श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
034-अध्यायः
ब्राह्मण्युवाच||
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना |
बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ||१||
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः |
तन्मन्ये कारणतमं यत एषा प्रवर्तते ||२||
ब्राह्मण उवाच||
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः |
तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ||३||
ब्राह्मण्युवाच||
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् |
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ||४||
ब्राह्मण उवाच||
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते |
उपायमेव वक्ष्यामि येन गृह्येत वा न वा ||५||
सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते |
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ||६||
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते |
पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ||७||
यावन्त इह शक्येरंस्तावतोंऽशान्प्रकल्पयेत् |
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ||८||
सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् |
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ||९||
वासुदेव उवाच||
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये |
क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ||१०||
अर्जुन उवाच||
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः |
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ||११||
वासुदेव उवाच||
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् |
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ||१२||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
035-अध्यायः
अर्जुन उवाच||
ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि |
भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ||१||
वासुदेव उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ||२||
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् |
शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परन्तप ||३||
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः |
याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे ||४||
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह |
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ||५||
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः |
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ||६||
शिष्य उवाच||
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् |
कुतो जातानि भूतानि स्थावराणि चराणि च ||७||
केन जीवन्ति भूतानि तेषामायुः किमात्मकम् |
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ||८||
के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् ||८||
एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम |
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ||९||
वासुदेव उवाच||
तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते |
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ||१०||
छायाभूताय दान्ताय यतये ब्रह्मचारिणे ||१०||
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः |
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ||११||
ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् |
वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ||१२||
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् |
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ||१३||
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते |
बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ||१४||
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् |
बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ||१५||
वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च |
मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ||१६||
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः |
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ||१७||
तं प्रणम्य महात्मानं सुखासीनं महर्षयः |
पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् ||१८||
कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात् |
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् ||१९||
केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति |
प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ ||२०||
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः |
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् ||२१||
ब्रह्मोवाच||
सत्याद्भूतानि जातानि स्थावराणि चराणि च |
तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ||२२||
स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा |
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ||२३||
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः |
सत्याद्भूतानि जातानि भूतं सत्यमयं महत् ||२४||
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः |
अतीतक्रोधसन्तापा नियता धर्मसेतवः ||२५||
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् |
तानहं सम्प्रवक्ष्यामि शाश्वतान्लोकभावनान् ||२६||
चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक् |
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ||२७||
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः |
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ||२८||
गदतस्तं ममाद्येह पन्थानं दुर्विदं परम् |
निबोधत महाभागा निखिलेन परं पदम् ||२९||
ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् |
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् ||३०||
ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ||३०||
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः |
नोपैति यावदध्यात्मं तावदेतान्न पश्यति ||३१||
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ||३१||
फलमूलानिलभुजां मुनीनां वसतां वने |
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ||३२||
सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते |
श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते ||३३||
इत्येते देवयाना वः पन्थानः परिकीर्तिताः |
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ||३४||
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः |
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ||३५||
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना |
विषयस्थानि सर्वाणि वर्तमानानि भागशः ||३६||
महानात्मा तथाव्यक्तमहङ्कारस्तथैव च |
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ||३७||
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः |
चतुर्विंशतिरेषा वस्तत्त्वानां सम्प्रकीर्तिता ||३८||
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ |
स धीरः सर्वभूतेषु न मोहमधिगच्छति ||३९||
तत्त्वानि यो वेदयते यथातथं; गुणांश्च सर्वानखिलाश्च देवताः |
विधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकानमलान्समश्नुते ||४०||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
036-अध्यायः
ब्रह्मोवाच||
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् |
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ||१||
एकादशपरिक्षेपं मनो व्याकरणात्मकम् |
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ||२||
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः |
प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः ||३||
तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते |
अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः ||४||
अन्योन्यापाश्रयाश्चैव तथान्योन्यानुवर्तिनः |
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः ||५||
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः |
रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः ||६||
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते |
नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते ||७||
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसञ्ज्ञितम् |
अधर्मलक्षणं चैव नियतं पापकर्मसु ||८||
प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम् |
प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् ||९||
प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता |
सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम् ||१०||
एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः |
समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे ||११||
संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः |
स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् ||१२||
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता |
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ||१३||
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता |
अमैत्री विकृतो भावो अश्रद्धा मूढभावना ||१४||
अनार्जवमसञ्ज्ञत्वं कर्म पापमचेतना |
गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः ||१५||
सर्व एते गुणा विप्रास्तामसाः सम्प्रकीर्तिताः |
ये चान्ये नियता भावा लोकेऽस्मिन्मोहसञ्ज्ञिताः ||१६||
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः |
परिवादकथा नित्यं देवब्राह्मणवैदिकाः ||१७||
अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा |
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ||१८||
वृथारम्भाश्च ये केचिद्वृथादानानि यानि च |
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ||१९||
अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता |
अश्रद्दधानता चैव तामसं वृत्तमिष्यते ||२०||
एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः |
मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः ||२१||
तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् |
अवाङ्निरयभावाय तिर्यङ्निरयगामिनः ||२२||
स्थावराणि च भूतानि पशवो वाहनानि च |
क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः ||२३||
अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः |
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ||२४||
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः |
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ||२५||
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् |
यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः ||२६||
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु |
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ||२७||
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् |
स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ||२८||
अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु |
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ||२९||
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः |
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ||३०||
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः |
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ||३१||
अभिषङ्गस्तु कामेषु महामोह इति स्मृतः |
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ||३२||
तमो मोहो महामोहस्तामिस्रः क्रोधसञ्ज्ञितः |
मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ||३३||
भावतो गुणतश्चैव योनितश्चैव तत्त्वतः |
सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ||३४||
को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति |
अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् ||३५||
तमोगुणा वो बहुधा प्रकीर्तिता; यथावदुक्तं च तमः परावरम् |
नरो हि यो वेद गुणानिमान्सदा; स तामसैः सर्वगुणैः प्रमुच्यते ||३६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
037-अध्यायः
ब्रह्मोवाच||
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः |
निबोधत महाभागा गुणवृत्तं च सर्वशः ||१||
सङ्घातो रूपमायासः सुखदुःखे हिमातपौ |
ऐश्वर्यं विग्रहः सन्धिर्हेतुवादोऽरतिः क्षमा ||२||
बलं शौर्यं मदो रोषो व्यायामकलहावपि |
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ||३||
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च |
निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् ||४||
उग्रं दारुणमाक्रोशः परवित्तानुशासनम् |
लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् ||५||
मृषावादो मृषादानं विकल्पः परिभाषणम् |
निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् ||६||
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः |
व्यूहोऽनयः प्रमादश्च परितापः परिग्रहः ||७||
संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक् |
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ||८||
सन्तापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये |
प्रदानमाशीर्युक्तं च सततं मे भवत्विति ||९||
स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया |
याजनाध्यापने चोभे तथैवाहुः परिग्रहम् ||१०||
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः |
अभिद्रोहस्तथा माया निकृतिर्मान एव च ||११||
स्तैन्यं हिंसा परीवादः परितापः प्रजागरः |
स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ||१२||
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये |
नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन ||१३||
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ||१३||
भूतभव्यभविष्याणां भावानां भुवि भावनाः |
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ||१४||
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः |
अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः ||१५||
अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः |
प्रेत्यभाविकमीहन्त इह लौकिकमेव च ||१६||
ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति ||१६||
रजोगुणा वो बहुधानुकीर्तिता; यथावदुक्तं गुणवृत्तमेव च |
नरो हि यो वेद गुणानिमान्सदा; स राजसैः सर्वगुणैर्विमुच्यते ||१७||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
038-अध्यायः
ब्रह्मोवाच||
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् |
सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ||१||
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च |
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ||२||
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् |
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ||३||
मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः |
एवं यो युक्तधर्मः स्यात्सोऽमुत्रानन्त्यमश्नुते ||४||
निर्ममो निरहङ्कारो निराशीः सर्वतः समः |
अकामहत इत्येष सतां धर्मः सनातनः ||५||
विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता |
आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् ||६||
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तता |
शान्तिकर्म विशुद्धिश्च शुभा बुद्धिर्विमोचनम् ||७||
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः |
निर्ममत्वमनाशीस्त्वमपरिक्रीतधर्मता ||८||
मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम् |
मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः ||९||
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रयाः |
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ||१०||
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः |
दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः ||११||
ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते |
विकुर्वते महात्मानो देवास्त्रिदिवगा इव ||१२||
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः |
विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ||१३||
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ||१३||
इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः |
एतद्विज्ञाय विधिवल्लभते यद्यदिच्छति ||१४||
प्रकीर्तिताः सत्त्वगुणा विशेषतो; यथावदुक्तं गुणवृत्तमेव च |
नरस्तु यो वेद गुणानिमान्सदा; गुणान्स भुङ्क्ते न गुणैः स भुज्यते ||१५||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
039-अध्यायः
ब्रह्मोवाच||
नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः |
अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा ||१||
अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः |
अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः ||२||
यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः |
यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते ||३||
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः |
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ||४||
उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम् |
वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः ||५||
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् |
अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः ||६||
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् |
अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः ||७||
उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत् |
अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः ||८||
सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका |
न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते ||९||
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ||१०||
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम् |
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ||११||
दूरादपि हि दृश्यन्ते सहिताः सङ्घचारिणः |
तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम ||१२||
दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत् |
अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः ||१३||
आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः |
परितापोऽध्वगानां च राजसो गुण उच्यते ||१४||
प्राकाश्यं सत्त्वमादित्ये सन्तापो राजसो गुणः |
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ||१५||
एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः |
पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा ||१६||
स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः |
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः ||१७||
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते |
मासार्धमासवर्षाणि ऋतवः सन्धयस्तथा ||१८||
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते |
त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः ||१९||
भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि |
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ||२०||
यत्किञ्चिदिह वै लोके सर्वमेष्वेव तत्त्रिषु |
त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु ||२१||
सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः ||२१||
तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः |
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ||२२||
अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम् |
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् ||२३||
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः ||२३||
अव्यक्तनामानि गुणांश्च तत्त्वतो; यो वेद सर्वाणि गतीश्च केवलाः |
विमुक्तदेहः प्रविभागतत्त्ववि; त्स मुच्यते सर्वगुणैर्निरामयः ||२४||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
040-अध्यायः
ब्रह्मोवाच||
अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः |
आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते ||१||
महानात्मा मतिर्विष्णुर्विश्वः शम्भुश्च वीर्यवान् |
बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः ||२||
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते |
तं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ||३||
सर्वतःपाणिपादश्च सर्वतोक्षिशिरोमुखः |
सर्वतःश्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति ||४||
महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः |
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ||५||
तत्र बुद्धिमतां लोकाः संन्यासनिरताश्च ये |
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ||६||
ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः |
प्रसन्नमनसो धीरा निर्ममा निरहङ्कृताः ||७||
विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै ||७||
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् |
स धीरः सर्वलोकेषु न मोहमधिगच्छति ||८||
विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ||८||
एवं हि यो वेद गुहाशयं प्रभुं; नरः पुराणं पुरुषं विश्वरूपम् |
हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ||९||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
041-अध्यायः
ब्रह्मोवाच||
य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते |
अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते ||१||
अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः |
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ||२||
देवानां प्रभवो देवो मनसश्च त्रिलोककृत् |
अहमित्येव तत्सर्वमभिमन्ता स उच्यते ||३||
अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् |
स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ||४||
अहङ्कारेणाहरतो गुणानिमा; न्भूतादिरेवं सृजते स भूतकृत् |
वैकारिकः सर्वमिदं विचेष्टते; स्वतेजसा रञ्जयते जगत्तथा ||५||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
042-अध्यायः
ब्रह्मोवाच||
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै |
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ||१||
तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु |
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ||२||
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते |
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ||३||
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते |
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ||४||
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे |
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ||५||
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः |
क्रियाकारणयुक्ताः स्युरनित्या मोहसञ्ज्ञिताः ||६||
लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिञ्चनाः |
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः ||७||
बहिरात्मान इत्येते दीनाः कृपणवृत्तयः |
प्राणापानावुदानश्च समानो व्यान एव च ||८||
अन्तरात्मेति चाप्येते नियताः पञ्च वायवः |
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ||९||
त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता |
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ||१०||
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा |
स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते ||११||
एकादश च यान्याहुरिन्द्रियाणि विशेषतः |
अहङ्कारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः ||१२||
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी |
पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत् ||१३||
इन्द्रियग्राम इत्येष मन एकादशं भवेत् |
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ||१४||
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च |
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ||१५||
अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु |
उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत् ||१६||
इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात् |
मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः ||१७||
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते |
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् ||१८||
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च |
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ||१९||
अचराण्यपि भूतानि खेचराणि तथैव च |
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ||२०||
संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः |
जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते ||२१||
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् |
उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः ||२२||
द्विपादबहुपादानि तिर्यग्गतिमतीनि च |
जरायुजानि भूतानि वित्त तान्यपि सत्तमाः ||२३||
द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना |
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ||२४||
द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे |
जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ||२५||
एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः |
विमुक्तः सर्वपापेभ्य इति चैव निबोधत ||२६||
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते |
अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ||२७||
द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् |
स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् ||२८||
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते |
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ||२९||
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते |
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ||३०||
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते |
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ||३१||
एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः |
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ||३२||
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः |
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ||३३||
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते |
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ||३४||
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते |
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ||३५||
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः |
अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम् ||३६||
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते |
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ||३७||
अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम् |
अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम् ||३८||
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी |
अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् ||३९||
यथावदध्यात्मविधिरेष वः कीर्तितो मया |
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह ||४०||
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च |
सर्वाण्येतानि सन्धाय मनसा सम्प्रधारयेत् ||४१||
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते |
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम् ||४२||
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् |
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ||४३||
गुणागुणमनासङ्गमेकचर्यमनन्तरम् |
एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् ||४४||
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः |
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ||४५||
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः |
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति ||४६||
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् |
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ||४७||
यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते |
तथेन्द्रियनिरोधेन महानात्मा प्रकाशते ||४८||
यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि |
स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम् ||४९||
अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च |
मही पङ्कधरं घोरमाकाशं श्रवणं तथा ||५०||
रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् |
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ||५१||
रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् |
संसर्गाभिरतं मूढं शरीरमिति धारणा ||५२||
दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् |
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ||५३||
एतन्महार्णवं घोरमगाधं मोहसञ्ज्ञितम् |
विसृजेत्सङ्क्षिपेच्चैव बोधयेत्सामरं जगत् ||५४||
कामक्रोधौ भयं मोहमभिद्रोहमथानृतम् |
इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान् ||५५||
यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः |
व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते ||५६||
कामकूलामपारान्तां मनःस्रोतोभयावहाम् |
नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत् ||५७||
स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् |
मनो मनसि सन्धाय पश्यत्यात्मानमात्मनि ||५८||
सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि |
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ||५९||
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा |
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ||६०||
स हि धाता विधाता च स प्रभुः सर्वतोमुखः |
हृदयं सर्वभूतानां महानात्मा प्रकाशते ||६१||
तं विप्रसङ्घाश्च सुरासुराश्च; यक्षाः पिशाचाः पितरो वयांसि |
रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव सदा स्तुवन्ति ||६२||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
043-अध्यायः
ब्रह्मोवाच||
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः |
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ||१||
अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम् |
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ||२||
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा |
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ||३||
एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः ||३||
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् |
श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः ||४||
शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा |
एते पर्वतराजानो गणानां मरुतस्तथा ||५||
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः |
यमः पितॄणामधिपः सरितामथ सागरः ||६||
अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते |
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ||७||
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः |
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः ||८||
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः |
दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा ||९||
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् |
कुबेरः सर्वयक्षाणां देवतानां पुरंदरः ||१०||
एष भूतादिकः सर्गः प्रजानां च प्रजापतिः ||१०||
सर्वेषामेव भूतानामहं ब्रह्ममयो महान् |
भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ||११||
राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान् |
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ||१२||
नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम् |
देवदानवनागानां सर्वेषामीश्वरो हि सः ||१३||
भगदेवानुयातानां सर्वासां वामलोचना |
माहेश्वरी महादेवी प्रोच्यते पार्वतीति या ||१४||
उमां देवीं विजानीत नारीणामुत्तमां शुभाम् |
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ||१५||
धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः |
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ||१६||
राज्ञां हि विषये येषामवसीदन्ति साधवः |
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ||१७||
राज्ञां तु विषये येषां साधवः परिरक्षिताः |
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च ||१८||
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ||१८||
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् |
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा ||१९||
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः |
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः ||२०||
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः |
धरणी सर्वभूतानां पृथिवी गन्धलक्षणा ||२१||
स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा |
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् ||२२||
मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति |
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः ||२३||
लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम् |
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ||२४||
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् |
संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् ||२५||
अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम् ||२५||
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया |
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ||२६||
पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते |
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ||२७||
अपां धातुरसो नित्यं जिह्वया स तु गृह्यते |
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ||२८||
ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते |
चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते ||२९||
वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः |
त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते ||३०||
आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते |
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ||३१||
मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते |
हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते ||३२||
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा |
निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः ||३३||
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः |
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ||३४||
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् |
सदा पश्याम्यहं लीनं विजानामि शृणोमि च ||३५||
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते |
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ||३६||
आदिमध्यावसानान्तं सृज्यमानमचेतनम् |
न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः ||३७||
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति |
गुणानां गुणभूतानां यत्परं परतो महत् ||३८||
तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित् |
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ||३९||
निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च |
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः ||४०||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
044-अध्यायः
ब्रह्मोवाच||
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च |
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ||१||
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः |
श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः ||२||
भूमिरादिस्तु गन्धानां रसानामाप एव च |
रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते ||३||
शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः ||३||
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् |
आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते ||४||
सावित्री सर्वविद्यानां देवतानां प्रजापतिः |
ओङ्कारः सर्ववेदानां वचसां प्राण एव च ||५||
यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ||५||
गायत्री छन्दसामादिः पशूनामज उच्यते |
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ||६||
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् |
परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ||७||
कृतमादिर्युगानां च सर्वेषां नात्र संशयः |
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ||८||
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते |
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ||९||
स्थावराणां च भूतानां सर्वेषामविशेषतः |
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः ||१०||
अहं प्रजापतीनां च सर्वेषां नात्र संशयः |
मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति स स्मृतः ||११||
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः |
दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा ||१२||
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता |
तथा सरोदपानानां सर्वेषां सागरोऽग्रजः ||१३||
देवदानवभूतानां पिशाचोरगरक्षसाम् |
नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः ||१४||
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् |
भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते ||१५||
आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः |
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ||१६||
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी |
सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ||१७||
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः |
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ||१८||
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् |
अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् ||१९||
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये |
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ||२०||
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः |
निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः ||२१||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
045-अध्यायः
ब्रह्मोवाच||
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् |
महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ||१||
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् |
देशकालविचारीदं श्रमव्यायामनिस्वनम् ||२||
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् |
सुखदुःखान्तसङ्क्लेशं क्षुत्पिपासावकीलनम् ||३||
छायातपविलेखं च निमेषोन्मेषविह्वलम् |
घोरमोहजनाकीर्णं वर्तमानमचेतनम् ||४||
मासार्धमासगणितं विषमं लोकसञ्चरम् |
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ||५||
सत्त्वालङ्कारदीप्तं च गुणसङ्घातमण्डलम् |
स्वरविग्रहनाभीकं शोकसङ्घातवर्तनम् ||६||
क्रियाकारणसंयुक्तं रागविस्तारमायतम् |
लोभेप्सापरिसङ्ख्यातं विविक्तज्ञानसम्भवम् ||७||
भयमोहपरीवारं भूतसंमोहकारकम् |
आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् ||८||
महदादिविशेषान्तमसक्तप्रभवाव्ययम् |
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ||९||
एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम् |
विसृजेत्सङ्क्षिपेच्चापि बोधयेत्सामरं जगत् ||१०||
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः |
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ||११||
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वंद्वातिगो मुनिः |
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ||१२||
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः |
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ||१३||
यः कश्चिदिह लोके च ह्यागमः सम्प्रकीर्तितः |
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ||१४||
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः |
जातौ गुणविशिष्टायां समावर्तेत वेदवित् ||१५||
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः |
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह ||१६||
देवतातिथिशिष्टाशी निरतो वेदकर्मसु |
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ||१७||
न पाणिपादचपलो न नेत्रचपलो मुनिः |
न च वागङ्गचपल इति शिष्टस्य गोचरः ||१८||
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः |
नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ||१९||
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः |
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ||२०||
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने |
दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ||२१||
त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका |
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ||२२||
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु |
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ||२३||
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् |
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ||२४||
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः |
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ||२५||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
046-अध्यायः
ब्रह्मोवाच||
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि |
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ||१||
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः |
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ||२||
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् |
हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् ||३||
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः |
धारयीत सदा दण्डं बैल्वं पालाशमेव वा ||४||
क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा |
सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह ||५||
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा |
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ||६||
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् |
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ||७||
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः |
न संसरति जातीषु परमं स्थानमाश्रितः ||८||
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् |
ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् ||९||
चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत् |
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ||१०||
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् |
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ||११||
प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात् |
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ||१२||
आमूलफलभिक्षाभिरर्चेदतिथिमागतम् |
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ||१३||
देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः |
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ||१४||
दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् |
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ||१५||
त्यक्तदेहः सदा दक्षो वननित्यः समाहितः |
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ||१६||
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः |
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ||१७||
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् |
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ||१८||
अयाचितमसङ्कॢप्तमुपपन्नं यदृच्छया |
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः ||१९||
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् |
धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत् ||२०||
ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथञ्चन |
यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा ||२१||
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन |
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ||२२||
नाददीत परस्वानि न गृह्णीयादयाचितम् |
न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ||२३||
मृदमापस्तथाश्मानं पत्रपुष्पफलानि च |
असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान् ||२४||
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् |
न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः ||२५||
श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् ||२५||
मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् |
कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ||२६||
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित् |
लाभे न च प्रहृष्येत नालाभे विमना भवेत् ||२७||
मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः |
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ||२८||
अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः ||२८||
शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च |
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा ||२९||
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ||२९||
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् |
न चान्यमनुभिक्षेत भिक्षमाणः कथञ्चन ||३०||
न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत् |
शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा ||३१||
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ||३१||
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् |
अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् ||३२||
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् |
सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ||३३||
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् |
उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा ||३४||
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च |
अक्रोधश्चानसूया च दमो नित्यमपैशुनम् ||३५||
अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः |
अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ||३६||
आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च |
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत् ||३७||
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् |
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ||३८||
परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत् |
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ||३९||
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् |
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ||४०||
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् |
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् ||४१||
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः |
क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः ||४२||
निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च |
निर्ममो निरहङ्कारो निर्योगक्षेम एव च ||४३||
निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः |
सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः ||४४||
अपाणिपादपृष्ठं तमशिरस्कमनूदरम् |
प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् ||४५||
अगन्धरसमस्पर्शमरूपाशब्दमेव च |
अत्वगस्थ्यथ वामज्जममांसमपि चैव ह ||४६||
निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा |
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ||४७||
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः |
वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः ||४८||
यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता ||४८||
तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः |
गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ||४९||
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् |
यथैनमवमन्येरन्परे सततमेव हि ||५०||
तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन् |
यो ह्येवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते ||५१||
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च |
मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा ||५२||
सर्वमेतत्प्रसङ्ख्याय सम्यक्सन्त्यज्य निर्मलः |
ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ||५३||
एतदेवान्तवेलायां परिसङ्ख्याय तत्त्ववित् |
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः ||५४||
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा |
क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् ||५५||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
047-अध्यायः
ब्रह्मोवाच||
संन्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः |
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ||१||
अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम् |
निर्द्वंद्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम् ||२||
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम् |
निर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः ||३||
तपसा क्षेममध्वानं गच्छन्ति परमैषिणः |
संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः ||४||
तपः प्रदीप इत्याहुराचारो धर्मसाधकः |
ज्ञानं त्वेव परं विद्म संन्यासस्तप उत्तमम् ||५||
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् |
सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते ||६||
यो विद्वान्सहवासं च विवासं चैव पश्यति |
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ||७||
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते |
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते ||८||
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् |
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ||९||
निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च |
निर्गुणं नित्यमद्वंद्वं प्रशमेनैव गच्छति ||१०||
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् |
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ||११||
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् |
महाहङ्कारविटप इन्द्रियान्तरकोटरः ||१२||
महाभूतविशाखश्च विशेषप्रतिशाखवान् |
सदापर्णः सदापुष्पः शुभाशुभफलोदयः ||१३||
आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः ||१३||
एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना |
हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी ||१४||
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ||१४||
द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ |
एताभ्यां तु परो यस्य चेतनावानिति स्मृतः ||१५||
अचेतनः सत्त्वसङ्घातयुक्तः; सत्त्वात्परं चेतयतेऽन्तरात्मा |
स क्षेत्रज्ञः सत्त्वसङ्घातबुद्धि; र्गुणातिगो मुच्यते मृत्युपाशात् ||१६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
048-अध्यायः
ब्रह्मोवाच||
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत् |
केचित्पुरुषमव्यक्तं केचित्परमनामयम् ||१||
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ||१||
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् |
आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते ||२||
निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि |
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ||३||
प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः |
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ||४||
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति |
अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते ||५||
सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः |
अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम् ||६||
न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः ||६||
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् |
ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते ||७||
एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः |
सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा ||८||
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः |
क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते ||९||
पृथग्भूतस्ततो नित्यमित्येतदविचारितम् |
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ||१०||
तथैवैकत्वनानात्वमिष्यते विदुषां नयः |
मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते ||११||
मत्स्यो यथान्यः स्यादप्सु सम्प्रयोगस्तथानयोः |
सम्बन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च ||१२||
गुरुरुवाच||
इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम् |
पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः ||१३||
ऋषय ऊचुः||
किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम् |
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ||१४||
ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे |
केचित्संशयितं सर्वं निःसंशयमथापरे ||१५||
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे |
एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे ||१६||
एकमेके पृथक्चान्ये बहुत्वमिति चापरे ||१६||
मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः |
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ||१७||
अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे |
आहारं केचिदिच्छन्ति केचिच्चानशने रताः ||१८||
कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे |
देशकालावुभौ केचिन्नैतदस्तीति चापरे ||१९||
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् ||१९||
धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे |
उपास्यसाधनं त्वेके नैतदस्तीति चापरे ||२०||
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः |
पुण्येन यशसेत्येके नैतदस्तीति चापरे ||२१||
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः |
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः ||२२||
यज्ञमित्यपरे धीराः प्रदानमिति चापरे |
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ||२३||
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः |
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः ||२४||
एवं व्युत्थापिते धर्मे बहुधा विप्रधावति |
निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम ||२५||
इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः |
यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा ||२६||
तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम् |
एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम ||२७||
अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति |
सत्त्वक्षेत्रज्ञयोश्चैव सम्बन्धः केन हेतुना ||२८||
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः |
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ||२९||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
049-अध्यायः
ब्रह्मोवाच||
हन्त वः सम्प्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः |
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ||१||
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् |
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् ||२||
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः |
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः ||३||
हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः |
लोभमोहसमायुक्तास्ते वै निरयगामिनः ||४||
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः |
तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः ||५||
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः |
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ||६||
अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा |
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ||७||
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते |
विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः ||८||
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा |
भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् ||९||
यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते ||९||
अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम् |
निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ||१०||
समः सञ्ज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते |
उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् ||११||
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते |
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः ||१२||
एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः ||१२||
द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः |
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा ||१३||
यथा प्रदीपमादाय कश्चित्तमसि गच्छति |
तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ||१४||
यावद्द्रव्यगुणस्तावत्प्रदीपः सम्प्रकाशते |
क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति ||१५||
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते |
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ||१६||
सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति |
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ||१७||
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः |
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ||१८||
यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित् |
क्लेशेन याति महता विनश्यत्यन्तरापि वा ||१९||
तथा कर्मसु विज्ञेयं फलं भवति वा न वा |
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् ||२०||
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते |
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ||२१||
तमेव च यथाध्वानं रथेनेहाशुगामिना |
यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ||२२||
उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम् |
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ||२३||
यावद्रथपथस्तावद्रथेन स तु गच्छति |
क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति ||२४||
एवं गच्छति मेधावी तत्त्वयोगविधानवित् |
समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम् ||२५||
यथा महार्णवं घोरमप्लवः सम्प्रगाहते |
बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम् ||२६||
नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया |
अक्लान्तः सलिलं गाहेत्क्षिप्रं सन्तरति ध्रुवम् ||२७||
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः |
व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ ||२८||
स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा |
ममत्वेनाभिभूतः स तत्रैव परिवर्तते ||२९||
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् |
तथैव रथमारुह्य नाप्सु चर्या विधीयते ||३०||
एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक् |
यथा कर्म कृतं लोके तथा तदुपपद्यते ||३१||
यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत् |
मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते ||३२||
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् |
महतः प्रधानभूतस्य गुणोऽहङ्कार एव च ||३३||
अहङ्कारप्रधानस्य महाभूतकृतो गुणः |
पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः ||३४||
बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम् |
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ||३५||
बीजधर्मा त्वहङ्कारः प्रसवश्च पुनः पुनः |
बीजप्रसवधर्माणि महाभूतानि पञ्च वै ||३६||
बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते |
विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् ||३७||
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते |
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ||३८||
पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसङ्कुला |
सर्वभूतकरी देवी शुभाशुभनिदर्शना ||३९||
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः |
एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः ||४०||
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः |
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ||४१||
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा |
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ||४२||
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत ||४२||
शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः |
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः ||४३||
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा |
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ||४४||
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते |
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् ||४५||
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा |
ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् ||४६||
एवं द्वादशविस्तारं तेजसो रूपमुच्यते |
विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः ||४७||
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते |
वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ||४८||
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च |
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः ||४९||
एवं द्वादशविस्तारो वायव्यो गुण उच्यते |
विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः ||५०||
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः |
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान् ||५१||
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा |
अतः परं तु विज्ञेयो निषादो धैवतस्तथा ||५२||
इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान् |
एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः ||५३||
आकाशमुत्तमं भूतमहङ्कारस्ततः परम् |
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः ||५४||
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः |
परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते ||५५||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
050-अध्यायः
ब्रह्मोवाच||
भूतानामथ पञ्चानां यथैषामीश्वरं मनः |
नियमे च विसर्गे च भूतात्मा मन एव च ||१||
अधिष्ठाता मनो नित्यं भूतानां महतां तथा |
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते ||२||
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः |
इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा ||३||
महाभूतसमायुक्तं बुद्धिसंयमनं रथम् |
तमारुह्य स भूतात्मा समन्तात्परिधावति ||४||
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च |
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ||५||
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् |
स धीरः सर्वलोकेषु न मोहमधिगच्छति ||६||
अव्यक्तादि विशेषान्तं त्रसस्थावरसङ्कुलम् |
चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् ||७||
नदीपर्वतजालैश्च सर्वतः परिभूषितम् |
विविधाभिस्तथाद्भिश्च सततं समलङ्कृतम् ||८||
आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः |
एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् ||९||
लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च |
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः ||१०||
गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः ||१०||
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः |
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ||११||
एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः |
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु ||१२||
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ||१२||
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति |
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम् ||१३||
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः |
तथैव वेदानृषयस्तपसा प्रतिपेदिरे ||१४||
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा |
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ||१५||
ओषधान्यगदादीनी नानाविद्याश्च सर्वशः |
तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् ||१६||
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् |
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ||१७||
सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः |
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ||१८||
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः |
यानि चान्यानि भूतानि त्रसानि स्थावराणि च ||१९||
तपःपरायणा नित्यं सिध्यन्ते तपसा सदा |
तथैव तपसा देवा महाभागा दिवं गताः ||२०||
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः |
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः ||२१||
ध्यानयोगेन शुद्धेन निर्ममा निरहङ्कृताः |
प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ||२२||
ध्यानयोगादुपागम्य प्रसन्नमतयः सदा |
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया ||२३||
ध्यानयोगादुपागम्य निर्ममा निरहङ्कृताः |
अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् ||२४||
अव्यक्तादेव सम्भूतः समयज्ञो गतः पुनः |
तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम् ||२५||
विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः |
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ||२६||
चित्तं चित्तादुपागम्य मुनिरासीत संयतः |
यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् ||२७||
अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम् |
निबोधत यथा हीदं गुणैर्लक्षणमित्युत ||२८||
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् |
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ||२९||
कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः |
ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते ||३०||
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः |
पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् ||३१||
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः |
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ||३२||
अपूर्वममृतं नित्यं य एनमविचारिणम् |
य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् ||३३||
अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः ||३३||
अपोह्य सर्वसङ्कल्पान्संयम्यात्मानमात्मनि |
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ||३४||
प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् |
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ||३५||
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः |
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ||३६||
एषा गतिरसक्तानामेष धर्मः सनातनः |
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ||३७||
समेन सर्वभूतेषु निःस्पृहेण निराशिषा |
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ||३८||
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः |
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ||३९||
गुरुरुवाच||
इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा |
कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् ||४०||
त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः |
सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि ||४१||
वासुदेव उवाच||
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् |
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ||४२||
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह |
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ||४३||
अर्जुन उवाच||
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन |
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ||४४||
वासुदेव उवाच||
अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे |
त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनञ्जय ||४५||
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह |
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ||४६||
ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन |
सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् ||४७||
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते |
मया तव महाबाहो तस्मादत्र मनः कुरु ||४८||
मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो |
तमहं द्रष्टुमिच्छामि संमते तव फल्गुन ||४९||
वैशम्पायन उवाच||
इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः |
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ||५०||
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् |
समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि ||५१||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
051-अध्यायः
कृष्णद्वारकाप्रस्थानाम्
वैशम्पायन उवाच||
ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् |
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ||१||
तथैव चानुयात्राणि चोदयामास पाण्डवः |
सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् ||२||
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते |
आचख्युः सज्जमित्येव पार्थायामिततेजसे ||३||
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ |
विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते ||४||
रथस्थं तु महातेजा वासुदेवं धनञ्जयः |
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ||५||
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह |
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ||६||
नाथवन्तश्च भवता पाण्डवा मधुसूदन |
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ||७||
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |
यथाहं त्वा विजानामि यथा चाहं भवन्मनाः ||८||
त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन |
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ||९||
त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् |
त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् ||१०||
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् |
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः ||११||
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः |
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ||१२||
रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् |
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ||१३||
सुदीर्घेणापि कालेन न ते शक्या गुणा मया |
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ||१४||
विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा |
कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् ||१५||
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः |
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ ||१६||
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन |
इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया ||१७||
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः |
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ||१८||
भवता तत्कृतं कर्म येनावाप्तो जयो मया |
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः ||१९||
कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः |
सैन्धवस्य च पापस्य भूरिश्रवस एव च ||२०||
अहं च प्रीयमाणेन त्वया देवकिनन्दन |
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ||२१||
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् |
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ||२२||
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो |
अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन ||२३||
बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुङ्गवान् ||२३||
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम् |
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ||२४||
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् |
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ||२५||
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् |
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ||२६||
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ||२६||
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् |
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ||२७||
ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै ||२७||
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ |
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ||२८||
गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च |
भीमस्य च महात्मानौ तथा पादावगृह्णताम् ||२९||
क्षत्तारं चापि सम्पूज्य पृष्ट्वा कुशलमव्ययम् |
तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् ||३०||
ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् |
जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ||३१||
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् |
धनञ्जयगृहानेव ययौ कृष्णस्तु वीर्यवान् ||३२||
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः |
कृष्णः सुष्वाप मेधावी धनञ्जयसहायवान् ||३३||
प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ |
धर्मराजस्य भवनं जग्मतुः परमार्चितौ ||३४||
यत्रास्ते स सहामात्यो धर्मराजो महामनाः ||३४||
ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ |
धर्मराजानमासीनं देवराजमिवाश्विनौ ||३५||
तौ समासाद्य राजानं वार्ष्णेयकुरुपुङ्गवौ |
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै ||३६||
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ |
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ||३७||
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ |
ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् ||३८||
इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् |
विनीतवदुपागम्य वाक्यं वाक्यविशारदः ||३९||
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् |
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ||४०||
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे |
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ||४१||
युधिष्ठिर उवाच||
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन |
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् ||४२||
रोचते मे महाबाहो गमनं तव केशव |
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ||४३||
मातुलं वसुदेवं त्वं बलदेवं च माधव |
पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ||४४||
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् |
फल्गुनं नकुलं चैव सहदेवं च माधव ||४५||
आनर्तानवलोक्य त्वं पितरं च महाभुज |
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ||४६||
स गच्छ रत्नान्यादाय विविधानि वसूनि च |
यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ||४७||
इयं हि वसुधा सर्वा प्रसादात्तव माधव |
अस्मानुपगता वीर निहताश्चापि शत्रवः ||४८||
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे |
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ||४९||
तवैव रत्नानि धनं च केवल; म्धरा च कृत्स्ना तु महाभुजाद्य वै |
यदस्ति चान्यद्द्रविणं गृहेषु मे; त्वमेव तस्येश्वर नित्यमीश्वरः ||५०||
तथेत्यथोक्तः प्रतिपूजितस्तदा; गदाग्रजो धर्मसुतेन वीर्यवान् |
पितृष्वसामभ्यवदद्यथाविधि; सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ||५१||
तया स सम्यक्प्रतिनन्दितस्तदा; तथैव सर्वैर्विदुरादिभिस्ततः |
विनिर्ययौ नागपुराद्गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः ||५२||
रथं सुभद्रामधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः |
पितृष्वसायाश्च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः ||५३||
तमन्वगाद्वानरवर्यकेतनः; ससात्यकिर्माद्रवतीसुतावपि |
अगाधबुद्धिर्विदुरश्च माधवं; स्वयं च भीमो गजराजविक्रमः ||५४||
निवर्तयित्वा कुरुराष्ट्रवर्धनां; स्ततः स सर्वान्विदुरं च वीर्यवान् |
जनार्दनो दारुकमाह सत्वरः; प्रचोदयाश्वानिति सात्यकिस्तदा ||५५||
ततो ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः |
यथा निहत्यारिगणाञ्शतक्रतु; र्दिवं तथानर्तपुरीं प्रतापवान् ||५६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
052-अध्यायः
उत्तङ्कोपाख्यानम्
वैशम्पायन उवाच||
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः |
परिष्वज्य न्यवर्तन्त सानुयात्राः परन्तपाः ||१||
पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः |
आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः ||२||
कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् |
सञ्जहार तदा दृष्टिं कृष्णश्चाप्यपराजितः ||३||
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः |
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ||४||
वायुर्वेगेन महता रथस्य पुरतो ववौ |
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ||५||
ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च |
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ||६||
स प्रयातो महाबाहुः समेषु मरुधन्वसु |
ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् ||७||
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः |
पूजितस्तेन च तदा पर्यपृच्छदनामयम् ||८||
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम् |
उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ||९||
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् |
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ||१०||
अभिसन्धाय तान्वीरानुपावृत्तोऽसि केशव |
सम्बन्धिनः सुदयितान्सततं वृष्णिपुङ्गव ||११||
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः |
लोकेषु विहरिष्यन्ति त्वया सह परन्तप ||१२||
स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् |
कौरवेषु प्रशान्तेषु त्वया नाथेन माधव ||१३||
या मे सम्भावना तात त्वयि नित्यमवर्तत |
अपि सा सफला कृष्ण कृता ते भरतान्प्रति ||१४||
वासुदेव उवाच||
कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति |
न चाशक्यन्त सन्धातुं तेऽधर्मरुचयो मया ||१५||
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः |
न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ||१६||
महर्षे विदितं नूनं सर्वमेतत्तवानघ ||१६||
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च |
ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ||१७||
पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः |
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ||१८||
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः |
उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने ||१९||
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः |
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ||२०||
न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः |
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ||२१||
त्वया हि शक्तेन सता मिथ्याचारेण माधव |
उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः ||२२||
वासुदेव उवाच||
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन |
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव ||२३||
श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै |
न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् ||२४||
न च ते तपसो नाशमिच्छामि जपतां वर |
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ||२५||
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम |
दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् ||२६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
053-अध्यायः
उत्तङ्क उवाच||
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् |
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ||१||
वासुदेव उवाच||
तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान् |
तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज ||२||
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् |
स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः ||३||
तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् |
गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ||४||
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च |
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ||५||
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने |
दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् ||६||
असच्च सदसच्चैव यद्विश्वं सदसतः परम् |
ततः परं नास्ति चैव देवदेवात्सनातनात् ||७||
ओङ्कारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह |
यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे ||८||
होतारमपि हव्यं च विद्धि मां भृगुनन्दन |
अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् ||९||
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे |
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ||१०||
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः ||१०||
विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम |
मानसं दयितं विप्र सर्वभूतदयात्मकम् ||११||
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः |
बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम ||१२||
धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च |
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ||१३||
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः |
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ||१४||
अधर्मे वर्तमानानां सर्वेषामहमप्युत |
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ||१५||
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ||१५||
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन |
तदाहं देववत्सर्वमाचरामि न संशयः ||१६||
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन |
तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव ||१७||
नागयोनौ यदा चैव तदा वर्तामि नागवत् |
यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् ||१८||
मानुष्ये वर्तमाने तु कृपणं याचिता मया |
न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् ||१९||
भयं च महदुद्दिश्य त्रासिताः कुरवो मया |
क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः ||२०||
तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा |
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ||२१||
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम |
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ||२२||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
054-अध्यायः
उत्तङ्क उवाच||
अभिजानामि जगतः कर्तारं त्वां जनार्दन |
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ||१||
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत |
विनिवृत्तश्च मे कोप इति विद्धि परन्तप ||२||
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्होऽहं जनार्दन |
द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय ||३||
वैशम्पायन उवाच||
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः |
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनञ्जयः ||४||
स ददर्श महात्मानं विश्वरूपं महाभुजम् |
विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम् ||५||
उत्तङ्क उवाच||
विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम् |
पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ||६||
द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम् |
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ||७||
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् |
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ||८||
वैशम्पायन उवाच||
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय |
वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम् ||९||
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते |
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ||१०||
तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय |
अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ||११||
उत्तङ्क उवाच||
अवश्यकरणीयं वै यद्येतन्मन्यसे विभो |
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ||१२||
वैशम्पायन उवाच||
ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः |
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ||१३||
ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया |
तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ||१४||
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् |
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ||१५||
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् |
तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ||१६||
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव |
एह्युत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह ||१७||
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् ||१७||
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत |
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् ||१८||
पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत् |
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ||१९||
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना |
श्वभिः सह महाराज तत्रैवान्तरधीयत ||२०||
उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः |
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ||२१||
अथ तेनैव मार्गेण शङ्खचक्रगदाधरः |
आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् ||२२||
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम |
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ||२३||
इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः |
उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ||२४||
यादृशेनेह रूपेण योग्यं दातुं वृतेन वै |
तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे ||२५||
मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः |
उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः ||२६||
स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत् |
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ||२७||
अमृतं देयमित्येव मयोक्तः स शचीपतिः |
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ||२८||
यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते |
भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने ||२९||
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै |
प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो ||३०||
प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव ||३०||
स तथा समयं कृत्वा तेन रूपेण वासवः |
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् ||३१||
चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ||३१||
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् |
तोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् ||३२||
येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति |
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ||३३||
रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन |
उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ||३४||
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह |
अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत ||३५||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
055-अध्यायः
जनमेजय उवाच||
उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः |
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे ||१||
वैशम्पायन उवाच||
उत्तङ्को महता युक्तस्तपसा जनमेजय |
गुरुभक्तः स तेजस्वी नान्यं कञ्चिदपूजयत् ||२||
सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः |
औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत ||३||
गौतमस्य तु शिष्याणां बहूनां जनमेजय |
उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ||४||
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा |
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ||५||
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः |
उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ||६||
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् |
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ||७||
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ |
उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् ||८||
स तु भाराभिभूतात्मा काष्ठभारमरिंदम |
निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः ||९||
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा |
ततः काष्ठैः सह तदा पपात धरणीतले ||१०||
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः |
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ||११||
ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा |
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना ||१२||
पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा ||१२||
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः |
न हि तानश्रुपातान्वै शक्ता धारयितुं मही ||१३||
गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः |
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ||१४||
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः ||१४||
उत्तङ्क उवाच||
भवद्गतेन मनसा भवत्प्रियचिकीर्षया |
भवद्भक्तिगतेनेह भवद्भावानुगेन च ||१५||
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे |
शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः ||१६||
भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया |
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ||१७||
गौतम उवाच||
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव |
व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ ||१८||
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव |
अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् ||१९||
उत्तङ्क उवाच||
गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम |
तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो ||२०||
गौतम उवाच||
दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते |
तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः ||२१||
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह |
युवा षोडशवर्षो हि यदद्य भविता भवान् ||२२||
ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज |
एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् ||२३||
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् |
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ||२४||
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् |
प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि ||२५||
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् |
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ||२६||
अहल्योवाच||
परितुष्टास्मि ते पुत्र नित्यं भगवता सह |
पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् ||२७||
वैशम्पायन उवाच||
उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः |
आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव ||२८||
अहल्योवाच||
सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले |
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ||२९||
स तथेति प्रतिश्रुत्य जगाम जनमेजय |
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ||३०||
स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः |
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ||३१||
गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते |
इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै ||३२||
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् |
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ||३३||
अहल्योवाच||
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे |
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति ||३४||
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः |
उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ||३५||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
056-अध्यायः
वैशम्पायन उवाच||
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् |
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ||१||
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् |
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ||२||
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् |
भक्षं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम ||३||
उत्तङ्क उवाच||
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् |
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ||४||
राजोवाच||
षष्ठे काले ममाहारो विहितो द्विजसत्तम |
न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै ||५||
उत्तङ्क उवाच||
एवमस्तु महाराज समयः क्रियतां तु मे |
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ||६||
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम |
त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर ||७||
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः |
दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह ||८||
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ||८||
उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम |
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ||९||
सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किञ्चन |
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ||१०||
सौदास उवाच||
यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः |
यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद्ब्रवीहि मे ||११||
उत्तङ्क उवाच||
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ |
सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ||१२||
सौदास उवाच||
पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले |
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ||१३||
उत्तङ्क उवाच||
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् |
प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव ||१४||
वैशम्पायन उवाच||
इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः |
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ||१५||
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता |
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ||१६||
उत्तङ्क उवाच||
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर |
स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति ||१७||
सौदास उवाच||
द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे |
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ||१८||
उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ |
मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम् ||१९||
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना |
प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय ||२०||
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ |
अभिज्ञानं तु किञ्चित्त्वं समानेतुमिहार्हसि ||२१||
इमे हि दिव्ये मणिकुण्डले मे; देवाश्च यक्षाश्च महोरगाश्च |
तैस्तैरुपायैः परिहर्तुकामा; श्छिद्रेषु नित्यं परितर्कयन्ति ||२२||
निक्षिप्तमेतद्भुवि पन्नगास्तु; रत्नं समासाद्य परामृषेयुः |
यक्षास्तथोच्छिष्टधृतं सुराश्च; निद्रावशं त्वा परिधर्षयेयुः ||२३||
छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ |
देवराक्षसनागानामप्रमत्तेन धार्यते ||२४||
स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम |
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते ||२५||
एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः |
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ||२६||
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा |
अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः ||२७||
एवंविधे ममैते वै कुण्डले परमार्चिते |
त्रिषु लोकेषु विख्याते तदभिज्ञानमानय ||२८||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
057-अध्यायः
वैशम्पायन उवाच||
स मित्रसहमासाद्य त्वभिज्ञानमयाचत |
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ||१||
सौदास उवाच||
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः |
एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले ||२||
वैशम्पायन उवाच||
इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् |
श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले ||३||
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् |
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ||४||
सौदास उवाच||
प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह |
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ||५||
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् |
गतिमन्यां न पश्यामि मदयन्तीसहायवान् ||६||
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ||६||
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः |
शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् ||७||
तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले |
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे ||८||
उत्तङ्क उवाच||
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् |
प्रश्नं तु कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परन्तप ||९||
सौदास उवाच||
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः |
छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ||१०||
उत्तङ्क उवाच||
प्राहुर्वाक्सङ्गतं मित्रं धर्मनैपुण्यदर्शिनः |
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ||११||
स भवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव |
स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर ||१२||
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः |
भवत्सकाशमागन्तुं क्षमं मम न वेति वा ||१३||
सौदास उवाच||
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम |
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथञ्चन ||१४||
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह |
आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् ||१५||
वैशम्पायन उवाच||
इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् |
समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् ||१६||
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियङ्करः |
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ||१७||
यथा तयो रक्षणं च मदयन्त्याभिभाषितम् |
तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत् ||१८||
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् |
बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः ||१९||
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम |
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ||२०||
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् |
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ||२१||
ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै |
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ||२२||
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह |
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ||२३||
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा |
क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुङ्गवः ||२४||
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा |
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा ||२५||
ततः खनत एवाथ विप्रर्षेर्धरणीतलम् |
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ||२६||
रथेन हरियुक्तेन तं देशमुपजग्मिवान् |
वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् ||२७||
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः |
उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै ||२८||
इतो हि नागलोको वै योजनानि सहस्रशः |
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ||२९||
उत्तङ्क उवाच||
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया |
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ||३०||
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा |
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ||३१||
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा |
नागलोकस्य पन्थानमकरोज्जनमेजय ||३२||
स तेन मार्गेण तदा नागलोकं विवेश ह |
ददर्श नागलोकं च योजनानि सहस्रशः ||३३||
प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलङ्कृतैः |
उपपन्नं महाभाग शातकुम्भमयैस्तथा ||३४||
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः |
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ||३५||
तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः |
पञ्चयोजनविस्तारमायतं शतयोजनम् ||३६||
नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा |
निराशश्चाभवत्तात कुण्डलाहरणे पुनः ||३७||
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः |
ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा ||३८||
धमस्वापानमेतन्मे ततस्त्वं विप्र लल्प्स्यसे |
ऐरावतसुतेनेह तवानीते हि कुण्डले ||३९||
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन |
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ||४०||
उत्तङ्क उवाच||
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति |
यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् ||४१||
अश्व उवाच||
गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् |
त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः ||४२||
सततं पूजितो विप्र शुचिना भृगुनन्दन |
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् ||४३||
इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना |
घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ||४४||
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत |
घनः प्रादुरभूद्धूमो नागलोकभयावहः ||४५||
तेन धूमेन सहसा वर्धमानेन भारत |
नागलोके महाराज न प्रज्ञायत किञ्चन ||४६||
हाहाकृतमभूत्सर्वमैरावतनिवेशनम् |
वासुकिप्रमुखानां च नागानां जनमेजय ||४७||
न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत |
नीहारसंवृतानीव वनानि गिरयस्तथा ||४८||
ते धूमरक्तनयना वह्नितेजोभितापिताः |
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः ||४९||
श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः |
सम्भ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि ||५०||
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः |
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ||५१||
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च |
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ||५२||
ततः सम्पूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् |
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ||५३||
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् |
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ ||५४||
एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय |
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ||५५||
एवम्प्रभावः स मुनिरुत्तङ्को भरतर्षभ |
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ||५६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
058-अध्यायः
वासुदेवेन वसुदेवं प्रति युद्धाख्यानम्
जनमेजय उवाच||
उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम |
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ||१||
वैशम्पायन उवाच||
दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह |
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ||२||
सरांसि च नदीश्चैव वनानि विविधानि च |
अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् ||३||
वर्तमाने महाराज महे रैवतकस्य च |
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ||४||
अलङ्कृतस्तु स गिरिर्नानारूपविचित्रितैः |
बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ ||५||
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च |
वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः ||६||
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः |
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ||७||
पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः |
पुम्भिः स्त्रीभिश्च सङ्घुष्टः प्रगीत इव चाभवत् ||८||
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ||८||
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत |
गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः ||९||
प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसङ्कुला |
तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा ||१०||
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् |
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ||११||
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह |
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् ||१२||
बभौ परमकल्याणो महस्तस्य महागिरेः ||१२||
पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः |
विहारो वृष्णिवीराणां महे रैवतकस्य ह ||१३||
स नगो वेश्मसङ्कीर्णो देवलोक इवाबभौ ||१३||
तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ |
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ||१४||
ततः सम्पूज्यमानः स विवेश भवनं शुभम् |
गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम् ||१५||
विवेश च स हृष्टात्मा चिरकालप्रवासकः |
कृत्वा नसुकरं कर्म दानवेष्विव वासवः ||१६||
उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा |
अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् ||१७||
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा |
अभ्यवादयत प्रीतः पितरं मातरं तथा ||१८||
ताभ्यां च सम्परिष्वक्तः सान्त्वितश्च महाभुजः |
उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः ||१९||
स विश्रान्तो महातेजाः कृतपादावसेचनः |
कथयामास तं कृष्णः पृष्टः पित्रा महाहवम् ||२०||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
059-अध्यायः
वसुदेव उवाच||
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम् |
नराणां वदतां पुत्र कथोद्घातेषु नित्यशः ||१||
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज |
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ ||२||
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् |
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ||३||
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः |
नानावेषाकृतिमतां नानादेशनिवासिनाम् ||४||
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके |
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा ||५||
वासुदेव उवाच||
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् |
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि ||६||
प्राधान्यतस्तु गदतः समासेनैव मे शृणु |
कर्माणि पृथिवीशानां यथावदमरद्युते ||७||
भीष्मः सेनापतिरभूदेकादशचमूपतिः |
कौरव्यः कौरवेयाणां देवानामिव वासवः ||८||
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः |
बभूव रक्षितो धीमान्धीमता सव्यसाचिना ||९||
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् |
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ||१०||
ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे |
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ||११||
अकरोत्स ततः कालं शरतल्पगतो मुनिः |
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे ||१२||
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः |
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ||१३||
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः |
संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः ||१४||
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् |
गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा ||१५||
पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः |
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ||१६||
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे |
नानादिगागता वीराः प्रायशो निधनं गताः ||१७||
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् |
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ||१८||
ततः सेनापतिरभूत्कर्णो दौर्योधने बले |
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ||१९||
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः |
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ||२०||
ततः पार्थं समासाद्य पतङ्ग इव पावकम् |
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे ||२१||
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः |
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ||२२||
हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् |
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ||२३||
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः |
तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् ||२४||
हते शल्ये तु शकुनिं सहदेवो महामनाः |
आहर्तारं कलेस्तस्य जघानामितविक्रमः ||२५||
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः |
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ||२६||
तमन्वधावत्सङ्क्रुद्धो भीमसेनः प्रतापवान् |
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ||२७||
ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् |
उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ||२८||
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः |
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ||२९||
ततः स निहतो राजा धार्तराष्ट्रो महामृधे |
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ||३०||
ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि |
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ||३१||
हतपुत्रा हतबला हतमित्रा मया सह |
युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः ||३२||
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत |
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ||३३||
निहते कौरवेन्द्रे च सानुबन्धे सुयोधने |
विदुरः सञ्जयश्चैव धर्मराजमुपस्थितौ ||३४||
एवं तदभवद्युद्धमहान्यष्टादश प्रभो |
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ||३५||
वैशम्पायन उवाच||
शृण्वतां तु महाराज कथां तां रोमहर्षणीम् |
दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा ||३६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
060-अध्यायः
वैशम्पायन उवाच||
कथयन्नेव तु तदा वासुदेवः प्रतापवान् |
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ||१||
अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत |
अप्रियं वसुदेवस्य मा भूदिति महामनाः ||२||
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् |
दुःखशोकाभिसन्तप्तो भवेदिति महामतिः ||३||
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे |
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ||४||
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा |
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ||५||
ततः स दौहित्रवधाद्दुःखशोकसमन्वितः |
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ||६||
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः |
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ||७||
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो |
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ||८||
दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा |
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ||९||
किमब्रवीत्त्वा सङ्ग्रामे सुभद्रां मातरं प्रति |
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम ||१०||
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः |
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ||११||
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः |
बालभावेन विजयमात्मनोऽकथयत्प्रभुः ||१२||
कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः |
धरण्यां निहतः शेते तन्ममाचक्ष्व केशव ||१३||
स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् |
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ||१४||
एवंविधं बहु तदा विलपन्तं सुदुःखितम् |
पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् ||१५||
न तेन विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि |
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः ||१६||
निहत्य पृथिवीपालान्सहस्रशतसङ्घशः |
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ||१७||
एको ह्येकेन सततं युध्यमानो यदि प्रभो |
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा ||१८||
समाहूते तु सङ्ग्रामे पार्थे संशप्तकैस्तदा |
पर्यवार्यत सङ्क्रुद्धैः स द्रोणादिभिराहवे ||१९||
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः |
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ||२०||
नूनं च स गतः स्वर्गं जहि शोकं महामते |
न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित् ||२१||
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः |
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ||२२||
स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः |
शस्त्रपूतां हि स गतिं गतः परपुरञ्जयः ||२३||
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम |
दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह ||२४||
द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता |
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ||२५||
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः |
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ||२६||
उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः |
क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह ||२७||
ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा |
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ||२८||
अभिमन्यो कुशलिनो मातुलास्ते महारथाः |
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ||२९||
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिंदम |
कस्मादेव विलपतीं नाद्येह प्रतिभाषसे ||३०||
एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम् |
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ||३१||
सुभद्रे वासुदेवेन तथा सात्यकिना रणे |
पित्रा च पालितो बालः स हतः कालधर्मणा ||३२||
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि |
पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् ||३३||
कुले महति जातासि क्षत्रियाणां महात्मनाम् |
मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे ||३४||
उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे |
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ||३५||
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह |
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ||३६||
समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च |
यमौ यमोपमौ चैव ददौ दानान्यनेकशः ||३७||
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह |
समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम् ||३८||
वैराटि नेह सन्तापस्त्वया कार्यो यशस्विनि |
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् ||३९||
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते |
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ||४०||
एवं स निधनं प्राप्तो दौहित्रस्तव माधव |
सन्तापं जहि दुर्धर्ष मा च शोके मनः कृथाः ||४१||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
061-अध्यायः
वसुदेवेन अभिमन्योः श्राद्धदानम्
वैशम्पायन उवाच||
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा |
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ||१||
तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः |
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् ||२||
षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः |
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ||३||
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् |
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ||४||
सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा |
दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन् ||५||
वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः |
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा ||६||
अतीव दुःखसन्तप्ता न शमं चोपलेभिरे ||६||
तथैव पाण्डवा वीरा नगरे नागसाह्वये |
नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः ||७||
सुबहूनि च राजेन्द्र दिवसानि विराटजा |
नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत् ||८||
कुक्षिस्थ एव तस्यास्तु स गर्भः सम्प्रलीयत ||८||
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा |
आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम् ||९||
उत्तरां च महातेजाः शोकः सन्त्यज्यतामयम् ||९||
जनिष्यति महातेजाः पुत्रस्तव यशस्विनि |
प्रभावाद्वासुदेवस्य मम व्याहरणादपि ||१०||
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ||१०||
धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य पश्यतः |
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ||११||
पौत्रस्तव महाबाहो जनिष्यति महामनाः |
पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह ||१२||
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन |
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ||१३||
यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन |
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ||१४||
विबुधानां गतो लोकानक्षयानात्मनिर्जितान् |
न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा ||१५||
एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः |
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ||१६||
पितापि तव धर्मज्ञ गर्भे तस्मिन्महामते |
अवर्धत यथाकालं शुक्लपक्षे यथा शशी ||१७||
ततः सञ्चोदयामास व्यासो धर्मात्मजं नृपम् |
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ||१८||
धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः |
वित्तोपनयने तात चकार गमने मतिम् ||१९||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
062-अध्यायः
पाण्डवानाम् मरुत्तनिधिलाभः
जनमेजय उवाच||
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना |
अश्वमेधं प्रति तदा किं नृपः प्रचकार ह ||१||
रत्नं च यन्मरुत्तेन निहितं पृथिवीतले |
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ||२||
वैशम्पायन उवाच||
श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः |
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ||३||
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ||३||
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना |
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ||४||
तपोवृद्धेन महता सुहृदां भूतिमिच्छता |
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ||५||
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता |
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ||६||
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् |
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ||७||
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः |
तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः ||८||
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि |
तदानयामहे सर्वे कथं वा भीम मन्यसे ||९||
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह |
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ||१०||
रोचते मे महाबाहो यदिदं भाषितं त्वया |
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ||११||
यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो |
कृतमेव महाराज भवेदिति मतिर्मम ||१२||
ते वयं प्रणिपातेन गिरीशस्य महात्मनः |
तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् ||१३||
तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् |
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ||१४||
रक्षन्ते ये च तद्द्रव्यं किङ्करा रौद्रदर्शनाः |
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ||१५||
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत |
प्रीतो धर्मात्मजो राजा बभूवातीव भारत ||१६||
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा ||१६||
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् |
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ||१७||
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च |
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ||१८||
मोदकैः पायसेनाथ मांसापूपैस्तथैव च |
आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ||१९||
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ |
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ||२०||
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च |
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ||२१||
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् |
धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् ||२२||
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् |
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः ||२३||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
063-अध्यायः
वैशम्पायन उवाच||
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः |
रथघोषेण महता पूरयन्तो वसुन्धराम् ||१||
संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः |
स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः ||२||
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् ||३||
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः |
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ||४||
तथैव सैनिका राजन्राजानमनुयान्ति ये |
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ||५||
स सरांसि नदीश्चैव वनान्युपवनानि च |
अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत ||६||
तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् |
चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः ||७||
शिवे देशे समे चैव तदा भरतसत्तम ||७||
अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् |
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ||८||
प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः |
कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् ||९||
कृत्वा च मध्ये राजानममात्यांश्च यथाविधि |
षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः ||१०||
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि |
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ||११||
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे |
यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा ||१२||
न नः कालात्ययो वै स्यादिहैव परिलम्बताम् |
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ||१३||
श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः |
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ||१४||
अद्यैव नक्षत्रमहश्च पुण्यं; यतामहे श्रेष्ठतमं क्रियासु |
अम्भोभिरद्येह वसाम राज; न्नुपोष्यतां चापि भवद्भिरद्य ||१५||
श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः |
ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः ||१६||
ततो निशा सा व्यगमन्महात्मनां; संशृण्वतां विप्रसमीरिता गिरः |
ततः प्रभाते विमले द्विजर्षभा; वचोऽब्रुवन्धर्मसुतं नराधिपम् ||१७||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
064-अध्यायः
ब्राह्मणा ऊचुः||
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः |
कृत्वोपहारं नृपते ततः स्वार्थे यतामहे ||१||
वैशम्पायन उवाच||
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः |
गिरीशस्य यथान्यायमुपहारमुपाहरत् ||२||
आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन ह |
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा ||३||
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप |
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम् ||४||
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि |
सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः ||५||
किङ्कराणां ततः पश्चाच्चकार बलिमुत्तमम् ||५||
यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह |
तथान्येषां च यक्षाणां भूताधिपतयश्च ये ||६||
कृसरेण समांसेन निवापैस्तिलसंयुतैः |
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव ||७||
कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः |
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ||८||
पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च |
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ||९||
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः |
अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् ||१०||
तेषां पुण्याहघोषेण तेजसा समवस्थितः |
प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् ||११||
ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः |
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ||१२||
बहूनि च विचित्राणि भाजनानि सहस्रशः |
उद्धारयामास तदा धर्मराजो युधिष्ठिरः ||१३||
तेषां लक्षणमप्यासीन्महान्करपुटस्तथा |
त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप ||१४||
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते |
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ||१५||
वारणाश्च महाराज सहस्रशतसंमिताः |
शकटानि रथाश्चैव तावदेव करेणवः ||१६||
खराणां पुरुषाणां च परिसङ्ख्या न विद्यते ||१६||
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः |
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ||१७||
एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः |
महादेवं प्रति ययौ पुरं नागाह्वयं प्रति ||१८||
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् |
गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः ||१९||
सा पुराभिमुखी राजञ्जगाम महती चमूः |
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ||२०||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
065-अध्यायः
परिक्षित्संजीवनम्
वैशम्पायन उवाच||
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् |
उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ||१||
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः |
यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ||२||
रौक्मिणेयेन सहितो युयुधानेन चैव ह |
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा ||३||
सारणेन च वीरेण निशठेनोल्मुकेन च |
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ||४||
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः |
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ||५||
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः |
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ||६||
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः |
विदुरेण महातेजास्तथैव च युयुत्सुना ||७||
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय |
जज्ञे तव पिता राजन्परिक्षित्परवीरहा ||८||
स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः |
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ||९||
हृष्टानां सिंहनादेन जनानां तत्र निस्वनः |
आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ||१०||
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा |
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ||११||
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् |
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ||१२||
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् |
सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ||१३||
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा |
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ||१४||
वासुदेव महाबाहो सुप्रजा देवकी त्वया |
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ||१५||
यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो |
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ||१६||
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन |
अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो ||१७||
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ |
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ||१८||
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा |
सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि ||१९||
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च |
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ||२०||
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च |
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ||२१||
उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन |
अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः ||२२||
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा |
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ||२३||
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति |
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ||२४||
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा |
कथयामास दुर्धर्षस्तथा चैतन्न संशयः ||२५||
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन |
कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ||२६||
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना |
उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ||२७||
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः |
स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ||२८||
एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः |
भूमौ निपतितां चैनां सान्त्वयामास भारत ||२९||