[highlight_content]

उद्योगपर्वम् अध्यायः 33-50

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

033-अध्यायः-प्रजागरपर्व

वैशम्पायन उवा||

द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः |

विदुरं द्रष्टुमि्छामि तमिहानय मािरम् ||१||

प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् |

ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ||२||

एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् |

अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ||३||

द्वाःस्थ उवा||

विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् |

द्रष्टुमि्छति ते पादौ किं करोतु प्रशाधि माम् ||४||

धृतराष्ट्र उवा||

प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् |

अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ||५||

द्वाःस्थ उवा||

प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः |

न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् ||६||

वैशम्पायन उवा||

ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् |

अब्रवीत्प्राञ्जलिर्वाक्यं िन्तयानं नराधिपम् ||७||

विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात् |

यदि किञ्न कर्तव्यमयमस्मि प्रशाधि माम् ||८||

धृतराष्ट्र उवा||

सञ्जयो विदुर प्राप्तो गर्हयित्वा मां गतः |

अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ||९||

तस्याद्य कुरुवीरस्य न विज्ञातं वो मया |

तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ||१०||

जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि |

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ||११||

यतः प्राप्तः सञ्जयः पाण्डवेभ्यो; न मे यथावन्मनसः प्रशान्तिः |

सर्वेन्द्रियाण्यप्रकृतिं गतानि; किं वक्ष्यतीत्येव हि मेऽद्य िन्ता ||१२||

विदुर उवा||

अभियुक्तं बलवता दुर्बलं हीनसाधनम् |

हृतस्वं कामिनं ोरमाविशन्ति प्रजागराः ||१३||

िदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप |

िन्न परवित्तेषु गृध्यन्विपरितप्यसे ||१४||

धृतराष्ट्र उवा||

श्रोतुमि्छामि ते धर्म्यं परं नैःश्रेयसं वः |

अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ||१५||

विदुर उवा||

निषेवते प्रशस्तानि निन्दितानि न सेवते |

अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ||१६||

क्रोधो हर्षश् दर्पश् ह्रीस्तम्भो मान्यमानिता |

यमर्थान्नापकर्षन्ति स वै पण्डित उ्यते ||१७||

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे |

कृतमेवास्य जानन्ति स वै पण्डित उ्यते ||१८||

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः |

समृद्धिरसमृद्धिर्वा स वै पण्डित उ्यते ||१९||

यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते |

कामादर्थं वृणीते यः स वै पण्डित उ्यते ||२०||

यथाशक्ति िकीर्षन्ति यथाशक्ति कुर्वते |

न किञ्िदवमन्यन्ते पण्डिता भरतर्षभ ||२१||

क्षिप्रं विजानाति िरं शृणोति; विज्ञाय ार्थं भजते न कामात् |

नासम्पृष्टो व्युपयुङ्क्ते परार्थे; तत्प्रज्ञानं प्रथमं पण्डितस्य ||२२||

नाप्राप्यमभिवाञ्छन्ति नष्टं ने्छन्ति शोितुम् |

आपत्सु न मुह्यन्ति नराः पण्डितबुद्धयः ||२३||

निश्ित्य यः प्रक्रमते नान्तर्वसति कर्मणः |

अवन्ध्यकालो वश्यात्मा स वै पण्डित उ्यते ||२४||

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते |

हितं नाभ्यसूयन्ति पण्डिता भरतर्षभ ||२५||

न हृष्यत्यात्मसंमाने नावमानेन तप्यते |

गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उ्यते ||२६||

तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् |

उपायज्ञो मनुष्याणां नरः पण्डित उ्यते ||२७||

प्रवृत्तवाक्ित्रकथ ऊहवान्प्रतिभानवान् |

आशु ग्रन्थस्य वक्ता स वै पण्डित उ्यते ||२८||

श्रुतं प्रज्ञानुगं यस्य प्रज्ञा ैव श्रुतानुगा |

असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ||२९||

अश्रुतश् समुन्नद्धो दरिद्रश् महामनाः |

अर्थांश्ाकर्मणा प्रेप्सुर्मूढ इत्यु्यते बुधैः ||३०||

स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति |

मिथ्या रति मित्रार्थे यश् मूढः स उ्यते ||३१||

अकामान्कामयति यः कामयानान्परिद्विषन् |

बलवन्तं यो द्वेष्टि तमाहुर्मूढेतसम् ||३२||

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति |

कर्म ारभते दुष्टं तमाहुर्मूढेतसम् ||३३||

संसारयति कृत्यानि सर्वत्र वििकित्सते |

िरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ||३४||

अनाहूतः प्रविशति अपृष्टो बहु भाषते |

विश्वसत्यप्रमत्तेषु मूढेता नराधमः ||३५||

परं क्षिपति दोषेण वर्तमानः स्वयं तथा |

यश् क्रुध्यत्यनीशः सन्स मूढतमो नरः ||३६||

आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् |

अलभ्यमि्छन्नैष्कर्म्यान्मूढबुद्धिरिहो्यते ||३७||

अशिष्यं शास्ति यो राजन्यश् शून्यमुपासते |

कदर्यं भजते यश् तमाहुर्मूढेतसम् ||३८||

अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा |

विरत्यसमुन्नद्धो यः स पण्डित उ्यते ||३९||

एकः सम्पन्नमश्नाति वस्ते वासश् शोभनम् |

योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ||४०||

एकः पापानि कुरुते फलं भुङ्क्ते महाजनः |

भोक्तारो विप्रमु्यन्ते कर्ता दोषेण लिप्यते ||४१||

एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता |

बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ||४२||

एकया द्वे विनिश्ित्य त्रींश्तुर्भिर्वशे कुरु |

पञ् जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ||४३||

एकं विषरसो हन्ति शस्त्रेणैकश् वध्यते |

सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ||४४||

एकः स्वादु न भुञ्जीत एकश्ार्थान्न िन्तयेत् |

एको न ग्छेदध्वानं नैकः सुप्तेषु जागृयात् ||४५||

एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे |

सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ||४६||

एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते |

यदेनं क्षमया युक्तमशक्तं मन्यते जनः ||४७||

एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा |

विद्यैका परमा दृष्टिरहिंसैका सुखावहा ||४८||

द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव |

राजानं ाविरोद्धारं ब्राह्मणं ाप्रवासिनम् ||४९||

द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोते |

अब्रुवन्परुषं किञ्िदसतो नार्थयंस्तथा ||५०||

द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ |

स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ||५१||

द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ |

यश्ाधनः कामयते यश् कुप्यत्यनीश्वरः ||५२||

द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः |

प्रभुश् क्षमया युक्तो दरिद्रश् प्रदानवान् ||५३||

न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ |

अपात्रे प्रतिपत्तिश् पात्रे ाप्रतिपादनम् ||५४||

त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ |

कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ||५५||

त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः |

नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ||५६||

त्रय एवाधना राजन्भार्या दासस्तथा सुतः |

यत्ते समधिग्छन्ति यस्य ते तस्य तद्धनम् ||५७||

त्वारि राज्ञा तु महाबलेन; वर्ज्यान्याहुः पण्डितस्तानि विद्यात् |

अल्पप्रज्ञैः सह मन्त्रं न कुर्या; न्न दीर्घसूत्रैरलसैश्ारणैश् ||५८||

त्वारि ते तात गृहे वसन्तु; श्रियाभिजुष्टस्य गृहस्थधर्मे |

वृद्धो ज्ञातिरवसन्नः कुलीनः; सखा दरिद्रो भगिनी ानपत्या ||५९||

त्वार्याह महाराज सद्यस्कानि बृहस्पतिः |

पृ्छते त्रिदशेन्द्राय तानीमानि निबोध मे ||६०||

देवतानां सङ्कल्पमनुभावं धीमताम् |

विनयं कृतविद्यानां विनाशं पापकर्मणाम् ||६१||

पञ्ाग्नयो मनुष्येण परिर्याः प्रयत्नतः |

पिता माताग्निरात्मा गुरुश् भरतर्षभ ||६२||

पञ्ैव पूजयँल्लोके यशः प्राप्नोति केवलम् |

देवान्पितॄन्मनुष्यांश् भिक्षूनतिथिपञ्मान् ||६३||

पञ् त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि |

मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ||६४||

पञ्ेन्द्रियस्य मर्त्यस्य छिद्रं ेदेकमिन्द्रियम् |

ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ||६५||

षड्दोषाः पुरुषेणेह हातव्या भूतिमि्छता |

निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ||६६||

षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे |

अप्रवक्तारमाार्यमनधीयानमृत्विजम् ||६७||

अरक्षितारं राजानं भार्यां ाप्रियवादिनीम् |

ग्रामकामं गोपालं वनकामं नापितम् ||६८||

षडेव तु गुणाः पुंसा न हातव्याः कदान |

सत्यं दानमनालस्यमनसूया क्षमा धृतिः ||६९||

षण्णामात्मनि नित्यानामैश्वर्यं योऽधिग्छति |

न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ||७०||

षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते |

ोराः प्रमत्ते जीवन्ति व्याधितेषु िकित्सकाः ||७१||

प्रमदाः कामयानेषु यजमानेषु याजकाः |

राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ||७२||

सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः |

प्रायशो यैर्विनश्यन्ति कृतमूलाश् पार्थिवाः ||७३||

स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं पञ्मम् |

मह दण्डपारुष्यमर्थदूषणमेव ||७४||

अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः |

ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश् विरुध्यते ||७५||

ब्राह्मणस्वानि ादत्ते ब्राह्मणांश् जिघांसति |

रमते निन्दया ैषां प्रशंसां नाभिनन्दति ||७६||

नैतान्स्मरति कृत्येषु याितश्ाभ्यसूयति |

एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ||७७||

अष्टाविमानि हर्षस्य नवनीतानि भारत |

वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ||७८||

समागमश् सखिभिर्महांश्ैव धनागमः |

पुत्रेण परिष्वङ्गः संनिपातश् मैथुने ||७९||

समये प्रियालापः स्वयूथेषु संनतिः |

अभिप्रेतस्य लाभश् पूजा जनसंसदि ||८०||

नवद्वारमिदं वेश्म त्रिस्थूणं पञ्साक्षिकम् |

क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ||८१||

दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् |

मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ||८२||

त्वरमाणश् भीरुश् लुब्धः कामी ते दश |

तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ||८३||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

पुत्रार्थमसुरेन्द्रेण गीतं ैव सुधन्वना ||८४||

यः काममन्यू प्रजहाति राजा; पात्रे प्रतिष्ठापयते धनं |

विशेषवि्छ्रुतवान्क्षिप्रकारी; तं सर्वलोकः कुरुते प्रमाणम् ||८५||

जानाति विश्वासयितुं मनुष्या; न्विज्ञातदोषेषु दधाति दण्डम् |

जानाति मात्रां तथा क्षमां ; तं तादृशं श्रीर्जुषते समग्रा ||८६||

सुदुर्बलं नावजानाति कं ि; द्युक्तो रिपुं सेवते बुद्धिपूर्वम् |

न विग्रहं रोयते बलस्थैः; काले यो विक्रमते स धीरः ||८७||

प्राप्यापदं न व्यथते कदा ि; दुद्योगमन्वि्छति ाप्रमत्तः |

दुःखं काले सहते जितात्मा; धुरन्धरस्तस्य जिताः सपत्नाः ||८८||

अनर्थकं विप्रवासं गृहेभ्यः; पापैः सन्धिं परदाराभिमर्शम् |

दम्भं स्तैन्यं पैशुनं मद्यपानं; न सेवते यः स सुखी सदैव ||८९||

न संरम्भेणारभतेऽर्थवर्ग; माकारितः शंसति तथ्यमेव |

न मात्रार्थे रोयते विवादं; नापूजितः कुप्यति ाप्यमूढः ||९०||

योऽभ्यसूयत्यनुकम्पते ; न दुर्बलः प्रातिभाव्यं करोति |

नात्याह किञ्ित्क्षमते विवादं; सर्वत्र तादृग्लभते प्रशंसाम् ||९१||

यो नोद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थतेऽन्यान् |

न मूर््छितः कटुकान्याह किं ि; त्प्रियं सदा तं कुरुते जनोऽपि ||९२||

न वैरमुद्दीपयति प्रशान्तं; न दर्पमारोहति नास्तमेति |

न दुर्गतोऽस्मीति करोति मन्युं; तमार्यशीलं परमाहुरग्र्यम् ||९३||

न स्वे सुखे वै कुरुते प्रहर्षं; नान्यस्य दुःखे भवति प्रतीतः |

दत्त्वा न पश्ात्कुरुतेऽनुतापं; न कत्थते सत्पुरुषार्यशीलः ||९४||

देशाारान्समयाञ्जातिधर्मा; न्बुभूषते यस्तु परावरज्ञः |

स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करोति ||९५||

दम्भं मोहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम् |

मत्तोन्मत्तैर्दुर्जनैश्ापि वादं; यः प्रज्ञावान्वर्जयेत्स प्रधानः ||९६||

दमं शौं दैवतं मङ्गलानि; प्रायश्ित्तं विविधाँल्लोकवादान् |

एतानि यः कुरुते नैत्यकानि; तस्योत्थानं देवता राधयन्ति ||९७||

समैर्विवाहं कुरुते न हीनैः; समैः सख्यं व्यवहारं कथाश् |

गुणैर्विशिष्टांश् पुरोदधाति; विपश्ितस्तस्य नयाः सुनीताः ||९८||

मितं भुङ्क्ते संविभज्याश्रितेभ्यो; मितं स्वपित्यमितं कर्म कृत्वा |

ददात्यमित्रेष्वपि याितः सं; स्तमात्मवन्तं प्रजहत्यनर्थाः ||९९||

िकीर्षितं विप्रकृतं यस्य; नान्ये जनाः कर्म जानन्ति किञ्ित् |

मन्त्रे गुप्ते सम्यगनुष्ठिते ; स्वल्पो नास्य व्यथते कश्िदर्थः ||१००||

यः सर्वभूतप्रशमे निविष्टः; सत्यो मृदुर्दानकृ्छुद्धभावः |

अतीव सञ्ज्ञायते ज्ञातिमध्ये; महामणिर्जात्य इव प्रसन्नः ||१०१||

य आत्मनापत्रपते भृशं नरः; स सर्वलोकस्य गुरुर्भवत्युत |

अनन्ततेजाः सुमनाः समाहितः; स्वतेजसा सूर्य इवावभासते ||१०२||

वने जाताः शापदग्धस्य राज्ञः; पाण्डोः पुत्राः पञ् पञ्ेन्द्रकल्पाः |

त्वयैव बाला वर्धिताः शिक्षिताश्; तवादेशं पालयन्त्याम्बिकेय ||१०३||

प्रदायैषामुितं तात राज्यं; सुखी पुत्रैः सहितो मोदमानः |

न देवानां नापि मानुषाणां; भविष्यसि त्वं तर्कणीयो नरेन्द्र ||१०४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

034-अध्यायः

धृतराष्ट्र उवा||

जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि |

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुिः ||१||

त्वं मां यथावद्विदुर प्रशाधि; प्रज्ञापूर्वं सर्वमजातशत्रोः |

यन्मन्यसे पथ्यमदीनसत्त्व; श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ||२||

पापाशङ्की पापमेवानुपश्य; न्पृ्छामि त्वां व्याकुलेनात्मनाहम् |

कवे तन्मे ब्रूहि सर्वं यथाव; न्मनीषितं सर्वमजातशत्रोः ||३||

विदुर उवा||

शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् |

अपृष्टस्तस्य तद्ब्रूयाद्यस्य ने्छेत्पराभवम् ||४||

तस्माद्वक्ष्यामि ते राजन्भवमि्छन्कुरून्प्रति |

ः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ||५||

मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत |

अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ||६||

तथैव योगविहितं न सिध्येत्कर्म यन्नृप |

उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ||७||

अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु |

सम्प्रधार्य कुर्वीत न वेगेन समारेत् ||८||

अनुबन्धं सम्प्रेक्ष्य विपाकांश्ैव कर्मणाम् |

उत्थानमात्मनश्ैव धीरः कुर्वीत वा न वा ||९||

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये |

कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ||१०||

यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति |

युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिग्छति ||११||

न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् |

श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ||१२||

भक्ष्योत्तमप्रति्छन्नं मत्स्यो बडिशमायसम् |

रूपाभिपाती ग्रसते नानुबन्धमवेक्षते ||१३||

्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमे यत् |

हितं परिणामे यत्तदद्यं भूतिमि्छता ||१४||

वनस्पतेरपक्वानि फलानि प्रिनोति यः |

स नाप्नोति रसं तेभ्यो बीजं ास्य विनश्यति ||१५||

यस्तु पक्वमुपादत्ते काले परिणतं फलम् |

फलाद्रसं स लभते बीजाैव फलं पुनः ||१६||

यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः |

तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ||१७||

पुष्पं पुष्पं वििन्वीत मूल्छेदं न कारयेत् |

मालाकार इवारामे न यथाङ्गारकारकः ||१८||

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः |

इति कर्माणि सञ्िन्त्य कुर्याद्वा पुरुषो न वा ||१९||

अनारभ्या भवन्त्यर्थाः केिन्नित्यं तथागताः |

कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ||२०||

कांश्िदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् |

क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ||२१||

ऋजु पश्यति यः सर्वं क्षुषानुपिबन्निव |

आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ||२२||

क्षुषा मनसा वाा कर्मणा तुर्विधम् |

प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति ||२३||

यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव |

सागरान्तामपि महीं लब्ध्वा स परिहीयते ||२४||

पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा |

वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ||२५||

धर्ममारतो राज्ञः सद्भिश्रितमादितः |

वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी ||२६||

अथ सन्त्यजतो धर्ममधर्मं ानुतिष्ठतः |

प्रतिसंवेष्टते भूमिरग्नौ र्माहितं यथा ||२७||

य एव यत्नः क्रियते परराष्ट्रावमर्दने |

स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ||२८||

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् |

धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ||२९||

अप्युन्मत्तात्प्रलपतो बाला परिसर्पतः |

सर्वतः सारमादद्यादश्मभ्य इव काञ्नम् ||३०||

सुव्याहृतानि सुधियां सुकृतानि ततस्ततः |

सञ्िन्वन्धीर आसीत शिलाहारी शिलं यथा ||३१||

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः |

ारैः पश्यन्ति राजानश्क्षुर्भ्यामितरे जनाः ||३२||

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा |

अथ या सुदुहा राजन्नैव तां विनयन्त्यपि ||३३||

यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि |

स्वयं नतं दारु न तत्संनामयन्त्यपि ||३४||

एतयोपमया धीरः संनमेत बलीयसे |

इन्द्राय स प्रणमते नमते यो बलीयसे ||३५||

पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः |

पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ||३६||

सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते |

मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ||३७||

मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः |

अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुेलतः ||३८||

न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः |

अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ||३९||

य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये |

सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ||४०||

अकार्यकरणाद्भीतः कार्याणां विवर्जनात् |

अकाले मन्त्रभेदा येन माद्येन्न तत्पिबेत् ||४१||

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः |

एते मदावलिप्तानामेत एव सतां दमाः ||४२||

असन्तोऽभ्यर्थिताः सद्भिः किञ्ित्कार्यं कदान |

मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ||४३||

गतिरात्मवतां सन्तः सन्त एव सतां गतिः |

असतां गतिः सन्तो न त्वसन्तः सतां गतिः ||४४||

जिता सभा वस्त्रवता समाशा गोमता जिता |

अध्वा जितो यानवता सर्वं शीलवता जितम् ||४५||

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति |

न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ||४६||

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् |

लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ||४७||

सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा |

क्षुत्स्वादुतां जनयति सा ाढ्येषु सुदुर्लभा ||४८||

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते |

दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ||४९||

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् |

उत्तमानां तु मर्त्यानामवमानात्परं भयम् ||५०||

ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः |

ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ||५१||

इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः |

तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ||५२||

यो जितः पञ्वर्गेण सहजेनात्मकर्शिना |

आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ||५३||

अविजित्य य आत्मानममात्यान्विजिगीषते |

अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ||५४||

आत्मानमेव प्रथमं देशरूपेण यो जयेत् |

ततोऽमात्यानमित्रांश् न मोघं विजिगीषते ||५५||

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु |

परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ||५६||

रथः शरीरं पुरुषस्य राज; न्नात्मा नियन्तेन्द्रियाण्यस्य ाश्वाः |

तैरप्रमत्तः कुशलः सदश्वै; र्दान्तैः सुखं याति रथीव धीरः ||५७||

एतान्यनिगृहीतानि व्यापादयितुमप्यलम् |

अविधेया इवादान्ता हयाः पथि कुसारथिम् ||५८||

अनर्थमर्थतः पश्यन्नर्थं ैवाप्यनर्थतः |

इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ||५९||

धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः |

श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ||६०||

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः |

इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ||६१||

आत्मनात्मानमन्वि्छेन्मनोबुद्धीन्द्रियैर्यतैः |

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ||६२||

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ |

कामश् राजन्क्रोधश् तौ प्रज्ञानं विलुम्पतः ||६३||

समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिग्छति |

स वै सम्भृतसम्भारः सततं सुखमेधते ||६४||

यः पञ्ाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् |

जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ||६५||

दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः |

इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ||६६||

असन्त्यागात्पापकृतामपापां; स्तुल्यो दण्डः स्पृशते मिश्रभावात् |

शुष्केणार्द्रं दह्यते मिश्रभावा; त्तस्मात्पापैः सह सन्धिं न कुर्यात् ||६७||

निजानुत्पततः शत्रून्पञ् पञ्प्रयोजनान् |

यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ||६८||

अनसूयार्जवं शौं सन्तोषः प्रियवादिता |

दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ||६९||

आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता |

वाक्ैव गुप्ता दानं नैतान्यन्त्येषु भारत ||७०||

आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् |

वक्ता पापमुपादत्ते क्षममाणो विमु्यते ||७१||

हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् |

शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ||७२||

वाक्संयमो हि नृपते सुदुष्करतमो मतः |

अर्थव विित्रं न शक्यं बहु भाषितुम् ||७३||

अभ्यावहति कल्याणं विविधा वाक्सुभाषिता |

सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ||७४||

संरोहति शरैर्विद्धं वनं परशुना हतम् |

वाा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ||७५||

कर्णिनालीकनाराा निर्हरन्ति शरीरतः |

वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ||७६||

वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोति रात्र्यहानि |

परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||७७||

यस्मै देवाः प्रय्छन्ति पुरुषाय पराभवम् |

बुद्धिं तस्यापकर्षन्ति सोऽपाीनानि पश्यति ||७८||

बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते |

अनयो नयसङ्काशो हृदयान्नापसर्पति ||७९||

सेयं बुद्धिः परीता ते पुत्राणां तव भारत |

पाण्डवानां विरोधेन न ैनामवबुध्यसे ||८०||

राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत् |

शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ||८१||

अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः |

तेजसा प्रज्ञया ैव युक्तो धर्मार्थतत्त्ववित् ||८२||

आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः |

गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ||८३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

035-अध्यायः

धृतराष्ट्र उवा||

ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वः |

शृण्वतो नास्ति मे तृप्तिर्विित्राणीह भाषसे ||१||

विदुर उवा||

सर्वतीर्थेषु वा स्नानं सर्वभूतेषु ार्जवम् |

उभे एते समे स्यातामार्जवं वा विशिष्यते ||२||

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो |

इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ||३||

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते |

तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ||४||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

विरोनस्य संवादं केशिन्यर्थे सुधन्वना ||५||

केशिन्युवा||

किं ब्राह्मणाः स्वि्छ्रेयांसो दितिजाः स्विद्विरोन |

अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ||६||

विरोन उवा||

प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः |

अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ||७||

केशिन्युवा||

इहैवास्स्व प्रतीक्षाव उपस्थाने विरोन |

सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ||८||

विरोन उवा||

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे |

सुधन्वानं मां ैव प्रातर्द्रष्टासि सङ्गतौ ||९||

सुधन्वोवा||

अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् |

एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ||१०||

विरोन उवा||

अन्वाहरन्तु फलकं कूर्ं वाप्यथ वा बृसीम् |

सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ||११||

सुधन्वोवा||

पितापि ते समासीनमुपासीतैव मामधः |

बालः सुखैधितो गेहे न त्वं किञ्न बुध्यसे ||१२||

विरोन उवा||

हिरण्यं गवाश्वं यद्वित्तमसुरेषु नः |

सुधन्वन्विपणे तेन प्रश्नं पृ्छाव ये विदुः ||१३||

सुधन्वोवा||

हिरण्यं गवाश्वं तवैवास्तु विरोन |

प्राणयोस्तु पणं कृत्वा प्रश्नं पृ्छाव ये विदुः ||१४||

विरोन उवा||

आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते |

न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिित् ||१५||

सुधन्वोवा||

पितरं ते गमिष्यावः प्राणयोर्विपणे कृते |

पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ||१६||

प्रह्राद उवा||

इमौ तौ सम्प्रदृश्येते याभ्यां न रितं सह |

आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ||१७||

किं वै सहैव रतो न पुरा रतः सह |

विरोनैतत्पृ्छामि किं ते सख्यं सुधन्वना ||१८||

विरोन उवा||

न मे सुधन्वना सख्यं प्राणयोर्विपणावहे |

प्रह्राद तत्त्वां पृ्छामि मा प्रश्नमनृतं वदीः ||१९||

प्रह्राद उवा||

उदकं मधुपर्कं ाप्यानयन्तु सुधन्वने |

ब्रह्मन्नभ्यर्नीयोऽसि श्वेता गौः पीवरीकृता ||२०||

सुधन्वोवा||

उदकं मधुपर्कं पथ एवार्पितं मम |

प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृ्छतोः ||२१||

प्रह्राद उवा||

पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये ैव भवेत्स्थितः |

योर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ||२२||

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् |

एतत्सुधन्वन्पृ्छामि दुर्विवक्ता स्म किं वसेत् ||२३||

सुधन्वोवा||

यां रात्रिमधिविन्ना स्त्री यां ैवाक्षपराजितः |

यां भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ||२४||

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः |

अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ||२५||

पञ् पश्वनृते हन्ति दश हन्ति गवानृते |

शतमश्वानृते हन्ति सहस्रं पुरुषानृते ||२६||

हन्ति जातानजातांश् हिरण्यार्थेऽनृतं वदन् |

सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ||२७||

प्रह्राद उवा||

मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोन |

मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ||२८||

विरोन सुधन्वायं प्राणानामीश्वरस्तव |

सुधन्वन्पुनरि्छामि त्वया दत्तं विरोनम् ||२९||

सुधन्वोवा||

यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः |

पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ||३०||

एष प्रह्राद पुत्रस्ते मया दत्तो विरोनः |

पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ||३१||

विदुर उवा||

तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि |

मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् ||३२||

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् |

यं तु रक्षितुमि्छन्ति बुद्ध्या संविभजन्ति तम् ||३३||

यथा यथा हि पुरुषः कल्याणे कुरुते मनः |

तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ||३४||

न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम् |

नीडं शकुन्ता इव जातपक्षा; श्छन्दांस्येनं प्रजहत्यन्तकाले ||३५||

मत्तापानं कलहं पूगवैरं; भार्यापत्योरन्तरं ज्ञातिभेदम् |

राजद्विष्टं स्त्रीपुमांसोर्विवादं; वर्ज्यान्याहुर्यश् पन्थाः प्रदुष्टः ||३६||

सामुद्रिकं वणिजं ोरपूर्वं; शलाकधूर्तं िकित्सकं |

अरिं मित्रं कुशीलवं ; नैतान्साक्ष्येष्वधिकुर्वीत सप्त ||३७||

मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः |

एतानि त्वार्यभयङ्कराणि; भयं प्रय्छन्त्ययथाकृतानि ||३८||

अगारदाही गरदः कुण्डाशी सोमविक्रयी |

पर्वकारश् सू मित्रध्रुक्पारदारिकः ||३९||

भ्रूणहा गुरुतल्पी यश् स्यात्पानपो द्विजः |

अतितीक्ष्णश् काकश् नास्तिको वेदनिन्दकः ||४०||

स्रुवप्रग्रहणो व्रात्यः कीनाशश्ार्थवानपि |

रक्षेत्युक्तश् यो हिंस्यात्सर्वे ब्रह्महणैः समाः ||४१||

तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः |

शूरो भयेष्वर्थकृ्छ्रेषु धीरः; कृ्छ्रास्वापत्सु सुहृदश्ारयश् ||४२||

जरा रूपं हरति हि धैर्यमाशा; मृत्युः प्राणान्धर्मर्यामसूया |

क्रोधः श्रियं शीलमनार्यसेवा; ह्रियं कामः सर्वमेवाभिमानः ||४३||

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते |

दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ||४४||

अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा कौल्यं दमः श्रुतं |

पराक्रमश्ाबहुभाषिता ; दानं यथाशक्ति कृतज्ञता ||४५||

एतान्गुणांस्तात महानुभावा; नेको गुणः संश्रयते प्रसह्य |

राजा यदा सत्कुरुते मनुष्यं; सर्वान्गुणानेष गुणोऽतिभाति ||४६||

अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि |

त्वार्येषामन्ववेतानि सद्भि; श्त्वार्येषामन्ववयन्ति सन्तः ||४७||

यज्ञो दानमध्ययनं तपश्; त्वार्येतान्यन्ववेतानि सद्भिः |

दमः सत्यमार्जवमानृशंस्यं; त्वार्येतान्यन्ववयन्ति सन्तः ||४८||

न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम् |

नासौ धर्मो यत्र न सत्यमस्ति; न तत्सत्यं य्छलेनानुविद्धम् ||४९||

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् |

शौर्यं ित्रभाष्यं दश संसर्गयोनयः ||५०||

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् |

पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ||५१||

पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः |

नष्टप्रज्ञः पापमेव नित्यमारभते नरः ||५२||

पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः |

वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ||५३||

असूयको दन्दशूको निष्ठुरो वैरकृन्नरः |

स कृ्छ्रं महदाप्नोति निरात्पापमारन् ||५४||

अनसूयः कृतप्रज्ञः शोभनान्यारन्सदा |

अकृ्छ्रात्सुखमाप्नोति सर्वत्र विराजते ||५५||

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः |

प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ||५६||

दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् |

अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ||५७||

पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् |

यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ||५८||

जीर्णमन्नं प्रशंसन्ति भार्यां गतयौवनाम् |

शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ||५९||

धनेनाधर्मलब्धेन य्छिद्रमपिधीयते |

असंवृतं तद्भवति ततोऽन्यदवदीर्यते ||६०||

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् |

अथ प्र्छन्नपापानां शास्ता वैवस्वतो यमः ||६१||

ऋषीणां नदीनां कुलानां महात्मनाम् |

प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्रितस्य ||६२||

द्विजातिपूजाभिरतो दाता ज्ञातिषु ार्जवी |

क्षत्रियः स्वर्गभाग्राजंश्िरं पालयते महीम् ||६३||

सुवर्णपुष्पां पृथिवीं िन्वन्ति पुरुषास्त्रयः |

शूरश् कृतविद्यश् यश् जानाति सेवितुम् ||६४||

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत |

तानि जङ्घाजघन्यानि भारप्रत्यवराणि ||६५||

दुर्योधने शकुनौ मूढे दुःशासने तथा |

कर्णे ैश्वर्यमाधाय कथं त्वं भूतिमि्छसि ||६६||

सर्वैर्गुणैरुपेताश् पाण्डवा भरतर्षभ |

पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ||६७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

036-अध्यायः

विदुर उवा||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

आत्रेयस्य संवादं साध्यानां ेति नः श्रुतम् ||१||

रन्तं हंसरूपेण महर्षिं संशितव्रतम् |

साध्या देवा महाप्राज्ञं पर्यपृ्छन्त वै पुरा ||२||

साध्या देवा वयमस्मो महर्षे; दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् |

श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः; काव्यां वां वक्तुमर्हस्युदाराम् ||३||

हंस उवा||

एतत्कार्यममराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः |

ग्रन्थिं विनीय हृदयस्य सर्वं; प्रियाप्रिये ात्मवशं नयीत ||४||

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः |

आक्रोष्टारं निर्दहति सुकृतं ास्य विन्दति ||५||

नाक्रोशी स्यान्नावमानी परस्य; मित्रद्रोही नोत नीोपसेवी |

ातिमानी न हीनवृत्तो; रूक्षां वां रुशतीं वर्जयीत ||६||

मर्माण्यस्थीनि हृदयं तथासू; न्घोरा वाो निर्दहन्तीह पुंसाम् |

तस्माद्वां रुशतीं रूक्षरूपां; धर्मारामो नित्यशो वर्जयीत ||७||

अरुन्तुदं परुषं रूक्षवां; वाक्कण्टकैर्वितुदन्तं मनुष्यान् |

विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ||८||

परश्ेदेनमधिविध्येत बाणै; र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः |

विरि्यमानोऽप्यतिरि्यमानो; विद्यात्कविः सुकृतं मे दधाति ||९||

यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव |

वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति ||१०||

वादं तु यो न प्रवदेन्न वादये; द्यो नाहतः प्रतिहन्यान्न घातयेत् |

यो हन्तुकामस्य न पापमि्छे; त्तस्मै देवाः स्पृहयन्त्यागताय ||११||

अव्याहृतं व्याहृता्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम् |

प्रियं वदेद्व्याहृतं तत्तृतीयं; धर्म्यं वदेद्व्याहृतं ततुर्थम् ||१२||

यादृशैः संविवदते यादृशांश्ोपसेवते |

यादृगि्छे भवितुं तादृग्भवति पूरुषः ||१३||

यतो यतो निवर्तते ततस्ततो विमु्यते |

निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ||१४||

न जीयते नोत जिगीषतेऽन्या; न्न वैरकृाप्रतिघातकश् |

निन्दाप्रशंसासु समस्वभावो; न शोते हृष्यति नैव ायम् ||१५||

भावमि्छति सर्वस्य नाभावे कुरुते मतिम् |

सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ||१६||

नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति |

राद्धापराद्धे जानाति यः स मध्यमपूरुषः ||१७||

दुःशासनस्तूपहन्ता न शास्ता; नावर्तते मन्युवशात्कृतघ्नः |

न कस्यिन्मित्रमथो दुरात्मा; कलाश्ैता अधमस्येह पुंसः ||१८||

न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः |

निराकरोति मित्राणि यो वै सोऽधमपूरुषः ||१९||

उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् |

अधमांस्तु न सेवेत य इ्छे्छ्रेय आत्मनः ||२०||

प्राप्नोति वै वित्तमसद्बलेन; नित्योत्थानात्प्रज्ञया पौरुषेण |

न त्वेव सम्यग्लभते प्रशंसां; न वृत्तमाप्नोति महाकुलानाम् ||२१||

धृतराष्ट्र उवा||

महाकुलानां स्पृहयन्ति देवा; धर्मार्थवृद्धाश् बहुश्रुताश् |

पृ्छामि त्वां विदुर प्रश्नमेतं; भवन्ति वै कानि महाकुलानि ||२२||

विदुर उवा||

तपो दमो ब्रह्मवित्त्वं वितानाः; पुण्या विवाहाः सततान्नदानम् |

येष्वेवैते सप्त गुणा भवन्ति; सम्यग्वृत्तास्तानि महाकुलानि ||२३||

येषां न वृत्तं व्यथते न योनि; र्वृत्तप्रसादेन रन्ति धर्मम् |

ये कीर्तिमि्छन्ति कुले विशिष्टां; त्यक्तानृतास्तानि महाकुलानि ||२४||

अनिज्ययाविवाहैश् वेदस्योत्सादनेन |

कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण ||२५||

देवद्रव्यविनाशेन ब्रह्मस्वहरणेन |

कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण ||२६||

ब्राह्मणानां परिभवात्परिवादा भारत |

कुलान्यकुलतां यान्ति न्यासापहरणेन ||२७||

कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः |

कुलसङ्ख्यां न ग्छन्ति यानि हीनानि वृत्ततः ||२८||

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि |

कुलसङ्ख्यां तु ग्छन्ति कर्षन्ति महद्यशः ||२९||

मा नः कुले वैरकृत्कश्िदस्तु; राजामात्यो मा परस्वापहारी |

मित्रद्रोही नैकृतिकोऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः ||३०||

यश् नो ब्राह्मणं हन्याद्यश् नो ब्राह्मणान्द्विषेत् |

न नः स समितिं ग्छेद्यश् नो निर्वपेत्कृषिम् ||३१||

तृणानि भूमिरुदकं वाक्तुर्थी सूनृता |

सतामेतानि गेहेषु नो्छिद्यन्ते कदान ||३२||

श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् |

प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ||३३||

सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै; शक्तो वोढुं न तथान्ये महीजाः |

एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः ||३४||

न तन्मित्रं यस्य कोपाद्बिभेति; यद्वा मित्रं शङ्कितेनोपर्यम् |

यस्मिन्मित्रे पितरीवाश्वसीत; तद्वै मित्रं सङ्गतानीतराणि ||३५||

यदि ेदप्यसम्बन्धो मित्रभावेन वर्तते |

स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ||३६||

ित्तस्य वै पुंसो वृद्धाननुपसेवतः |

पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः ||३७||

ित्तमनात्मानमिन्द्रियाणां वशानुगम् |

अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ||३८||

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः |

शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ||३९||

सत्कृताश् कृतार्थाश् मित्राणां न भवन्ति ये |

तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ||४०||

अर्थयेदेव मित्राणि सति वासति वा धने |

नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ||४१||

सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् |

सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृ्छति ||४२||

अनवाप्यं शोकेन शरीरं ोपतप्यते |

अमित्राश् प्रहृष्यन्ति मा स्म शोके मनः कृथाः ||४३||

पुनर्नरो म्रियते जायते ; पुनर्नरो हीयते वर्धते पुनः |

पुनर्नरो याति या्यते ; पुनर्नरः शोति शो्यते पुनः ||४४||

सुखं दुःखं भवाभवौ ; लाभालाभौ मरणं जीवितं |

पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न शोेत् ||४५||

लानि हीमानि षडिन्द्रियाणि; तेषां यद्यद्वर्तते यत्र यत्र |

ततस्ततः स्रवते बुद्धिरस्य; छिद्रोदकुम्भादिव नित्यमम्भः ||४६||

धृतराष्ट्र उवा||

तनुरु्छः शिखी राजा मिथ्योरितो मया |

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ||४७||

नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः |

यत्तत्पदमनुद्विग्नं तन्मे वद महामते ||४८||

विदुर उवा||

नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् |

नान्यत्र लोभसन्त्यागा्छान्तिं पश्यामि तेऽनघ ||४९||

बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् |

गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति ||५०||

अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः |

रागद्वेषविनिर्मुक्ता विरन्तीह मोक्षिणः ||५१||

स्वधीतस्य सुयुद्धस्य सुकृतस्य कर्मणः |

तपसश् सुतप्तस्य तस्यान्ते सुखमेधते ||५२||

स्वास्तीर्णानि शयनानि प्रपन्ना; न वै भिन्ना जातु निद्रां लभन्ते |

न स्त्रीषु राजन्रतिमाप्नुवन्ति; न मागधैः स्तूयमाना न सूतैः ||५३||

न वै भिन्ना जातु रन्ति धर्मं; न वै सुखं प्राप्नुवन्तीह भिन्नाः |

न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः प्रशमं रोयन्ति ||५४||

न वै तेषां स्वदते पथ्यमुक्तं; योगक्षेमं कल्पते नोत तेषाम् |

भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किञ्िदन्यद्विनाशात् ||५५||

सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः |

सम्भाव्यं स्त्रीषु ापल्यं सम्भाव्यं ज्ञातितो भयम् ||५६||

तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः |

बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ||५७||

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि |

धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ||५८||

ब्राह्मणेषु ये शूराः स्त्रीषु ज्ञातिषु गोषु |

वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ||५९||

महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः |

प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् ||६०||

अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः |

ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ||६१||

एवं मनुष्यमप्येकं गुणैरपि समन्वितम् |

शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ||६२||

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण |

ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ||६३||

अवध्या ब्राह्मणा गावः स्त्रियो बालाश् ज्ञातयः |

येषां ान्नानि भुञ्जीत ये स्युः शरणागताः ||६४||

न मनुष्ये गुणः कश्िदन्यो धनवतामपि |

अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ||६५||

अव्याधिजं कटुकं शीर्षरोगं; पापानुबन्धं परुषं तीक्ष्णमुग्रम् |

सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ||६६||

रोगार्दिता न फलान्याद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम् |

दुःखोपेता रोगिणो नित्यमेव; न बुध्यन्ते धनभोगान्न सौख्यम् ||६७||

पुरा ह्युक्तो नाकरोस्त्वं वो मे; द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् |

दुर्योधनं वारयेत्यक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति ||६८||

न तद्बलं यन्मृदुना विरुध्यते; मिश्रो धर्मस्तरसा सेवितव्यः |

प्रध्वंसिनी क्रूरसमाहिता श्री; र्मृदुप्रौढा ग्छति पुत्रपौत्रान् ||६९||

धार्तराष्ट्राः पाण्डवान्पालयन्तु; पाण्डोः सुतास्तव पुत्रांश् पान्तु |

एकारिमित्राः कुरवो ह्येकमन्त्रा; जीवन्तु राजन्सुखिनः समृद्धाः ||७०||

मेढीभूतः कौरवाणां त्वमद्य; त्वय्याधीनं कुरुकुलमाजमीढ |

पार्थान्बालान्वनवासप्रतप्ता; न्गोपायस्व स्वं यशस्तात रक्षन् ||७१||

सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रै; र्मा तेऽन्तरं रिपवः प्रार्थयन्तु |

सत्ये स्थितास्ते नरदेव सर्वे; दुर्योधनं स्थापय त्वं नरेन्द्र ||७२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

037-अध्यायः

विदुर उवा||

सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत् |

वैित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ||१||

तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् |

अथो मरीिनः पादाननाम्यान्नमतस्तथा ||२||

यश्ाशिष्यं शासति यश् कुप्यते; यश्ातिवेलं भजते द्विषन्तम् |

स्त्रियश् योऽरक्षति भद्रमस्तु ते; यश्ाया्यं याति यश् कत्थते ||३||

यश्ाभिजातः प्रकरोत्यकार्यं; यश्ाबलो बलिना नित्यवैरी |

अश्रद्दधानाय यो ब्रवीति; यश्ाकाम्यं कामयते नरेन्द्र ||४||

वध्वा हासं श्वशुरो यश् मन्यते; वध्वा वसन्नुत यो मानकामः |

परक्षेत्रे निर्वपति यश् बीजं; स्त्रियं यः परिवदतेऽतिवेलम् ||५||

यश्ैव लब्ध्वा न स्मरामीत्युवा; दत्त्वा यः कत्थति या्यमानः |

यश्ासतः सान्त्वमुपासतीह; एतेऽनुयान्त्यनिलं पाशहस्ताः ||६||

यस्मिन्यथा वर्तते यो मनुष्य; स्तस्मिंस्तथा वर्तितव्यं स धर्मः |

मायाारो मायया वर्तितव्यः; साध्वाारः साधुना प्रत्युदेयः ||७||

धृतराष्ट्र उवा||

शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा |

नाप्नोत्यथ तत्सर्वमायुः केनेह हेतुना ||८||

विदुर उवा||

अतिवादोऽतिमानश् तथात्यागो नराधिप |

क्रोधश्ातिविवित्सा मित्रद्रोहश् तानि षट् ||९||

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् |

एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ||१०||

विश्वस्तस्यैति यो दारान्यश्ापि गुरुतल्पगः |

वृषलीपतिर्द्विजो यश् पानपश्ैव भारत ||११||

शरणागतहा ैव सर्वे ब्रह्महणैः समाः |

एतैः समेत्य कर्तव्यं प्रायश्ित्तमिति श्रुतिः ||१२||

गृही वदान्योऽनपविद्धवाक्यः; शेषान्नभोक्ताप्यविहिंसकश् |

नानर्थकृत्त्यक्तकलिः कृतज्ञः; सत्यो मृदुः स्वर्गमुपैति विद्वान् ||१३||

सुलभाः पुरुषा राजन्सततं प्रियवादिनः |

अप्रियस्य तु पथ्यस्य वक्ता श्रोता दुर्लभः ||१४||

यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये |

अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ||१५||

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् |

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||१६||

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि |

आत्मानं सततं रक्षेद्दारैरपि धनैरपि ||१७||

उक्तं मया द्यूतकालेऽपि राज; न्नैवं युक्तं वनं प्रातिपीय |

तदौषधं पथ्यमिवातुरस्य; न रोते तव वैित्रवीर्य ||१८||

काकैरिमांश्ित्रबर्हान्मयूरा; न्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः |

हित्वा सिंहान्क्रोष्टुकान्गूहमानः; प्राप्ते काले शोिता त्वं नरेन्द्र ||१९||

यस्तात न क्रुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य |

तस्मिन्भृत्या भर्तरि विश्वसन्ति; न ैनमापत्सु परित्यजन्ति ||२०||

न भृत्यानां वृत्तिसंरोधनेन; बाह्यं जनं सञ्जिघृक्षेदपूर्वम् |

त्यजन्ति ह्येनमुितावरुद्धाः; स्निग्धा ह्यमात्याः परिहीनभोगाः ||२१||

कृत्यानि पूर्वं परिसङ्ख्याय सर्वा; ण्यायव्ययावनुरूपां वृत्तिम् |

सङ्गृह्णीयादनुरूपान्सहाया; न्सहायसाध्यानि हि दुष्कराणि ||२२||

अभिप्रायं यो विदित्वा तु भर्तुः; सर्वाणि कार्याणि करोत्यतन्द्रीः |

वक्ता हितानामनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ||२३||

वाक्यं तु यो नाद्रियतेऽनुशिष्टः; प्रत्याह यश्ापि नियुज्यमानः |

प्रज्ञाभिमानी प्रतिकूलवादी; त्याज्यः स तादृक्त्वरयैव भृत्यः ||२४||

अस्तब्धमक्लीबमदीर्घसूत्रं; सानुक्रोशं श्लक्ष्णमहार्यमन्यैः |

अरोगजातीयमुदारवाक्यं; दूतं वदन्त्यष्टगुणोपपन्नम् ||२५||

न विश्वासाज्जातु परस्य गेहं; ग्छेन्नरश्ेतयानो विकाले |

त्वरे निशि तिष्ठेन्निगूढो; न राजन्यां योषितं प्रार्थयीत ||२६||

न निह्नवं सत्रगतस्य ग्छे; त्संसृष्टमन्त्रस्य कुसङ्गतस्य |

ब्रूयान्नाश्वसामि त्वयीति; सकारणं व्यपदेशं तु कुर्यात् ||२७||

घृणी राजा पुंश्ली राजभृत्यः; पुत्रो भ्राता विधवा बालपुत्रा |

सेनाजीवी ोद्धृतभक्त एव; व्यवहारे वै वर्जनीयाः स्युरेते ||२८||

गुणा दश स्नानशीलं भजन्ते; बलं रूपं स्वरवर्णप्रशुद्धिः |

स्पर्शश् गन्धश् विशुद्धता ; श्रीः सौकुमार्यं प्रवराश् नार्यः ||२९||

गुणाश् षण्मितभुक्तं भजन्ते; आरोग्यमायुश् सुखं बलं |

अनाविलं ास्य भवेदपत्यं; न ैनमाद्यून इति क्षिपन्ति ||३०||

अकर्मशीलं महाशनं ; लोकद्विष्टं बहुमायं नृशंसम् |

अदेशकालज्ञमनिष्टवेष; मेतान्गृहे न प्रतिवासयीत ||३१||

कदर्यमाक्रोशकमश्रुतं ; वराकसम्भूतममान्यमानिनम् |

निष्ठूरिणं कृतवैरं कृतघ्न; मेतान्भृशार्तोऽपि न जातु याेत् ||३२||

सङ्क्लिष्टकर्माणमतिप्रवादं; नित्यानृतं ादृढभक्तिकं |

विकृष्टरागं बहुमानिनं ा; प्येतान्न सेवेत नराधमान्षट् ||३३||

सहायबन्धना ह्यर्थाः सहायाश्ार्थबन्धनाः |

अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ||३४||

उत्पाद्य पुत्राननृणांश् कृत्वा; वृत्तिं तेभ्योऽनुविधाय काञ्ित् |

स्थाने कुमारीः प्रतिपाद्य सर्वा; अरण्यसंस्थो मुनिवद्बुभूषेत् ||३५||

हितं यत्सर्वभूतानामात्मनश् सुखावहम् |

तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ||३६||

बुद्धिः प्रभावस्तेजश् सत्त्वमुत्थानमेव |

व्यवसायश् यस्य स्यात्तस्यावृत्तिभयं कुतः ||३७||

पश्य दोषान्पाण्डवैर्विग्रहे त्वं; यत्र व्यथेरन्नपि देवाः सशक्राः |

पुत्रैर्वैरं नित्यमुद्विग्नवासो; यशःप्रणाशो द्विषतां हर्षः ||३८||

भीष्मस्य कोपस्तव ेन्द्रकल्प; द्रोणस्य राज्ञश् युधिष्ठिरस्य |

उत्सादयेल्लोकमिमं प्रवृद्धः; श्वेतो ग्रहस्तिर्यगिवापतन्खे ||३९||

तव पुत्रशतं ैव कर्णः पञ् पाण्डवाः |

पृथिवीमनुशासेयुरखिलां सागराम्बराम् ||४०||

धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः |

मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ||४१||

न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् |

वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ||४२||

न तथे्छन्त्यकल्याणाः परेषां वेदितुं गुणान् |

यथैषां ज्ञातुमि्छन्ति नैर्गुण्यं पापेतसः ||४३||

अर्थसिद्धिं परामि्छन्धर्ममेवादितश्रेत् |

न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ||४४||

यस्यात्मा विरतः पापात्कल्याणे निवेशितः |

तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश् या ||४५||

यो धर्ममर्थं कामं यथाकालं निषेवते |

धर्मार्थकामसंयोगं सोऽमुत्रेह विन्दति ||४६||

संनिय्छति यो वेगमुत्थितं क्रोधहर्षयोः |

स श्रियो भाजनं राजन्यश्ापत्सु न मुह्यति ||४७||

बलं पञ्विधं नित्यं पुरुषाणां निबोध मे |

यत्तु बाहुबलं नाम कनिष्ठं बलमु्यते ||४८||

अमात्यलाभो भद्रं ते द्वितीयं बलमु्यते |

धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ||४९||

यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् |

अभिजातबलं नाम ततुर्थं बलं स्मृतम् ||५०||

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत |

यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमु्यते ||५१||

महते योऽपकाराय नरस्य प्रभवेन्नरः |

तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ||५२||

स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु |

भोगे ायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ||५३||

प्रज्ञाशरेणाभिहतस्य जन्तो; श्िकित्सकाः सन्ति न ौषधानि |

न होममन्त्रा न मङ्गलानि; नाथर्वणा नाप्यगदाः सुसिद्धाः ||५४||

सर्पश्ाग्निश् सिंहश् कुलपुत्रश् भारत |

नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः ||५५||

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु |

ोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ||५६||

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते |

तदा त वनं ान्यन्निर्दहत्याशु तेजसा ||५७||

एवमेव कुले जाताः पावकोपमतेजसः |

क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ||५८||

लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः |

न लता वर्धते जातु महाद्रुममनाश्रिता ||५९||

वनं राजंस्त्वं सपुत्रोऽम्बिकेय; सिंहान्वने पाण्डवांस्तात विद्धि |

सिंहैर्विहीनं हि वनं विनश्ये; त्सिंहा विनश्येयुरृते वनेन ||६०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

038-अध्यायः

विदुर उवा||

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति |

प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ||१||

पीठं दत्त्वा साधवेऽभ्यागताय; आनीयापः परिनिर्णिज्य पादौ |

सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं; ततो दद्यादन्नमवेक्ष्य धीरः ||२||

यस्योदकं मधुपर्कं गां ; नमन्त्रवित्प्रतिगृह्णाति गेहे |

लोभाद्भयादर्थकार्पण्यतो वा; तस्यानर्थं जीवितमाहुरार्याः ||३||

िकित्सकः शल्यकर्तावकीर्णी; स्तेनः क्रूरो मद्यपो भ्रूणहा |

सेनाजीवी श्रुतिविक्रायकश्; भृशं प्रियोऽप्यतिथिर्नोदकार्हः ||४||

अविक्रेयं लवणं पक्वमन्नं; दधि क्षीरं मधु तैलं घृतं |

तिला मांसं मूलफलानि शाकं; रक्तं वासः सर्वगन्धा गुडश् ||५||

अरोषणो यः समलोष्टकाञ्नः; प्रहीणशोको गतसन्धिविग्रहः |

निन्दाप्रशंसोपरतः प्रियाप्रिये; रन्नुदासीनवदेष भिक्षुकः ||६||

नीवारमूलेङ्गुदशाकवृत्तिः; सुसंयतात्माग्निकार्येष्वोद्यः |

वने वसन्नतिथिष्वप्रमत्तो; धुरन्धरः पुण्यकृदेष तापसः ||७||

अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् |

दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ||८||

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् |

विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ||९||

अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः |

श्लक्ष्णो मधुरवाक्स्त्रीणां न ासां वशगो भवेत् ||१०||

पूजनीया महाभागाः पुण्याश् गृहदीप्तयः |

स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ||११||

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् |

गोषु ात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ||१२||

भृत्यैर्वणिज्याारं पुत्रैः सेवेत ब्राह्मणान् ||१२||

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||१३||

नित्यं सन्तः कुले जाताः पावकोपमतेजसः |

क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ||१४||

यस्य मन्त्रं न जानन्ति बाह्याश्ाभ्यन्तराश् ये |

स राजा सर्वतश्क्षुश्िरमैश्वर्यमश्नुते ||१५||

करिष्यन्न प्रभाषेत कृतान्येव दर्शयेत् |

धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ||१६||

गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः |

अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ||१७||

नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् |

अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ||१८||

अमात्ये ह्यर्थलिप्सा मन्त्ररक्षणमेव ||१८||

कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः |

गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ||१९||

अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति |

स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ||२०||

कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् |

तेषामेवाननुष्ठानं पश्ात्तापकरं महत् ||२१||

स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः |

अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ||२२||

अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः |

आत्मप्रत्ययकोशस्य वसुधेयं वसुन्धरा ||२३||

नाममात्रेण तुष्येत छत्रेण महीपतिः |

भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ||२४||

ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा |

अमात्यं नृपतिर्वेद राजा राजानमेव ||२५||

न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः |

अहताद्धि भयं तस्माज्जायते निरादिव ||२६||

दैवतेषु यत्नेन राजसु ब्राह्मणेषु |

नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु ||२७||

निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम् |

कीर्तिं लभते लोके न ानर्थेन युज्यते ||२८||

प्रसादो निष्फलो यस्य क्रोधश्ापि निरर्थकः |

न तं भर्तारमि्छन्ति षण्ढं पतिमिव स्त्रियः ||२९||

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये |

लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ||३०||

विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश् भारत |

धनाभिजनवृद्धांश् नित्यं मूढोऽवमन्यते ||३१||

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् |

अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ||३२||

अविसंवादनं दानं समयस्याव्यतिक्रमः |

आवर्तयन्ति भूतानि सम्यक्प्रणिहिता वाक् ||३३||

अविसंवादको दक्षः कृतज्ञो मतिमानृजुः |

अपि सङ्क्षीणकोशोऽपि लभते परिवारणम् ||३४||

धृतिः शमो दमः शौं कारुण्यं वागनिष्ठुरा |

मित्राणां ानभिद्रोहः सप्तैताः समिधः श्रियः ||३५||

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः |

तादृङ्नराधमो लोके वर्जनीयो नराधिप ||३६||

न स रात्रौ सुखं शेते ससर्प इव वेश्मनि |

यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ||३७||

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत |

सदा प्रसादनं तेषां देवतानामिवारेत् ||३८||

येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु |

ये ानार्यसमासक्ताः सर्वे ते संशयं गताः ||३९||

यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति |

मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ||४०||

प्रयोजनेषु ये सक्ता न विशेषेषु भारत |

तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ||४१||

यं प्रशंसन्ति कितवा यं प्रशंसन्ति ारणाः |

यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ||४२||

हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः |

आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ||४३||

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं निरादिव |

ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ||४४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

039-अध्यायः

धृतराष्ट्र उवा||

अनीश्वरोऽयं पुरुषो भवाभवे; सूत्रप्रोता दारुमयीव योषा |

धात्रा तु दिष्टस्य वशे किलायं; तस्माद्वद त्वं श्रवणे धृतोऽहम् ||१||

विदुर उवा||

अप्राप्तकालं वनं बृहस्पतिरपि ब्रुवन् |

लभते बुद्ध्यवज्ञानमवमानं भारत ||२||

प्रियो भवति दानेन प्रियवादेन ापरः |

मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः ||३||

द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः |

प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ||४||

न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् |

क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ||५||

समृद्धा गुणतः केिद्भवन्ति धनतोऽपरे |

धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् ||६||

धृतराष्ट्र उवा||

सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम् |

ोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ||७||

विदुर उवा||

स्वभावगुणसम्पन्नो न जातु विनयान्वितः |

सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ||८||

परापवादनिरताः परदुःखोदयेषु |

परस्परविरोधे यतन्ते सततोत्थिताः ||९||

सदोषं दर्शनं येषां संवासे सुमहद्भयम् |

अर्थादाने महान्दोषः प्रदाने महद्भयम् ||१०||

ये पापा इति विख्याताः संवासे परिगर्हिताः |

युक्ताश्ान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ||११||

निवर्तमाने सौहार्दे प्रीतिर्नीे प्रणश्यति |

या ैव फलनिर्वृत्तिः सौहृदे ैव यत्सुखम् ||१२||

यतते ापवादाय यत्नमारभते क्षये |

अल्पेऽप्यपकृते मोहान्न शान्तिमुपग्छति ||१३||

तादृशैः सङ्गतं नीैर्नृशंसैरकृतात्मभिः |

निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ||१४||

यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् |

स पुत्रपशुभिर्वृद्धिं यशश्ाव्ययमश्नुते ||१५||

ज्ञातयो वर्धनीयास्तैर्य इ्छन्त्यात्मनः शुभम् |

कुलवृद्धिं राजेन्द्र तस्मात्साधु समार ||१६||

श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् |

विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ||१७||

किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः |

प्रसादं कुरु दीनानां पाण्डवानां विशां पते ||१८||

दीयन्तां ग्रामकाः केित्तेषां वृत्त्यर्थमीश्वर |

एवं लोके यशःप्राप्तो भविष्यसि नराधिप ||१९||

वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् |

मया ापि हितं वा्यं विद्धि मां त्वद्धितैषिणम् ||२०||

ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना |

सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ||२१||

सम्भोजनं सङ्कथनं सम्प्रीतिश् परस्परम् |

ज्ञातिभिः सह कार्याणि न विरोधः कथञ्न ||२२||

ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति |

सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति ||२३||

सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद |

अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ||२४||

श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति |

दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ||२५||

पश्ादपि नरश्रेष्ठ तव तापो भविष्यति |

तान्वा हतान्सुतान्वापि श्रुत्वा तदनुिन्तय ||२६||

येन खट्वां समारूढः परितप्येत कर्मणा |

आदावेव न तत्कुर्यादध्रुवे जीविते सति ||२७||

न कश्िन्नापनयते पुमानन्यत्र भार्गवात् |

शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ||२८||

दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् |

त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ||२९||

तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः |

भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ||३०||

सुव्याहृतानि धीराणां फलतः प्रवििन्त्य यः |

अध्यवस्यति कार्येषु िरं यशसि तिष्ठति ||३१||

अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः |

हन्ति नित्यं क्षमा क्रोधमाारो हन्त्यलक्षणम् ||३२||

परि्छदेन क्षेत्रेण वेश्मना परिर्यया |

परीक्षेत कुलं राजन्भोजना्छादनेन ||३३||

योश्ित्तेन वा ित्तं नैभृतं नैभृतेन वा |

समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते ||३४||

दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव |

विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ||३५||

अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु |

तथैवापेतधर्मेषु न मैत्रीमारेद्बुधः ||३६||

कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् |

जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि ेष्यते ||३७||

इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते |

अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ||३८||

मार्दवं सर्वभूतानामनसूया क्षमा धृतिः |

आयुष्याणि बुधाः प्राहुर्मित्राणां ाविमानना ||३९||

अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते |

मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ||४०||

आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्यः |

अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ||४१||

कर्मणा मनसा वाा यदभीक्ष्णं निषेवते |

तदेवापहरत्येनं तस्मात्कल्याणमारेत् ||४२||

मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् |

भूतिमेतानि कुर्वन्ति सतां ाभीक्ष्णदर्शनम् ||४३||

अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य |

महान्भवत्यनिर्विण्णः सुखं ात्यन्तमश्नुते ||४४||

नातः श्रीमत्तरं किञ्िदन्यत्पथ्यतमं तथा |

प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ||४५||

क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् |

अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ||४६||

यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते |

कामं तदुपसेवेत न मूढव्रतमारेत् ||४७||

दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु |

न श्रीर्वसत्यदान्तेषु ये ोत्साहविवर्जिताः ||४८||

आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् |

अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ||४९||

अत्यार्यमतिदातारमतिशूरमतिव्रतम् |

प्रज्ञाभिमानिनं ैव श्रीर्भयान्नोपसर्पति ||५०||

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् |

रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ||५१||

अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् |

न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ||५२||

कान्तारवनदुर्गेषु कृ्छ्रास्वापत्सु सम्भ्रमे |

उद्यतेषु शस्त्रेषु नास्ति शेषवतां भयम् ||५३||

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः |

समीक्ष्य समारम्भो विद्धि मूलं भवस्य तत् ||५४||

तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम् |

हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ||५५||

अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः |

हविर्ब्राह्मणकाम्या गुरोर्वनमौषधम् ||५६||

न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः |

सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते ||५७||

अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् |

जयेत्कदर्यं दानेन जयेत्सत्येन ानृतम् ||५८||

स्त्रीधूर्तकेऽलसे भीरौ ण्डे पुरुषमानिनि |

ौरे कृतघ्ने विश्वासो न कार्यो नास्तिके ||५९||

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः |

त्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशोबलम् ||६०||

अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण |

अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ||६१||

अविद्यः पुरुषः शो्यः शो्यं मिथुनमप्रजम् |

निराहाराः प्रजाः शो्याः शो्यं राष्ट्रमराजकम् ||६२||

अध्वा जरा देहवतां पर्वतानां जलं जरा |

असम्भोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा ||६३||

अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् |

कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ||६४||

सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु |

ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम् ||६५||

न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् |

नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ||६६||

यस्य दानजितं मित्रममित्रा युधि निर्जिताः |

अन्नपानजिता दाराः सफलं तस्य जीवितम् ||६७||

सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा |

धृतराष्ट्रं विमुञ््छां न कथञ्िन्न जीव्यते ||६८||

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः |

नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ||६९||

राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममार |

समता यदि ते राजन्स्वेषु पाण्डुसुतेषु ||७०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

040-अध्यायः

विदुर उवा||

योऽभ्यर्थितः सद्भिरसज्जमानः; करोत्यर्थं शक्तिमहापयित्वा |

क्षिप्रं यशस्तं समुपैति सन्तमलं; प्रसन्ना हि सुखाय सन्तः ||१||

महान्तमप्यर्थमधर्मयुक्तं; यः सन्त्यजत्यनुपाक्रुष्ट एव |

सुखं स दुःखान्यवमु्य शेते; जीर्णां त्वं सर्प इवावमु्य ||२||

अनृतं समुत्कर्षे राजगामि पैशुनम् |

गुरोश्ालीकनिर्बन्धः समानि ब्रह्महत्यया ||३||

असूयैकपदं मृत्युरतिवादः श्रियो वधः |

अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ||४||

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् |

सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ||५||

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः |

नान्तकः सर्वभूतानां न पुंसां वामलोना ||६||

आशा धृतिं हन्ति समृद्धिमन्तकः; क्रोधः श्रियं हन्ति यशः कदर्यता |

अपालनं हन्ति पशूंश् राज; न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ||७||

अजश् कांस्यं रथश् नित्यं; मध्वाकर्षः शकुनिः श्रोत्रियश् |

वृद्धो ज्ञातिरवसन्नो वयस्य; एतानि ते सन्तु गृहे सदैव ||८||

अजोक्षा न्दनं वीणा आदर्शो मधुसर्पिषी |

विषमौदुम्बरं शङ्खः स्वर्णं नाभिश् रोना ||९||

गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् |

देवब्राह्मणपूजार्थमतिथीनां भारत ||१०||

इदं त्वां सर्वपरं ब्रवीमि; पुण्यं पदं तात महाविशिष्टम् |

न जातु कामान्न भयान्न लोभा; द्धर्मं त्यजेज्जीवितस्यापि हेतोः ||११||

नित्यो धर्मः सुखदुःखे त्वनित्ये; नित्यो जीवो धातुरस्य त्वनित्यः |

त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये; सन्तुष्य त्वं तोषपरो हि लाभः ||१२||

महाबलान्पश्य महानुभावा; न्प्रशास्य भूमिं धनधान्यपूर्णाम् |

राज्यानि हित्वा विपुलांश् भोगा; न्गतान्नरेन्द्रान्वशमन्तकस्य ||१३||

मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति |

तं मुक्तकेशाः करुणं रुदन्त; श्ितामध्ये काष्ठमिव क्षिपन्ति ||१४||

अन्यो धनं प्रेतगतस्य भुङ्क्ते; वयांसि ाग्निश् शरीरधातून् |

द्वाभ्यामयं सह ग्छत्यमुत्र; पुण्येन पापेन वेष्ट्यमानः ||१५||

उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः |

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयङ्कृतम् ||१६||

अस्माल्लोकादूर्ध्वममुष्य ाधो; महत्तमस्तिष्ठति ह्यन्धकारम् |

तद्वै महामोहनमिन्द्रियाणां; बुध्यस्व मा त्वां प्रलभेत राजन् ||१७||

इदं वः शक्ष्यसि ेद्यथाव; न्निशम्य सर्वं प्रतिपत्तुमेवम् |

यशः परं प्राप्स्यसि जीवलोके; भयं न ामुत्र न ेह तेऽस्ति ||१८||

आत्मा नदी भारत पुण्यतीर्था; सत्योदका धृतिकूला दमोर्मिः |

तस्यां स्नातः पूयते पुण्यकर्मा; पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ||१९||

कामक्रोधग्राहवतीं पञ्ेन्द्रियजलां नदीम् |

कृत्वा धृतिमयीं नावं जन्मदुर्गाणि सन्तर ||२०||

प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं; विद्यावृद्धं वयसा ापि वृद्धम् |

कार्याकार्ये पूजयित्वा प्रसाद्य; यः सम्पृ्छेन्न स मुह्येत्कदाित् ||२१||

धृत्या शिश्नोदरं रक्षेत्पाणिपादं क्षुषा |

क्षुःश्रोत्रे मनसा मनो वा कर्मणा ||२२||

नित्योदकी नित्ययज्ञोपवीती; नित्यस्वाध्यायी पतितान्नवर्जी |

ऋतं ब्रुवन्गुरवे कर्म कुर्व; न्न ब्राह्मणश््यवते ब्रह्मलोकात् ||२३||

अधीत्य वेदान्परिसंस्तीर्य ाग्नी; निष्ट्वा यज्ञैः पालयित्वा प्रजाश् |

गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा; हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ||२४||

वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्; धनैः काले संविभज्याश्रितांश् |

त्रेतापूतं धूममाघ्राय पुण्यं; प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते ||२५||

ब्रह्मक्षत्रं वैश्यवर्णं शूद्रः; क्रमेणैतान्न्यायतः पूजयानः |

तुष्टेष्वेतेष्वव्यथो दग्धपाप; स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ||२६||

ातुर्वर्ण्यस्यैष धर्मस्तवोक्तो; हेतुं ात्र ब्रुवतो मे निबोध |

क्षात्राद्धर्माद्धीयते पाण्डुपुत्र; स्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ||२७||

धृतराष्ट्र उवा||

एवमेतद्यथा मां त्वमनुशाससि नित्यदा |

ममापि मतिः सौम्य भवत्येवं यथात्थ माम् ||२८||

सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा |

दुर्योधनं समासाद्य पुनर्विपरिवर्तते ||२९||

न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केनित् |

दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ||३०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

041-अध्यायः

धृतराष्ट्र उवा||

अनुक्तं यदि ते किञ्िद्वाा विदुर विद्यते |

तन्मे शुश्रूषवे ब्रूहि विित्राणि हि भाषसे ||१||

विदुर उवा||

धृतराष्ट्र कुमारो वै यः पुराणः सनातनः |

सनत्सुजातः प्रोवा मृत्युर्नास्तीति भारत ||२||

स ते गुह्यान्प्रकाशांश् सर्वान्हृदयसंश्रयान् |

प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ||३||

धृतराष्ट्र उवा||

किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः |

त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति ेत्तव ||४||

विदुर उवा||

शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे |

कुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम् ||५||

ब्राह्मीं हि योनिमापन्नः सुगुह्यमपि यो वदेत् |

न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ||६||

धृतराष्ट्र उवा||

ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् |

कथमेतेन देहेन स्यादिहैव समागमः ||७||

वैशम्पायन उवा||

िन्तयामास विदुरस्तमृषिं संशितव्रतम् |

िन्तितं ज्ञात्वा दर्शयामास भारत ||८||

ैनं प्रतिजग्राह विधिदृष्टेन कर्मणा |

सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ||९||

भगवन्संशयः कश्िद्धृतराष्ट्रस्य मानसे |

यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि ||१०||

यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् ||१०||

लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ |

विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ ||११||

अरतिश्ैव तन्द्री कामक्रोधौ क्षयोदयौ ||११||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

042-अध्यायः-सनत्सुजातपर्व

वैशम्पायन उवा||

ततो राजा धृतराष्ट्रो मनीषी; सम्पूज्य वाक्यं विदुरेरितं तत् |

सनत्सुजातं रहिते महात्मा; पप्र्छ बुद्धिं परमां बुभूषन् ||१||

धृतराष्ट्र उवा||

सनत्सुजात यदीदं शृणोमि; मृत्युर्हि नास्तीति तवोपदेशम् |

देवासुरा ह्यारन्ब्रह्मर्य; ममृत्यवे तत्कतरन्नु सत्यम् ||२||

सनत्सुजात उवा||

अमृत्युः कर्मणा केिन्मृत्युर्नास्तीति ापरे |

शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ||३||

उभे सत्ये क्षत्रियाद्यप्रवृत्ते; मोहो मृत्युः संमतो यः कवीनाम् |

प्रमादं वै मृत्युमहं ब्रवीमि; सदाप्रमादममृतत्वं ब्रवीमि ||४||

प्रमादाद्वै असुराः पराभव; न्नप्रमादाद्ब्रह्मभूता भवन्ति |

न वै मृत्युर्व्याघ्र इवात्ति जन्तू; न्न ह्यस्य रूपमुपलभ्यते ह ||५||

यमं त्वेके मृत्युमतोऽन्यमाहु; रात्मावसन्नममृतं ब्रह्मर्यम् |

पितृलोके राज्यमनुशास्ति देवः; शिवः शिवानामशिवोऽशिवानाम् ||६||

आस्यादेष निःसरते नराणां; क्रोधः प्रमादो मोहरूपश् मृत्युः |

ते मोहितास्तद्वशे वर्तमाना; इतः प्रेतास्तत्र पुनः पतन्ति ||७||

ततस्तं देवा अनु विप्लवन्ते; अतो मृत्युर्मरणाख्यामुपैति |

कर्मोदये कर्मफलानुरागा; स्तत्रानु यान्ति न तरन्ति मृत्युम् ||८||

योऽभिध्यायन्नुत्पतिष्णून्निहन्या; दनादरेणाप्रतिबुध्यमानः |

स वै मृत्युर्मृत्युरिवात्ति भूत्वा; एवं विद्वान्यो विनिहन्ति कामान् ||९||

कामानुसारी पुरुषः कामाननु विनश्यति |

कामान्व्युदस्य धुनुते यत्किञ्ित्पुरुषो रजः ||१०||

तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते |

गृह्यन्त इव धावन्ति ग्छन्तः श्वभ्रमुन्मुखाः ||११||

अभिध्या वै प्रथमं हन्ति ैनं; कामक्रोधौ गृह्य ैनं तु पश्ात् |

एते बालान्मृत्यवे प्रापयन्ति; धीरास्तु धैर्येण तरन्ति मृत्युम् ||१२||

अमन्यमानः क्षत्रिय किञ्िदन्य; न्नाधीयते तार्ण इवास्य व्याघ्रः |

क्रोधाल्लोभान्मोहमयान्तरात्मा; स वै मृत्युस्त्व्छरीरे य एषः ||१३||

एवं मृत्युं जायमानं विदित्वा; ज्ञाने तिष्ठन्न बिभेतीह मृत्योः |

विनश्यते विषये तस्य मृत्यु; र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ||१४||

धृतराष्ट्र उवा||

येऽस्मिन्धर्मान्नारन्तीह के ि; त्तथा धर्मान्केिदिहारन्ति |

धर्मः पापेन प्रतिहन्यते स्म; उताहो धर्मः प्रतिहन्ति पापम् ||१५||

सनत्सुजात उवा||

उभयमेव तत्रोपभुज्यते फलं; धर्मस्यैवेतरस्य |

धर्मेणाधर्मं प्रणुदतीह विद्वा; न्धर्मो बलीयानिति तस्य विद्धि ||१६||

धृतराष्ट्र उवा||

यानिमानाहुः स्वस्य धर्मस्य लोका; न्द्विजातीनां पुण्यकृतां सनातनान् |

तेषां परिक्रमान्कथयन्तस्ततोऽन्या; न्नैतद्विद्वन्नैव कृतं कर्म ||१७||

सनत्सुजात उवा||

येषां बले न विस्पर्धा बले बलवतामिव |

ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ||१८||

यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् |

अन्नं पानं ब्राह्मणस्तज्जीवन्नानुसञ्ज्वरेत् ||१९||

यत्राकथयमानस्य प्रय्छत्यशिवं भयम् |

अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ||२०||

यो वाकथयमानस्य आत्मानं नानुसञ्ज्वरेत् |

ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ||२१||

यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये |

एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ||२२||

नित्यमज्ञातर्या मे इति मन्येत ब्राह्मणः |

ज्ञातीनां तु वसन्मध्ये नैव विद्येत किञ्न ||२३||

को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति |

तस्माद्धि किञ्ित्क्षत्रिय ब्रह्मावसति पश्यति ||२४||

अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः |

शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ||२५||

अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः |

ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ||२६||

सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्न |

न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ||२७||

यमप्रयतमानं तु मानयन्ति स मानितः |

न मान्यमानो मन्येत नामानादभिसञ्ज्वरेत् ||२८||

विद्वांसो मानयन्तीह इति मन्येत मानितः |

अधर्मविदुषो मूढा लोकशास्त्रविशारदाः ||२९||

न मान्यं मानयिष्यन्ति इति मन्येदमानितः ||२९||

न वै मानं मौनं सहितौ रतः सदा |

अयं हि लोको मानस्य असौ मानस्य तद्विदुः ||३०||

श्रीः सुखस्येह संवासः सा ापि परिपन्थिनी |

ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ||३१||

द्वाराणि तस्या हि वदन्ति सन्तो; बहुप्रकाराणि दुरावराणि |

सत्यार्जवे ह्रीर्दमशौविद्याः; षण्मानमोहप्रतिबाधनानि ||३२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

043-अध्यायः

धृतराष्ट्र उवा||

ो यजूंष्यधीते यः सामवेदं यो द्विजः |

पापानि कुर्वन्पापेन लिप्यते न स लिप्यते ||१||

सनत्सुजात उवा||

नैनं सामान्यृो वापि न यजूंषि विक्षण |

त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ||२||

न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम् |

नीडं शकुन्ता इव जातपक्षा; श्छन्दांस्येनं प्रजहत्यन्तकाले ||३||

धृतराष्ट्र उवा||

ेद्वेदा वेदविदं शक्तास्त्रातुं विक्षण |

अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ||४||

सनत्सुजात उवा||

अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते |

ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः ||५||

धृतराष्ट्र उवा||

कथं समृद्धमप्यृद्धं तपो भवति केवलम् |

सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ||६||

सनत्सुजात उवा||

क्रोधादयो द्वादश यस्य दोषा; स्तथा नृशंसादि षडत्र राजन् |

धर्मादयो द्वादश ाततानाः; शास्त्रे गुणा ये विदिता द्विजानाम् ||७||

क्रोधः कामो लोभमोहौ विवित्सा; कृपासूया मानशोकौ स्पृहा |

ईर्ष्या जुगुप्सा मनुष्यदोषा; वर्ज्याः सदा द्वादशैते नरेण ||८||

एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते |

लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः ||९||

विकत्थनः स्पृहयालुर्मनस्वी; बिभ्रत्कोपं पलोऽरक्षणश् |

एते प्राप्ताः षण्नरान्पापधर्मा; न्प्रकुर्वते नोत सन्तः सुदुर्गे ||१०||

सम्भोगसंविद्द्विषमेधमानो; दत्तानुतापी कृपणोऽबलीयान् |

वर्गप्रशंसी वनितासु द्वेष्टा; एतेऽपरे सप्त नृशंसधर्माः ||११||

धर्मश् सत्यं दमस्तपश्; अमात्सर्यं ह्रीस्तितिक्षानसूया |

यज्ञश् दानं धृतिः श्रुतं ; महाव्रता द्वादश ब्राह्मणस्य ||१२||

यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः; सर्वामपीमां पृथिवीं प्रशिष्यात् |

त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो; नास्य स्वमस्तीति स वेदितव्यः ||१३||

दमस्त्यागोऽप्रमादश् एतेष्वमृतमाहितम् |

तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ||१४||

दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते |

अनृतं ाभ्यसूया कामार्थौ तथा स्पृहा ||१५||

क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव |

मत्सरश् विवित्सा परितापस्तथा रतिः ||१६||

अपस्मारः सातिवादस्तथा सम्भावनात्मनि |

एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरु्यते ||१७||

श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति |

अप्रिये तु समुत्पन्ने व्यथां जातु न ार््छति ||१८||

इष्टान्दारांश् पुत्रांश्ान्यं यद्वो भवेत् |

अर्हते यामानाय प्रदेयं तद्वो भवेत् ||१९||

अप्यवा्यं वदत्येव स तृतीयो गुणः स्मृतः ||१९||

त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते कामतः |

कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा ||२०||

सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ||२०||

अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत् |

इन्द्रियेभ्यश् पञ्भ्यो मनसश्ैव भारत ||२१||

अतीतानागतेभ्यश् मुक्तो ह्येतैः सुखी भवेत् ||२१||

दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम् |

एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ||२२||

यन्मां पृ्छसि राजेन्द्र किं भूयः श्रोतुमि्छसि ||२२||

धृतराष्ट्र उवा||

आख्यानपञ्मैर्वेदैर्भूयिष्ठं कथ्यते जनः |

तथैवान्ये तुर्वेदास्त्रिवेदाश् तथापरे ||२३||

द्विवेदाश्ैकवेदाश् अनृश् तथापरे |

तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् ||२४||

सनत्सुजात उवा||

एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन् |

सत्यस्यैकस्य राजेन्द्र सत्ये कश्िदवस्थितः ||२५||

एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते ||२५||

दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते |

सत्यात्प्र्यवमानानां सङ्कल्पो वितथो भवेत् ||२६||

ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् |

मनसान्यस्य भवति वाान्यस्योत कर्मणा ||२७||

सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ||२७||

अनैभृत्येन वै तस्य दीक्षितव्रतमारेत् |

नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ||२८||

ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः ||२८||

विद्याद्बहु पठन्तं तु बहुपाठीति ब्राह्मणम् |

तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् ||२९||

य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ||२९||

छन्दांसि नाम क्षत्रिय तान्यथर्वा; जगौ पुरस्तादृषिसर्ग एषः |

छन्दोविदस्ते य उ तानधीत्य; न वेद्यवेदस्य विदुर्न वेद्यम् ||३०||

न वेदानां वेदिता कश्िदस्ति; कश्िद्वेदान्बुध्यते वापि राजन् |

यो वेद वेदान्न स वेद वेद्यं; सत्ये स्थितो यस्तु स वेद वेद्यम् ||३१||

अभिजानामि ब्राह्मणमाख्यातारं विक्षणम् |

यश्छिन्नवििकित्सः सन्नाष्टे सर्वसंशयान् ||३२||

तस्य पर्येषणं ग्छेत्प्राीनं नोत दक्षिणम् |

नार्वाीनं कुतस्तिर्यङ्नादिशं तु कथञ्न ||३३||

तूष्णीम्भूत उपासीत न ेष्टेन्मनसा अपि |

अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् ||३४||

मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः |

अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उ्यते ||३५||

सर्वार्थानां व्याकरणाद्वैयाकरण उ्यते |

प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ||३६||

सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय |

वेदानां ानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ||३७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

044-अध्यायः

धृतराष्ट्र उवा||

सनत्सुजात यदिमां परार्थां; ब्राह्मीं वां प्रवदसि विश्वरूपाम् |

परां हि कामेषु सुदुर्लभां कथां; तद्ब्रूहि मे वाक्यमेतत्कुमार ||१||

सनत्सुजात उवा||

नैतद्ब्रह्म त्वरमाणेन लभ्यं; यन्मां पृ्छस्यभिहृष्यस्यतीव |

अव्यक्तविद्यामभिधास्ये पुराणीं; बुद्ध्या तेषां ब्रह्मर्येण सिद्धाम् ||२||

धृतराष्ट्र उवा||

अव्यक्तविद्यामिति यत्सनातनीं; ब्रवीषि त्वं ब्रह्मर्येण सिद्धाम् |

अनारभ्या वसतीहार्य काले; कथं ब्राह्मण्यममृतत्वं लभेत ||३||

सनत्सुजात उवा||

येऽस्मिँल्लोके विजयन्तीह कामा; न्ब्राह्मीं स्थितिमनुतितिक्षमाणाः |

त आत्मानं निर्हरन्तीह देहा; न्मुञ्जादिषीकामिव सत्त्वसंस्थाः ||४||

शरीरमेतौ कुरुतः पिता माता भारत |

ार्यशास्ता या जातिः सा सत्या साजरामरा ||५||

ार्ययोनिमिह ये प्रविश्य; भूत्वा गर्भं ब्रह्मर्यं रन्ति |

इहैव ते शास्त्रकारा भवन्ति; प्रहाय देहं परमं यान्ति योगम् ||६||

य आवृणोत्यवितथेन कर्णा; वृतं कुर्वन्नमृतं सम्प्रय्छन् |

तं मन्येत पितरं मातरं ; तस्मै न द्रुह्येत्कृतमस्य जानन् ||७||

गुरुं शिष्यो नित्यमभिमन्यमानः; स्वाध्यायमि्छे्छुिरप्रमत्तः |

मानं न कुर्यान्न दधीत रोष; मेष प्रथमो ब्रह्मर्यस्य पादः ||८||

ार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि |

कर्मणा मनसा वाा द्वितीयः पाद उ्यते ||९||

समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत् |

यथोक्तकारी प्रियकृत्तृतीयः पाद उ्यते ||१०||

नाार्यायेहोपकृत्वा प्रवादं; प्राज्ञः कुर्वीत नैतदहं करोमि |

इतीव मन्येत न भाषयेत; स वै तुर्थो ब्रह्मर्यस्य पादः ||११||

एवं वसन्तं यदुपप्लवेद्धन; माार्याय तदनुप्रय्छेत् |

सतां वृत्तिं बहुगुणामेवमेति; गुरोः पुत्रे भवति वृत्तिरेषा ||१२||

एवं वसन्सर्वतो वर्धतीह; बहून्पुत्राँल्लभते प्रतिष्ठाम् |

वर्षन्ति ास्मै प्रदिशो दिशश्; वसन्त्यस्मिन्ब्रह्मर्ये जनाश् ||१३||

एतेन ब्रह्मर्येण देवा देवत्वमाप्नुवन् |

ऋषयश् महाभागा ब्रह्मलोकं मनीषिणः ||१४||

गन्धर्वाणामनेनैव रूपमप्सरसामभूत् |

एतेन ब्रह्मर्येण सूर्यो अह्नाय जायते ||१५||

य आशयेत्पाटयेापि राज; न्सर्वं शरीरं तपसा तप्यमानः |

एतेनासौ बाल्यमत्येति विद्वा; न्मृत्युं तथा रोधयत्यन्तकाले ||१६||

अन्तवन्तः क्षत्रिय ते जयन्ति; लोकाञ्जनाः कर्मणा निर्मितेन |

ब्रह्मैव विद्वांस्तेन अभ्येति सर्वं; नान्यः पन्था अयनाय विद्यते ||१७||

धृतराष्ट्र उवा||

आभाति शुक्लमिव लोहितमिव; अथो कृष्णमथाञ्जनं काद्रवं वा |

तद्ब्राह्मणः पश्यति योऽत्र विद्वा; न्कथंरूपं तदमृतमक्षरं पदम् ||१८||

सनत्सुजात उवा||

नाभाति शुक्लमिव लोहितमिव; अथो कृष्णमायसमर्कवर्णम् |

न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत्समुद्रे सलिलं बिभर्ति ||१९||

न तारकासु न विद्युदाश्रितं; न ाभ्रेषु दृश्यते रूपमस्य |

ापि वायौ न देवतासु; न तन्द्रे दृश्यते नोत सूर्ये ||२०||

नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु; न ैव दृश्यत्यमलेषु सामसु |

रथन्तरे बार्हते ापि राज; न्महाव्रते नैव दृश्येद्ध्रुवं तत् ||२१||

अपारणीयं तमसः परस्ता; त्तदन्तकोऽप्येति विनाशकाले |

अणीयरूपं क्षुरधारया त; न्मह रूपं त्वपि पर्वतेभ्यः ||२२||

सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः |

भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र ||२३||

अनामयं तन्महदुद्यतं यशो; वाो विकारान्कवयो वदन्ति |

तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं; ये तद्विदुरमृतास्ते भवन्ति ||२४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

045-अध्यायः

सनत्सुजात उवा||

यत्त्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः |

तद्वै देवा उपासन्ते यस्मादर्को विराजते ||१||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१||

शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते |

्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् ||२||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||२||

आपोऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रियातेऽन्तरिक्षे |

स सध्रीीः स विषूीर्वसाना; उभे बिभर्ति पृथिवीं दिवं ||३||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||३||

उभौ देवौ पृथिवीं दिवं ; दिशश् शुक्रं भुवनं बिभर्ति |

तस्माद्दिशः सरितश् स्रवन्ति; तस्मात्समुद्रा विहिता महान्तः ||४||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||४||

क्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः |

केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ||५||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||५||

न सादृश्ये तिष्ठति रूपमस्य; न क्षुषा पश्यति कश्िदेनम् |

मनीषयाथो मनसा हृदा ; य एवं विदुरमृतास्ते भवन्ति ||६||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||६||

द्वादशपूगां सरितं देवरक्षितम् |

मधु ईशन्तस्तदा सञ्रन्ति घोरम् ||७||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||७||

तदर्धमासं पिबति सञ्ित्य भ्रमरो मधु |

ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ||८||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||८||

हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः |

ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् ||९||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||९||

पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि क्रिरे |

हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ||१०||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१०||

तस्माद्वै वायुरायातस्तस्मिंश् प्रयतः सदा |

तस्मादग्निश् सोमश् तस्मिंश् प्राण आततः ||११||

सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः |

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१२||

अपानं गिरति प्राणः प्राणं गिरति न्द्रमाः |

आदित्यो गिरते न्द्रमादित्यं गिरते परः ||१३||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१३||

एकं पादं नोत्क्षिपति सलिलाद्धंस उरन् |

तं ेत्सततमृत्विजं न मृत्युर्नामृतं भवेत् ||१४||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१४||

एवं देवो महात्मा स पावकं पुरुषो गिरन् |

यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते ||१५||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१५||

यः सहस्रं सहस्राणां पक्षान्सन्तत्य सम्पतेत् |

मध्यमे मध्य आग्छेदपि ेत्स्यान्मनोजवः ||१६||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१६||

न दर्शने तिष्ठति रूपमस्य; पश्यन्ति ैनं सुविशुद्धसत्त्वाः |

हितो मनीषी मनसाभिपश्ये; द्ये तं श्रयेयुरमृतास्ते भवन्ति ||१७||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१७||

गूहन्ति सर्पा इव गह्वराणि; स्वशिक्षया स्वेन वृत्तेन मर्त्याः |

तेषु प्रमुह्यन्ति जना विमूढा; यथाध्वानं मोहयन्ते भयाय ||१८||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१८||

सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः |

सत्यानृते सत्यसमानबन्धने; सतश् योनिरसतश्ैक एव ||१९||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१९||

न साधुना नोत असाधुना वा; समानमेतद्दृश्यते मानुषेषु |

समानमेतदमृतस्य विद्या; देवंयुक्तो मधु तद्वै परीप्सेत् ||२०||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||२०||

नास्यातिवादा हृदयं तापयन्ति; नानधीतं नाहुतमग्निहोत्रम् |

मनो ब्राह्मीं लघुतामादधीत; प्रज्ञानमस्य नाम धीरा लभन्ते ||२१||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||२१||

एवं यः सर्वभूतेषु आत्मानमनुपश्यति |

अन्यत्रान्यत्र युक्तेषु किं स शोेत्ततः परम् ||२२||

यथोदपाने महति सर्वतः सम्प्लुतोदके |

एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||२३||

अङ्गुष्ठमात्रः पुरुषो महात्मा; न दृश्यतेऽसौ हृदये निविष्टः |

अजश्रो दिवारात्रमतन्द्रितश्; स तं मत्वा कविरास्ते प्रसन्नः ||२४||

अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः |

आत्माहमपि सर्वस्य य नास्ति यदस्ति ||२५||

पितामहोऽस्मि स्थविरः पिता पुत्रश् भारत |

ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् ||२६||

आत्मैव स्थानं मम जन्म ात्मा; वेदप्रोक्तोऽहमजरप्रतिष्ठः |

अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि |

पितरं सर्वभूतानां पुष्करे निहितं विदुः ||२८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

046-अध्यायः-यानसंधिपर्व

वैशम्पायन उवा||

एवं सनत्सुजातेन विदुरेण धीमता |

सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी ||१||

तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते |

सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ||२||

शुश्रूषमाणाः पार्थानां वो धर्मार्थसंहितम् |

धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् ||३||

सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् |

न्द्रप्रभां सुरुिरां सिक्तां परमवारिणा ||४||

रुिरैरासनैः स्तीर्णां काञ्नैर्दारवैरपि |

अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तर्छदैः ||५||

भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः |

अश्वत्थामा विकर्णश् सोमदत्तश् बाह्लिकः ||६||

विदुरश् महाप्राज्ञो युयुत्सुश् महारथः |

सर्वे सहिताः शूराः पार्थिवा भरतर्षभ ||७||

धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ||७||

दुःशासनश्ित्रसेनः शकुनिश्ापि सौबलः |

दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ||८||

कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् |

विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ||९||

आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः |

शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा ||१०||

ते प्रविश्य महेष्वासाः सभां समितिशोभनाः |

आसनानि महार्हाणि भेजिरे सूर्यवर्सः ||११||

आसनस्थेषु सर्वेषु तेषु राजसु भारत |

द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ||१२||

अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति |

दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः ||१३||

उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली |

प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ||१४||

सञ्जय उवा||

प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः |

यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ||१५||

अभिवादयन्ति वृद्धांश् वयस्यांश् वयस्यवत् |

यूनश्ाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ||१६||

यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः |

अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः ||१७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

047-अध्यायः

धृतराष्ट्र उवा||

पृ्छामि त्वां सञ्जय राजमध्ये; किमब्रवीद्वाक्यमदीनसत्त्वः |

धनञ्जयस्तात युधां प्रणेता; दुरात्मनां जीवित्छिन्महात्मा ||१||

सञ्जय उवा||

दुर्योधनो वामिमां शृणोतु; यदब्रवीदर्जुनो योत्स्यमानः |

युधिष्ठिरस्यानुमते महात्मा; धनञ्जयः शृण्वतः केशवस्य ||२||

अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः |

अवोन्मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ||३||

ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां ापि तेषाम् |

यथा समग्रं वनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम् ||४||

यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे |

तथाशृण्वन्पाण्डवाः सृञ्जयाश्; किरीटिना वामुक्तां समर्थाम् ||५||

इत्यब्रवीदर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः |

ेद्राज्यं मुञ्ति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः ||६||

अस्ति नूनं कर्म कृतं पुरस्ता; दनिर्विष्टं पापकं धार्तराष्ट्रैः ||६||

येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन ैव |

शैनेयेन ध्रुवमात्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना ||७||

युधिष्ठिरेणेन्द्रकल्पेन ैव; योऽपध्यानान्निर्दहेद्गां दिवं ||७||

तैश्ेद्युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तोऽर्थः सकलः पाण्डवानाम् |

मा तत्कार्षीः पाण्डवार्थाय हेतो; रुपैहि युद्धं यदि मन्यसे त्वम् ||८||

यां तां वने दुःखशय्यामुवास; प्रव्राजितः पाण्डवो धर्मारी |

आशिष्यते दुःखतरामनर्था; मन्त्यां शय्यां धार्तराष्ट्रः परासुः ||९||

ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन |

अन्यायवृत्तः कुरुपाण्डवेया; नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ||१०||

मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन |

सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ||११||

यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत्तं वर्षपूगान्सुघोरम् |

अवस्रष्टा कुरुषूद्वृत्तेता; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१२||

कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत्कक्षमग्निर्निदाघे |

एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य ||१३||

यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम् |

दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१४||

महासिंहो गाव इव प्रविश्य; गदापाणिर्धार्तराष्ट्रानुपेत्य |

यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१५||

महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी |

सकृद्रथेन प्रतियाद्रथौघा; न्पदातिसङ्घान्गदयाभिनिघ्नन् ||१६||

सैन्याननेकांस्तरसा विमृद्न; न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् |

छिन्दन्वनं परशुनेव शूर; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१७||

तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य |

पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम् ||१८||

हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशोऽधृष्टयोधम् |

शस्त्रार्िषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१९||

उपासङ्गादुद्धरन्दक्षिणेन; परःशतान्नकुलश्ित्रयोधी |

यदा रथाग्र्यो रथिनः प्रेता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२०||

सुखोितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो यामशेत |

आशीविषः क्रुद्ध इव श्वसन्भृशं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२१||

त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः |

रथैः शुभ्रैः सैन्यमभिद्रवन्तो; दृष्ट्वा पश्ात्तप्स्यते धार्तराष्ट्रः ||२२||

शिशून्कृतास्त्रानशिशुप्रकाशा; न्यदा द्रष्टा कौरवः पञ् शूरान् |

त्यक्त्वा प्राणान्केकयानाद्रवन्त; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२३||

यदा गतोद्वाहमकूजनाक्षं; सुवर्णतारं रथमाततायी |

दान्तैर्युक्तं सहदेवोऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ||२४||

महाभये सम्प्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम् |

सर्वां दिशं सम्पतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२५||

ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः |

गान्धारिमार््छंस्तुमुले क्षिप्रकारी; क्षेप्ता जनान्सहदेवस्तरस्वी ||२६||

यदा द्रष्टा द्रौपदेयान्महेषू; ञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान् |

आशीविषान्घोरविषानिवायत; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२७||

यदाभिमन्युः परवीरघाती; शरैः परान्मेघ इवाभिवर्षन् |

विगाहिता कृष्णसमः कृतास्त्र; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२८||

यदा द्रष्टा बालमबालवीर्यं; द्विषमूं मृत्युमिवापतन्तम् |

सौभद्रमिन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२९||

प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः |

यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३०||

वृद्धौ विराटद्रुपदौ महारथौ; पृथक्मूभ्यामभिवर्तमानौ |

यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३१||

यदा कृतास्त्रो द्रुपदः प्रिन्व; ञ्शिरांसि यूनां समरे रथस्थः |

क्रुद्धः शरैश्छेत्स्यति ापमुक्तै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३२||

यदा विराटः परवीरघाती; मर्मान्तरे शत्रुमूं प्रवेष्टा |

मत्स्यैः सार्धमनृशंसरूपै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३३||

ज्येष्ठं मात्स्यानामनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात् |

यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३४||

रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शन्तनूजे |

न जातु नः शत्रवो धारयेयु; रसंशयं सत्यमेतद्ब्रवीमि ||३५||

यदा शिखण्डी रथिनः प्रिन्व; न्भीष्मं रथेनाभियाता वरूथी |

दिव्यैर्हयैरवमृद्नन्रथौघां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३६||

यदा द्रष्टा सृञ्जयानामनीके; धृष्टद्युम्नं प्रमुखे रोमानम् |

अस्त्रं यस्मै गुह्यमुवा धीमा; न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ||३७||

यदा स सेनापतिरप्रमेयः; पराभवन्निषुभिर्धार्तराष्ट्रान् |

द्रोणं रणे शत्रुसहोऽभियाता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३८||

ह्रीमान्मनीषी बलवान्मनस्वी; स लक्ष्मीवान्सोमकानां प्रबर्हः |

न जातु तं शत्रवोऽन्ये सहेर; न्येषां स स्यादग्रणीर्वृष्णिसिंहः ||३९||

ब्रूया मा प्रवृणीष्वेति लोके; युद्धेऽद्वितीयं सिवं रथस्थम् |

शिनेर्नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम् ||४०||

यदा शिनीनामधिपो मयोक्तः; शरैः परान्मेघ इव प्रवर्षन् |

प्र्छादयिष्यञ्शरजालेन योधां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||४१||

यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर्दृढधन्वा महात्मा |

सिंहस्येव गन्धमाघ्राय गावः; संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः ||४२||

स दीर्घबाहुर्दृढधन्वा महात्मा; भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् |

अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति ||४३||

ित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान् |

यथाविधं योगमाहुः प्रशस्तं; सर्वैर्गुणैः सात्यकिस्तैरुपेतः ||४४||

हिरण्मयं श्वेतहयैश्तुर्भि; र्यदा युक्तं स्यन्दनं माधवस्य |

द्रष्टा युद्धे सात्यकेर्वै सुयोधन; स्तदा तप्स्यत्यकृतात्मा स मन्दः ||४५||

यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुमुग्रम् |

द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्यकृतात्मा स मन्दः ||४६||

यदा मौर्व्यास्तलनिष्पेषमुग्रं; महाशब्दं वज्रनिष्पेषतुल्यम् |

विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः ||४७||

तदा मूढो धृतराष्ट्रस्य पुत्र; स्तप्ता युद्धे दुर्मतिर्दुःसहायः |

दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद्रणाग्रे ||४८||

बलाहकादुरन्तीव विद्यु; त्सहस्रघ्नी द्विषतां सङ्गमेषु |

अस्थि्छिदो मर्मभिदो वमे्छरां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||४९||

यदा द्रष्टा ज्यामुखाद्बाणसङ्घा; न्गाण्डीवमुक्तान्पततः शिताग्रान् |

नागान्हयान्वर्मिणश्ाददानां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||५०||

यदा मन्दः परबाणान्विमुक्ता; न्ममेषुभिर्ह्रियमाणान्प्रतीपम् |

तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||५१||

यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात् |

प्र्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||५२||

यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्योऽश्वगतांश् योधान् |

शरैर्हतान्पातितांश्ैव रङ्गे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||५३||

पदातिसङ्घान्रथसङ्घान्समन्ता; द्व्यात्ताननः काल इवाततेषुः |

प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः; शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ||५४||

सर्वा दिशः सम्पतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम् |

यदा द्रष्टा स्वबलं सम्प्रमूढं; तदा पश्ात्तप्स्यति मन्दबुद्धिः ||५५||

कांदिग्भूतं छिन्नगात्रं विसञ्ज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम् |

हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम् ||५६||

आर्तस्वरं हन्यमानं हतं ; विकीर्णकेशास्थिकपालसङ्घम् |

प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः ||५७||

यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्जन्यं हयांश् |

तूणावक्षय्यौ देवदत्तं मां ; द्रष्टा युद्धे धार्तराष्ट्रः समेतान् ||५८||

उद्वर्तयन्दस्युसङ्घान्समेता; न्प्रवर्तयन्युगमन्यद्युगान्ते |

यदा धक्ष्याम्यग्निवत्कौरवेयां; स्तदा तप्ता धृतराष्ट्रः सपुत्रः ||५९||

सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशोऽल्पेताः |

दर्पस्यान्ते विहिते वेपमानः; पश्ान्मन्दस्तप्स्यति धार्तराष्ट्रः ||६०||

पूर्वाह्णे मां कृतजप्यं कदा ि; द्विप्रः प्रोवाोदकान्ते मनोज्ञम् |

कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसािन् ||६१||

इन्द्रो वा ते हरिवान्वज्रहस्तः; पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् |

सुग्रीवयुक्तेन रथेन वा ते; पश्ात्कृष्णो रक्षतु वासुदेवः ||६२||

वव्रे ाहं वज्रहस्तान्महेन्द्रा; दस्मिन्युद्धे वासुदेवं सहायम् |

स मे लब्धो दस्युवधाय कृष्णो; मन्ये ैतद्विहितं दैवतैर्मे ||६३||

अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत् |

ध्रुवं सर्वान्सोऽभ्यतीयादमित्रा; न्सेन्द्रान्देवान्मानुषे नास्ति िन्ता ||६४||

स बाहुभ्यां सागरमुत्तितीर्षे; न्महोदधिं सलिलस्याप्रमेयम् |

तेजस्विनं कृष्णमत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत् ||६५||

गिरिं य इ्छेत तलेन भेत्तुं; शिलोयं श्वेतमतिप्रमाणम् |

तस्यैव पाणिः सनखो विशीर्ये; न्न ापि किञ्ित्स गिरेस्तु कुर्यात् ||६६||

अग्निं समिद्धं शमयेद्भुजाभ्यां; न्द्रं सूर्यं निवारयेत |

हरेद्देवानाममृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत् ||६७||

यो रुक्मिणीमेकरथेन भोज्या; मुत्साद्य राज्ञां विषयं प्रसह्य |

उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा ||६८||

अयं गान्धारांस्तरसा सम्प्रमथ्य; जित्वा पुत्रान्नग्नजितः समग्रान् |

बद्धं मुमो विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम् ||६९||

अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान्दन्तकूरे ममर्द |

अनेन दग्धा वर्षपूगान्विनाथा; वाराणसी नगरी सम्बभूव ||७०||

यं स्म युद्धे मन्यतेऽन्यैरजेय; मेकलव्यं नाम निषादराजम् |

वेगेनेव शैलमभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः ||७१||

तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम् |

अपातयद्बलदेवद्वितीयो; हत्वा ददौ ोग्रसेनाय राज्यम् ||७२||

अयं सौभं योधयामास खस्थं; विभीषणं मायया शाल्वराजम् |

सौभद्वारि प्रत्यगृह्णा्छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः ||७३||

प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरमसुराणामसह्यम् |

महाबलो नरकस्तत्र भौमो; जहारादित्या मणिकुण्डले शुभे ||७४||

न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः |

दृष्ट्वा ते विक्रमं केशवस्य; बलं तथैवास्त्रमवारणीयम् ||७५||

जानन्तोऽस्य प्रकृतिं केशवस्य; न्ययोजयन्दस्युवधाय कृष्णम् |

स तत्कर्म प्रतिशुश्राव दुष्कर; मैश्वर्यवान्सिद्धिषु वासुदेवः ||७६||

निर्मोने षट्सहस्राणि हत्वा; सञ्छिद्य पाशान्सहसा क्षुरान्तान् |

मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोनं ापि जगाम वीरः ||७७||

तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः |

शेते स कृष्णेन हतः परासु; र्वातेनेव मथितः कर्णिकारः ||७८||

आहृत्य कृष्णो मणिकुण्डले ते; हत्वा भौमं नरकं मुरं |

श्रिया वृतो यशसा ैव धीमा; न्प्रत्याजगामाप्रतिमप्रभावः ||७९||

तस्मै वरानददंस्तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत् |

श्रमश् ते युध्यमानस्य न स्या; दाकाशे वा अप्सु ैव क्रमः स्यात् ||८०||

शस्त्राणि गात्रे न ते क्रमेर; न्नित्येव कृष्णश् ततः कृतार्थः |

एवंरूपे वासुदेवेऽप्रमेये; महाबले गुणसम्पत्सदैव ||८१||

तमसह्यं विष्णुमनन्तवीर्य; माशंसते धार्तराष्ट्रो बलेन |

यदा ह्येनं तर्कयते दुरात्मा; ताप्ययं सहतेऽस्मान्समीक्ष्य ||८२||

पर्यागतं मम कृष्णस्य ैव; यो मन्यते कलहं सम्प्रयुज्य |

शक्यं हर्तुं पाण्डवानां ममत्वं; तद्वेदिता संयुगं तत्र गत्वा ||८३||

नमस्कृत्वा शान्तनवाय राज्ञे; द्रोणायाथो सहपुत्राय ैव |

शारद्वतायाप्रतिद्वन्द्विने ; योत्स्याम्यहं राज्यमभीप्समानः ||८४||

धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर्धर्मारी |

मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान्द्वादश पाण्डुपुत्राः ||८५||

अवाप्य कृ्छ्रं विहितं ह्यरण्ये; दीर्घं कालं ैकमज्ञातर्याम् |

ते ह्यकस्माज्जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः ||८६||

ते ेदस्मान्युध्यमानाञ्जयेयु; र्देवैरपीन्द्रप्रमुखैः सहायैः |

धर्मादधर्मश्रितो गरीया; निति ध्रुवं नास्ति कृतं न साधु ||८७||

ेदिमं पुरुषं कर्मबद्धं; न ेदस्मान्मन्यतेऽसौ विशिष्टान् |

आशंसेऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम् ||८८||

ेदिदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म |

इदं ापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः ||८९||

प्रत्यक्षं वः कुरवो यद्ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति |

अन्यत्र युद्धात्कुरवः परीप्स; न्न युध्यतां शेष इहास्ति कश्ित् ||९०||

हत्वा त्वहं धार्तराष्ट्रान्सकर्णा; न्राज्यं कुरूणामवजेता समग्रम् |

यद्वः कार्यं तत्कुरुध्वं यथास्व; मिष्टान्दारानात्मजांश्ोपभुङ्क्त ||९१||

अप्येवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः |

सांवत्सरा ज्योतिषि ापि युक्ता; नक्षत्रयोगेषु निश्यज्ञाः ||९२||

ावं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगक्रा मुहूर्ताः |

क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं ||९३||

तथा हि नो मन्यतेऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय |

जनार्दनश्ाप्यपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः ||९४||

अहं जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयमप्रमत्तः |

दृष्टिश् मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति ||९५||

अनालब्धं जृम्भति गाण्डिवं धनु; रनालब्धा कम्पति मे धनुर्ज्या |

बाणाश् मे तूणमुखाद्विसृज्य; मुहुर्मुहुर्गन्तुमुशन्ति ैव ||९६||

सैक्यः कोशान्निःसरति प्रसन्नो; हित्वेव जीर्णामुरगस्त्वं स्वाम् |

ध्वजे वाो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन् ||९७||

गोमायुसङ्घाश् वदन्ति रात्रौ; रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् |

मृगाः शृगालाः शितिकण्ठाश् काका; गृध्रा बडाश्ैव तरक्षवश् ||९८||

सुपर्णपाताश् पतन्ति पश्ा; द्दृष्ट्वा रथं श्वेतहयप्रयुक्तम् |

अहं ह्येकः पार्थिवान्सर्वयोधा; ञ्शरान्वर्षन्मृत्युलोकं नयेयम् ||९९||

समाददानः पृथगस्त्रमार्गा; न्यथाग्निरिद्धो गहनं निदाघे |

स्थूणाकर्णं पाशुपतं घोरं; तथा ब्रह्मास्त्रं य शक्रो विवेद ||१००||

वधे धृतो वेगवतः प्रमुञ्; न्नाहं प्रजाः किञ्िदिवावशिष्ये |

शान्तिं लप्स्ये परमो ह्येष भावः; स्थिरो मम ब्रूहि गावल्गणे तान् ||१०१||

नित्यं पुनः सिवैर्यैरवो; द्देवानपीन्द्रप्रमुखान्सहायान् |

तैर्मन्यते कलहं सम्प्रयुज्य; स धार्तराष्ट्रः पश्यत मोहमस्य ||१०२||

वृद्धो भीष्मः शान्तनवः कृपश्; द्रोणः सपुत्रो विदुरश् धीमान् |

एते सर्वे यद्वदन्ते तदस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे ||१०३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

048-अध्यायः

वैशम्पायन उवा||

समवेतेषु सर्वेषु तेषु राजसु भारत |

दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ||१||

बृहस्पतिश्ोशना ब्रह्माणं पर्युपस्थितौ |

मरुतश् सहेन्द्रेण वसवश् सहाश्विनौ ||२||

आदित्याश्ैव साध्याश् ये सप्तर्षयो दिवि |

विश्वावसुश् गन्धर्वः शुभाश्ाप्सरसां गणाः ||३||

नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम् |

परिवार्य विश्वेशं पर्यासत दिवौकसः ||४||

तेषां मनश् तेजश्ाप्याददानौ दिवौकसाम् |

पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ||५||

बृहस्पतिश् पप्र्छ ब्राह्मणं काविमाविति |

भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ||६||

ब्रह्मोवा||

यावेतौ पृथिवीं द्यां भासयन्तौ तपस्विनौ |

ज्वलन्तौ रोमानौ व्याप्यातीतौ महाबलौ ||७||

नरनारायणावेतौ लोकाल्लोकं समास्थितौ |

ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ ||८||

एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ |

असुराणामभावाय देवगन्धर्वपूजितौ ||९||

वैशम्पायन उवा||

जगाम शक्रस्त्छ्रुत्वा यत्र तौ तेपतुस्तपः |

सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ||१०||

तदा देवासुरे घोरे भये जाते दिवौकसाम् |

अयात महात्मानौ नरनारायणौ वरम् ||११||

तावब्रूतां वृणीष्वेति तदा भरतसत्तम |

अथैतावब्रवी्छक्रः साह्यं नः क्रियतामिति ||१२||

ततस्तौ शक्रमब्रूतां करिष्यावो यदि्छसि |

ताभ्यां सहितः शक्रो विजिग्ये दैत्यदानवान् ||१३||

नर इन्द्रस्य सङ्ग्रामे हत्वा शत्रून्परन्तपः |

पौलोमान्कालखञ्जांश् सहस्राणि शतानि ||१४||

एष भ्रान्ते रथे तिष्ठन्भल्लेनापहर्छिरः |

जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे ||१५||

एष पारे समुद्रस्य हिरण्यपुरमारुजत् |

हत्वा षष्टिसहस्राणि निवातकवान्रणे ||१६||

एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः |

अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ||१७||

नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह ||१७||

एवमेतौ महावीर्यौ तौ पश्यत समागतौ |

वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ||१८||

नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः |

अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ||१९||

एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः |

नारायणो नरश्ैव सत्त्वमेकं द्विधाकृतम् ||२०||

एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान् |

तत्र तत्रैव जायेते युद्धकाले पुनः पुनः ||२१||

तस्मात्कर्मैव कर्तव्यमिति होवा नारदः |

एतद्धि सर्वमाष्ट वृष्णिक्रस्य वेदवित् ||२२||

शङ्खक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् |

पर्याददानं ास्त्राणि भीमधन्वानमर्जुनम् ||२३||

सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ |

दुर्योधन तदा तात स्मर्तासि वनं मम ||२४||

नो ेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः |

अर्था तात धर्मा तव बुद्धिरुपप्लुता ||२५||

ेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान् |

तवैव हि मतं सर्वे कुरवः पर्युपासते ||२६||

त्रयाणामेव मतं तत्त्वमेकोऽनुमन्यसे |

रामेण ैव शप्तस्य कर्णस्य भरतर्षभ ||२७||

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य |

तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य ||२८||

कर्ण उवा||

नैवमायुष्मता वा्यं यन्मामात्थ पितामह |

क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ||२९||

किं ान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे |

न हि मे वृजिनं किञ्िद्धार्तराष्ट्रा विदुः क्वित् ||३०||

राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया |

तथा दुर्योधनस्यापि स हि राज्ये समाहितः ||३१||

वैशम्पायन उवा||

कर्णस्य तु वः श्रुत्वा भीष्मः शान्तनवः पुनः |

धृतराष्ट्रं महाराजमाभाष्येदं वोऽब्रवीत् ||३२||

यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति |

नायं कलापि सम्पूर्णा पाण्डवानां महात्मनाम् ||३३||

अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम् |

तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ||३४||

एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः |

अवमन्यत तान्वीरान्देवपुत्रानरिंदमान् ||३५||

किं ाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम् |

तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ||३६||

दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् |

धनञ्जयेन विक्रम्य किमनेन तदा कृतम् ||३७||

सहितान्हि कुरून्सर्वानभियातो धनञ्जयः |

प्रमथ्य ्छिनद्गावः किमयं प्रोषितस्तदा ||३८||

गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव |

क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ||३९||

ननु तत्रापि पार्थेन भीमेन महात्मना |

यमाभ्यामेव ागम्य गन्धर्वास्ते पराजिताः ||४०||

एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ |

विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ||४१||

भीष्मस्य तु वः श्रुत्वा भारद्वाजो महामनाः |

धृतराष्ट्रमुवाेदं राजमध्येऽभिपूजयन् ||४२||

यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप |

न काममर्थलिप्सूनां वनं कर्तुमर्हसि ||४३||

पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गमम् |

यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् ||४४||

सर्वं तदभिजानामि करिष्यति पाण्डवः |

न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ||४५||

अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः |

ततः स सञ्जयं राजा पर्यपृ्छत पाण्डवम् ||४६||

तदैव कुरवः सर्वे निराशा जीवितेऽभवन् |

भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ||४७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

049-अध्यायः

धृतराष्ट्र उवा||

किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत |

श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः ||१||

किमि्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः |

कस्य स्विद्भ्रातृपुत्राणां िन्तासु मुखमीक्षते ||२||

के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः |

निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मारिणम् ||३||

सञ्जय उवा||

राज्ञो मुखमुदीक्षन्ते पाञ्ालाः पाण्डवैः सह |

युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति ||४||

पृथग्भूताः पाण्डवानां पाञ्ालानां रथव्रजाः |

आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ||५||

तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् |

पाञ्ालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम् ||६||

आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम् |

पाञ्ालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम् ||७||

ब्राह्मण्यो राजपुत्र्यश् विशां दुहितरश् याः |

क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम् ||८||

धृतराष्ट्र उवा||

सञ्जयाक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत |

धृष्टद्युम्नेन सेनान्या सोमकाः किम्बला इव ||९||

वैशम्पायन उवा||

गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि |

निःश्वस्य सुभृशं दीर्घं मुहुः सञ्िन्तयन्निव ||१०||

तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् ||१०||

तदाक्षे पुरुषः सभायां राजसंसदि |

सञ्जयोऽयं महाराज मूर््छितः पतितो भुवि ||११||

वां न सृजते काञ्िद्धीनप्रज्ञोऽल्पेतनः ||११||

धृतराष्ट्र उवा||

अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान् |

तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ||१२||

वैशम्पायन उवा||

सञ्जयश्ेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत् |

धृतराष्ट्रं महाराज सभायां कुरुसंसदि ||१३||

दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् |

मत्स्यराजगृहावासादवरोधेन कर्शितान् ||१४||

शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ||१४||

यो नैव रोषान्न भयान्न कामान्नार्थकारणात् |

न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथञ्न ||१५||

यः प्रमाणं महाराज धर्मे धर्मभृतां वरः |

अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ||१६||

यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्न |

यो वै सर्वान्महीपालान्वशे क्रे धनुर्धरः ||१७||

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ||१७||

निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात् |

य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ||१८||

याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान् |

तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ||१९||

यश् तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते |

दह्यतो मोयामास तेन वस्तेऽभ्ययुञ्जत ||२०||

कृष्णायाश्रता प्रीतिं येन क्रोधवशा हताः |

प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् ||२१||

यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम् |

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ||२२||

कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः |

अजयद्यः पुरा वीरो युध्यमानं पुरंदरम् ||२३||

यः स साक्षान्महादेवं गिरिशं शूलपाणिनम् |

तोषयामास युद्धेन देवदेवमुमापतिम् ||२४||

यश् सर्वान्वशे क्रे लोकपालान्धनुर्धरः |

तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ||२५||

यः प्रतीीं दिशं क्रे वशे म्ले्छगणायुताम् |

स तत्र नकुलो योद्धा ित्रयोधी व्यवस्थितः ||२६||

तेन वो दर्शनीयेन वीरेणातिधनुर्भृता |

माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ||२७||

यः काशीनङ्गमगधान्कलिङ्गांश् युधाजयत् |

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ||२८||

यस्य वीर्येण सदृशाश्त्वारो भुवि मानवाः |

अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव ||२९||

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत |

यवीयसा नृवीरेण माद्रीनन्दिकरेण ||३०||

तपश्ार या घोरं काशिकन्या पुरा सती |

भीष्मस्य वधमि्छन्ती प्रेत्यापि भरतर्षभ ||३१||

पाञ्ालस्य सुता जज्ञे दैवा स पुनः पुमान् |

स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् ||३२||

यः कलिङ्गान्समापेदे पाञ्ालो युद्धदुर्मदः |

शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ||३३||

यां यक्षः पुरुषं क्रे भीष्मस्य निधने किल |

महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ||३४||

महेष्वासा राजपुत्रा भ्रातरः पञ् केकयाः |

सुमृष्टकवाः शूरास्तैश् वस्तेऽभ्ययुञ्जत ||३५||

यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः |

तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ||३६||

य आसी्छरणं काले पाण्डवानां महात्मनाम् |

रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत ||३७||

यः स काशिपती राजा वाराणस्यां महारथः |

स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ||३८||

शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः |

आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत ||३९||

यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे |

तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ||४०||

यश्ैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः |

दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ||४१||

तेन वश्ेदिराजेन पाण्डवा अभ्ययुञ्जत ||४१||

यः संश्रयः पाण्डवानां देवानामिव वासवः |

तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ||४२||

तथा ेदिपतेर्भ्राता शरभो भरतर्षभ |

करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ||४३||

जारासन्धिः सहदेवो जयत्सेनश् तावुभौ |

द्रुपदश् महातेजा बलेन महता वृतः ||४४||

त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः ||४४||

एते ान्ये बहवः प्रायोदी्या महीक्षितः |

शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः ||४५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

050-अध्यायः

धृतराष्ट्र उवा||

सर्व एते महोत्साहा ये त्वया परिकीर्तिताः |

एकतस्त्वेव ते सर्वे समेता भीम एकतः ||१||

भीमसेनाद्धि मे भूयो भयं सञ्जायते महत् |

क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ||२||

जागर्मि रात्रयः सर्वा दीर्घमुष्णं निःश्वसन् |

भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः ||३||

न हि तस्य महाबाहोः शक्रप्रतिमतेजसः |

सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ||४||

अमर्षणश् कौन्तेयो दृढवैरश् पाण्डवः |

अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ||५||

महावेगो महोत्साहो महाबाहुर्महाबलः |

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ||६||

ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः |

कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ||७||

शैक्यायसमयीं घोरां गदां काञ्नभूषिताम् |

मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ||८||

यथा रुरूणां यूथेषु सिंहो जातबलश्रेत् |

मामकेषु तथा भीमो बलेषु विरिष्यति ||९||

सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः |

बह्वाशी विप्रतीपश् बाल्येऽपि रभसः सदा ||१०||

उद्वेपते मे हृदयं यदा दुर्योधनादयः |

बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः ||११||

तस्य वीर्येण सङ्क्लिष्टा नित्यमेव सुता मम |

स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ||१२||

ग्रसमानमनीकानि नरवारणवाजिनाम् |

पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ||१३||

अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे |

सञ्जयाक्ष्व मे शूरं भीमसेनममर्षणम् ||१४||

अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना |

तदैव न हताः सर्वे मम पुत्रा मनस्विना ||१५||

येन भीमबला यक्षा राक्षसाश् समाहताः |

कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ||१६||

न स जातु वशे तस्थौ मम बालोऽपि सञ्जय |

किं पुनर्मम दुष्पुत्रैः क्लिष्टः सम्प्रति पाण्डवः ||१७||

निष्ठुरः स नैष्ठुर्याद्भज्येदपि न संनमेत् |

तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः ||१८||

बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः |

प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ||१९||

जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् |

अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ||२०||

इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा |

रूपतो वीर्यतश्ैव याथातथ्येन पाण्डवः ||२१||

आयसेन स दण्डेन रथान्नागान्हयान्नरान् |

हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः ||२२||

अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः |

मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः ||२३||

निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्नीं गदाम् |

शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ||२४||

अपारमप्लवागाधं समुद्रं शरवेगिनम् |

भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ||२५||

क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः |

विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः ||२६||

संयुगं ये करिष्यन्ति नररूपेण वायुना |

नियतं ोदिता धात्रा सिंहेनेव महामृगाः ||२७||

शैक्यां तात तुष्किष्कुं षडस्रिममितौजसम् |

प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ||२८||

गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् |

सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ||२९||

उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान् |

प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः ||३०||

विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः |

अग्नेः प्रज्वलितस्येव अपि मु्येत मे प्रजा ||३१||

वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् |

नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ||३२||

प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् |

प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ||३३||

कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान् |

आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ||३४||

गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् |

प्रवेक्ष्यति महासेनां पुत्राणां मम सञ्जय ||३५||

वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः |

मम पुत्राश् भृत्याश् राजानश्ैव सञ्जय ||३६||

येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा |

वासुदेवसहायेन जरासन्धो निपातितः ||३७||

कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता |

मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ||३८||

भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः |

ते न तस्य वशं जग्मुः केवलं दैवमेव वा ||३९||

स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना |

अनायुधेन वीरेण निहतः किं ततोऽधिकम् ||४०||

दीर्घकालेन संसिक्तं विषमाशीविषो यथा |

स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय ||४१||

महेन्द्र इव वज्रेण दानवान्देवसत्तमः |

भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ||४२||

अविषह्यमनावार्यं तीव्रवेगपराक्रमम् |

पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ||४३||

अगदस्याप्यधनुषो विरथस्य विवर्मणः |

बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ||४४||

भीष्मो द्रोणश् विप्रोऽयं कृपः शारद्वतस्तथा |

जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः ||४५||

आर्यव्रतं तु जानन्तः सङ्गरान्न बिभित्सवः |

सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ||४६||

बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः |

पश्यन्नपि जयं तेषां न निय्छामि यत्सुतान् ||४७||

ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः |

त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ||४८||

यथैषां मामकास्तात तथैषां पाण्डवा अपि |

पौत्रा भीष्मस्य शिष्याश् द्रोणस्य कृपस्य ||४९||

यत्त्वस्मदाश्रयं किञ्िद्दत्तमिष्टं सञ्जय |

तस्यापितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ||५०||

आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः |

निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् ||५१||

स वै शोामि सर्वान्वै ये युयुत्सन्ति पाण्डवान् |

विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् ||५२||

न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय |

भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम् ||५३||

ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान् |

सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ||५४||

किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा |

पुत्रेषु राज्यदारेषु पौत्रेष्वपि बन्धुषु ||५५||

संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम् |

विनाशं ह्येव पश्यामि कुरूणामनुिन्तयन् ||५६||

द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् |

मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ||५७||

मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः |

क्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ||५८||

किं नु कार्यं कथं कुर्यां क्व नु ग्छामि सञ्जय |

एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ||५९||

अवशोऽहं पुरा तात पुत्राणां निहते शते |

श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ||६०||

यथा निदाघे ज्वलनः समिद्धो; दहेत्कक्षं वायुना ोद्यमानः |

गदाहस्तः पाण्डवस्तद्वदेव; हन्ता मदीयान्सहितोऽर्जुनेन ||६१||

error: Content is protected !!