श्रीमहाभारतम्
||१ आदिपर्वम् ||
197-अध्यायः
धृतराष्ट्र उवाच||
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः |
हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ||१||
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः |
तथैव धर्मतः सर्वे मम पुत्रा न संशयः ||२||
यथैव मम पुत्राणामिदं राज्यं विधीयते |
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ||३||
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् |
तया च देवरूपिण्या कृष्णया सह भारत ||४||
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा |
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ||५||
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः |
दिष्ट्या मम परं दुःखमपनीतं महाद्युते ||६||
वैशम्पायन उवाच||
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् |
सकाशं यज्ञसेनस्य पाण्डवानां च भारत ||७||
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः |
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ||८||
स चापि प्रतिजग्राह धर्मेण विदुरं ततः |
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ||९||
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत |
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ||१०||
तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् |
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ||११||
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् |
प्रददौ चापि रत्नानि विविधानि वसूनि च ||१२||
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते |
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ||१३||
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः |
द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ||१४||
राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम |
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ||१५||
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः |
प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ||१६||
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः |
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ||१७||
भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव |
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ||१८||
धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् |
कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ||१९||
न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता |
यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ||२०||
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् |
द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ||२१||
विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः |
उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ||२२||
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः |
द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ||२३||
स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् |
गमनं सहदाराणामेतदागमनं मम ||२४||
विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु |
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ||२५||
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ||२५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
198-अध्यायः-राज्यालम्भपर्व
द्रुपद उवाच||
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् |
ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो ||१||
गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् |
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ||२||
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः |
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ||३||
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः |
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ||४||
युधिष्ठिर उवाच||
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः |
यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ||५||
वैशम्पायन उवाच||
ततोऽब्रवीद्वासुदेवो गमनं मम रोचते |
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ||६||
द्रुपद उवाच||
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः |
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ||७||
यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् |
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ||८||
न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः |
यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ||९||
वैशम्पायन उवाच||
ततस्ते समनुज्ञाता द्रुपदेन महात्मना |
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ||१०||
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् |
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ||११||
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः |
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ||१२||
विकर्णं च महेष्वासं चित्रसेनं च भारत |
द्रोणं च परमेष्वासं गौतमं कृपमेव च ||१३||
तैस्ते परिवृता वीराः शोभमाना महारथाः |
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ||१४||
कौतूहलेन नगरं दीर्यमाणमिवाभवत् |
यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ||१५||
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः |
उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः ||१६||
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् |
यो नः स्वानिव दायादान्धर्मेण परिरक्षति ||१७||
अद्य पाण्डुर्महाराजो वनादिव वनप्रियः |
आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ||१८||
किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् |
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ||१९||
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः |
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ||२०||
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः |
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ||२१||
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते |
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ||२२||
विश्रान्तास्ते महात्मानः कञ्चित्कालं महाबलाः |
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ||२३||
धृतराष्ट्र उवाच||
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम |
पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ||२४||
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् |
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ||२५||
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश ||२५||
वैशम्पायन उवाच||
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च |
प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ||२६||
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् ||२६||
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः |
मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ||२७||
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः |
नगरं मापयामासुर्द्वैपायनपुरोगमाः ||२८||
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् |
प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ||२९||
पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च |
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ||३०||
द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः |
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ||३१||
विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः |
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ||३२||
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ||३२||
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् |
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ||३३||
सुविभक्तमहारथ्यं देवताबाधवर्जितम् |
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ||३४||
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत |
मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ||३५||
तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् |
शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् ||३६||
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः |
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ||३७||
वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः |
सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ||३८||
उद्यानानि च रम्याणि नगरस्य समन्ततः |
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ||३९||
पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा |
शालतालकदम्बैश्च बकुलैश्च सकेतकैः ||४०||
मनोहरैः पुष्पितैश्च फलभारावनामितैः |
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ||४१||
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः |
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ||४२||
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् |
मत्तबर्हिणसङ्घुष्टं कोकिलैश्च सदामदैः ||४३||
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः |
मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः ||४४||
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ||४४||
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः |
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ||४५||
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः |
तडागानि च रम्याणि बृहन्ति च महान्ति च ||४६||
तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् |
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ||४७||
तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते |
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ||४८||
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् |
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ||४९||
तान्निवेश्य ततो वीरो रामेण सह केशवः |
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ||५०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
199-अध्यायः-अर्जुनवनवासपर्व
जनमेजय उवाच||
एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन |
अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ||१||
सर्व एव महात्मानः पूर्वे मम पितामहाः |
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ||२||
कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः |
वर्तमाना महाभागा नाभिद्यन्त परस्परम् ||३||
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन |
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ||४||
वैशम्पायन उवाच||
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः |
रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः ||५||
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः |
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ||६||
जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः |
मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ||७||
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः |
आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ||८||
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु |
नारदस्त्वथ देवर्षिराजगाम यदृच्छया ||९||
आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ||९||
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि |
प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ||१०||
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् |
आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ||११||
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः |
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ||१२||
श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता |
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ||१३||
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी |
कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ||१४||
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः |
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ||१५||
गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ||१५||
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् |
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ||१६||
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी |
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ||१७||
सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ |
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ||१८||
एकराज्यावेकगृहावेकशय्यासनाशनौ |
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ||१९||
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् |
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ||२०||
युधिष्ठिर उवाच||
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने |
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ||२१||
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा |
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ||२२||
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन |
श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ||२३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
200-अध्यायः
सुन्दोपसुन्दोपाख्यानम्
नारद उवाच||
शृणु मे विस्तरेणेममितिहासं पुरातनम् |
भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ||१||
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा |
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ||२||
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ |
सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ||३||
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ |
एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ||४||
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ |
त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् ||५||
कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः |
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ||६||
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ |
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ||७||
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ |
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ||८||
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः |
धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ||९||
ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः |
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ||१०||
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः |
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ||११||
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः |
भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा ||१२||
परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा |
स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ||१३||
अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः |
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ||१४||
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः |
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ||१५||
ततः पितामहः साक्षादभिगम्य महासुरौ |
वरेण छन्दयामास सर्वलोकपितामहः ||१६||
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ |
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ||१७||
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा |
आवयोस्तपसानेन यदि प्रीतः पितामहः ||१८||
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ |
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ||१९||
पितामह उवाच||
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति |
अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ||२०||
करिष्यावेदमिति यन्महदभ्युत्थितं तपः |
युवयोर्हेतुनानेन नामरत्वं विधीयते ||२१||
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः |
हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ||२२||
सुन्दोपसुन्दावूचतुः||
त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् |
सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ||२३||
पितामह उवाच||
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् |
मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ||२४||
नारद उवाच||
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः |
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ||२५||
लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ |
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ||२६||
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ |
सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ||२७||
ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः |
महार्हाभरणोपेतौ विरजोम्बरधारिणौ ||२८||
अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् |
दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ||२९||
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति |
पीयतां दीयतां चेति वाच आसन्गृहे गृहे ||३०||
तत्र तत्र महापानैरुत्कृष्टतलनादितैः |
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ||३१||
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् |
समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् ||३२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
201-अध्यायः
नारद उवाच||
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ |
मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ||१||
सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः |
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ||२||
गदापट्टिशधारिण्या शूलमुद्गरहस्तया |
प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ||३||
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः |
चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ||४||
तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ |
देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ||५||
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः |
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ||६||
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा |
खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ||७||
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ |
समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ||८||
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ |
सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ||९||
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः |
तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ||१०||
तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् |
सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ||११||
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः |
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ||१२||
यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः |
तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ||१३||
आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् |
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ||१४||
तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः |
नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ||१५||
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव |
नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ||१६||
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः |
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ||१७||
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः |
शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ||१८||
राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ |
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ||१९||
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ |
संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ||२०||
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ |
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ||२१||
निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा |
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ||२२||
हाहाभूता भयार्ता च निवृत्तविपणापणा |
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ||२३||
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा |
अस्थिकङ्कालसङ्कीर्णा भूर्बभूवोग्रदर्शना ||२४||
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् |
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ||२५||
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः |
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ||२६||
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा |
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ||२७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
202-अध्यायः
नारद उवाच||
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः |
जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ||१||
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः |
पितामहस्य भवनं जगतः कृपया तदा ||२||
ततो ददृशुरासीनं सह देवैः पितामहम् |
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ||३||
तत्र देवो महादेवस्तत्राग्निर्वायुना सह |
चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ||४||
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः |
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ||५||
ऋषयः सर्व एवैते पितामहमुपासते ||५||
ततोऽभिगम्य सहिताः सर्व एव महर्षयः |
सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ||६||
यथाकृतं यथा चैव कृतं येन क्रमेण च |
न्यवेदयंस्ततः सर्वमखिलेन पितामहे ||७||
ततो देवगणाः सर्वे ते चैव परमर्षयः |
तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ||८||
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा |
मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ||९||
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् |
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ||१०||
सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ||१०||
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च |
निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ||११||
त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् |
समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ||१२||
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् |
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ||१३||
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा |
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ||१४||
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा |
न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ||१५||
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती |
जहार सर्वभूतानां चक्षूंषि च मनांसि च ||१६||
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता |
तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ||१७||
पितामह उवाच||
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे |
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ||१८||
त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै |
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ||१९||
नारद उवाच||
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् |
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ||२०||
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः |
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ||२१||
कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् |
इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ||२२||
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा |
अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ||२३||
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् |
गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ||२४||
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः |
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ||२५||
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा |
तथा सहस्रनेत्रश्च बभूव बलसूदनः ||२६||
तथा देवनिकायानामृषीणां चैव सर्वशः |
मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ||२७||
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् |
सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ||२८||
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः |
कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ||२९||
तिलोत्तमायां तु तदा गतायां लोकभावनः |
सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ||३०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
203-अध्यायः
नारद उवाच||
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ |
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ||१||
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् |
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ||२||
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन |
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ||३||
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः |
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ||४||
अन्तःपुरे वनोद्याने पर्वतोपवनेषु च |
यथेप्सितेषु देशेषु विजह्रातेऽमराविव ||५||
ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले |
पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ||६||
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ |
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ||७||
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः |
गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ||८||
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती |
वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ||९||
नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती |
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ||१०||
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ |
दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः ||११||
तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता |
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ||१२||
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना |
उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ||१३||
वरप्रदानमत्तौ तावौरसेन बलेन च |
धनरत्नमदाभ्यां च सुरापानमदेन च ||१४||
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ |
मदकामसमाविष्टौ परस्परमथोचतुः ||१५||
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत |
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ||१६||
नैषा तव ममैषेति तत्र तौ मन्युराविशत् |
तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ||१७||
तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ |
अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ||१८||
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले |
रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ||१९||
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा |
पातालमगमत्सर्वो विषादभयकम्पितः ||२०||
ततः पितामहस्तत्र सह देवैर्महर्षिभिः |
आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ||२१||
वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह |
वरयामास तत्रैनां प्रीतः प्राह पितामहः ||२२||
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि |
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ||२३||
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः |
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ||२४||
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ |
तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः ||२५||
तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् |
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ||२६||
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ||२६||
वैशम्पायन उवाच||
एवमुक्ता महात्मानो नारदेन महर्षिणा |
समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ||२७||
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ||२७||
द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् |
स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ||२८||
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः |
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ||२९||
एवं तैः समयः पूर्वं कृतो नरदचोदितैः |
न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ||३०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
204-अध्यायः
वैशम्पायन उवाच||
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः |
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ||१||
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् |
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ||२||
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः |
बभूव परमप्रीता नागैरिव सरस्वती ||३||
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु |
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ||४||
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते |
कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ||५||
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः |
आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ||६||
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः |
प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ||७||
ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते |
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ||८||
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते |
रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ||९||
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः |
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ||१०||
श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् |
आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ||११||
कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ||११||
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः |
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ||१२||
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ||१२||
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः |
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ||१३||
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः |
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ||१४||
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे |
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ||१५||
अनापृच्छ्य च राजानं गते मयि न संशयः |
अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ||१६||
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम |
अधर्मो वा महानस्तु वने वा मरणं मम ||१७||
शरीरस्यापि नाशेन धर्म एव विशिष्यते ||१७||
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः |
अनुप्रविश्य राजानमापृच्छ्य च विशां पते ||१८||
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत |
ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ||१९||
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह |
यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ||२०||
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी |
शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ||२१||
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः |
आजगाम पुरं वीरः सव्यसाची परन्तपः ||२२||
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः |
धर्मराजमुवाचेदं व्रतमादिश्यतां मम ||२३||
समयः समतिक्रान्तो भवत्संदर्शनान्मया |
वनवासं गमिष्यामि समयो ह्येष नः कृतः ||२४||
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् |
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ||२५||
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ||२५||
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ |
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ||२६||
सर्वं तदनुजानामि व्यलीकं न च मे हृदि ||२६||
गुरोरनुप्रवेशो हि नोपघातो यवीयसः |
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ||२७||
निवर्तस्व महाबाहो कुरुष्व वचनं मम |
न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ||२८||
अर्जुन उवाच||
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् |
न सत्याद्विचलिष्यामि सत्येनायुधमालभे ||२९||
वैशम्पायन उवाच||
सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः |
वने द्वादश वर्षाणि वासायोपजगाम ह ||३०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
205-अध्यायः
वैशम्पायन उवाच||
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् |
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ||१||
वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः |
चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ||२||
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः |
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ||३||
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः |
वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ||४||
रमणीयानि चित्राणि वनानि च सरांसि च |
सरितः सागरांश्चैव देशानपि च भारत ||५||
पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ |
स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ||६||
तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय |
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी ||७||
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत |
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ||८||
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च |
कृतपुष्पोपहारेषु तीरान्तरगतेषु च ||९||
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः |
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ||१०||
तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः |
अभिषेकाय कौन्तेयो गङ्गामवततार ह ||११||
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् |
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ||१२||
अपकृष्टो महाबाहुर्नागराजस्य कन्यया |
अन्तर्जले महाराज उलूप्या कामयानया ||१३||
ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् |
कौरव्यस्याथ नागस्य भवने परमार्चिते ||१४||
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः |
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ||१५||
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा |
प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् ||१६||
किमिदं साहसं भीरु कृतवत्यसि भामिनि |
कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा ||१७||
उलूप्युवाच||
ऐरावतकुले जातः कौरव्यो नाम पन्नगः |
तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ||१८||
साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् |
दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता ||१९||
तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन |
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः ||२०||
अर्जुन उवाच||
ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् |
धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः ||२१||
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि |
अनृतं नोक्तपूर्वं च मया किञ्चन कर्हिचित् ||२२||
कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् |
न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे ||२३||
उलूप्युवाच||
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् |
यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ||२४||
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति |
यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् ||२५||
वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ||२५||
तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् |
कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ||२६||
परित्राणं च कर्तव्यमार्तानां पृथुलोचन |
कृत्वा मम परित्राणं तव धर्मो न लुप्यते ||२७||
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः |
स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन ||२८||
भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो |
न करिष्यसि चेदेवं मृतां मामुपधारय ||२९||
प्राणदानान्महाबाहो चर धर्ममनुत्तमम् |
शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ||३०||
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः |
साहं शरणमभ्येमि रोरवीमि च दुःखिता ||३१||
याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् |
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ||३२||
वैशम्पायन उवाच||
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया |
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ||३३||
स नागभवने रात्रिं तामुषित्वा प्रतापवान् |
उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ||३४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
206-अध्यायः
वैशम्पायन उवाच||
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत |
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ||१||
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् |
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ||२||
प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च |
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ||३||
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः |
दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ||४||
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत |
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ||५||
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः |
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ||६||
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् |
महानदीं गयां चैव गङ्गामपि च भारत ||७||
एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् |
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ||८||
अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् |
जगाम तानि सर्वाणि तीर्थान्यायतनानि च ||९||
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ||९||
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः |
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ||१०||
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः |
सहायैरल्पकैः शूरः प्रययौ येन सागरम् ||११||
स कलिङ्गानतिक्रम्य देशानायतनानि च |
धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ||१२||
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् |
समुद्रतीरेण शनैर्मणलूरं जगाम ह ||१३||
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च |
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ||१४||
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ||१४||
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना |
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ||१५||
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् |
अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ||१६||
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ||१६||
राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह |
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ||१७||
उग्रेण तपसा तेन प्रणिपातेन शङ्करः |
ईश्वरस्तोषितस्तेन महादेव उमापतिः ||१८||
स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले |
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ||१९||
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे |
कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ||२०||
पुत्रो ममेयमिति मे भावना पुरुषोत्तम |
पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ ||२१||
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह |
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ||२२||
स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च |
उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ||२३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
207-अध्यायः
वैशम्पायन उवाच||
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः |
अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ||१||
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः |
आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ||२||
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् |
कारन्धमं प्रसन्नं च हयमेधफलं च यत् ||३||
भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ||३||
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः |
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ||४||
तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः |
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ||५||
तापसा ऊचुः||
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् |
अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ||६||
वैशम्पायन उवाच||
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः |
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ||७||
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् |
विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः ||८||
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् |
निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् ||९||
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् |
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ||१०||
उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना |
बभूव नारी कल्याणी सर्वाभरणभूषिता ||११||
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ||११||
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः |
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ||१२||
का वै त्वमसि कल्याणि कुतो वासि जलेचरी |
किमर्थं च महत्पापमिदं कृतवती पुरा ||१३||
नार्युवाच||
अप्सरास्मि महाबाहो देवारण्यविचारिणी |
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ||१४||
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः |
ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ||१५||
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् |
रूपवन्तमधीयानमेकमेकान्तचारिणम् ||१६||
तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् |
आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ||१७||
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् |
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ||१८||
अहं च सौरभेयी च समीची बुद्बुदा लता |
यौगपद्येन तं विप्रमभ्यगच्छाम भारत ||१९||
गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् |
स च नास्मासु कृतवान्मनो वीर कथञ्चन ||२०||
नाकम्पत महातेजाः स्थितस्तपसि निर्मले ||२०||
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ |
ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ||२१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
208-अध्यायः
वर्गोवाच||
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम |
आयाम शरणं विप्रं तं तपोधनमच्युतम् ||१||
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः |
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ||२||
एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन |
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ||३||
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः |
तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ||४||
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते |
सत्यो भवतु कल्याण एष वादो मनीषिणाम् ||५||
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् |
शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ||६||
वैशम्पायन उवाच||
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् |
प्रसादं कृतवान्वीर रविसोमसमप्रभः ||७||
ब्राह्मण उवाच||
शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् |
परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् ||८||
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले |
उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ||९||
तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ |
अनृतं नोक्तपूर्वं मे हसतापि कदाचन ||१०||
तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह |
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ||११||
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ||११||
वर्गोवाच||
ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् |
अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः ||१२||
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् |
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ||१३||
ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत |
दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ||१४||
सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् |
अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ||१५||
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् |
श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ||१६||
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै |
पुण्यानि रमणीयानि तानि गच्छत माचिरम् ||१७||
तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः |
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ||१८||
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः |
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ ||१९||
एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः |
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ||२०||
वैशम्पायन उवाच||
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते |
तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ||२१||
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् |
तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ||२२||
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः |
चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ||२३||
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् |
तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ||२४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
209-अध्यायः
वैशम्पायन उवाच||
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च |
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ||१||
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च |
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ||२||
प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् |
तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ||३||
ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः |
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ||४||
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने |
आस्तां प्रियसखायौ तौ नरनारायणावृषी ||५||
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत |
किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ||६||
ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा |
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ||७||
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ |
महीधरं रैवतकं वासायैवाभिजग्मतुः ||८||
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् |
पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् ||९||
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः |
सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ||१०||
अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः |
सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ||११||
तीर्थानां दर्शनं चैव पर्वतानां च भारत |
आपगानां वनानां च कथयामास सात्वते ||१२||
स कथाः कथयन्नेव निद्रया जनमेजय |
कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ||१३||
मधुरेण स गीतेन वीणाशब्देन चानघ |
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ||१४||
स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः |
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ||१५||
अलङ्कृता द्वारका तु बभूव जनमेजय |
कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ||१६||
दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः |
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ||१७||
अवलोकेषु नारीणां सहस्राणि शतानि च |
भोजवृष्ण्यन्धकानां च समवायो महानभूत् ||१८||
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः |
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ||१९||
कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः |
समानवयसः सर्वानाश्लिष्य स पुनः पुनः ||२०||
कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते |
उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ||२१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
210-अध्यायः-सुभद्राहरणपर्व
वैशम्पायन उवाच||
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ |
वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ||१||
तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः |
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ||२||
प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः |
स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ||३||
वादित्राणि च तत्र स्म वादकाः समवादयन् |
ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ||४||
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः |
यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ||५||
पौराश्च पादचारेण यानैरुच्चावचैस्तथा |
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ||६||
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः |
अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ||७||
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् |
उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ||८||
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ |
दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ||९||
अक्रूरः सारणश्चैव गदो भानुर्विडूरथः |
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ||१०||
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ |
हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ||११||
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् |
तमुत्सवं रैवतके शोभयां चक्रिरे तदा ||१२||
तदा कोलाहले तस्मिन्वर्तमाने महाशुभे |
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ||१३||
तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम् |
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ||१४||
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत |
तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ||१५||
अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत |
वनेचरस्य किमिदं कामेनालोड्यते मनः ||१६||
ममैषा भगिनी पार्थ सारणस्य सहोदरा |
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ||१७||
अर्जुन उवाच||
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा |
रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् ||१८||
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् |
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ||१९||
प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन |
आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ||२०||
वासुदेव उवाच||
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ |
स च संशयितः पार्थ स्वभावस्यानिमित्ततः ||२१||
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते |
विवाहहेतोः शूराणामिति धर्मविदो विदुः ||२२||
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम |
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ||२३||
वैशम्पायन उवाच||
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् |
शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ||२४||
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै |
श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ||२५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
211-अध्यायः
वैशम्पायन उवाच||
ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः |
गतां रैवतके कन्यां विदित्वा जनमेजय ||१||
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् |
कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ||२||
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि |
सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ||३||
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना |
ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ||४||
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् |
मृगयाव्यपदेशेन यौगपद्येन भारत ||५||
सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् |
दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ||६||
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति |
तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ||७||
ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् |
रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ||८||
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः |
विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ||९||
ते समासाद्य सहिताः सुधर्मामभितः सभाम् |
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ||१०||
तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः |
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ||११||
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा |
अन्नपानमपास्याथ समापेतुः सभां ततः ||१२||
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च |
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ||१३||
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः |
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ||१४||
तेषां समुपविष्टानां देवानामिव संनये |
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ||१५||
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः |
अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ||१६||
योजयध्वं रथानाशु प्रासानाहरतेति च |
धनूंषि च महार्हाणि कवचानि बृहन्ति च ||१७||
सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च |
स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ||१८||
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च |
अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् ||१९||
वनमाली ततः क्षीबः कैलासशिखरोपमः |
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ||२०||
किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने |
अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः ||२१||
एष तावदभिप्रायमाख्यातु स्वं महामतिः |
यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ||२२||
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् |
तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ||२३||
समं वचो निशम्येति बलदेवस्य धीमतः |
पुनरेव सभामध्ये सर्वे तु समुपाविशन् ||२४||
ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् |
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ||२५||
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत |
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ||२६||
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति |
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ||२७||
ईप्समानश्च सम्बन्धं कृतपूर्वं च मानयन् |
को हि नाम भवेनार्थी साहसेन समाचरेत् ||२८||
सोऽवमन्य च नामास्माननादृत्य च केशवम् |
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ||२९||
कथं हि शिरसो मध्ये पदं तेन कृतं मम |
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ||३०||
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् |
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ||३१||
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् |
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ||३२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
212-अध्यायः-हरणहारिकपर्व
वैशम्पायन उवाच||
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः |
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ||१||
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् |
संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ||२||
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा |
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ||३||
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते |
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ||४||
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः |
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ||५||
उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी |
एष चापीदृशः पार्थः प्रसह्य हृतवानिति ||६||
भरतस्यान्वये जातं शन्तनोश्च महात्मनः |
कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ||७||
न च पश्यामि यः पार्थं विक्रमेण पराजयेत् |
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ||८||
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः |
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ||९||
तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् |
निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ||१०||
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् |
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ||११||
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप |
निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ||१२||
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः |
पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ||१३||
पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ||१३||
अभिगम्य स राजानं विनयेन समाहितः |
अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ||१४||
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् |
तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ||१५||
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ||१५||
तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः |
सान्त्वयामास भूयश्च क्षमयामास चासकृत् ||१६||
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् |
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ||१७||
साधिकं तेन रूपेण शोभमाना यशस्विनी |
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ||१८||
ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ||१८||
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना |
ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ||१९||
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् |
सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ||२०||
तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ||२०||
ततस्ते हृष्टमनसः पाण्डवेया महारथाः |
कुन्ती च परमप्रीता बभूव जनमेजय ||२१||
श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् |
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ||२२||
आजगाम विशुद्धात्मा सह रामेण केशवः |
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ||२३||
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः |
सैन्येन महता शौरिरभिगुप्तः परन्तपः ||२४||
तत्र दानपतिर्धीमानाजगाम महायशाः |
अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ||२५||
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः |
साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ||२६||
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः |
प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ||२७||
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च |
सारणश्च महाबाहुर्गदश्च विदुषां वरः ||२८||
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा |
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ||२९||
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् |
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ||३०||
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् |
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ||३१||
सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् |
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ||३२||
दह्यतागुरुणा चैव देशे देशे सुगन्धिना |
सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ||३३||
प्रतिपेदे महाबाहुः सह रामेण केशवः |
वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ||३४||
सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः |
विवेश भवनं राज्ञः पुरंदरगृहोपमम् ||३५||
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि |
मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ||३६||
तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् |
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ||३७||
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः |
प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ||३८||
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् |
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ||३९||
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् |
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ||४०||
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् |
चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ||४१||
सहस्रं प्रददौ कृष्णो गवामयुतमेव च ||४१||
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् |
वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ||४२||
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ||४२||
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् |
शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ||४३||
स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् |
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ||४४||
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् |
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ||४५||
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः |
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ||४६||
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् |
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ||४७||
कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् |
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ||४८||
रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली |
प्रीयमाणो हलधरः सम्बन्धप्रीतिमावहन् ||४९||
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् |
महागजमहाग्राहः पताकाशैवलाकुलः ||५०||
पाण्डुसागरमाविद्धः प्रविवेश महानदः |
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ||५१||
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः |
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ||५२||
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः |
विजह्रुरमरावासे नराः सुकृतिनो यथा ||५३||
तत्र तत्र महापानैरुत्कृष्टतलनादितैः |
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ||५४||
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् |
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ||५५||
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः |
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ||५६||
वासुदेवस्तु पार्थेन तत्रैव सह भारत |
उवास नगरे रम्ये शक्रप्रस्थे महामनाः ||५७||
व्यचरद्यमुनाकूले पार्थेन सह भारत ||५७||
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा |
जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ||५८||
दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् |
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ||५९||
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् |
अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ||६०||
स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् |
मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ||६१||
यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः |
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ||६२||
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् |
पितृणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ||६३||
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः |
स चापि ववृधे बालः शुक्लपक्षे यथा शशी ||६४||
चतुष्पादं दशविधं धनुर्वेदमरिंदमः |
अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ||६५||
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः |
क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ||६६||
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः |
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ||६७||
सर्वसंहननोपेतं सर्वलक्षणलक्षितम् |
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ||६८||
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् |
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ||६९||
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ |
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ||७०||
पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा |
लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ||७१||
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् |
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ||७२||
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् |
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ||७३||
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् |
परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ||७४||
सुते सोमसहस्रे तु सोमार्कसमतेजसम् |
सुतसोमं महेष्वासं सुषुवे भीमसेनतः ||७५||
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना |
जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ||७६||
शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः |
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ||७७||
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते |
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ||७८||
एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः |
अन्वजायन्त राजेन्द्र परस्परहिते रताः ||७९||
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च |
चकार विधिवद्धौम्यस्तेषां भरतसत्तम ||८०||
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः |
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ||८१||
देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः |
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ||८२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
213-अध्यायः-खाण्डवदाहपर्व
वैशम्पायन उवाच||
इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् |
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ||१||
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् |
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ||२||
स समं धर्मकामार्थान्सिषेवे भरतर्षभः |
त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ||३||
तेषां समविभक्तानां क्षितौ देहवतामिव |
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ||४||
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः |
रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ||५||
अधिष्ठानवती लक्ष्मीः परायणवती मतिः |
बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ||६||
भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ |
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ||७||
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे |
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ||८||
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले |
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ||९||
न तु केवलदैवेन प्रजा भावेन रेमिरे |
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ||१०||
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् |
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ||११||
स हि सर्वस्य लोकस्य हितमात्मन एव च |
चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ||१२||
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः |
अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ||१३||
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् |
उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ||१४||
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन |
सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ||१५||
वासुदेव उवाच||
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले |
सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ||१६||
वैशम्पायन उवाच||
आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत |
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ||१७||
विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् |
गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ||१८||
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः |
माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ||१९||
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः |
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ||२०||
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः |
यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ||२१||
द्रौपदी च सुभद्रा च वासांस्याभरणानि च |
प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ||२२||
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः |
जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ||२३||
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् |
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ||२४||
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः |
शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ||२५||
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ |
समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ||२६||
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ |
महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ||२७||
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च |
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ||२८||
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव |
अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ ||२९||
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः |
हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ||३०||
तरुणादित्यसङ्काशः कृष्णवासा जटाधरः |
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ||३१||
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् |
अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ||३२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
214-अध्यायः
वैशम्पायन उवाच||
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् |
लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ||१||
ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा |
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् ||२||
एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ |
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ||३||
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः |
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ||४||
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् |
यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ||५||
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति |
तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ||६||
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा |
सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ||७||
तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः |
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ||८||
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति |
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ||९||
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः |
दहेयं खाण्डवं दावमेतदन्नं वृतं मया ||१०||
युवां ह्युदकधारास्ता भूतानि च समन्ततः |
उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः ||११||
एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् |
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ||१२||
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च |
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ||१३||
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् |
कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ||१४||
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः |
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ||१५||
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः |
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ||१६||
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् |
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ||१७||
उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि |
निवारयेयं येनेन्द्रं वर्षमाणं महावने ||१८||
पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक |
करणानि समर्थानि भगवन्दातुमर्हसि ||१९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
215-अध्यायः
वैशम्पायन उवाच||
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः |
चिन्तयामास वरुणं लोकपालं दिदृक्षया ||१||
आदित्यमुदके देवं निवसन्तं जलेश्वरम् ||१||
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् |
तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ||२||
चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ||२||
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते |
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ||३||
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति |
चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ||४||
ददानीत्येव वरुणः पावकं प्रत्यभाषत ||४||
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् |
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ||५||
सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ||५||
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् |
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ||६||
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः |
प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ||७||
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् |
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ||८||
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ||८||
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः |
भानुमन्तं महाघोषं सर्वभूतमनोहरम् ||९||
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः |
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ||१०||
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः |
नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ||११||
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा |
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ||१२||
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः |
विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ||१३||
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च |
नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति ||१४||
स तं नानापताकाभिः शोभितं रथमुत्तमम् |
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ||१५||
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् |
आरुरोह रथं पार्थो विमानं सुकृती यथा ||१६||
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा |
गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः ||१७||
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् |
जग्राह बलमास्थाय ज्यया च युयुजे धनुः ||१८||
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह |
येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ||१९||
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी |
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ||२०||
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः |
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ||२१||
अब्रवीत्पावकश्चैनमेतेन मधुसूदन |
अमानुषानपि रणे विजेष्यसि न संशयः ||२२||
अनेन त्वं मनुष्याणां देवानामपि चाहवे |
रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ||२३||
भविष्यसि न संदेहः प्रवरारिनिबर्हणे ||२३||
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु |
हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ||२४||
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् |
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ||२५||
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ |
कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ||२६||
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः |
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ||२७||
अर्जुन उवाच||
चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् |
त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ||२८||
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी |
अहमप्युत्सहे लोकान्विजेतुं युधि पावक ||२९||
सर्वतः परिवार्यैनं दावेन महता प्रभो |
कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ||३०||
वैशम्पायन उवाच||
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च |
तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ||३१||
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा |
ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ||३२||
परिगृह्य समाविष्टस्तद्वनं भरतर्षभ |
मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ||३३||
दह्यतस्तस्य विबभौ रूपं दावस्य भारत |
मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ||३४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
216-अध्यायः
वैशम्पायन उवाच||
तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ |
दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ||१||
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः |
पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ||२||
छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् |
आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ||३||
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः |
उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ||४||
दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे |
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ||५||
समालिङ्ग्य सुतानन्ये पितृन्मातृंस्तथापरे |
त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ||६||
विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः |
तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ||७||
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले |
तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ||८||
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत |
गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ||९||
शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः |
अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये ||१०||
तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः |
दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ||११||
ते शराचितसर्वाङ्गा विनदन्तो महारवान् |
ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ||१२||
शरैरभ्याहतानां च दह्यतां च वनौकसाम् |
विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ||१३||
वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः |
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ||१४||
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः |
शरणं देवराजानं सहस्राक्षं पुरंदरम् ||१५||
देवा ऊचुः||
किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना |
कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ||१६||
वैशम्पायन उवाच||
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च |
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ||१७||
महता मेघजालेन नानारूपेण वज्रभृत् |
आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ||१८||
ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः |
अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ||१९||
असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः |
ख एव समशुष्यन्त न काश्चित्पावकं गताः ||२०||
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा |
पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ||२१||
अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् |
बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ||२२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
217-अध्यायः
वैशम्पायन उवाच||
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् |
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ||१||
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः |
छादयामास तद्वर्षमपकृष्य ततो वनात् ||२||
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः |
सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना ||३||
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः |
दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ||४||
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली |
स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ||५||
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः |
मोक्षयामास तं माता निगीर्य भुजगात्मजा ||६||
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते |
ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ||७||
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः |
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ||८||
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् |
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ||९||
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः |
द्विधा त्रिधा च चिच्छेद खगतानेव भारत ||१०||
शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् |
पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ||११||
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः |
योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ||१२||
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् |
स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ||१३||
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् |
वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ||१४||
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् |
वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ||१५||
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् |
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ||१६||
क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः |
सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ||१७||
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः |
प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ||१८||
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः |
समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ||१९||
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा |
प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ ||२०||
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः |
उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ||२१||
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् |
विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ||२२||
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः |
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ||२३||
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः |
कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ||२४||
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् |
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ||२५||
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा |
दैत्यदानवसङ्घानां चकार कदनं महत् ||२६||
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा |
वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ||२७||
ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः |
पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ||२८||
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् |
हतावेताविति प्राह सुरानसुरसूदनः ||२९||
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् |
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ||३०||
कालदण्डं यमो राजा शिबिकां च धनेश्वरः |
पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ||३१||
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि |
जगृहे च धनुर्धाता मुसलं च जयस्तथा ||३२||
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः |
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ||३३||
प्रगृह्य परिघं घोरं विचचारार्यमा अपि |
मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ||३४||
पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते |
आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ||३५||
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः |
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ||३६||
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ |
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ||३७||
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे |
युगान्तसमरूपाणि भूतोत्सादाय भारत ||३८||
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ |
अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ||३९||
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः |
न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा ||४०||
असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः |
भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ||४१||
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च |
आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ||४२||
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे |
बभूव परमप्रीतो भूयश्चैतावयोधयत् ||४३||
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः |
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ||४४||
तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ||४४||
विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः |
भूयः संवर्धयामास तद्वर्षं देवराडथ ||४५||
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः |
विलयं गमयामास हर्षयन्पितरं तदा ||४६||
समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् |
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ||४७||
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः |
बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ||४८||
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ |
सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ||४९||
तेनावाक्पतता दावे शैलेन महता भृशम् |
भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ||५०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
218-अध्यायः
वैशम्पायन उवाच||
तथा शैलनिपातेन भीषिताः खाण्डवालयाः |
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ||१||
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ||१||
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा |
समुद्विग्ना विससृपुस्तथान्या भूतजातयः ||२||
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ |
उत्पातनादशब्देन सन्त्रासित इवाभवन् ||३||
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः |
तेन ता जातयः क्षुद्राः सदानवनिशाचराः ||४||
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ||४||
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः |
वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः ||५||
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः |
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ||६||
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः |
हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ||७||
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत |
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ||८||
समेतानां च देवानां दानवानां च सर्वशः |
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ||९||
तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः |
नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ||१०||
शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् |
बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ||११||
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी |
शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ||१२||
न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः |
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ||१३||
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ |
वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ||१४||
नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि |
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ||१५||
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि |
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ||१६||
पूजनीयतमावेतावपि सर्वैः सुरासुरैः |
सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ||१७||
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव |
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ||१८||
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः |
कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ||१९||
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः |
त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ||२०||
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु |
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ||२१||
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ |
निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ||२२||
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् |
व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ||२३||
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः |
सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ||२४||
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् |
निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ||२५||
शतेनैकं च विव्याध शतं चैकेन पत्रिणा |
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ||२६||
न चालभन्त ते शर्म रोधःसु विषमेषु च |
पितृदेवनिवासेषु सन्तापश्चाप्यजायत ||२७||
भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् |
रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ||२८||
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ||२८||
न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् |
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ||२९||
एकायनगता येऽपि निष्पतन्त्यत्र केचन |
राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ||३०||
ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः |
पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ||३१||
स मांसरुधिरौघैश्च मेदौघैश्च समीरितः |
उपर्याकाशगो वह्निर्विधूमः समदृश्यत ||३२||
दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः |
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ||३३||
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः |
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ||३४||
अथासुरं मयं नाम तक्षकस्य निवेशनात् |
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ||३५||
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः |
देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ||३६||
जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ||३६||
स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् |
अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ||३७||
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः |
प्रत्युवाच मयं पार्थो जीवयन्निव भारत ||३८||
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् |
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ||३९||
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च |
अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ||४०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
219-अध्यायः
शार्ंगकोपाख्यानम्
जनमेजय उवाच||
किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते |
तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे ||१||
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च |
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् ||२||
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् |
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ||३||
वैशम्पायन उवाच||
यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते |
तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ||४||
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः |
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ||५||
स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् |
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ||६||
स गत्वा तपसः पारं देहमुत्सृज्य भारत |
जगाम पितृलोकाय न लेभे तत्र तत्फलम् ||७||
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि |
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ||८||
किमर्थमावृता लोका ममैते तपसार्जिताः |
किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ||९||
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् |
फलमेतस्य तपसः कथयध्वं दिवौकसः ||१०||
देवा ऊचुः||
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु |
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ||११||
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः |
तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ||१२||
त इमे प्रसवस्यार्थे तव लोकाः समावृताः |
प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ||१३||
पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने |
तस्मादपत्यसन्ताने यतस्व द्विजसत्तम ||१४||
वैशम्पायन उवाच||
तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् |
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ||१५||
स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् |
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ||१६||
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः |
तानपास्य स तत्रैव जगाम लपितां प्रति ||१७||
बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ||१७||
तस्मिन्गते महाभागे लपितां प्रति भारत |
अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ||१८||
तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने |
नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप ||१९||
बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा ||१९||
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः |
मन्दपालश्चरंस्तस्मिन्वने लपितया सह ||२०||
तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् |
सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ||२१||
पुत्रान्परिददद्भीतो लोकपालं महौजसम् ||२१||
मन्दपाल उवाच||
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् |
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ||२२||
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः |
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ||२३||
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः |
त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ||२४||
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् |
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ||२५||
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः |
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ||२६||
जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते |
तवैव कर्म विहितं भूतं सर्वं चराचरम् ||२७||
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् |
त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ||२८||
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः |
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ||२९||
वैशम्पायन उवाच||
एवं स्तुतस्ततस्तेन मन्दपालेन पावकः |
तुतोष तस्य नृपते मुनेरमिततेजसः ||३०||
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ||३०||
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् |
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ||३१||
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः |
खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ||३२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
220-अध्यायः
वैशम्पायन उवाच||
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः |
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ||१||
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी |
जरिता दुःखसन्तप्ता विललाप नरेश्वर ||२||
अयमग्निर्दहन्कक्षमित आयाति भीषणः |
जगत्संदीपयन्भीमो मम दुःखविवर्धनः ||३||
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः |
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ||४||
त्रासयंश्चायमायाति लेलिहानो महीरुहान् ||४||
अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम |
आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ||५||
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे |
कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ||६||
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् |
चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन ||७||
छादयित्वा च वो गात्रैः करिष्ये मरणं सह ||७||
जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् |
सारिसृक्वः प्रजायेत पितृणां कुलवर्धनः ||८||
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः |
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ||९||
कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा |
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ||१०||
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् |
एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ||११||
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् |
अस्मासु हि विनष्टेषु भवितारः सुतास्तव ||१२||
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ||१२||
अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः |
तद्वै कर्तुं परः कालो मातरेष भवेत्तव ||१३||
मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः |
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ||१४||
जरितोवाच||
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः |
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ||१५||
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः |
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ||१६||
तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् |
रोचतामेष वोपायो विमोक्षाय हुताशनात् ||१७||
शार्ङ्गका ऊचुः||
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् |
पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ||१८||
कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् |
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ||१९||
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् |
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ||२०||
गर्हितं मरणं नः स्यादाखुना खादता बिले |
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ||२१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
221-अध्यायः
जरितोवाच||
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् |
क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ||१||
शार्ङ्गका ऊचुः||
न हृतं तं वयं विद्मः श्येनेनाखुं कथञ्चन |
अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ||२||
संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् |
मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् ||३||
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते |
चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ||४||
जरितोवाच||
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् |
सञ्चरन्तं समादाय जहाराखुं बिलाद्बली ||५||
तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् |
आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ||६||
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि |
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ||७||
यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा |
तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ||८||
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् |
श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ||९||
शार्ङ्गका ऊचुः||
न विद्म वै वयं मातर्हृतमाखुमितः पुरा |
अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ||१०||
जरितोवाच||
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् |
अत एव भयं नास्ति क्रियतां वचनं मम ||११||
शार्ङ्गका ऊचुः||
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् |
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ||१२||
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् |
पीड्यमाना भरस्यस्मान्का सती के वयं तव ||१३||
तरुणी दर्शनीयासि समर्था भर्तुरेषणे |
अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ||१४||
वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् |
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ||१५||
वैशम्पायन उवाच||
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे |
जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ||१६||
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः |
यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ||१७||
ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा |
जरितारिस्ततो वाचं श्रावयामास पावकम् ||१८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
222-अध्यायः
जरितारिरुवाच||
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः |
स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ||१||
यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते |
स कृच्छ्रकाले व्यथितो न प्रजानाति किञ्चन ||२||
सारिसृक्व उवाच||
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः |
शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ||३||
स्तम्बमित्र उवाच||
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः |
ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ||४||
द्रोण उवाच||
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् |
सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ||५||
वैशम्पायन उवाच||
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् |
तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ||६||
जरितारिरुवाच||
आत्मासि वायोः पवनः शरीरमुत वीरुधाम् |
योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ||७||
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः |
अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ||८||
सारिसृक्व उवाच||
माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो |
न नस्त्राता विद्यतेऽग्ने त्वदन्य; स्तस्माद्धि नः परिरक्षैकवीर ||९||
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः |
तेन नः परिरक्षाद्य ईडितः शरणैषिणः ||१०||
त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव |
ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह ||११||
स्तम्बमित्र उवाच||
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् |
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ||१२||
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः |
मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ||१३||
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः |
सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ||१४||
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते |
नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ||१५||
द्रोण उवाच||
सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च |
विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र ||१६||
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः |
जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ||१७||
इदं वै सद्म तिग्मांशो वरुणस्य परायणम् |
शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ||१८||
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन |
परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ||१९||
वैशम्पायन उवाच||
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा |
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ||२०||
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया |
ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ||२१||
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः |
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ||२२||
यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् |
उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ||२३||
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ||२३||
द्रोण उवाच||
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः |
एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ||२४||
वैशम्पायन उवाच||
तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् |
ददाह खाण्डवं चैव समिद्धो जनमेजय ||२५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
223-अध्यायः
वैशम्पायन उवाच||
मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा |
उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ||१||
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् |
कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ||२||
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति |
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ||३||
कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी |
भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ||४||
कथं नु सरणेऽशक्तान्पतने च ममात्मजान् |
सन्तप्यमाना अभितो वाशमानाभिधावती ||५||
जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे |
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ||६||
लालप्यमानं तमृषिं मन्दपालं तथा वने |
लपिता प्रत्युवाचेदं सासूयमिव भारत ||७||
न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि |
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ||८||
तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ |
प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ||९||
लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन |
समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ||१०||
तामेव तु ममामित्रीं चिन्तयन्परितप्यसे |
ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ||११||
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने |
पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन ||१२||
गच्छ त्वं जरितामेव यदर्थं परितप्यसे |
चरिष्याम्यहमप्येका यथा कापुरुषे तथा ||१३||
मन्दपाल उवाच||
नाहमेवं चरे लोके यथा त्वमभिमन्यसे |
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ||१४||
भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः |
अवमन्येत तं लोको यथेच्छसि तथा कुरु ||१५||
एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् |
द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ||१६||
वैशम्पायन उवाच||
तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः |
जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ||१७||
सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः |
रोरूयमाणा कृपणा सुतान्दृष्टवती वने ||१८||
अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः |
एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ||१९||
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत |
अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ||२०||
लालप्यमानमेकैकं जरितां च पुनः पुनः |
नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा ||२१||
मन्दपाल उवाच||
ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः |
मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ||२२||
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे |
कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ||२३||
जरितोवाच||
किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा |
किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ||२४||
यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा |
तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ||२५||
मन्दपाल उवाच||
न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् |
सापत्नकमृते लोके भवितव्यं हि तत्तथा ||२६||
सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता |
अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ||२७||
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् |
सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ||२८||
अपध्यानेन सा तेन धूमारुणसमप्रभा |
लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ||२९||
अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह |
इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे ||३०||
नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन |
न हि कार्यमनुध्याति भार्या पुत्रवती सती ||३१||
वैशम्पायन उवाच||
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे |
स च तानात्मजान्राजन्नाश्वासयितुमारभत् ||३२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
224-अध्यायः
मन्दपाल उवाच||
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया |
अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ||१||
अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः |
युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ||२||
न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति |
ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ||३||
वैशम्पायन उवाच||
एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत |
मन्दपालस्ततो देशादन्यं देशं जगाम ह ||४||
भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् |
ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ||५||
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः |
अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ||६||
ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः |
मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ||७||
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् |
वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ||८||
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः |
ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ||९||
यदा प्रसन्नो भगवान्महादेवो भविष्यति |
तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ||१०||
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन |
तपसा महता चापि दास्यामि तव तान्यहम् ||११||
आग्नेयानि च सर्वाणि वायव्यानि तथैव च |
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ||१२||
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् |
ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ||१३||
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः |
हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ||१४||
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् |
अहानि पञ्च चैकं च विरराम सुतर्पितः ||१५||
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च |
युक्तः परमया प्रीत्या तावुवाच विशां पते ||१६||
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् |
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ||१७||
एवं तौ समनुज्ञातौ पावकेन महात्मना |
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ||१८||
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ |
रमणीये नदीकूले सहिताः समुपाविशन् ||१९||
आदिपर्व सम्पूर्णम्