्य शूलम् तच्च वृथाभवत् ॥ ६९ ॥
शूले भग्ने तु सव्रीडा शिथिलीकृतवैभवा ।
पुरोहितान् दैत्यपतेः पुनर्दग्धम् प्रचक्रमे ॥ ७० ॥
एतद् वीक्ष्य महद्घोरम् प्रह्लादो धर्मवित्तमः ।
कृपया परया भक्त्या ह्यनन्तम् शरणम् गतः ॥ ७१ ॥
देवदेव जगन्नाथ अनन्त पुरुषोत्तम ।
कृत्यया दह्यमानम् माम् त्राहि त्राहि जगत्पते ॥ ७२ ॥
यथा मयि तथा तेषु तथा सर्वेषु जन्तुषु ।
अवतीर्णोऽसि भगवन् अतः पाह्यच्युताग्रजान् ॥ ७३ ॥
यथा सर्पा गजेन्द्राश्च माम् च बाधितुमक्षमाः ।
तथा द्विजोत्तमान् कृत्या न बाधेत् पुरुषोत्तम ॥ ७४ ।
इत्युक्ते तेन कृत्या तत्प्रभावान्नाशमागता ।
द्विजा भूयः प्रसन्नाश्च आशीर्भिस्तमतोऽषयन् ॥ ७५ ॥
ततः प्राञ्जल्यः सर्वे हिरण्याय न्यवेदयन् ।
सोऽपि विस्मयमापन्नः पुत्रम् पप्रच्छ सादरम् ॥ ७६ ॥
प्रह्लाद सुप्रभावोऽसि किमेतत् ते विचेष्टितम् ।
किमेतत् साहसम् तात किम् वा मन्त्रादिसम्भवः ॥ ७७ ॥
इत्युक्ते प्रणिपत्यासौ पितुः पादावथाब्रवीत् ।
मम नैसर्गिकोऽयम् वै नैव मन्त्रादिसम्भवः ॥ ७८ ॥
सामान्योऽयम् प्रभावस्तु हृदिस्थो यस्य केशवः ॥ ७९ ॥
यस्तु सर्वेषु भूतेषु पापानि न विचिन्तयन् ।
तस्य पापागमस्तात् हेत्वभावान्न विद्यते ॥ ८० ॥
नाहम् परेषाम् दोषाम्स्तु चिन्तयामि कदाचन ।
चिन्तयामि हरिम् साक्षात् सर्वत्रास्मिन् व्यवस्थितम् ॥८१॥
सर्वत्रात्मेश्वरम् ज्ञात्वा सर्वभूतेष्ववस्थितम् ।
कर्तव्यापण्डितैर्नूनम् भक्तिरव्यभिचारिणी ॥ ८२ ॥
एतच्छुत्वा तु दैत्येन्द्रः प्रासादाग्रमुपस्थितः ।
कोपसम्रक्तनयनो दैत्यानाह सनिष्ठुरम् ॥ ८३ ॥
प्रासादात् क्षिप्यतामेष शतयोजनमायतात् ।
ततस्ते चिक्षिषु सर्वे प्रह्लादम् दैत्यकिङ्कराः ॥ ८४ ॥
हृद्यनन्तम् समास्थाय पपात पृथिवीम् प्रति ॥ ८५ ॥
धरणी लोकमाता तु पतमानम् तु भूतले ।
दधार सहसा देवी दधानम् हृदये हरिम् ॥ ८६ ॥
हिरण्यकशिपुर्दृष्ट्वा सुतमव्याकुलाङ्गकम् ।
शम्बरम् प्राह दुष्टात्मा मायाशत विधायकम् ॥ ८७ ॥
हेशम्बर महाशक्ते दुर्जयोऽयम् सुतो मम ।
मायासहस्रम् निर्माय शीघ्रमेनम् निघातय ॥ ८८ ॥
शम्बरः
दैत्येन्द्र सूदयाम्येनम् पश्य मायाबलम् मम ।
सहस्रमन्त्रमायानाम् पश्य कोटिशतम् तथा ॥ ८९ ॥
इत्युक्त्वा सोऽसृजन्मायाः शतशोऽथ सहस्रशः ।
प्रह्लादे भगवद्भक्ते सर्वत्र समदर्शिनि ॥ १० ॥
प्रह्लादोऽपि विशुद्धात्मा शम्बरे वीतमत्सरः ।
हृदये स्वे समाधाय चिन्तयामास वै हरिम् ॥ ९१ ॥
नृहरिश्चिन्त्यमानस्तु चक्रम् चैव सुदर्शनम् ।
सहस्रादित्यासङ्काशम् सहस्रवदनम् परम् ॥ ९२ ॥
वहन्तम् हारकेयूरकटकाङ्गदभूषणम् ।
सर्वलोकक्षयकरम् सर्वाभरणभूषितम् ॥ ९३ ॥
क्वणत्किङ्किणिजालेन राक्षसघ्नम् महारवम् ।
व्याप्तकेशम् विरूपाक्षम् प्रणतार्तिहरम् परम् ॥ १४ ॥
रक्तमल्याम्बरधरम् रक्तचन्दनचर्चितम् ।
रक्तवर्णम् रक्तनेत्रम् सहस्रारम् सदा शुचिम् ॥
सुदर्शनाभिधानम् तु प्रेषयामास वै हरिः ॥ ९५ ॥
तच्च शीघ्रम् समागत्य शम्बरेण विनिर्मिताः ।
मायाश्चिच्छेद तरसा तूलराशिमिवानलः ॥ ९६ ॥
सहसा निधनम् नीते मायाभिः सह शम्बरे ।
शोषकम् नाम वै वायुम् प्रेषयामास दैत्यराट् ॥ ९७ ॥
सोऽपि सूक्ष्मातिवेगेन प्रविष्टो ह्यतिदुस्सहः ॥ ९८ ॥
प्रह्लादस्तमतिक्रूरम् ज्ञात्वा शोषकमारुतम् ।
तस्यापि शोषकम् देवम् चिन्तयामास वै हरिम् ॥ ९९ ॥
स हरिःक्षणमात्रेण शोषयामास मारुतम् ॥ १०० ॥
एवम् कृतेषु सर्वेषु मारणोपायराशिषु ।
व्यर्थीकृतेषु सर्वत्र प्रह्लादे भगवत्प्रिये ॥ १०१ ॥
क्षयम् गते शम्बरस्य मायाशतसहस्रके ।
शोषिते शोषके वायौ तप्तायसि जलम् यथा ॥ १०२ ॥
प्रह्लादस्तु विशुद्धात्मा प्रविश्य गुरुमन्दिरम् ।
पपाठ नीतिशास्त्राणि गुरोरुच्चारितम् यथा ॥ १०३ ॥
कालेऽतीते हिरण्यस्य पितुर्गृहमुपागतः ।
पित्रा तु चोदितः प्राह गोविन्दासक्तमानसः ॥ १०४ ॥
शास्त्राणि शास्त्रज्ञानानि शास्त्रसाध्यम् च यत् फलम् ।
सर्वम् विफलताम् याति गोविन्दे विमुखीकृते ॥ १०५ ॥
गोविन्दासक्ताचित्तानाम् यान्येव वचनानि वै ।
तान्येव धर्मशास्त्राणि नीतिशास्त्राणि वा पुनः ॥ १०६ ॥
इत्युक्ते क्षुभितोऽत्यर्थनी हिरण्यकशिपुस्तदा ।
स्वकिङ्करानुवाचेदम् बलवीर्यसमन्वितान् ॥ १०७ ॥
दुरात्मा क्षिप्यतामेष प्रह्लादः कुलकण्ठकः ।
नागपाशैर्दृढम् बद्ध्वा सागरे तु भयङ्करे ॥ १०८ ॥
इत्युक्तास्तेन ते सर्वे विक्षिपुर्लवणार्णवे ।
यथा पारम् न गच्छेत् तु कथञ्चिदपि बालकः ॥ १०९ ॥
तस्योपरि तरुञ्छैलान् पूरयामासुरञ्जसा ॥ ११० ॥
स तु ध्यायन् विशुद्धात्मा प्रणतार्तिहरम् हरिम् ।
क्षणेन तीरमानीतो न वेद स तु वेदनाम् ॥ १११ ॥
यस्त्वासक्तमतिः कृष्णे तस्य साम्सारिकाः क्रियाः ।
क्षणेन विलयम् यान्ति स्वप्नलब्ध धनम् यथा ॥ ११२ ॥
असङ्गतम् ह्याश्रयणम् ह्याश्रयो महदाश्रयः ।
कर्तव्यः स महाविष्णुर्येनैवम् रक्षतोऽर्भकः ॥ ११३ ॥
प्रायेण मनुजा लोके सेवन्ते पुरुषाधमान् ।
न चिन्तयन्ति गोविन्दम् चिन्तामात्रैण सर्वदम् ॥ ११४ ॥
इति बहुविधदुःखैर्भीषणैरुग्ररूपैः
दितिसुतपरिवृत्तैः पीडितो दैत्यसुनुः ।
न चलति करुणार्तश्चैव सर्वेशभक्तेः
अचल इव महौघैः पीडितस्तोयपूरैः ॥ ११५ ॥
॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये
षष्ठोऽध्यायः ॥
श्रीः
श्रीमते रामानुजाय नमःऋ
॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥ श्रीमदहोबिलमाहात्म्ये सप्तमोऽध्यायः ॥
श्रीनारदः
प्रह्लादस्तु विशुद्धात्मा तीराद् वै सागरस्य तु ।
हिरण्यकशिपोर्गेहमाससाद मुदान्वितः ॥ १ ॥
पितुर्जाग्राह पादौ च बहुमानपुरस्सरम् ।
सोऽपि सूनुम् समुत्थाप्य परिष्वज्य च सादरम् ॥ २ ॥
मूर्ध्न्याघ्राय सुतम् प्राह हृदि कोपम् निवेशयन् ।
कुतस्ते भगवानास्ते यम् ब्रवीषि पुनः पुनः ॥ ३ ॥
प्रह्लादः
त्वय्यस्ति मयिचाप्यस्ति समस्तेषु च जन्तुषु ॥ ४ ॥
ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा ।
जङ्गमाजाङ्गमम् सर्वम् जगन्नारायणात्मकम् ॥ ५ ॥
उर्व्यामस्त्युदकेषु चाप्युडुपतावप्यस्ति चोष्णद्युतौ
वह्नौ दिक्षु विदिक्षु वायुनभसोऽस्तिर्यक्ष्वतिर्यक्षु च ।
अस्त्यन्तर्बहिरस्ति सत्यवचने सारेष्वारेषु च
सर्वत्रास्ति सदास्ति किम् बहुगिरात्वय्यस्तिमय्यस्ति च ॥ ६ ॥
इत्युक्ते सहसा प्राह प्रह्लादमसुरेश्वरः ।
यद्यस्ति भगवानत्र स्तम्भे मे बाल दर्शय ॥
इत्युक्त्वा ताडयामास स्तम्भम् वै पुरतः स्थितम् ॥ ७ ॥
ततो घुमुघुमाशब्दो ब्रह्माण्डम् प्रविदारयन् ।
उच्चैर्बभूव लोकानाम् बहिरन्तर्भयङ्करः ॥ ८ ॥
तन्मध्ये भगवान् विष्णुर्नरसिम्हस्वरूपधृक् ।
सटाच्छटाचोटनेन कुट्यद्गुणद्गुणध्वनिः ॥ ९ ॥
दम्ष्ट्राकरालवदनो दर्शनत्रस्तदैत्यराट् ।
दम्भोलिनिशिताकारनखरोज्वलविग्रहैः ॥
करैरापुरयन् दिक्षु कलयन् दैत्यकिङ्करान् ॥ १० ॥
सहस्रशतदम्भोलिसम्भ्रमातिशयाशयम् ।
अट्टहासमतीवोग्रम् कुर्वन् निष्क्रामसङ्क्रमम् ॥ ११ ॥
हिरण्यकशिपुम् दैत्यम् विदारयितुमागतः ।
ततस्त्रस्ता: सुरगणाः सर्वे ऋषिगणैः सह ॥ १२ ॥
अद्यैव प्रलयः कालः सर्वथा नास्ति सम्शयः ।
क्क गमिष्याम सर्वे वै सर्वेषाम् शरणम् कुतः ॥ १३ ॥
इत्युद्भ्रान्ताशयाः सर्वे कान्दिशीकाः सुरोत्तमाः ।
दिशश्च विदिशश्चैव याता विभ्रान्तलोचनाः ॥ १४ ॥
ततो हिरण्यकशिपुम् जग्राह निशितैः करैः ।
सोऽपि जग्राह दैत्येन्द्रो नृसिम्हमतिभीषणम् ॥ १५ ॥
ततो युद्धमभूत् तत्र नृसिम्हदितिपुत्रयोः ॥ १६ ॥
शङ्खचक्रगदाखड्गमुसुलाङ्कशडिण्डिमाः ।
शङ्खचक्रविहीनास्तु दैत्यराजस्य हेतयः ॥ १७ ॥ खड्गस्य खड्गम् स मुमोच वीर्यवान्
पाशस्य पाशम् सह भिण्डिपालम् ।
यान्यायुधान्यच्युतनिर्मितानि
दैत्येन्द्रमुक्तानि ततोऽधिकानि ॥ १८ ॥
यतो यतो धावति दैत्यराजः ततस्ततो धावति नारसिम्हः ।
यतो हि रक्षोऽधिपतेरवस्था ततो न विश्रान्तिरधोक्षजस्य ॥ १९ ॥
हिरण्यकशिपोस्तस्य शोणितम् कणमात्रकम् ।
यत्र यत्रापतत् तत्र शतशोऽथ सहस्रशः ।
असुरास्तु समुत्पन्ना हिरण्याधिकतेजसः ॥ २० ॥
एकैकस्य तु दैत्यस्यविनाशाय जगत्पतिः ।
शतरूपाणि विदधे ह्यमितात्मा जगन्मयः ॥ २१ ॥
तत्र दैत्यासृगवनौ यत्र यत्र पतिष्यति ।
तत्र तत्रासुशतम् नृसिम्हायुधकम् बभौ ॥ २२ ॥
बाह्वोस्तु बाहुयुद्धाभ्याम् कराभ्याम् तु करस्य तु ।
पादयोश्चैव पदयोश्चोरसा चोरसस्तथा ॥
युयुधाते महावीर्यौ नृसिम्हदितिनन्दनौ ॥ २३ ॥
न बलम् कस्यचिद् ज्ञातम् न जयो वा कथञ्जन ।
पराजयो वा दौर्बल्यम् निश्चितम् न कथञ्चन ॥ २४ ॥
एवम् हि युद्धे सम्प्राप्ते नृसिम्हस्यारिणा सह ।
पृथिव्यामन्तरिक्षे च नृसिम्हासुरताभवत् ॥ २५ ॥
इदमित्थमिदम् रूपमीदृशाकारसम्युतम् ।
इति वक्तुम् तत्र शक्यम् न सुरासुरकिन्नरैः ॥ २६ ॥
देवा महर्षर्यः सिद्धाः साध्याश्च पितरस्तथा ।
अस्तुवन् मनसा देवम् जयशब्दपुरस्सरम् ॥ २७ ॥
जय देव जगन्नाथ जय लोकैकपालक ।
जहि शत्रुममेयात्मन् किमर्थम् त्वम् विलम्बसे ॥ २८ ॥
त्वया सृष्टमिदम् विश्वम् सङ्कल्पात् पुरुषोत्तम ।
त्वय्येव लीनम् भगवन् पिता त्वम् च जगत्पते ॥ २९ ॥
समाः सहस्रम् देवेश व्यतीता देवमानतः ।
विलम्बसे किमर्थम् त्वम् देवकार्यम् कुरुप्रभो ॥ ३० ॥
इत्येवम् बहुधा वाक्यम् मान्यम् दैन्यपुरस्सरम् ।
श्रुत्वा नृकेसरी देव: कोपसम्रक्तलोचनः ॥ ३१ ॥
अट्टहासम् प्रकुर्वन् वै ब्रह्माण्डम् दारयन्निव ।
अङ्के हिरण्यमारोप्य वीक्ष्य तन्मुखमण्डलम् ॥ ३२ ॥
नखैर्विदारयामास साटोपरवसम्युतम् ।
हाहाकारम् ततश्चक्रे भाङ्कारम् च पुनः पुनः ॥ ३३ ॥
रोषताम्रैः सनयनैर्विकिरन् वह्निजालकम् ।
हुङ्कारेण जगत्सर्वम् तर्जयन्निव केसरी ॥ ३४ ॥
अन्धीचकार भुवनम् हाहाकारपुरस्सरम् ।
मुहूर्तमात्रम् सकलम् जगदेकार्णवीकृतम् ॥ ३५ ॥
ततो देवाः सगन्धर्वास्तुष्टुवुः पुरुषोत्तमम् ।
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ ३६ ॥
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।
नमस्ते सर्वलोकात्मन् नमस्ते तिग्मचक्रिणे ॥ ३७ ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ३८ ॥
नमस्ते सृजते विश्वम् पालयित्रे स्थितौ नमः ।
रुद्ररूपाय कल्पान्ते नमस्तुभ्यम् त्रिमूर्तये ॥ ३९ ॥
देवाः यक्षाः सुराः सिद्धाः नागगन्धर्वकिन्नराः ।
पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ ४० ॥
पक्षिणः स्थावराश्चैव पिपिलिकसरीसृपाः ।
भूरापोऽग्निर्नभोवायुः शब्दः स्पर्शस्तथा रसः ॥ ४१ ॥
रूपम् गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः ।
एतेषामन्तरात्मा त्वम् त्वमेव परमेश्वर ॥ ४२ ॥
विद्याविद्ये भवान् सत्यमसत्यममुतामृते ।
प्रवृत्तिम् च निवृत्तिम् च कर्म वेदोदितम् भवान् ॥ ४३ ॥
समस्तकर्मभोक्ता च कर्मोपकरणानि च ।
त्वमेव विष्णो सर्वाणि सर्वकर्मफलम् च यत् ॥ ४४ ॥
योगिनस्त्वाम् चिन्तयन्ति याजकाश्च यजन्ति हि ।
हव्यकव्यभुगेकस्त्वम् पितृदेवस्वरूपधृक् ॥ ४५ ॥
रूपम् महच्च भवनम् ततः सूक्ष्मम् च किञ्चन ।
भूतरूपाणि सूक्ष्माणि ह्यन्तरात्मा च सूक्ष्मधृक् ॥ ४६ ॥
अगोचरम् यत्परमम् प्रमाणम् च प्रमातृ च ।
अचिन्त्यरूपम् यस्तस्मै नमस्ते पुरुषोत्तम ॥ ४७ ॥
सर्वभूतेषु या शक्तिः सर्वात्मन् नरकान्तक ।
गुणाश्रय नमस्तस्मै शाश्वताय सुरेश्वर ॥
ओम् नमो वासुदेवाय तस्मै भगवते नमः ॥ ४८ ॥
व्यतिरिक्तो न वाप्यस्ति व्यतिरिक्तोऽखिलस्य यः ।
नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने ॥ ४९ ॥
यस्य सूक्ष्मम् परम् रूपमपशयन्तो महर्षयः ।
अवतारेषु यद्रूपम् तदर्चन्ति महौजसः ॥ ५० ॥
ओम् नमः परमार्थाय स्तूलसूक्ष्माक्षराक्षर ।
व्यक्ताव्यक्तकलातीत सकलेश निरञ्जन ॥ ५१ ॥
मूर्तामूर्तमहामूर्त सूक्ष्ममूर्तेस्फुटास्फुट ।
कलारूपेश सौम्यात्मन् विद्याविद्यामयाच्युत ॥ ५२ ॥
नित्यानित्य प्रपञ्चात्मन् निष्प्रपञ्चामराच्युत ।
नारसिम्ह महादेव ब्रह्मन्नव्याप्तविग्रह || ५३ ॥
त्वया कृतमिदम् कर्म चिन्तनीयम् न मादृशैः ।
लोकाः समस्ता भगवन् रक्षिताः क्षणमात्रतः ॥ ५४ ॥
यदि त्वम् न करोषीश रूपमेतादृशम् हरे ।
अन्धीभवति लोकोऽयम् दर्शे रात्रिर्यथा तथा ॥ ५५ ॥
महत् कर्म कृतम् देव हिरण्यकशिपुर्हतः ।
स्थापितानि सुरेन्द्राणाम् स्थानानि जगतीपते ॥ ५६ ॥
कोपम् सम्हर सर्वात्मन् कस्ते कोपस्य गोचरः ।
एतादृशान् सुररिपून् सहसा परिशिक्षय ॥ ५७ ॥
अनुग्रहाय भक्तानाम् रूपमेतदवाप्तवान् ॥ ५८ ॥
अहो वीर्यमहो शौर्यमहो बाहुपराक्रमः ।
नारसिम्हः परम् दैवमहोबिलमहोबलम् ॥ ५९ ॥
श्रीनारदः
इत्थम् प्राञ्जलयः स्थित्वा शतशोऽथ सहस्रशः ।
स्तोत्रैर्वेदमयैः सारैस्तुष्टुवुः पुरुषोत्तमम् ॥ ६० ॥
ततः प्रसन्नो भगवानव्यक्तो व्यञ्जयन् महः ।
ब्रह्मरुद्रादिकान् देवानिदम् वचनमब्रवीत् ॥ ६१ ॥
श्रीभगवान्
ब्रह्माद्याः सकला देवाः ऋषयश्च महौजसः ।
हिरण्येनातिपापेन पीडिता मूढ चेतसा ॥ ६२ ॥
हतः शत्रुर्न सन्देहो निर्वृत्तम् नः प्रयोजनम् ।
स्वम् स्वम् पदमनुप्राप्य मोदध्वम् विगतज्वराः ॥ ६३ ॥
इति सन्दिश्य सर्वास्तान् प्रेषयामास माधवः ।
प्रह्लादमग्रनिलयम् प्राह वै नरकेसरी ॥ ६४ ॥
कुर्वतस्ते प्रसन्नोऽहम् भक्तिमव्यभिचारिणीम् ।
यथाभिलषितम् मत्तः प्रह्लाद व्रियताम् वरः ॥ ६५ ॥
प्रह्लादः
नानायोनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वचलाभक्तिरच्युतास्तु सदा त्वयि ॥ ६६ ॥
श्रीभगवान्
तवास्ति भक्तिः प्रह्लाद यथा वै शङ्करस्य तु ।
तुष्टोऽस्म्यहम् न सन्देहो हतस्ते कण्टकः पिता ॥ ६७ ॥
कुरु राज्यम् पितुर्व्यम् त्वम् न हि ते कण्टको भुवि ।
यावश्चन्द्रश्च सूर्यश्च यावत् तिष्टतिमेदिनी ॥ ६८ ॥
तावत् ते कथयिष्यन्ति कीर्तिः देवाः सवासवाः ।
भुङ्क्ष्व राज्यम् समृद्धम् त्वम् सवाहनपरिष्कृतम् ॥ ६९ ॥
सपुत्रपौत्रपत्नीकम् सबान्धवसमित्रकम् ।
कुरु धर्मानलग्नस्त्वम् कर्तृत्वत्यागपूर्वकम् ॥ ७० ॥
अर्थानार्जय धर्मेण कुरु देवर्षिपूजनम् ।
कामानाप्नुहि धर्मेण शास्त्रीयान् दैत्यनन्दन ॥ ७१ ॥
त्रिवर्गसङ्ग्रहम् कुर्वन् मद्भक्त्या तु न सीदति ।
अन्ते विरक्तिमासाद्य विषये दोषदर्शनात् ॥ ७२ ॥
याहि वै मामकम् स्थानम् यतो नावर्तते पुनः ।
तव चान्यानि भूतानि ममाज्ञापरिपालनात् ॥ ७३ ॥
ये द्विषन्ति महात्मानम् माम् सर्वत्र व्यवस्थितम् ।
तेऽपि त्वत्पितृवत् प्राज्ञ यास्यन्ति यमसादनम् ॥ ७४ ॥
जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः ।
नराणाम् क्षीणापापानाम् मयि भक्तिः प्रजायते ॥ ७५ ॥
तावन्मत्कृपया तात जात बुद्धिस्तु सात्त्विकी ।
यथा भक्तिस्समुत्पन्ना सर्वभूताभयप्रदा ॥ ७६ ॥
ये तु माम् सम्स्मरन्त्यद्धा मद्भक्तेरेकभाजनम् ।
ते च भक्तियुताः सर्वे मुच्यन्ते सर्वपातकैः ॥ ७७ ॥
इदम् क्षेत्रम् महापुण्यम् ममाविर्भावकारणात् ।
अद्य प्रभृति लोकोऽयमहोबलमितीरयेत् ॥ ७८ ॥
ममातुलम् बलम् ज्ञात्वा दैवतैरेवमीरितम् ।
अहो वीर्यमहो शौर्यमहो बाहुपराक्रमः ॥
नारसिम्हः परम् दैवमहोबिलमहोबलम् ॥ ७९ ॥
तस्मादहोबलम् क्षेत्रमिदम् तावद् भविष्यति ।
निवसाम्यहमत्रैव गजकुण्डसमीपतः ॥ ८० ॥
तीरे तु भवनाशिन्यास्त्वम् च तिष्ठाग्रतो मम ।
अत्रैव त्वम् वसन् सर्वम् भुङ्क्ष्व राज्यम् समृद्धिमत् ॥ ८१ ॥
ऋषयः पितरो देवा मामत्रैव स्तुवन्ति हि ॥ ८२ ॥
इति किल परमात्मा धारयन् नारसिम्ह
वपुरखिलजनानाम् कण्टकम् दैत्यराजम् ।
निशितनखरजालैर्दारयम्स्तस्य सूनुम्
महति विपुलराज्ये ह्यभ्यशिञ्चन्मुरारिः ॥ ८३ ॥
गरुडाभिधभूधरस्य भागे
निवसन वै भवनाशिनी तटे ।
विनुतस्सकलैर्महीसुरेन्द्रै –
र्विजयी तिष्ठति नारसिम्हरूपी ॥ ८४ ॥
॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये
सप्तमोऽध्यायः ॥
॥ श्रीः ॥
॥ श्रीमते लक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥
॥ श्री मदहोबिलमाहात्म्ये अष्टमोऽध्यायः ॥
ऋषयः –
श्रुतम् प्रह्लादचरितम् पावनम् परमाद्भुतम् ।
लोकत्रयैकनिलयम् श्रुतम् पूर्वम् न केनचित् ॥ १ ॥
श्रुता भागवताः पुण्याः कथा कलिमलापहाः ।
एतादृशी कथा ब्रह्मन् न श्रुता कल्पकोटिषु ॥ २ ॥
अहोबिलस्य माहात्म्यम् हरौ निष्ठा तु कीदृशी ।
कथमेतादृशी बुद्धिः सञ्जाताऽसुरजन्मनि ॥
अद्यैव पावना नूनम् कथा साररसाप्लुता ॥ ३ ॥
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
इष्टो भवति धर्मात्मा यथा भक्त्या जनार्दनः ॥ ४ ॥
भक्तोक्ति समकालम् तु ह्युदतिष्ठत् त्वरान्वितः ।
कथमेतादृशम् दैवम् भुवनेषु भविष्यति ॥ ५ ॥
अहो मूढा नरा लोके न जानन्ति हरेः पदम् ॥ ६ ॥
यस्तु भक्त्यैकनिलयम् प्रह्लादमभिषिञ्चयन् ।
कथम् न सेव्यते देवश्चिन्तयद्भिस्तु मानवैः ॥ ७ ॥
अहो घोरे पतन्त्येव निरये व्यर्थजीविनः ।
कृतार्थाः स्म वयम् लोके वयमेव महामुने ॥ ८ ॥
शरभम् नाम लोकानाम् भयङ्कररवान्वितम् ।
तत्रैवोग्रम् निहतवान् नखराग्रैर्नृकेसरी ॥ ९ ॥
इति श्रुतम् वामदेवात् तन्नो विस्तरतो वद ॥ १० ॥
नृसिम्हस्य कथायाम् तु शृण्वतो बुवतोऽपि वा ।
न तृप्तिर्जायते पुम्साम् कल्पकोटिशतैरपि ॥ ११ ॥
अमृताब्धौ निमग्नस्तु कथमन्यद्विचिन्तयेत् ॥ १२ ॥
श्रीनारदः
शृणुध्वम् मुनयः सर्वे शरभस्योपसम्हृतिम् ।
यथा तु कृतवान् देवो नरसिम्हस्वरूप धृक् ॥ १३ ॥
हत्वा तु तम् दुरात्मनम् हिरण्यमसुरेश्वरम् ।
प्रशान्तरवकोपस्तु पुनः प्रक्रमतेतराम् ॥ १४ ॥
नारसिम्होऽखिलान् लोकान् पुनर्दग्धम् प्रचक्रमे ।
तस्योग्रमभवत् तत्र नृसिम्हस्य जगत्पते ॥
दृष्ट्वा भयात्मकम् रूपम् तत्रासुर्देवदानवाः ॥ १५ ॥
ततः प्रणम्य तम् देवम् देवाः सर्षिगणास्तथा ।
तुष्टुवुः पुण्डरीकाक्षमसुरेन्द्रनिबर्हणम् ॥ १६ ॥
देवाः
जयदेव जगन्नाथ जय चक्रिन् गदाधर ।
जयादि देव देवेश जय दैत्यनिबर्हण ॥ १७ ॥
जय देव जगन्नाथ शरणागतरक्षक ।
जय विज्ञान चिद्रूप गुणातीत परायण ॥ १८ ॥
जय निर्द्वन्द्व विश्वात्मन् विश्वभूतिविभावन ।
जयाखिल जगद्धामन् जय पङ्कजलोचन ॥ १९ ॥
जयाखिल जगत्सृष्टिस्थिति सम्हारकारण ।
जन्तुम् त्राहि जगत्सर्वम् नृसिम्हासुरसूदन ॥ २० ॥
हिरण्यकशिपोस्त्रस्तान् लोकान् स्थावरजङ्गमान् ।
रक्षितुम् देवदेवेश प्राप्तोऽसि नरसिम्हताम् ॥ २१ ॥
त्यज कोपममेयात्मन् यतस्तेनासुरो हतः ।
पाहि लोकानिमान् सर्वान् पवित्रचरिताव्ययः ॥ २२ ॥
एवम् सम्स्तूयमानस्य देवैरिन्द्रपुरोगमैः ।
रौद्रमासीद्वपुस्तत्र युगान्ताग्निरिव प्रभोः ॥ २३ ॥
ततो भयेन निहता समुद्विग्नः शतक्रतुः ।
जगाम ब्रह्मभवनम् देवर्षिगणसेवितः ॥ २४ ॥
तम् दृष्ट्वा भगवन्तम् वै ब्रह्माणम् पाकशासनः ।
प्रणिपद्य महोतेजाः कृताञ्जलिरभाषत ॥ २५ ॥
इन्द्रः
हतो हिरण्यकशिपुर्नारसिम्हेण विष्णुना ।
बाधमानोऽखिलान् लोकान् त्वत्तो लब्धवरोऽसुरः ॥ २६ ॥
यस्तम् जघान दैत्येन्द्रम् रक्षितुम् भुवनत्रयम् ।
कोपः प्रवर्धते तस्य नृसिम्हस्य महात्मनः ॥ २७ ॥
समीक्ष्य कुपितम् देवम् तम् दैत्येन्द्रनिबर्हणम् ।
भयेन वेपथे सर्वम् त्रैलोक्यम् सचराचरम् ॥ २८ ॥
लोकानामिह सर्वेषाम् स्रष्टा त्वम् भूतभावन ।
कृपया पाहि सर्वाम्स्त्वमुद्विग्नान्नरसिम्हतः ॥ २९ ॥
ब्रह्मा
भयम् त्यजध्वम् त्रिदशा अभयम् वो ददाम्यहम् ।
करिष्यत्येव भगवान् रक्षामस्माकमच्युतः ॥ ३० ॥
तमेवमुक्त्वा भगवान् ब्रह्मा शतमखम् प्रति ।
ध्यात्वा किञ्चिदुवाचेदम् भीतान् काले दिवौकसः ॥ ३१ ॥
नैष शक्यः शमयितुमस्माभिर्नरकेसरी ।
क्रोधाभिभूतो भगवानृते देवम् पिनाकिनम् ॥ ३२ ॥
प्रपद्यामो महादेवम् शूलिनम् वृषभध्वजम् ॥ ३३ ॥
तेन देवादिदेवेन शङ्करेणामिततेजसा ।
जगतस्त्राणकामेन कृतम् कर्म सुदुष्करम् ॥ ३४ ॥
उग्राणामुग्रचेष्टानामसुराणाम् पुरत्रयम् ।
दग्धम् क्षणेन विभुना चतुर्वर्गप्रदायिना ॥ ३५ ॥
भञ्जनो नाम दैत्येन्द्रो युधि नित्यापराजितः ।
शतयोजनविस्तीर्णः शतयोजनमायतः ॥ ३६ ॥
तेन कृत्वा महादेवः सम्युगम् शरदाम् शतम् ।
निजघान महातेजाः शूली शूलेन तम् शिवः ॥ ३७ ॥
सामादिभिरुपायैस्तमशक्यम् चन्द्रशेखरः ।
शमयिष्यति सर्वेषाम् देवानाम् हितकाम्यया ॥ ३८ ॥
सोऽस्माभिः प्रार्थितो देवो मन्मथारिरुमापतिः ।
नरसिम्हसमुद्भूतम् भयम् नः शमयिष्यति ॥ ३९ ॥
तमेवमुक्वा भगवान् देवराजम् चतुर्मुखः ।
जगाम देवमीशानम् द्रष्टुम् कैलासपर्वतम् ॥ ४० ॥
गच्छन्तम् तम् तदा देवा यक्षगन्धर्वचारणाः ।
वायुभूताः पिशाचाश्च समुद्राः सरितो दिशः ॥ ४१ ॥
लोकपालास्तथा चाष्टौ पर्वताश्च सरीसृपाः ।
जग्मुस्तम् परिवार्यैनम् मुनयश्च तपोधनाः ॥ ४२ ॥
ततोऽचिरेण भगवान् सहितो देवदानवैः ।
कैलासम् पर्वतश्रेष्ठमाससाद पितामहः ॥ ४३ ॥
प्रविश्य शम्भुम् भगवानपश्यद्वृषकेतनम् ।
विद्योतमानम् प्रभया सूर्यकोटिंसमप्रभम् ॥
सेव्यमानम् गिरिजया श्रियैव पुरुषोत्तमम् ॥ ४४ ॥
स तम् समीक्ष्य भगवान् ब्रह्माणम् ब्रह्मसम्भवः ।
उवाच वचनम् श्लक्षणम् बहुमानपुरस्सरम् ॥ ४५ ॥
आगतोऽसि किमर्थम् त्वम् चतुर्मुख सुरैः सह ।
कच्चित् क्षेमम् तु सर्वेषाम् देवानाममितौजसाम् ॥ ४६ ॥
किमर्थमागतश्चायम् सुरैः सह शतक्रतुः ।
देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः ॥ ४७ ॥
ब्रह्मा
येषाम् चैव पुरो देवा प्राणकामवरप्रभुः ।
कुतः स्यादशुभम् तेषाम् शङ्करात्र दिवौकसाम् ॥ ४८ ॥
तथापि किञ्चिद्वक्तव्यमस्ति नः परमेश्वर ।
तच्छ्रुत्वा कुरु देवानाम् रक्षणम् चन्द्रशेखर ॥ ४९ ॥
पुरा हिरण्यकशिपोरस्माभिर्वधकाङ्क्षिभिः ।
प्रार्थितो लोकरक्षार्थम् विष्णुर्दानवसूदनः ॥ ५० ॥
नैव शान्तिम् गतो रोषस्तस्य देवस्य शार्ङ्गिणः ।
तस्मिन् भगवति क्रुद्धो नरसिम्हे महात्मनि ॥
प्रवेपते जगदिदम् देवेशे कुपिते भृशम् ॥ ५१ ॥
त्वत्तो हि नान्यच्छरणम् देवनामिह विद्यते ।
नरसिम्ह समुद्भूतम् भयम् नाशय नो हर ॥ ५२ ॥
पितामहस्य वचनम् श्रुत्वा पशुपतिस्तदा ।
मुहूर्तम् चिन्तयित्वा तु ब्रह्माणमिदमब्रवीत् ॥ ५३ ॥
शङ्करः
हतो हिरण्यकशिपुर्येन दैत्यो महाबलः ।
कोऽन्यः शमयिता तस्य कोपस्य हयमेधसः ॥ ५४ ॥
त्वम् मे जनयिता देव स ते जनयिता हरिः ।
तस्य देवस्य कः शक्ता विष्णोर्वै निग्रहो भवेत् ॥ ५५ ॥
यद्भयात् पवते वायुः सूर्यस्तपति यद्भयात् ।
यद्भयात् धरणी धत्ते निग्रहे तस्य कः प्रभुः ॥ ५६ ॥
तथाप्युपायो दृष्टे मे परमेण समाधिना ।
कृते तस्मिन् भवेच्छ्रेयस्तूष्णीम्भूतेन चेतसा ॥ ५७ ॥
अश्वानाम् महिषः शत्रुर्वारणानाम् मृगाधिपः ।
वानराणाम् तथा मेष: फणिनाम् गुरुडस्तथा ॥ ५८ ॥
मूषिकाणाम् तु मार्जारो मुगाणाम् श्वा प्रकीर्तितः ।
वायसानाम् दिवाभीतः सिम्हानाम् शरभस्तथा ॥ ५९ ॥
अतो निर्वापयिष्यामः शरभम् भयशान्तये ।
शरभोऽधिष्ठितोऽस्माभिर्नृसिम्हम् शमयिष्यति ॥ ६० ॥
इत्येवमुक्त्वा भगवान् ससर्ज शरभम् तदा ।
यस्य सन्दर्शनादेव त्रस्तमासीज्जगत्त्रयम् ॥ ६१ ॥
ततस्तस्याथ गौरीशस्तुण्डस्थानमरोचत ।
पृष्ठभागे चतुर्वक्त्रम् तस्य रुद्रो न्यवेशयत् ॥ ६२ ॥
चन्द्रसूर्यौ नयनयोर्मारुतम् पक्षयोर्द्वयोः ।
पादेषु भूधरान् सर्वान् शिवस्तस्य न्यवेशयत् ॥ ६३ ॥
एवम् निर्माय शरभम् भवम् प्रमथनायकः ।
ससर्ज नारसिम्हम् तम् समुद्दिश्य भयानकम् ॥ ६४ ॥
स विसृष्टो भगवता देवानाम् पुरतस्तदा ।
जगाम शरभो हन्तुम् नृसिम्हममसुरान्तकम् ॥ ६५ ॥
गच्छतस्तस्य वेगेन जगद् विपरिवर्तितम् ।
नादेन सकला लोकाः सहसा त्वधरीकृताः ॥ ६६ ॥
चचाल पृथिवी सर्वा चेलुश्चाष्टौ च दिग्गजाः ।
अधरोत्तरविन्यासा बभूवुः सप्तसागराः ॥ ६७ ॥
ततः क्षणेन शरभो नादपूरितदिङ्मुखः ।
अभ्याशमगमद् विष्णोर्विन्दन् भैरवरस्वनम् ॥ ६८ ॥
तौ युध्यमानौ तु तदा चिरेण बलवत्तरौ ।
न शमम् जग्मतुर्देवौ नृसिम्हशरभाकृती ॥ ६९ ॥
ततः क्रुद्धो महाकायो नृसिम्हो भीमनिस्स्वनः ।
सहस्रकरजैस्त्रस्तस्य गात्राणि पीडयन् ॥ ७० ॥
ततः स्फुरच्छटाचोटो रुद्रम् शरभरूपिणम् ।
व्यदारयन्नखैस्तीक्ष्णैर्हिरण्यकशिपुम् यथा ॥ ७१ ॥
निहते शरभे तस्मिन् रौद्रे मधुनिघातिना ।
तुष्टुवुः पुण्डरीकाक्षम् देवा देवर्षिणस्तदा ॥ ७२ ॥
तदा प्रसन्नो भगवानिदम् वचनमब्रवीत् ।
क्रोधः सर्वात्मना शान्तो युष्माभिः कृतसाधनात् ॥ ७३॥
अद्य प्रभृति लोकोऽयम् भवेत् विगतसञ्ज्वरः ।
तत्त्वतस्तु न मे कोपो न मे शान्तिः सुरेश्वराः ॥ ७४ ॥
तत्तत्कार्यानुकारेण तत्तत्कार्यञ्चि ग्रहीष्यते ।
शरभो निहतः सङ्ख्ये कृत्रिमोऽयम् न सम्शयः ॥ ७५ ॥
स्वम् स्वम् पदमनुप्राप्य मोदध्वम् विगतज्वराः ।
इत्युक्तवति सर्वेशे ब्रह्मा वचनमब्रवीत् ॥ ७६ ॥
ब्रह्मा
शङ्करेण कृतम् कर्म जगदर्ते महात्मना ।
न तु द्रोहाभिभूतेन तव वीर्यमजानता ॥ ७७ ॥
यत्किञ्चिद् वापि क्षन्तव्यम् प्रेष्यास्ते सर्वदेवताः ॥ ७८ ॥
यत्रासौ निहतः शेते हरः शरभरूपधृक् ।
तत्स्थानम् सर्वपूज्यम् स्यात् तव देव प्रसादतः ॥ ७९ ॥
अस्मिञ्छैले तु ये कुण्डा: स्वल्पाः स्थूलतरास्तथा ।
सर्वास्तव प्रसादेन शर्वरूपा भवन्ति हि ॥ ८० ॥
इत्येवमुक्तो वचनम् भगवान् पद्मयोनिना ।
श्रुत्वा तु सादरम् तस्मै दत्वा वरमनुत्तमम् ॥
पश्यताम् सर्वदेवानाम् तत्रैवान्तरधीयत ॥ ८१ ॥
अयम् तु पर्वतो विप्रा गरुडाद्रेरदूरतः ।
अच्छायमेरोः प्राग्भागे ह्यद्यापि परिदृश्यते ॥ ८२ ॥
तत्र स्थिताः शिलाः सर्वाः शिवलिङ्गवपुर्धराः ॥ ८३ ॥
ये तत्र शिवसूक्तानि पठन्त्यहरहर्नराः ।
षण्मासैः शिवसालोक्यम् यास्यान्ति गतबन्धनाः ॥ ८४ ॥
एतत्सर्वम् समाख्यातम् शरभागमकारणम् ॥ ८५ ॥
अन्तर्धानम् गतवति हरौ देवदेवे नृसिम्हे
हत्वा रौद्रम् शरभमभयम् देवताभ्यः प्रदाय ।
सर्वान् देवान् निजसुरपदे स्थापयित्वाब्जयोनिः
प्रायात् स्थानम् निजमनुपमम् स्तूयमानो मुनीन्द्रैः ॥८६ ॥
॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये
अष्टमोऽध्यायः ॥
श्रीः
॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥ श्रीमदहोबिलमाहात्म्ये नवमोऽध्यायः ॥
श्रीनारदः
इदम् वः कथयिष्यामि चरितम् रोमहर्षणम् ।
नद्यास्तु भवनाशिन्याः सर्वेषामुपकारकम् ॥ १ ॥
अच्चायमेरोरुद्भूता धर्मात्मा भवनाशिनी ।
पूर्णयन्ती जगत्सर्वम् कल्लोलैरमितप्रभा ॥ २ ॥
स्वर्लोकवासिदेवानाम् निर्लेपगुणखण्डिनी ।
मण्डयन्ती जगत्सर्वम् मण्डिताखिलमण्डला ॥ ३ ॥
चण्डप्रतापदोर्दण्ड आकण्डल इवापरः ।
लोलयन्ती सहस्राक्षभवनम् भुवनत्रयम् ॥ ४ ॥
प्रवहत्यतिवेगेन प्रलये सागरो यथा ।
अन्तरिक्षगता ये च ये च गन्धर्वकिन्नराः ॥ ५ ॥
स्वर्लोकम् समनुप्राप्ताः ते च शर्म न लेभिरे ।
तत्रत्यैः सह सर्वैस्तुः महर्लोकम् प्रपेदिरे ॥ ६ ॥
एवम् जाते महाघोरे तेन धर्मेण दारुणे ।
बृहस्पतिमुवाचेदमिन्द्रः स्वेन्द्रत्व सिद्धये ॥ ७ ॥
भगवन् कथमेतद्धि नद्या वै सम्भ्रमो महान् ।
लोकान् सर्वान् भ्रामयति मेदनीमधरोत्तरम् ॥ ८ ॥
किमेतत् सहजम् कर्म आहो ऋष्यादि सम्भवः ।
प्रभावो वा नृसिम्हस्य क्षेत्रमाहात्म्यमेव वा ॥ ९ ॥
कथमेतादृशी शक्तिर्नदीमात्रस्य कल्पते ।
बृहस्पतिः
न ह्येषा तु नदीमात्रा हरिपाद समुद्धवा ॥ १० ॥
स्तोष्यामस्ताम् नदीमेव सा प्रसन्ना भविष्यति ।
लोकस्य परितापोऽयम् किमर्थम् परिकल्प्यते ॥ ११ ॥
एतदाकर्ण्य वचनम् भगवान् पाकशासनः ।
गरुडाचलमासाद्य तुष्टाव भवनाशिनीम् ॥ १२ ॥
नमस्तुभ्यम् भगवति भवनाशिनि पावनि ।
त्राहि त्रस्तानिमाँल्लोकान् विष्णुपादब्जसम्श्रये ॥ १३ ॥
माता त्वम् सरिताम् प्रसीद करुणेसम्सक्तचित्ते परम्
लोकान् रक्ष महारवम् त्यज जगज्जालम् मुदा पालय ।
भीतानुद्धर मेघवाहनमुखान् देवाम्श्च लोकाधिपान्
कल्याणम् करुणालये करुणया देहि प्रसन्ना भव ॥ १४ ॥
मातः माम् परिपाहि पुण्यनिलये पापौघविध्वम्सिनि
क्षोणीरक्षणलक्षणेन चतुरे चञ्चत्कटाक्षान्विते ।
धीरोदात्तधराधरप्रभृतयेस्तेष्वष्टदिक्पालका
धर्तुम् तावकनिर्झरीकणलवम् शक्तेन लोकाः किमु ? ॥ १५ ॥
इति स्तोत्रे कृते प्रेम्णा देव्याः कोपो व्यवर्धत ।
अजानन्त्या परम् कार्यम् जडता प्रकटीकृता ॥ १६ ॥
आकाशे वागुवाचेदमातुरम् तम् शतक्रतुम् ।
मघवन् परितापोऽयमकस्मात् सम्भवस्तव ॥ १७ ॥
तव स्तोत्रेण देवीयम् न याति तव वश्यताम् ॥ १८ ॥
गरुडाचलभूभागे भैरवो लोकभैरवः ।
रक्षन् समस्तभूतानि तत्रास्ते हरितोषकृत् ॥
सम्रम्भम् भवनाशिन्याः स तु क्षामयितुम् क्षमः ॥ १९ ॥
इत्युक्तो वासवस्तूष्णीमामन्त्र्य तु कपालिनम् ।
जगाम त्रिदिवम् विप्राः कपाली तु व्यचिन्तयत् ॥ २० ॥
शमयिष्यामि साम्ना तु नदीम् वै भवनाशिनीम् ।
अन्यथा तादृशी शक्तिः कथम् शामयितुम् क्षमा ॥ २१ ॥
इति सञ्चिन्त्य मनसा तुष्टाव स नदीञ्चि तदा ॥ २२ ॥
भैरव
नमस्ते भवनाशिन्यै नरकोत्तारहेतवे ।
विष्णुपादसमुद्भूते विष्णुना परिपालिते ॥ २३ ॥
विष्णुरूपे विष्णुमये विविधागमसम्स्तुते ।
प्रसीद देवि पद्माक्षि प्रसन्नवदनाम्बुजे ॥ २४ ॥
धर्मात्मिके धर्मधात्रि धर्मसञ्चयवर्धिनि ।
दुर्मानसञ्चिताशेषकर्मनिर्मूलनक्षमे ॥ २५ ॥
अकाण्डे ताण्डवीतन्त्रे दानवा तत्परागमैः ।
पाहि लोकान् भयत्रस्तान् पालनी भवनाशिनी ॥ २६ ॥
इति स्तोत्रम् बहुविधम् भैरवेण समीरितम् ।
अनादृत्य ययौ देवि पश्चिमाभिमुखी तदा ॥ २७ ॥
उत्खातयन्ती वेगेन पर्वताम्स्तरुसञ्चयान् ।
पृथिव्याकाशयोमध्ये ह्यन्तरालम् न विद्यते ॥ २८ ॥
तदा तु भैरवः क्रुद्धः कोपसम्रक्तलोचनः ।
देवकार्यमनुस्मृत्य कर्मान्तर पराङ्मुखः ॥ २९ ॥
शमयिष्यामि वेगेन साहसेनैव कर्मणा ।
ज्वलितस्य न तोयेन शान्तिः कल्पशतैरपि ॥ ३० ॥
इत्यालोचयतु मनसा खङ्गेन निशितेन तु ।
शिरः कृन्त्वा स्वकम् कोपात् नदीमध्ये ह्यपातयत् ॥ ३१ ॥
सा रूद्धवेगा सहसा दारुणेनैव कर्मणा ।
किम् मे भविष्यतीत्येवम् चिन्ताकुलितमानसा ॥ ३२ ॥
पातालम् सा जगामाशु यत्रास्ते फणिनाम् वरः ।
फणिराट् सहसोत्थाय कृताञ्जलिरभाषत ॥ ३३ ॥
देवि कल्याणनिलये किमर्थम् त्वमिहागता ।
कस्यायमुत्तमः कायः किमर्थम् व्यग्रमानसाः ॥ ३४ ॥
का त्वम् भवसि कल्याणि कस्य वा त्वम् परिग्रहः ।
नदी नदाः सागराश्च भूलोके कृतकेतनाः ॥ ३५ ॥
श्रुत्वेदम् वचनम् तेन शेषेण परिभाषितम् ।
भीषणम् भीषणाकारा वचनम् चेदमब्रवीत् ॥ ३६ ॥
नहरेः पादसम्भूता मामाहुर्भवनाशिनीम् ।
जलौघैघौरसङ्काशैः पूरयन्ती जगत्त्रयम् ॥ ३७ ॥
स्तुता भगवता साक्षात् सादरम् वज्रपाणिना ।
न श्रोत्रपदवीम् यातम् स्तोत्रम् सत्त्वानुभाषितम् ॥ ३८ ॥
तत्प्रेषितेन महता लोकण्ठककर्मणा ।
स्तुताहम् भैरवेणास्मिन् लोके भैरवकर्मणा ॥ ३९ ॥
न शमम् गमिता किञ्चित् स्त्रीस्वभावानुबन्धनात् ॥ ४० ॥
ततः क्रद्धेन महता तरसा भैरवेण तु ।
शिरो निपातितम् तेन रुद्धाहम् त्वामुपागता ॥ ४१ ॥
इत्येवम् वचनम् घोरमाश्रुतम् देवदानवैः ।
शिरः प्रकम्पयन् देवः शेषो वचनमब्रवीत् ॥ ४२ ॥
न ह्यत्र प्रसरो देवि नदीनाम् तु प्रवर्तते ।
भूतलम् गच्छ तत्रैव प्रवहस्व यथेप्सितम् ॥ ४३ ॥
सर्वम् सहा वसुमती सहिष्यति हि ते रवम् ॥ ४४ ॥
इति श्रुत्वा वचस्तस्य ह्यङ्गीकृत्य च सादरम् ।
पुनर्जगाम भूलोकम् यत्रास्ते तिन्त्रिणी तरुः ॥ ४५ ॥
कर्मणा कायिकेनैव तरुः कश्चिद्विजोत्तमाः ।
तत्रोद्भूता महापुण्या लोकपावनपावनी ॥ ४६ ॥
यत्रोद्भूता तु तत्रैव तिन्त्रिणीतरुमूलके ।
भैरवस्य शिरः पुण्यम् स्थापयामास पावनी ॥ ४७ ॥
तच्छिरः पूज्यमानम् तु जनैरिष्टार्थदायकम् ।
सा नदी कृष्णवेण्यास्तु सङ्गमे ह्यविदूरतः ॥ ४८ ॥
योजनद्वयमात्रे तु गमिता सागरम् प्रति ।
पृथग्भूता तु तत्रैव भर्तारम् परिषस्वजे ॥ ४९ ॥
यथा कृष्णा यथा वेणी यथा तुङ्गा तु भद्रका ।
यथा भीमरथी पुण्या यथैव मलहारिणी ॥
पृथक्पृथक् सागरगा तथेयम् भवनाशिनी ॥ ५० ॥
भैरवः खण्डरूपस्तु सुप्रीतो हयमेधसा ।
रूपलावण्यसौन्दर्यम् दत्तम् मूर्तान्तरम् तदा ॥ ५१ ॥
पतिजग्राह नैवायमुग्रकर्मा तु भैरवः ।
देवदेवम् जगन्नाथमिदम् वचनमब्रवीत् ॥ ५२ ॥
महत्यापत्तिस्तु सम्प्राप्ता नद्यास्तु जगदीश्वर ।
शर्मणे जगताम् दत्तम् शिरस्तु तटिनीम् प्रति ॥ ५३ ॥
अहमेवम् विशिष्यामि त्वत्प्रसादैकभाजनम् ।
माम् वदिष्यन्ति सर्वत्र दुष्करम् कर्म वै कृतम् ॥ ५४ ॥
भैरवेण सुपूर्णेन लोकानुग्रहमिच्छता ।
इयम् मे परमा कीर्तिर्यन्मुण्डितैव सम्स्थितिः ॥ ५५ ॥
अद्य प्रभृति लोकोऽयम् मुण्डो भैरव इत्यपि ।
वदिष्यति न सन्देहो न मेऽस्ति परिवेदना ॥ ५६ ॥
इत्येवम् वचनम् श्रुत्वा भगवान् नरकेसरी ।
यदुक्तम् भवता लोके तत्तथैवास्तु भैरव ॥ ५७ ॥
ये तु साधारणजना मयि भक्तिम् प्रकुर्वते ।
ते जनाः प्रीतिसम्युक्ता द्रक्ष्यन्ति क्षेत्रपालकम् ॥ ५८ ॥
ये त्वत्र समयाचार लङ्गनैकपरायणाः ।
तेषाम् वै पापचित्तानाम् शासनैकपरो भव ॥ ५९ ॥
इति सन्दिश्य भगवाम्स्तत्रैवान्तरधीयत ।
श्रीनारदः
इति सर्वम् समाख्यातम् भवनाशिनिवैभवम् ॥ ६० ॥
भैरवस्योत्तरे भागे गुहा वै पर्वताभिधा ।
अष्टयोजनविस्तीर्णा श्रीशैलान्तिकमागता ॥ ६१ ॥
तत्र देवः समध्यास्ते नृसिम्हो गह्वराधिपः ।
एतद्गह्वरमाविष्टा गन्धर्वाश्चैव किन्नराः ॥ ६२ ॥
गायन्ति परमम् गानम् परमानन्दकारणम् ।
अच्युतानन्तगोविन्द मुकुन्द मुरनाशन ॥
नृकेसरिन् जगद्धामेत्युच्छार्यान्योन्यमोदिताः ॥ ६३ ॥
इत्थम् गुहासु सर्वासु ऋषयश्च तपोधनाः ।
ऋग्यजुस्सामवेदानाम् गायका विचरन्ति हि ॥ ६४ ॥
वदन्ति च पुराणार्थानागमार्थाननेकधा ।
सद्विद्यानिरताः केचिदन्तरादित्यनिश्चयाः ॥ ६५ ॥
परविद्यारताः केचित् केचिद्भूमैकवादिनः ।
केचित् कर्म प्रशम्सन्ति केचित्तु शरणागतिम् ॥ ६६ ॥
एकान्तिनः सदा सर्वे परमात्मपरायणाः ।
पाञ्चरात्रविदः केचित् सम्हिता वेदपारगाः ॥
अर्चयन्ति जगन्नाथम् कापिञ्जलविधानतः ॥ ६७ ॥
तन्त्राणामुत्तमम् ज्ञेयम् वेदसारम् महोदयम् ।
साङ्ख्ययोगकृतान्तेन पाञ्चरात्रानुशब्दितम् ॥ ६८ ॥
इदम् श्रेयम् इदम् ब्रह्म इदम् हितमनुत्तमम् ।
ऋग्यजुस्सामाभिर्जुष्टमथर्वाङ्गिरसस्तथा ॥ ६९ ॥
प्रमाणमेतदुदितम् साक्षान्नारायणोदितम् ।
तन्त्रेषु सात्तित्वकम् प्रोक्तम् सकलागममूलकम् ॥ ७० ॥
इति सकलजनानाम् सर्वदा पापराशिम्
स्ववचनपरिपाटीमात्रतः क्षालयन्ती ।
भवहरतटिनीयम् वर्णिता सानुभावा
हृदि विलसतु नित्यम् सर्ववर्णामृतानाम् ॥ ७१ ॥
कालेऽवगाह्य भवनाशिनितीर्थसारम्
कल्पेषु सञ्चितमपोह्यमहाघराशिम् ।
अल्पीकृतासुरबलस्य नृसिम्हमूर्तेः
कल्पेत पादयुगलीपरिचारकृत्ये ॥ ७२ ॥
अलमिह मुनिवर्याः सम्पदोघैरमेयैः
अमितगुणगणानामालये नारसिम्हे ।
दधत विपुलभक्तिम् दीनभावम् त्यजध्वम्
वितरति फलराशिम् वीतशोकाम् मुदम् वः ॥ ७३ ॥
धिग्धिग् देवान् क्षुढ्रकान् प्रार्थयन्ते ।
तैर्वा दत्तम् तत्क्षणे नश्वरम् च ।
गीर्वाणानामीश्वरो गीतमात्रात्
सर्वान् कामान् सर्वदा सन्दधाति ॥ ७४ ॥
गृहेषु सक्ताः प्रलपन्त्यनेकधा
गृहेषु वासः सकलार्तिसाधकः ।
विवेकिनस्तत्परिभूय भुञ्जते
गुहासु तीर्थेषु हरे: कथामृतम् ॥ ७५ ॥
शाकान् कणान् वा फलमूलकम् वा
कृत्वा शरीरेन्द्रियधारणाय ।
तीरे तटिन्या भवनाशहेतोः
सदा मधुद्विट् सुकथानुदृप्राः ॥ ७६ ॥
सम्सारसारस्त्वयमेक एव
दुःखावहान्यन्यविचरणानि ।
यत्पादभक्तिर्भगवत्यनन्ते
विविक्तवासो गिरिगह्वरेषु ॥ ७७ ॥
॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये
नवमोऽध्यायः ॥
॥ श्रीः ॥
॥ श्रीमते लक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥
॥ श्री मदहोबिलमाहात्म्ये दशमोऽध्यायः ॥
ऋषयः
भगवन् ब्रह्मसम्भूत श्रुता विस्तरतः कथाः ।
नारायणैकनिलयाः श्रुतिपीयूषकल्पकाः ॥ १ ॥
इदानीम् श्रोतुमिच्छामो मोक्षोपायविनिर्णयम् ।
साङ्ख्ययोगादिके धर्मे नाधिकारोऽस्ति कस्यचित् ।
यद्यस्ति सुकृतोपायः कृपया वै प्रकाशय ॥ २ ॥
श्रीनारदः
कालदोषान्मनुष्याणाम् मनश्चाञ्चल्ययोगतः ।
दुर्ग्राह्यत्वादिन्द्रियाणाम् विश्वासाधिक्यहानितः ॥ ३ ॥
कर्मादिष्वधिकारस्तु नराणाम् नोपजायते ॥ ४ ॥
शुश्रूषणविधानेन हरेर्मूर्तिमवाप्नुयात् ।
क्रिययोगो ह्ययम् मार्गो योगवन्मुक्तिसाधकः ॥ ५ ॥
स्नानैस्तीर्थोदकैर्हूद्यैः पुष्पगन्धानुलेपनैः ।
विविधैर्भूषणैर्भक्ष्यैर्गीतनादैर्मनोहरैः ॥ ६ ॥
चन्दनागरुधूपैश्च किञ्चिद्भोग्यादिकेन च ।
भक्त्या नमेन्नरश्रेष्ठः कुर्याद्विष्णवर्चनम् परम् ॥ ७ ॥
रागेणाकृष्यते चेतो गान्धर्वाभिमुखम् यदि ।
हरौ बुद्धिम् समावेश्य गातव्यम् गानमुत्तमम् ॥ ८ ॥
श्रोतव्याः प्रीतियुक्तेन अवतारकथाः शुभाः ।
हरौ विन्यस्य सर्वस्वम् आत्मानम् यत तदग्रतः ॥ ९ ॥
तदर्थम् कुरुते धर्ममधर्मस्तव्यतिक्रमः ।
राज्यम् वापि मुनिश्रेष्ठा निवेद्य हरिसन्निधौ ॥ १० ॥
अत्रैवोदाहरन्तीममितिहासम् पुरातनम् ॥ ११ ॥
चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः ।
शशास स महाबाहुः सप्तद्विपाम् वसुन्धराम् ॥ १२ ॥
यावत्सूर्य उदेति स्म यावत्तिष्ठति मेदिनी ।
तत्सर्वम् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ १३ ॥
स कदाचित् सपत्नीको वसिष्ठम् वाक्यमब्रवीत् ।
कथमेतादृशी सम्पदावयोः समुपस्थिता ॥ १४ ॥
वसिष्ठाः
त्वमासीः शूद्रजातीयः परहिम्सापरायणः ।
इयम् च भवतो भार्या पूर्वमप्यायतेक्षणा ॥ १५ ॥
प्रेष्या बभूव त्वच्चित्ता तव शुश्रूषणे रता ।
वासुदेवालये नित्यम् कृतम् सम्मार्जनम् त्वया ॥ १६ ॥
तथैवाभ्युक्षणम् भूप नित्यम् चैवानुलेपनम् ।
पत्न्यानया च धर्मज्ञ युष्मच्चित्तानुवृत्तया ॥ १७ ॥
अहन्यहनि तत्कर्म युवयोर्नाम कुर्वतोः ।
अत्रैव तन्मयत्वेन पापहानिरजायत ॥ १८ ॥
विष्णोः कार्यम् मया कृत्यम् योगशुश्रूषणे रता ।
न प्रभाम् तु प्रभावम् तु चिन्तया च भवन्निशि ॥ १९ ॥
कदाहम् भगवत्कार्यम् करिष्येऽभ्युक्षणादिकम् ।
इति चिन्तयतो नित्यम्मनश्शुद्धिरभूत् तव ॥ २० ॥
स्मारितः पुण्डरीकाक्षः कार्येणातिदृढात्मना ।
निश्शेषमपयातम् तत् पापम् योगनिषेवणात् ॥ २१ ॥
ततोऽधिकतरम् तस्मादगाराद्यनुलेपनम् ।
सम्मार्जनम् च बहुशः सपत्नीकेन वै कृतम् ॥ २२ ॥
तत्रागतश्च सौवीरः कुरुजन्मा तु भूपतिः ।
महासैन्यपरीवारः प्रभूतगजवाहनः ॥ २३ ॥
सर्वसम्पदुपेतम् तम् सर्वाभरणभूषितम् ।
वृतम् भार्योसहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम् ॥ २४ ॥
स्पृहा कृता त्वया तत्र चारुमालिनि पार्थिवे ।
सर्वकामप्रदम् कर्म देवस्यार्ते प्रकुर्वता ॥ २५ ॥
तेनेदमखिलम् राज्यमशेषम् नृपसत्तम ॥ २६ ॥
तत्रैवावसथेदीपः प्रशान्तः स्रेहसङ्क्षयात् ।
निजभोजनतैलेन पुनः प्रज्वलितस्त्वया ॥ २७ ॥
अनया चोत्तरीयान्तचीरलेशोपबृम्हितः ।
तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका ॥ २८ ॥
तवाप्यखिलभूपालमनः क्षोभकरम् ततः ।
तेजो नरेन्द्र न स्याद्वा किमाराध्य जनार्दनम् ॥ २९ ॥
एवम् नरेन्द्र शूद्रस्त्वम् विष्णुकर्मपरायणः ।
तन्मयत्वेन सम्प्राप्तो महिमानमनूपमम् ॥ ३० ॥
किम् पुनर्यो नरो भक्तो विष्णुशुश्रूषणादृतः ।
करोति सततम् पूजाम् निष्कामोऽनन्यमानसः ॥ ३१ ॥
ततोसमृद्धिमिमाम् लब्ध्वा सर्वलोकेश्वरेश्वरम् ।
पूजयाच्युतमीशेशपू तमाराध्य न सीदति ॥ ३२ ॥
पुष्पैर्धूपैस्तथा चान्यैर्दीपैर्वस्त्रानुलेपनैः ।
आरधयाच्युतम् तस्य वेश्मसम्मार्जनादिना ॥ ३३ ॥
यद्यदिष्टम् तु किञ्चिद्यद्यदत्यन्तदुर्लभम् ।
तत्तदत्वा जगद्धात्रे वैकुण्ठाय न सीदति ॥ ३४ ॥
सुगन्धागरुकर्पूरचन्दनक्षौद्रकुङ्कुमैः ।
वासोभिर्विविधैर्धूपैः पुष्पस्रक्चामरध्वजैः ॥ ३५ ॥
अन्नोपहारैविविधैर्घृतक्षीराभिषेचनैः ।
गीतवादित्र नृत्ताद्यैस्तोषयन्वाच्युतम् नृप || ३६ ||
पुण्यरात्रिषु गोविन्दम् नृत्तगीतरथोत्सवैः ।
भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् ॥ ३७ ॥
एवम् सन्तोषितो भक्त्या भगवान् भवभङ्ग कृत् ।
करोति सकलम् सम्यगन्ते विष्णुपदम् तथा ॥
श्रीनारदः
इत्युक्त्वा तु वसिष्ठस्तु स्वाश्रमम् प्रययौ मुदा ॥ ३८ ॥
यावत्यः पाम्सुकणिका मार्जने केशवालये ।
वर्षाणि दिवि तावन्ति तिष्ठत्यस्तमलो नरः ॥ ३९ ॥
उपलेपनकर्तारः सम्मार्जनकराश्च ये ।
कृष्णालये परित्याज्यम् यमेन तु कुलत्रयम् ॥ ४० ॥
शनैः सम्मार्जनम् कुर्यान्मार्जन्या मृदुकूर्चया ।
पश्यन् परिहरन् जन्तून् चान्द्रायण फलम् लभेत् ॥ ४१ ॥
अग्निष्टोमम् तु पक्षेण वाजपेयम् तु मासतः ।
सम्वत्सरेणाश्वमेधम् मार्जनात् फलमुच्यते ॥ ४२ ॥
नैरन्तर्येण यः कुर्यात सम्मार्जनमतन्द्रितः ।
युगकोटिशतम् दिव्यम् विष्णुलोके महीयते ॥ ४३ ॥
तस्यान्ते तु चतुर्वेदी सुरूपः प्रियदर्शनः ।
अर्च्यः सर्वगुणोपेतो राजा वा भवति प्रियः ॥ ४४ ॥
यावज्जीवम् नरः कुर्वन् कर्म विष्णुगुहे तथा ।
तत्फलम् शतसाहस्रम् ज्ञानम् प्राप्य हरिम् व्रजेत् ॥ ४५ ॥
प्रतिष्ठाम् नृहरेर्यस्तु करोति दृढमानसः ।
वैकुण्ठम् लभते मर्त्यो यतो नावर्तते पुनः ॥ ४६ ॥
प्रतिमाम् लक्षणोपेताम् नारसिम्हस्य कारयेत् ।
भक्त्या यः स तु पापानि त्यक्त्वा विष्णुपुरे वसेत् ॥ ४७ ॥
विधिवत् स्थापयेद्यस्तु कारयित्वा जनार्दनम् ।
न जाने निर्गमम् तस्य विष्णुलोकादहम् द्विजाः ॥ ४८ ॥
योहि स्थापयते विष्णुम् सर्वदेवनमस्कृतम् ।
स्थापितम् तेन सर्वम् स्याज्जगत्स्थावरजङ्गमम् ॥
पूजितम् च यथान्यायमत्र मे नास्ति सम्शयः ॥ ४९ ॥
काष्ठलोहशिलामृद्धिः प्रतिमा क्रियते नरैः ।
मातृतः पितृतश्चैव यतश्चोद्वहते स्त्रियम् ॥
कुलैकविम्शमुद्धृत्य विष्णुलोके महीयते ॥ ५० ॥
सागराणाम् क्षयोऽप्यस्ति क्षीयते हिमवानपि ।
विष्णुलोकक्षयो नास्ति ये तु नारायणाश्रयाः ॥ ५१ ॥
शरीरममृतम् प्रोक्तम् शरीरम् बिम्बमुच्यते ।
तस्य प्राण इति प्रोक्तम् कौतुकम् मुनिसत्तमाः ॥ ५२ ॥
लोहम् तु कौतुकायैव पूर्वम् सृष्टम् स्वयम्भुवा ।
सुवर्णम् रजतम् ताम्रमित्येतत् कौतुकावहम् ॥ ५३ ॥
मणिभिश्चापि निर्दिष्टम् कौतुकम् तु विशेषतः ।
ताम्रात्सहस्रगुणितम् राजतम् कौतुकाकृति ॥ ५४ ॥
तस्माद्दशसहस्रन्तु सौवर्णकुतुके फलम् ॥ ५५ ॥
अकौतुकालये यस्तु कौतुकम् स्थापयेन्नरः ।
लभते स तु पुण्यात्मा अपरावर्तिनीस्र स्मृतिम् ॥ ५६ ॥
ये भविष्यन्ति येऽतीताः आकल्पाः पुरुषाः कुले ।
तान् स्थापयति सम्स्थाप्य देवस्य प्रतिमाम् हरेः ॥ ५७ ॥
येन चायतनम् विष्णोः कारितम् तत्कुलोद्भवम् ।
पुम्साम् शतम् न च लोक्यम् यमदूतैः कदाचन ॥ ५८ ॥
यस्तु देवालयम् विष्णोर्दारबम् शैलजम् तथा ।
मृन्मयम् वा हरेः कुर्यात् श्रोतव्यम् तस्य वैभवम् ॥ ५९ ॥
अहन्यहनि यज्ञेन याजितो यत्फलम् महत् ।
प्राप्नोति तत्फलम् विष्णोर्यः कारयति मन्दिरम् ॥ ६० ॥
कुलानाम् शतमागामि समतीतम् तथा शतम् ।
ज्येष्ठताम् च विमानेन यात्यच्युतसलोकताम् ॥ ६१ ॥
सप्तजन्मकृतम् पापम् स्वल्पम् वा यदि वा बहु ।
विष्णोरालयनिर्माण प्रारम्भादेव नश्यति ॥ ६२ ॥
सर्वलोकमयो विष्णुस्तस्या यः कुरुते गृहम् ।
प्रतिष्ठाम् वा समाप्नोति स नरः सार्वकालिकम् ॥ ६३ ॥
इष्टकायाश्च विन्यासो यावद्वर्षाणि तिष्ठति ।
तावद् वर्षसहस्राणि धर्मवान् दिवितिष्ठति ॥ ६४ ॥
आलयम् मण्टपम् चैव प्राकारम् गोपुरम् तथा ।
उद्यानमुदकम् चैव पीठतोरणापालिकाः ॥
हरेर्दत्वा महाभाग सोऽनन्तम् फलमश्नुते ॥ ६५ ॥
मृण्मयात् कोटिगुणितो धर्मः स्याद् दारुणाकृतिः ।
कोट्याः कोटिगुणम् तस्य दारवादिष्टकाकृतिः ॥ ६६ ॥
ततो द्विगुणितो धर्मः शैलजः स्याद्धरेर्गृहे ।
मृच्छैलजम् समम् ज्ञेयम् पुण्यमाढ्यदरिद्रयोः ॥ ६७ ॥
अपीष्टकामायुक्तम् यो विष्णोर्गृहकम् नरः ।
विदूतपापसङ्घातो विष्णुलोकम् व्रजेच्च सः ॥ ६८ ॥
क्रीडमानोऽपि यः कुर्याद् बालो विष्णुगृहम् शुचिः ।
लभते सर्वलोकेषु विमानम् सर्वगम् शुभम् ॥ ६९ ॥
खण्डस्फटिकसङ्काशम् यः कुर्याद् वै हरेर्गृहम् ।
आरामावसथाद्येषु लभते मौलिकम् पदम् ॥ ७० ॥
प्रत्यक्षम् च प्रकुर्वीत विष्णोरायतनम् महत् ।
धवलक्षीरसुधया बहुशोभनवर्णकैः ॥ ७१ ॥
यावतोऽब्दान् प्रकुरते धवलम् तु सुरालयम् ।
तावद्युगसहस्राणि सवितुर्लोकमेष्यति ॥
भुक्त्वा तत्र महाभोगान् विष्णुलोके महीयते ॥ ७२ ॥
यः कुर्यात् कुट्टिमाम् भूमिम् दर्पणोदरसन्निभाम् ।
नानामणिविचित्रान्ताम् विचित्रकुसुमोत्कराम् ॥ ७३ ॥
क्वचित् कुशलविन्यासैः फलकैरूपशोभिताम् ।
मनोऽभिरामाम् सुशुभाम् नारायणगृहोच्छ्रिताम् ॥ ७४ ॥
यावद् दण्डा भवेद् भूमिः समन्ताश्चैव शोभना ।
तावद्युगसहस्राणि विष्णुलोके महीयते ॥ ७५ ॥
देवतालयकर्तुश्च सुधालेपनकारिणः ।
प्रतिमायाश्च पीठस्य कौतुकस्य तथैव च ॥ ७६ ॥
नवकर्भकृतश्चैव पञ्चानाम् तत्फलम् समम् ।
समम् फलतमम् तेषाम् भोगदाता समश्नुते ॥ ७७ ॥
प्राकारगोपुरादीम्श्च विमानम् मण्टपम् तथा ।
भूषणादीनि पात्राणि जीर्णान्यन्यानि यो नरः ॥ ७८ ॥
यदि कुर्यात् पुनस्तानि कर्तुः शतगुणम् भवेत् ।
सर्वेषामेव पात्राणामतिपात्रम् तु केशवः ॥ ७९ ॥
पातकात् त्रायते यस्मादतीव नरकार्णवे ।
तस्मात् `पात्रमिति प्राहुः पात्राणामुत्तमो हरिः ॥ ८० ॥
तस्य पात्रस्य माहात्म्याद् दानम् दत्तमनन्तकम् ।
तस्मादस्मै सदा देयमप्रमेयपदार्थिभिः ॥ ८१ ॥
नारायणे हुतम् जप्तम् दत्तम् पूजा बलिक्रिया ।
एकेकमत्यन्तफलम् तद्भवेन्नात्र सम्शयः ॥ ८२ ॥
ताम्रपात्र प्रदानेन यत् पुण्यम् वेदपारगे ।
तस्मात् सहस्रगुणितम्` काँस्यपात्रप्रदानतः ॥ ८३ ॥
हेमपात्रम् तु यद्दत्तम् पुण्यम् वै वेदपारगे ।
ताम्रपात्रेषु तत् सर्वम् सहस्रगुणितम् भवेत् ॥ ८४ ॥.
फलम् कोटि सुवर्णस्य दानाद् यद्वेदपारगे ।
नारायणे रूप्यदानात् तत्पुण्यमयुतायुतम् ॥ ८५ ॥
हेमपात्रम् तु यो दद्याद् विष्णवे भक्तिसम्युतः ।
न शक्यम् तस्य तद् वक्तुम् पुण्यम् वर्षशतैरपि ॥ ८६ ॥
तुल्यमेव फलम् प्रोक्तम् यत् तदाढ्यदरिद्रयोः ।
तयोरप्यधिकम् तस्य यस्य भक्तिर्हरौ भवेत् ॥ ८७ ॥
ध्वजम् च विष्णवे यस्तु गरुडेन समन्वितम् ।
दद्यात् कोटिध्वजाकीर्णम् विमानेन विराजितम् ॥ ८८ ॥
विष्णुलोकम् अवाप्नोति सेव्यमानो अप्सरोगणैः ।
यो गाम् पयस्विनीम् विष्णोः कपिलाम् सम्प्रयच्छति ।
स सर्वपापहरितः सर्वभूषणभूषितः ॥
गवाम् सहस्रदानस्य फलम् प्राप्य हरिम् व्रजेत् ॥ ८९ ॥
आराधनाय यो गाम् तु यत्किञ्चिद्द्रव्यमुत्तमम् ।
नरसिम्हाय दद्यात् स विष्णूलोके महीयते ॥ ९० ॥
वासुदेवम् समुद्दिश्य सर्वदानानि मानवैः ।
वेदिविद्भयः प्रयत्नेन दातव्यानि मनीषिभिः ॥ ९१ ॥
आराध्य वैष्णवम् शान्तम् सदा तद्भावभावितम् ।
प्रीयताम् भगवान् विष्णुरिति सङ्कल्प्य भोजयेत् ॥ ९२ ॥
वेदाध्ययनसम्पन्नम् सदाचारम् कुटुम्बिनम् ।
विष्णुप्रीत्या समभ्यर्च्य भोजयेद् भक्तिसम्युतः ॥ ९३ ॥
यत्र नारायणो देवः परमात्मा सनातनः ।
यत्र सर्वम् जगत्सर्वम् तीर्तान्यायतनानि च ॥ ९४ ॥
नारायणोदरो विप्रो यस्यान्नम् प्रीतमानसः ।
अश्णाति तद्धरेरास्ये गतमन्नम् न सम्शयः ॥ ९५ ॥
यतिर्यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते हरिः स्वयम् ।
हरिर्यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते जगत्रयम् ॥ ९६ ॥
क्रियायोगो बहुविधो निर्मलो मुक्तिसाधकः ।
इदम् वः कथयिष्यामि शृणुध्वमृषिसत्तमाः ॥ ९७ ॥
गारुडम् शैलमासाद्य नद्याम् स्नात्वा शुचिर्नरः ।
मार्गशीर्षे तु यो मासे एकभुक्तेन सङ्क्षिपेत् ॥ ९८ ॥
कुर्वन् वै विष्णोः शुश्रूषाम् सा वम्शे जायते शुभे ।
पौषे स्यात् सङ्गरहितः सौभाग्यम् फाल्गुने लभेत् ॥९९ ॥
चैत्रे सुवर्णरत्नाढ्यो वैशाखे स्वकुलोत्तमः ।
ज्येष्ठे तु सम्पदम् विद्यादाषाढे धनपुत्रवान् ॥ १०० ॥
श्रावणे धान्यनिलयो मासिभाद्रपदेऽन्नवान् ।
प्रजावान् मानवोऽप्याश्व युजे मासे तु पुत्रवान् ॥ १०१ ॥
कार्तिके चैकधा भुक्ते यश्च विष्णुपरो नरः ।
शूरश्च कृतविद्यश्च बहुपुत्रश्च जायते ॥ १०२ ॥
फाल्गुने मासि सम्प्राप्ते पूर्णिमायाम् नृकेसरी ।
त्रयस्त्रिम्शत्कोटि सङ्ख्यैर्देवैरिन्द्रेण शम्भुना ॥ १०३ ॥
चतुर्मुखेन मुनिभिर्ब्रह्मैपूर्वैरनेकशः ।
महषिभिर्महाभागैर्भूभागनिलयैः शुभैः ॥ १०४ ॥
पितृदेवैः कर्मदेवैर्यक्षगन्धर्वकिन्नरैः ।
भूलोकवासिभिश्चैव नरैर्भक्तिसमन्वितैः ॥
आराध्यते जगन्नाथो वर्षे वर्षे त्वनेकधा ॥ १०५ ॥
गङ्गाद्याः सरितश्चैव सागराश्च सराम्सि च ।
तस्मिन् दिने समागत्य विशन्ति भवनाशिनीम् ॥ १०६ ॥
नृहरेरुत्सवम् द्रष्टुम् नरा भक्त्या प्रतस्थिरे ।
पदे पदेऽश्वमेधस्य फलम् तेषाम् न सम्शयः ॥ १०७ ॥
ये तु पिण्डान् प्रयच्छन्ति पितृनुद्दिश्य तद्दिने ।
तरन्ति पितरस्तस्य कुयोनिष्वाश्रिता अपि ॥ १०८ ॥
वैशाखे मासि सम्प्राप्ते ध्वजारोहम् प्रकुर्वते ।
देवस्य नरसिम्हस्य गरुडाचलवासिनः ॥ १०९ ॥
ब्रह्मणा कल्पितम् पूर्वम् कमलोदरजन्मना ।
श्रुत्वा भगवतः साक्षात् तन्त्रम् वैपाञ्चरात्रकम् ॥ ११० ॥
कापिञ्जलविधानेन तीर्थम् वै लोकपावनम् ।
अद्यापि क्रियते सद्धिर्भक्त्या पूर्तैः स उत्सवः ॥ १११ ॥
तीर्थार्तमागतानाम् तु अन्नम् पानीयमेव वा ।
प्रयच्छन्त्यतिसन्तोषात् तेषाम् तु निलयाः शुभाः ॥ ११२ ॥
ये त्वावासम् प्रयच्छन्ति येत्वेवमुपकुर्वते ।
तेषाम् तु सुखदान् लोकान् प्रयच्छति नृकेसरी ॥ ११३॥
ये तु दानानि कुर्वन्ति हिरण्यादीन्यसङ्ख्यया ।
एकैकस्याक्षयो लोको भवत्येव न सम्शयः ॥ ११४ ॥
इत्येतत्सकलमुदीरितम् मुरारेः
अत्यन्तप्रवणमतेः स्वभावहेतोः ।
त्यक्त्वान्यद्भवरससम्भवम् प्रमोदम् भक्त्या तम् भजति नृकेसरि स्वरूपम् ॥ ११५ ॥
इत्येवमुक्ता हयमेधसः कथा:
श्रुत्वापि याः पामरताम् जहाति ।
आमन्त्र्य मोदेन च शौनकादीन्
ययौ स्वकम् धाम स नारदो मुनिः ॥ ११६ ॥
श्रावम् श्रावम् मुररिपुकथाः श्रोत्रपीयूषपूरान्
स्मारम् स्मारम् सकलसुखदम् भाषितम् नारदेन ।
सारम् सारम् हृदि मुनिजनाः कल्पवल्लीसमानाम्
वारम् वारम् भवहरभवम् वारिजाक्षम् भजन्ते ॥ ११७ ॥
देवो हरिर्दैत्यपतेर्निहन्ता
अहोबिलम् क्षेत्रमनुत्तमम् च ।
तीर्थम् च पुण्यम् भवतापमोचनम्
एतत्रयम् यस्य स वै महान् भुवि ॥ ११८ ॥
न प्रार्थनीयम् सुरराजवैभवम्
प्रजापतेर्वा पशुपालकस्य ।
यस्याधिवासो गरुडाचलेऽभूद्
द्रुमादिभिर्मोक्षपदेन किम् वा ॥ ११९ ॥
बाल्ये वयस्याप्तजने च पूर्णे
सर्वङ्कषे शास्त्रवरेषु चित्ते ।
त्यक्त्वा समस्तम् जयति क्रियार्थम्
कर्तव्यमेको गरुडाद्रिवासः ॥ १२० ॥
न ब्रह्मचर्यम् नगरे निवासो
न काननस्थो न गृहे निवासः ।
तीर्थान्यनन्तानि वसन्तु लोके
वसन्तु वा भूधरनायकाश्च ॥ १२१ ॥
देवास्त्वनेके किटिवामनाद्याः
तथापिचित्ते न हि रोचनीयाः ।
तीर्थम् त्वमेयम् भवनाशिनीयम्
गिरिश्च वेदात्मक भूधरेन्द्रः ॥ १२२ ॥
देवो नृसिम्हो जगताम् निवासो
भवे भवे तिष्ठतु पावनाय ॥ १२३ ॥
इदम् महोपनिषदम् चतुर्वेदसमन्वितम् ।
आख्यानानाम् महाख्यानम् गुह्यानाम् गुह्यमुत्तमम् ॥ १२४ ॥
चतुर्मुखादिभिर्दृष्टम् नानार्थैरुपबृम्हितम् ।
अहौबिलनृसिम्हस्य माहात्म्यम् रोमहर्षणम् ॥ १२५ ॥
ऋषिभिर्बहुधा गीतम् नारदाद्यैर्मह॒र्षिभिः ।
धर्मार्थकाममोक्षाणामालयम् धर्मसञ्चयम् ॥ १२६ ॥
नास्तिकाय न वक्तव्यम् न चान्यगतचेतसे ।
अवेदान्तविदे चैव हरिम् वा योऽभ्यसूयति ॥
तद्भक्तान् सात्त्विकाम्श्चैव यस्तु विप्राम्श्च निन्दति ॥ १२७ ॥
श्रोत्रियाय सुशीलाय विष्णुभक्ताय् चैव हि ।
वक्तव्यम् सादरम् ह्येतन्माहात्म्यम् हयमेधसः ॥ १२८ ॥
इदम् तत्सर्वमाख्यातमाख्यानम् लोकपूजितम् ।
यः पठेच्छृणुयाद्वापि महद्भयः श्रावयिष्यति ॥
ते त्रयः परया भक्त्या विशन्ति परमाम् गतिम् ॥ १२९ ॥
य एतब्द्धरिमाहात्म्यम् लिखित्वा पुस्तकम् तु वै ।
ददाति भक्तिवर्यभ्यस्तस्य पुण्यमनन्तकम् ॥ १३० ॥
यद्गृहे पुस्तकम् चैतदर्चितम् गन्धधूपकैः ।
तद्गृहे भूतवेतालकूश्माण्डाद्याः सहस्रशः ॥
न शक्नुवन्ति तद् द्रष्टुम् स तु पुण्यवताम् वरः ॥ १३१ ॥
जयतु जयतु देवो देवतामौलिरत्नम्
जयतु जयतु नित्यः सच्चिदानन्दरूपः ।
जयतु जयतु देवः प्राणशैलाधिवासो
जयतु जयतु देवो नारसिम्हो मुकुन्दः ॥ १३२ ॥
न नारसिम्हादधिकश्च देवो
न तीर्थमन्यद्भवनाशहेतोः ।
न गारुडाद्रेरपरोऽस्ति शैलो
न भक्तजन्तोरपरोऽस्ति योगी ॥ १३३ ॥
लोके द्वयम् सारतमम् वदन्ति
विचार्यमाणे परमार्थ एव ।
विलोकनम् वा सुरसुन्दरीणाम्
आलोचनम् वा गिरिगह्वरेषु ॥ १३४ ॥
प्रमेयम् नृहरिः साक्षात् प्रमातारश्च सात्त्विकाः ।
प्रमाणम् वेदवचनम् जयत्वाचन्द्रतारकम् ॥ १३५ ॥
अहोमुचामात्मविदाम् मुनीनामनन्यसाधारणदेवतानाम् ।
हरि प्रियोत्पादनतत्पराणामहम् पदाम्भोरुहमाश्रयामि ॥ १३६॥
त्यक्त्वा समस्ताधनदारसुताम्श्च बालान्
त्यक्त्वा क्रियात्मक विमोचनसाधनानि ।
भक्त्या नृकेसरकथामृतसारमाशु
मर्त्या भजन्तु शुभया मधुकैटभारेः || १३७ ॥
॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये
दशमोऽध्यायः ॥
॥ श्रीमदहोबिलमाहात्म्यम् सम्पूर्णम् ॥
——————————————