[highlight_content]

श्रीरङ्गमाहात्म्यम् Part 04

श्रीरङ्गमाहात्म्यम् Part 04

 श्रीरङ्गमाहात्म्यम् ०२

राजानं प्रति पक्षीकृत तत्वोपदेशः

 

मार्कण्डेयः

अथालक्ष्य नृपश्रेष्ठ भूपतिं विनयान्वितम् ।

शुश्रूषुमनघं दीनं तमुवाच द्विजोत्तमः ।। (१ )

पक्षी –

कस्त्वं यस्तत्व नियतां श्रोतुं स्पृहयसे भुवि ।

वाणीं परमनिर्वाणसुखक्षेमवहामिमाम्।। (२)

राजा –

सोमवम्शे समुत्पन्नः क्षत्रियोत्तम भूषिते ।

अयं जयधरो नाम सुतः कीर्तिधरस्य हि ।। (३)

कृत्वा पुष्करणी स्नानं रङ्गधामाऽभिवन्द्य च ।

प्रयतो दैवसंगत्या भवतालब्ध संगमः।। (४)

कृतार्थः क्षीणपापश्च भवताद्य द्विजोत्तम ।

तव संदर्शनात्पूर्वे यांस्यति सुगतिम्मम ।।  (५)

घर्मार्तैरिव शीताम्शुः क्षुधार्तैरिव भोजनम् ।

जिज्ञासुना मया लब्धो भवान् देवैरिवाऽमृतम् ।। (६)

मार्कण्डेयः –

तस्य तद्वचनं श्रुत्वा द्विजस्तमभिवन्द्य च ।

जगाद व्यक्तमधुरं वचः परममञ्जसा।। (७)

पक्षी –

श्रूयतामिदमायुष्मन् दुर्ज्ञानं योगिनामपि ।

परात्परतरं तत्वं गुह्याद्गुह्यतरं नृप ।। (८)

नमः परावरेशाय ज्ञानज्ञेयाय विष्णवे ।

अज्ञानतिमिरघ्नाय नमो ज्ञानप्रदायिने ।। (९)

विश्वास्पदाय विश्वाय सदसद्व्यक्तिहेतवे।

नमस्सर्वान्तरस्थाय सर्वज्ञाय नमो नमः ।। (१ ०)

सर्वकल्याणपूर्णाया हंसश्शुचिषदे नमः ।

नमः परमहम्साय मुकुन्दाय नमो नमः।। (१ १ )

देवकीनेत्रसंपूर्णमहानन्दाय जिष्णवे।

त्रिविक्रमाय शान्ताय वासुदेवाय ते नमः।। (१ २)

नमस्कृत्य प्रवक्ष्यामि विद्यां परमिकां तव ।

जनार्दनं भूतपतिम् गुरूणां परमं गुरुम्।। (१ ३)

आत्मा नित्यः परश्शुद्धो विभुज्ञानमयोऽमलः ।

व्यापी ध्रुवो क्षयश्शान्त श्शोकमोहाद्यसंयुतः।। (१ ४)

सद्ब्रह्म परमं ज्ञेयमजमक्षयमव्ययम् ।

ज्ञानमानन्दमचलममेयं शाश्वतं परम् ।। (१ ५)

ज्ञानं ज्ञेयमजं गुह्यं सन्मात्रममृतं विभुम् ।

सुसूक्ष्ममव्ययं नित्यं निर्गुणं सन्निरञ्जनम्।। (१ ६)

अनित्यमितरत्सर्वम् अध्रुवं नश्वरं महत् ।

हेयकरमसत्सारमसत्यमशुभं नृप ।। (१ ७)

अज्ञं जडमसन्मूढं क्षयिष्णु त्रिगुणात्मकम् ।

पञ्चभूतात्मकं देहं ह्यसारमशुभास्पदम्।। (१ ८)

मांसपूयास्थिविण्मूत्रमज्जासृक्स्नायुसंचयम्।

अस्मिन् दोषकरे प्राज्ञः कः कुर्यादात्मशेमुषीम् ।। (१ ९)

असहेव ह्यसद्राजन् सत्सदेव नचाऽन्यथा ।

अतस्मिन् तन्मतिर्यातु सा च विभ्रम इष्यते ।। (२०)

शुद्धस्य चात्मनस्तस्मिन् अहंकारश्च तत्कृतः।

यदहंकारयुक्तस्य ममतानर्थसम्भवः ।। (२१ )

अहङ्कारममत्वाभ्यां सम्सारस्तु प्रवर्तते ।

आत्मनो द्वन्द्वहीनस्य गृहक्षेत्रादिवस्तुषु ।। (२२)

तृष्णा च जायते नित्यं तेषु तेष्वप्यनाहता ।

तृष्णाकशाभिघातेन पीड्यते चाऽनिशं स्वयम् ।। (२३)

अतृप्तो ह्यफलो हि स्यात्सर्वदा सर्वदा स्वपरिग्रहे ।

आर्जने रक्षणे तेषामायासश्च भ्रमो महान् ।। (२४)

तस्य क्षये व्यये चैव ध्रुवं दुःख समागमः।

सुभगोमत्सुतश्चायं सुकुमारी च मे सुता।। (२५)

भार्या मे सुभगा चेयं वर्तते महती मम ।

गृहादिकं सुपुष्टं मे दासीदासकसङ्कुलम् ।। (२६)

अहो! देहस्य लावण्यं सदाचाहमहो अहम् ।

इत्यहङ्कारसंमोहो मूढान्तःकरणो नृप।। (२७)

देहे देहाभिमानेन केवलं वर्तते यथा।

संसारविषवृक्षस्य कर्मबीजं शुभाशुभम् ।। (२८)

कर्मणां च परिष्वङ्गो ह्यनाधिस्तस्य चात्मनः।

देव-तिर्य-ङ्मनुष्यादिशरीरग्रहणं नृप ।। (२९)

अरूपस्यात्मनो नित्यं कर्मबन्धनहेतुकम् ।

कर्माणि विविधो निष्टाऽन्यनिष्टान्यपि सेवते ।। (३०)

तत्तद्देहानुगुण्येन भोगेच्चापि च तत्कृता।

शुभं चाप्यशुभं कर्म द्विविधं च समीरितम्।। (३१)

शुभं कृत्वाशुभं भुङ्क्ते पापं कृत्वाशुभेतरत् ।

बन्धस्य चास्याऽनादित्वादानन्त्यं कर्मणामपि।। (३२)

कर्तारं कर्मचान्वेति वत्सो धेनुं यथा नृप ।

कर्माण्यनुभवेनैव विनश्यन्ति च देहिनाम्।। (३३)

यदनेन कृतं कर्म शुभं वा यदि वाऽशुभम् ।

फलं तस्य च भोक्तव्यं देशकालोपलक्षितम्।। (३४)

न चातिक्रमितुं शक्यमपि चैतत्स्वयं भुवा ।

कर्मवश्यमिदं विश्वं जगदेतच्चराचरम्।। (२५)

कर्मणा क्षीयते सर्वं कर्मणा वर्धते पुनः ।

उच्चावचप्रभेदेन देहिनोऽस्य विशां पते ।। (२६)

देहग्रहस्तथा शक्तिरुपलद्धिश्च कर्मणा ।
स्वरूपतो न वैषम्यमात्मनो हि यतस्ततः ।। (२७)

विशेषास्सकलाश्चास्य कर्मसंगोपलक्षिताः ।

कस्यचित्कर्मणो योगात् देवत्वं व्रजति स्वयम्।। (२८)

एव मात्मा मनुष्यत्वं तथा तिर्यत्त्वमित्यसौ ।

तत्र तत्रोच्च नीचत्वं कर्मणा सर्वमश्नुते ।। (२९)

स्थावरत्वं तथैवात्मा कर्मणा प्राप्यते वशः ।

एक एव क्वचिन्माता क्वचित्पुत्रश्च जन्मवान् ।। (३०)

क्वचित्कर्ता च केषांचित् क्वचिन्मित्रं क्वचिद्रिपुः ।

स्वामी भृत्य इति ह्येव संज्ञानं त्वमुपैति सः।। (३१)

प्रकारभेदात् सर्वेषा मेकस्मिन्नेव जन्मनि ।

गोत्वाऽश्वत्व मनुष्यत्व महिषत्वादि लक्षितम्।। (३२)

तनुत्वेन गृहीतं स्यात् सर्वमेतत् नृपात्मनः ।

ननाम जातिर्नाऽन्ये च विशेषास्सन्ति हि स्वतः।। (३३)

प्रकाशात्मा च चिन्मात्रो निर्गुणो निर्मलोऽव्ययः ।

एको निरञ्जनो नित्यो आत्मा शास्त्रेषु गीयते ।। (३४)

एवं स्वतो निर्मलोऽपि कर्मणा संगतो भवेत् ।

अस्य ह्येवं प्रकाशत्वं कर्मणा च तिरोहितम्।। (३५)

अतस्सर्वत्र राजेन्द्र मनुष्यत्वादि विभ्रमः।

तत्तद्देहानुगुण्येन भोगेच्छां वहति स्वयम्।। (३६)

भुक्त्वैवानुगुणान् भोगान् यतते तेष्वहर्निशम् ।

दिव्यदेहं समुत्सृज्य मानुषं तु तथा व्रजेत् ।। (३७)

विराजत्यनुरूपेण सुखोत्साहमेतत् नृप।

तदप्युत्सृज्य तिर्यक्त्वमुपेत्यापि तथा भवेत्।। (३८)

तत्र तत्र च भोग्यं च शक्तिज्ञानं विलक्षणम् ।

तथापि सूकरादिभ्यो मर्त्यानां च विलक्षणम् ।। (३९)

तेभ्यो विलक्षणोऽत्यर्थं देवानां भोग सम्भवः।

यज्जातीयं वपुः प्राज्ञो गृह्णाति च यथा नृप।। (४०)

तथा तादृक्स्वमात्मानं मन्यते ज्ञान मोहितः ।

जन्मान्तरानुभूतं तदखिलं विस्मरत्यसौ।। (४१)

एवं कर्मावृतियुतो ह्यात्मा कार्पासबीजवत् ।

स एव मोहजालेन वर्तते च नृपोत्तम।। (४२)

नाना मोहमनोवृत्ति सक्तं तत्सकलं जगत्।

प्रवर्तयति विश्वात्मा वशी नारायणोऽव्ययः ।। (४३)

लीलास्थानमिदं विद्धि परस्य परमात्मनः।

जगद्विश्वं महाराज शिशोः क्रीडनकं तथा ।। (४४)

तत्संकल्प समुद्भूतं जगद्विश्वं चराचरम्।

न तद्वश्यः परः पुंसामेकोऽनन्तस्स ईश्वरः ।। (४५)

स ह्यानन्दमयः श्रीमान् हेयसङ्गविवर्जितः ।

सर्वकल्याण संयुक्तः सर्वात्मा सर्वविद्वशी ।। (४६)

शतानन्द परानन्द विभूत्येक पराश्रयः।

जगतस्तस्थुषश्चैव प्रभुः नेता सनातनः ।। (४७)

कर्ता धाता विधाता च सर्वेषां पतिरीश्वरः ।

सर्वशक्तिस्स ईशानः सर्वज्ञः सर्वकृत्स्वयम् ।। (४८)

अनादिनिधनः स्रष्टा विष्णुर्विश्वदृगव्ययः ।

नानाकर्मभवक्षेत्रभोक्तृवर्गसमन्वितम्।। (४९)

तत्तत्कर्मानुगुण्येन विश्वमेतन्नियच्छति।

सर्वदा सर्वभूतेषु तिष्ठतस्तस्य चेशितुः ।। (५०)

न कर्मणापरिष्वङ्गः पद्मपत्रस्यवाम्भसा ।

तथा च सर्वभूतानि तेषुतेष्वप्यवस्थितः ।। (५१)

चेष्टास्वपि च सर्वासु नियोजयति केशवः ।

तत्तकर्मफलप्राप्तिः तत एव नरोत्तम ।। (५२)

पुरुषार्थकरी शक्तिः पुरुषार्थान् हि देहिनाम्।

नानाकर्म महागर्त परिभ्रममुपेयुषः ।। (५३)

क्षेत्रज्ञस्येश्वर ज्ञानात् शुद्धिरात्यन्तिकी मता ।

देहिनः कर्मबद्धस्य निमग्नस्य भवार्णवे।। (५४)

वैकुण्ठस्मरणादन्यत् परित्राणं न जातुचित्।

अतस्तद्गुण विज्ञानात्तद्रूपस्मरणादपि ।। (५५)

तन्नाम कीर्तनात्सद्यो मुक्तिं यान्ति नरा भुवि ।

ज्ञानादेव निवृत्तिस्यात् कर्मणामस्य देहिनः ।। (५६)

ज्ञानाग्निस्सर्वकर्माणि दहत्येव न संशयः ।

भूयिष्ठाज्ञानतिमिरं मनो नेत्रगतं नृणाम्।। (५७)

व्यपनीय सुखं गच्छेत् ज्ञानाञ्जनशलाकया।

कायिकी वाचिकी वृत्तिः मानसी यस्य नित्यशः।। (५८)

नियता प्रवरे पुंसि तस्य मुक्तिः करे स्थिता ।

अन्तवन्ति फलान्यस्य सावधानीह कर्मणाम् ।। (५९)

नित्यं च निरवद्यं च सन्तो ज्ञानफलं विदुः ।

कालो हि क्षपयत्याशु नृणामायूंषि भूमिप ।। (६०)

अतो निश्रेयसं कर्म सद्यः कुर्वीत चात्मवान्।

क्षणात्क्षरण भूयिष्ठं मन्वानो देहमित्यपि।। (६१)

यते त श्रेयसे नित्यं यतात्मा बाल्य एव तत् ।

यद्युज्ज्वलनकल्पैव देहिनां देह संस्थितिः।। (६२)

तापत्रयाभितप्तस्य शनैः क्षयमुपेयुषः ।

बाल्ये क्रीडारतिस्तस्य यौवने विषयस्स्पृहा ।। (६३)

अशक्तो जरया देहि तृष्णारोगपरो यतः ।

अतो यते तमतिमा नात्मनो बन्धमुक्तये ।। (६४)

अपायबहुळं चाल्पं दुःखसम्भिन्नमेव च ।

कर्मणः फलमिच्छन्ति सततं हीनबुद्धयः ।। (६५)

हेयाकरमसद्विश्वं कर्मणः फलमित्यपि ।

प्रज्ञया धृतसंकल्पः कृतिनस्तन्न मन्वते ।। (६६)

यत्र गत्वा नशोचन्ति नरोगो नाऽशुभानि च ।

तदेव परमं प्राप्तुं यतेत मतिमान्नरः ।। (६७)

अशोकमनवद्यं च भद्रसेतुः परात्परम्।

ध्यायतां च तथाभावं परं ब्रह्म प्रयच्छति ।। (६८)

यतेतद्ब्रह्म परमं प्राप्तुं निश्चितधीरिह।

नियतात्मा व्रती शुद्धो ब्रह्मगच्छेन्न संशयः।। (६९)

इति प्राणान् वशीकुर्वन् तपसा नियमेन च ।

अवाप्य चेतसश्शुद्धिं दान्तश्शान्तो विचक्षणः ।। (७०)

प्रविलीय शुभं चेतः परस्मिन्नपि वस्तुनि।

ध्वस्तपापमतिः प्राज्ञो योगीनिर्वाणमृच्छति।। (७१)

संसारसर्पदष्टस्य योगो हि परमौषधम् ।

योगेन मोहकलिलं व्यपनीय प्रसीदति ।। (७२)

प्रसन्न चेतसा राजन्! सकलं लक्षितं भवेत् ।

योगिनश्चेतसः शश्वत् प्रसादं समुपेयुषः ।। (७३)

वैराग्यलक्षणासम्पद्भूयसी व्यवतिष्ठते।

वैराग्यं नाम राजेन्द्र नराणां परमं सुखम् ।। (७४)

विपश्चिद्रिपुमूर्तीयं कामं क्रोधञ्च भूमिप ।

वैराग्यनाम्ना त्वसिना जयेदिति च मे मतिः ।। (७५)

चिरन्तनौ रिपुजेयौ कामक्रोधौ तथानृप।

येनेमौ विजतौ लोके सोव्यवश्च चिरं सुखी।। (७६)

विरक्तश्च जगच्चैव द्वावेतौ तु लयाधृतौ ।

विरक्तो हि गरीयांश्च सर्वस्मादिति मे मतिः।। (७७)

तस्माद्वैराग्यसम्पत्यै यतेत मतिमान्नरः ।

तेनासद्व्यपनीयाशु सुखं गच्छेत्सनातनम्।। (७८)

अतस्त्वेतत्प्रशंसन्ति वैराग्यमपि योगिनः ।

संसाराग्नि प्रतप्तानां तद्धि श्रेयः परं मतम् ।। (७९)

तपस्तीव्रं च कुर्वाणा योगिनो दृढनिश्चयाः।

वैराग्यलक्षणां सिद्धिं प्रार्थयन्ते विपश्चितः ।। (८०)

वर्तमानेषु सर्वत्र विरक्तेषु नरेष्वपि ।

न लेपः कर्मणामत्र पद्मपत्रेष्विवाम्भसः ।। (८१)

वैराग्याल्लभते योगं स्वाविष्कारोपलक्षणम् ।

तेन सर्वपरिक्लेशानतीत्य परमश्नुते ।। (८२)

नित्यं स्वाध्यायनिरतो नित्यमाचार्यसम्मतः।

सत्यार्जव दयाऽहिंसा क्षमायुक्तोऽनसूयकः ।। (८३)

इन्द्रियाणि समाहृत्य विषयेभ्यस्तु चेतसा ।

ब्रह्म ध्यायन् सदासीत तदभ्यासरतिर्यतः ।। (८४)

एवं चाऽहरहः कुर्वन् योगी नियतमानसः ।

कालात्कर्मावृतिं त्यक्त्वा निर्वाणमपि स व्रजेत् ।। (८५)

यत्र गत्वा न शोचन्ति योगिनो ध्वस्तबन्धनाः ।

ज्ञान ज्ञेयं विदुर्ब्रह्म तद्विष्णोः परमं पदम्।। (८६)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्व्यधिकशततमोऽध्यायः

श्रीरङ्गमाहात्म्यम्१०३

परब्रह्मस्वरूपोपदेशः

पक्षी –

अथ तद्ब्रह्म परमं सर्वशक्तिमयं विदुः।

परं परस्मात्परमम् नित्यं व्यापकमक्षयम् ।। (१)

समस्त हेय रहितं परमानन्द लक्षणम्।

स्थूलात्स्थूलतरं नित्यं गरीयोऽपि गरीयसाम् ।। (२)

अनिर्देश्यं विशेषेण परं ब्रह्माभिदं विभु ।

निर्गुणं निर्मलं शान्तम् सत्यं सदसतः परम् ।। (३)

अजं सर्वगतं शुद्धम् सर्वाधारं सनातनम् ।

विश्वं यतश्च तत्सर्वम् धाम धाम्नां परात्परम् ।। (४)

नियन्तृ भोक्तृ सर्वस्य कर्तृ कारयितृ प्रभुम् ।

ज्ञातृ ज्ञेयं परं ज्ञानम् स्रष्टृ संहर्तृ देशिकम्।। (५)

अनौपम्यमनिर्देश्यं सर्वाधारमजं विभुम् ।

भद्रसेतुं परं शान्तं निरवद्यं निरञ्जनम् ।। (६)

कल्याणगुणसम्पन्नं सम्पूर्णसर्वशक्तिमत् ।

सर्वाद्भुतं परं ज्योतिः परतत्वं परात्परम्।। (७)

सर्वायतसमव्यक्तममृतं विश्वभावनम् ।

अमोघमचलं नित्यं वचसां वाच्यमुत्तमम्।। (८)

नित्यं योगिवरैर्ध्येयं सदा दृश्यं च सूरिभिः ।

प्राप्यं च परमज्ञानैर्भक्तिनम्रात्ममानसैः ।। (९)

नारायणाह्वयं श्रीमत्सर्वविद्याश्रयं शुभम् ।

संसारार्णवमग्नानां परित्राणं च तद्विदाम् ।। (१०)

तत्संस्मृति सुधा सर्वं तापं क्षपयति क्षणात्।

सर्वैर्नः क्षपणं तस्य नाम स्वस्त्ययनं मतम् ।। (११)

तद्ज्ञानी सर्वकर्माणि भस्मसात्कुरुतेऽनिशम् ।
एवमेतत्परंब्रह्म विष्ण्वाख्यमिति ये विदुः ।। (१२)

कृतिनस्ते महात्मानः संसारं च तरन्ति ते।

करुणापूर्णमुदितं यद्ब्रह्म परमं नृप ।। (१३)

सर्वकल्याणसंपूर्णं स्वयं सदसतः परम् ।

ज्ञायते तत्परं ब्रह्म देहादिषु च देहिवत् ।। (१४)

भूतानामुपकाराय स्वेच्छा तत्र च कारणम् ।

अतीतं सर्ववचसां मनसामप्यगोचरम् ।। (१५)

अदृश्यं योगिभिश्शुद्धैः ध्वस्तक्लेशैरकल्मषैः ।

सर्वं सामान्यनिर्मुक्तं सर्वस्माच्छविलक्षणम्।। (१६)

अप्राप्यं तु यतो राजन् सुलक्षमिति चेतसा ।

विना तत्संश्रयं लोके  संसारोच्छेदलक्षणा ।। (१७)

न विमुक्तिश्च सर्वेषां योगिनामपि मानद ।

परं मुकुन्दविज्ञानं  संसार क्षपणक्षमम्।। (१८)

विश्वोत्पत्तिलयत्राणकारणं परमं नृप।

तदेव च ब्रह्मपरं शक्यं नान्येन केनचित् ।। (१९)

स्रष्टा नारायणो नित्यं सृज्यं च सकलं च यत्।

पाता नारायणः पाल्यमितरश्चाऽखिलं नृप।। (२०)

संहर्ता केशवः साक्षात्संहार्यं चेतरत्तदा ।

तत्कार्ये सर्वकर्तृत्व शक्तियोगो न विद्यते।। (२१)

निर्वाणमपि राजेन्द्र तस्मादेवेति निश्चितम् ।

कर्मबद्धतया सान्निर्वाणं प्राप्यते नरैः ।। (२२)

अन्योन्यकर्मणा बद्धो न बन्धाव नयक्षमः।

अन्यत्र वासुदेवाद्धि नाऽन्यतो मुक्तिरित्यपि।। (२३)

सर्वज्ञस्सर्वशक्तिश्च सर्वबन्धविवर्जितः।

विष्णुरेवस्वतस्सिद्धः क्षमा भूयिष्ठ इत्यपि।। (२४)

तत एव नृणां लोके पुरुषार्थस्तु नान्यतः ।

पुरन्दरादीनाराध्य पुरुषाः प्राप्नुवन्ति हि।। (२५)

देश काल परिच्छिन्नां गतिं निर्वाणलक्षणाम् ।

तत एव परिच्छिन्नगतिर्निर्वाणलक्षणा ।। (२६)

अतस्तत्संश्रयप्राप्त्यै करुणापूर्णमानसः ।

मनसामप्यलक्ष्यत्वात् स्वयं निर्मलचेतसाम्।। (२७)

चेतोभिर्विषयीकर्तुं सुलभत्वमियात्स्वयम् ।

ततस्तत्सदृशाकारग्रहणेन करोति तत् ।। (२८)

सजातीयेषु सर्वेषां सुखं स्यात्करणाग्रहः।

अतस्तत्सजातीनां सदृशीमात्मनस्तमम् ।। (२९)

बिभ्रद्देवादिभूतेषु स्वेच्छया भवति स्वयम् ।

तत्तद्देहाऽनुरूपाणि कर्माणि च करोत्यजः ।। (३०)

कान्ति लावण्य सुभगं वपुर्वै कान्तिमार्जितम् ।

प्रकाशते महायोगी भक्तानुग्रहकाम्यया ।। (३१)

एवमित्थं स भगवान् सन्निधत्ते स्वयं विभुः ।

इति यो वेद मतिमान् स तत्पुरुषमृच्छति ।। (३२)

पापाभिभवसङ्गत्या न केषांचिदियं मतिः ।

पापानि क्षपयंत्याशु कृतिनो योगिनो भुवि ।। (३३)

पुण्यक्षेत्रे निवासाच्च पुण्यतीर्थस्य सेवया।
भगवान् रमते यत्र तत्क्षेत्रं पुण्यलक्षणम् ।। (३४)

तीर्थं च तत्प्रसक्तं तदित्येव मुनयो विदुः ।

श्रीमत्पुष्करिणी तीर्थं तीर्थानामुत्तमं विदुः ।। (३५)

एतत्क्षेत्रं महत्पुण्यं सर्वकल्मषनाशनम् ।

भगवान् रमते त्वत्र रङ्गधामा स्वयं हरिः ।। (३६)

सन्तोऽनन्तभवारब्धपापानि क्षपयन्ति हि ।

वसामि नियतो राजन्! रमणीये नदीतटे ।। (३७)

एतद्रङ्गमिति ख्यातं सर्वश्रुतिपथं गतम् ।

एतच्छ तीर्थमतुलं श्रीमत्पुष्करिणीति च ।। (३८)

इयं च सर्वभूतानां सर्वकल्मषनाशिनी।

परं पवित्रमतुला कावेरीति च विश्रुता।। (३९)

अत्र सिद्धामहात्मानो मुनयः क्षीणकल्मषाः ।

अपास्य भवसंतापं शुद्धिमात्यन्तिकीङ्गताः ।। (४०)

बहवो ब्राह्मणाश्चाऽत्र राजानश्चाऽतिधार्मिकाः ।

वैश्याश्च पूतपाप्मानः शूद्राश्च शुभदर्शनाः ।। (४१)

स्वं स्वं कर्म च कुर्वाणा वीतरागतया नृप ।

पुरुषार्थानभीप्संतः परां सिद्धिमवाप्नुवान्।। (४२)

अतः श्रीमन् महद्धाम श्रीरङ्गमिति विश्रुतम् ।

निश्रेयसार्थं राजेन्द्र! तदेतत्संश्रयामहे ।। (४३)

एतत्प्रपद्यमानानां नराणां च नराधिप ।

अतृप्तिर्मनसः खेदो जायते न हि जातुचित् ।। (४४)

अत्र प्रवृत्तमतुलमाख्यानं मुनिभिः श्रुतम्।

सर्वपुष्टिप्रदं पुण्यं तच्छृणुष्व नराधिप ।। (४५)

पुरा प्रभाकरो नाम गर्गगोत्रसमुद्भवः ।

ब्रह्मचारी जितक्रोधो यतवाक्कायमानसः ।। (४६)

तपस्वी सत्यवाक् शुद्धः तेजस्वी चरितव्रतः।

योगदृष्ट्या महाबुद्धिः सर्वप्रत्यक्षदर्शवान्।। (४७)

नियमेन च संयुक्तः सर्वाशाखास्वधीतवान्।

तदभ्यासरतिर्योगी विचचार महीतले ।। (४८)

परमायुश्च तपसा सम्प्राप्य नियमेन च।

वेदानधिजगौ सर्वान् युक्तः प्रोत्साह सम्पदा ।। (४९)

सकलाध्ययनं कर्तुमानन्त्यान्न श्शाक सः।

श्रुतिस्तापदनन्ता वै वेदाहीति हि संमता।। (५०)

अतो नेश्वरविज्ञानपरिमाणं स्फुरत्यपि ।

असिद्धाग्रहणात्तावन्नेश्वरस्यानभिज्ञता ।। (५१)

अधीयानोऽपि सततं दुष्पारस्यागमां बुधेः ।

न पारं प्राप्तवान् राजन् न कर्माम्बुनिधे रिव ।। (५२)

तपश्चकार भगवान् सकलाऽध्ययनेच्छया।

दशवर्षाणि वाय्वाशी तस्थौ पञ्चाग्नि मध्यगः।। (५३)

निरुच्छ्वासस्तथा पञ्चवर्षाणीति च न श्रुतम् ।

स्वदक्षिणपदाङ्गुष्ठ स्थित्या संवत्सरत्रयम् ।। (५४)

इत्थं प्रकुर्वतस्तस्य सततं तप उत्तमम्।

समुत्तस्थौ महानग्निर्भस्मीकुर्वन् दिशो दश ।। (५५)

समुद्विग्नास्ततो देवाः तपसा भावितात्मनः।

चक्रुश्च तपसो विघ्नान् बहुधाऽत्र नरोत्तम ।। (५६)

स्वयोगमहिमप्राप्त स्थिरचित्त गतिस्त्वयम्।

सर्वविघ्नमनाधृत्य सुखं तस्थौ महामतिः ।। (५७)

ततः स्वर्गौकसस्सर्वे तपसा तप्तचेतसः।

पुरन्दरं पुरस्कृत्य ययुः पद्मासनं नृप।। (५८)

ऊचुश्च तपसा वृद्धिं द्विजेन्द्रस्य महात्मनः ।

विनाशं चैव लोकानां परितापं च सर्वशः।। (५९)

देवाः –

ब्रह्मन्! द्विजवरः कश्चित् कालाऽनल समप्रभः ।

तिग्मेन तपसालोकान् दहति स्म स निर्घृणः ।। (६०)

प्रतप्तमभवन् विश्वं तपसा भावितात्मनः।

तच्छ संज्ञायतेऽस्माभिः द्विजो यदभिवाञ्छति।। (६१)

पक्षी –

समाकर्ण्य वचः तेषां ब्रह्मलोक पितामहः ।

निर्ययौ यत्र स मुनिः सुरसङ्घैस्समावृतः ।। (६२)

स चोर्ध्वबाहुः द्युतिमानचलः काष्ठसन्निभः ।

तस्थौ ब्रह्मसमाकाङ्क्षान् प्रतप्ताऽङ्गारसन्निभः ।। (६३)

तमुवाच जगत्स्रष्टा प्रभाकरमृषीं तदा ।

शृण्वतां सर्व देवानां दिशस्सन्नादयन्निव।। (६४)

ब्रह्मा –

प्रीतोऽस्मि तपसा ब्रह्मन् सम्यक्तप्तेन भूयसा।

प्रभाकर द्विज श्रेष्ठ! ब्रूहि यत्तेऽभि वाञ्छितम् ।। (६५)

प्रभाकरः –

इच्छामि वेदानखिलानधिगन्तुमहं प्रभो ।

अतस्तीव्रेण तपसायुक्तात्माहमिह स्थितः ।।  (६६)

ब्रह्मा –

अल्पमायुश्च मर्त्यानां शक्तिं चापि तथा विदुः।

अनन्ता भगवन्वेदाः कथमेतद्भविष्यति।। (६७)

प्रभाकरः –

तपोगतिर्हि भूतानां तप एव परायणम् ।

तपसा निर्जितालोकाः तपसानिर्वृतिं गताः।। (६८)

तपसा पूतपाप्मानो निर्वाणं परमं गताः।

तपसा परमायुश्च शक्तिं चाऽपि तथाप्नुयुः ।। (६९)

ब्रह्मा –

तपसा विजता लोकाः तपपुण्यास्सनातनाः।

तानिर्मासु समृद्धार्थान् सुखं भुङ्क्ष्वेह मा नद ।। (७०)

प्रभाकरः –

न चाऽहं कामये लोकान् ह्यहं गतिमुत्तमम् ।

वेदजातं च सकलमध्येतुं कामये प्रभो ।। (७१)

पक्षी

समाकर्ण्य वचस्तस्य द्विजवर्यस्य धीमतः ।

न चैतद्वेद्यमित्युक्त्वा तत्रैवाऽन्तरधीयत।। (७२)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्र्यधिकशततमोऽध्यायः

श्रीरङ्गमाहात्म्यम्१०४

ब्रह्मप्रभाकरद्विजसंवादः

पक्षी-

अथ द्विजवरो राजन् यथात्मा दृढनिश्चयः ।

पुनस्तपस्समास्थाय भूयस्तस्थौ महामतिः ।। (१)

ततस्समुत्थितो वह्निर्ज्वलन् ब्रह्म तपोमयः ।

ददाह लोकानखिलान् स देवासुर पन्नगान् ।। (२)

अभ्युपेत्य च तं विप्रं पुनश्चोच्चैः प्रजापतिः ।

अब्रवीच्च यदिष्टं ते वरं तद्वियतामिति ।। (३)

पुनश्चोवाच तं विप्रो ब्रह्माणमभि पूज्यते ।

इच्छामि सकलान्वेदान् अद्येतुमिति सादरम्।

निशम्य तद्वचः स्थैर्यं भगवान् कमलासनः।। (४)

तन्नशक्यं तवेत्युक्त्वा तत्रैवान्तरधीयत।

सोऽप्यतिष्ठद्यथापूर्वमुग्रे तपसि संयतः।। (५)

सन्निम्येन्द्रियग्रामं समाधिः नियमश्शुचिः ।

अथोवाच पुनः तत्रैवान्तर्हित स्स्वयम्।। (६)

प्रभाकरं द्विजं राजन् तपसा ध्वस्तकिल्बिषम् ।

ब्रह्मा –

भो भो विप्र नृशंसन्ते कृत्यं यच्च चिकीर्षसि ।। (७)

भस्मीभूता इमे लोकाः तपसा तप सुव्रत।

कर्मणा हि जगत्सर्वं प्रतिबद्ध प्रकाशते ।। (८)

अविवेकाल्प शक्तिश्च नष्टस्मृति रसङ्गतः ।

अनन्तशाखिनो वेदाः अध्येतुं सकला इह ।। (९)

कथमत्यल्पसत्वेन त्वया शक्या वद द्विज।

विरम त्वं ततो घोरात्तपस श्शान्तिमानसः ।। (१०)

निरुद्विग्नः तत स्सर्वे लोकास्संतु गतव्यधाः ।

पक्षी –

इत्याकर्ण्य द्विजो वाणी गम्भीरं च वियद्गताम् ।। (११)

मुनिस्सन्तोषमतुलं समपद्यत भूपते ।

अथोवाच वचो धीमान् समुद्वीक्ष्य च तां दिशम् ।। (१२)

वाणी तु वदतां श्रेष्ठ यतो निस्सरतिस्स्वयम् ।

ब्राह्मणः –

योऽब्रवीति वियन्ममध्ये स्वयमन्तर्हितो वचः।। (१३)

नमो दृश्यस्वरूपाय तस्मै देवाय वेधसे।

तपसा विन्दते लोका नमलानपि पूरुषः ।। (१४)

तपसा परमिच्छन्ति निर्वाणमपि शाश्वतम् ।

पाप्मानं क्षपयन्त्वाशु तपसा भुवि मानवाः।। (१५)

तपसा चैहिकं सिद्धिं विपुलामपि विन्दति ।

लभन्ते च सुतादीन् तान् तपसा मर्त्यजातयः।। (१६)

अक्षयं च धनं चापि तपस्यन्तो नरा भुवि ।

अत स्संपत्स्यतेऽस्माकं तपसा भावितात्मनाम् ।। (१७)

अपि सर्वं सुदुष्ट्रामिति मेधीयते मतिः।

यतेंद्रियस्य सततं तिग्मे तपसि तिष्ठतः ।। (१८)

युक्ताचारस्य तस्यैव किं नाम च सुदुर्लभम् ।

पक्षी –

इति श्रुत्वा वचस्तस्य द्विजस्य कमलासनः।। (१९)

तूष्णीं भूतो नृपश्रेष्ठ जगाम भवनं स्वकम् ।

अथ पञ्चाग्निमध्यस्थो भास्करं च प्रभाकरः।। (२०)

तपसा तोषयामास नियतश्शान्तमानसः ।

विवस्वानपि सन्तुष्टस्तपसा भूयसा मुनेः ।। (२१)

किरीटकुण्डलस्रग्वी तस्यान्तिकमुपागमत् ।

नभसस्तु विनिर्यान्तमादित्यमपि पश्यताम्।। (२२)

नराणामपि चक्षूंषि ह्यस्पुटंश्च सहस्रधा ।

समायातं स तिग्मांशुं द्विजस्तमनपायिनम्।। (२३)

दृष्ट्वा प्रभारं राजं स्तुष्टाव प्रयतस्स्वयम् ।

नमो भगवते तुभ्यं भास्करायाऽमलात्मने।। (२४)

लोक दृष्टप्रभावाय नमस्ते सर्वसाक्षिणे ।

प्ररूढमपि लोकस्थं बाह्यमाभ्यन्तरं तमः।। (२५)

प्रभो करशतैः कृत्स्नं शश्वत् क्षपयते नमः।

नमोस्त्वानन्दरूपाय नमस्ते चात्मयोनये ।। (२६)

नमस्सत्यस्वरूपाय नमस्ते ब्रह्ममूर्तये ।

अज्ञानतिमिरघ्नाय नमो ज्ञानप्रदायिने ।। (२७)

सर्व भूतान्तरस्थाय नमस्ते लोकचक्षुषे।

विद्याधीशाय शुद्धाय गोत्रे गोपतये नमः ।। (२८)

पक्षी –

इति स्तुतो रविः प्रीतः प्रभाकरमिदं वचः।

तमुवाच द्विजश्रेष्ठं दिशोदश विनादयन् ।। (२९)

आदित्यः –

परितुष्टोऽस्म्यहं ब्रह्मन् स्तोत्रेणाऽनेन सुव्रत ।

ईप्सितं ते वरं दद्मि व्रियतां तत्त्वयाऽधुना ।। (३०)

ब्राह्मणः –

भगवन्नहमध्येतुं वेदानप्यखिलानिह।

सुसंवृत्तस्तथैवास्तु प्रसादात्तेऽखिलात्मनः।। (३१)

पापं विनाशयत्येव पुरुषार्थं च देहिनाम् ।

अतः पापक्षये मे स्यात् प्रसादादीश्वरस्य ते ।। (३२)

आदित्यः –

तपसा ध्वस्तपापास्य ज्ञानवैराग्यजन्मनः ।

मत्प्रसादाद द्विजश्रेष्ठ सर्वं सम्पत्स्यते तव ।। (३३)

ब्राह्मणः –

प्रब्रूहि भगवन्नद्य कर्मसाक्षिन् जगद्गुरो।

पापानि क्षपयंत्याशु नरा ये न च तद्भुवि ।। (३४)

आदित्यः –

शृणु यज्ञेन दानेन तपसा तीर्थसेवया ।

अनेक जन्म संसिद्धमेनः क्षयति द्विज ।। (३५)

ब्राह्मणः –

ब्रूहि कीदृग्विधो यज्ञो दानं वा भगवंस्तपः ।

कानि तीर्थान्यहं विद्यां यच्छ्रेयः तद्वदस्व मे।। (३६)

आदित्यः –

कायिकं वाचिकं चैव मानसं च त्रिधा मतम् ।

यज्ञो दानं तपश्चैव तत्र तत्र शृणुष्व मे ।। (३७)

कायिकं विहितं कर्म तद्बुद्युपहितं द्विज।

वाचिकं तु द्विजश्रेष्ठ जपयज्ञं प्रचक्षते।। (३८)

विदुर्ज्ञानमयं यज्ञं मानसं तद्विदो जनाः।

अहर्ले च सुवर्णादि दानं तत्कायिकं मतम् ।। (३९)

आर्तानामभयं ह्येतत् दानं तद्वाचिकं स्मृतम् ।

विद्या स्वाद्याययोर्दानं तद्दानं मानसं द्विज ।। (४०)

अहिंसाब्रह्मचर्यादि तपः कायिकमुच्यते।

वाचिकं सत्यवचनम् भूतद्रोहविवर्जितम् ।। (४१)

मानसं मनसश्शान्तिः सर्ववैराग्यलक्षणा ।

तीर्थं च द्विविधं प्रोक्तं स्थावरं जङ्गमं त्विति ।। (४२)

एकान्तिनः सदायुक्ताः परध्यानोपबृंहिताः।

शीलवंतो दयावन्तो ज्ञानिनस्तत्वदर्शिनः ।। (४३)

त एव जङ्गमं तीर्थं परं चाहुर्महर्षयः ।

पुष्करादीनि पुण्यानि सरांसि च महामते।। (४४)

पुण्याश्च नद्यो गङ्गाद्यास्तदैतत्स्थावरं मतम् ।

तीर्थानामपि सर्वेषां मता पुष्करिणी परा।। (४५)

ते प्रशस्ततरास्सिद्धा एतस्मिन्निवसन्ति ये।

श्रीमद्रङ्गमितिख्यातं तदभ्याशे प्रतिष्ठितम्।। (४६)

यत्र शेते परःपुंसाम् लोकानुग्रहकाम्यया।

यदिष्ठा शाश्वतीसिद्धिस्तपः पुष्करणीं द्विज ।। (४७)

अधुना व्रज भूयिष्ठं व्रजतन्ते तपः फलम् ।

तत्रैव क्षपणं कृत्वा सिद्धिं प्राप्य च भूयसीम् ।। (४८)

प्रतिलभ्य च कामांस्त्वमिष्टाङ्गतिमवाप्स्यसि ।

सुनेत्र इति ख्यातः तत्र पक्षी महाबलः।। (४९)

स ब्रह्मणा दत्तवरो वेदाप्त्यै स महामतिः ।

तदासीद्विदुषां श्रेष्ठस्सदाऽध्यात्मपरायणः ।। (५०)

चिरन्तनो महायोगी तत्वज्ञान निधिस्स्वयम् ।

समाकृतिभिरन्यैश्च सेवितस्समबुद्धिभिः ।। (५१)

रङ्गनाथमभिध्यायन् वसतिस्म नदी तटे ।

तं प्रणम्य च विज्ञानं ज्ञेयं पृच्छ स वक्ष्यति ।। (५२)

ब्राह्मणः –

कथं स पक्षि तां प्राप्त ईदृशो लोकपूजितः ।

नादे च त्वं प्रपद्यन्ते महान्तो यान्ति चोच्चताम्।। (५३)

आदित्यः –

सर्वतोऽपि द्विजश्रेष्ठ वपुर्गृहन्ति साधवः ।

महान्तोऽपि महाभागाः स्वेच्छा तत्र हि कारणम् ।। (५४)

अयं चिक्लीतमो नाम मनस्वी सत्यवाग् ऋजुः ।

ऊर्ध्वरेतो महाभागो योगी दृष्टपरावरः।। (५५)

तपसा तोषयामास नारायणमनामयम्।

सन्निधत्ते स भगवान् तस्य देवो जनार्दनः।। (५६)

स च वाग्भिः प्रसन्नाभिस्तुष्टाव मधुसूदनम् ।

तत्प्रणामाञ्जलिपरो भक्तिभारावनामितः ।। (५७)

परिपूर्णोऽखिलाधारस्तस्य तुष्टः श्रियः पतिः ।

वृणीष्वेति वरं विप्रं प्रोवाच पुरुषोत्तमः।। (५८)

स च वव्रे महायोगी सर्वान् वेदानहं प्रभो ।

अवगन्तुमिहेच्छामि त्वत्प्रसादादिति द्विजः ।। (५९)

स च प्रोवाच भगवान् सर्वप्राणभृतां वरः ।

पुराणपुरुषश्रेष्ठः सर्वेषां पतिरीश्वरः।। (६०)

वेदाश्च सकला ब्रह्मन् तपस्सिद्धा भवन्तु ते ।

शक्तिश्च भूयसी विप्र मत्प्रसादाद्भविष्यति।। (६१)

अन्यच्च शृणु विप्रर्षे वचस्त प्राप्तये परम् ।

विद्याऽधिदैवतं देवीमाऽऽराधय सरस्वतीम् ।। (६२)

प्रदास्यति स्वयं तुष्टा तच्छक्तिं च सरस्वती।

विदुषां त्वां श्रेष्ठतमः कृतार्थस्त्वं भविष्यसि ।। (६३)

इत्युक्त्वा देवदेवेशः तत्रैवाऽन्तरधीयत।

स विप्रः पूजयामास ततो देवीं सरस्वतीम् ।। (६४)

देवी प्रत्यक्षतां मातः तपसा तुष्टमानसा।

वरं वृणीष्वेति मुनिं प्रोवाचेदं सरस्वती ।। (६५)

स होवाच महाभागः प्रणम्य च सरस्वतीम् ।

सर्व विद्या विशालाक्षी प्रसादादाप्नुयामिति।। (६६)

देवी तथेति चाभाष्य पुनर्विप्रं जगाद सा।

इमे पतङ्गाश्चत्वार उद्गिरन्ति यथा मिषम्।। (६७)

तच्च त्वं शकुनिर्भूत्वा भक्षयाशु महामते ।

इत्युक्त्वाऽन्तर्दधे देवी सर्वलोकेषु पूजिता ।। (६८)

संस्तूयमाना देवैश्च सिद्धगन्धर्वचारणैः।

अथाजग्मुर्द्विजश्रेष्ठ चत्वारोः पक्षिणो नृप ।। (६९)

श्वेतश्यामस्तथा कृष्णः पीतकश्च महामते ।

तस्यांतिकमुपागम्य ते सर्वे किञ्चिदामिषम्।। (७०)

उद्गीर्य निर्ययुस्तस्माद्यथाकामं यथागतम्।

सोऽपि देवी वचस्मृत्य स्वयं पक्षी बभूव ह ।। (७१)

तदामिषमुपादाय पक्षी सर्वमभक्षयत् ।

ततश्च वेदान् सकलान् ज्ञातवान् बहु शाखिनः।। (७२)

सर्वभूतवरज्ञश्च सर्वस्मात्प्रवरो भवत् ।

एवमेव चिरं कालं तत्संगात् पतगस्स्वयम्।। (७३)

वेदानवाप्तवान् पूर्वं सकलानपि सुव्रतः ।

विष्णुशक्तिप्रणुन्नायाः सरस्वत्याः प्रसादतः।। (७४)

वेदैकवेद्यो भगवान् सर्ववेदमयोऽच्युतः।

तल्लाभस्वत एव स्यादित्येषा निश्चिता मतिः।। (७५)

उपायमात्रं भगवान् तत्वतस्त्वेतद ब्रुवन् ।

अत स्त्वं शकुनिं गत्वा सुखपृच्छमनोगतम् ।। (७६)

अचिराल्लप्स्यते तस्मात्सर्वमेतद् द्विजोत्तम।

ब्राह्मणः –

एतत्त्वं पक्षिणो ब्रूहि किमर्थं तावदामिषम्।। (७७)

तपस्वी नियताहारः तदुच्छिष्टमभक्षयत् ।

आदित्यः –

वेदाश्च ते महाभाग पतंगाकृतये मुने।। (७८)

सर्वं विद्यामयं विद्धि ह्यामिषंत द्विजोत्तम ।

पततामामिषरुचि स्तेषामित्यभवत् सुखम् ।। (७९)

अतो देवास्स्वयं तस्मै वेदांश्च समुपादिशन्।

तस्य वै देवदेवस्य विष्णोश्शक्ति प्रचोदिताः।। (८०)

पक्षी –

इत्युक्त्वा च द्विजश्रेष्ठमारुरोह दिवं नृप।

पश्यतां सर्व भूतानां भास्करो भगवान्विभुः ।। (८१)

स च प्रभाकरो राजन्नागच्छत् तीर्थमुत्तमम्।

यत्र चिक्लीतयो राजन् न्यवसत्प्तगाकृतिः।। (८२)

विख्यातं त्रिषुलोकेषु श्रीमत् पुष्करिणीति च।

सर्वपापक्षयकरं सर्व सौख्यप्रदं नृणाम् ।। (८३)

मुनिः प्रभाकरो राजन् तमभ्येत्य च पक्षिणम्।

चिक्लीतमं महाभागमभ्यवन्दत सादरम्।। (८४)

तमपृच्छन् महायोगी सर्वमेतन् मनोगतम्।

भास्करस्य वचस्सत्यं विनयेन ससाध्वनः ।। (८५)

सोऽप्युवाच महातेजाः सुनेत्रः पतगोत्तमः।

आत्मप्रयत्न बाहुळ्यं वेदाप्त्यै स महामतिः ।। (८६)

भगवन्तम द्विजश्रेष्ठ नारायणमनन्यधीः ।

शरणं सर्वभावेन गच्छ त्वं पुरुषोत्तमम् ।। (८७)

स पूजितश्च संतुष्टो जगतां पतिरीश्वरः।
त्वया भक्तिमता देवः प्रसीदति न संशयः ।। (८८)

तस्मिन् प्रसन्ने किं नाम दुर्लभं भुवि वै नृणाम् ।

परमात्मनि देवेशे जगद्धातरि निर्मले।। (८९)

इत्याकर्ण्य वचस्सोपि ब्राह्मणस्तु प्रभाकरः ।

उत्तमां भक्तिमास्थाय तं प्रपेदेऽच्युतं प्रभुम् ।। (९०)

तुष्टाव च महाबुद्धिर्वाचा मधुरया नृप।

ननाम शिरसा देवं भक्तिभावयुतेन च।। (९१)

कराभ्यामञ्जलिं चक्रे प्रहृष्टस्तेन कातरः ।

मनसा विमलेनैव दद्यौ ब्रह्ममयं हरिम् ।। (९२)

एवमेकाग्रधीस्तस्थौ द्विजः पुष्करिणी तटे ।

शान्तश्च नियमैर्युक्तो यत वाक्संयतेन्द्रियः।। (९३)

इन्द्रनीलाचलप्रख्यस्तटिन्नद्ध इवांबुदः ।

आविर्बभूव भगवान् पीताम्बरधरो हरिः ।। (९४)

रङ्गधामा परं धाम तस्य वै ब्राह्मणस्य हि ।

अभूतपूर्वं रूपं तं समालक्ष्य जनार्दनम्।। (९५)

विस्मिताक्षश्च सहसा बभूव नरसत्तम ।

जगाद जगतामीशो दिशस्सन्नादयन् गिरा।। (९६)

वत्स ब्रूहि यदिष्टं ते तव दास्येऽपि दुर्लभम् ।

शान्तस्य यतचित्तस्य भक्तस्य च विशेषतः ।। (९७)

स मूर्धस्यञ्जलिं कृत्वा तमर्थं च प्रभाकरः।

न्यवेदयज्जगद्धात्रे मनोगतमखण्डितम्।। (९८)

समाकर्ण्य वचस्तस्य भगवान् भूतभावनः ।

उवाच मधुरं वाक्यं तत्तथैव भवत्विति।। (९९)

भूयश्चोवाच तं विप्रं देवो विश्वदृगव्ययः ।

अनन्ता ह्यभवन् वेदामर्त्यानामायुरल्पकम्।। (१००)

शक्तिश्चाऽल्पीयसी नातः कश्चित्साकल्य मर्हति ।

पुंसां न नैष्टिकी शक्तिः पापकर्माभियोगतः ।। (१०१)

अत्र पापक्षयं कृत्वा शुद्धिं परमिकां गतः ।

तथानन्तभवारब्धपापविध्वंसनं महत् ।। (१०२)

तीर्थमेतत्समाख्यातं सर्वैर्नः क्षपणः क्षमम्।

त्वमप्यत्राऽवगाहस्व तीर्थेऽस्मिन् मुनिसत्तम।। (१०३)

शुद्धिमात्यन्तकीं प्राप्य सर्वान् वेदानवाप्स्यसि ।

संशुद्धिमात्मनो लब्ध्वा तीर्थस्नानाद् द्विजोत्तम ।। (१०२)

अथाप्तवेदसर्वस्वः तीर्थस्नानात्समाहितः।

सुनेत्राह्वयमासाद्य ब्रूह्येतत् पक्षिपुङ्गवम् ।। (१०३)

तेन मत्तः पुरा प्राप्ता वेदाश्च सकलाद्विज ।

स वक्ष्यति च ते सर्वान्वेदान् मच्छक्तिचोदितः ।। (१०४)

इत्युक्त्वाऽन्तर्ददे राजन् विष्णुः कारणपूरुषः ।

सोऽपि द्विजवरं श्रेष्ठं ब्राह्मणं स्तमुपागमत् ।। (१०५)

तत्तस्मै सर्वमाचख्यौ सुनेत्राय यथोदितम् ।

सुनेत्रश्च द्विजश्रेष्ठं तीर्थं स्नानमकारयत्।। (१०६)

ततस्समन्त्रकास्नानात् सहसा शुद्धमापसः।

पूजां चक्रे गुरोस्तस्य बह्वीमपहतन्मयः।। (१०७)

तथाभूतं च तं दृष्ट्वा मुमुदे पक्षि पुङ्गवः।

द्विजमध्यापयामास सर्वान् वेदानिति श्रुतम् ।। (१०८)

सकृद्वचनमात्रेण वेदानधिजगौ मुनिः।

प्रतिभास्यन्ति ते वेदा इति तद्वचनान्मुने ।। (१०९)

विष्णोर्वेदमयस्यैव प्रसादादमलात्मनः।

तीर्थस्नानहता शेषकिल्बिषत्वात्स्वयं नृप ।। (११०)

अनन्ताऽपि ते वेदाः तस्य सिद्धा महात्मनः ।

एवमस्मिन् द्विजस्तीर्थे वेदान् सर्वानवाप्य च।। (१११)

काले कर्मक्षयं कृत्वा परांसिद्धिमितोगतः।

चत्वारस्तस्य शिष्याश्च बभूवुः शिष्टसम्मताः ।। (११२)

अयं सुवर्णबिंदुश्च ताम्रचूडश्च भूपते ।

बृहन्मतिरितिख्याताः तस्य शिष्य महात्मनः।। (११३)

अयं सुदर्शनो नाम तत ऋग्वेदमाप्तवान् ।

सुवर्णबिन्दुकस्तस्मात् यजुर्वेदमधीतवान्।। (११४)

ताम्रचूडश्च सामानि ह्यथर्वच बृहन्मतिः।

चतुर्णामपि चैतेषामन्या शाखाश्च ताः स्मृताः।। (११५)

एते तु गुरुपूजार्थं पतङ्गत्वमुपाश्रिताः।

एते मुनिकुमाराश्च वेदाध्ययनशीलिनः ।। (११६)

मत्पूजार्थं च ते सर्वे विगत्वं च संश्रिताः।

एतत्क्षेत्रं महत्पुण्यं सर्व किल्बिषनाशनम्।। (११७)

तीर्थं चैव नृपश्रेष्ठ नित्यं लोकसुपूजितम्।

इति मत्वा नदीतीरमुपाश्रित्य वसाम्यहम्।। (११८)

सर्व वाङ्मनसाऽतीतमगम्यं योगिनां च यत् ।

तत्परंब्रह्म परमं देवो नारायणोऽव्ययः ।। (११९)

समक्षं सर्वलोकानां लोकाऽनुग्रहकाम्यया ।

योगनिद्रा परश्शेते दयिते रङ्गधामनि।। (१२०)

तत्प्राणामप्रराजन् तद्ध्यानाऽमृतजीवनः ।

तत्पदाम्बोरुहच्छायामुपाश्रित्य वसाम्यहम्।। (१२१)

संसारकर्दमाङ्गविमुक्तिमपि चेच्छताम्।

मुनीनामारुरुक्षाणां योगिनामपि भूपते।। (१२२)

अयं पुण्यस्समुद्देश आर्तानामपि सौख्यदः ।

देशोऽयं सर्वभूतेभ्यः सर्वान्कामान्प्रवर्षति ।। (१२३)

अपि पापीयसां पुंसां तीर्थस्नानं च कुर्वताम्।

पापानि क्षपयात्याशुः तीर्थमेतन् महामते।। (१२३)

सन्ति तीर्थवरे पुण्ये भद्रे भद्रप्रदे शुभे ।

समाहिताश्च मुनयो बहवश्चा तपोधनाः।। (१२४)

पापानिक्षपयंतश्च रङ्गध्यानमुपागताः ।

सर्वबन्ध विनिर्मुक्ताः परां सिद्धिमितो गताः।। (१२५)

अतः पुण्यमिमं देशं उपाश्रित्य वसाम्यहम्।

एतत्क्षेत्रं महत्पुण्यं एतन्नाम परं धनम् ।। (१२६)

एतत्परायणं गुह्यमेतन्नः परमा गतिः।

इमे च शाखिनस्सर्वे तृणगुल्मलतादयः ।। (१२७)

पुण्योपचय मुक्तानां महर्षीणां च मूर्तयः ।

य इमे कृमिकीडाश्च मक्षिकाश्च सरीसृपाः।। (१२८)

तत्तत्संस्थानसंयुक्ता योगिनः पर्युपासते।

अतश्चैतन् महाप्राज्ञ मयापि न समुज्झितम् ।। (१२९)

सिद्धैश्च योगिभिः पूर्वैः वसाम्येभिस्समसुखम् ।

त्वया पुष्करिणीस्नानं कुर्वताविमलात्मना ।। (१३०)

कुलं च पूजितं सम्यक् पितरस्तेऽपि पूजिताः ।

पुण्याश्च विजिता लोकाः प्राप्तमायुः परां सुखम् ।। (१३१)

मार्कण्डेयः –

इत्याकर्ण्य वचस्तस्य शकुनेर्भावितात्मनः ।

मेने कृतार्थमात्मानं राजा सुप्रीतमानसः ।। (१३२)

ववन्दे पतगं मूर्ध्ना तेन चाभिप्रसादितः ।

अनुज्ञातस्तदाशीर्भिर्वर्धितश्च विनिर्ययौ ।। (१३३)

सोऽप्येवं सुसमृद्धार्थो राजाराष्ट्रं स्वकं व्रजन् ।

विभाति रथमारूढः पौर्णमास्यां यथा शशि।। (१३४)

सराष्ट्रं ब्रह्मभूयिष्ठं सद्वर्तिनयुतं नृपः।

पालयामास विधिवत् सुसमृद्धमनामयम्।। (१३५)

तस्य पुत्रशतं जज्ञे राज्ञो जयधरस्य च ।

रूपलावण्यसुभगं बलवीर्यार्थसंयुतम्।। (१३६)

पुत्रैश्च मुमुदे राजा सुवेषैर्मृष्टकुण्डलैः ।

इयाज स बहून् यज्ञान् ददौ च सुमहद्धनम्।। (१३७)

बुभुजे सर्वभोगांश्च दिवि देवपतिर्यथा।

एवं सद्धर्मभूयिष्ठं राज्यं कृत्वा महामतिः ।। (१३८)

सुते राज्यं विनिक्षिप्य गतिमिष्टाम विन्दत।

त्वं च शस्तकुले जातो राजप्रवर भूषिते ।। (१३९)

आदित्य इव तेजस्वी प्रियकृच्च शशांकवत्।

गाङ्गोहद इवाक्षोभ्यो ह्यजेयस्सानुमानिव ।। (१४०)

कृतार्थस्त्वं नरश्रेष्ठ याहि पुस्करिणीमितः ।

तीर्थस्नानाद पानश्च तत्र भूरिद तद्धनम्।। (१४१)

पुत्रपौत्रादिकामृद्धिं अचिरात्प्राप्स्यसे ध्रुवम्।

व्यासः

इत्युक्त्वा स मुनिः श्रीमान् मार्कण्डेयो महातपाः ।। (१४२)

राज्ञा च मुनिभिस्सर्वैः सशिष्यः पूजितो भृशम् ।

वर्धयित्वाऽऽ शिषस्सर्वास्सजगाम यथागतम् ।। (१४३)

सोऽपि हृष्टमना राजा विधिवद्भूरिदक्षिणम् ।

समाप्य स वनं तेभ्यो ब्राह्मणेभ्यो ददौ धनम् ।। (१४४)

स बन्धुश्च सदारश्च ययौ पुष्करिणीं नृपः।

तत्र स्नात्वा युतं श्रीमान् स वत्सानां गवां ददौ ।। (१४५)

रङ्गधाम समभ्येत्य प्रणम्य च यथाविधि।

तत्रत्यानमलान् वृद्धान् अभिवाद्य महामतिः ।। (१४६)

निर्जगाम मुनिश्रेष्ठ प्रतिपन्नमनोरथः ।

स्वराष्ट्रमभिगम्योच्छैः पालयामास स प्रजाः ।। (१४७)

कालेन तस्य राज्ञस्तु पुत्रा द्वादश सम्मताः।

भास्करप्रतिमालोके बभूवुस्तुल्यवर्चसः ।। (१४८)

ते विजह्रूर्यथाकामं युवानो मृष्टकुण्डलाः ।

जरया चातिपन्नश्च तान् दृष्ट्वा मुमुदे नृपः ।। (१४९)

स्वांसस्थां पश्चिमां ज्ञात्वा कृत्यं च प्रविचिन्त्य च।

सुतेषु राज्यं निक्षिप्य वनमेव जगाम वै।। (१५०)

स तत्रानशनं कृत्वा तिग्मेन तपसान्वितः ।

तत्यज देहं धर्मात्मा राजर्षिः सोमकाह्वयः।। (१५१)

इति ते पुण्यमाख्यानं मयोक्तं मुनिसत्तम ।

सर्वपुष्टिप्रजननं सर्वसौख्यप्रदं भुवि ।। (१५२)

सर्वार्तिशमनं श्रीमत्सर्वपाप प्रणाशनम् ।

य इदं पुण्यमाख्यानं श्राद्धादिषु च कर्मसु ।। (१५३)

कीर्तयेदक्षयफलं कुरुते तस्य तद्ध्रुवम् ।

आख्यानं श्रावयेन्नित्यं यो वा पर्वणि पर्वणि।। (१५४)

पूजितस्तस्य पितरः प्रविशन्ति स्वयं भुवि ।

स्वजन्मर्क्षे परं चायुर्विन्दतेऽस्य च कीर्तनात् ।। (१५५)

अनपत्या च या नारी पुण्यमाख्यानमुत्तमम्।

उपोषिता तु संश्राव्य सुतं विन्दत्यनामयम्।। (१५६)

राजा विजयमन्विच्छन् श्रुत्वा च जयमाप्नुयात् ।

ब्राह्मणो ब्रह्मचारी च यतवाक्कायमानसः।। (१५७)

समभ्यस्य समाख्यानं विद्याभूयिष्ठतां व्रजेत् ।

ज्वरार्तस्यापि तप्तस्य जीर्णस्य च गतायुतः ।। (१५८)

आख्यानश्रवणात्सद्यः तच्छान्तिस्स्यादनाहता ।

नारी सुती परिक्लिष्टा श्रवणाच्च द्विजोत्तम ।

निराभादा च सहसा सूयते चाऽचिरात्सुखम् ।। (१५९)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुरधिकशततमोऽध्यायः।

श्रीरङ्गमाहात्म्यम्१०५

सुमन्तु सुनन्दोपाख्यानम्

नागदन्तः –

सुवर्चला धर्मवरः स पुन्नाग मुपाश्रितः ।

कर्मणो निलयं कृत्वा परं निर्वाणमाप्तवान्।। (१)

स कथं योगपदवी मास्थितो योगसत्तमः ।

कथं वात्यन्तिकलयः कर्मणां तस्य चाभवत्।। (२)

व्यासः –

शृणु तत्र महाबुद्धे पुण्यमाख्यानमुत्तमम्।

ऋषिभिर्बहुधा शश्वत् श्रुतं योगपरायणैः।। (३)

सुमन्तुश्च सुनन्दश्च मुनीमतिमतां वरौ ।

गौतमस्य पुरा शिष्यौ बभूवतुरनिन्दितौ।। (४)

अधीयानौ च सततं साङ्गान् वेदांश्च सत्तम ।

यदृच्छया महात्मानौ वसिष्ठमुपजग्मतुः ।। (५)

सोऽप्यधीतेषु वेदेषु तावपृच्छन् महामतिः।

किमधीताश्च सकलास्साङ्गवेदा यथाविधि।। (६)

युवाभ्यां च कुमाराभ्यामधीतं किञ्चिदुच्यताम् ।

एवमुक्ता वसिष्ठेन कुमारौ मुनिसत्तम ।। (७)

अवोचतुर्यथायोगमधीतं तावशङ्कितौ ।

सूक्तानि कानिचिच्छ्रुत्वा ताभ्यामुक्तानि वै मुनिः।। (८)

साधुसाध्वित्यथाहोच्छैर्वचसा तौ प्रहर्षयन् ।

ततश्च मुनिमुख्यौ तौ शिष्यत्वेनोपगृह्य च ।। (९)

वेदांश्च सरहस्यांश्च स्वयमध्यापयन् मुनिः ।

ततः काले बहुतिथे गते मुनि कुमारक।। (१०)

वसिष्ठस्य सकाशाच्च वेदार्थान् ताववाप्य च ।

मुनिना चाभ्यनुज्ञातौ गौतमं तावगच्छताम् ।। (११)

तौ चिक्षे प्रोषितौ दृष्ट्वा स्वशिष्यौ गौतमो मुनिः ।

क्व गतौ क्व गतौ चेति भर्त्सयंस्तावुवाच ह।। (१२)

निवसञ्च वसिष्ठस्य सकाशे मुनिसत्तमौ ।

वेदावाप्तिं च सकलामूचतुश्च ततो मुने ।। (१३)

गौतमश्च वचश्श्रुत्वा रुषाविष्टो बभूव ह ।

स भयाय च लोकानामवस्थित इवान्तकः ।। (१४)

उवाच भ्रुकुटीं कृत्वा दिदक्षन्निव चक्षुषा ।

मत्तो वेदानधीयानौ पुरा संयग्यथाविधि।। (१५)

मामतिक्रम्य सहसा गुरुमन्यं च संश्रितौ ।

अयुक्ताचार चपलौ पिशाचत्वं भवेत्तु वाम्।। (१६)

व्यासः –

एवमेव तयोश्शापमुत्ससर्ज महात्मनोः।

क्रोधाऽनल विदीप्ताङ्गो गौतमो मुनिसत्तमः ।। (१७)

तौ शुद्धौ भावकर्माणौ चानुग्राह्य कदाचन।

कृशांगौ वेपिताङ्गौ च मुनिवर्यौ कृताञ्जलिः ।। (१८)

दृष्ट्वा वाच वचश्शान्तः कृपावान्मुनिसत्तमः ।

गौतमः –

यदा संजातहर्षश्च मुनिवर्यः पराशरः ।। (१९)

अभ्यागत्य महायोगी युवयोरन्तिकं स्वयम्।

उपदेक्ष्यति सोऽध्यात्मं शापस्यान्तस्तदा भवेत् ।। (२०)

ततो युक्तसमाचारौ शीलवृत्तगुणान्वितम् ।

कीर्तिमन्तौ महात्मानौ गतिमिष्टां गमिष्यथः ।। (२१)

पराशरस्य च मुनेर्महायोगी परस्य च ।

सकाशाच्च भवत्वेतदुभयोर्नात्र संशयः ।। (२२)

इत्युक्त्वा विररामाथ गौतमस्यस्त मानसः।

संशान्तपरमव्यग्रविकास्सम्बभूव ह ।। (२३)

तौ च तच्छापवेगेन पिशाचौ च बभूवतुः ।

दर्शनीयतमौ सद्यस्सहसा सुभयंकरौ ।। (२४)

दीर्घकायौ पिङ्गकेशौ पिङ्गाक्षौ च पृथूदरौ ।

दीर्घदंष्ट्रदीर्घभुजौ कृशा धमनि संयुतौ ।। (२५)

व्यात्ताननौ विरूपाक्षौ बृहत्कण्ठौ दिगम्बरौ।

वित्रासयन्तौ भूतानि गतिनिप्रेक्षणादिभिः ।। (२६)

क्रूराकृतियुतौ चापि ह्यभूतां शान्तमानसौ ।

उभौ कुशलकर्माणौ सर्वत्र विगतस्पृहौ।। (२७)

गङ्गाद्वारमुपागम्य निवासं तत्र चक्रतुः ।

तौ परस्परमासाद्य वेदाध्ययनतत्परौ ।। (२८)

ऊषतस्सुचिरं कालं विमृश्य मुनिसत्तमौ ।

नास्तान्तयोः क्षुत्पिपासे नान्यः पीडाश्च दारुणाः ।। (२९)

स्वाध्यायैकसुधापानपुष्टगात्रौ बभूवतुः ।

न तन्द्रिनतयोर्लज्जा न स्वप्नोऽपि महामते ।। (३०)

वेद पादपसच्छायां संश्रितौ तस्थुस्सुखम् ।

स्नायन्तौ सन्ध्ययोश्चैव स्तववन्तौ परंतपौ ।। (३१)

परं पुमांसं जगतामर्चयन्तौ हरिं मुदा।

ध्यायन्तौ परमात्मानं यजन्तौ मुनिसत्तमौ ।। (३२)

अजहद्बोधविभवौ कुर्वन्तौ विविधाः कथाः ।

स्वकीयैरप्यनालक्ष्यौ निवृत्तौ सम्बभूवतुः ।। (३३)

अहन्यहनि पश्यन्तो मुनयः पुष्पसञ्चयान् ।

गङ्गाकूले च सर्वत्र बभूवुर्जातविस्मयाः।। (३४)

शुश्रुवे वेदघोषश्च तयोर्दिशि दिशि स्वयम्।

एवमेव चिरं कालमुषित्वा मुनिसत्तमौ ।। (३५)

काले गते दैवयोगाच्चन्द्रपुष्करिणीं गतौ ।

तौ तत्र सुचिरं कालमूषतुर्जातविस्मयौ ।। (३६)

गर्हयन्तौ स्वकं रूपं तत्र वासविशङ्गया।

गर्हमाणौ निजाकारमदृश्यावूषुतस्सुखम् ।। (३७)

अथ काले गते तत्र ययौ चापि पराशरः।

शिष्यैः परिवृतो विद्वान् वेदो विग्रहवानिव।। (३८)

द्रष्टा च सर्वशास्त्राणां सर्वधर्मप्रवर्तकः ।

सूक्ष्मदर्शी महायोगी तत्वज्ञाननिधिस्स्वयम् ।। (३९)

सर्वज्ञस्सर्वधर्मश्च सर्वज्ञानप्रवर्तकः ।

स्वयोगमहिमप्राप्त-परावरविदर्शनः।। (४०)

सदाचारस्य धर्माणां कर्ता च परमार्थवितः ।

आदित्य इव तेजस्वी पुण्यकीर्तिस्सतां वरः ।। (४१)

विजितक्रोधहर्षश्च धर्मज्ञः प्राज्ञ सम्मतः ।

वृद्धोपसेवी धृतिमान् गुरुश्च जनको मम ।। (४२)

ततः पुष्करिणीतीरनिषण्णाः परमर्षयः ।

तमायान्तं तदालक्ष्य समुत्तस्थुर्मुदान्विताः ।। (४३)

तान् दृष्ट्वा स मुनिर्धीमान् तीर्थवर्यनिरासिनः ।

मुमुदे परमायत्तान् मुनीन्वृद्धानकल्मषान्।। (४४)

अथाश्रमेषु धर्मेषु तपस्सु च यतव्रतः ।

पृष्ट्वा कुशलमव्यग्रं निषसाद द्विजैस्सह।। (४५)

अथ सन्ध्यां समापेदे पश्चिमां मुनिसत्तमः ।

क्षपा प्रादुरभूद्भुत मोहिनी तमसान्विता ।। (४६)

ततः पुष्करिणीं जग्मुः द्विजः सन्ध्यामुपासितुम्।

कृतोदकाः कृतजपा मुनयस्स पराशरः।। (४७)

नाना पुष्पोपहारैश्च संगतं सरितस्तटम् ।

ददृशुश्चित्रितपथं सद्भिरघूषितं द्विज।। (४८)

केनेदमिति मन्वानाः सर्वे तस्थुश्च विस्मिताः।

शुश्रुवे मधुरस्तत्र वेदानां विनदो महान् ।। (४९)

त्राहि त्राहि मुकुन्देश गोविन्द पुरुषोत्तम ।

सर्वान्तरात्मन् भगवन् भगवन्नित्येवं तत्र शुश्रुवे ।। (५०)

पश्यद्भिस्तत्र मुनिभिःन च कश्चिदलक्ष्यत ।

अथ दिव्येन भगवान् चक्षुषा ददृशे मुनिः ।। (५१)

पिशाचाकृतिनौ या तु चरन्तौ मुनिबालकौ ।

ताभ्यां कृतमिदं सर्वं परिपूजादिकं बहु ।। (५२)

ताभ्यामधीत वेदाभ्यामुत्थितोऽध्ययनध्वनिः ।

इति प्रजज्ञे भगवान् तत्सर्वं च पराशरः ।। (५३)

कथयामास तत्सर्वं ऋषिभ्यो ह्येवमित्यपि।

तावप्याहूय भगवान् दिव्यज्ञानोपलक्षिता।। (५४)

उवाच किं नु युवयोः हर्षाणां दूषितं वपुः ।

आर्यवृत्तिरतावेम स्वाध्याय निरत तथा ।। (५५)

विरुद्धमेतद्भवति यन्विरुद्ध समागमः।

द्वयोस्त्वस्य दृशी प्रज्ञा चेष्टितानि तथाऽन्यथा ।। (५६)

ज्ञातव्यं यदिवाशक्यं ममै तद्वदता मिह ।

व्यासः –

भावि विज्ञानवृत्तान्तौ शापान्ताया गतो मुनिः।। (५७)

यश्चोक्तो गुरुणापूर्व मृषिरेष पराशरः।

आख्याति स्वयमाख्यातिं यश्चेष ज्ञानतेजसा ।। (५८)

आदित्य इव ऋक्षाणामित्येवमवधार्यतौ ।

प्रणतौ तौ तदभ्याशे समेत्य मुनिसत्तमम्।। (५९)

ववन्दाते महात्मानौ भगवन्तं पराशरम् ।

ऊचतुश्च तदा सर्वं शापव्याजञ्च सर्वशः।। (६०)

श्रुत्वा तयोस्तद्वचनं भगवान् सर्वधर्मवित्।

उवाच प्रधितं वाक्यं ततो वासिष्ठ नन्दनः ।। (६१)

पराशरः –

भवद्भ्यां न मनस्तापः कार्यस्सर्वत्र सर्वदा ।
यतो भवन्ति भूतानां कर्मिणामाधयस्स्वयम्।। (६२)

हेयेन कर्मवश्यस्तु कर्मणा हीयते सदा ।

कुशलेस्तेधते चास्य वृद्धिह्रासो न च स्वतः ।। (६३)

नित्यो निरञ्जनश्चात्मा निरवद्यस्स्वतस्सुखी ।

प्रकाशात्मा परं जोतिः सर्वव्यापी विभुर्ध्रुवम् ।। (६४)

नाना देहग्रहं चासौ कुरुते विवशस्स्वयम्।

देवादिस्थावरान्तं च गुणमुख्यं तु मायया ।। (६५)

तत्तद्रूपमुपेत्याशु तत्तद्भवति च स्वयम् ।

भोगबुद्धिस्तथा वीर्यमहंकारोऽस्य तादृशः ।। (६६)

देवादिषु च रूपेषु निस्स्वभावोऽपि सन्विभुः ।

कर्मणान्तमितप्रज्ञस्तत्र तत्र प्रनृत्यति ।। (६७)

देवो भूत्वा तदा दिव्यानात्मभोगांश्च वाञ्छति ।

स एव मनुजो भूत्वा मानुषानेव चेच्छति।। (६८)

वराहमृगसंस्थान संस्थितोऽपि तथैव हि।

तत्तद्रूपान्विता शक्तिः प्रज्ञायोगस्सु पुष्कलः।। (६९)

न तु स्वरूपमन्यांश्च पुरुषार्थंश्च पश्यति ।

एवमेवैष कालेषु सर्वेषु पुरुषस्सदा ।। (७०)

कर्मकोशात्तदा प्रज्ञश्चक्रवत्परिवर्तते।

यदा सालम्बनश्चात्मा विष्णुना परमेष्ठिना ।। (७१)

तदा तु भवति प्राज्ञो मुक्तये नात्र संशयः ।

न हि तस्मात्परित्राणमन्यद्भवति केशवात् ।। (७२)

परस्मात्सर्वभूतानां  संसारान्तरवर्तिनाम्।

कर्मसन्ततिविच्छेदो ज्ञानेनैव प्रसिद्ध्यति ।। (७३)

नान्येन कर्मणा चेति सर्वेषां नैष्ठिकी मतिः ।

तच्च सालम्बनं ज्ञानं यत्परं चावलम्बते।। (७४)

आत्यन्तिकं च विलयं कर्मणां च करोति तत् ।

परमात्मागुणालंबिज्ञानमेव च नान्यतः।। (७५)

इति यो वेदसकलं कर्मणा च तरत्यसौ।

यो न वेदप्रजत्येष कर्मणासोऽप्यधो गतिम् ।। (७६)

प्रविश्य ज्ञाननिष्ठायां मोक्षायैव च कर्मणा ।

यतितव्यं भवद्भ्यां च सर्वेषां सापरा गतिः।। (७७)

तस्य पापक्षयात्पुंसां तरणं च भवेदिह।

पापक्षयश्च भवति तीर्थस्नानजपादिभिः ।। (७८)

निगृह्य चेन्द्रियग्रामं शान्तेन मनसात्मवान् ।

ब्रह्मध्यायी तु तरति योगेनाशुभवार्णवम् ।। (७९)

ध्यातं च परमं भावं प्रापयत्यत्र नानृतम्।

भवाग्निमपि संशाम्य योगी योगांभसाव्ययम्।। (८०)

प्राप्नोति परमावस्थां यतो नावर्तते पुनः ।

यस्य चैवंविधा निष्ठा सर्वत्रैवं प्रदीपिता ।। (८१)

न तस्य जन्मतापाय दीनता चोच्चनीचता ।

सुखप्रतिष्ठां विन्दन्ति ज्ञानिनस्तत्वदर्शिनः ।। (८२)

आज्ञा अपि गता देवीं योनिं ते दुःखभागिनः।

अतो देहं च विवशं मांससृक्पूयविण्मयम् ।। (८३)

शरीरमिह संप्रेक्ष्य सुखप्रेक्षा कथं भवेत् ।

नश्वरेषु च दीनेषु सुतादिषु च वा कथम् ।। (८४)

तत्तद्विनाशे च परं सुखेन परितप्यते।

अहंकार ममत्वोग्रग्राहग्रस्तोऽल्पचेतनः ।। (८५)

प्राक् स्वीकृतं च सर्वेषां कर्मचास्ति शुभाशुभम्।

तद्धेतुकश्च सर्वेषां सुखदुःख समागतः ।। (८६)

जायापत्य सुताप्तादिसंज्ञा मायान्तिकस्य चित् ।

देहिनस्ते यथा यान्ति कर्मणोच्चावचां गतिम्।। (८७)

स्वकर्मफलभोगार्थं व्रजतो वा तथा गतान् ।

दृष्ट्वा पुत्रादिकान् देहि हा मृता इति तप्यते ।। (८८)

अहो सुतादिकान् सर्वान् प्रतप्यति न हृष्यति ।

अन्येषां जन्ममरणे संभूते चापि कर्मणा ।। (८९)

अन्यस्य दुःखं सौख्यं वा स्यात्तत्राप्यभिमानिनः ।

अतो दुःखात्मके त्वेते इति ज्ञात्वा समाहितः ।। (९०)

अहंकारममत्वे च समुत्सृज्य च दूरतः ।

आस्थाय परमं योगं ततो निर्वाणमेष्यति ।। (९१)

विदुषां नात्र निर्वेदो देहेऽस्मिन् दुःख जन्मनि।

तस्मिन्नुच्चवचमतिः प्रतीतज्ञानचक्षुषाम्।। (९२)

युवयोरपि हि ज्ञानं तावदस्तीति मे मतिः।

आचारश्च समीचीनो रूपमात्रं विनिन्दितम् ।। (९३)

मत्सन्निधानप्रभवा बुद्धिश्चास्तु सदामला ।

यया कर्मानृतिं त्यक्त्वा मुक्तिं यान्ति च योगिनः ।। (९४)

सर्वत्रैव सुखं चास्तु युवयोश्शान्तयोरपि ।

न चात्र प्रतिवक्तव्यं शिष्यौ हि परमौ युवाम् ।। (९५)

द्विजः काश्यपदायादस्सुवर्चल इति श्रुतः ।

स च संजातनिर्वेदस्समेष्यति महामुनिः।। (९६)

युवयोरंतिकंमान्यस्स च मे प्रियकृत्तमः ।

मयोपदिष्टं सकलं योगमार्गमिहैव तु ।। (९७)

तस्मै सर्वं समाख्याय गतिमिष्टां समेष्यथः ।

तावत्तु ध्रियितां कालं युवाभ्यां निन्दितं वपुः ।। (९८)

एवं कृते मत्प्रियं स्याद्धर्मस्याद्युवयोरपि ।

व्यासः –

इति श्रुत्वा ततो वाणीं धर्मार्थसहितां हिताम् ।। (९९)

मुदा परमया युक्तावूचतुर्मुनिपुङ्गवौ।

कृतार्थं जन्मसंजातं कृतार्थाः पितरस्त्विह।। (१००)

भवान्तरे वा देवस्य किंस्विदेतद्विचेष्टितम् ।

यद्गुरूणामपि गुरुस्सर्वेषामपि योगिनाम् ।। (१०१)

स्वयमेव समेत्यापि विज्ञानं समुपादिशत् ।

जन्मना वाप्ययुक्तं स्यात् कर्मणा च तथा भुवि ।। (१०२)

क्रूराभ्यां च विशेषाभ्यामावाभ्यां अप्यचिन्तितम् ।

यथा नियुक्तं गुरुभिः तथैव क्रियते ध्रुवम्।। (१०३)

तावत्स्थातव्यमावाभ्यां प्रतीक्ष्यश्च सुवर्चलः ।

व्यासः –

इत्येवं पिशाचाभ्यामुक्तो वासिष्ठनन्दनः ।।

तथेत्युक्त्वा च तौ विप्रौ जगाम च यथा गतम् ।। (१०४)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चाधिकशततमोऽध्यायः।।

श्रीरङ्गमाहात्म्यम्१०६

काश्यप सुवर्चलयोःकथा

व्यासः –

अथ काली बहुतिथेगते गतिमतां वरः ।

वृद्धःकाश्यपदायादो बभूव च सुवर्चलः ।। (१)

अध्येतव्यं च सकलं तेनाधीतं महात्मना ।

श्रुतानि सर्वशास्त्राणि न तृप्तिर्मनसो मया ।। (१)

तं दृष्ट्वा जनकः पुत्रं सर्वत्रविगतस्पृहम्।

गतव्यथं निरुत्साहं दान्तं शान्तं सुवर्चलम् ।। (२)

पिता च पुत्रकायाहि ब्रूहि वत्स यथातथम् ।

कुतस्तपेन संजाता वितृप्तिर्मनसस्सुत ।। (१३)

वृद्धस्य मम दीनस्य जातस्त्वमसि पुत्रक।

सुसमग्रं विभूतिं च पश्यतां निजसम्भवाम्।। (१४)

अनपत्येन पृथिवीं चिरं पर्यटता मया ।

इष्टां गतिमनासाद्य भ्रमता च ततस्ततः।। (१५)

सत्वं कथंचित्संप्राप्तो यज्ञदानशतैरिह।

नैजं च वैभवं पश्ये क्षेत्रारामसमृद्धिमत् ।। (१६)

दासदासीशतयुतं सम्पन्नबहुदां भवम् ।

शयनासनवस्त्राणि भूषणानि महन्ति च ।। (१७)

पर्याप्तमेतद्गार्हस्त्यं त्वं च भुज्वा यथा सुखम्।

प्राप्तोऽस्मि पश्चिमां काष्ठां दशां वत्स सुवर्चला ।। (१८)

तव संदर्शनेनैव सततं धारयाम्यहम् ।

रूपलावण्यसुभगमरोगत्वं च मानद ।। (१९)

पश्यतो भूयसी जाता मनसो निर्वृतिर्मम ।

आस्व तिष्ठ यथाकामं गच्छत्वं च ममाग्रतः ।। (२०)

अलं शोकेन सुभग स्वात्मनो नाशकारिणा ।

ऐहिकामुष्मिकाणां च सिद्धिं नाशयतात्मवान्।। (२१)

मातेयं वत्स कल्याणी सत्वत्पार्श्वमुपाश्रिता ।

मुञ्चत्यश्रूणि नेत्राभ्यामेनां त्वं चाभिनन्दय।। (२२)

मुनिप्रवरसंघैश्च पूजितं च कुलं तव ।

बाला कान्तिमती युक्ता युक्तवेषा सु मध्यमा ।। (२३)

गृहं च तव भूयिष्ठं सर्वकल्याणसंयुतम् ।

दासदासीबहुगणो विधे तव पुत्रक ।। (२४)

भूषणानि विचित्राणि वासांसि विविधान्यपि।

मया त्वदर्थं सकलमाहितं शुभदर्शनम् ।। (२५)

अधीतस्सकला वेदा श्रोतव्यं च श्रुतं त्वया ।

लौकिकं वैदिकं चास्य ज्ञातं ज्ञेयं महामते ।। (२६)

प्रशस्ते ब्राह्मणकुले जातोऽसि मम पुत्रक।

धर्माविरुद्धं ह्येतत्ते भोगजातमिह स्थितम् ।

चतुर्णामाश्रमाणां हि गार्हस्त्यं श्रेष्ठमुच्यते।। (२७)

ज्ञातं च विधिना सम्यगुक्तेन च रता त्वया ।

इदानीं तव चायुष्मन्मध्यमं वर्तते वयः।। (२८)

ऋणानि त्रीण्यपाकृत्य प्राविश्य च तपोवनम् ।

मुनिर्भूत्वा ततो गच्छेस्त्वं वै मोक्षं च शाश्वतम् ।। (२९)

एष एव सतां पन्थाः सोश्नुते सुखमिच्छतः ।

अन्यथा वर्तमानस्तु दुःखी च निरयं व्रजेः ।। (३०)

ऋषीन् संतोषयायुष्मन् स्वाध्यायनियमेन च ।

पितॄंश्च पुत्रसंपत्या देवान्यज्ञेन पुत्रक।। (३१)

पूर्वकैस्सेवितं मार्गं सत्यभेदाः कथंचन ।

युक्ताचारस्य मर्त्यस्य कीर्तिश्चायुश्च वर्धते ।। (३२)

तस्य देवाः प्रसीदन्ति तृप्यन्ति पितरस्तथा ।

वृद्धा ते जननी चेयमहं च प्रियदर्शन।। (३३)

कर्तव्यं च तदायुष्मन्नावयोः परिपालनम्।

कुतस्ते शोक सलिलं सञ्जातं मानसं सुत ।। (३४)

प्रियदारस्य पुष्टस्य श्रोत्रियस्य विशेषतः।

इह चामुत्रचायुष्मन् सर्वत्रापि महामते ।। (३५)

शोकस्थानं न पश्यन्ति एतत्तु न कथंचन ।

तस्मादुत्तिष्ठ भुङ्क्त्वेमान् भोगान् मा विप्रियं कृथाः ।। (३६)

न लङ्घनीयं वचनं पित्रोस्तव विशेषतः ।

पित्रोः प्रियं च कुर्वाणाः ते परां गतिमाप्नुयुः ।। (३७)

पुत्राणां च परो धर्मः पितुर्वचनपालनम्।

पितरं चैव तं विद्धि प्राज्ञस्यापि सुतस्य च।। (३८)

कानिचिद् ब्रूहि वाक्यानि पसह्य मां प्रियदर्शन।

सां त्वपूर्वं बहूक्तत्वान्मया च सुखमिच्छता।। (३९)

न शृणोषि वचः किञ्चिन्न करोषि च किंचन ।

श्रुतं चेत् क्रियतामद्य ह्येषधर्मस्सनातनः ।। (४०)

तस्मिंश्च साधु वचने मा माशंकाम् प्रियं कृथाः ।

व्यासः –

इत्युक्तवति धर्मिष्ठे काश्यपे प्राज्ञसत्तमे।। (४१)

पितरी प्रीतयुक्ते च तत्समाहृतचेतसि।

ज्ञानी परवरज्ञश्च तत्पुत्रश्च सुवर्चलः।। (४२)

सर्वत्र निस्पृहश्शान्तो नैष्कर्म्यं परमास्थितः।

पितुर्वचनमव्यग्रं श्रुत्वा सर्वं विमृश्य च ।। (४३)

वचस्त्वसारभूयिष्ठं मन्यमानो महामतिः ।

अनाधृत्य च तत्सर्वं पितुः कोलाहलं द्विज।। (४४)

तूष्णीं भूत्वा महायोगी पितरं वाक्यमब्रवीत् ।

सुवर्चलः –

श्रुतं च तत्वं भवतो वचनं सकलं पितः ।। (४५)

किन्तु निस्सारमेवैतदित्येवमवधारितम्

तापत्रयाभितप्तस्य निबन्धस्य च कर्मणा ।। (४६)

सदा परवशस्यास्य किं नामेह सुखं भवेत्।

अज्ञानतिमिरग्रस्तचेतसो नष्टमेधसः ।। (४७)

अवितृप्तस्य कामेषु किं नामेन सुखं भवेत् ।

तृष्णा ज्वराभितप्तस्य जीर्यतश्च प्रतिक्षणम् ।।  (४८)

देहिनश्च पलस्यास्य किं नामेह सुखं भवेत् ।

क्रोधमोहमहागर्त परिभूतिमुपेयुषः ।। (४९)

परिश्रान्तस्याधीनस्य किं नामेह सुखं भवेत् ।

क्षुत्पिपासाजरारोगप्रसक्तार्तिमतस्सदा।। (५०)

क्षणक्षरणरूपस्य किं नामेह सुखं भवेत्।

नानाविषयभोगार्तियुक्तस्येन्द्रियघातुकैः।। (५१)

तृष्णाकशाहतस्यास्य किं नामेह सुखं भवेत्।

प्रविष्ट स्वस्वरूपस्य गुणमय्यातु मायया।  (५२)

बोधप्रभावाभावस्य किं नामेह सुखं भवेत् ।

अतस्मिन् तदहंकारकर्दमान्तर्निमज्जतः ।। (५३)

आशाग्रहग्रहीतस्य किं नामेह सुखं भवेत् ।

ममत्वावृतिसंवृत्तनानाविभ्रमसंततेः ।। (५४)

अस्तुबुद्धेर्हताशस्य किं नामेह सुखं भवेत् ।

गर्भवासऽनलज्वाला जरामरणवर्तिनः ।। (५५)

सदाऽवशस्य तप्तस्य किं नामेह सुखं भवेत् ।

याम्यक्रकचनिर्भेद विभिन्नाङ्गस्य देहिनः ।। (५६)

मृतिधर्मयुतस्यास्य किं नामेह सुखं भवेत् ।

इष्टदार सुत क्षेत्र पितृमातृमयामिह ।। (५७)

कल्पनामधिरूढस्य किं नामेह सुखं भवेत् ।

गर्भेति दुःखं जनने बाल्येत्यर्थमुपेयुषः।। (५८)

भोगज्वरेण जरया किं नामेह सुखं भवेत् ।

असत्सु सत्यादिषु भावेषु लाभालाभान्वपेक्षया ।। (५९)

प्रीत्यप्रीतिविदधतः किं नामेह सुखं भवेत् ।

प्रयत्नार्जितवित्तस्य प्रसह्याहरणं प्रति ।। (६०)

चोराद्यैः शोचतो नित्यं किं नामेह सुखं भवेत् ।

ममत्वातिशयादन्यसुखदुःख समन्वयम्।। (६१)

स्वस्मिन् भावयतोजस्रम् किं नामेह सुखं भवेत् ।

उपद्रव शतैश्शश्वत् परिक्षयमुपेयुषः ।। (६२)

विभवस्येच्छतो वृद्धिं किं नामेह सुखं भवेत्।

कर्मपादपकान्तारे त्वज्ञानतिमिरावृते ।। (६३)

तापगर्ते निपततः किं नामेह सुखं भवेत् ।

व्रजतो गर्भवासार्ति मरणानि निरन्तरम् ।। (६४)

नानारोग हतस्यास्य किं नामेह सुखं भवेत्।

स्वाम्यं भावयतः प्रेष्यान् सुप्रपन्नानुपेक्षतः।। (६५)

शरणं स्मेरवदनान् किं नामेह सुखं भवेत् ।

पूयविण्मूत्रभूयिष्ठे जरारोगप्रपीडिते।। (६६)

देहे प्रीतिं विदधतः किं नामेह सुखं भवेत् ।

शोकमोहमहाग्राहे कामपङ्के भवार्णवे।। (६७)

विषयेष्वतिमानस्य किं नामेह सुखं भवेत् ।

अनर्थं सन्ततं वीक्ष्य नित्यं चाऽशुभमात्मनि ।। (६८)

अपि तस्मिन् स्पृहयतः किं नामेह सुखं भवेत्।

अनन्तपुण्यनिचयं भावुकं तु भवार्णवे।। (६९)

अपश्यतो निवसतः किं नामेह सुखं भवेत् ।

त्यक्त्वा देहमिमंदेहि कथं भूत्वा कथं भवेत् ।। (७०)

अजानतस्तदित्येवं किं नामेह सुखं भवेत् ।

ज्ञानं ज्ञेय मजं गुह्यं परमानन्दलक्षणम्।। (७२)

अजानतः परं ब्रह्मा किं नामेह सुखं भवेत् ।

यतो यत्र च यद्विश्वं तत्परं ब्रह्म यस्य च ।। (७३)

न बुद्धिगोचरं तस्य किं नामेह सुखं भवेत् ।

यत्र गत्वा न शोचन्ति न क्षीयन्ते परं च यत् ।। (७४)

पृष्ठतः कृतसत्यस्य किं नामेह सुखं भवेत्।

नाना विषयसंमोहे मज्जतस्तु भवार्णवे।। (७५)

वैराग्यं नेच्छतस्तस्य किं नामेह सुखं भवेत् ।

मायातिमिरविध्वस्तविवेकविभवस्य च।। (७६)

अनासादित योगस्य किं नामेह सुखं भवेत् ।

तृष्णा मोहामहापङ्कपरिवर्तितचेतनः।। (७७)

अदृष्टज्ञान तीर्थस्य किं नामेह सुखं भवेत् ।

सत्यज्ञानामलानन्द लक्षितं ब्रह्म शाश्वतम्।। (७८)

एकं निरञ्जनं शुद्धं सदसद्व्यक्तिकारणम् ।

तदेव परमार्थं च सर्वमन्यत् मृषात्मकम्।। (७९)

अशाश्वते ह्यनालंबे देहादौ निर्वृतिः कुतः।

पुत्र पश्चन्न भार्यार्थ सुहृद्बन्धुमयस्य च ।। (८०)

अनन्तविभ्रमस्यास्य अविद्या बीजमुच्यते ।

अतो ह्यनादौ संसारे बहुदुःखाकरे शुभे ।। (८१)

पश्यन् शोचामि तान् मर्त्यान् तत्र प्रीतिं च कुर्वतः ।

अविद्यातिमिरस्रस्तमानसानां च जायते।। (८२)

अभद्रे भद्र संरक्तिरसत्ये सत्यधीरिह।

तन्मूलोयं सुखी दुःखी धन्य इत्यादि विभ्रमः ।। (८३)

नाऽयं सुखी न दुःखी च न धन्यो नापि वै कृशः ।

ज्ञानन्दमयो ह्यात्मा तादृशोऽपि न चार्हति।। (८४)

नायं सुतो न च पिता न बंधुरपि कस्य चित् ।

न मित्रं न रिपुस्स्वामी न कश्चित्कस्यचित् स्वयम्।। (८५)

विशेषा भ्रममूला हि निर्विशेषस्य वस्तुनः ।

चिदानंदमयोऽनन्त आत्मा सर्वत्र गीयते ।। (८६)

तद् ज्ञानादशुभात्सद्यो विमुक्तिस्स्यादनाहता।

एतदेव परं सत्यमितोऽन्यत्सकलं मृषा।। (८७)

यो वेत्ति चैवमात्मनं स कदाचिन्न शोचति ।

स स्यादशोच्यः प्राज्ञावान् शोच्यं च सकलेतरत् ।। (८८)

सत्यं निरञ्जनं शुद्धं निर्मलं ब्रह्म शाश्वतम्।
सदालक्षयतस्तस्य चेतसा शोच्यता कुतः ।। (८९)

ज्ञानमेव परं तीर्थं ज्ञानमेव परं तपः।

ज्ञानमेव सुखं प्रोक्तं ज्ञानमेव परं धनम्।। (९०)

ज्ञानमेवपरं लब्ध्वा तरन्ति दृढबुद्धयः ।
ज्ञानेन लभते मर्त्यान् द्विजवर्य गतिं भुवि ।। (९१)

ज्ञानी न शोच्यतां याति तदन्यो नीचतां व्रजेत् ।

ज्ञानी पुनाति सकलं जगत्स्थावरजङ्गमम् ।। (९२)

संज्ञा नाद परं किञ्चित् पवित्रमिह विद्यते ।

अतस्सर्वत्र सततं ज्ञानमेवाऽभि कामये ।। (९३)

य ज्ञानं सकलं हन्ति बाह्यमाभ्यन्तरं तमः ।

यत्र गत्वा न शोचंति योगिनो ध्वस्तकिल्बिषाः ।। (९४)

तदध्यात्म पदं शश्वदभिवाञ्छति मे मनः ।

येन कर्म महायन्त्रं सम्यग्विच्छिद्य योगिनः।। (९५)

निर्वाणं परमं यान्ति मुनयः संयतेन्द्रियाः ।

तेन चाऽव्याहतामृद्धिं प्राप्नुवन्ति द्विजर्षभाः ।। (९६)

वैराग्यं परमं श्रेयो वैराग्यं परमं सुखम् ।

वैराग्यं च हितं शश्वत् वैराग्यं परमौषधम्।। (९७)

तापत्रयोर्मिकलिलमुग्रं संसारसागरम् ।

वैराग्यं परमासाद्य प्रतरन्ति महर्षयः ।। (९८)

वहन्ति पूतपाप्मानो वैराग्यश्रियमार्जताम् ।

तपसा भावितात्मानो ब्रह्मणा सुदृढव्रताः ।। (९९)

वैराग्यरथमारूढास्सर्वत्र स्तुतसत्क्रियाः ।

पुरुषाः पूर्णकामाश्च चरन्ति ह्यधिराजवत्।। (१००)

वैराग्य प्रभवात् नृणां पुरुषार्थार्थसम्पदः ।

आमुष्मिकफलं चापि वैराग्याल्लभते जनः।। (१०१)

अतो वैराग्ययुक्तास्स्युः दुःखापत्ततितीर्षवः।

तत्र श्रेयश्च तपसा लभते नाऽत्र संशयः ।। (१०२)

तपसा च नियच्छन्ति करणानि च सर्वशः।

बीजं हि पुरुषार्थानामिन्द्रियाणां हि निग्रहः ।। (१०३)

जितेन्द्रियस्य सकलं जितं भवति वै जगत्।

अतस्तन्निग्रहः कार्यः शाश्वतीं भूतिमिच्छता।। (१०४)

तदर्थं व्रतसङ्कल्पं कुर्वीत नियतात्मवान्।

उपवास जपध्यान तीर्थस्नानादिकैरपि।। (१०५)

कुर्वीत नियताहारो ह्यात्मशुद्धिकरीं क्रियाम् ।

नाऽहं सुतो न च पिता भवान्तच्छ्रयतामिह ।। (१०६)

एको व्यापी नित्यशुद्धो निर्गुणो निर्मलो विभुः ।

परमार्थं च सान्निध्यं ज्योतिरात्मा महामते ।। (१०७)

इतोऽन्यत्सकलं सत्यमसत्यमिति निश्चयः।

असद्धेयमनालंबि क्षयिष्ण्वनियतं जडम् ।। (१०८)

मांसविण्मूत्र रुधिर मज्जास्थि स्नायु संयुतम्।

तच्छरीरमिति ज्ञेयं सर्वदोषाश्रयं त्वसत्।। (१०९)

आत्माभिमानं च जडे तस्मिन् कुर्वन्त्यसाधवः।

कामक्रोधवशास्तेऽपि विनष्टा यान्त्यधोगतिम् ।। (११०)

तच्छरीरं च नयतः पित्रोर्वै शुक्लशोणिते ।

तच्छरीरं ग्रहच्चापि जन्तूनां कर्महेतुकः ।। (१११)

शरीरारम्भहेतुत्वात्पितराविति तद्वचः।

सुतादि व्यवहारोस्य शरीरत्व निबन्धनः ।। (११२)

अतो न कस्यचित्पुत्रो न पिता न रिपुस्सुहृत् ।

शुद्धो निरञ्जनो व्यापी ह्यात्मा सर्वत्र गीयते ।। (११३)

अनित्यस्य च नित्यस्य चेतनस्य जडस्य च ।

एकस्य चाप्यनेकस्य समलस्याऽमलस्य च ।। (११४)

अविक्रियस्य सततं विकुर्वाणस्य चाऽनिशम् ।

देहस्य चात्मनोऽप्येवं स्पष्टं भेदनिदर्शनम् ।। (११५)

तयोरैक्याभिमानेन वर्तते भवसङ्कटे।

लोभमोहहृतज्ञानाः शरीरेन्द्रियमानिनः ।। (११६)

अत्स्मिंस्तदहंकारतिमिराक्रान्तचेतसः ।

वृथारम्भानरायान्ति संसारस्य च बीजताम् ।। (११७)

ज्ञात्वा तदशुभं सद्यस्त्यजन्ति च नरोत्तमाः।

निर्वाणपरमा यान्ति समतां ब्रह्मवादिनः ।। (११८)

अहंकारेण सकलमिष्टमित्येव निश्चितम् ।

रागद्वेषौ ततस्सिद्धौ द्वाभ्यां वृतमिदं जगत्।। (११९)

रागद्वेषौ जितौ येन तेनेदं सकलं जितम्।

देहिनां च रिपू विद्धि रागद्वेषौ चिरन्तनौ ।। (१२०)

अन्तःप्रविष्टौ सहजौ नृशंसौ दुष्प्रपूरकौ ।

तौ विजित्य महात्मानो ज्ञानिनो ज्ञानतेजसा ।। (१२१)

निर्वृतिं परमां लब्ध्वा प्रभवन्ति च मुक्तये ।

तथा यतेत मतिमान्यथा स्यान्निर्वृतिः परा।। (१२२)

योगेन लभ्यते सा तु न ततोऽन्यकेनचित्।

योगिनः परमृच्छन्ति तद्विष्णोः परमं पदम् ।। (१२३)

आर्तानां परमन्त्राणां विष्णुरेवेति निश्चितम्।

शुद्धेन मनसा वाचा कायेन नियमेन च।। (१२४)

ध्यानेन नियताचारयुक्तायुक्तदृढव्रताः।

व्रजन्ति पूतपाप्मानो नियतान्वैष्णवं पदम्।। (१२५)

मातापितृसुतभ्रातृभार्यास्सन्ति च मायया।

न खल्वभिभवन्त्वेषामसतां संगयोगतः।। (१२६)

तस्माद्योगोऽत्र जिज्ञास्यः प्रयत्नेन विचक्षणैः ।

भवतापप्रतप्तानां योगो हि परमौषधम् ।। (१२७)

योगं च ज्ञानिनो नित्यं परिप्रश्नेन सेवया ।

उपदेक्ष्यन्ति ते तात तपसा भावितात्मनः ।। (१२८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षडधिकशततमोऽध्यायः

श्रीरङ्गमाहात्म्यम्१०७

तीर्थयात्रागतसुवर्चलेन सह सुमन्तु सुनन्दयोः संवादः

व्यासः –

इत्युक्त्वा मुनिशार्दूलो विरराम समाधिमान्।

प्रशान्तात्मा महातेजाः पित्रोरपि गतस्पृहः।। (१)

पापक्षयार्थं नियतस्तीर्थयात्रा चकार सः ।

ददृशे तीर्थनिरतान् समुनीनूर्ध्वरेतसः ।। (२)

तपसा तत्परिक्लेशान् ज्ञातज्ञेयानकल्मषान् ।

तानभ्येत्याभिवाद्योच्छैः निर्वेदादिदमब्रवीत्।। (३)

सुवर्चलः-

अहो नु भगवन्तोऽत्र प्रहृष्टाश्चाभिलक्षिताः ।

हिताहितज्ञानविधः मया निर्विण्णचेतसा।। (४)

तापत्रयाभिभूतस्य पुरुषस्य विपश्चितः ।

न लक्षयोऽहं निर्वेदं विनागतिमिह क्वचित् ।। (५)

गर्भे निवासा जननं शिशुत्वमति कुत्सितम् ।

तत्र तराभिभवनं व्याध्यादिभिरनेकधा ।। (६)

युवत्वे स्थविरत्वे च सततं दुःख भाजने ।

पुनश्च मरणं दुःखं नरकं च पुनर्भवम् ।। (७)

एवं चिन्तयता नित्यं  संसारान्तरवर्तिनाम् ।

विनिन्दितमवस्थानं जन्तूनां शोकवर्धनम् ।। (८)

जायते ह्रीश्च निर्वेदः कुतस्तुष्टिः कुतस्सुखम्।

अज्ञानदुहमर्त्यानां कामक्रोधभयात्मनाम् ।। (९)

विषयाहत चित्तानां जायते च सुखोदयः।

असत्स्वपि च सद्बुद्ध्या दुःखेषु सुखसंविदा।। (१०)

अनित्ये नित्यबुद्ध्या च निरयंयान्त्यचेतसः ।

नित्या नित्यविभागज्ञाः श्रीमन्तो मतिशालिनः ।। (११)

सदा जातसुनिर्वेदाः संसाराब्धिं तितीर्षवः।

ऊर्ध्वं गच्छन्ति तपसा संयुक्ताः परमर्षयः ।। (१२)

स हि विज्ञानिनां पन्थास्सदा सद्भिश्च सम्मतः ।

अस्थाने भवतां तुष्टिः कथ्यतां यदि शक्यते ।। (१३)

मुनयः –

आश्चर्यं तत्र भवतो वेद्यस्यार्थस्य संग्रहः।

बुद्धेर्बोधावलंबी स्यात् पशुत्वं च प्रकाशितम्।। (१४)

ज्ञानैकनिधयस्सन्तः सतां बुद्धिरचञ्चला।

सदैकवस्तुविषया कथं बुद्धिः प्रमाद्यति।। (१५)

सदसद्गोचरा बुद्धिः सर्वत्र चलनात्मिका ।

बाह्यर्थैकप्रसक्ताय साविनाशफलामतिः ।। (१६)

सदेकविषयं ज्ञानं जायते यस्य सुस्थिरम्।

कुतस्तस्यापि निर्वेदः तृप्तस्यात्मनात्मनि ।। (१७)

परावरप्रसक्ताधीर्यस्य निर्वेदसम्भवः ।

स च योगाग्निना दग्ध सञ्चितक्लेशसञ्चयः ।। (१८)

निर्वाणं परमंसद्यः प्राप्नोत्यपि न संशयः।

यस्य बाह्यार्थविषयं ज्ञानं प्रत्याहृतं न च ।। (१९)

रागादि दूषितं चेतस्तस्य वै न प्रसीदति ।

न च किञ्चित्करो योगो विषयाहृतचेतसः ।। (२०)

विषयप्रवणं चेतः कदाचिन्न प्रसीदति ।

तेष्वथाभिरुचिं तस्य कुरुते विषयस्पृहा।। (२१)

नोप भोगाच्छमं यान्ति कामसंगाः कथंचन।

बह्विन्धन इवारण्ये कृशानुर्वर्धतेऽधिकम्।। (२२)

जगत्यामपि यत्किञ्चित् भोग्यजातं स्त्रियादिकम् ।

दृष्टमात्रं च तत्सर्वं ममस्यादित्यपेक्षते।। (२३)

यद्भाव्यं कर्मणा तद्धि भोग्यत्वेनाकल्पते ।

स सर्वमिति सर्वस्य नन्वेच्छा तत्र कारणम्।। (२४)

हतः क्रोधेन तीव्रेण विषयाऽनलजन्मना ।

उपर्युपरि संवृद्धकामचण्डानिलाहतः ।। (२५)

दुःखपङ्केशयो नित्यमतृप्तस्स च वर्तते।

परावरविभागज्ञो यस्तु पश्यति चेतसा।। (२६)

हेयाकारमसारं च  संसारं न तु शोचति ।

ध्रुवं विषयमात्मानं जानतो ज्ञानचक्षुषा।। (२७)

सहसा जायते चेतो विषयेषु पराङ्मुखम् ।

निर्वेदः स्वयमायाति तमहहंकारवर्जितम् ।। (२८)

चरत्यभ्युपदेशाद्धि सर्वत्र विगतस्पृहः ।

ततः प्राप्तसदाचारं शुश्रूषुमनहंकृतिम् ।। (२९)

उपदेश्यमथान्वीक्ष्य प्रज्ञामुपदिशन्ति च ।

आचार्याद्योगसर्वस्वमवाप्य स्थिरधीः स्वयम्।। (३०)

यथोक्तं यतते तेन प्राप्नोत्यपि च निर्वृतिम् ।

संप्राप्तयोगसिद्धेन पूर्वं तत्त्वात्मदर्शनात् ।। (३१)

न किञ्चिद्दृश्यते कार्यं तेन वै सकलं कृतम्।

आत्मारामस्सदा पूर्णः सुखमात्यन्तिकीं गतः ।। (३२)

कुतस्तस्यापि निर्वेदः सदानन्दमयस्य च।

वयमाचार्यसम्पत्या लब्ध्वा योगधनं द्विज।। (३३)

सिद्धिं प्राप्ताश्च नो ब्रूहि निर्वेदाश्रयणं कुतः।

इत्येवं ब्रुवतां तेषां मुनीनां भावितात्मनाम् ।। (३४)

श्रुत्वा वचो महायोगी जगादपुनरात्मवान्।

सुवर्चलः –

श्राविता संयमास्सर्वे ध्वस्तमेव मनोगतम्।। (३५)

तिमिरं भवतां वाक्यश्रवणाद्भावितात्मनाम् ।

येनाप्तःपरमांसिद्धिं भवन्तो योगवित्तमाः ।। (३६)

उपायं तस्य योगस्य ब्रुवन्तः मुनिसत्तमाः ।

मुनयः –

पिशाचाकृतिनौ विप्राः अस्माकं गुरुसत्तमौ ।। (३७)

पराशरस्य सच्छिष्यौ मुनी पुष्करिणीं गतौ ।

तत्सकाशाद्वयं सर्वे लब्ध्वा योगधनं द्विज ।। (३८)

कृतार्थस्त्वं महाबुद्धे स्वयं पुष्करिणीं व्रज।

सुमन्तुश्च सुनन्दश्च इत्येवं श्रुतिपथं गतौ ।। (३९)

गुरुशापप्रसंगेन पिशाचत्वमुपागतौ ।

पुन्नागतीर्थनिलयौ सर्वभूतसुखावहौ ।। (४०)

गूहमानौ स्वकं रूपं सर्वभूतानुकम्पया ।

तौ गत्वा संशयं पृच्छेर्योगं चैव महामते ।। (४१)

ततौ विधित तत्वार्थौ यथावदुपदेक्ष्यतः।

व्यासः –

इत्येवमृषिभिः प्रोक्तः सर्वतत्वार्थदर्शिभिः ।। (४२)

सुवर्चलोऽपि धर्मात्मा वैराग्यपरमो मुनिः ।

जगाम सहसा तत्र यत्र तौ मुनिसत्तम ।। (४३)

संवृतौ मुनिभिस्सिद्धैः बहुभिर्विमलाशयैः ।

तीर्थस्नानहता शेषकर्मसंततिभिर्द्विजैः ।। (४४)

परमं पुरुषं देवं ध्यायद्भी रङ्गशायिनम्।

तद्ध्यानामृत संधानसुपुष्टांगोरुविग्रहैः ।। (४५)

एकाग्रमतिभिस्सिद्धैः ब्रह्मध्यानपरायणैः।

योगिभिस्थिरसंकल्पैः नासाग्रन्यस्तलोचनैः।। (४६)

परावरविभागज्ञैः तृणीकृतजगत्त्रयैः ।

लब्धलक्षपदैरन्तसर्वभेदावलम्बनैः ।। (४७)

वीतरागभयक्रोधैः निरवद्यैर्यतात्मभिः ।

निर्मलैर्निरहंकारैर्निर्लज्जैर्निष्परिग्रहैः।। (४८)

क्वचिद्वेदानधीयानैः क्वचिदध्यापकैरपि।

क्वचित्सामानि गायद्भिः क्वचिद्ध्यानपरायणैः ।। (४९)

क्वचित्सपर्यानिरतैः क्वचित्सवनसंश्रितैः ।

क्वचिदाख्यानकुशलैः क्वचिद्रूपपरायणैः ।। (५०)

क्वचित्सवन संयुक्तैः क्वचिद्वन्दन तत्परैः ।

क्वचिज्जय जगन्नाथ रङ्गनाथ जगन्मय।। (५१)

इति नामानि मधुरं व्याहरद्भिर्द्विजातिभिः।

सालतालधवाऽश्वत्थवकुळाद्यैर्महीरुहैः ।। (५२)

वट पुन्नाग पनसकर्णिकाराम्रचम्पकैः।

बदरी बिल्वतिंदूक कपित्थासन केसरैः ।। (५३)

पताक धात्री जम्बूक प्रियंगु कुटजैरपि ।

अशोक रम्भा लिकुच तांबूली पूगवेतसैः ।। (५४)

मधूकोदुम्बरांकोल बीजपूरारुणैरपि ।

स्निग्ध कण्ठैश्च मधुरं कूजद्भिः कोकिलैरपि।। (५५)

नृत्यन्मयूरनिवहैः भृङ्गसङ्घैर्मनोहरैः।

वल्लुव्याहर कुशलैः सुरक्त चरणाननैः।। (५६)

हंसकारण्डवगणैः भ्रमत्सारसराजिभिः ।

तीर्थं च प्रविगाहद्भिः उत्तरद्भिर् द्विजोत्तमैः।। (५७)

उपस्थानपरैरूध्वबद्धहस्तैरतन्द्रिभिः ।

योगोभिश्शुद्धसत्वैश्च सदा ध्यानपरायणैः ।। (५८)

शीलवृद्धैर्वयोवृद्धैः क्षत्रियैः शान्तमानसैः।

वैश्यैर्निरस्तशीलैश्च शूद्रैरुचितवृत्तिभिः ।। (५९)

नानापक्षिगणैर्जुष्टं नानामृगगणैरपि ।

नानभूतगणैर्जुष्टं प्रशान्तात्माभि रर्चितम् ।। (६०)

यदभ्याशे महद्धाम रङ्गधाम परं विभु ।

तत्तीर्थपरमागत्य भगवान् स सुवर्चलः ।। (६१)

ववन्दे च समस्तां स्तान् स्वयं मुनिगणानपि ।

तत्र पुन्नागतीर्थं तदभ्युपेत्य महामतिः।। (६२)

पिशाचच्छद्म वेषे तु चरन्तौ मुनिसत्तमौ ।

स ददर्शमाहात्मानौ गृहयन्तौ स्वकं वपुः ।। (६३)

सदादूतयनः पङ्कौ वेदाद्ययनतत्परौ।

विवेकैः सततो दृष्ट्वा प्रययौ सन्तत व्रतौ।। (६४)

तौ दृष्ट्वा समायान्तमभ्यर्णं मुनिसत्तमम् ।

जुगूहतू स्वकं रूपमन्योन्यं मुनिसमौ ।। (६५)

तावपश्यन्महात्मानाऽवतिष्ठ दुर्मना मुनिः।

अभितस्तत्र स मुनिः विचचार दिदृक्षया ।। (६६)

विषण्णवदनो धीमान् भगवान् स सुवर्चलः।

उवाच वदनं वीक्ष्य महता च स्वरेण च ।। (६७)

सुवर्चलः –

यदधीतं च यद्दत्तं हुतं तप्तं मयापि यत् ।

तदिदं सफलं सर्वमस्तु मे गुरुसन्निधौ ।। (६८)

यद्यस्ति गुरुदेवत्वं यद्यस्ति सुकृतं मम ।

सत्येन तेन गुरवः प्रसीदं त्विह सांप्रतम् ।। (६९)

अन्तरात्मा च भूतानां साक्षात्वेन व्यवस्थितः ।

इति सत्येन गुरवो दर्शनं यान्तु ते मम।। (७०)

व्यासः –

इति श्रुत्वा मुनिवरौ तद्दर्शनमगच्छताम्।

पिशाचविहिताकारौ पूज्यौ निन्दितदर्शनौ ।। (७१)

तौ दृष्ट्वा स महात्मानौ मुनी मतिमतां वरौ ।

सादरं नमनं चक्रे ताभ्यां तत्र सुवर्चलः।। (७२)

यथा प्रकाशतां यातौ भुवि चन्द्रदिवाकरौ ।

युवां च खलु सर्वत्र तथा शश्वत्प्रकाशितौ ।। (७३)

मुनी –

आचक्ष्व मुनि शार्दूल यदर्थं त्वमिहागतः ।

जानीहि प्राप्तमेवैतद्विशेषादावयोर्गतम्।। (७४)

सुवर्चलः-

सत्यमेतन्महाभागौ मन्ये तत्प्राप्तमित्यपि।

सिन्धुतीरगतस्सालो न शोषमुपयास्यति ।। (७५)

तापत्रयोर्मुनिकरे भवाब्धौ विषयाम्भसि।

क्रोधमोहमहामीने लोभग्राहसमाकुले।। (७६)

अपारे दुस्तरे दुर्गे नानापाशसुयन्त्रिते।

ममत्वग्राहतप्तेऽस्मिन् न क्वचित्पारमेयुषः ।। (७७)

विस्पष्टजीविताशस्य विधात्रा हृतचेतसः।

चपलस्याऽल्पसत्वस्य हीनबुद्धेर्लघीय सः ।। (७८)

धर्माय नादपेतस्य कृत्याकृत्यमजानतः ।

असत्कर्मरतस्योच्छैर्विपरीतार्थग्रन्थिनः ।। (७९)

दीपो बृहद्भवन्तौ मे इति मत्वाह मागतः ।

यत्कारणोऽथ यद्ज्ञात्वा वाचयत् प्रलपन्नहम् ।। (८०)

परित्राणं च विन्देयं भव तापत्रयातुरः ।

चिन्तयन्नुदरेवासं तथा योनिविनिर्गमम्।। (८१)

मलपङ्कमयीशय्यां संसीदामि दिवाऽनिशम्।

अतः प्रपन्नं भवतोस्सकाशं समुपाश्रितम्।। (८२)

चिन्तानलविदीप्तं मां भवन्तौ त्रातुमर्हथः ।

भवोरगविदष्टस्य ज्ञानं हि परमौषधम् ।। (८३)

तदर्थ्येहमुपैम्यद्य युवां हि ज्ञान जन्मभूः।

अतश्शान्तिं न गच्छामि मनसः कामगस्य च ।। (८४)

नानाविषय सक्तस्य दुर्निवारगतेरिह।

मनसश्शान्तिमापन्नं सर्वत्र विगतस्पृहम् ।। (८५)

ज्ञान वैराग्य सम्पन्नं सुखिनं ब्रुवते जनाः ।

व्यासः –

एवं ब्रुवति धर्मिष्ठे मुनिश्रेष्ठे सुवर्चले।। (८६)

सुमन्तुर्वदतां श्रेष्ठो जगाद परमं वचः ।

सुमन्तुः –

सत्यमेतन्महाभाग निर्वेदत्वमिहागतः।। (८७)

श्रेयोऽर्थी चात्मनो भूत्यै भूयस्सन्तापकर्शितः।

श्रूयतां वचनं श्रेयो मनसो मोहशान्तये ।। (८८)

उदीर्णताप संसार मलप्रक्षाळनाय च ।

अनादिकर्ता भगवान् विश्वस्यात्मा भुवि ध्रुवम् ।। (८९)

सर्वज्ञस्सर्वदर्शी च वशी नारायणोऽव्ययः ।

सर्वानन्दमयः श्रीमान् सर्वाधारस्सनातनः ।। (९०)

विश्वस्य जन्मनिलयस्थितिकर्ता जगत्पतिः ।

निजकर्मावृतियुतं जन्तुमुच्चावचं द्विज।। (९१)

अन्तप्रज्ञं च विवशं गुणमय्यातु मायया ।

नानादेहनिपातं च नानादुःखाश्रयं ययौ ।। (९२)

नानापाशाश्रयं चेदौ निर्ममे पुरुषोत्तमः।

तत्प्रभावानुगुण्येन वर्तन्ते सर्वजन्तवः।। (९३)

न हि शक्यमपीशानैः सर्वैस्तदतिवर्तितुम् ।

देवत्वं व्रजति ह्येषः क्वचित्तिर्क्यत्त्वमेव च ।। (९४)

पुनस्स एव व्रजति मनुष्यत्वमथेतरत् ।

स्थावरत्वमथान्यच्च तथा परवशो ह्ययम्।। (९५)

भोगबुद्धिस्तथा शक्तिस्तथोत्साहस्तथा सुखम्।

तत्तद्देहानुगुण्येन जायतेऽस्य च तत्क्षणात्।। (९६)

तत्तद्बुद्धिश्च सर्वेषां देवादीनां विलक्षणा ।

क्रोध लोभौ च तृष्णा च मोहश्चास्य प्रवर्तते।। (९७)

अतृप्तस्सर्वकामेषु नित्यं चरति निस्पृहः।

स्वतो दुःखविहीनस्य नित्यस्यैवाव्ययस्य च।। (९८)

तस्य प्रकाशरूपस्य सुखं दुःखं न चत्मनः ।

कर्मबन्धनहेतुस्तु नानादेहेषु संस्थितिः ।। (९९)

तत्र तत्राभिमानश्च तत्तद्भोगेच्छया सह।

कर्मणा च प्रसुप्तस्य स्वभावाश्च निरंजनः ।। (१००)

देवमानुषपश्वादिष्वहं बुद्धिः प्रवर्तते ।

तत्तन्मानावमानाभ्यामनिशं पीड्य तेजसः ।। (१०१)

तापत्रयसमुत्थेन दुःखेन च सदा वशः।

ततश्च कालो ग्रसति व्याघ्रः पशुमिव स्वयम्।। (१०२)

प्रमत्तमिन्द्रियारामां ममतागर्तसंयुतम् ।

मरणे च तथा पीडां भूयसीमस्य देहिनः ।। (१०३)

निरयेषु च संवेशं गर्भेशयनमात्मनः।

विवाहमपि भार्याया अवशस्य च दारुणम्।। (१०४)

स्मरन् जन्मानितस्यास्मिन् पातितानिमलाशये।

जठराऽनलतप्तांगो मातुरास्ते तदा स्वयम्।। (१०५)

ततो निष्क्रियमाणस्य योनिद्वारमुपेयुषः ।

प्रसूत्यनिलनुन्नांगो निर्याति सह वेदनः ।। (१०६)

बहिः पतनमात्रे तु प्रज्ञया परिवर्जितः।

मलपङ्के वशं शेते सदानिष्टनिवारणे ।। (१०७)

तत्र व्याधिसमुत्थानं बहुशस्त्वसुवर्तनम् ।

एवं नयति बाल्येऽपि कौमारेऽपि च तत्समः ।। (१०८)

तथावस्तान्तरं प्राप्तो युवा कामैश्च दह्यते ।

संप्राप्य पश्चिमावस्थां जरया परिपीड्यते।। (१०९)

ततश्च दुःखमभ्येत्य नारकं दुःखमश्नुते।

पुनश्च गर्भपतनं भ्रमत्येव च चक्रवत् ।। (११०)

अतस्सर्वास्ववस्थासु दुःखमेवोपलक्षये।

सर्वत्र वर्तमानस्य ह्यवितृप्तस्य देहिनः।। (१११)

श्रेयस्सु विमुखस्येह पापेष्वभिरतस्य च।

तस्य मोहाद्गतः कालोऽप्यनन्तोऽनन्तजन्मनः ।। (११२)

जने भवन्त्यश्रेयांसि सदोद्वेगकराणि हि ।

कामादिषु च संसक्तं तच्चलंचानुगच्छति।। (११३)

उपकारि भवत्येतद्भ्राम्य भोगप्रवर्तने ।

अपकारि सदा चास्यात्सद्यादनिपुणे जने ।। (११४)

जन्तवश्श्रियमिच्छन्ति तदुपायं न केचन ।

सततं चापि भूयन्ते सदा धर्मविदो जनाः ।। (११५)

एकस्य कामिनो नालं त्रैलोक्यमपि सुव्रत ।

इन्द्रियार्थेषु संसक्तं मनो यस्य च न स्पृह।। (११६)

भूयो भूयो विवृद्धं च कामिनं तं नयेदथः ।

कामकर्दमसंमर्दं शश्वन्मलिन मानस ।। (११७)

क्षाळयेत्सम्यगात्मानं सम्यग्ज्ञानजलेन च ।

तपसा भावितात्मानो ज्ञानेनैव भवार्णवम् ।। (११८)

अथ वै देहिनामन्तर्यदाज्ञानं प्ररोहति।

तदा पश्यति चात्मानं स्वयं शोच्यमथोगतम् ।। (११९)

तदानीं क्षीयते तस्य बाह्येषु विमुखं मनः ।

सर्वत्र निस्पृहं शान्तमनिद्रमनिवारितम् ।। (१२०)

चेतसा स कथं पश्यन् स्वात्मानं नानुशोचति ।

विसृज्य सकलं ज्ञानं तेजसा ममतास्पदम्।। (१२१)

नियम्य चेन्द्रियग्रामं वरते वनगोचरः।

अतस्सर्वत्र संसारभेषजं ज्ञानमेव हि ।। (१२२)

ज्ञानमेव परं मृग्यं ज्ञानमेव परं धनम्।

ज्ञानेन सन्तारयत्येव दुःखाक्रान्तमशाश्वतम्।। (१२३)

संसारगर्तमत्येति ज्ञानेनैवानु पश्यति ।

सुवर्चलः –

तरन्ति येन ज्ञानेन योगिनो दुस्तरं द्विज ।। (१२४)

संसारसागरं घोरं तन्मयाचक्ष्व पृच्छतः ।

मुनिः

योगेन शान्तिमिच्छन्ति यतयो ब्रह्मवादिनः ।। (१२५)

योगाद्भवति विज्ञानं तपसा चोर्ध्वरेतसाम्।

ब्रह्म ज्ञानं च परमं भवत्यपि च मुक्तये।। (१२६)

इन्द्रियाणि नियाम्यैव मनसश्शान्तिमेव च ।

कृत्वा तपश्च मुनयो निरवद्यं व्रजन्ति हि ।। (१२७)

सुवर्चलः –

योगस्वरूपं परमं प्रब्रूहि मुनिसत्तम ।

अनन्यचेतसे मह्यं मुह्यते श्रियमुत्तमम्।। (१२८)

मुनिः –

हन्त सर्वं प्रवक्ष्यामि शृणु त्वं मुनिसत्तम ।

शान्ताय मम भक्ताय प्रपन्नाय विशेषतः ।। (१२९)

रहस्यमेतत्परमं सर्वसंसारनाशनम् ।

विज्ञानममलं शुद्धं श्रुतिमस्तकसंस्थितम् ।। (१३०)

सर्वदुःखप्रशमनं सर्वशान्तिकरं परम् ।

तापत्रयमहातापप्रणाशनमनामयम् ।। (१३१)

योगज्ञानं प्रवक्ष्यामि तदिहैकमनाः शृणु ।

अष्टाङ्ग परमं योगं ब्रुवते योगवित्तमाः ।। (१३२)

यमश्च नियमश्चैव तृतीयं चासनं मतम् ।

प्राणायामस्तदा तत्र प्रत्याहारश्च पञ्चमः ।। (१३३)

धारणा च तथा ध्यानं समाधिश्चेति संग्रहः ।

अनृशंस्यमनालस्यं वैराग्यं चार्जवं परम् ।। (१३४)

आचापल्यं धृतिस्सर्वं ज्ञेयं चेति यमं विदुः ।

शौचमाहारनियमामौनिः ममत्वमसंगता।। (१३५)

क्षान्तिक्षमा दमस्तुष्टिरित्यष्टौ नियमाः स्मृताः।

आसनं स्वस्तिकादीनि तदभिज्ञाः प्रचक्षते ।। (१३६)

वाङ्मनश्चरतो वायोरेकत्र नियमश्शनैः ।

चलस्य मनसस्थित्यै प्राणायामश्च तद्विदुः ।। (१३७)

इन्द्रियाणां च सर्वेषां प्रत्याहारस्तु पण्डितैः ।

धारणा नाम मनसो लक्ष्ये ब्रह्मणि संस्थितिः ।। (१३८)

संशीलनं च मनसस्तत्र ध्यानं पुनः पुनः ।

तदेकरसतापत्तिं समाधिं ब्रुवते जनाः ।। (१३९)

इत्येवं मुनिभिः प्रोक्तो योगस्संक्षेपतो मुने।

मयाऽप्युक्तो महाबुद्धे योग एष सनातनः।। (१४०)

अनादिवासनादुष्टं मनस्सुमलिनं यतः ।

अतो योगस्सदुष्प्रापस्सहसाऽकर्मणा द्विज।। (१४१)

तपसा नियमेनापि व्रतस्नानादिकैरपि।

मनसः क्षाळनादेव योगसिद्धिं लभेतेह।। (१४५)

पापानां कर्मणां चाहुः नाशस्सम्पद्यते नृषु ।

वैकुण्ठस्मरणात् सद्यः पवित्रं भगवान्यतः।। (१४६)

यन्नामकीर्तनात्सद्यस्सर्वपातकिनो द्विज।

विशुद्धं परमं प्राप्य प्रभवन्त्यपि मुक्तये।। (१४७)

मनः प्रसन्नता न स्याद् गोविन्द स्मरणं विना ।

नावगच्छति धातुस्थं विधूमाग्निरिवानामलम् ।। (१४८)

देहिनामल्प बुद्धित्वात्करणायत्तचेतसाम्।

निर्मलज्ञानभूयिष्ठं न शक्तिं ब्रह्म वीक्षितुम्।। (१४९)

अशक्तो भास्करं द्रष्टुं यथाबालो वियद्गतम् ।

दवीयो ब्रह्म सर्वेषां चेतसां च तथा द्विज ।। (१५०)

अतिप्ररूढं बाह्यार्थे इन्द्रियासंगतं मनः ।

तेभ्यो हि विच्युतिर्नेहस्नान्यत्र च लक्षणम्।। (१५१)

बाह्यवृत्तेरनादित्वान्मनसो वदतां वर ।

प्रवेशोद्यततस्तस्य परस्मिन्नहि शक्यते।। (१५२)

अतो हि मनसश्शुद्धिमादौ कुर्याद्विचक्षणः ।

कर्मणां विलयेनैव ह्यात्मनश्शुद्धिरिष्यते ।। (१५३)

प्राचीनं कर्मविज्ञानादशेषं प्रविलीयते।

श्रेयसां हि परं श्रेयो लाभानां परमोत्तमम्।। (१५६)

विज्ञानं सर्वजन्तूनां धनानां च परं धनम्।

ज्ञानोदयश्च सर्वेषां वैकुण्ठाङ्घ्रिव्यपाश्रयात्।। (१५७)

सानुरागेण मनसा वाचापि मनसोऽपि च ।

कर्मणा भूयसा चैव तत्समाश्रयणं बुधैः ।। (१५८)

कार्यं कार्यविदां श्रेष्ठ स प्रसीदत्यधोक्षजः ।

प्रसन्ने सति तस्मिंश्च परस्मिन् परमात्मनि ।। (१५९)

अनन्तार्पितदेहस्य सर्वं स्वस्त्ययनं भवेत्।

नातदर्हस्य तद्दृश्यं तेजसोऽपि शुभाश्रयम्।। (१६०)

कर्मपाशावृतत्वाश्च आत्मा त्वंतर्हितो हि नः ।

अन्ये तु शुद्धिविरहन्नार्हः पद्मोद्भभवादयः।। (१६१)

अतो निर्दोषमक्लिष्टं कल्याणगुणसागरः।

शुभाश्रयं परं मृग्यं ब्रह्म तद्योगतेजसा ।। (१६२)

ब्रह्मणा च विनिष्पन्नध्यानेनैव सदा सुखम् ।

यजन्तो योगिनो नित्यं प्राप्नुयुः श्रेयमुत्तमम् ।। (१६३)

एवमुक्तं परं श्रेयः प्रपन्नस्य च ते मया ।

यथार्हवृत्तिस्तं योगं कुरुष्वाप्येग्रमानसः ।। (१६६)

श्रेयः कामयमानस्य विघ्नानामयुतं भवेत्।

गोविन्दस्मरणं तस्य शोषकर्म न संशयः ।। (१६७)

दुरितानि बहून्यस्मिन् विघ्नानं च शतं बहु ।

अरिष्टं शमयेत्सर्वं सकृद्गोविन्द संस्मृतिः ।। (१६८)

सत्यं संश्रयतो नित्यं कर्मणा मनसा गिरा।

कल्याणानि भवन्त्यस्य मुक्तिरस्य फलं मतम् ।। (१६९)

सर्ववाङ्मनसो लक्ष्यो येषां च स्मृतिगोचरः।

स्वयं भवेत्स विश्वात्मा जगतामीश्वरेश्वरः ।। (१७०)

भूयांसस्ते महात्मानः श्रीमतां किं न सेत्स्यति ।

वैकुण्ठचरणांभोजशरणागतिरुत्तमा ।। (१७१)

असारमन्यत्सकलं मनसापि न लक्ष्यते ।

तत्स्मृतिज्वलनज्वालादग्दानिष्ट च यस्स्वयम्।। (१७२)

प्राप्नुयात्स विशुद्धात्मा तमेव परमां गतिम् ।

इति ते गुह्यमाख्यातं ज्ञानमात्माविशुद्धये।। (१७३)

कुरुष्वे तद्यथा योगं किमन्यच्छ्रोतुमिच्छसि।

सुवर्चलः –

कृतार्थं मे मुनेः जातं कृतार्थोऽहं कृतस्त्वया।। (१७४)

कृतार्थाः पितरस्सर्वे यन्मामेवं ब्रवीषि भो ।

नूनं सुष्ठु कृतं कर्म विद्यते मम दुर्लभम् ।। (१७५)

यद्भवन्तमिहासाद्य श्रेयो मां प्रापयेदलम् ।

दुर्लभः परमो योगो मनसापि यतात्मनाम् ।। (१७६)

जितेन्द्रियाणां शुद्धानामभूरि विज्ञानसम्पदाम् ।

क्रोधमोहमहागर्तपरिवर्तश्रमेण ह ।। (१७७)

अवशेचेन्द्रियग्रामे कथं सुक्रियते मया ।

मुनिः –

पापेन कर्मणा तात मानसं मलिनं भवेत् ।। (१७८)

प्रयतस्व महाबुद्धे त्वमद्यतदुपक्षये।

पापक्षयश्च भवति सर्वेषामपि सुव्रत ।। (१७९)

तीर्थस्नानात्तदादानात् पुण्यक्षेत्रनिषेवणात्।

तीर्थानामुत्तमं तीर्थं चन्द्रपुष्करिणीसरः ।। (१८०)

एतत्क्षेत्रं परं विद्धि यत्र श्रीरङ्गशब्दिते ।

बहवः क्षीणकर्माणो मुनयस्संश्रितव्रताः।। (१८१)

कर्मणां विलयं कृत्वा परां सिद्धिमितो गताः।

क्षत्रिया ध्वस्तकर्माणो बहवो लोकविश्रुताः।। (१८२)

योगेन भूयसीं सिद्धिमिह प्राप्ता महामुने।

वैश्यास्स्वधर्मनिरताः शूद्राश्चान्ये च संश्रिताः ।। (१८३)

भक्तिमन्तः परामृद्धिमिह प्राप्ता द्विजोत्तमाः ।

त्वमप्यस्मिन् महाबुद्धे स्नानादिकमतः कुरु।। (१८४)

व्यपोह्य सर्व कर्माणि गतिमिष्टामवाप्स्यसि ।

व्यासः –

इत्युक्तो भगवान् तत्र न्यवसत्स सुवर्चलः ।। (१८५)

पुण्ये श्रीरङ्गराजस्य रंगधामनि सादरम्।

निरेनास्सततं योगात्तदभ्यासरतिर्द्विजः।। (१८६)

शुनकैस्सर्वकर्माणि क्षपयित्वा महामतिः ।

मनसा कर्मणा वाचा युक्तं कर्मसमाचरन् ।। (१८७)

स्तवप्रणामासु ध्यानैः सततं रङ्गधामनि।

महान्तं कालमासाद्य भगवद्ध्यान बृंहितः।। (१८८)

शुभाऽशुभात्मकं कर्म योगेनाशु व्यपोह्य च ।

विनिष्पन्नसमाधिश्च परं निर्वाणमाप्तवान् ।। (१८९)

तौ च बुद्धिमतां श्रेष्ठौ पिशाचाकृतिनौ मुने।

तस्मिन् तीर्थवरे पुण्ये निवासं चक्रतुस्स्वयम्।। (१९०)

उपेत्यमुनि शापान्तं कर्मणां च परिक्षयम् ।

आगच्छतां महात्मानौ निर्वाणपरमां गतिम् ।। (१९१)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्ताधिकशततमोऽध्यायः।

श्रीरङ्गमाहात्म्यम्१०८

एतत्फलश्रुतिः

एतत्पुण्यमुपाख्यानं परं निश्रेयसां नृणाम् ।

सर्व दुःखप्रशमनं सर्वसिद्धिकरं भुवि।। (१)

यस्त्वेतत्कीर्तयेन्नित्यं श्रुत्वा पर्वणि पर्वणि ।

पूतपाप्मा जयेत्सर्वं ब्रह्मा चैति सनातनम्।। (२)

यस्त्वैतच्छ्रावयेन्नित्यं श्राद्धादिषु च कर्मसु ।

पितृभ्यो दत्तमक्षय्यं भवेत्तत्र न संशयः ।। (३)

य इदं परमाख्यानं पठति श्रद्धयान्वितः।

स वाजिमेधस्य फलं प्राप्नुयात्पुरुषो मुने।। (४)

इति सकल जगत्प्रसूतिहेतोः अखिल जगच्छरणस्यतस्य पुंसः ।

चरितमखिलमादिपुरुषस्य क्षपयति कल्मषमाशु शृण्वतां च ।। (५)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टाधिकशततमोऽध्यायः।

इति श्री गारुडपुराणान्तर्गत श्रीरङ्गक्षेत्रमाहात्म्यं सम्पूर्णम्

सर्वं श्रीरङ्गनाथार्पणमस्तु

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.