श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
066-अध्यायः
वैशम्पायन उवाच||
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा |
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ||१||
पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः |
परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ||२||
इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता |
सोत्तरायां निपतिता विजये मयि चैव ह ||३||
सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव |
यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो ||४||
किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः |
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ||५||
श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च |
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ||६||
अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः |
ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ||७||
भवितातः परं दुःखं किं नु मन्ये जनार्दन |
अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम ||८||
साहं प्रसादये कृष्ण त्वामद्य शिरसा नता |
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ||९||
यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव |
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ||१०||
अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम |
अहं सञ्जीवयिष्यामि किरीटितनयात्मजम् ||११||
इत्येतद्वचनं श्रुत्वा जानमाना बलं तव |
प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः ||१२||
यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् |
सफलं वृष्णिशार्दूल मृतां मामुपधारय ||१३||
अभिमन्योः सुतो वीर न सञ्जीवति यद्ययम् |
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ||१४||
सञ्जीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् |
सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः ||१५||
त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः |
स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ||१६||
इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् |
किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ||१७||
प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते |
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ||१८||
स्वसेति वा महाबाहो हतपुत्रेति वा पुनः |
प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि ||१९||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
067-अध्यायः
वैशम्पायन उवाच||
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः |
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ||१||
वाक्येन तेन हि तदा तं जनं पुरुषर्षभः |
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ||२||
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव |
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ||३||
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् |
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ||४||
शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः |
वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः ||५||
दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा |
ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः ||६||
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ||६||
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव |
हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् ||७||
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा |
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ||८||
अयमायाति ते भद्रे श्वशुरो मधुसूदनः |
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ||९||
सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह |
सुसंवीताभवद्देवी देववत्कृष्णमीक्षती ||१०||
सा तथा दूयमानेन हृदयेन तपस्विनी |
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ||११||
पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ |
अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ||१२||
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये |
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ||१३||
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः |
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ||१४||
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो |
अहमेव विनष्टा स्यां नेदमेवङ्गतं भवेत् ||१५||
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् |
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ||१६||
सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण |
प्राणांस्त्यक्ष्यामि गोविन्द नायं सञ्जीवते यदि ||१७||
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः |
ते द्रोणपुत्रेण हताः किं नु जीवामि केशव ||१८||
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन |
अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् ||१९||
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ |
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ||२०||
चपलाक्षः किलातीव प्रियस्ते मधुसूदन |
सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् ||२१||
कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा |
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् ||२२||
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव |
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ||२३||
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया |
इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः ||२४||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
068-अध्यायः
वैशम्पायन उवाच||
सैवं विलप्य करुणं सोन्मादेव तपस्विनी |
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ||१||
तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् |
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः ||२||
मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम् |
अप्रेक्षणीयमभवदार्तस्वरनिनादितम् ||३||
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता |
कश्मलाभिहता वीर वैराटी त्वभवत्तदा ||४||
प्रतिलभ्य तु सा सञ्ज्ञामुत्तरा भरतर्षभ |
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ||५||
धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे |
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ||६||
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव |
दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन ||७||
याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह |
मर्तव्ये सति जीवामि हतस्वस्तिरकिञ्चना ||८||
अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज |
भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् ||९||
अथ वा दुर्मरं तात यदिदं मे सहस्रधा |
पतिपुत्रविहीनाया हृदयं न विदीर्यते ||१०||
उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् |
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ||११||
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् |
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ||१२||
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः |
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् ||१३||
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः |
उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ||१४||
उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता |
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ||१५||
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः |
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं सञ्जहार तत् ||१६||
प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः |
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत् ||१७||
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति |
एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम् ||१८||
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन |
न च युद्धे परावृत्तस्तथा सञ्जीवतामयम् ||१९||
यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः |
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ||२०||
यथाहं नाभिजानामि विजयेन कदाचन |
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ||२१||
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ |
तथा मृतः शिशुरयं जीवतामभिमन्युजः ||२२||
यथा कंसश्च केशी च धर्मेण निहतौ मया |
तेन सत्येन बालोऽयं पुनरुज्जीवतामिह ||२३||
इत्युक्तो वासुदेवेन स बालो भरतर्षभ |
शनैः शनैर्महाराज प्रास्पन्दत सचेतनः ||२४||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
069-अध्यायः
वैशम्पायन उवाच||
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् |
तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम् ||१||
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् |
अन्तरिक्षे च वागासीत्साधु केशव साध्विति ||२||
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा |
ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर ||३||
व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् ||३||
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः |
ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् ||४||
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् |
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ||५||
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा |
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ||६||
तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः |
सूतमागधसङ्घाश्चाप्यस्तुवन्वै जनार्दनम् ||७||
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ ||७||
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् |
अभ्यवादयत प्रीता सह पुत्रेण भारत ||८||
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ||८||
तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः |
पितुस्तव महाराज सत्यसन्धो जनार्दनः ||९||
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः |
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ||१०||
सोऽवर्धत यथाकालं पिता तव नराधिप |
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ||११||
मासजातस्तु ते वीर पिता भवति भारत |
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ||१२||
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः |
अलञ्चक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् ||१३||
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि |
वेश्मानि समलञ्चक्रुः पौराश्चापि जनाधिप ||१४||
देवतायतनानां च पूजा बहुविधास्तथा |
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ||१५||
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः |
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ||१६||
नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः |
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ||१७||
बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः |
तत्र तत्र विविक्तेषु समन्तादुपशोभितम् ||१८||
पताका धूयमानाश्च श्वसता मातरिश्वना |
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ||१९||
अघोषयत्तदा चापि पुरुषो राजधूर्गतः |
सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः ||२०||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
070-अध्यायः
युधिष्ठिरस्य यज्ञदीक्षा
वैशम्पायन उवाच||
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः |
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ||१||
ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह |
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ||२||
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च |
द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ||३||
ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा |
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ||४||
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् |
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ||५||
धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् |
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ||६||
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च |
पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ||७||
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् |
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ||८||
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः |
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ||९||
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः |
आजगाम महातेजा नगरं नागसाह्वयम् ||१०||
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः |
सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ||११||
तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै |
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ||१२||
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् |
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ||१३||
तदनुज्ञातुमिच्छामि भवता मुनिसत्तम |
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ||१४||
व्यास उवाच||
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् |
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ||१५||
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् |
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ||१६||
वैशम्पायन उवाच||
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः |
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ||१७||
समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः |
वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् ||१८||
देवकी सुप्रजा देवी त्वया पुरुषसत्तम |
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ||१९||
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन |
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ||२०||
दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः |
त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ||२१||
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ||२१||
वासुदेव उवाच||
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम |
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ||२२||
त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे |
गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ||२३||
यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया |
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ||२४||
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ||२४||
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ |
इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ||२५||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
071-अध्यायः
वैशम्पायन उवाच||
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः |
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ||१||
यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः |
दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ||२||
व्यास उवाच||
अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च |
विधानं यद्यथाकालं तत्कर्तारो न संशयः ||३||
चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति |
सम्भाराः सम्भ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ||४||
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः |
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ||५||
तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् |
स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ||६||
वैशम्पायन उवाच||
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः |
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ||७||
सम्भाराश्चैव राजेन्द्र सर्वे सङ्कल्पिताभवन् ||७||
स सम्भारान्समाहृत्य नृपो धर्मात्मजस्तदा |
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ||८||
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् |
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ||९||
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव |
तत्र योग्यं भवेत्किञ्चित्तद्रौक्मं क्रियतामिति ||१०||
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् |
सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ||११||
युधिष्ठिर उवाच||
अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् |
चरिष्यति यथाकामं तत्र वै संविधीयताम् ||१२||
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् |
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ||१३||
वैशम्पायन उवाच||
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् |
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ||१४||
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति |
शक्तः स हि महीं जेतुं निवातकवचान्तकः ||१५||
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा |
दिव्यं धनुश्चेषुधी च स एनमनुयास्यति ||१६||
स हि धर्मार्थकुशलः सर्वविद्याविशारदः |
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ||१७||
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः |
अभिमन्योः पिता वीरः स एनमनुयास्यति ||१८||
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः |
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ||१९||
सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् |
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ||२०||
तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः |
चकार फल्गुनं चापि संदिदेश हयं प्रति ||२१||
युधिष्ठिर उवाच||
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् |
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ||२२||
ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः |
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ ||२३||
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः |
पार्थिवेभ्यो महाबाहो समये गम्यतामिति ||२४||
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् |
भीमं च नकुलं चैव पुरगुप्तौ समादधत् ||२५||
कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् |
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ||२६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
072-अध्यायः
अर्जुनस्य अश्वानुसरणम्
वैशम्पायन उवाच||
दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः |
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ||१||
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः |
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ||२||
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना |
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ||३||
स राजा धर्मजो राजन्दीक्षितो विबभौ तदा |
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ||४||
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः |
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ||५||
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते |
बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ||६||
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनञ्जयः |
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ||७||
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् |
तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ||८||
आकुमारं तदा राजन्नागमत्तत्पुरं विभो |
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनञ्जयम् ||९||
तेषामन्योन्यसंमर्दादूष्मेव समजायत |
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ||१०||
ततः शब्दो महाराज दशाशाः प्रतिपूरयन् |
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनञ्जयम् ||११||
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् |
यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ||१२||
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः |
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ||१३||
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् |
नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ||१४||
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः |
स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ||१५||
निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ||१५||
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ |
शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ||१६||
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि |
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ||१७||
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः |
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ||१८||
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा |
चचार स महाराज यथादेशं स सत्तम ||१९||
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह |
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ||२०||
स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम |
ससारोत्तरतः पूर्वं तन्निबोध महीपते ||२१||
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः |
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ||२२||
तत्र सङ्कलना नास्ति राज्ञामयुतशस्तदा |
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ||२३||
किराता विकृता राजन्बहवोऽसिधनुर्धराः |
म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ||२४||
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः |
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ||२५||
एवं युद्धानि वृत्तानि तत्र तत्र महीपते |
अर्जुनस्य महीपालैर्नानादेशनिवासिभिः ||२६||
यानि तूभयतो राजन्प्रतप्तानि महान्ति च |
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ||२७||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
073-अध्यायः
त्रैगर्तविजयः
वैशम्पायन उवाच||
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः |
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ||१||
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम् |
विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ||२||
रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः |
परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः ||३||
ततः किरीटी सञ्चिन्त्य तेषां राज्ञां चिकीर्षितम् |
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ||४||
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा |
तमोरजोभ्यां सञ्छन्नांस्तान्किरीटी न्यवारयत् ||५||
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत |
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ||६||
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः |
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ||७||
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः |
तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ||८||
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे |
वितत्य शरजालेन प्रजहास धनञ्जयः ||९||
ततस्ते रथघोषेण खुरनेमिस्वनेन च |
पूरयन्तो दिशः सर्वा धनञ्जयमुपाद्रवन् ||१०||
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् |
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ||११||
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः |
मुमुचुः शरवर्षाणि धनञ्जयवधैषिणः ||१२||
स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् |
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ||१३||
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा |
युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ||१४||
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे |
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ||१५||
केतुवर्मण्यभिहते धृतवर्मा महारथः |
रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् ||१६||
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् |
गुडाकेशो महातेजा बालस्य धृतवर्मणः ||१७||
न संदधानं ददृशे नाददानं च तं तदा |
किरन्तमेव स शरान्ददृशे पाकशासनिः ||१८||
स तु तं पूजयामास धृतवर्माणमाहवे |
मनसा स मुहूर्तं वै रणे समभिहर्षयन् ||१९||
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव |
प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् ||२०||
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा |
धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ||२१||
स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् |
मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले ||२२||
धनुषः पततस्तस्य सव्यसाचिकराद्विभो |
इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम ||२३||
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव |
जहास सस्वनं हासं धृतवर्मा महाहवे ||२४||
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् |
धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च ||२५||
ततो हलहलाशब्दो दिवस्पृगभवत्तदा |
नानाविधानां भूतानां तत्कर्मातीव शंसताम् ||२६||
ततः सम्प्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् |
जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् ||२७||
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः |
परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनञ्जयः ||२८||
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च |
महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः ||२९||
तांस्तु प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनञ्जयः |
शरैराशीविषाकारैर्जघान स्वनवद्धसन् ||३०||
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः |
दिशो विदुद्रुवुः सर्वा धनञ्जयशरार्दिताः ||३१||
त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् |
तव स्म किङ्कराः सर्वे सर्वे च वशगास्तव ||३२||
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् |
करिष्यामः प्रियं सर्वं तव कौरवनन्दन ||३३||
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा |
जीवितं रक्षत नृपाः शासनं गृह्यतामिति ||३४||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
074-अध्यायः
वज्रदत्तपराजयः
वैशम्पायन उवाच||
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः |
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ||१||
स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम् |
युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः ||२||
सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः |
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ||३||
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा |
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ||४||
ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः |
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ||५||
पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः |
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ||६||
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
दोधूयता चामरेण श्वेतेन च महारथः ||७||
ततः पार्थं समासाद्य पाण्डवानां महारथम् |
आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे ||८||
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् |
प्रेषयामास सङ्क्रुद्धस्ततः श्वेतहयं प्रति ||९||
विक्षरन्तं यथा मेघं परवारणवारणम् |
शास्त्रवत्कल्पितं सङ्ख्ये त्रिसाहं युद्धदुर्मदम् ||१०||
प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः |
तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् ||११||
तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनञ्जयः |
भूमिष्ठो वारणगतं योधयामास भारत ||१२||
वज्रदत्तस्तु सङ्क्रुद्धो मुमोचाशु धनञ्जये |
तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् ||१३||
अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रेषितैः शरैः |
द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा ||१४||
स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः |
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ||१५||
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् |
प्रेषयामास सङ्क्रुद्धो भगदत्तात्मजं प्रति ||१६||
स तैर्विद्धो महातेजा वज्रदत्तो महाहवे |
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ||१७||
ततः स पुनरारुह्य वारणप्रवरं रणे |
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ||१८||
तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् |
प्रेषयामास सङ्क्रुद्धो ज्वलितानिव पावकान् ||१९||
स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ |
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ||२०||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
075-अध्यायः
वैशम्पायन उवाच||
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ |
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ||१||
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः |
जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् ||२||
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे |
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ||३||
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा |
हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय ||४||
इत्येवमुक्त्वा सङ्क्रुद्धो वज्रदत्तो नराधिपः |
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ||५||
सम्प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता |
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ||६||
अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् |
समुक्षत महाराज शैलं नील इवाम्बुदः ||७||
स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः |
मुखाडम्बरघोषेण समाद्रवत फल्गुनम् ||८||
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः |
आससाद द्रुतं राजन्कौरवाणां महारथम् ||९||
तमापतन्तं सम्प्रेक्ष्य वज्रदत्तस्य वारणम् |
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ||१०||
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः |
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत ||११||
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः |
निवारयामास तदा वेलेव मकरालयम् ||१२||
स नागप्रवरो वीर्यादर्जुनेन निवारितः |
तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा ||१३||
निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः |
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ||१४||
अर्जुनस्तु महाराज शरैः शरविघातिभिः |
वारयामास तानस्तांस्तदद्भुतमिवाभवत् ||१५||
ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः |
प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् ||१६||
तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः |
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ||१७||
स तेन वारणो राजन्मर्मण्यभिहतो भृशम् |
पपात सहसा भूमौ वज्ररुग्ण इवाचलः ||१८||
स पतञ्शुशुभे नागो धनञ्जयशराहतः |
विशन्निव महाशैलो महीं वज्रप्रपीडितः ||१९||
तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः |
तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ||२०||
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः |
राजानस्ते न हन्तव्या धनञ्जय कथञ्चन ||२१||
सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् |
योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया ||२२||
वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः |
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ||२३||
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप |
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ||२४||
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् |
तदाश्वमेधो भविता धर्मराजस्य धीमतः ||२५||
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा |
तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ||२६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
076-अध्यायः
सैन्धवपराजयः
वैशम्पायन उवाच||
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः |
हतशेषैर्महाराज हतानां च सुतैरपि ||१||
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् |
प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् ||२||
अश्वं च तं परामृश्य विषयान्ते विषोपमाः |
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ||३||
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च |
बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् ||४||
ततस्ते तु महावीर्या राजानः पर्यवारयन् |
जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि ||५||
ते नामान्यथ गोत्राणि कर्माणि विविधानि च |
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ||६||
ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् |
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ||७||
तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे |
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ||८||
ते तमाजघ्निरे वीरं निवातकवचान्तकम् |
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ||९||
ततो रथसहस्रेण हयानामयुतेन च |
कोष्ठकीकृत्य कौन्तेयं सम्प्रहृष्टमयोधयन् ||१०||
संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः |
जयद्रथस्य कौरव्य समरे सव्यसाचिना ||११||
ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन् |
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ||१२||
स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः |
पञ्जरान्तरसञ्चारी शकुन्त इव भारत ||१३||
ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते |
त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः ||१४||
ततो ववौ महाराज मारुतो रोमहर्षणः |
राहुरग्रसदादित्यं युगपत्सोममेव च ||१५||
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः |
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ||१६||
मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः |
सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च ||१७||
शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् |
विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे ||१८||
रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः |
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ||१९||
एवमासीत्तदा वीरे शरवर्षाभिसंवृते |
लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् ||२०||
तस्य तेनावकीर्णस्य शरजालेन सर्वशः |
मोहात्पपात गाण्डीवमावापश्च करादपि ||२१||
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् |
सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे ||२२||
ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः |
सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् ||२३||
ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च |
ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः ||२४||
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव |
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ||२५||
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः |
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ||२६||
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः |
ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः ||२७||
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः |
नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः ||२८||
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः |
मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः ||२९||
तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली |
अलातचक्रवद्राजञ्शरजालैः समर्पयत् ||३०||
तदिन्द्रजालप्रतिमं बाणजालममित्रहा |
व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत् ||३१||
मेघजालनिभं सैन्यं विदार्य स रविप्रभः |
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ||३२||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
077-अध्यायः
वैशम्पायन उवाच||
ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः |
विबभौ युधि दुर्धर्षो हिमवानचलो यथा ||१||
ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः |
विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत ||२||
तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान् |
ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा ||३||
युध्यध्वं परया शक्त्या यतध्वं च वधे मम |
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ||४||
एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् |
तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः ||५||
एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा |
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ||६||
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः |
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना ||७||
चिन्तयामास च तदा फल्गुनः पुरुषर्षभः ||७||
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति |
कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् ||८||
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् |
इति सञ्चिन्त्य स तदा भ्रातुः प्रियहिते रतः ||९||
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ||९||
बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् |
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः ||१०||
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः |
अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः ||११||
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः |
अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः ||१२||
ततः शतसहस्राणि शराणां नतपर्वणाम् |
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि ||१३||
स तानापततः क्रूरानाशीविषविषोपमान् |
चिच्छेद निशितैर्बाणैरन्तरैव धनञ्जयः ||१४||
छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान् |
एकैकमेष दशभिर्बिभेद समरे शरैः ||१५||
ततः प्रासांश्च शक्तीश्च पुनरेव धनञ्जये |
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ||१६||
तेषां किरीटी सङ्कल्पं मोघं चक्रे महामनाः |
सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः ||१७||
तथैवापततां तेषां योधानां जयगृद्धिनाम् |
शिरांसि पातयामास भल्लैः संनतपर्वभिः ||१८||
तेषां प्रद्रवतां चैव पुनरेव च धावताम् |
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ||१९||
ते वध्यमानास्तु तदा पार्थेनामिततेजसा |
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ||२०||
ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः |
कृता विसञ्ज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः ||२१||
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा |
दुःशला बालमादाय नप्तारं प्रययौ तदा ||२२||
सुरथस्य सुतं वीरं रथेनानागसं तदा ||२२||
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् |
सा धनञ्जयमासाद्य मुमोचार्तस्वरं तदा ||२३||
धनञ्जयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ||२३||
समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा |
प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् ||२४||
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः |
अभिवादयते वीर तं पश्य पुरुषर्षभ ||२५||
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा |
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ||२६||
पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता |
पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह ||२७||
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ |
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् ||२८||
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय ||२८||
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ |
विषादार्तः पपातोर्व्यां ममार च ममात्मजः ||२९||
तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो |
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी ||३०||
इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा |
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ||३१||
स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च |
कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह ||३२||
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ||३२||
अभिमन्योर्यथा जातः परिक्षित्परवीरहा |
तथायं सुरथाज्जातो मम पौत्रो महाभुज ||३३||
तमादाय नरव्याघ्र सम्प्राप्तास्मि तवान्तिकम् |
शमार्थं सर्वयोधानां शृणु चेदं वचो मम ||३४||
आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः |
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ||३५||
एष प्रसाद्य शिरसा मया सार्धमरिंदम |
याचते त्वां महाबाहो शमं गच्छ धनञ्जय ||३६||
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः |
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ||३७||
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम् |
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि ||३८||
एवं ब्रुवत्यां करुणं दुःशलायां धनञ्जयः |
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् ||३९||
प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् ||३९||
धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् |
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ||४०||
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः |
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ||४१||
दुःशला चापि तान्योधान्निवार्य महतो रणात् |
सम्पूज्य पार्थं प्रययौ गृहान्प्रति शुभानना ||४२||
ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः |
पुनरेवान्वधावत्स तं हयं कामचारिणम् ||४३||
ससार यज्ञियं वीरो विधिवत्स विशां पते |
तारामृगमिवाकाशे देवदेवः पिनाकधृक् ||४४||
स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् |
विचचार यथाकामं कर्म पार्थस्य वर्धयन् ||४५||
क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ |
मणिपूरपतेर्देशमुपायात्सहपाण्डवः ||४६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
078-अध्यायः
बभ्रुवाहनयुद्धम्
वैशम्पायन उवाच||
श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः |
निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः ||१||
मणिपूरेश्वरं त्वेवमुपयातं धनञ्जयः |
नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् ||२||
उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा |
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ||३||
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् |
यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक ||४||
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् |
यो मां युद्धाय सम्प्राप्तं साम्नैवाथो त्वमग्रहीः ||५||
न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता |
यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः ||६||
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते |
प्रक्रियेयं ततो युक्ता भवेत्तव नराधम ||७||
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा |
अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् ||८||
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् |
सन्तर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो ||९||
ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा |
उलूपी प्राह वचनं क्षत्रधर्मविशारदा ||१०||
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् |
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ||११||
युध्यस्वैनं कुरुश्रेष्ठं धनञ्जयमरिंदम |
एवमेष हि ते प्रीतो भविष्यति न संशयः ||१२||
एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः |
मनश्चक्रे महातेजा युद्धाय भरतर्षभ ||१३||
संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् |
तूणीरशतसम्बाधमारुरोह महारथम् ||१४||
सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः |
सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् ||१५||
परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् |
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ||१६||
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् |
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ||१७||
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनञ्जयः |
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ||१८||
ततः स राजा तं वीरं शरव्रातैः सहस्रशः |
अर्दयामास निशितैराशीविषविषोपमैः ||१९||
तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् |
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ||२०||
किरीटिनं तु विव्याध शरेण नतपर्वणा |
जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः ||२१||
सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः |
विनिर्भिद्य च कौन्तेयं महीतलमथाविशत् ||२२||
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् |
दिव्यं तेजः समाविश्य प्रमीत इव सम्बभौ ||२३||
स सञ्ज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः |
पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते ||२४||
साधु साधु महाबाहो वत्स चित्राङ्गदात्मज |
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ||२५||
विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव |
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ||२६||
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् |
नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा ||२७||
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् |
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ||२८||
हयांश्चास्य महाकायान्महावेगपराक्रमान् |
चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः ||२९||
स रथादवतीर्याशु राजा परमकोपनः |
पदातिः पितरं कोपाद्योधयामास पाण्डवम् ||३०||
सम्प्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् |
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ||३१||
स हन्यमानो विमुखं पितरं बभ्रुवाहनः |
शरैराशीविषाकारैः पुनरेवार्दयद्बली ||३२||
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा |
निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः ||३३||
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः |
विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ||३४||
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः |
महीं जगाम मोहार्तस्ततो राजन्धनञ्जयः ||३५||
तस्मिन्निपतिते वीरे कौरवाणां धुरन्धरे |
सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः ||३६||
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् |
पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः ||३७||
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि |
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् ||३८||
शोकसन्तप्तहृदया रुदती सा ततः शुभा |
मणिपूरपतेर्माता ददर्श निहतं पतिम् ||३९||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
079-अध्यायः
वैशम्पायन उवाच||
ततो बहुविधं भीरुर्विलप्य कमलेक्षणा |
मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले ||१||
प्रतिलभ्य च सा सञ्ज्ञां देवी दिव्यवपुर्धरा |
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ||२||
उलूपि पश्य भर्तारं शयानं निहतं रणे |
त्वत्कृते मम पुत्रेण बालेन समितिञ्जयम् ||३||
ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता |
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ||४||
किं तु सर्वापराधोऽयं यदि तेऽद्य धनञ्जयः |
क्षमस्व याच्यमाना मे सञ्जीवय धनञ्जयम् ||५||
ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे |
यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि ||६||
नाहं शोचामि तनयं निहतं पन्नगात्मजे |
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् ||७||
इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् |
भर्तारमभिगम्येदमित्युवाच यशस्विनी ||८||
उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय |
अयमश्वो महाबाहो मया ते परिमोक्षितः ||९||
ननु नाम त्वया वीर धर्मराजस्य यज्ञियः |
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ||१०||
त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन |
स कस्मात्प्राणदोऽन्येषां प्राणान्सन्त्यक्तवानसि ||११||
उलूपि साधु सम्पश्य भर्तारं निहतं रणे |
पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि ||१२||
कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः |
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ||१३||
नापराधोऽस्ति सुभगे नराणां बहुभार्यता |
नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी ||१४||
सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह |
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते ||१५||
पुत्रेण घातयित्वेमं पतिं यदि न मेऽद्य वै |
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ||१६||
साहं दुःखान्विता भीरु पतिपुत्रविनाकृता |
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ||१७||
इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी |
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ||१८||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
080-अध्यायः
वैशम्पायन उवाच||
तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा |
उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती ||१||
ततः सञ्ज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः |
मातरं तामथालोक्य रणभूमावथाब्रवीत् ||२||
इतो दुःखतरं किं नु यन्मे माता सुखैधिता |
भूमौ निपतितं वीरमनुशेते मृतं पतिम् ||३||
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् |
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत ||४||
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते |
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ||५||
दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते |
यत्र नाहं न मे माता विप्रयुज्येत जीवितात् ||६||
अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि |
व्यपविद्धं हतस्येह मया पुत्रेण पश्यत ||७||
भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि |
शयानं वीरशयने मया पुत्रेण पातितम् ||८||
ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः |
कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः ||९||
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे |
सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ||१०||
दुश्चरा द्वादश समा हत्वा पितरमद्य वै |
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ||११||
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे |
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ||१२||
पश्य नागोत्तमसुते भर्तारं निहतं मया |
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ||१३||
सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् |
न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे ||१४||
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि |
भव प्रीतिमती देवि सत्येनात्मानमालभे ||१५||
इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः |
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ||१६||
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च |
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ||१७||
यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः |
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ||१८||
न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् |
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ||१९||
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते |
पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया ||२०||
एष ह्येको महातेजाः पाण्डुपुत्रो धनञ्जयः |
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ||२१||
इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः |
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ||२२||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
081-अध्यायः
वैशम्पायन उवाच||
प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा |
पितृशोकसमाविष्टे सह मात्रा परन्तप ||१||
उलूपी चिन्तयामास तदा सञ्जीवनं मणिम् |
स चोपातिष्ठत तदा पन्नगानां परायणम् ||२||
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता |
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ||३||
उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः |
अजेयः पुरुषैरेष देवैर्वापि सवासवैः ||४||
मया तु मोहिनी नाम मायैषा सम्प्रयोजिता |
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ||५||
जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः |
सङ्ग्रामे युध्यतो राजन्नागतः परवीरहा ||६||
तस्मादसि मया पुत्र युद्धार्थं परिचोदितः |
मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो ||७||
ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः |
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ||८||
अयं तु मे मणिर्दिव्यः समानीतो विशां पते |
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ||९||
एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो |
सञ्जीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् ||१०||
इत्युक्तः स्थापयामास तस्योरसि मणिं तदा |
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ||११||
तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः |
सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः ||१२||
तमुत्थितं महात्मानं लब्धसञ्ज्ञं मनस्विनम् |
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ||१३||
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो |
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ||१४||
अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः |
साधु साध्विति चाकाशे बभूव सुमहान्स्वनः ||१५||
उत्थाय तु महाबाहुः पर्याश्वस्तो धनञ्जयः |
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ||१६||
ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् |
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः ||१७||
किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् |
रणाजिरममित्रघ्न यदि जानासि शंस मे ||१८||
जननी च किमर्थं ते रणभूमिमुपागता |
नागेन्द्रदुहिता चेयमुलूपी किमिहागता ||१९||
जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् |
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ||२०||
तमुवाच ततः पृष्टो मणिपूरपतिस्तदा |
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ||२१||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
082-अध्यायः
अर्जुन उवाच||
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि |
मणिपूरपतेर्मातुस्तथैव च रणाजिरे ||१||
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे |
मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ||२||
कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने |
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ||३||
कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी |
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन ||४||
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ |
न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः ||५||
न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता ||५||
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् |
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ||६||
त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ |
यत्तच्छृणु महाबाहो निखिलेन धनञ्जय ||७||
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः |
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ||८||
न हि भीष्मस्त्वया वीर युध्यमानो निपातितः |
शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ||९||
तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् |
कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ||१०||
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि |
वसुभिर्वसुधापाल गङ्गया च महामते ||११||
पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया |
गङ्गायास्तीरमागम्य हते शान्तनवे नृपे ||१२||
आप्लुत्य देवा वसवः समेत्य च महानदीम् |
इदमूचुर्वचो घोरं भागीरथ्या मते तदा ||१३||
एष शान्तनवो भीष्मो निहतः सव्यसाचिना |
अयुध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि ||१४||
तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे |
शापेन योजयामेति तथास्त्विति च साब्रवीत् ||१५||
तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया |
अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ||१६||
पिता तु मे वसून्गत्वा त्वदर्थं समयाचत |
पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ||१७||
पुनस्तस्य महाभाग मणिपूरेश्वरो युवा |
स एनं रणमध्यस्थं शरैः पातयिता भुवि ||१८||
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति |
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ||१९||
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः |
न हि त्वां देवराजोऽपि समरेषु पराजयेत् ||२०||
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः |
नात्र दोषो मम मतः कथं वा मन्यसे विभो ||२१||
इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम् |
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ||२२||
इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः |
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ||२३||
युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति |
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ||२४||
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः |
उवाच पितरं धीमानिदमस्राविलेक्षणः ||२५||
उपयास्यामि धर्मज्ञ भवतः शासनादहम् |
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ||२६||
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् |
भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ||२७||
उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो |
पुनरश्वानुगमनं कर्तासि जयतां वर ||२८||
इत्युक्तः स तु पुत्रेण तदा वानरकेतनः |
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ||२९||
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् |
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ||३०||
यथाकामं प्रयात्येष यज्ञियश्च तुरङ्गमः |
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ||३१||
स तत्र विधिवत्तेन पूजितः पाकशासनिः |
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ||३२||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
083-अध्यायः
मागधपराजयः
वैशम्पायन उवाच||
स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् |
निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् ||१||
अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् |
यदृच्छया समापेदे पुरं राजगृहं तदा ||२||
तमभ्याशगतं राजा जरासन्धात्मजात्मजः |
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ||३||
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली |
मेघसन्धिः पदातिं तं धनञ्जयमुपाद्रवत् ||४||
आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम् |
बालभावान्महाराज प्रोवाचेदं न कौशलात् ||५||
किमयं चार्यते वाजी स्त्रीमध्य इव भारत |
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ||६||
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम |
करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ||७||
इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव |
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ||८||
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् |
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ||९||
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः |
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ||१०||
ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः |
चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ||११||
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः |
शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ||१२||
ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च |
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ||१३||
संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह |
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ||१४||
ततो गाण्डीवभृच्छूरो मागधेन समाहतः |
बभौ वासन्तिक इव पलाशः पुष्पितो महान् ||१५||
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् |
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ||१६||
सव्यसाची तु सङ्क्रुद्धो विकृष्य बलवद्धनुः |
हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् ||१७||
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह |
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ||१८||
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः |
गदामादाय कौन्तेयमभिदुद्राव वेगवान् ||१९||
तस्यापतत एवाशु गदां हेमपरिष्कृताम् |
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ||२०||
सा गदा शकलीभूता विशीर्णमणिबन्धना |
व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ||२१||
विरथं तं विधन्वानं गदया परिवर्जितम् |
नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ||२२||
तत एनं विमनसं क्षत्रधर्मे समास्थितम् |
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ||२३||
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् |
बह्वेतत्समरे कर्म तव बालस्य पार्थिव ||२४||
युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति |
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ||२५||
इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः |
तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ||२६||
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् |
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ||२७||
इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् |
फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ||२८||
ततो यथेष्टमगमत्पुनरेव स केसरी |
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ||२९||
तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः |
विजिग्ये धनुषा राजन्गाण्डीवेन धनञ्जयः ||३०||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
084-अध्यायः
एकलव्यसुतपराजयः
वैशम्पायन उवाच||
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः |
दक्षिणां दिशमास्थाय चारयामास तं हयम् ||१||
ततः स पुनरावृत्य हयः कामचरो बली |
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ||२||
शरभेणार्चितस्तत्र शिशुपालात्मजेन सः |
युद्धपूर्वेण मानेन पूजया च महाबलः ||३||
तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः |
काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान् ||४||
तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः |
पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा ||५||
तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः |
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ||६||
तं चापि वशमानीय किरीटी पुरुषर्षभः |
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ||७||
एकलव्यसुतश्चैनं युद्धेन जगृहे तदा |
ततश्चक्रे निषादैः स सङ्ग्रामं रोमहर्षणम् ||८||
ततस्तमपि कौन्तेयः समरेष्वपराजितः |
जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम् ||९||
स तं जित्वा महाराज नैषादिं पाकशासनिः |
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ||१०||
तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि |
तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः ||११||
तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ |
गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान् ||१२||
ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम् |
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ||१३||
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः |
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् ||१४||
ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा |
सहितो वसुदेवेन मातुलेन किरीटिनः ||१५||
तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् |
परया भरतश्रेष्ठं पूजया समवस्थितौ ||१६||
ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः ||१६||
ततः स पश्चिमं देशं समुद्रस्य तदा हयः |
क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ ||१७||
तस्मादपि स कौरव्य गान्धारविषयं हयः |
विचचार यथाकामं कौन्तेयानुगतस्तदा ||१८||
तत्र गान्धारराजेन युद्धमासीन्महात्मनः |
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ||१९||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
085-अध्यायः
गान्धारपराजयः
वैशम्पायन उवाच||
शकुनेस्तु सुतो वीरो गान्धाराणां महारथः |
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ||१||
हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ||१||
अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् |
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ||२||
तानुवाच स धर्मात्मा बीभत्सुरपराजितः |
युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ||३||
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः |
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ||४||
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः |
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ||५||
ते वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात् |
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ||६||
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः |
आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ||७||
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः |
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ||८||
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् |
पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् ||९||
अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ||९||
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः |
स शक्रसमकर्माणमवाकिरत सायकैः ||१०||
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा |
अपाहरदसम्भ्रान्तो जयद्रथशिरो यथा ||११||
तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते |
इच्छता तेन न हतो राजेत्यपि च ते विदुः ||१२||
गान्धारराजपुत्रस्तु पलायनकृतक्षणः |
बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ||१३||
तेषां तु तरसा पार्थस्तत्रैव परिधावताम् |
विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ||१४||
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् |
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ||१५||
सम्भ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् |
हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ||१६||
न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः |
रिपवः पात्यमाना वै ये सहेयुर्महाशरान् ||१७||
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा |
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ||१८||
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् |
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ||१९||
तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा |
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ||२०||
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता |
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ||२१||
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च |
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ||२२||
मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी |
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ||२३||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
086-अध्यायः
यज्ञायतननिर्माणम्
वैशम्पायन उवाच||
इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् |
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ||१||
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः |
श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ||२||
विजयस्य च तत्कर्म गान्धारविषये तदा |
श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ||३||
एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् |
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ||४||
समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः |
भीमं च नकुलं चैव सहदेवं च कौरवः ||५||
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः |
आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ||६||
आयाति भीमसेनासौ सहाश्वेन तवानुजः |
यथा मे पुरुषाः प्राहुर्ये धनञ्जयसारिणः ||७||
उपस्थितश्च कालोऽयमभितो वर्तते हयः |
माघी च पौर्णमासीयं मासः शेषो वृकोदर ||८||
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः |
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ||९||
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् |
हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ||१०||
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह |
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ||११||
तं सशालचयग्रामं सम्प्रतोलीविटङ्किनम् |
मापयामास कौरव्यो यज्ञवाटं यथाविधि ||१२||
सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् |
कारयामास विधिवन्मणिहेमविभूषितम् ||१३||
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च |
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ||१४||
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् |
कारयामास धर्मात्मा तत्र तत्र यथाविधि ||१५||
ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् |
कारयामास भीमः स विविधानि ह्यनेकशः ||१६||
तथा सम्प्रेषयामास दूतान्नृपतिशासनात् |
भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ||१७||
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः |
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ||१८||
तेषां निविशतां तेषु शिबिरेषु सहस्रशः |
नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ||१९||
तेषामभ्यागतानां स राजा राजीवलोचनः |
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ||२०||
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः |
उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ||२१||
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः |
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ||२२||
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते |
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ||२३||
सर्वांश्च ताननुययौ यावदावसथादिति |
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ||२४||
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा |
कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ||२५||
तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् |
हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ||२६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
087-अध्यायः
यज्ञसमृद्धिः
वैशम्पायन उवाच||
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः |
हेतुवादान्बहून्प्राहुः परस्परजिगीषवः ||१||
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् |
देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन ||२||
ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते |
शय्यासनविहारांश्च सुबहून्रत्नभूषितान् ||३||
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् |
न हि किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः ||४||
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् |
उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः ||५||
स्थलजा जलजा ये च पशवः केचन प्रभो |
सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः ||६||
गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च |
औदकानि च सत्त्वानि श्वापदानि वयांसि च ||७||
जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च |
पर्वतानूपवन्यानि भूतानि ददृशुश्च ते ||८||
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः |
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन् ||९||
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ||९||
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् |
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत ||१०||
विननादासकृत्सोऽथ दिवसे दिवसे तदा |
एवं स ववृते यज्ञो धर्मराजस्य धीमतः ||११||
अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः |
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ||१२||
जम्बूद्वीपो हि सकलो नानाजनपदायुतः |
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ||१३||
तत्र जातिसहस्राणि पुरुषाणां ततस्ततः |
गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ ||१४||
राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः |
पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः ||१५||
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः |
तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते ||१६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
088-अध्यायः
अर्जुनप्रत्यागमनम्
वैशम्पायन उवाच||
समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् |
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत् ||१||
उपयाता नरव्याघ्रा य इमे जगदीश्वराः |
एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः ||२||
इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना |
भीमसेनो महातेजा यमाभ्यां सह भारत ||३||
अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् |
बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः ||४||
युयुधानेन सहितः प्रद्युम्नेन गदेन च |
निशठेनाथ साम्बेन तथैव कृतवर्मणा ||५||
तेषामपि परां पूजां चक्रे भीमो महाभुजः |
विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः ||६||
युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः |
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् ||७||
स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम् |
धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः ||८||
आगमद्द्वारकावासी ममाप्तः पुरुषो नृप |
योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसङ्ग्रामकर्शितम् ||९||
समीपे च महाबाहुमाचष्ट च मम प्रभो |
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ||१०||
इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः |
दिष्ट्या स कुशली जिष्णुरुपयाति च माधव ||११||
तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः |
तदाख्यातुमिहेच्छामि भवता यदुनन्दन ||१२||
इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा |
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ||१३||
इदमाह महाराज पार्थवाक्यं नरः स माम् |
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ||१४||
आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति |
तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः ||१५||
इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद |
न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत् ||१६||
कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् |
राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः ||१७||
इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् |
धनञ्जयस्य नृपते तन्मे निगदतः शृणु ||१८||
उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः |
पुत्रो मम महातेजा दयितो बभ्रुवाहनः ||१९||
तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् |
स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ||२०||
इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः |
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ||२१||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
089-अध्यायः
युधिष्ठिर उवाच||
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् |
तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो ||१||
बहूनि किल युद्धानि विजयस्य नराधिपैः |
पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् ||२||
मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः |
अतीव विजयो धीमानिति मे दूयते मनः ||३||
सञ्चिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः |
किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ||४||
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ||४||
अतीव दुःखभागी स सततं कुन्तिनन्दनः |
न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किञ्चन ||५||
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ||५||
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् |
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ||६||
न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये |
ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ||७||
ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते |
न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ||८||
इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता |
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ||९||
कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत |
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ||१०||
सख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः ||१०||
तत्र भीमादयस्ते तु कुरवो यादवास्तथा |
रेमुः श्रुत्वा विचित्रार्था धनञ्जयकथा विभो ||११||
तथा कथयतामेव तेषामर्जुनसङ्कथाः |
उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः ||१२||
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् |
उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ||१३||
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः |
प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ||१४||
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत |
आयाति पुरुषव्याघ्रे पाण्डवानां धुरन्धरे ||१५||
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः |
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ||१६||
तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः |
दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ||१७||
कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् |
चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् ||१८||
ये व्यतीता महात्मानो राजानः सगरादयः |
तेषामपीदृशं कर्म न किञ्चिदनुशुश्रुम ||१९||
नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः |
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ||२०||
इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः |
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ||२१||
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः |
धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ||२२||
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः |
भीमादींश्चापि सम्पूज्य पर्यष्वजत केशवम् ||२३||
तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि |
विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ||२४||
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः |
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ||२५||
स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः |
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ||२६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
090-अध्यायः
यूपोच्छ्रयः
वैशम्पायन उवाच||
स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् |
पितामहीमभ्यवदत्साम्ना परमवल्गुना ||१||
तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च |
पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः ||२||
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ||२||
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च |
द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः ||३||
ऊषतुस्तत्र ते देव्यौ महार्हशयनासने |
सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया ||४||
स च राजा महावीर्यः पूजितो बभ्रुवाहनः |
धृतराष्ट्रं महीपालमुपतस्थे यथाविधि ||५||
युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् |
उपगम्य महातेजा विनयेनाभ्यवादयत् ||६||
स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि |
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ||७||
तथैव स महीपालः कृष्णं चक्रगदाधरम् |
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ||८||
तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् |
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ||९||
धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा |
पृथक्पृथगतीवैनं मानार्हं समपूजयन् ||१०||
ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः |
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ||११||
अद्य प्रभृति कौन्तेय यजस्व समयो हि ते |
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः ||१२||
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् |
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ||१३||
एवमेव महाराज दक्षिणां त्रिगुणां कुरु |
त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ||१४||
त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् |
ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ||१५||
पवित्रं परमं ह्येतत्पावनानां च पावनम् |
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ||१६||
इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा |
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा ||१७||
नराधिपः प्रायजत वाजिमेधं महाक्रतुम् ||१७||
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः |
परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः ||१८||
न तेषां स्खलितं तत्र नासीदपहुतं तथा |
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ||१९||
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः |
चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ||२०||
अभिषूय ततो राजन्सोमं सोमपसत्तमाः |
सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः ||२१||
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह |
क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः ||२२||
भोजनं भोजनार्थिभ्यो दापयामास नित्यदा |
भीमसेनो महातेजाः सततं राजशासनात् ||२३||
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः |
दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ||२४||
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः |
नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः ||२५||
ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ |
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ||२६||
देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ |
श्लेष्मातकमयं चैकं याजकाः समकारयन् ||२७||
शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ |
स भीमः कारयामास धर्मराजस्य शासनात् ||२८||
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः |
नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि ||२९||
इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन् |
शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः ||३०||
चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः |
स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः ||३१||
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः |
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ||३२||
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये |
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ||३३||
यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा |
अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः ||३४||
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः |
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः ||३५||
स किम्पुरुषगीतैश्च किंनरैरुपशोभितः |
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ||३६||
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः |
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ||३७||
नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः |
विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः ||३८||
गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः |
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ ||३९||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
091-अध्यायः
यज्ञसमाप्तिः
नकुलोपाख्यानम्
वैशम्पायन उवाच||
शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः |
तुरगं तं यथाशास्त्रमालभन्त द्विजातयः ||१||
ततः सञ्ज्ञाप्य तुरगं विधिवद्याजकर्षभाः |
उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् ||२||
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ||२||
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः |
श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ ||३||
तं वपाधूमगन्धं तु धर्मराजः सहानुजः |
उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा ||४||
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप |
तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ||५||
संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः |
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ||६||
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि |
कोटीसहस्रं निष्काणां व्यासाय तु वसुन्धराम् ||७||
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः |
अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ||८||
पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम |
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः ||९||
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः |
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ||१०||
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता |
अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया ||११||
वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् |
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ||१२||
नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः |
इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः ||१३||
इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा |
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ||१४||
ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत |
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ||१५||
द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम् |
उवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ||१६||
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् |
हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते ||१७||
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् |
यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि ||१८||
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह |
कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः ||१९||
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः |
यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता ||२०||
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः |
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ||२१||
पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः |
धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह ||२२||
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा |
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् ||२३||
यज्ञवाटे तु यत्किञ्चिद्धिरण्यमपि भूषणम् |
तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः ||२४||
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ||२४||
अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु |
तथा विट्शूद्रसङ्घाश्च तथान्ये म्लेच्छजातयः ||२५||
कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ||२५||
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् |
तर्पिता वसुना तेन धर्मराज्ञा महात्मना ||२६||
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात् |
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ||२७||
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा |
चकार पुण्यं लोके तु सुमहान्तं पृथा तदा ||२८||
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह |
सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव ||२९||
पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा |
अशोभन्त महाराज ग्रहास्तारागणैरिव ||३०||
राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च |
गजानश्वानलङ्कारान्स्त्रियो वस्त्राणि काञ्चनम् ||३१||
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले |
विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा ||३२||
आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् |
प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा ||३३||
दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ |
स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् ||३४||
राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान् |
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ||३५||
एवं बभूव यज्ञः स धर्मराजस्य धीमतः |
बह्वन्नधनरत्नौघः सुरामैरेयसागरः ||३६||
सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः |
रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ ||३७||
भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति |
पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते ||३८||
मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् |
मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा ||३९||
दीयतां भुज्यतां चेति दिवारात्रमवारितम् |
तं महोत्सवसङ्काशमतिहृष्टजनाकुलम् ||४०||
कथयन्ति स्म पुरुषा नानादेशनिवासिनः ||४०||
वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा |
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ||४१||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
092-अध्यायः
जनमेजय उवाच||
पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः |
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ||१||
वैशम्पायन उवाच||
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् |
अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो ||२||
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु |
दीनान्धकृपणे चापि तदा भरतसत्तम ||३||
घुष्यमाणे महादाने दिक्षु सर्वासु भारत |
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ||४||
बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ |
वज्राशनिसमं नादममुञ्चत विशां पते ||५||
सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् |
मानुषं वचनं प्राह धृष्टो बिलशयो महान् ||६||
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः |
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||७||
तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते |
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ||८||
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः |
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ||९||
किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् |
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ||१०||
अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् |
यथागमं यथान्यायं कर्तव्यं च यथाकृतम् ||११||
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा |
मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम् ||१२||
तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि |
क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः ||१३||
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः |
अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ||१४||
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः |
देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः ||१५||
यदत्र तथ्यं तद्ब्रूहि सत्यसन्ध द्विजातिषु |
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ||१६||
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च |
समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि ||१७||
इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् |
नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः ||१८||
यन्मयोक्तमिदं किञ्चिद्युष्माभिश्चाप्युपश्रुतम् |
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ||१९||
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||१९||
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुङ्गवाः |
शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः ||२०||
अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम् |
उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः ||२१||
स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः |
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ||२२||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
093-अध्यायः
नकुल उवाच||
हन्त वो वर्तयिष्यामि दानस्य परमं फलम् |
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ||१||
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते |
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ||२||
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः |
वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ||३||
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः |
षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ||४||
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ||४||
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे |
नाविद्यत तदा विप्राः सञ्चयस्तान्निबोधत ||५||
क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ||५||
काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् |
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ||६||
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे |
उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ||७||
उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ||७||
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि |
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ||८||
अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् |
यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ||९||
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि |
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ||१०||
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा |
ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ||११||
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा |
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ||१२||
अनसूयवो गतक्रोधाः साधवो गतमत्सराः |
त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ||१३||
सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् |
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ||१४||
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ |
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ||१५||
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ||१५||
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः |
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ||१६||
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् |
आहारं चिन्तयामास कथं तुष्टो भवेदिति ||१७||
तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति |
गच्छत्वेष यथाकामं सन्तुष्टो द्विजसत्तमः ||१८||
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः |
क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ||१९||
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् |
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ||२०||
अपि कीटपतङ्गानां मृगाणां चैव शोभने |
स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ||२१||
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च |
प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ||२२||
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज |
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ||२३||
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः |
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ||२४||
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः |
भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ||२५||
पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम |
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ||२६||
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् |
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ||२७||
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् |
द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ||२८||
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः |
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ||२९||
पुत्र उवाच||
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम |
इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ||३०||
भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम |
साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ||३१||
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् |
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ||३२||
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया |
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ||३३||
पितोवाच||
अपि वर्षसहस्री त्वं बाल एव मतो मम |
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ||३४||
बालानां क्षुद्बलवती जानाम्येतदहं विभो |
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ||३५||
जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च |
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ||३६||
पुत्र उवाच||
अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः |
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ||३७||
पितोवाच||
रूपेण सदृशस्त्वं मे शीलेन च दमेन च |
परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ||३८||
इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः |
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ||३९||
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह |
उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः ||४०||
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया |
सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ||४१||
सन्तानात्तव सन्तानं मम विप्र भविष्यति |
सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ||४२||
तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः |
पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ||४३||
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च |
तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ||४४||
पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम |
पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ||४५||
श्वशुर उवाच||
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै |
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ||४६||
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः |
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ||४७||
षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् |
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ||४८||
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया |
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ||४९||
स्नुषोवाच||
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् |
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ||५०||
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः |
तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ||५१||
अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज |
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ||५२||
श्वशुर उवाच||
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे |
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ||५३||
तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् |
गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ||५४||
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये |
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ||५५||
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् |
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ||५६||
शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः |
यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ||५७||
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः |
गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ||५८||
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः |
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ||५९||
ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये |
काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ||६०||
पितृलोकगताः सर्वे तारिताः पितरस्त्वया |
अनागताश्च बहवः सुबहूनि युगानि च ||६१||
ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा |
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ||६२||
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत |
तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ||६३||
सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा |
कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ||६४||
क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति |
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ||६५||
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् |
यदा दानरुचिर्भवति तदा धर्मो न सीदति ||६६||
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च |
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ||६७||
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् |
कालः परतरो दानाच्छ्रद्धा चापि ततः परा ||६८||
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते |
स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ||६९||
तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः |
ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ||७०||
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च |
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ||७१||
रन्तिदेवो हि नृपतिरपः प्रादादकिञ्चनः |
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ||७२||
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः |
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ||७३||
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः |
एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ||७४||
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः |
प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ||७५||
विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् |
न यज्ञैर्विविधैर्विप्र यथान्यायेन सञ्चितैः ||७६||
क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति |
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ||७७||
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः |
न चाश्वमेधैर्बहुभिः फलं सममिदं तव ||७८||
सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ |
विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ||७९||
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् |
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ||८०||
पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते |
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ||८१||
इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः |
सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ||८२||
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा |
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ||८३||
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च |
दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ||८४||
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ||८४||
तस्य सत्याभिसन्धस्य सूक्ष्मदानेन चैव ह |
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ||८५||
पश्यतेदं सुविपुलं तपसा तस्य धीमतः ||८५||
कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः |
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ||८६||
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः |
आशया परया प्राप्तो न चाहं काञ्चनीकृतः ||८७||
ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः |
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ||८८||
सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः |
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ||८९||
वैशम्पायन उवाच||
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा |
जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ||९०||
एतत्ते सर्वमाख्यातं मया परपुरञ्जय |
यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ||९१||
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन |
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ||९२||
अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम् |
तपो दमश्च सत्यं च दानं चेति समं मतम् ||९३||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
094-अध्यायः
जनमेजय उवाच||
यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः |
शान्तिव्यवसिता विप्राः शमो दम इति प्रभो ||१||
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह विद्यते |
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ||२||
यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम |
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः ||३||
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः |
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ||४||
यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः |
सदृशो देवराजेन समृद्ध्या विक्रमेण च ||५||
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् |
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ||६||
वैशम्पायन उवाच||
यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ |
गदतः शृणु मे राजन्यथावदिह भारत ||७||
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः |
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ||८||
हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते |
देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु ||९||
सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप |
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ||१०||
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ |
महर्षयो महाराज सम्बभूवुः कृपान्विताः ||११||
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः |
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ||१२||
अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः |
न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर ||१३||
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो |
नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते ||१४||
आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि |
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ||१५||
यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः |
एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते ||१६||
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः |
उक्तं न प्रतिजग्राह मानमोहवशानुगः ||१७||
तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् |
जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत ||१८||
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः |
ततः सन्धाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ||१९||
महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः |
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि ||२०||
तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम् |
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ||२१||
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् |
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ||२२||
अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः |
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ||२३||
धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा |
ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् ||२४||
पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः |
रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते ||२५||
तेन दत्तानि दानानि पापेन हतबुद्धिना |
तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि ||२६||
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः |
दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः ||२७||
अपि सञ्चयबुद्धिर्हि लोभमोहवशङ्गतः |
उद्वेजयति भूतानि हिंसया पापचेतनः ||२८||
एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च |
स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् ||२९||
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः |
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः ||३०||
एष धर्मो महांस्त्यागो दानं भूतदया तथा |
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ||३१||
सनातनस्य धर्मस्य मूलमेतत्सनातनम् ||३१||
श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः |
विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः ||३२||
कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः ||३२||
एते चान्ये च बहवः सिद्धिं परमिकां गताः |
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ||३३||
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः |
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ||३४||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
095-अध्यायः
जनमेजय उवाच||
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् |
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ||१||
ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् |
कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ||२||
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् |
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ||३||
वैशम्पायन उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ||४||
पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् |
प्रविवेश महाराज सर्वभूतहिते रतः ||५||
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः |
मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ||६||
परिघृष्टिका वैघसिकाः सम्प्रक्षालास्तथैव च |
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ||७||
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः |
दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ||८||
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः |
उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ||९||
यथाशक्त्या भगवता तदन्नं समुपार्जितम् |
तस्मिन्सत्रे तु यत्किञ्चिदयोग्यं तत्र नाभवत् ||१०||
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ||१०||
एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे |
न ववर्ष सहस्राक्षस्तदा भरतसत्तम ||११||
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः |
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ||१२||
अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः |
न च वर्षति पर्जन्यः कथमन्नं भविष्यति ||१३||
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् |
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ||१४||
एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः |
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ||१५||
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् |
प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ||१६||
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ||१७||
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |
व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ||१८||
बीजयज्ञो मयायं वै बहुवर्षसमाचितः |
बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ||१९||
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन |
वर्षिष्यतीह वा देवो न वा देवो भविष्यति ||२०||
अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः |
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ||२१||
यो यदाहारजातश्च स तथैव भविष्यति |
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ||२२||
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् |
त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ||२३||
दिव्याश्चाप्सरसां सङ्घाः सगन्धर्वाः सकिंनराः |
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ||२४||
उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते |
सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु ||२५||
स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ||२५||
इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः |
ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् ||२६||
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ||२६||
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् |
स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ||२७||
यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे |
तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ||२८||
न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् |
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ||२९||
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् |
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ||३०||
भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता |
एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ||३१||
प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम |
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ||३२||
वैशम्पायन उवाच||
तथा कथयतामेव देवराजः पुरंदरः |
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ||३३||
असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः |
निकामवर्षी देवेन्द्रो बभूव जनमेजय ||३४||
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः |
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ||३५||
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् |
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ||३६||
श्रीमहाभारतम्
||१४ अश्वमेधिकपर्वम् ||
096-अध्यायः
जनमेजय उवाच||
कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै |
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ||१||
वैशम्पायन उवाच||
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् |
श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी ||२||
श्राद्धं सङ्कल्पयामास जमदग्निः पुरा किल |
होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम् ||३||
तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ |
तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् ||४||
जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते |
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ||५||
तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः |
स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः ||६||
जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः |
लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः ||७||
सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि |
बिभेमि तपसः साधो प्रसादं कुरु मे विभो ||८||
जनमेजय उवाच||
साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः |
न ममापकृतं तेऽद्य न मन्युर्विद्यते मम ||९||
यानुद्दिश्य तु सङ्कल्पः पयसोऽस्य कृतो मया |
पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम् ||१०||
इत्युक्तो जातसन्त्रासः स तत्रान्तरधीयत |
पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः ||११||
स तान्प्रसादयामास शापस्यान्तो भवेदिति |
तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा ||१२||
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह |
जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् ||१३||
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः |
मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ||१४||
एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः |
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ||१५||
अश्वमेधिकपर्व सम्पूर्णम्