श्रीमहाभारतम्
||१ आदिपर्वम् ||
005-अध्यायः
शौनक उवाच||
पुराणमखिलं तात पिता तेऽधीतवान्पुरा |
कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ||१||
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् |
कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ||२||
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् |
कथयस्व कथामेतां कल्याः स्म श्रवणे तव ||३||
सूत उवाच||
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः |
वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ||४||
यदधीतं च पित्रा मे सम्यक्चैव ततो मया |
तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ||५||
पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ||५||
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने |
निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ||६||
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः |
च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ||७||
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ||७||
रुरोरपि सुतो जज्ञे शुनको वेदपारगः |
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ||८||
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः |
धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ||९||
शौनक उवाच||
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः |
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ||१०||
सूत उवाच||
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता |
तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ||११||
तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह |
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ||१२||
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे |
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ||१३||
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् |
हृच्छयेन समाविष्टो विचेताः समपद्यत ||१४||
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना |
न्यमन्त्रयत वन्येन फलमूलादिना तदा ||१५||
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् |
दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ||१६||
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् |
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ||१७||
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै |
सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ||१८||
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी |
पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ||१९||
सेयं यदि वरारोहा भृगोर्भार्या रहोगता |
तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ||२०||
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति |
मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ||२१||
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् |
शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ||२२||
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा |
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ||२३||
मत्पूर्वभार्यापहृता भृगुणानृतकारिणा |
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ||२४||
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् |
जातवेदः पश्यतस्ते वद सत्यां गिरं मम ||२५||
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् |
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ||२६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
006-अध्यायः
सूत उवाच||
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् |
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ||१||
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह |
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ||२||
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् |
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ||३||
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् |
च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ||४||
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः |
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ||५||
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ||५||
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी |
अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ||६||
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा |
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ||७||
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ||७||
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् |
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ||८||
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः |
केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ||९||
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ||९||
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा |
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ||१०||
पुलोमोवाच||
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता |
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ||११||
साहं तव सुतस्यास्य तेजसा परिमोक्षिता |
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ||१२||
सूत उवाच||
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् |
शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ||१३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
007-अध्यायः
सूत उवाच||
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् |
किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ||१||
धर्मे प्रयतमानस्य सत्यं च वदतः समम् |
पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ||२||
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् |
स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ||३||
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते |
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ||४||
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम |
जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ||५||
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु |
अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ||६||
वेदोक्तेन विधानेन मयि यद्धूयते हविः |
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ||७||
आपो देवगणाः सर्वे आपः पितृगणास्तथा |
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ||८||
देवताः पितरस्तस्मात्पितरश्चापि देवताः |
एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ||९||
देवताः पितरश्चैव जुह्वते मयि यत्सदा |
त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ||१०||
अमावास्यां च पितरः पौर्णमास्यां च देवताः |
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ||११||
सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ||११||
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः |
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ||१२||
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः |
विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ||१३||
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः |
अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ||१४||
विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ||१४||
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु |
अग्नेरावेदयञ्शापं क्रियासंहारमेव च ||१५||
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे |
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ||१६||
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ||१६||
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् |
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ||१७||
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च |
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ||१८||
स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ||१८||
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः |
त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ||१९||
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि |
उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ||२०||
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते |
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ||२१||
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् |
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ||२२||
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ||२२||
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् |
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ||२३||
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् |
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ||२४||
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः |
अग्निश्च परमां प्रीतिमवाप हतकल्मषः ||२५||
एवमेष पुरावृत्त इतिहासोऽग्निशापजः |
पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ||२६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
008-अध्यायः
सूत उवाच||
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् |
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ||१||
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् |
रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ||२||
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः |
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ||३||
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः |
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ||४||
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् |
गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ||५||
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन |
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ||६||
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह |
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ||७||
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः |
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ||८||
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः |
जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ||९||
ववृधे सा वरारोहा तस्याश्रमपदे शुभा ||९||
प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता |
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ||१०||
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् |
बभूव किल धर्मात्मा मदनानुगतात्मवान् ||११||
पितरं सखिभिः सोऽथ वाचयामास भार्गवः |
प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ||१२||
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् |
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ||१३||
ततः कतिपयाहस्य विवाहे समुपस्थिते |
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ||१४||
नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् |
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ||१५||
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा |
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ||१६||
सा दष्टा सहसा भूमौ पतिता गतचेतना |
व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ||१७||
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता |
भूयो मनोहरतरा बभूव तनुमध्यमा ||१८||
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः |
विचेष्टमानां पतितां भूतले पद्मवर्चसम् ||१९||
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः |
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ||२०||
भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः |
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ||२१||
तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् |
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ||२२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
009-अध्यायः
सूत उवाच||
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः |
रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ||१||
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु |
अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ||२||
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी |
बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ||३||
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि |
सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ||४||
यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः |
प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ||५||
देवदूत उवाच||
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा |
न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ||६||
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता |
तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ||७||
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः |
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ||८||
रुरुरुवाच||
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर |
करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ||९||
देवदूत उवाच||
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन |
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ||१०||
रुरुरुवाच||
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम |
शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ||११||
सूत उवाच||
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ |
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ||१२||
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा |
समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ||१३||
धर्मराज उवाच||
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि |
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ||१४||
सूत उवाच||
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा |
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ||१५||
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः |
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ||१६||
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा |
विवाहं तौ च रेमाते परस्परहितैषिणौ ||१७||
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् |
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ||१८||
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः |
अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ||१९||
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् |
शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ||२०||
तत उद्यम्य दण्डं स कालदण्डोपमं तदा |
अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ||२१||
नापराध्यामि ते किञ्चिदहमद्य तपोधन |
संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ||२२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
010-अध्यायः
रुरुरुवाच||
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह |
तत्र मे समयो घोर आत्मनोरग वै कृतः ||१||
हन्यां सदैव भुजगं यं यं पश्येयमित्युत |
ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ||२||
डुण्डुभ उवाच||
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् |
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ||३||
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् |
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ||४||
सूत उवाच||
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा |
नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ||५||
उवाच चैनं भगवान्रुरुः संशमयन्निव |
कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ||६||
डुण्डुभ उवाच||
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् |
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ||७||
रुरुरुवाच||
किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम |
कियन्तं चैव कालं ते वपुरेतद्भविष्यति ||८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
011-अध्यायः
डुण्डुभ उवाच||
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः |
भृशं संशितवाक्तात तपोबलसमन्वितः ||१||
स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् |
अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ||२||
लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः |
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ||३||
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया |
तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ||४||
तस्याहं तपसो वीर्यं जानमानस्तपोधन |
भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ||५||
प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः |
सखेति हसतेदं ते नर्मार्थं वै कृतं मया ||६||
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् |
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ||७||
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः |
नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ||८||
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत |
श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ||९||
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः |
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ||१०||
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः |
स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ||११||
अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः |
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ||१२||
ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः |
वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ||१३||
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् |
ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ||१४||
क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव |
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ||१५||
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो |
जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ||१६||
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि |
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ||१७||
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ||१७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
012-अध्यायः
रुरुरुवाच||
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः |
सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ||१||
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे |
आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ||२||
ऋषिरुवाच||
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् |
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ||३||
सूत उवाच||
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः |
तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ||४||
लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा |
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ||५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
013-अध्यायः-आस्तीकपर्व
शौनक उवाच||
किमर्थं राजशार्दूलः स राजा जनमेजयः |
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ||१||
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः |
मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ||२||
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् |
स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ||३||
सूत उवाच||
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज |
सर्वमेतदशेषेण शृणु मे वदतां वर ||४||
शौनक उवाच||
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् |
आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ||५||
सूत उवाच||
इतिहासमिमं वृद्धाः पुराणं परिचक्षते |
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ||६||
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः |
शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ||७||
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् |
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ||८||
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः |
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ||९||
जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः |
यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ||१०||
अटमानः कदाचित्स स्वान्ददर्श पितामहान् |
लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ||११||
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् |
के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ||१२||
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते |
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ||१३||
पितर ऊचुः||
यायावरा नाम वयमृषयः संशितव्रताः |
सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ||१४||
अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः |
मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ||१५||
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति |
तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ||१६||
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा |
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ||१७||
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः |
किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ||१८||
जरत्कारुरुवाच||
मम पूर्वे भवन्तो वै पितरः सपितामहाः |
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ||१९||
पितर ऊचुः||
यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः |
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ||२०||
न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः |
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ||२१||
तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु |
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ||२२||
जरत्कारुरुवाच||
न दारान्वै करिष्यामि सदा मे भावितं मनः |
भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ||२३||
समयेन च कर्ताहमनेन विधिपूर्वकम् |
तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ||२४||
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः |
भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ||२५||
दरिद्राय हि मे भार्यां को दास्यति विशेषतः |
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ||२६||
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः |
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ||२७||
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै |
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ||२८||
सूत उवाच||
ततो निवेशाय तदा स विप्रः संशितव्रतः |
महीं चचार दारार्थी न च दारानविन्दत ||२९||
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् |
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ||३०||
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा |
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ||३१||
सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि |
मनो निविष्टमभवज्जरत्कारोर्महात्मनः ||३२||
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः |
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ||३३||
वासुकिरुवाच||
जरत्कारो जरत्कारुः स्वसेयमनुजा मम |
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ||३४||
सूत उवाच||
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर |
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ||३५||
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः |
स्वसारमृषये तस्मै सुव्रताय तपस्विने ||३६||
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा |
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ||३७||
तपस्वी च महात्मा च वेदवेदाङ्गपारगः |
समः सर्वस्य लोकस्य पितृमातृभयापहः ||३८||
अथ कालस्य महतः पाण्डवेयो नराधिपः |
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ||३९||
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै |
मोचयामास तं शापमास्तीकः सुमहायशाः ||४०||
नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् |
पितृंश्च तारयामास सन्तत्या तपसा तथा ||४१||
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ||४१||
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः |
ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ||४२||
अपहृत्य गुरुं भारं पितृणां संशितव्रतः |
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ||४३||
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः |
जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ||४४||
एतदाख्यानमास्तीकं यथावत्कीर्तितं मया |
प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ||४५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
014-अध्यायः
शौनक उवाच||
सौते कथय तामेतां विस्तरेण कथां पुनः |
आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ||१||
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया |
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ||२||
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव |
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ||३||
सूत उवाच||
आयुष्यमिदमाख्यानमास्तीकं कथयामि ते |
यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ||४||
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे |
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ||५||
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह |
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ||६||
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ||६||
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते |
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ||७||
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः |
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ||८||
ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ||८||
तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् |
एवमस्त्विति तं चाह कश्यपं विनता तदा ||९||
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ |
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ||१०||
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः |
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ||११||
कालेन महता कद्रूरण्डानां दशतीर्दश |
जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ||१२||
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः |
सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ||१३||
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः |
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ||१४||
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी |
अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ||१५||
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता |
स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ||१६||
योऽहमेवं कृतो मातस्त्वया लोभपरीतया |
शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ||१७||
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह |
एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ||१८||
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् |
न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ||१९||
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया |
विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ||२०||
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः |
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ||२१||
गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः |
स जातमात्रो विनतां परित्यज्य खमाविशत् ||२२||
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् |
विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ||२३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
015-अध्यायः
सूत उवाच||
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन |
अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ||१||
यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् |
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ||२||
महौघबलमश्वानामुत्तमं जवतां वरम् |
श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ||३||
शौनक उवाच||
कथं तदमृतं देवैर्मथितं क्व च शंस मे |
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ||४||
सूत उवाच||
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् |
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ||५||
काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् |
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ||६||
व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् |
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ||७||
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् |
नानापतगसङ्घैश्च नादितं सुमनोहरैः ||८||
तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् |
अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ||९||
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः |
अमृतार्थे समागम्य तपोनियमसंस्थिताः ||१०||
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् |
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ||११||
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः |
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ||१२||
सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि |
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ||१३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
016-अध्यायः
सूत उवाच||
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् |
मन्दरं पर्वतवरं लताजालसमावृतम् ||१||
नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम् |
किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ||२||
एकादश सहस्राणि योजनानां समुच्छ्रितम् |
अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ||३||
तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा |
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ||४||
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् |
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ||५||
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव |
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ||६||
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ||६||
अथ पर्वतराजानं तमनन्तो महाबलः |
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ||७||
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे |
तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ||८||
अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः |
सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ||९||
ऊचुश्च कूर्मराजानमकूपारं सुरासुराः |
गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ||१०||
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् |
तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ||११||
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् |
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ||१२||
अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ||१२||
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः |
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ||१३||
अनन्तो भगवान्देवो यतो नारायणस्ततः |
शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ||१४||
वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः |
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ||१५||
ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः |
अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ||१६||
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः |
सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ||१७||
बभूवात्र महाघोषो महामेघरवोपमः |
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ||१८||
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा |
विलयं समुपाजग्मुः शतशो लवणाम्भसि ||१९||
वारुणानि च भूतानि विविधानि महीधरः |
पातालतलवासीनि विलयं समुपानयत् ||२०||
तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् |
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ||२१||
तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः |
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ||२२||
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् |
विगतासूनि सर्वाणि सत्त्वानि विविधानि च ||२३||
तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः |
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ||२४||
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि |
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ||२५||
तेषाममृतवीर्याणां रसानां पयसैव च |
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ||२६||
अथ तस्य समुद्रस्य तज्जातमुदकं पयः |
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ||२७||
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् |
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ||२८||
ऋते नारायणं देवं दैत्या नागोत्तमास्तथा |
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ||२९||
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् |
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ||३०||
विष्णुरुवाच||
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः |
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ||३१||
सूत उवाच||
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः |
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ||३२||
ततः शतसहस्रांशुः समान इव सागरात् |
प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ||३३||
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी |
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ||३४||
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः |
मरीचिविकचः श्रीमान्नारायण उरोगतः ||३५||
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः |
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ||३६||
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत |
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ||३७||
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः |
अमृतार्थे महान्नादो ममेदमिति जल्पताम् ||३८||
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः |
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ||३९||
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः |
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ||४०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
017-अध्यायः
सूत उवाच||
अथावरणमुख्यानि नानाप्रहरणानि च |
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ||१||
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् |
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ||२||
ततो देवगणाः सर्वे पपुस्तदमृतं तदा |
विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ||३||
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् |
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ||४||
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा |
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ||५||
ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् |
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ||६||
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् |
चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ||७||
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै |
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ||८||
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः |
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ||९||
ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः |
सुराणामसुराणां च सर्वघोरतरो महान् ||१०||
प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः |
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ||११||
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु |
असिशक्तिगदारुग्णा निपेतुर्धरणीतले ||१२||
छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे |
तप्तकाञ्चनजालानि निपेतुरनिशं तदा ||१३||
रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः |
अद्रीणामिव कूटानि धातुरक्तानि शेरते ||१४||
हाहाकारः समभवत्तत्र तत्र सहस्रशः |
अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ||१५||
परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः |
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ||१६||
छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च |
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ||१७||
एवं सुतुमुले युद्धे वर्तमाने भयावहे |
नरनारायणौ देवौ समाजग्मतुराहवम् ||१८||
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि |
चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ||१९||
ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् |
विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ||२०||
तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः |
मुमोच वै चपलमुदग्रवेगव; न्महाप्रभं परनगरावदारणम् ||२१||
तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा |
विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ||२२||
दहत्क्वचिज्ज्वलन इवावलेलिह; त्प्रसह्य तानसुरगणान्न्यकृन्तत |
प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ||२३||
अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा |
महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ||२४||
अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः |
महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ||२५||
ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः |
परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ||२६||
नरस्ततो वरकनकाग्रभूषणै; र्महेषुभिर्गगनपथं समावृणोत् |
विदारयन्गिरिशिखराणि पत्रिभि; र्महाभयेऽसुरगणविग्रहे तदा ||२७||
ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः |
वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ||२८||
ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः |
विनाद्य खं दिवमपि चैव सर्वश; स्ततो गताः सलिलधरा यथागतम् ||२९||
ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् |
ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ||३०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
018-अध्यायः
सूत उवाच||
एतत्ते सर्वमाख्यातममृतं मथितं यथा |
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ||१||
यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् |
उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ||२||
विनतोवाच||
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे |
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ||३||
कद्रूरुवाच||
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते |
एहि सार्धं मया दीव्य दासीभावाय भामिनि ||४||
सूत उवाच||
एवं ते समयं कृत्वा दासीभावाय वै मिथः |
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ||५||
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती |
आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ||६||
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा |
तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ||७||
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति |
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ||८||
शापमेनं तु शुश्राव स्वयमेव पितामहः |
अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ||९||
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत |
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ||१०||
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः |
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ||११||
प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ||११||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
019-अध्यायः
सूत उवाच||
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ |
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ||१||
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा |
जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ||२||
ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् |
तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ||३||
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् |
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ||४||
आकरं सर्वरत्नानामालयं वरुणस्य च |
नागानामालयं रम्यमुत्तमं सरितां पतिम् ||५||
पातालज्वलनावासमसुराणां च बन्धनम् |
भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ||६||
शुभं दिव्यममर्त्यानाममृतस्याकरं परम् |
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ||७||
घोरं जलचरारावरौद्रं भैरवनिस्वनम् |
गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ||८||
वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् |
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ||९||
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् |
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ||१०||
गां विन्दता भगवता गोविन्देनामितौजसा |
वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ||११||
ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा |
अनासादितगाधं च पातालतलमव्ययम् ||१२||
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः |
युगादिकालशयनं विष्णोरमिततेजसः ||१३||
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् |
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ||१४||
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः |
अभिसार्यमाणमनिशं ददृशाते महार्णवम् ||१५||
गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः |
विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ||१६||
इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् |
पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ||१७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
020-अध्यायः
सूत उवाच||
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह |
न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ||१||
निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् |
विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ||२||
ततः सा विनता तस्मिन्पणितेन पराजिता |
अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ||३||
एतस्मिन्नन्तरे चैव गरुडः काल आगते |
विना मात्रा महातेजा विदार्याण्डमजायत ||४||
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः |
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ||५||
तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् |
प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ||६||
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि |
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ||७||
अग्निरुवाच||
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः |
गरुडो बलवानेष मम तुल्यः स्वतेजसा ||८||
सूत उवाच||
एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् |
अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ||९||
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः |
त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ||१०||
बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव |
तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ||११||
त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे |
समाक्षिपन्भानुमतः प्रभां मुहु; स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ||१२||
दिवाकरः परिकुपितो यथा दहे; त्प्रजास्तथा दहसि हुताशनप्रभ |
भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ||१३||
खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् |
महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ||१४||
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा |
तेजसः प्रतिसंहारमात्मनः स चकार ह ||१५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
021-अध्यायः
सूत उवाच||
ततः कामगमः पक्षी महावीर्यो महाबलः |
मातुरन्तिकमागच्छत्परं तीरं महोदधेः ||१||
यत्र सा विनता तस्मिन्पणितेन पराजिता |
अतीव दुःखसन्तप्ता दासीभावमुपागता ||२||
ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ |
काल आहूय वचनं कद्रूरिदमभाषत ||३||
नागानामालयं भद्रे सुरम्यं रमणीयकम् |
समुद्रकुक्षावेकान्ते तत्र मां विनते वह ||४||
ततः सुपर्णमाता तामवहत्सर्पमातरम् |
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ||५||
स सूर्यस्याभितो याति वैनतेयो विहङ्गमः |
सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ||६||
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ||६||
नमस्ते देवदेवेश नमस्ते बलसूदन |
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ||७||
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव |
त्वमेव परमं त्राणमस्माकममरोत्तम ||८||
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर |
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ||९||
त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् |
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ||१०||
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः |
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ||११||
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः |
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ||१२||
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः |
त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ||१३||
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा |
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ||१४||
त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा |
महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ||१५||
महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः |
अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ||१६||
त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च |
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ||१७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
022-अध्यायः
सूत उवाच||
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः |
नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ||१||
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः |
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ||२||
सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः |
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ||३||
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः |
मेघस्तनितनिर्घोषमम्बरं समपद्यत ||४||
नागानामुत्तमो हर्शस्तदा वर्षति वासवे |
आपूर्यत मही चापि सलिलेन समन्ततः ||५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
023-अध्यायः
सूत उवाच||
सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै |
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ||१||
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् |
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ||२||
प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् |
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ||३||
उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि |
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ||४||
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः |
मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ||५||
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ||५||
तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा |
अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ||६||
वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् |
त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ||७||
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा |
किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ||८||
विनतोवाच||
दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम |
पणं वितथमास्थाय सर्पैरुपधिना कृतम् ||९||
सूत उवाच||
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः |
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ||१०||
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् |
दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ||११||
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा |
ततो दास्याद्विप्रमोक्षो भविता तव खेचर ||१२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
024-अध्यायः
सूत उवाच||
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् |
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ||१||
विनतोवाच||
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् |
सहस्राणामनेकानां तान्भुक्त्वामृतमानय ||२||
न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन |
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ||३||
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः |
भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ||४||
गरुड उवाच||
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः |
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ||५||
विनतोवाच||
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा |
दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ||६||
सूत उवाच||
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः |
जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ||७||
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक |
शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ||८||
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा |
अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ||९||
ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात |
ततो निषादान्बलवानुपागम; द्बुभुक्षितः काल इवान्तको महान् ||१०||
स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् |
समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ||११||
ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् |
ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ||१२||
तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः |
सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ||१३||
ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः |
निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ||१४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
025-अध्यायः
सूत उवाच||
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया |
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ||१||
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् |
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ||२||
ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत |
निषादी मम भार्येयं निर्गच्छतु मया सह ||३||
गरुड उवाच||
एतामपि निषादीं त्वं परिगृह्याशु निष्पत |
तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ||४||
सूत उवाच||
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा |
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ||५||
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् |
वितत्य पक्षावाकाशमुत्पपात मनोजवः ||६||
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः |
अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ||७||
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ||७||
मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै |
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ||८||
तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे |
यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ||९||
कश्यप उवाच||
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् |
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ||१०||
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः |
विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ||११||
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः |
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ||१२||
ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ||१२||
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः |
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ||१३||
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ |
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ||१४||
तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः |
गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ||१५||
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि |
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ||१६||
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् |
त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ||१७||
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू |
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ||१८||
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि |
परस्परद्वेषरतौ प्रमाणबलदर्पितौ ||१९||
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ |
तयोरेकतरः श्रीमान्समुपैति महागजः ||२०||
तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः |
उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ||२१||
तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् |
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ||२२||
तं विक्षोभयमाणं तु सरो बहुझषाकुलम् |
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ||२३||
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः |
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ||२४||
तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ |
उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ||२५||
सूत उवाच||
स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः |
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ||२६||
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः |
सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ||२७||
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः |
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ||२८||
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् |
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ||२९||
काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः |
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ||३०||
तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः |
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ||३१||
यैषा मम महाशाखा शतयोजनमायता |
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ||३२||
ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् |
खगोत्तमो द्रुतमभिपत्य वेगवा; न्बभञ्ज तामविरलपत्रसंवृताम् ||३३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
026-अध्यायः
सूत उवाच||
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा |
अभज्यत तरोः शाखा भग्नां चैनामधारयत् ||१||
तां भग्नां स महाशाखां स्मयन्समवलोकयन् |
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ||२||
स तद्विनाशसन्त्रासादनुपत्य खगाधिपः |
शाखामास्येन जग्राह तेषामेवान्ववेक्षया ||३||
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ||३||
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः |
दयार्थं वालखिल्यानां न च स्थानमविन्दत ||४||
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् |
ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ||५||
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् |
तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ||६||
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् |
अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ||७||
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् |
अप्रधृष्यमजेयं च देवदानवराक्षसैः ||८||
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् |
लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ||९||
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा |
विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ||१०||
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् |
मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ||११||
प्रसादयामास स तान्कश्यपः पुत्रकारणात् |
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ||१२||
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः |
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ||१३||
एवमुक्ता भगवता मुनयस्ते समभ्ययुः |
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ||१४||
ततस्तेष्वपयातेषु पितरं विनतात्मजः |
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ||१५||
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् |
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ||१६||
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् |
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ||१७||
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः |
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ||१८||
न तां वध्रः परिणहेच्छतचर्मा महानणुः |
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ||१९||
ततः स शतसाहस्रं योजनान्तरमागतः |
कालेन नातिमहता गरुडः पततां वरः ||२०||
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः |
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ||२१||
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् |
मुमोच पुष्पवर्षं च समागलितपादपः ||२२||
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः |
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ||२३||
शाखिनो बहवश्चापि शाखयाभिहतास्तया |
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ||२४||
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः |
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ||२५||
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः |
भक्षयामास गरुडस्तावुभौ गजकच्छपौ ||२६||
ततः पर्वतकूटाग्रादुत्पपात मनोजवः |
प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ||२७||
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् |
सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ||२८||
तथा वसूनां रुद्राणामादित्यानां च सर्वशः |
साध्यानां मरुतां चैव ये चान्ये देवतागणाः ||२९||
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ||२९||
अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च |
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ||३०||
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् |
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ||३१||
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि |
उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ||३२||
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ||३२||
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः |
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ||३३||
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः |
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ||३४||
बृहस्पतिरुवाच||
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो |
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ||३५||
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः |
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ||३६||
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः |
सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ||३७||
सूत उवाच||
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः |
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ||३८||
युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् |
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ||३९||
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः |
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ||४०||
धारयन्तो महार्हाणि कवचानि मनस्विनः |
काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ||४१||
विविधानि च शस्त्राणि घोररूपाण्यनेकशः |
शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ||४२||
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः |
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ||४३||
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् |
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ||४४||
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः |
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ||४५||
अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य |
असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ||४६||
इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् |
विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ||४७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
027-अध्यायः
शौनक उवाच||
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज |
तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ||१||
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः |
अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ||२||
कथं च कामचारी स कामवीर्यश्च खेचरः |
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ||३||
सूत उवाच||
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि |
शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ||४||
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः |
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ||५||
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह |
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ||६||
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् |
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ||७||
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः |
पलाशवृन्तिकामेकां सहितान्वहतः पथि ||८||
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् |
क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ||९||
तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः |
अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ||१०||
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः |
आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ||११||
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् |
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ||१२||
कामवीर्यः कामगमो देवराजभयप्रदः |
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ||१३||
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः |
तपसो नः फलेनाद्य दारुणः सम्भवत्विति ||१४||
तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः |
जगाम शरणं तत्र कश्यपं संशितव्रतम् ||१५||
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः |
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ||१६||
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः |
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ||१७||
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः |
इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ||१८||
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः |
भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ||१९||
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् |
प्रसादः क्रियतां चैव देवराजस्य याचतः ||२०||
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः |
प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ||२१||
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते |
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ||२२||
तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् |
तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ||२३||
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा |
विनता नाम कल्याणी पुत्रकामा यशस्विनी ||२४||
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः |
उपचक्राम भर्तारं तामुवाचाथ कश्यपः ||२५||
आरम्भः सफलो देवि भवितायं तवेप्सितः |
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ||२६||
तपसा वालखिल्यानां मम सङ्कल्पजौ तथा |
भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ||२७||
उवाच चैनां भगवान्मारीचः पुनरेव ह |
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ||२८||
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति |
लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ||२९||
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः |
त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ||३०||
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर |
व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ||३१||
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः |
न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ||३२||
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् |
विनता चापि सिद्धार्था बभूव मुदिता तदा ||३३||
जनयामास पुत्रौ द्वावरुणं गरुडं तथा |
अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ||३४||
पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत |
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ||३५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
028-अध्यायः
सूत उवाच||
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे |
गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति ||१||
तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः |
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ||२||
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः |
भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ||३||
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः |
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ||४||
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः |
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ||५||
तेनावकीर्णा रजसा देवा मोहमुपागमन् |
न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ||६||
एवं संलोडयामास गरुडस्त्रिदिवालयम् |
पक्षतुण्डप्रहारैश्च देवान्स विददार ह ||७||
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् |
विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ||८||
अथ वायुरपोवाह तद्रजस्तरसा बली |
ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ||९||
ननाद चोच्चैर्बलवान्महामेघरवः खगः |
वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ||१०||
उत्पपात महावीर्यः पक्षिराट्परवीरहा ||१०||
तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् |
वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ||११||
पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः |
क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ||१२||
नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः |
कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ||१३||
विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् |
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ||१४||
ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः |
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ||१५||
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् |
प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ||१६||
दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् |
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ||१७||
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा |
क्रथनेन च शूरेण तपनेन च खेचरः ||१८||
उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा |
प्ररुजेन च संयुद्धं चकार प्रलिहेन च ||१९||
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः |
युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ||२०||
महावीर्या महोत्साहास्तेन ते बहुधा क्षताः |
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ||२१||
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् |
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ||२२||
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् |
दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ||२३||
ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा |
नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन ||२४||
ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः |
ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य ||२५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
029-अध्यायः
सूत उवाच||
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः |
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ||१||
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके |
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ||२||
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् |
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ||३||
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः |
अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ||४||
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती |
विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ||५||
चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ |
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ||६||
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ |
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ||७||
तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् |
अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ||८||
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः |
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ||९||
समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली |
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ||१०||
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् |
अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ||११||
विष्णुना तु तदाकाशे वैनतेयः समेयिवान् |
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ||१२||
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् |
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ||१३||
उवाच चैनं भूयोऽपि नारायणमिदं वचः |
अजरश्चामरश्च स्याममृतेन विनाप्यहम् ||१४||
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् |
भवतेऽपि वरं दद्मि वृणीतां भगवानपि ||१५||
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् |
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ||१६||
अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् |
विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ||१७||
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः |
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ||१८||
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् |
वज्रस्य च करिष्यामि तव चैव शतक्रतो ||१९||
एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे |
न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ||२०||
तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा |
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ||२१||
दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः |
खगो महदिदं भूतमिति मत्वाभ्यभाषत ||२२||
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् |
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ||२३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
030-अध्यायः
गरुड उवाच||
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर |
बलं तु मम जानीहि महच्चासह्यमेव च ||१||
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् |
गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ||२||
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया |
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ||३||
सपर्वतवनामुर्वीं ससागरवनामिमाम् |
पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ||४||
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् |
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ||५||
सूत उवाच||
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः |
आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ||६||
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् |
न कार्यं तव सोमेन मम सोमः प्रदीयताम् ||७||
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ||७||
गरुड उवाच||
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया |
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ||८||
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् |
त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ||९||
शक्र उवाच||
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज |
यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ||१०||
सूत उवाच||
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् |
स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ||११||
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् |
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ||१२||
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः |
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ||१३||
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् |
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ||१४||
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः |
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ||१५||
अदासी चैव मातेयमद्यप्रभृति चास्तु मे |
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ||१६||
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत |
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ||१७||
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा |
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ||१८||
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् |
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ||१९||
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा |
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ||२०||
ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने |
भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ||२१||
इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि |
असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ||२२||