श्रीमहाभारतम्
||१ आदिपर्वम् ||
102-अध्यायः भीष्म उवाच||
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् |
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ||१||
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः |
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ||२||
मया च सत्यवत्या च कृष्णेन च महात्मना |
समवस्थापितं भूयो युष्मासु कुलतन्तुषु ||३||
वर्धते तदिदं पुत्र कुलं सागरवद्यथा |
तथा मया विधातव्यं त्वया चैव विशेषतः ||४||
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः |
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ||५||
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः |
उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ||६||
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर |
सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ||७||
विदुर उवाच||
भवान्पिता भवान्माता भवान्नः परमो गुरुः |
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ||८||
वैशम्पायन उवाच||
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् |
आराध्य वरदं देवं भगनेत्रहरं हरम् ||९||
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ||९||
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः |
ततो गान्धारराजस्य प्रेषयामास भारत ||१०||
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा |
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ||११||
ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ||११||
गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् |
आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ||१२||
ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा |
बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ||१३||
नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ||१३||
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् |
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ||१४||
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् |
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ||१५||
गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः |
तुष्टिं कुरूणां सर्वेषां जनयामास भारत ||१६||
वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा |
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ||१७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
103-अध्यायः
वैशम्पायन उवाच||
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् |
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ||१||
पैतृष्वसेयाय स तामनपत्याय वीर्यवान् |
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ||२||
अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे |
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ||३||
सा नियुक्ता पितुर्गेहे देवतातिथिपूजने |
उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ||४||
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः |
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ||५||
तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया |
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ||६||
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि |
तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ||७||
तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा |
कन्या सती देवमर्कमाजुहाव यशस्विनी ||८||
सा ददर्श तमायान्तं भास्करं लोकभावनम् |
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ||९||
प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः |
अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ||१०||
आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ||१०||
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः |
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ||११||
प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः |
दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ||१२||
गूहमानापचारं तं बन्धुपक्षभयात्तदा |
उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ||१३||
तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः |
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ||१४||
नामधेयं च चक्राते तस्य बालस्य तावुभौ |
वसुना सह जातोऽयं वसुषेणो भवत्विति ||१५||
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् |
आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ||१६||
यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः |
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ||१७||
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः |
कुण्डले प्रार्थयामास कवचं च महाद्युतिः ||१८||
उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् |
कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ||१९||
शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् |
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ||२०||
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ||२०||
पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् |
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ||२१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
104-अध्यायः
वैशम्पायन उवाच||
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता |
दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ||१||
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् |
भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ||२||
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः |
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ||३||
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् |
विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ||४||
सर्वराजसु विख्याता रूपेणासदृशी भुवि |
पाण्डोरर्थे परिक्रीता धनेन महता तदा ||५||
विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ||५||
सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् |
पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ||६||
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः |
जिगीषमाणो वसुधां ययौ शत्रूननेकशः ||७||
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः |
पाण्डुना नरसिंहेन कौरवाणां यशोभृता ||८||
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् |
प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ||९||
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् |
गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ||१०||
ततः कोशं समादाय वाहनानि बलानि च |
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ||११||
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ |
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ||१२||
तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् |
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ||१३||
ते ससेनाः ससेनेन विध्वंसितबला नृपाः |
पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ||१४||
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः |
तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ||१५||
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः |
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ||१६||
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा |
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ||१७||
खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् |
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ||१८||
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः |
हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ||१९||
शन्तनो राजसिंहस्य भरतस्य च धीमतः |
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ||२०||
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च |
ते नागपुरसिंहेन पाण्डुना करदाः कृताः ||२१||
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः |
प्रतीतमनसो हृष्टाः पौरजानपदैः सह ||२२||
प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः |
ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ||२३||
आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ||२३||
नानायानसमानीतै रत्नैरुच्चावचैस्तथा |
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ||२४||
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ||२४||
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः |
यथार्हं मानयामास पौरजानपदानपि ||२५||
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् |
पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ||२६||
स तूर्यशतसङ्घानां भेरीणां च महास्वनैः |
हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ||२७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
105-अध्यायः
वैशम्पायन उवाच||
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् |
भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ||१||
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् |
सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ||२||
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् |
शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ||३||
ननन्द माता कौसल्या तमप्रतिमतेजसम् |
जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ||४||
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः |
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ||५||
सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ |
जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ||६||
हित्वा प्रासादनिलयं शुभानि शयनानि च |
अरण्यनित्यः सततं बभूव मृगयापरः ||७||
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः |
उवास गिरिपृष्ठेषु महाशालवनेषु च ||८||
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् |
करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ||९||
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् |
विचित्रकवचं वीरं परमास्त्रविदं नृपम् ||१०||
देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ||१०||
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः |
उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ||११||
अथ पारशवीं कन्यां देवकस्य महीपतेः |
रूपयौवनसम्पन्नां स शुश्रावापगासुतः ||१२||
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः |
विवाहं कारयामास विदुरस्य महामतेः ||१३||
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः |
पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ||१४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
106-अध्यायः
वैशम्पायन उवाच||
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय |
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ||१||
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः |
देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ||२||
जनमेजय उवाच||
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम |
कियता चैव कालेन तेषामायुश्च किं परम् ||३||
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् |
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ||४||
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ||४||
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना |
समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ||५||
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन |
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ||६||
वैशम्पायन उवाच||
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् |
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ||७||
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः |
ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ||८||
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् |
अप्रजा धारयामास ततस्तां दुःखमाविशत् ||९||
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् |
उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ||१०||
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः |
सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ||११||
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता |
द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ||१२||
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् |
तां स मांसमयीं पेशीं ददर्श जपतां वरः ||१३||
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् |
सा चात्मनो मतं सत्यं शशंस परमर्षये ||१४||
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् |
दुःखेन परमेणेदमुदरं पातितं मया ||१५||
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा |
इयं च मे मांसपेशी जाता पुत्रशताय वै ||१६||
व्यास उवाच||
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् |
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ||१७||
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् |
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ||१८||
वैशम्पायन उवाच||
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा |
अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ||१९||
एकाधिकशतं पूर्णं यथायोगं विशां पते |
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ||२०||
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा |
स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ||२१||
शशास चैव भगवान्कालेनैतावता पुनः |
विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ||२२||
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च |
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ||२३||
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः |
जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ||२४||
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् |
समानीय बहून्विप्रान्भीष्मं विदुरमेव च ||२५||
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः |
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ||२६||
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति |
एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ||२७||
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत |
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ||२८||
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः |
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ||२९||
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव |
तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ||३०||
शतमेकोनमप्यस्तु पुत्राणां ते महीपते |
एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ||३१||
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् |
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||३२||
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः |
न चकार तथा राजा पुत्रस्नेहसमन्वितः ||३३||
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव |
मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ||३४||
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता |
धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ||३५||
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः |
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ||३६||
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः |
महारथानां वीराणां कन्या चैकाथ दुःशला ||३७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
107-अध्यायः
जनमेजय उवाच||
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो |
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ||१||
वैशम्पायन उवाच||
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा |
दुःसहो दुःशलश्चैव जलसन्धः समः सहः ||२||
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः |
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ||३||
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः |
चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ||४||
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः |
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ||५||
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ |
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ||६||
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः |
भीमवेगो भीमबलो बलाकी बलवर्धनः ||७||
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः |
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ||८||
दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् |
उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ||९||
अपराजितः पण्डितको विशालाक्षो दुरावरः |
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ||१०||
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ |
कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ||११||
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः |
अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ||१२||
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः |
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ||१३||
कुण्डाशी विरजाश्चैव दुःशला च शताधिका |
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ||१४||
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप |
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ||१५||
सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः |
सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ||१६||
सर्वेषामनुरूपाश्च कृता दारा महीपते |
धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ||१७||
दुःशलां समये राजा सिन्धुराजाय भारत |
जयद्रथाय प्रददौ सौबलानुमते तदा ||१८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
108-अध्यायः
जनमेजय उवाच||
कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः |
अमानुषो मानुषाणां भवता ब्रह्मवित्तम ||१||
नामधेयानि चाप्येषां कथ्यमानानि भागशः |
त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ||२||
ते हि सर्वे महात्मानो देवराजपराक्रमाः |
त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ||३||
तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् |
तेषामाजननं सर्वं वैशम्पायन कीर्तय ||४||
वैशम्पायन उवाच||
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते |
वने मैथुनकालस्थं ददर्श मृगयूथपम् ||५||
ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः |
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ||६||
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः |
भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ||७||
संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् |
क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ||८||
मृग उवाच||
काममन्युपरीतापि बुद्ध्यङ्गरहितापि च |
वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ||९||
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः |
विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ||१०||
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत |
कामलोभाभिभूतस्य कथं ते चलिता मतिः ||११||
पाण्डुरुवाच||
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता |
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ||१२||
अच्छद्मनामायया च मृगाणां वध इष्यते |
स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ||१३||
अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः |
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ||१४||
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे |
अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ||१५||
मृग उवाच||
न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् |
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ||१६||
पाण्डुरुवाच||
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा |
उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ||१७||
मृग उवाच||
नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् |
मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ||१८||
सर्वभूतहिते काले सर्वभूतेप्सिते तथा |
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ||१९||
पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ||१९||
पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् |
वंशे जातस्य कौरव्य नानुरूपमिदं तव ||२०||
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् |
अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ||२१||
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् |
नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ||२२||
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः |
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ||२३||
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् |
मुनिं मूलफलाहारं मृगवेषधरं नृप ||२४||
वसमानमरण्येषु नित्यं शमपरायणम् ||२४||
त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् |
द्वयोर्नृशंसकर्तारमवशं काममोहितम् ||२५||
जीवितान्तकरो भाव एवमेवागमिष्यति ||२५||
अहं हि किंदमो नाम तपसाप्रतिमो मुनिः |
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ||२६||
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने |
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ||२७||
मृगरूपधरं हत्वा मामेवं काममोहितम् ||२७||
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि |
प्रियया सह संवासं प्राप्य कामविमोहितः ||२८||
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ||२८||
अन्तकाले च संवासं यया गन्तासि कान्तया |
प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ||२९||
भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ||२९||
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया |
तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ||३०||
वैशम्पायन उवाच||
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत |
मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ||३१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
109-अध्यायः
वैशम्पायन उवाच||
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् |
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ||१||
पाण्डुरुवाच||
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् |
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ||२||
शश्वद्धर्मात्मना जातो बाल एव पिता मम |
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ||३||
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः |
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ||४||
तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा |
त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ||५||
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् |
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ||६||
अतीव तपसात्मानं योजयिष्याम्यसंशयम् ||६||
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ |
चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ||७||
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः |
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ||८||
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः |
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ||९||
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् |
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ||१०||
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् |
स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ||११||
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च |
असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ||१२||
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् |
नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ||१३||
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः |
नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ||१४||
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् |
मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ||१५||
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः |
ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ||१६||
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः |
सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ||१७||
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः |
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ||१८||
एतया सततं वृत्त्या चरन्नेवम्प्रकारया |
देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ||१९||
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते |
स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ||२०||
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा |
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ||२१||
वैशम्पायन उवाच||
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः |
अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ||२२||
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः |
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ||२३||
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः |
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ||२४||
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ||२४||
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः |
तत्समं वचनं कुन्ती माद्री च समभाषताम् ||२५||
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ |
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ||२६||
त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ||२६||
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे |
त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ||२७||
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते |
अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ||२८||
पाण्डुरुवाच||
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् |
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ||२९||
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः |
वल्कली फलमूलाशी चरिष्यामि महावने ||३०||
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् |
कृशः परिमिताहारश्चीरचर्मजटाधरः ||३१||
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः |
तपसा दुश्चरेणेदं शरीरमुपशोषयन् ||३२||
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् |
पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ||३३||
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् |
नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ||३४||
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् |
काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ||३५||
वैशम्पायन उवाच||
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः |
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ||३६||
वासांसि च महार्हाणि स्त्रीणामाभरणानि च ||३६||
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत |
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ||३७||
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् |
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ||३८||
ततस्तस्यानुयात्राणि ते चैव परिचारकाः |
श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ||३९||
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ||३९||
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् |
ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ||४०||
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने |
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ||४१||
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः |
जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ||४२||
स चैत्ररथमासाद्य वारिषेणमतीत्य च |
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ||४३||
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः |
उवास स तदा राजा समेषु विषमेषु च ||४४||
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च |
शतशृङ्गे महाराज तापसः समपद्यत ||४५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
110-अध्यायः
वैशम्पायन उवाच||
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् |
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ||१||
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः |
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ||२||
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा |
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ||३||
स तु कालेन महता प्राप्य निष्कल्मषं तपः |
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ||४||
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः |
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ||५||
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ||५||
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् |
आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ||६||
उद्यानानि कुबेरस्य समानि विषमाणि च |
महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ||७||
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः |
सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ||८||
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः |
वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ||९||
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे |
न सीदेतामदुःखार्हे मा गमो भरतर्षभ ||१०||
पाण्डुरुवाच||
अप्रजस्य महाभागा न द्वारं परिचक्षते |
स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ||११||
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि |
पितृदेवर्षिमनुजदेयैः शतसहस्रशः ||१२||
एतानि तु यथाकालं यो न बुध्यति मानवः |
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ||१३||
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् |
पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ||१४||
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः |
पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ||१५||
देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः |
इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ||१६||
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना |
तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ||१७||
तापसा ऊचुः||
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् |
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ||१८||
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय |
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ||१९||
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि |
अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ||२०||
वैशम्पायन उवाच||
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् |
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ||२१||
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् |
अपत्योत्पादने योगमापदि प्रसमर्थयन् ||२२||
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता |
इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ||२३||
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः |
सर्वमेवानपत्यस्य न पावनमिहोच्यते ||२४||
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते |
अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ||२५||
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः |
नृशंसकारिणो भीरु यथैवोपहतं तथा ||२६||
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने |
षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ||२७||
स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः |
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ||२८||
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः |
सहोढो जातरेताश्च हीनयोनिधृतश्च यः ||२९||
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् |
उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ||३०||
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः |
आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ||३१||
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् |
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ||३२||
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति |
या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ||३३||
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे |
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ||३४||
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् |
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ||३५||
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् |
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ||३६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
111-अध्यायः
वैशम्पायन उवाच||
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत |
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ||१||
न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन |
धर्मपत्नीमभिरतां त्वयि राजीवलोचन ||२||
त्वमेव तु महाबाहो मय्यपत्यानि भारत |
वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ||३||
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया |
अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ||४||
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् |
त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ||५||
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् |
परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ||६||
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः |
पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ||७||
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि |
उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ||८||
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः |
व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ||९||
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत |
सर्वभूतान्यति यथा तपनः शिशिरात्यये ||१०||
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः |
प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ||११||
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् |
बभूव स हि राजेन्द्रो दशनागबलान्वितः ||१२||
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः |
व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ||१३||
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ||१३||
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् |
अनन्तरत्नान्यादाय आजहार महाक्रतून् ||१४||
सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ||१४||
आसीत्काक्षीवती चास्य भार्या परमसंमता |
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ||१५||
कामयामासतुस्तौ तु परस्परमिति श्रुतिः |
स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ||१६||
तेनाचिरेण कालेन जगामास्तमिवांशुमान् |
तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ||१७||
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् |
भद्रा परमदुःखार्ता तन्निबोध नराधिप ||१८||
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता |
पतिं विना जीवति या न सा जीवति दुःखिता ||१९||
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव |
त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ||२०||
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे |
प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ||२१||
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च |
त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ||२२||
छायेवानपगा राजन्सततं वशवर्तिनी |
भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ||२३||
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः |
आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ||२४||
अभाग्यया मया नूनं वियुक्ताः सहचारिणः |
संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ||२५||
तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् |
दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ||२६||
अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी |
भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ||२७||
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् |
दीनामनाथां कृपणां विलपन्तीं नरेश्वर ||२८||
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः |
तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् ||२९||
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव |
जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ||३०||
आत्मीये च वरारोहे शयनीये चतुर्दशीम् |
अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ||३१||
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता |
यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ||३२||
सा तेन सुषुवे देवी शवेन मनुजाधिप |
त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ||३३||
तथा त्वमपि मय्येव मनसा भरतर्षभ |
शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ||३४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
112-अध्यायः
वैशम्पायन उवाच||
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् |
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ||१||
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह |
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ||२||
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे |
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ||३||
अनावृताः किल पुरा स्त्रिय आसन्वरानने |
कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ||४||
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् |
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ||५||
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः |
अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ||६||
पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ||६||
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते |
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ||७||
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते |
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ||८||
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् |
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ||९||
मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् |
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ||१०||
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः |
जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ||११||
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा |
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ||१२||
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह |
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ||१३||
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि |
यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ||१४||
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे |
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ||१५||
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु |
तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ||१६||
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् |
भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ||१७||
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् |
पतिव्रतामेतदेव भविता पातकं भुवि ||१८||
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च |
न करिष्यति तस्याश्च भविष्यत्येतदेव हि ||१९||
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् |
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ||२०||
सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि |
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ||२१||
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी |
भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ||२२||
अस्माकमपि ते जन्म विदितं कमलेक्षणे |
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ||२३||
अत एतानि सर्वाणि कारणानि समीक्ष्य वै |
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ||२४||
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते |
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ||२५||
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति |
धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ||२६||
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा |
यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ||२७||
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् |
यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ||२८||
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे |
प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ||२९||
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् |
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ||३०||
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ||३०||
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् |
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ||३१||
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने |
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ||३२||
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः |
तमहं संशितात्मानं सर्वयत्नैरतोषयम् ||३३||
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् |
मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ||३४||
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि |
अकामो वा सकामो वा स ते वशमुपैष्यति ||३५||
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत |
ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ||३६||
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप |
तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ||३७||
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर |
त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ||३८||
पाण्डुरुवाच||
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि |
धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ||३९||
अधर्मेण न नो धर्मः संयुज्येत कथञ्चन |
लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ||४०||
धार्मिकश्च कुरूणां स भविष्यति न संशयः |
दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ||४१||
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते |
उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ||४२||
वैशम्पायन उवाच||
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना |
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ||४३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
113-अध्यायः
वैशम्पायन उवाच||
संवत्सराहिते गर्भे गान्धार्या जनमेजय |
आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ||१||
सा बलिं त्वरिता देवी धर्मायोपजहार ह |
जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ||२||
सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै |
लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ||३||
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे |
दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ||४||
समृद्धयशसं कुन्ती सुषाव समये सुतम् |
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ||५||
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः |
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ||६||
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः |
यशसा तेजसा चैव वृत्तेन च समन्वितः ||७||
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् |
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ||८||
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा |
तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ||९||
तमप्यतिबलं जातं वागभ्यवददच्युतम् |
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ||१०||
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे |
यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ||११||
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल |
नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ||१२||
ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ |
पतता तेन शतधा शिला गात्रैर्विचूर्णिता ||१३||
तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ||१३||
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम |
दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ||१४||
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् |
कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ||१५||
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः |
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ||१६||
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् |
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ||१७||
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् |
यं दास्यति स मे पुत्रं स वरीयान्भविष्यति ||१८||
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ||१८||
ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः |
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ||१९||
आत्मना च महाबाहुरेकपादस्थितोऽभवत् |
उग्रं स तप आतस्थे परमेण समाधिना ||२०||
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् |
सूर्येण सह धर्मात्मा पर्यवर्तत भारत ||२१||
तं तु कालेन महता वासवः प्रत्यभाषत |
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ||२२||
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् |
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ||२३||
इत्युक्तः कौरवो राजा वासवेन महात्मना |
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ||२४||
नीतिमन्तं महात्मानमादित्यसमतेजसम् |
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ||२५||
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् |
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ||२६||
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी |
अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ||२७||
जातमात्रे कुमारे तु वागुवाचाशरीरिणी |
महागम्भीरनिर्घोषा नभो नादयती तदा ||२८||
कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः |
एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ||२९||
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता |
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ||३०||
एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः |
चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ||३१||
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः |
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ||३२||
ग्रामणीश्च महीपालानेष जित्वा महाबलः |
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ||३३||
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः |
एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ||३४||
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति |
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ||३५||
एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके |
उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ||३६||
वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् |
बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ||३७||
तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् |
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ||३८||
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः |
समवेत्य च देवानां गणाः पार्थमपूजयन् ||३९||
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा |
प्रजानां पतयः सर्वे सप्त चैव महर्षयः ||४०||
भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः |
यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम ||४१||
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः |
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ||४२||
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः |
उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः ||४३||
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ||४३||
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा |
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ||४४||
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा |
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ||४५||
कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः |
सद्वा बृहद्वा बृहकः करालश्च महायशाः ||४६||
ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः |
विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ||४७||
गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू |
इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ||४८||
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः |
ननृतुर्वै महाभागा जगुश्चायतलोचनाः ||४९||
अनूना चानवद्या च प्रियमुख्या गुणावरा |
अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ||५०||
मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा |
अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ||५१||
असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा |
पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ||५२||
काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः |
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ||५३||
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि |
उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश ||५४||
उर्वश्येकादशीत्येता जगुरायतलोचनाः ||५४||
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा |
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ||५५||
पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः |
महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ||५६||
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः |
अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ||५७||
दहनोऽथेश्वरश्चैव कपाली च विशां पते |
स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ||५८||
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः |
विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ||५९||
कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः |
कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ||६०||
आययुस्तेजसा युक्ता महाक्रोधा महाबलाः |
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ||६१||
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः |
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ||६२||
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः |
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ||६३||
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः |
प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ||६४||
नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत |
अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ||६५||
स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् |
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ||६६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
114-अध्यायः
वैशम्पायन उवाच||
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च |
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ||१||
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप |
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ||२||
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा |
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ||३||
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता |
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ||४||
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि |
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ||५||
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति |
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ||६||
पाण्डुरुवाच||
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते |
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ||७||
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् |
मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ||८||
वैशम्पायन उवाच||
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् |
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ||९||
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः |
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ||१०||
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् |
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ||११||
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् |
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ||१२||
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः |
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ||१३||
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते |
अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ||१४||
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् |
तस्मात्ते भवितापत्यमनुरूपमसंशयम् ||१५||
ततो माद्री विचार्यैव जगाम मनसाश्विनौ |
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ||१६||
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि |
तथैव तावपि यमौ वागुवाचाशरीरिणी ||१७||
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति |
भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ||१८||
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः |
भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ||१९||
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् |
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ||२०||
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् |
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ||२१||
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ||२१||
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् |
तमुवाच पृथा राजन्रहस्युक्ता सती सदा ||२२||
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता |
बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ||२३||
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् |
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ||२४||
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः |
सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ||२५||
शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः |
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ||२६||
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ||२६||
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ |
विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ||२७||
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः |
सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ||२८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
115-अध्यायः
वैशम्पायन उवाच||
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने |
तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ||१||
सुपुष्पितवने काले कदाचिन्मधुमाधवे |
भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ||२||
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः |
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ||३||
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् |
पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ||४||
प्रहृष्टमनसं तत्र विहरन्तं यथामरम् |
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ||५||
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् |
तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ||६||
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् |
न शशाक नियन्तुं तं कामं कामबलात्कृतः ||७||
तत एनां बलाद्राजा निजग्राह रहोगताम् |
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ||८||
स तु कामपरीतात्मा तं शापं नान्वबुध्यत |
माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ||९||
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः |
शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ||१०||
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता |
सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ||११||
स तया सह सङ्गम्य भार्यया कुरुनन्दन |
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ||१२||
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् |
मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ||१३||
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ |
आजग्मुः सहितास्तत्र यत्र राजा तथागतः ||१४||
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः |
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ||१५||
तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् |
हताहमिति विक्रुश्य सहसोपजगाम ह ||१६||
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले |
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ||१७||
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् |
कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ||१८||
ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः |
सा कथं लोभितवती विजने त्वं नराधिपम् ||१९||
कथं दीनस्य सततं त्वामासाद्य रहोगताम् |
तं विचिन्तयतः शापं प्रहर्षः समजायत ||२०||
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा |
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ||२१||
माद्र्युवाच||
विलोभ्यमानेन मया वार्यमाणेन चासकृत् |
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ||२२||
कुन्त्युवाच||
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम |
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ||२३||
अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् |
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ||२४||
माद्र्युवाच||
अहमेवानुयास्यामि भर्तारमपलायिनम् |
न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ||२५||
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः |
तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ||२६||
न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते |
वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ||२७||
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् |
मां हि कामयमानोऽयं राजा प्रेतवशं गतः ||२८||
राज्ञः शरीरेण सह ममापीदं कलेवरम् |
दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ||२९||
दारकेष्वप्रमत्ता च भवेथाश्च हिता मम |
अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ||३०||
वैशम्पायन उवाच||
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् |
मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ||३१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
116-अध्यायः
वैशम्पायन उवाच||
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः |
ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ||१||
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः |
अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ||२||
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह |
प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ||३||
ते परस्परमामन्त्र्य सर्वभूतहिते रताः |
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ||४||
उदारमनसः सिद्धा गमने चक्रिरे मनः |
भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ||५||
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे |
पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ||६||
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला |
प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ||७||
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् |
वर्धमानपुरद्वारमाससाद यशस्विनी ||८||
तं चारणसहस्राणां मुनीनामागमं तदा |
श्रुत्वा नागपुरे नृणां विस्मयः समजायत ||९||
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः |
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ||१०||
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः |
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ||११||
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् |
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ||१२||
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः |
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ||१३||
सा च सत्यवती देवी कौसल्या च यशस्विनी |
राजदारैः परिवृता गान्धारी च विनिर्ययौ ||१४||
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः |
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ||१५||
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च |
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ||१६||
तथैव शिरसा भूमावभिवाद्य प्रणम्य च |
उपोपविविशुः सर्वे पौरजानपदा अपि ||१७||
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा |
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ||१८||
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी |
महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ||१९||
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः |
कामभोगान्परित्यज्य शतशृङ्गमितो गतः ||२०||
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना |
साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ||२१||
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः |
मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ||२२||
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः |
यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति ||२३||
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ |
अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ||२४||
चरता धर्मनित्येन वनवासं यशस्विना |
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ||२५||
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च |
पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ||२६||
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च |
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ||२७||
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् |
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ||२८||
सा गता सह तेनैव पतिलोकमनुव्रता |
तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ||२९||
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः |
क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ||३०||
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः |
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ||३१||
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् |
क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ||३२||
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः |
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ||३३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
117-अध्यायः
धृतराष्ट्र उवाच||
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय |
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ||१||
पशून्वासांसि रत्नानि धनानि विविधानि च |
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ||२||
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु |
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ||३||
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः |
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ||४||
वैशम्पायन उवाच||
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत |
पाण्डुं संस्कारयामास देशे परमसंवृते ||५||
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः |
निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ||६||
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः |
शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ||७||
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः |
अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ||८||
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् |
अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ||९||
पाण्डुरेणातपत्रेण चामरव्यजनेन च |
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ||१०||
रत्नानि चाप्युपादाय बहूनि शतशो नराः |
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ||११||
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च |
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ||१२||
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः |
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ||१३||
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः |
रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ||१४||
अयमस्मानपाहाय दुःखे चाधाय शाश्वते |
कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ||१५||
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च |
रमणीये वनोद्देशे गङ्गातीरे समे शुभे ||१६||
न्यासयामासुरथ तां शिबिकां सत्यवादिनः |
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ||१७||
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् |
शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् ||१८||
पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ||१८||
चन्दनेन च मुख्येन शुक्लेन समलेपयन् |
कालागुरुविमिश्रेण तथा तुङ्गरसेन च ||१९||
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् |
आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः ||२०||
शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ||२०||
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः |
घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ||२१||
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना |
अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ||२२||
ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता |
हाहा पुत्रेति कौसल्या पपात सहसा भुवि ||२३||
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः |
रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ||२४||
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः |
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ||२५||
तथा भीष्मः शान्तनवो विदुरश्च महामतिः |
सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ||२६||
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः |
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ||२७||
कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् |
सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ||२८||
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः |
तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ||२९||
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् |
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ||३०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
118-अध्यायः
वैशम्पायन उवाच||
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः |
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ||१||
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः |
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ||२||
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् |
आदाय विविशुः पौराः पुरं वारणसाह्वयम् ||३||
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् |
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ||४||
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् |
संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ||५||
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः |
श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ||६||
बहुमायासमाकीर्णो नानादोषसमाकुलः |
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ||७||
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने |
मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ||८||
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् |
अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ||९||
सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ||९||
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् |
वनमादाय भद्रं ते गच्छावो यदि मन्यसे ||१०||
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता |
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ||११||
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम |
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ||१२||
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा |
अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ||१३||
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि |
बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ||१४||
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे |
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ||१५||
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने |
शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ||१६||
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् |
एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ||१७||
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली |
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ||१८||
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः |
आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ||१९||
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा |
तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ||२०||
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः |
सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ||२१||
न ते नियुद्धे न जवे न योग्यासु कदाचन |
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ||२२||
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः |
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ||२३||
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् |
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ||२४||
तस्य धर्मादपेतस्य पापानि परिपश्यतः |
मोहादैश्वर्यलोभाच्च पापा मतिरजायत ||२५||
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः |
मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ||२६||
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् |
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ||२७||
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा |
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ||२८||
ततो जलविहारार्थं कारयामास भारत |
चेलकम्बलवेश्मानि विचित्राणि महान्ति च ||२९||
प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च |
क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः ||३०||
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ||३०||
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः |
विहारावसथेष्वेव वीरा वासमरोचयन् ||३१||
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा |
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ||३२||
प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ||३२||
शीतं वासं समासाद्य श्रान्तो मदविमोहितः |
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ||३३||
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः |
गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ||३४||
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् |
उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ||३५||
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः |
कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ||३६||
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः |
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ||३७||
प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् |
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ||३८||
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् |
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ||३९||
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया |
तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ||४०||
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् |
भीमसंहननो भीमस्तदप्यजरयत्ततः ||४१||
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः |
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ||४२||
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः |
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ||४३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
119-अध्यायः
जनमेजय उवाच||
कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि |
शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ||१||
वैशम्पायन उवाच||
महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः |
पुत्रः किल महाराज जातः सह शरैर्विभो ||२||
न तस्य वेदाध्ययने तथा बुद्धिरजायत |
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ||३||
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः |
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ||४||
धनुर्वेदपरत्वाच्च तपसा विपुलेन च |
भृशं सन्तापयामास देवराजं स गौतमः ||५||
ततो जालपदीं नाम देवकन्यां सुरेश्वरः |
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ||६||
साभिगम्याश्रमपदं रमणीयं शरद्वतः |
धनुर्बाणधरं बाला लोभयामास गौतमम् ||७||
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने |
लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ||८||
धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि |
वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ||९||
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् |
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ||१०||
यस्त्वस्य सहसा राजन्विकारः समपद्यत |
तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ||११||
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः |
जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ||१२||
शरस्तम्बे च पतितं द्विधा तदभवन्नृप |
तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ||१३||
मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया |
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ||१४||
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च |
व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् ||१५||
स राज्ञे दर्शयामास मिथुनं सशरं तदा ||१५||
स तदादाय मिथुनं राजाथ कृपयान्वितः |
आजगाम गृहानेव मम पुत्राविति ब्रुवन् ||१६||
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् |
गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ||१७||
कृपया यन्मया बालाविमौ संवर्धिताविति |
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ||१८||
निहितौ गौतमस्तत्र तपसा तावविन्दत |
आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ||१९||
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च |
निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ||२०||
सोऽचिरेणैव कालेन परमाचार्यतां गतः ||२०||
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः |
धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ||२१||
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ||२१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
120-अध्यायः
वैशम्पायन उवाच||
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया |
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ||१||
नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः |
नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ||२||
महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा |
ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ||३||
तस्या वायुः समुद्धूतो वसनं व्यपकर्षत |
ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ||४||
तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः |
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ||५||
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् |
प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ||६||
अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम |
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ||७||
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः |
तस्यापि द्रुपदो नाम तदा समभवत्सुतः ||८||
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः |
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ||९||
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् |
पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ||१०||
भरद्वाजोऽपि भगवानारुरोह दिवं तदा |
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ||११||
शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ||११||
अग्निहोत्रे च धर्मे च दमे च सततं रता |
अलभद्गौतमी पुत्रमश्वत्थामानमेव च ||१२||
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः |
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ||१३||
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् |
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ||१४||
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् |
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ||१५||
स शुश्राव महात्मानं जामदग्न्यं परन्तपम् |
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ||१६||
वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् |
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ||१७||
राम उवाच||
हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते |
ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ||१८||
तथैवेयं धरा देवी सागरान्ता सपत्तना |
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ||१९||
शरीरमात्रमेवाद्य मयेदमवशेषितम् |
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ||२०||
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ||२०||
द्रोण उवाच||
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव |
सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ||२१||
वैशम्पायन उवाच||
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः |
सरहस्यव्रतं चैव धनुर्वेदमशेषतः ||२२||
प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः |
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ||२३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
121-अध्यायः
वैशम्पायन उवाच||
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् |
अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ||१||
द्रुपद उवाच||
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी |
यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ||२||
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् |
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ||३||
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् |
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ||४||
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् |
कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ||५||
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु |
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ||६||
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा |
शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ||७||
ययोरेव समं वित्तं ययोरेव समं कुलम् |
तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ||८||
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा |
नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ||९||
वैशम्पायन उवाच||
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् |
मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ||१०||
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् |
जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ||११||
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् |
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ||१२||
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा |
न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ||१३||
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा |
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ||१४||
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् |
भरतस्यान्वये जाता ये वीटां नाधिगच्छत ||१५||
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः |
अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ||१६||
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया |
तामन्यया समायोगो वीटाया ग्रहणे मम ||१७||
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः |
अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ||१८||
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते |
कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ||१९||
द्रोण उवाच||
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् |
स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ||२०||
वैशम्पायन उवाच||
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् |
ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ||२१||
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत |
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ||२२||
अथैनमानीय तदा स्वयमेव सुसत्कृतम् |
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ||२३||
हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ||२३||
महर्षेरग्निवेश्यस्य सकाशमहमच्युत |
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ||२४||
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः |
अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ||२५||
पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः |
मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ||२६||
स मे तत्र सखा चासीदुपकारी प्रियश्च मे |
तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ||२७||
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ||२७||
स समासाद्य मां तत्र प्रियकारी प्रियंवदः |
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ||२८||
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः |
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ||२९||
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे |
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ||३०||
एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया |
अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ||३१||
प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् |
संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ||३२||
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो |
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ||३३||
उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् |
स मां निराकारमिव प्रहसन्निदमब्रवीत् ||३४||
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी |
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ||३५||
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् |
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ||३६||
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा |
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ||३७||
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः |
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ||३८||
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह |
पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ||३९||
शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् |
स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ||४०||
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् |
रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ||४१||
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते |
कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ||४२||
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते |
अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ||४३||
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः |
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ||४४||
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च |
ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ||४५||
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ |
अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ||४६||
वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ||४६||
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा |
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ||४७||
दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ||४७||