श्रीमहाभारतम्
||१ आदिपर्वम् ||
122-अध्यायः
वैशम्पायन उवाच||
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने |
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ||१||
द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः |
अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ||२||
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने |
तेन तत्र प्रदीपः स दीप्यमानो निवापितः ||३||
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत |
हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ||४||
तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ||४||
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत |
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ||५||
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः |
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ||६||
ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च |
अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ||७||
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु |
द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ||८||
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः |
राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ||९||
ततो निषादराजस्य हिरण्यधनुषः सुतः |
एकलव्यो महाराज द्रोणमभ्याजगाम ह ||१०||
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् |
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ||११||
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः |
अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ||१२||
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा |
इष्वस्त्रे योगमातस्थे परं नियममास्थितः ||१३||
परया श्रद्धया युक्तो योगेन परमेण च |
विमोक्षादानसन्धाने लघुत्वं परमाप सः ||१४||
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः |
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ||१५||
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया |
राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ||१६||
तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् |
श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ||१७||
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने |
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ||१८||
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे |
लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ||१९||
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह |
तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ||२०||
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा |
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ||२१||
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् |
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ||२२||
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् |
अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ||२३||
एकलव्य उवाच||
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् |
द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ||२४||
वैशम्पायन उवाच||
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः |
यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ||२५||
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् |
रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ||२६||
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः |
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ||२७||
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् |
अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ||२८||
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् |
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ||२९||
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् |
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ||३०||
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् |
अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ||३१||
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः |
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ||३२||
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः |
यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ||३३||
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् |
किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ||३४||
न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम |
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ||३५||
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् |
प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ||३६||
तथैव हृष्टवदनस्तथैवादीनमानसः |
छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ||३७||
ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत |
न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ||३८||
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः |
द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ||३९||
द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः |
दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ||४०||
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् |
तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ||४१||
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ||४१||
प्रथितः सागरान्तायां रथयूथपयूथपः |
बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ||४२||
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः |
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ||४३||
एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ||४३||
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् |
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ||४४||
तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् |
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ||४५||
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् |
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ||४६||
द्रोण उवाच||
शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः |
भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ||४७||
मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् |
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ||४८||
वैशम्पायन उवाच||
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः |
सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ||४९||
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् |
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ||५०||
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् |
स मुहूर्तादुवाचेदं वचनं भरतर्षभ ||५१||
पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज |
पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ||५२||
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत |
अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ||५३||
तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् |
भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ||५४||
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव |
नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ||५५||
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः |
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ||५६||
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् |
तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ||५७||
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत |
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ||५८||
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः |
वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ||५९||
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः |
तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ||६०||
मुहूर्तादिव तं द्रोणस्तथैव समभाषत |
पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ||६१||
पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत |
न तु वृक्षं भवन्तं वा पश्यामीति च भारत ||६२||
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः |
प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ||६३||
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः |
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ||६४||
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः |
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ||६५||
ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह |
शिर उत्कृत्य तरसा पातयामास पाण्डवः ||६६||
तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् |
मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ||६७||
कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः |
जगाम गङ्गामभितो मज्जितुं भरतर्षभ ||६८||
अवगाढमथो द्रोणं सलिले सलिलेचरः |
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ||६९||
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् |
ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ||७०||
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः |
आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ||७१||
इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ||७१||
तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् |
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ||७२||
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः |
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ||७३||
अथाब्रवीन्महात्मानं भारद्वाजो महारथम् |
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ||७४||
अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ||७४||
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन |
जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ||७५||
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते |
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ||७६||
बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन |
तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ||७७||
तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः |
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ||७८||
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ||७८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
123-अध्यायः-जतुगृहदाहपर्व
वैशम्पायन उवाच||
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत |
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ||१||
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः |
गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ||२||
राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम |
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ||३||
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना |
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ||४||
यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा |
तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ||५||
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् |
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ||६||
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा |
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ||७||
ततो राजानमामन्त्र्य विदुरानुगतो बहिः |
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ||८||
समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ||८||
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते |
अवघुष्टं पुरे चापि तदर्थं वदतां वर ||९||
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि |
प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ||१०||
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ||१०||
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः |
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ||११||
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा |
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ||१२||
मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् |
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ||१३||
गान्धारी च महाभागा कुन्ती च जयतां वर |
स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ||१४||
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ||१४||
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् |
दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ||१५||
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च |
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ||१६||
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् |
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ||१७||
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह |
नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ||१८||
स यथासमयं चक्रे बलिं बलवतां वरः |
ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ||१९||
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् |
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ||२०||
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः |
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ||२१||
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः |
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ||२२||
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे |
मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ||२३||
ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः |
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ||२४||
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् |
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ||२५||
सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः |
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ||२६||
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् |
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ||२७||
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः |
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ||२८||
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् |
ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ||२९||
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ |
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ||३०||
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ |
बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ||३१||
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ |
चेरतुर्निर्मलगदौ समदाविव गोवृषौ ||३२||
विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः |
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ||३३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
124-अध्यायः
वैशम्पायन उवाच||
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे |
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ||१||
हा वीर कुरुराजेति हा भीमेति च नर्दताम् |
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ||२||
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् |
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ||३||
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि |
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ||४||
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ |
युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ||५||
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् |
निवार्य वादित्रगणं महामेघनिभस्वनम् ||६||
यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः |
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ||७||
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा |
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ||८||
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः |
सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ||९||
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् |
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ||१०||
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः |
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ||११||
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः |
एष शीलवतां चापि शीलज्ञाननिधिः परः ||१२||
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः |
कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ||१३||
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् |
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ||१४||
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः |
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ||१५||
विदुर उवाच||
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः |
अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ||१६||
धृतराष्ट्र उवाच||
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते |
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ||१७||
वैशम्पायन उवाच||
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते |
दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ||१८||
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः |
वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ||१९||
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् |
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ||२०||
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः |
क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ||२१||
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः |
सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ||२२||
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् |
पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ||२३||
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते |
निचखान महावीर्यः सायकानेकविंशतिम् ||२४||
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् |
गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ||२५||
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत |
मन्दीभूते समाजे च वादित्रस्य च निस्वने ||२६||
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः |
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ||२७||
दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते |
किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ||२८||
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप |
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ||२९||
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ |
पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ||३०||
अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् |
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ||३१||
स तैस्तदा भ्रातृभिरुद्यतायुधै; र्वृतो गदापाणिरवस्थितैः स्थितः |
बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ||३२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
125-अध्यायः
वैशम्पायन उवाच||
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः |
विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ||१||
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः |
सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ||२||
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः |
तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ||३||
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः |
दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ||४||
प्रांशुः कनकतालाभः सिंहसंहननो युवा |
असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः ||५||
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् |
प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ||६||
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः |
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ||७||
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः |
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ||८||
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः |
करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः ||९||
असमाप्ते ततस्तस्य वचने वदतां वर |
यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ||१०||
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् |
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ||११||
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा |
यत्कृतं तत्र पार्थेन तच्चकार महाबलः ||१२||
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत |
कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ||१३||
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद |
अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ||१४||
कर्ण उवाच||
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे |
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ||१५||
दुर्योधन उवाच||
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव |
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ||१६||
वैशम्पायन उवाच||
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत |
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ||१७||
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् |
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ||१८||
कर्ण उवाच||
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन |
वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ||१९||
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत |
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ||२०||
वैशम्पायन उवाच||
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः |
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ||२१||
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः |
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ||२२||
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः |
आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ||२३||
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् |
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ||२४||
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः |
सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ||२५||
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः |
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ||२६||
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत |
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ||२७||
तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् |
कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ||२८||
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ |
पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ||२९||
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् |
द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ||३०||
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः |
कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ||३१||
त्वमप्येवं महाबाहो मातरं पितरं कुलम् |
कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ||३२||
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ||३२||
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् |
बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ||३३||
दुर्योधन उवाच||
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये |
तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ||३४||
यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति |
तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ||३५||
वैशम्पायन उवाच||
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः |
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ||३६||
अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ||३६||
सच्छत्रवालव्यजनो जयशब्दान्तरेण च |
उवाच कौरवं राजा राजानं तं वृषस्तदा ||३७||
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते |
प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ||३८||
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ||३८||
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत |
हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ||३९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
126-अध्यायः
वैशम्पायन उवाच||
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः |
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ||१||
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः |
कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ||२||
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः |
पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ||३||
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः |
अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ||४||
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः |
भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ||५||
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् |
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ||६||
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम |
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ||७||
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः |
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ||८||
ततो दुर्योधनः कोपादुत्पपात महाबलः |
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ||९||
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् |
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ||१०||
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना |
शूराणां च नदीनां च प्रभवा दुर्विदाः किल ||११||
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् |
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ||१२||
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि |
श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ||१३||
क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः |
आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ||१४||
भवतां च यथा जन्म तदप्यागमितं नृपैः ||१४||
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् |
कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ||१५||
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः |
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ||१६||
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् |
रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ||१७||
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् |
साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ||१८||
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप |
दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ||१९||
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते |
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ||२०||
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत |
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ||२१||
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् |
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ||२२||
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव |
भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ||२३||
स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् |
युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ||२४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
127-अध्यायः
वैशम्पायन उवाच||
ततः शिष्यान्समानीय आचार्यार्थमचोदयत् |
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ||१||
पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि |
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ||२||
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः |
आचार्यधनदानार्थं द्रोणेन सहिता ययुः ||३||
ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः |
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ||४||
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि |
उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ||५||
भग्नदर्पं हृतधनं तथा च वशमागतम् |
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ||६||
प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया |
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ||७||
एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् |
मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ||८||
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह |
तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ||९||
प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ |
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ||१०||
अराजा किल नो राज्ञां सखा भवितुमर्हति |
अतः प्रयतितं राज्ये यज्ञसेन मया तव ||११||
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे |
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ||१२||
द्रुपद उवाच||
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु |
प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ||१३||
वैशम्पायन उवाच||
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत |
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ||१४||
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् |
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ||१५||
दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ||१५||
द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह |
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ||१६||
हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च |
पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ||१७||
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ||१७||
एवं राजन्नहिच्छत्रा पुरी जनपदायुता |
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ||१८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
128-अध्यायः
वैशम्पायन उवाच||
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् |
दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ||१||
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः |
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ||२||
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः |
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ||३||
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा |
कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ||४||
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः |
राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ||५||
तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः |
प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ||६||
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् |
अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ||७||
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् |
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ||८||
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् |
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ||९||
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे |
ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ||१०||
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः |
पौरानुरागसन्तप्तः पश्चादिदमभाषत ||११||
श्रुता मे जल्पतां तात पौराणामशिवा गिरः |
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ||१२||
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति |
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ||१३||
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा |
त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ||१४||
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः |
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ||१५||
ते वयं राजवंशेन हीनाः सह सुतैरपि |
अवज्ञाता भविष्यामो लोकस्य जगतीपते ||१६||
सततं निरयं प्राप्ताः परपिण्डोपजीविनः |
न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ||१७||
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप |
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ||१८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
129-अध्यायः
वैशम्पायन उवाच||
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् |
मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ||१||
धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः |
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ||२||
नास्य किञ्चिन्न जानामि भोजनादि चिकीर्षितम् |
निवेदयति नित्यं हि मम राज्यं धृतव्रतः ||३||
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः |
गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः ||४||
स कथं शक्यमस्माभिरपक्रष्टुं बलादितः |
पितृपैतामहाद्राज्यात्ससहायो विशेषतः ||५||
भृता हि पाण्डुनामात्या बलं च सततं भृतम् |
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ||६||
ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः |
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ||७||
दुर्योधन उवाच||
एवमेतन्मया तात भावितं दोषमात्मनि |
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ||८||
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः |
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ||९||
स भवान्पाण्डवानाशु विवासयितुमर्हति |
मृदुनैवाभ्युपायेन नगरं वारणावतम् ||१०||
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति |
तदा कुन्ती सहापत्या पुनरेष्यति भारत ||११||
धृतराष्ट्र उवाच||
दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते |
अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ||१२||
न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः |
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ||१३||
समा हि कौरवेयाणां वयमेते च पुत्रक |
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ||१४||
ते वयं कौरवेयाणामेतेषां च महात्मनाम् |
कथं न वध्यतां तात गच्छेम जगतस्तथा ||१५||
दुर्योधन उवाच||
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः |
यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ||१६||
कृपः शारद्वतश्चैव यत एते त्रयस्ततः |
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ||१७||
क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे |
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ||१८||
स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय |
वारणावतमद्यैव नात्र दोषो भविष्यति ||१९||
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् |
शोकपावकमुद्भूतं कर्मणैतेन नाशय ||२०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
130-अध्यायः
वैशम्पायन उवाच||
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः |
अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ||१||
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः |
कथयां चक्रिरे रम्यं नगरं वारणावतम् ||२||
अयं समाजः सुमहान्रमणीयतमो भुवि |
उपस्थितः पशुपतेर्नगरे वारणावते ||३||
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे |
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ||४||
कथ्यमाने तथा रम्ये नगरे वारणावते |
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ||५||
यदा त्वमन्यत नृपो जातकौतूहला इति |
उवाचैनानथ तदा पाण्डवानम्बिकासुतः ||६||
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः |
रमणीयतरं लोके नगरं वारणावतम् ||७||
ते तात यदि मन्यध्वमुत्सवं वारणावते |
सगणाः सानुयात्राश्च विहरध्वं यथामराः ||८||
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः |
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ||९||
कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् |
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ||१०||
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः |
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ||११||
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् |
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ||१२||
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् |
युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ||१३||
रमणीये जनाकीर्णे नगरे वारणावते |
सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ||१४||
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत |
आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ||१५||
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः |
प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ||१६||
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः |
मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ||१७||
ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः |
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ||१८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
131-अध्यायः
वैशम्पायन उवाच||
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु |
दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ||१||
स पुरोचनमेकान्तमानीय भरतर्षभ |
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ||२||
ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा |
यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ||३||
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया |
सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ||४||
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर |
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ||५||
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् |
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ||६||
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना |
वारणावतमद्यैव यथा यासि तथा कुरु ||७||
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् |
आयुधागारमाश्रित्य कारयेथा महाधनम् ||८||
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् |
आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ||९||
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया |
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ||१०||
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च |
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ||११||
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः |
आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ||१२||
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् |
वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ||१३||
तत्रासनानि मुख्यानि यानानि शयनानि च |
विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ||१४||
यथा रमेरन्विश्रब्धा नगरे वारणावते |
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ||१५||
ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् |
अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ||१६||
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः |
ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ||१७||
तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः |
प्रायाद्रासभयुक्तेन नगरं वारणावतम् ||१८||
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः |
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ||१९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
132-अध्यायः
वैशम्पायन उवाच||
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः |
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ||१||
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः |
अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ||२||
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः |
समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ||३||
सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् |
सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ||४||
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः |
पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ||५||
तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा |
शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ||६||
विषमं पश्यते राजा सर्वथा तमसावृतः |
धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ||७||
न हि पापमपापात्मा रोचयिष्यति पाण्डवः |
भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ||८||
कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ||८||
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते |
अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ||९||
विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ||९||
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा |
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ||१०||
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति |
राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ||११||
वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् |
गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ||१२||
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः |
उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ||१३||
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः |
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ||१४||
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् |
आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ||१५||
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते |
तदा करिष्यथ मम प्रियाणि च हितानि च ||१६||
ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् |
आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ||१७||
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् |
बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ||१८||
प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ||१८||
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा |
अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ||१९||
यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ||१९||
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः |
न दहेदिति चात्मानं यो रक्षति स जीवति ||२०||
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः |
नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ||२१||
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् |
श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ||२२||
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः |
आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ||२३||
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् |
पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ||२४||
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा |
अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ||२५||
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव |
त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ||२६||
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् |
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ||२७||
युधिष्ठिर उवाच||
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् |
पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ||२८||
जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् |
विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ||२९||
वैशम्पायन उवाच||
अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते |
वारणावतमासाद्य ददृशुर्नागरं जनम् ||३०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
133-अध्यायः
वैशम्पायन उवाच||
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् |
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ||१||
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः |
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ||२||
ते समासाद्य कौन्तेयान्वारणावतका जनाः |
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ||३||
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः |
विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ||४||
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः |
अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ||५||
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् |
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ||६||
नगराधिकृतानां च गृहाणि रथिनां तथा |
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ||७||
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः |
जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ||८||
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च |
आसनानि च मुख्यानि प्रददौ स पुरोचनः ||९||
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः |
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ||१०||
दशरात्रोषितानां तु तत्र तेषां पुरोचनः |
निवेदयामास गृहं शिवाख्यमशिवं तदा ||११||
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः |
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ||१२||
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः |
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ||१३||
जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ||१३||
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप |
शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ||१४||
मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ||१४||
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि |
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ||१५||
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा |
आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ||१६||
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् |
आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ||१७||
भीम उवाच||
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् |
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ||१८||
युधिष्ठिर उवाच||
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये |
नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ||१९||
यदि विन्देत चाकारमस्माकं हि पुरोचनः |
शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ||२०||
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः |
तथा हि वर्तते मन्दः सुयोधनमते स्थितः ||२१||
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः |
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ||२२||
धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ||२२||
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि |
स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ||२३||
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः |
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ||२४||
तदस्माभिरिमं पापं तं च पापं सुयोधनम् |
वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ||२५||
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् |
तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ||२६||
भौमं च बिलमद्यैव करवाम सुसंवृतम् |
गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ||२७||
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः |
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ||२८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
134-अध्यायः
वैशम्पायन उवाच||
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् |
विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ||१||
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् |
पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ||२||
प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् |
प्रतिपादय विश्वासादिति किं करवाणि वः ||३||
कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः |
भवनस्य तव द्वारि प्रदास्यति हुताशनम् ||४||
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः |
इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ||५||
किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव |
त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ||६||
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः |
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ||७||
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् |
न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ||८||
यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि |
भवतः स्म यथा तस्य पालयास्मान्यथा कविः ||९||
इदं शरणमाग्नेयं मदर्थमिति मे मतिः |
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ||१०||
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः |
अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ||११||
स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् |
अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ||१२||
समृद्धमायुधागारमिदं तस्य दुरात्मनः |
वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ||१३||
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् |
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ||१४||
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा |
पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ||१५||
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः |
परिखामुत्किरन्नाम चकार सुमहद्बिलम् ||१६||
चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् |
कपाटयुक्तमज्ञातं समं भूम्या च भारत ||१७||
पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् |
स तत्र च गृहद्वारि वसत्यशुभधीः सदा ||१८||
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप |
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ||१९||
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् |
अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ||२०||
न चैनानन्वबुध्यन्त नरा नगरवासिनः |
अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ||२१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
135-अध्यायः
वैशम्पायन उवाच||
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् |
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ||१||
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः |
भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ||२||
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः |
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ||३||
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् |
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ||४||
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् |
चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ||५||
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत |
जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ||६||
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया |
अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ||७||
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला |
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ||८||
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ||८||
अथ प्रवाते तुमुले निशि सुप्ते जने विभो |
तदुपादीपयद्भीमः शेते यत्र पुरोचनः ||९||
ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः |
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ||१०||
पौरा ऊचुः||
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना |
गृहमात्मविनाशाय कारितं दाहितं च यत् ||११||
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी |
यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ||१२||
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः |
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ||१३||
वैशम्पायन उवाच||
एवं ते विलपन्ति स्म वारणावतका जनाः |
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ||१४||
पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः |
बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ||१५||
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः |
न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ||१६||
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः |
जगाम भ्रातृनादाय सर्वान्मातरमेव च ||१७||
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् |
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ||१८||
तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् |
स जगामाशु तेजस्वी वातरंहा वृकोदरः ||१९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
136-अध्यायः
वैशम्पायन उवाच||
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः |
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ||१||
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः |
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ||२||
नूनं दुर्योधनेनेदं विहितं पापकर्मणा |
पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ||३||
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः |
दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ||४||
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते |
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ||५||
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः |
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ||६||
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् |
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ||७||
खनकेन तु तेनैव वेश्म शोधयता बिलम् |
पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ||८||
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः |
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ||९||
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् |
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ||१०||
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः |
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ||११||
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् |
सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ||१२||
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च |
ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ||१३||
एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् |
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ||१४||
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः |
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ||१५||
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः |
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ||१६||
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् |
जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ||१७||
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः |
यतमाना वनं राजन्गहनं प्रतिपेदिरे ||१८||
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः |
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ||१९||
इतः कष्टतरं किं नु यद्वयं गहने वने |
दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ||२०||
तं च पापं न जानीमो यदि दग्धः पुरोचनः |
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ||२१||
पुनरस्मानुपादाय तथैव व्रज भारत |
त्वं हि नो बलवानेको यथा सततगस्तथा ||२२||
इत्युक्तो धर्मराजेन भीमसेनो महाबलः |
आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ||२३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
137-अध्यायः
वैशम्पायन उवाच||
तेन विक्रमता तूर्णमूरुवेगसमीरितम् |
प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ||१||
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् |
आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ||२||
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः |
तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ||३||
असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः |
पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ||४||
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् |
अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ||५||
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् |
क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ||६||
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः |
अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ||७||
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः |
नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ||८||
ततो भीमो वनं घोरं प्रविश्य विजनं महत् |
न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ||९||
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः |
पानीयं मृगयामीह विश्रमध्वमिति प्रभो ||१०||
एते रुवन्ति मधुरं सारसा जलचारिणः |
ध्रुवमत्र जलस्थायो महानिति मतिर्मम ||११||
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत |
जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ||१२||
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ |
उत्तरीयेण पानीयमाजहार तदा नृप ||१३||
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति |
स सुप्तां मातरं दृष्ट्वा भ्रातृंश्च वसुधातले ||१४||
भृशं दुःखपरीतात्मा विललाप वृकोदरः ||१४||
शयनेषु परार्ध्येषु ये पुरा वारणावते |
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ||१५||
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः |
कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ||१६||
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः |
प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ||१७||
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् |
शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ||१८||
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् |
सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ||१९||
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् |
योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ||२०||
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः |
सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ||२१||
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि |
शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ||२२||
अश्विनाविव देवानां याविमौ रूपसम्पदा |
तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ||२३||
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः |
स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ||२४||
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः |
चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ||२५||
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः |
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ||२६||
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः |
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ||२७||
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना |
विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् ||२८||
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः |
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ||२९||
नातिदूरे च नगरं वनादस्माद्धि लक्षये |
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ||३०||
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः |
इति भीमो व्यवस्यैव जजागार स्वयं तदा ||३१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
138-अध्यायः-हिडिम्बवधपर्व
वैशम्पायन उवाच||
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः |
अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ||१||
क्रूरो मानुषमांसादो महावीर्यो महाबलः |
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ||२||
पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ||२||
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् |
जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ||३||
दुष्टो मानुषमांसादो महाकायो महाबलः |
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ||४||
उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः |
स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ||५||
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः |
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ||६||
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि |
उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ||७||
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः |
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ||८||
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् |
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ||९||
एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः |
भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ||१०||
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी |
जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ||११||
ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह |
शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ||१२||
दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् |
राक्षसी कामयामास रूपेणाप्रतिमं भुवि ||१३||
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः |
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ||१४||
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् |
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ||१५||
मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च |
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः ||१६||
सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् |
उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ||१७||
विलज्जमानेव लता दिव्याभरणभूषिता |
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ||१८||
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ |
क इमे शेरते चेह पुरुषा देवरूपिणः ||१९||
केयं च बृहती श्यामा सुकुमारी तवानघ |
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ||२०||
नेदं जानाति गहनं वनं राक्षससेवितम् |
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ||२१||
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा |
बिभक्षयिषता मांसं युष्माकममरोपम ||२२||
साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् |
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ||२३||
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर |
कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ||२४||
त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् |
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ||२५||
अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च |
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ||२६||
भीम उवाच||
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् |
परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ||२७||
को हि सुप्तानिमान्भ्रातृन्दत्त्वा राक्षसभोजनम् |
मातरं च नरो गच्छेत्कामार्त इव मद्विधः ||२८||
राक्षस्युवाच||
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय |
मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ||२९||
भीम उवाच||
सुखसुप्तान्वने भ्रातृन्मातरं चैव राक्षसि |
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ||३०||
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् |
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ||३१||
गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु |
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ||३२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
139-अध्यायः
वैशम्पायन उवाच||
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः |
अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ||१||
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः |
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ||२||
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् |
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ||३||
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः |
त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ||४||
अहं कामगमा वीर रक्षोबलसमन्विता |
आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ||५||
प्रबोधयैनान्संसुप्तान्मातरं च परन्तप |
सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ||६||
भीम उवाच||
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते |
अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ||७||
नायं प्रतिबलो भीरु राक्षसापसदो मम |
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ||८||
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ |
ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ||९||
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने |
मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ||१०||
हिडिम्बोवाच||
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् |
दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ||११||
वैशम्पायन उवाच||
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत |
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ||१२||
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः |
स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ||१३||
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् |
सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ||१४||
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् |
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ||१५||
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम |
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ||१६||
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः |
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ||१७||
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि |
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ||१८||
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम |
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ||१९||
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः |
वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ||२०||
तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः |
भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ||२१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
140-अध्यायः
वैशम्पायन उवाच||
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव |
भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ||१||
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः |
मामासादय दुर्बुद्धे तरसा त्वं नराशन ||२||
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि |
विशेषतोऽनपकृते परेणापकृते सति ||३||
न हीयं स्ववशा बाला कामयत्यद्य मामिह |
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ||४||
भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ||४||
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च |
कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ||५||
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस |
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ||६||
समागच्छ मया सार्धमेकेनैको नराशन |
अहमेव नयिष्यामि त्वामद्य यमसादनम् ||७||
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् |
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ||८||
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते |
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ||९||
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् |
पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ||१०||
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि |
द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ||११||
निराबाधास्त्वयि हते मया राक्षसपांसन |
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ||१२||
हिडिम्ब उवाच||
गर्जितेन वृथा किं ते कत्थितेन च मानुष |
कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ||१३||
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् |
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ||१४||
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् |
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ||१५||
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि |
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ||१६||
वैशम्पायन उवाच||
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः |
अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ||१७||
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः |
वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ||१८||
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह |
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ||१९||
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः |
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ||२०||
पुनर्भीमो बलादेनं विचकर्ष महाबलः |
मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ||२१||
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा |
राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ||२२||
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः |
मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ||२३||
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः |
सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ||२४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
141-अध्यायः
वैशम्पायन उवाच||
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् |
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ||१||
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा |
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ||२||
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि |
केन कार्येण सुश्रोणि कुतश्चागमनं तव ||३||
यदि वास्य वनस्यासि देवता यदि वाप्सराः |
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ||४||
हिडिम्बोवाच||
यदेतत्पश्यसि वनं नीलमेघनिभं महत् |
निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ||५||
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि |
भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ||६||
क्रूरबुद्धेरहं तस्य वचनादागता इह |
अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ||७||
ततोऽहं सर्वभूतानां भावे विचरता शुभे |
चोदिता तव पुत्रस्य मन्मथेन वशानुगा ||८||
ततो वृतो मया भर्ता तव पुत्रो महाबलः |
अपनेतुं च यतितो न चैव शकितो मया ||९||
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः |
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ||१०||
स तेन मम कान्तेन तव पुत्रेण धीमता |
बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ||११||
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् |
पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ||१२||
वैशम्पायन उवाच||
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः |
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ||१३||
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् |
काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ||१४||
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् |
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ||१५||
वसुधारेणुसंवीतौ वसुधाधरसंनिभौ |
विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ||१६||
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु |
उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ||१७||
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् |
समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ||१८||
साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् |
नकुलः सहदेवश्च मातरं गोपयिष्यतः ||१९||
भीम उवाच||
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया |
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ||२०||
अर्जुन उवाच||
किमनेन चिरं भीम जीवता पापरक्षसा |
गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ||२१||
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते |
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ||२२||
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् |
पुरा विकुरुते मायां भुजयोः सारमर्पय ||२३||
वैशम्पायन उवाच||
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः |
उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ||२४||
भीम उवाच||
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः |
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ||२५||
अर्जुन उवाच||
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि |
करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ||२६||
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर |
कृतकर्मा परिश्रान्तः साधु तावदुपारम ||२७||
वैशम्पायन उवाच||
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः |
निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ||२८||
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् |
पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ||२९||
भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः |
मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ||३०||
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः |
अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ||३१||
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् |
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ||३२||
नदूरे नगरं मन्ये वनादस्मादहं प्रभो |
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ||३३||
ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः |
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ||३४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
142-अध्यायः-बकवधपर्व
भीम उवाच||
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् |
हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ||१||
युधिष्ठिर उवाच||
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः |
शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ||२||
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् |
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ||३||
वैशम्पायन उवाच||
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः |
युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ||४||
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् |
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ||५||
सोढं तत्परमं दुःखं मया कालप्रतीक्षया |
सोऽयमभ्यागतः कालो भविता मे सुखाय वै ||६||
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा |
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ||७||
वरेणापि तथानेन त्वया चापि यशस्विनि |
तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ||८||
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा |
भर्त्रानेन महाभागे संयोजय सुतेन ते ||९||
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् |
पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ||१०||
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा |
वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ||११||
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः |
यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ||१२||
आपदस्तरणे प्राणान्धारयेद्येन येन हि |
सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ||१३||
आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः |
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ||१४||
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते |
येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ||१५||
युधिष्ठिर उवाच||
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः |
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ||१६||
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् |
भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ||१७||
अहःसु विहरानेन यथाकामं मनोजवा |
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ||१८||
वैशम्पायन उवाच||
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा |
भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ||१९||
शैलशृङ्गेषु रम्येषु देवतायतनेषु च |
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ||२०||
कृत्वा च परमं रूपं सर्वाभरणभूषिता |
सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ||२१||
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु |
सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ||२२||
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च |
सुतीर्थवनतोयासु तथा गिरिनदीषु च ||२३||
सगरस्य प्रदेशेषु मणिहेमचितेषु च |
पत्तनेषु च रम्येषु महाशालवनेषु च ||२४||
देवारण्येषु पुण्येषु तथा पर्वतसानुषु |
गुह्यकानां निवासेषु तापसायतनेषु च ||२५||
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च |
बिभ्रती परमं रूपं रमयामास पाण्डवम् ||२६||
रमयन्ती तथा भीमं तत्र तत्र मनोजवा |
प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ||२७||
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् |
भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ||२८||
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् |
महाजवं महाकायं महामायमरिंदमम् ||२९||
अमानुषं मानुषजं भीमवेगं महाबलम् |
यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ||३०||
बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते |
सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ||३१||
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च |
कामरूपधराश्चैव भवन्ति बहुरूपिणः ||३२||
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा |
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ||३३||
घटभासोत्कच इति मातरं सोऽभ्यभाषत |
अभवत्तेन नामास्य घटोत्कच इति स्म ह ||३४||
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः |
तेषां च दयितो नित्यमात्मभूतो बभूव सः ||३५||
संवाससमयो जीर्ण इत्यभाषत तं ततः |
हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ||३६||
कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः |
आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ||३७||
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना |
कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ||३८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
143-अध्यायः
वैशम्पायन उवाच||
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् |
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ||१||
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च |
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ||२||
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः |
सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ||३||
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः |
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ||४||
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः |
नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ||५||
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा |
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ||६||
व्यास उवाच||
मयेदं मनसा पूर्वं विदितं भरतर्षभाः |
यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ||७||
तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् |
न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ||८||
समास्ते चैव मे सर्वे यूयं चैव न संशयः |
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ||९||
तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् |
स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ||१०||
इदं नगरमभ्याशे रमणीयं निरामयम् |
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ||११||
वैशम्पायन उवाच||
एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् |
एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ||१२||
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः |
पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ||१३||
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी |
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ||१४||
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः |
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ||१५||
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् |
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ||१६||
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च |
पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ||१७||
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने |
अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ||१८||
इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः |
देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ||१९||
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप |
जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ||२०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
144-अध्यायः
जनमेजय उवाच||
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः |
अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ||१||
वैशम्पायन उवाच||
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः |
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ||२||
रमणीयानि पश्यन्तो वनानि विविधानि च |
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ||३||
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते |
बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ||४||
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि |
तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ||५||
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः |
अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ||६||
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् |
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ||७||
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः |
सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ||८||
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने |
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ||९||
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा |
कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ||१०||
मथ्यमानेव दुःखेन हृदयेन पृथा ततः |
उवाच भीमं कल्याणी कृपान्वितमिदं वचः ||११||
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने |
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ||१२||
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् |
प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ||१३||
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति |
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ||१४||
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् |
तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ||१५||
भीम उवाच||
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् |
विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ||१६||
वैशम्पायन उवाच||
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् |
आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ||१७||
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः |
विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ||१८||
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च |
दुहित्रा चैव सहितं ददर्श विकृताननम् ||१९||
ब्राह्मण उवाच||
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् |
दुःखमूलं पराधीनं भृशमप्रियभागि च ||२०||
जीविते परमं दुःखं जीविते परमो ज्वरः |
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ||२१||
एकात्मापि हि धर्मार्थौ कामं च न निषेवते |
एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ||२२||
आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन |
अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ||२३||
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् |
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ||२४||
न हि योगं प्रपश्यामि येन मुच्येयमापदः |
पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ||२५||
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि |
यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ||२६||
इह जाता विवृद्धास्मि पिता चेह ममेति च |
उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ||२७||
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव |
बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ||२८||
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम |
बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ||२९||
अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन |
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ||३०||
सहधर्मचरीं दान्तां नित्यं मातृसमां मम |
सखायं विहितां देवैर्नित्यं परमिकां गतिम् ||३१||
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् |
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ||३२||
कुलीनां शीलसम्पन्नामपत्यजननीं मम |
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ||३३||
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ||३३||
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् |
बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ||३४||
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना |
यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह ||३५||
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ||३५||
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः |
कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ||३६||
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् |
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ||३७||
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः |
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ||३८||
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः |
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ||३९||
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् |
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ||४०||
सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ||४०||