श्रीमहाभारतम्
||१ आदिपर्वम् ||
056-अध्यायः
जनमेजय उवाच||
कथितं वै समासेन त्वया सर्वं द्विजोत्तम |
महाभारतमाख्यानं कुरूणां चरितं महत् ||१||
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि |
विस्तरश्रवणे जातं कौतूहलमतीव मे ||२||
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति |
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||३||
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः |
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ||४||
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः |
प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ||५||
कथं नागायुतप्राणो बाहुशाली वृकोदरः |
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ||६||
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः |
शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ||७||
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा |
अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ||८||
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् |
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ||९||
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः |
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ||१०||
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन |
यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ||११||
वैशम्पायन उवाच||
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः |
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||१२||
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् |
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ||१३||
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः |
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ||१४||
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् |
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ||१५||
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते |
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ||१६||
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् |
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ||१७||
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् |
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ||१८||
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा |
महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ||१९||
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् |
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ||२०||
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् |
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ||२१||
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे |
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ||२२||
शरीरेण कृतं पापं वाचा च मनसैव च |
सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ||२३||
भारतानां महज्जन्म शृण्वतामनसूयताम् |
नास्ति व्याधिभयं तेषां परलोकभयं कुतः ||२४||
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च |
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ||२५||
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् |
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ||२६||
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः |
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ||२७||
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु |
धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ||२८||
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः |
अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ||२९||
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् |
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ||३०||
भारतानां महज्जन्म महाभारतमुच्यते |
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ||३१||
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः |
महाभारतमाख्यानं कृतवानिदमुत्तमम् ||३२||
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ |
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ||३३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
057-अध्यायः
वैशम्पायन उवाच||
राजोपरिचरो नाम धर्मनित्यो महीपतिः |
बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ||१||
स चेदिविषयं रम्यं वसुः पौरवनन्दनः |
इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः ||२||
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् |
देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ||३||
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै |
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् ||४||
इन्द्र उवाच||
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते |
तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् ||५||
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः |
धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ||६||
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः |
ऊधः पृथिव्या यो देशस्तमावस नराधिप ||७||
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् |
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ||८||
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः |
वसुपूर्णा च वसुधा वस चेदिषु चेदिप ||९||
धर्मशीला जनपदाः सुसन्तोषाश्च साधवः |
न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ||१०||
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः |
युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च ||११||
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद |
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ||१२||
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् |
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ||१३||
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः |
चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ||१४||
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् |
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ||१५||
लक्षणं चैतदेवेह भविता ते नराधिप |
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ||१६||
वैशम्पायन उवाच||
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः |
इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ||१७||
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा |
प्रवेशं कारयामास गते संवत्सरे तदा ||१८||
ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः |
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ||१९||
अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः |
अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ||२०||
माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ||२०||
भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः |
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ||२१||
एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् |
वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ||२२||
ये पूजयिष्यन्ति नरा राजानश्च महं मम |
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ||२३||
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति |
तथा स्फीतो जनपदो मुदितश्च भविष्यति ||२४||
एवं महात्मना तेन महेन्द्रेण नराधिप |
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ||२५||
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः |
भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ||२६||
वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ||२६||
सम्पूजितो मघवता वसुश्चेदिपतिस्तदा |
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ||२७||
इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ||२७||
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः |
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ||२८||
महारथो मगधराड्विश्रुतो यो बृहद्रथः |
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ||२९||
मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ||२९||
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः |
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ||३०||
वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ||३०||
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् |
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ||३१||
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ||३१||
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः |
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ||३२||
गिरिं कोलाहलं तं तु पदा वसुरताडयत् |
निश्चक्राम नदी तेन प्रहारविवरेण सा ||३३||
तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् |
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ||३४||
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः |
वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् ||३५||
चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ||३५||
वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् |
ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ||३६||
तदहः पितरश्चैनमूचुर्जहि मृगानिति |
तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ||३७||
स पितृणां नियोगं तमव्यतिक्रम्य पार्थिवः |
चचार मृगयां कामी गिरिकामेव संस्मरन् ||३८||
अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ||३८||
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने |
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ||३९||
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत |
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ||४०||
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः |
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ||४१||
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः |
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ||४२||
सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ||४२||
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय |
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ||४३||
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् |
जवं परममास्थाय प्रदुद्राव विहङ्गमः ||४४||
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः |
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ||४५||
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः |
युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ||४६||
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः |
मीनभावमनुप्राप्ता बभूव यमुनाचरी ||४७||
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् |
जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ||४८||
कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः |
मासे च दशमे प्राप्ते तदा भरतसत्तम ||४९||
उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ||४९||
आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् |
काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति ||५०||
तयोः पुमांसं जग्राह राजोपरिचरस्तदा |
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ||५१||
साप्सरा मुक्तशापा च क्षणेन समपद्यत |
पुरोक्ता या भगवता तिर्यग्योनिगता शुभे ||५२||
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ||५२||
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना |
सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ||५३||
सिद्धर्षिचारणपथं जगामाथ वराप्सराः ||५३||
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी |
राज्ञा दत्ताथ दाशाय इयं तव भवत्विति ||५४||
रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ||५४||
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् |
आसीन्मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता ||५५||
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले |
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ||५६||
अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् |
दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् ||५७||
विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः ||५७||
साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् |
आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ||५८||
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः |
येन देशः स सर्वस्तु तमोभूत इवाभवत् ||५९||
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा |
विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ||६०||
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् |
त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ ||६१||
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम |
गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे ||६२||
एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् ||६२||
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः |
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ||६३||
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि |
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ||६४||
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् |
स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ||६५||
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता |
जगाम सह संसर्गमृषिणाद्भुतकर्मणा ||६६||
तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि |
तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ||६७||
ततो योजनगन्धेति तस्या नाम परिश्रुतम् |
पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् ||६८||
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् |
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ||६९||
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ||६९||
स मातरमुपस्थाय तपस्येव मनो दधे |
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ||७०||
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् |
द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ||७१||
पादापसारिणं धर्मं विद्वान्स तु युगे युगे |
आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च ||७२||
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया |
विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ||७३||
वेदानध्यापयामास महाभारतपञ्चमान् |
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ||७४||
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च |
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ||७५||
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः |
वसुवीर्यात्समभवन्महावीर्यो महायशाः ||७६||
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया |
अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ||७७||
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् |
इषीकया मया बाल्यादेका विद्धा शकुन्तिका ||७८||
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे |
तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ||७९||
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः |
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ||८०||
तेन शापेन धर्मोऽपि शूद्रयोनावजायत |
विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ||८१||
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् |
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः ||८२||
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ||८२||
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः |
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ||८३||
अनादिनिधनो देवः स कर्ता जगतः प्रभुः |
अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ||८४||
आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् |
पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ||८५||
अनन्तमचलं देवं हंसं नारायणं प्रभुम् |
धातारमजरं नित्यं तमाहुः परमव्ययम् ||८६||
पुरुषः स विभुः कर्ता सर्वभूतपितामहः |
धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ||८७||
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ |
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ||८८||
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ||८८||
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत |
महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ||८९||
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः |
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ||९०||
अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ||९०||
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः |
वैताने कर्मणि तते पावकात्समजायत ||९१||
वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ||९१||
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा |
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ||९२||
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः |
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ||९३||
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा |
दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ||९४||
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः |
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ||९५||
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् |
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ||९६||
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः |
इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः ||९७||
जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ |
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ||९८||
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः |
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ||९९||
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत |
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ||१००||
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे |
कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः ||१०१||
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् |
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ||१०२||
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् |
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ||१०३||
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता |
यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ||१०४||
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ |
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ||१०५||
तेषामपरिमेयानि नामधेयानि सर्वशः |
न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि ||१०६||
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ||१०६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
058-अध्यायः
जनमेजय उवाच||
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः |
सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ||१||
यदर्थमिह सम्भूता देवकल्पा महारथाः |
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ||२||
वैशम्पायन उवाच||
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् |
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ||३||
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा |
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ||४||
तदा निःक्षत्रिये लोके भार्गवेण कृते सति |
ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ||५||
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः |
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ||६||
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः |
ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ||७||
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ||७||
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः |
जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ||८||
चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ||८||
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा |
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ||९||
ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ||९||
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः |
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ||१०||
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ||१०||
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् |
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ||११||
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् |
ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ||१२||
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः |
दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ||१३||
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः |
स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ||१४||
न बाल एव म्रियते तदा कश्चिन्नराधिप |
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ||१५||
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ |
इयं सागरपर्यन्ता समापूर्यत मेदिनी ||१६||
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः |
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ||१७||
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप |
न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ||१८||
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह |
न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ||१९||
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः |
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ||२०||
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः |
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ||२१||
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप |
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ||२२||
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ |
फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ||२३||
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप |
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ||२४||
ततः समुदिते लोके मानुषे भरतर्षभ |
असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ||२५||
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि |
ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह ||२६||
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः |
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ||२७||
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च |
क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ||२८||
जातैरिह महीपाल जायमानैश्च तैर्मही |
न शशाकात्मनात्मानमियं धारयितुं धरा ||२९||
अथ जाता महीपालाः केचिद्बलसमन्विताः |
दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ||३०||
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् |
इमां सागरपर्यन्तां परीयुररिमर्दनाः ||३१||
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् |
अन्यानि चैव भूतानि पीडयामासुरोजसा ||३२||
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते |
विचेरुः सर्वतो राजन्महीं शतसहस्रशः ||३३||
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः |
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ||३४||
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः |
पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ||३५||
न हीमां पवनो राजन्न नागा न नगा महीम् |
तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ||३६||
ततो मही महीपाल भारार्ता भयपीडिता |
जगाम शरणं देवं सर्वभूतपितामहम् ||३७||
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः |
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ||३८||
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः |
वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ||३९||
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी |
संनिधौ लोकपालानां सर्वेषामेव भारत ||४०||
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः |
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ||४१||
स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत |
सुरासुराणां लोकानामशेषेण मनोगतम् ||४२||
तमुवाच महाराज भूमिं भूमिपतिर्विभुः |
प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ||४३||
यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे |
तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ||४४||
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च |
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ||४५||
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् |
अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ||४६||
तथैव च समानीय गन्धर्वाप्सरसां गणान् |
उवाच भगवान्सर्वानिदं वचनमुत्तमम् ||४७||
स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति ||४७||
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः |
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ||४८||
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः |
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ||४९||
यः स चक्रगदापाणिः पीतवासासितप्रभः |
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ||५०||
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् |
अंशेनावतरस्वेति तथेत्याह च तं हरिः ||५१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
059-अध्यायः
वैशम्पायन उवाच||
अथ नारायणेनेन्द्रश्चकार सह संविदम् |
अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ||१||
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः |
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ||२||
तेऽमरारिविनाशाय सर्वलोकहिताय च |
अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ||३||
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च |
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ||४||
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा |
पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ||५||
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा |
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ||६||
जनमेजय उवाच||
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा |
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ||७||
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः |
प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ||८||
वैशम्पायन उवाच||
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे |
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ||९||
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः |
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ||१०||
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः |
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ||११||
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः |
क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ||१२||
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत |
एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ||१३||
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः |
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ||१४||
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च |
भगो विवस्वान्पूषा च सविता दशमस्तथा ||१५||
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते |
जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ||१६||
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः |
नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ||१७||
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् |
अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ||१८||
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत |
विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ||१९||
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् |
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ||२०||
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत |
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ||२१||
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः |
असिलोमा च केशी च दुर्जयश्चैव दानवः ||२२||
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् |
तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ||२३||
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा |
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ||२४||
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ |
निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ||२५||
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा |
इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ||२६||
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ||२६||
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः |
दनुपुत्रा महाराज दश दानवपुङ्गवाः ||२७||
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि |
वातापिः शत्रुतपनः शठश्चैव महासुरः ||२८||
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः |
असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ||२९||
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् |
सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ||३०||
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् |
गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ||३१||
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः |
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ||३२||
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः |
भुवि ख्याता महावीर्या दानवेषु परन्तपाः ||३३||
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः |
क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ||३४||
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् |
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ||३५||
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ |
तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः ||३६||
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् |
असुराणां सुराणां च पुराणे संश्रुतो मया ||३७||
एतेषां यदपत्यं तु न शक्यं तदशेषतः |
प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ||३८||
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ |
आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ||३९||
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः |
कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ||४०||
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा |
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ||४१||
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः |
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ||४२||
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः |
कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ||४३||
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ||४३||
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत |
अनवद्यामनुवशामनूनामरुणां प्रियाम् ||४४||
अनूपां सुभगां भासीमिति प्रावा व्यजायत ||४४||
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः |
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ||४५||
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा |
इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ||४६||
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् |
प्रावासूत महाभागा देवी देवर्षितः पुरा ||४७||
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा |
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ||४८||
असिता च सुबाहुश्च सुव्रता सुभुजा तथा |
सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ||४९||
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ||४९||
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा |
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ||५०||
इति ते सर्वभूतानां सम्भवः कथितो मया |
यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा ||५१||
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा |
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ||५२||
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः |
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ||५३||
इमं तु वंशं नियमेन यः पठे; न्महात्मनां ब्राह्मणदेवसंनिधौ |
अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् ||५४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
060-अध्यायः
वैशम्पायन उवाच||
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः |
एकादश सुताः स्थाणोः ख्याताः परममानसाः ||१||
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः |
अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ||२||
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः |
स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ||३||
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः |
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ||४||
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः |
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ||५||
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप |
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ||६||
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा |
पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ||७||
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः |
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ||८||
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः |
ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ||९||
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः |
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ||१०||
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः |
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ||११||
ददौ स दश धर्माय सप्तविंशतिमिन्दवे |
दिव्येन विधिना राजन्कश्यपाय त्रयोदश ||१२||
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे |
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ||१३||
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश |
द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा ||१४||
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः |
कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ||१५||
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ||१५||
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः |
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ||१६||
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः |
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ||१७||
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा |
चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ||१८||
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः |
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ||१९||
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा |
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ||२०||
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते |
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ||२१||
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः |
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ||२२||
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः |
कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ||२३||
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः |
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ||२४||
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् |
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ||२५||
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी |
योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ||२६||
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ||२६||
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः |
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ||२७||
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः |
यो दिव्यानि विमानानि देवतानां चकार ह ||२८||
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः |
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ||२९||
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः |
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ||३०||
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः |
शमः कामश्च हर्षश्च तेजसा लोकधारिणः ||३१||
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना |
नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ||३२||
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः |
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ||३३||
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी |
असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ||३४||
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप |
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ||३५||
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव |
अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ||३६||
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा |
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ||३७||
वैनतेयस्तु गरुडो बलवानरुणस्तथा |
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ||३८||
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् |
एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ||३९||
यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ||३९||
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः |
भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ||४०||
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये |
स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति ||४१||
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः |
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ||४२||
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे |
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ||४३||
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् |
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ||४४||
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः |
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ||४५||
महातपा महातेजा बाल एव गुणैर्युतः ||४५||
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् |
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ||४६||
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः |
सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ||४७||
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् |
तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ||४८||
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् |
लोके धाता विधाता च यौ स्थितौ मनुना सह ||४९||
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा |
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ||५०||
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत |
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ||५१||
प्रजानामन्नकामानामन्योन्यपरिभक्षणात् |
अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः ||५२||
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः |
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ||५३||
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ||५३||
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् |
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ||५४||
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत |
भासी भासानजनयद्गृध्रांश्चैव जनाधिप ||५५||
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः |
चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ||५६||
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी |
कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ||५७||
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः |
मृगीं च मृगमन्दां च हरिं भद्रमनामपि ||५८||
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च |
सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ||५९||
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज |
ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ||६०||
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् |
ऐरावतः सुतस्तस्या देवनागो महागजः ||६१||
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः |
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ||६२||
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत |
द्वीपिनश्च महाभाग सर्वानेव न संशयः ||६३||
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप |
दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ||६४||
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत |
रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ||६५||
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ||६५||
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् |
सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ||६६||
अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ||६६||
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ |
सम्पातिं जनयामास तथैव च जटायुषम् ||६७||
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ||६७||
इत्येष सर्वभूतानां महतां मनुजाधिप |
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ||६८||
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः |
सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ||६९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
061-अध्यायः
जनमेजय उवाच||
देवानां दानवानां च यक्षाणामथ रक्षसाम् |
अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ||१||
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् |
जन्म कर्म च भूतानामेतेषामनुपूर्वशः ||२||
वैशम्पायन उवाच||
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः |
प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ||३||
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः |
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ||४||
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः |
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ||५||
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः |
स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ||६||
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः |
धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ||७||
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः |
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ||८||
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः |
भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ||९||
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् |
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ||१०||
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः |
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ||११||
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् |
अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः ||१२||
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः |
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ||१३||
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः |
अशोको नाम राजासीन्महावीर्यपराक्रमः ||१४||
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः |
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ||१५||
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः |
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||१६||
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः |
स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ||१७||
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः |
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||१८||
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः |
बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ||१९||
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः |
सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ||२०||
इसृपा नाम यस्तेषामसुराणां बलाधिकः |
पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ||२१||
एकचक्र इति ख्यात आसीद्यस्तु महासुरः |
प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ||२२||
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः |
चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ||२३||
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः |
सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ||२४||
अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः |
बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ||२५||
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः |
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ||२६||
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत |
भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ||२७||
शरभो नाम यस्तेषां दैतेयानां महासुरः |
पौरवो नाम राजर्षिः स बभूव नरेष्विह ||२८||
द्वितीयः शलभस्तेषामसुराणां बभूव यः |
प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ||२९||
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः |
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ||३०||
मृतपा इति विख्यातो य आसीदसुरोत्तमः |
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ||३१||
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः |
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||३२||
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः |
स विश्व इति विख्यातो बभूव पृथिवीपतिः ||३३||
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः |
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ||३४||
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः |
शुनको नाम राजर्षिः स बभूव नराधिपः ||३५||
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः |
जानकिर्नाम राजर्षिः स बभूव नराधिपः ||३६||
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः |
काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ||३७||
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् |
क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ||३८||
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः |
विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ||३९||
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः |
पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ||४०||
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः |
पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ||४१||
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः |
मणिमान्नाम राजर्षिः स बभूव नराधिपः ||४२||
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः |
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ||४३||
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः |
दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ||४४||
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः |
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ||४५||
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः |
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ||४६||
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः |
अपराजित इत्येव स बभूव नराधिपः ||४७||
तृतीयस्तु महाराज महाबाहुर्महासुरः |
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ||४८||
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः |
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ||४९||
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः |
महौजा इति विख्यातो बभूवेह परन्तपः ||५०||
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः |
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ||५१||
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् |
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ||५२||
बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः |
बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ||५३||
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः |
ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः ||५४||
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा |
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ||५५||
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः |
वीरधामा च कौरव्य भूमिपालश्च नामतः ||५६||
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः |
रुक्मी च नृपशार्दूलो राजा च जनमेजयः ||५७||
आषाढो वायुवेगश्च भूरितेजास्तथैव च |
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ||५८||
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च |
श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ||५९||
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः |
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ||६०||
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ |
जातः पुरा महाराज महाकीर्तिर्महाबलः ||६१||
यस्त्वासीद्देवको नाम देवराजसमद्युतिः |
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ||६२||
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत |
अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ||६३||
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः |
बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ||६४||
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः |
वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ||६५||
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत |
एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ||६६||
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः |
वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ||६७||
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः |
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ||६८||
तेषामवरजो भीष्मः कुरूणामभयङ्करः |
मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ||६९||
जामदग्न्येन रामेण यः स सर्वविदां वरः |
अयुध्यत महातेजा भार्गवेण महात्मना ||७०||
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ |
रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ||७१||
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः |
द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ||७२||
सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः |
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ||७३||
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् |
मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ||७४||
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् |
जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ||७५||
मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् |
विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ||७६||
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः |
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ||७७||
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि |
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ||७८||
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ||७८||
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् |
विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ||७९||
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः |
दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ||८०||
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः |
यः सर्वां घातयामास पृथिवीं पुरुषाधमः ||८१||
येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ||८१||
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह |
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ||८२||
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः |
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ||८३||
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् |
भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ||८४||
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि |
नकुलः सहदेवश्च सर्वलोकमनोहरौ ||८५||
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् |
अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ||८६||
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् |
शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ||८७||
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ |
विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ||८८||
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः |
दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ||८९||
यस्तु नारायणो नाम देवदेवः सनातनः |
तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ||९०||
शेषस्यांशस्तु नागस्य बलदेवो महाबलः |
सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ||९१||
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् |
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ||९२||
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः |
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ||९३||
तानि षोडश देवीनां सहस्राणि नराधिप |
बभूवुर्मानुषे लोके नारायणपरिग्रहः ||९४||
श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले |
द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ||९५||
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी |
पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ||९६||
सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा |
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ||९७||
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते |
कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ||९८||
इति देवासुराणां ते गन्धर्वाप्सरसां तथा |
अंशावतरणं राजन्राक्षसानां च कीर्तितम् ||९९||
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः |
महात्मानो यदूनां च ये जाता विपुले कुले ||१००||
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् |
इदमंशावतरणं श्रोतव्यमनसूयता ||१०१||
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् |
प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ||१०२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
062-अध्यायः–संभवपर्व
शंकुतलोपाख्यानम्
जनमेजय उवाच||
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् |
अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ||१||
इमं तु भूय इच्छामि कुरूणां वंशमादितः |
कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ||२||
वैशम्पायन उवाच||
पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् |
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ||३||
चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः |
समुद्रावरणांश्चापि देशान्स समितिञ्जयः ||४||
आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः |
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ||५||
न वर्णसङ्करकरो नाकृष्यकरकृज्जनः |
न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ||६||
धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे |
तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ||७||
नासीच्चोरभयं तात न क्षुधाभयमण्वपि |
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ||८||
स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः |
तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ||९||
कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च |
सर्वरत्नसमृद्धा च मही वसुमती तदा ||१०||
स चाद्भुतमहावीर्यो वज्रसंहननो युवा |
उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् ||११||
धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च |
नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः ||१२||
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः |
अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ||१३||
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् |
भूयो धर्मपरैर्भावैर्विदितं जनमावसत् ||१४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
063-अध्यायः
वैशम्पायन उवाच||
स कदाचिन्महाबाहुः प्रभूतबलवाहनः |
वनं जगाम गहनं हयनागशतैर्वृतः ||१||
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः |
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ||२||
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः |
रथनेमिस्वनैश्चापि सनागवरबृंहितैः ||३||
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः |
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ||४||
प्रासादवरशृङ्गस्थाः परया नृपशोभया |
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ||५||
शक्रोपमममित्रघ्नं परवारणवारणम् |
पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ||६||
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः |
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ||७||
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् |
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ||८||
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः |
निर्ययौ परया प्रीत्या वनं मृगजिघांसया ||९||
सुदूरमनुजग्मुस्तं पौरजानपदास्तदा |
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ||१०||
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः |
महीमापूरयामास घोषेण त्रिदिवं तथा ||११||
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् |
बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ||१२||
विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् |
निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ||१३||
मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः ||१३||
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः |
लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ||१४||
बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान्बहून् |
पातयामास दुःषन्तो निर्बिभेद च सायकैः ||१५||
दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः |
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ||१६||
कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः |
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ||१७||
तोमरैरसिभिश्चापि गदामुसलकर्पणैः |
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ||१८||
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः |
लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ||१९||
तत्र विद्रुतसङ्घानि हतयूथपतीनि च |
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ||२०||
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः |
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ||२१||
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि |
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ||२२||
केचिदग्निमथोत्पाद्य समिध्य च वनेचराः |
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ||२३||
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः |
सङ्कोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ||२४||
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु |
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ||२५||
तद्वनं बलमेघेन शरधारेण संवृतम् |
व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् ||२६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
064-अध्यायः
वैशम्पायन उवाच||
ततो मृगसहस्राणि हत्वा विपुलवाहनः |
राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ||१||
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः |
स वनस्यान्तमासाद्य महदीरिणमासदत् ||२||
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् |
मनःप्रह्लादजननं दृष्टिकान्तमतीव च ||३||
शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ||३||
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् |
विपुलं मधुरारावैर्नादितं विहगैस्तथा ||४||
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् |
षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ||५||
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी |
षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् ||६||
विहगैर्नादितं पुष्पैरलङ्कृतमतीव च |
सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् ||७||
मनोरमं महेष्वासो विवेश वनमुत्तमम् ||७||
मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः |
पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः ||८||
दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः |
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ||९||
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु |
रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ||१०||
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् |
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ||११||
सम्पश्यन्स महातेजा बभूव मुदितस्तदा ||११||
परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः |
अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः ||१२||
सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः |
परिक्रामन्वने वृक्षानुपैतीव रिरंसया ||१३||
एवङ्गुणसमायुक्तं ददर्श स वनं नृपः |
नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् ||१४||
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् |
आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ||१५||
नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम् |
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ||१६||
अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् |
महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ||१७||
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् |
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ||१८||
तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः ||१८||
तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत |
देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ||१९||
नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः |
सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ||२०||
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् |
सकिंनरगणावासां वानरर्क्षनिषेविताम् ||२१||
पुण्यस्वाध्यायसङ्घुष्टां पुलिनैरुपशोभिताम् |
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ||२२||
नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा |
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ||२३||
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया |
नरनारायणस्थानं गङ्गयेवोपशोभितम् ||२४||
मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् ||२४||
तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः |
अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा ||२५||
महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ||२५||
रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम् |
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ||२६||
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् |
काश्यपं स्थीयतामत्र यावदागमनं मम ||२७||
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः |
क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ||२८||
सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः |
पुरोहितसहायश्च जगामाश्रममुत्तमम् ||२९||
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ||२९||
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च |
षट्पदोद्गीतसङ्घुष्टं नानाद्विज गणायुतम् ||३०||
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः |
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ||३१||
यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि |
अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ||३२||
अथर्ववेदप्रवराः पूगयाज्ञिक संमताः |
संहितामीरयन्ति स्म पदक्रमयुतां तु ते ||३३||
शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः |
नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः ||३४||
यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः |
न्यायतत्त्वार्थविज्ञानसम्पन्नैर्वेदपारगैः ||३५||
नानावाक्यसमाहारसमवायविशारदैः |
विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ||३६||
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः |
लोकायतिकमुख्यैश्च समन्तादनुनादितम् ||३७||
तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् |
जपहोमपरान्सिद्धान्ददर्श परवीरहा ||३८||
आसनानि विचित्राणि पुष्पवन्ति महीपतिः |
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ||३९||
देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः |
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ||४०||
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् |
नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ||४१||
स काश्यपस्यायतनं महाव्रतै; र्वृतं समन्तादृषिभिस्तपोधनैः |
विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् ||४२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
065-अध्यायः
वैशम्पायन उवाच||
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् |
नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ||१||
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् |
उवाच क इहेत्युच्चैर्वनं संनादयन्निव ||२||
श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी |
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ||३||
सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा |
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ||४||
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि |
पप्रच्छानामयं राजन्कुशलं च नराधिपम् ||५||
यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा |
उवाच स्मयमानेव किं कार्यं क्रियतामिति ||६||
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् |
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ||७||
आगतोऽहं महाभागमृषिं कण्वमुपासितुम् |
क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ||८||
शकुन्तलोवाच||
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् |
मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ||९||
वैशम्पायन उवाच||
अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः |
तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ||१०||
विभ्राजमानां वपुषा तपसा च दमेन च |
रूपयौवनसम्पन्नामित्युवाच महीपतिः ||११||
कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् |
एवंरूपगुणोपेता कुतस्त्वमसि शोभने ||१२||
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः |
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ||१३||
एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे |
उवाच हसती वाक्यमिदं सुमधुराक्षरम् ||१४||
कण्वष्याहं भगवतो दुःषन्त दुहिता मता |
तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ||१५||
दुःषन्त उवाच||
ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः |
चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ||१६||
कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी |
संशयो मे महानत्र तं मे छेत्तुमिहार्हसि ||१७||
शकुन्तलोवाच||
यथायमागमो मह्यं यथा चेदमभूत्पुरा |
शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ||१८||
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् |
तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ||१९||
तप्यमानः किल पुरा विश्वामित्रो महत्तपः |
सुभृशं तापयामास शक्रं सुरगणेश्वरम् ||२०||
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति |
भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् ||२१||
गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे |
श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ||२२||
असावादित्यसङ्काशो विश्वामित्रो महातपाः |
तप्यमानस्तपो घोरं मम कम्पयते मनः ||२३||
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे |
संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ||२४||
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय |
चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ||२५||
रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः |
लोभयित्वा वरारोहे तपसः संनिवर्तय ||२६||
मेनकोवाच||
महातेजाः स भगवान्सदैव च महातपाः |
कोपनश्च तथा ह्येनं जानाति भगवानपि ||२७||
तेजसस्तपसश्चैव कोपस्य च महात्मनः |
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ||२८||
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् |
क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ||२९||
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः |
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ||३०||
बभार यत्रास्य पुरा काले दुर्गे महात्मनः |
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ||३१||
अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् |
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ||३२||
मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् |
त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर ||३३||
अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा |
प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ||३४||
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे |
यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो ||३५||
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा |
सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा ||३६||
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् |
कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ||३७||
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् |
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ||३८||
यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे |
एतेऽपि यस्योद्विजन्ते प्रभावा; त्कस्मात्तस्मान्मादृशी नोद्विजेत ||३९||
त्वयैवमुक्ता च कथं समीप; मृषेर्न गच्छेयमहं सुरेन्द्र |
रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् ||४०||
कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव |
भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् ||४१||
वनाच्च वायुः सुरभिः प्रवाये; त्तस्मिन्काले तमृषिं लोभयन्त्याः |
तथेत्युक्त्वा विहिते चैव तस्मिं; स्ततो ययौ साश्रमं कौशिकस्य ||४२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
066-अध्यायः
शकुन्तलोवाच||
एवमुक्तस्तया शक्रः संदिदेश सदागतिम् |
प्रातिष्ठत तदा काले मेनका वायुना सह ||१||
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् |
विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे ||२||
अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ |
अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ||३||
सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती |
उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी ||४||
गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः |
अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ||५||
तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा |
चकार भावं संसर्गे तया कामवशं गतः ||६||
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता |
तौ तत्र सुचिरं कालं वने व्यहरतामुभौ ||७||
रममाणौ यथाकामं यथैकदिवसं तथा ||७||
जनयामास स मुनिर्मेनकायां शकुन्तलाम् |
प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ||८||
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु |
कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ||९||
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले |
दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ||१०||
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः |
पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ||११||
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् |
निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् ||१२||
आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ||१२||
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते |
क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये ||१३||
निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता |
शकुन्तलेति नामास्याः कृतं चापि ततो मया ||१४||
एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् |
शकुन्तला च पितरं मन्यते मामनिन्दिता ||१५||
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये |
सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ||१६||
कण्वं हि पितरं मन्ये पितरं स्वमजानती |
इति ते कथितं राजन्यथावृत्तं श्रुतं मया ||१७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
067-अध्यायः
दुःषन्त उवाच||
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे |
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ||१||
सुवर्णमाला वासांसि कुण्डले परिहाटके |
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ||२||
आहरामि तवाद्याहं निष्कादीन्यजिनानि च |
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ||३||
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि |
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ||४||
शकुन्तलोवाच||
फलाहारो गतो राजन्पिता मे इत आश्रमात् |
तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ||५||
दुःषन्त उवाच||
इच्छामि त्वां वरारोहे भजमानामनिन्दिते |
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ||६||
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः |
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ||७||
अष्टावेव समासेन विवाहा धर्मतः स्मृताः |
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ||८||
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः |
तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् ||९||
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय |
षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ||१०||
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः |
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ||११||
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन |
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ||१२||
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः |
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ||१३||
सा त्वं मम सकामस्य सकामा वरवर्णिनि |
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ||१४||
शकुन्तलोवाच||
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम |
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ||१५||
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः |
मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ||१६||
युवराजो महाराज सत्यमेतद्ब्रवीहि मे |
यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया ||१७||
वैशम्पायन उवाच||
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् |
अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते ||१८||
यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ||१८||
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् |
जग्राह विधिवत्पाणावुवास च तया सह ||१९||
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः |
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ||२०||
तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ||२०||
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय |
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ||२१||
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति |
एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ||२२||
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् |
शकुन्तला च पितरं ह्रिया नोपजगाम तम् ||२३||
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः |
उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ||२४||
त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः |
पुंसा सह समायोगो न स धर्मोपघातकः ||२५||
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते |
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ||२६||
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः |
अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ||२७||
महात्मा जनिता लोके पुत्रस्तव महाबलः |
य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ||२८||
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः |
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ||२९||
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् |
विनिधाय ततो भारं संनिधाय फलानि च ||३०||
मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः |
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ||३१||
कण्व उवाच||
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि |
गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ||३२||
वैशम्पायन उवाच||
ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा |
शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ||३३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
068-अध्यायः
वैशम्पायन उवाच||
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला |
गर्भं सुषाव वामोरुः कुमारममितौजसम् ||१||
त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् |
रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय ||२||
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः |
तस्याथ कारयामास वर्धमानस्य धीमतः ||३||
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा |
चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः ||४||
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ||४||
षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति |
व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ||५||
बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः |
आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ||६||
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः |
अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ||७||
स सर्वदमनो नाम कुमारः समपद्यत |
विक्रमेणौजसा चैव बलेन च समन्वितः ||८||
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् |
समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ||९||
तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह |
शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् ||१०||
भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ||१०||
नारीणां चिरवासो हि बान्धवेषु न रोचते |
कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ||११||
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः |
शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ||१२||
गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् |
आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ||१३||
अभिसृत्य च राजानं विदिता सा प्रवेशिता |
सह तेनैव पुत्रेण तरुणादित्यवर्चसा ||१४||
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला |
अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ||१५||
त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः |
यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ||१६||
यथा समागमे पूर्वं कृतः स समयस्त्वया |
तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ||१७||
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि |
अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ||१८||
धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह |
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ||१९||
सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी |
विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ||२०||
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा |
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ||२१||
आकारं गूहमाना च मन्युनाभिसमीरिता |
तपसा सम्भृतं तेजो धारयामास वै तदा ||२२||
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता |
भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् ||२३||
जानन्नपि महाराज कस्मादेवं प्रभाषसे |
न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ||२४||
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च |
कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः ||२५||
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते |
किं तेन न कृतं पापं चोरेणात्मापहारिणा ||२६||
एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् |
यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि ||२७||
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति |
विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ||२८||
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च |
अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् ||२९||
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् |
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ||३०||
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः |
तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ||३१||
अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते |
देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ||३२||
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् |
अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ||३३||
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि |
न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ||३४||
यदि मे याचमानाया वचनं न करिष्यसि |
दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ||३५||
भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः |
जायाया इति जायात्वं पुराणाः कवयो विदुः ||३६||
यदागमवतः पुंसस्तदपत्यं प्रजायते |
तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् ||३७||
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः |
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ||३८||
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती |
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ||३९||
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा |
भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ||४०||
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः |
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ||४१||
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः |
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ||४२||
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै |
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ||४३||
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् |
भार्यैवान्वेति भर्तारं सततं या पतिव्रता ||४४||
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते |
पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ||४५||
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते |
यदाप्नोति पतिर्भार्यामिह लोके परत्र च ||४६||
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः |
तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ||४७||
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् |
ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ||४८||
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः |
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ||४९||
सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः |
रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ||५०||
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् |
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ||५१||
परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः |
पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ||५२||
स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् |
प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ||५३||
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः |
न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ||५४||
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः |
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ||५५||
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् |
गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ||५६||
स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः |
पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ||५७||
त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम |
इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ||५८||
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव |
इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ||५९||
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः |
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ||६०||
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः |
जातकर्मणि पुत्राणां तवापि विदितं तथा ||६१||
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे |
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ||६२||
पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम् |
तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ||६३||
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः |
सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ||६४||
यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते |
तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ||६५||
मृगापकृष्टेन हि ते मृगयां परिधावता |
अहमासादिता राजन्कुमारी पितुराश्रमे ||६६||
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका |
विश्वाची च घृताची च षडेवाप्सरसां वराः ||६७||
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः |
दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ||६८||
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः |
अवकीर्य च मां याता परात्मजमिवासती ||६९||
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि |
यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया ||७०||
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् |
इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना ||७१||
दुःषन्त उवाच||
न पुत्रमभिजानामि त्वयि जातं शकुन्तले |
असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ||७२||
मेनका निरनुक्रोशा बन्धकी जननी तव |
यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ||७३||
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव |
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ||७४||
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता |
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ||७५||
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे |
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ||७६||
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका |
क्व च त्वमेवं कृपणा तापसीवेषधारिणी ||७७||
अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् |
कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ||७८||
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे |
यदृच्छया कामरागाज्जाता मेनकया ह्यसि ||७९||
सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि |
नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ||८०||