श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
083-अध्यायः
वैशम्पायन उवाच||
तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम् |
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ||१||
द्रोणं च सञ्जयं चैव विदुरं च महामतिम् |
दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम् ||२||
अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन |
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे ||३||
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः |
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ||४||
उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी |
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ||५||
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः |
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ||६||
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः |
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ||७||
स चेत्तुष्यति दाशार्ह उपचारैररिंदमः |
कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ||८||
तस्य पूजार्थमद्यैव संविधत्स्व परन्तप |
सभाः पथि विधीयन्तां सर्वकामसमाहिताः ||९||
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै |
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ||१०||
ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम् |
ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः ||११||
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा |
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ||१२||
ततो देशेषु देशेषु रमणीयेषु भागशः |
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ||१३||
आसनानि विचित्राणि युक्तानि विविधैर्गुणैः |
स्त्रियो गन्धानलङ्कारान्सूक्ष्माणि वसनानि च ||१४||
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च |
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ||१५||
विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले |
विदधे कौरवो राजा बहुरत्नां मनोरमाम् ||१६||
एतद्विधाय वै सर्वं देवार्हमतिमानुषम् |
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ||१७||
ताः सभाः केशवः सर्वा रत्नानि विविधानि च |
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
084-अध्यायः
धृतराष्ट्र उवाच||
उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः |
वृकस्थले निवसति स च प्रातरिहेष्यति ||१||
आहुकानामधिपतिः पुरोगः सर्वसात्वताम् |
महामना महावीर्यो महामात्रो जनार्दनः ||२||
स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः |
त्रयाणामपि लोकानां भगवान्प्रपितामहः ||३||
वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते |
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ||४||
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने |
प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु ||५||
एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः |
चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ||६||
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः |
अष्टानुचरमेकैकमष्टौ दास्यामि केशवे ||७||
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् |
शतमस्मै प्रदास्यामि दासानामपि तावतः ||८||
आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम् |
तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च ||९||
अजिनानां सहस्राणि चीनदेशोद्भवानि च |
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ||१०||
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः |
तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः ||११||
एकेनापि पतत्यह्ना योजनानि चतुर्दश |
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ||१२||
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते |
ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ||१३||
मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते |
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलङ्कृताः ||१४||
स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः |
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ||१५||
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् |
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ||१६||
सस्त्रीपुरुषबालं हि नगरं मधुसूदनम् |
उदीक्षते महात्मानं भानुमन्तमिव प्रजाः ||१७||
महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम् |
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ||१८||
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् |
तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम् ||१९||
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् |
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ||२०||
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च |
यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम् ||२१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
085-अध्यायः
विदुर उवाच||
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः |
सम्भावितश्च लोकस्य संमतश्चासि भारत ||१||
यत्त्वमेवङ्गते ब्रूयाः पश्चिमे वयसि स्थितः |
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ||२||
लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे |
धर्मस्त्वयि महान्राजन्निति व्यवसिताः प्रजाः ||३||
सदैव भावितो लोको गुणौघैस्तव पार्थिव |
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ||४||
आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः |
राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान् ||५||
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु |
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ||६||
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् |
एतदिच्छसि कृष्णाय सत्येनात्मानमालभे ||७||
मायैषातत्त्वमेवैतच्छद्मैतद्भूरिदक्षिण |
जानामि ते मतं राजन्गूढं बाह्येन कर्मणा ||८||
पञ्च पञ्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप |
न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति ||९||
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि |
अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि ||१०||
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया |
अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ||११||
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् |
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् ||१२||
अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात् |
अन्यत्कुशलसम्प्रश्नान्नैषिष्यति जनार्दनः ||१३||
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः |
तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः ||१४||
आशंसमानः कल्याणं कुरूनभ्येति केशवः |
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ||१५||
शममिच्छति दाशार्हस्तव दुर्योधनस्य च |
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ||१६||
पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे |
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ||१७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
086-अध्यायः
दुर्योधन उवाच||
यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते |
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ||१||
यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने |
अनेकरूपं राजेन्द्र न तद्देयं कदाचन ||२||
देशः कालस्तथायुक्तो न हि नार्हति केशवः |
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ||३||
अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते |
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ||४||
स हि पूज्यतमो देवः कृष्णः कमललोचनः |
त्रयाणामपि लोकानां विदितं मम सर्वथा ||५||
न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो |
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ||६||
वैशम्पायन उवाच||
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः |
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ||७||
सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः |
नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः ||८||
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् |
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ||९||
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया |
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः ||१०||
धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः |
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ||११||
दुर्योधन उवाच||
न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम् |
तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह ||१२||
इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम् |
परायणं पाण्डवानां नियंस्यामि जनार्दनम् ||१३||
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा |
पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति ||१४||
अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः |
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ||१५||
वैशम्पायन उवाच||
तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् |
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ||१६||
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः |
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ||१७||
दूतश्च हि हृषीकेशः सम्बन्धी च प्रियश्च नः |
अपापः कौरवेयेषु कथं बन्धनमर्हति ||१८||
भीष्म उवाच||
परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः |
वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः ||१९||
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् |
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ||२०||
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः |
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ||२१||
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः |
नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथञ्चन ||२२||
वैशम्पायन उवाच||
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् |
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ||२३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
087-अध्यायः
वैशम्पायन उवाच||
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् |
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ||१||
तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप |
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ||२||
धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलङ्कृताः |
दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः ||३||
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः |
यानैर्बहुविधैरन्ये पद्भिरेव तथापरे ||४||
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा |
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ||५||
कृष्णसंमाननार्थं च नगरं समलङ्कृतम् |
बभूवू राजमार्गाश्च बहुरत्नसमाचिताः ||६||
न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ |
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ||७||
राजमार्गे नरा न स्म सम्भवन्त्यवनिं गताः |
तथा हि सुमहद्राजन्हृषीकेशप्रवेशने ||८||
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि |
प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले ||९||
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः |
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ||१०||
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः |
पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् ||११||
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः |
वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः ||१२||
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः |
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ||१३||
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः |
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ||१४||
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् |
स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ||१५||
तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः |
यथावयः समीयाय राजभिस्तत्र माधवः ||१६||
अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम् |
कृपं च सोमदत्तं च समीयाय जनार्दनः ||१७||
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् |
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ||१८||
अथ गां मधुपर्कं चाप्युदकं च जनार्दने |
उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः ||१९||
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् |
आस्ते सम्बन्धकं कुर्वन्कुरुभिः परिवारितः ||२०||
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः |
राजानं समनुज्ञाप्य निराक्रामदरिंदमः ||२१||
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि |
विदुरावसथं रम्यमुपातिष्ठत माधवः ||२२||
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् |
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ||२३||
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् |
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ||२४||
प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः |
धर्मनित्यस्य च तदा गतदोषस्य धीमतः ||२५||
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् |
क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् ||२६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
088-अध्यायः
वैशम्पायन उवाच||
अथोपगम्य विदुरमपराह्णे जनार्दनः |
पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः ||१||
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् |
कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन् ||२||
तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् |
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा ||३||
साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् |
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ||४||
ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः |
परस्परस्य सुहृदः संमताः समचेतसः ||५||
निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः |
विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ||६||
त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम् |
अहार्षुश्च वनं यान्तः समूलं हृदयं मम ||७||
अतदर्हा महात्मानः कथं केशव पाण्डवाः |
ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ||८||
बाला विहीनाः पित्रा ते मया सततलालिताः |
अपश्यन्तः स्वपितरौ कथमूषुर्महावने ||९||
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि |
पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ||१०||
ये स्म वारणशब्देन हयानां हेषितेन च |
रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे ||११||
शङ्खभेरीनिनादेन वेणुवीणानुनादिना |
पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ||१२||
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः |
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ||१३||
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः |
प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः ||१४||
ते नूनं निनदं श्रुत्वा श्वापदानां महावने |
न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन ||१५||
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः |
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ||१६||
बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् |
महावने व्यबोध्यन्त श्वापदानां रुतेन ते ||१७||
ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता |
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ||१८||
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च |
भरतस्य दिलीपस्य शिबेरौशीनरस्य च ||१९||
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् |
शीलवृत्तोपसम्पन्नो धर्मज्ञः सत्यसङ्गरः ||२०||
राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् |
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ||२१||
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः |
प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ||२२||
यः स नागायुतप्राणो वातरंहा वृकोदरः |
अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियङ्करः ||२३||
कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन |
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ||२४||
पराक्रमे शक्रसमो वायुवेगसमो जवे |
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ||२५||
क्रोधं बलममर्षं च यो निधाय परन्तपः |
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ||२६||
तेजोराशिं महात्मानं बलौघममितौजसम् |
भीमं प्रदर्शनेनापि भीमसेनं जनार्दन ||२७||
तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ||२७||
आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत |
अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा ||२८||
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ||२८||
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः |
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ||२९||
तेजसादित्यसदृशो महर्षिप्रतिमो दमे |
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ||३०||
आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन |
आहृतं येन वीर्येण कुरूणां सर्वराजसु ||३१||
यस्य बाहुबलं घोरं कौरवाः पर्युपासते |
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ||३२||
योऽपाश्रयः पाण्डवानां देवानामिव वासवः |
स ते भ्राता सखा चैव कथमद्य धनञ्जयः ||३३||
दयावान्सर्वभूतेषु ह्रीनिषेधो महास्त्रवित् |
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे ||३४||
सहदेवो महेष्वासः शूरः समितिशोभनः |
भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ||३५||
सदैव सहदेवस्य भ्रातरो मधुसूदन |
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ||३६||
ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम् |
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ||३७||
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः |
भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः ||३८||
चित्रयोधी च नकुलो महेष्वासो महाबलः |
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ||३९||
सुखोचितमदुःखार्हं सुकुमारं महारथम् |
अपि जातु महाबाहो पश्येयं नकुलं पुनः ||४०||
पक्ष्मसम्पातजे काले नकुलेन विनाकृता |
न लभामि सुखं वीर साद्य जीवामि पश्य माम् ||४१||
सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन |
कुलीना शीलसम्पन्ना सर्वैः समुदिता गुणैः ||४२||
पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी |
प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत ||४३||
महाभिजनसम्पन्ना सर्वकामैः सुपूजिता |
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ||४४||
पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः |
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ||४५||
चतुर्दशमिमं वर्षं यन्नापश्यमरिंदम |
पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ||४६||
न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् |
द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् ||४७||
न प्रियो मम कृष्णाय बीभत्सुर्न युधिष्ठिरः |
भीमसेनो यमौ वापि यदपश्यं सभागताम् ||४८||
न मे दुःखतरं किञ्चिद्भूतपूर्वं ततोऽधिकम् |
यद्द्रौपदीं निवातस्थां श्वशुराणां समीपगाम् ||४९||
आनायितामनार्येण क्रोधलोभानुवर्तिना |
सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ||५०||
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः |
कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा ||५१||
तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम् |
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ||५२||
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः |
क्षत्तुः शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति ||५३||
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् |
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् ||५४||
पूर्वैराचरितं यत्तत्कुराजभिररिंदम |
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ||५५||
तन्मां दहति यत्कृष्णा सभायां कुरुसंनिधौ |
धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा ||५६||
निर्वासनं च नगरात्प्रव्रज्या च परन्तप |
नानाविधानां दुःखानामावासोऽस्मि जनार्दन ||५७||
अज्ञातचर्या बालानामवरोधश्च केशव ||५७||
न स्म क्लेशतमं मे स्यात्पुत्रैः सह परन्तप |
दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् ||५८||
दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः |
न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः ||५९||
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् |
अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह ||६०||
नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम् ||६०||
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् |
येनाहं कुन्तिभोजाय धनं धूर्तैरिवार्पिता ||६१||
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तकाम् |
अददात्कुन्तिभोजाय सखा सख्ये महात्मने ||६२||
साहं पित्रा च निकृता श्वशुरैश्च परन्तप |
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ||६३||
यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः |
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ||६४||
हत्वा कुरून्ग्रामजन्ये राज्यं प्राप्य धनञ्जयः |
भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ||६५||
नाहं तामभ्यसूयामि नमो धर्माय वेधसे |
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ||६६||
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति |
त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि ||६७||
न मां माधव वैधव्यं नार्थनाशो न वैरिता |
तथा शोकाय भवति यथा पुत्रैर्विनाभवः ||६८||
याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् |
धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे ||६९||
इदं चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् |
धनञ्जयं च गोविन्द यमौ तं च वृकोदरम् ||७०||
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः |
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन ||७१||
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् |
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ||७२||
पराश्रया वासुदेव या जीवामि धिगस्तु माम् |
वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी ||७३||
अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम् |
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ||७४||
अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति |
लोकसम्भाविताः सन्तः सुनृशंसं करिष्यथ ||७५||
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः |
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम् ||७६||
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा |
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ||७७||
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः |
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ||७८||
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् |
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर ||७९||
विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ |
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ||८०||
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता |
दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् ||८१||
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् |
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् ||८२||
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः |
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति ||८३||
यावदन्तं न नयति शात्रवाञ्शत्रुकर्शनः ||८३||
न दुःखं राज्यहरणं न च द्यूते पराजयः |
प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम् ||८४||
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता |
अशृणोत्परुषा वाचस्ततो दुःखतरं नु किम् ||८५||
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा |
नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती ||८६||
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन |
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ||८७||
साहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम |
भीमे जीवति दुर्धर्षे विजये चापलायिनि ||८८||
तत आश्वासयामास पुत्राधिभिरभिप्लुताम् |
पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ||८९||
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः |
शूरस्य राज्ञो दुहिता आजमीढकुलं गता ||९०||
महाकुलीना भवती ह्रदाद्ध्रदमिवागता |
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ||९१||
वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः |
सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ||९२||
निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ |
एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः ||९३||
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः |
न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ||९४||
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः |
उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् ||९५||
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे |
अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ||९६||
अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया |
आत्मानं च कुशलिनं निवेद्याहुरनामयम् ||९७||
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् |
ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ||९८||
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् |
पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ||९९||
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन |
यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा ||१००||
अविलोपेन धर्मस्य अनिकृत्या परन्तप |
प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च ||१०१||
व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा |
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ||१०२||
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् |
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ||१०३||
तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् |
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति ||१०४||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
089-अध्यायः
वैशम्पायन उवाच||
पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम् |
दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः ||१||
लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम् |
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ||२||
ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् |
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ||३||
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् |
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने ||४||
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् |
दुर्योधनसमीपे तानासनस्थान्ददर्श सः ||५||
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः |
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् ||६||
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः |
राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः ||७||
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् |
विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ||८||
तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने |
निवेदयामास तदा गृहान्राज्यं च कौरवः ||९||
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् |
उपासां चक्रिरे सर्वे कुरवो राजभिः सह ||१०||
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् |
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ||११||
ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि |
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः ||१२||
कस्मादन्नानि पानानि वासांसि शयनानि च |
त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन ||१३||
उभयोश्चाददः साह्यमुभयोश्च हिते रतः |
सम्बन्धी दयितश्चासि धृतराष्ट्रस्य माधव ||१४||
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः |
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ||१५||
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः |
ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम् ||१६||
अनम्बूकृतमग्रस्तमनिरस्तमसङ्कुलम् |
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ||१७||
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि |
कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत ||१८||
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् |
न युक्तं भवतास्मासु प्रतिपत्तुमसाम्प्रतम् ||१९||
कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन |
यतामहे पूजयितुं गोविन्द न च शक्नुमः ||२०||
न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन |
पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम ||२१||
वैरं नो नास्ति भवता गोविन्द न च विग्रहः |
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ||२२||
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः |
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ||२३||
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् |
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथञ्चन ||२४||
सम्प्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः |
न च सम्प्रीयसे राजन्न चाप्यापद्गता वयम् ||२५||
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् |
प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ||२६||
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते |
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ||२७||
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु |
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ||२८||
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते |
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ||२९||
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते |
सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम् ||३०||
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि |
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ||३१||
सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम् |
क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ||३२||
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् |
निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ||३३||
निर्याय च महाबाहुर्वासुदेवो महामनाः |
निवेशाय ययौ वेश्म विदुरस्य महात्मनः ||३४||
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः |
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ||३५||
तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम् |
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ||३६||
तानुवाच महातेजाः कौरवान्मधुसूदनः |
सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता ||३७||
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् |
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ||३८||
ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च |
उपाहरदनेकानि केशवाय महात्मने ||३९||
तैर्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः |
वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि ||४०||
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः |
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ||४१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
090-अध्यायः
वैशम्पायन उवाच||
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् |
नेदं सम्यग्व्यवसितं केशवागमनं तव ||१||
अर्थधर्मातिगो मूढः संरम्भी च जनार्दन |
मानघ्नो मानकामश्च वृद्धानां शासनातिगः ||२||
धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः |
अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन ||३||
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः |
अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः ||४||
एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः |
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ||५||
सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन |
कृतार्थं मन्यते बाल आत्मानमविचक्षणः ||६||
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् |
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ||७||
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे |
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ||८||
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन |
भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् ||९||
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव |
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ||१०||
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् |
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ||११||
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन |
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ||१२||
अविजानत्सु मूढेषु निर्मर्यादेषु माधव |
न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा ||१३||
सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः |
तस्मिन्निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव ||१४||
तेषां समुपविष्टानां सर्वेषां पापचेतसाम् |
तव मध्यावतरणं मम कृष्ण न रोचते ||१५||
दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम् |
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ||१६||
अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः |
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ||१७||
बलं बलवदप्यस्य यदि वक्ष्यसि माधव |
त्वय्यस्य महती शङ्का न करिष्यति ते वचः ||१८||
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः |
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ||१९||
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु |
समर्थमपि ते वाक्यमसमर्थं भविष्यति ||२०||
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो; रथाश्वयुक्तस्य बलस्य मूढः |
दुर्योधनो मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति ||२१||
आशंसते धृतराष्ट्रस्य पुत्रो; महाराज्यमसपत्नं पृथिव्याम् |
तस्मिञ्शमः केवलो नोपलभ्यो; बद्धं सन्तमागतं मन्यतेऽर्थम् ||२२||
पर्यस्तेयं पृथिवी कालपक्वा; दुर्योधनार्थे पाण्डवान्योद्धुकामाः |
समागताः सर्वयोधाः पृथिव्यां; राजानश्च क्षितिपालैः समेताः ||२३||
सर्वे चैते कृतवैराः पुरस्ता; त्त्वया राजानो हृतसाराश्च कृष्ण |
तवोद्वेगात्संश्रिता धार्तराष्ट्रा; न्सुसंहताः सह कर्णेन वीराः ||२४||
त्यक्तात्मानः सह दुर्योधनेन; सृष्टा योद्धुं पाण्डवान्सर्वयोधाः |
तेषां मध्ये प्रविशेथा यदि त्वं; न तन्मतं मम दाशार्ह वीर ||२५||
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् |
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ||२६||
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः |
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ||२७||
या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव |
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ||२८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
091-अध्यायः
भगवानुवाच||
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः |
यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् ||१||
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते |
तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत् ||२||
सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम् |
शृणुष्वागमने हेतुं विदुरावहितो भव ||३||
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् |
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् ||४||
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् |
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ||५||
धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः |
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ||६||
मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन् |
न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः ||७||
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया |
कुरूणां सृञ्जयानां च सङ्ग्रामे विनशिष्यताम् ||८||
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता |
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ||९||
व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते |
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ||१०||
आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन् |
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ||११||
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् |
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ||१२||
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च |
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ||१३||
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि |
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ||१४||
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते |
सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः ||१५||
न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा |
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ||१६||
उभयोः साधयन्नर्थमहमागत इत्युत |
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ||१७||
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् |
न चेदादास्यते बालो दिष्टस्य वशमेष्यति ||१८||
अहापयन्पाण्डवार्थं यथाव; च्छमं कुरूणां यदि चाचरेयम् |
पुण्यं च मे स्याच्चरितं महार्थं; मुच्येरंश्च कुरवो मृत्युपाशात् ||१९||
अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम् |
अवेक्षेरन्धार्तराष्ट्राः समर्थां; मां च प्राप्तं कुरवः पूजयेयुः ||२०||
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः |
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ||२१||
वैशम्पायन उवाच||
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा |
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ||२२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
092-अध्यायः
वैशम्पायन उवाच||
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा |
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी ||१||
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः |
शृण्वतो विविधा वाचो विदुरस्य महात्मनः ||२||
कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः |
अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी ||३||
ततस्तु स्वरसम्पन्ना बहवः सूतमागधाः |
शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् ||४||
तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् |
सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः ||५||
कृतोदकार्यजप्यः स हुताग्निः समलङ्कृतः |
तत आदित्यमुद्यन्तमुपातिष्ठत माधवः ||६||
अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः |
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ||७||
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् |
कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ||८||
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः |
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ||९||
ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः |
ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परन्तपः ||१०||
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् |
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ||११||
तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः |
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ||१२||
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः |
कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन् ||१३||
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः |
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ||१४||
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् |
सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् ||१५||
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः |
द्वितीयेन रथेनैनमन्वयातां परन्तपम् ||१६||
सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः |
पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि ||१७||
तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः |
गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः ||१८||
संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् |
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ||१९||
ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः |
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ||२०||
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः |
परिवार्य रथं शौरेरगच्छन्त परन्तपाः ||२१||
ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः |
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः ||२२||
गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः |
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ||२३||
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् |
सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम् ||२४||
वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः |
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ||२५||
सम्पूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः |
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ||२६||
ततः सभां समासाद्य केशवस्यानुयायिनः |
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ||२७||
ततः सा समितिः सर्वा राज्ञाममिततेजसाम् |
सम्प्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ||२८||
ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः |
श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् ||२९||
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् |
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ||३०||
नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा |
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ||३१||
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः |
ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादयञ्श्रिया ||३२||
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ |
वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः ||३३||
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः |
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ||३४||
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः |
सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः ||३५||
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे |
तानि राजसहस्राणि समुत्तस्थुः समन्ततः ||३६||
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् |
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ||३७||
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः |
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ||३८||
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् |
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ||३९||
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः |
अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः ||४०||
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् |
अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः ||४१||
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप |
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा ||४२||
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् |
पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् ||४३||
ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् |
त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ||४४||
आसनान्यथ मृष्टानि महान्ति विपुलानि च |
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः ||४५||
तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत |
निषसादासने कृष्णो राजानश्च यथासनम् ||४६||
दुःशासनः सात्यकये ददावासनमुत्तमम् |
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे ||४७||
अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ |
एकासने महात्मानौ निषीदतुरमर्षणौ ||४८||
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः |
निषसादासने राजा सहपुत्रो विशां पते ||४९||
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे |
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् ||५०||
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः |
अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् ||५१||
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः |
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ||५२||
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् |
न तत्र कश्चित्किञ्चिद्धि व्याजहार पुमान्क्वचित् ||५३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
093-अध्यायः
वैशम्पायन उवाच||
तेष्वासीनेषु सर्वेषु तूष्णीम्भूतेषु राजसु |
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ||१||
जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम् |
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ||२||
कुरूणां पाण्डवानां च शमः स्यादिति भारत |
अप्रयत्नेन वीराणामेतद्यतितुमागतः ||३||
राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः |
विदितं ह्येव ते सर्वं वेदितव्यमरिंदम ||४||
इदमद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव |
श्रुतवृत्तोपसम्पन्नं सर्वैः समुदितं गुणैः ||५||
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत |
तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ||६||
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति |
त्वन्निमित्तं विशेषेण नेह युक्तमसाम्प्रतम् ||७||
त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम |
मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ||८||
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः |
धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ||९||
अशिष्टा गतमर्यादा लोभेन हृतचेतसः |
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ ||१०||
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता |
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ||११||
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत |
न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ||१२||
त्वय्यधीनः शमो राजन्मयि चैव विशां पते |
पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ||१३||
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः |
हितं बलवदप्येषां तिष्ठतां तव शासने ||१४||
तव चैव हितं राजन्पाण्डवानामथो हितम् |
शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम् ||१५||
स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते |
सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर ||१६||
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः |
न हि शक्यास्तथाभूता यत्नादपि नराधिप ||१७||
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः |
इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः ||१८||
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः |
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ||१९||
सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः |
युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ||२०||
सात्यकिश्च महातेजा युयुत्सुश्च महारथः |
को नु तान्विपरीतात्मा युध्येत भरतर्षभ ||२१||
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम् |
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ||२२||
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते |
श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ||२३||
स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा |
सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् ||२४||
एतानेव पुरोधाय सत्कृत्य च यथा पुरा |
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ||२५||
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत |
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ||२६||
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप |
यदि सम्पत्स्यसे पुत्रैः सहामात्यैर्नराधिप ||२७||
संयुगे वै महाराज दृश्यते सुमहान्क्षयः |
क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ||२८||
पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः |
यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ||२९||
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः |
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ||३०||
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे |
क्षीणानुभयतः शूरान्रथेभ्यो रथिभिर्हतान् ||३१||
समवेताः पृथिव्यां हि राजानो राजसत्तम |
अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ||३२||
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः |
त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन ||३३||
शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः |
अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ||३४||
शिवेनेमे भूमिपालाः समागम्य परस्परम् |
सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ||३५||
सुवाससः स्रग्विणश्च सत्कृत्य भरतर्षभ |
अमर्षांश्च निराकृत्य वैराणि च परन्तप ||३६||
हार्दं यत्पाण्डवेष्वासीत्प्राप्तेऽस्मिन्नायुषः क्षये |
तदेव ते भवत्वद्य शश्वच्च भरतर्षभ ||३७||
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः |
तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ||३८||
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः |
मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ||३९||
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च |
भवतः शासनाद्दुःखमनुभूतं सहानुगैः ||४०||
द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः |
त्रयोदशं तथाज्ञातैः सजने परिवत्सरम् ||४१||
स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः |
नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ||४२||
तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ |
नित्यं सङ्क्लेशिता राजन्स्वराज्यांशं लभेमहि ||४३||
त्वं धर्ममर्थं युञ्जानः सम्यङ्नस्त्रातुमर्हसि |
गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे ||४४||
स भवान्मातृपितृवदस्मासु प्रतिपद्यताम् |
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ||४५||
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः |
संस्थापय पथिष्वस्मांस्तिष्ठ राजन्स्ववर्त्मनि ||४६||
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ |
धर्मज्ञेषु सभासत्सु नेह युक्तमसाम्प्रतम् ||४७||
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च |
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ||४८||
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते |
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ||४९||
धर्म एतानारुजति यथा नद्यनुकूलजान् ||४९||
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते |
ते सत्यमाहुर्धर्मं च न्याय्यं च भरतर्षभ ||५०||
शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर |
ब्रुवन्तु वा महीपालाः सभायां ये समासते ||५१||
धर्मार्थौ सम्प्रधार्यैव यदि सत्यं ब्रवीम्यहम् ||५१||
प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्क्षत्रियर्षभ |
प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ||५२||
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् |
ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परन्तप ||५३||
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा |
सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ||५४||
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः |
इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ||५५||
स तत्र निवसन्सर्वान्वशमानीय पार्थिवान् |
त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ||५६||
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता |
राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ||५७||
स तामवस्थां सम्प्राप्य कृष्णां प्रेक्ष्य सभागताम् |
क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः ||५८||
अहं तु तव तेषां च श्रेय इच्छामि भारत |
धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ||५९||
अनर्थमर्थं मन्वाना अर्थं वानर्थमात्मनः |
लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशां पते ||६०||
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः |
यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परन्तप ||६१||
तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् |
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ||६२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
094-अध्यायः
वैशम्पायन उवाच||
तस्मिन्नभिहिते वाक्ये केशवेन महात्मना |
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ||१||
कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान् |
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ||२||
तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु |
जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ||३||
इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः |
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ||४||
राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत् |
अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ||५||
स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् |
ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः ||६||
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि |
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् ||७||
इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् |
दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन् ||८||
तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः |
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ||९||
प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् |
अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा ||१०||
तपस्विनो महात्मानो वेदव्रतसमन्विताः |
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ||११||
अनेकजननं सख्यं ययोः पुरुषसिंहयोः |
तयोस्त्वं न समो राजन्भवितासि कदाचन ||१२||
एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् |
क्व तौ वीरौ क्वजन्मानौ किङ्कर्माणौ च कौ च तौ ||१३||
ब्राह्मणा ऊचुः||
नरो नारायणश्चैव तापसाविति नः श्रुतम् |
आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव ||१४||
श्रूयते तौ महात्मानौ नरनारायणावुभौ |
तपो घोरमनिर्देश्यं तप्येते गन्धमादने ||१५||
राम उवाच||
स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् |
अमृष्यमाणः सम्प्रायाद्यत्र तावपराजितौ ||१६||
स गत्वा विषमं घोरं पर्वतं गन्धमादनम् |
मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ ||१७||
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ |
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ ||१८||
अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम् ||१८||
तमर्चित्वा मूलफलैरासनेनोदकेन च |
न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति ||१९||
दम्भोद्भव उवाच||
बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः |
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् ||२०||
आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति ||२०||
नरनारायणावूचतुः||
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम |
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः ||२१||
अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ ||२१||
राम उवाच||
उच्यमानस्तथापि स्म भूय एवाभ्यभाषत |
पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत ||२२||
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ||२२||
ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव |
अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय ||२३||
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् |
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् ||२४||
दम्भोद्भव उवाच||
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे |
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ||२५||
राम उवाच||
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् |
दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः ||२६||
तस्य तानस्यतो घोरानिषून्परतनुच्छिदः |
कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत् ||२७||
ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः |
अस्त्रमप्रतिसन्धेयं तदद्भुतमिवाभवत् ||२८||
तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया |
निमित्तवेधी स मुनिरिषीकाभिः समर्पयत् ||२९||
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् |
पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् ||३०||
तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् |
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ||३१||
मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन |
अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् ||३२||
कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान् |
दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव ||३३||
अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः |
कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ||३४||
ततो राजा तयोः पादावभिवाद्य महात्मनोः |
प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम् ||३५||
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा |
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ||३६||
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते |
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम् ||३७||
काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा |
सन्तानं नर्तनं घोरमास्यमोदकमष्टमम् ||३८||
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः |
उन्मत्ताश्च विचेष्टन्ते नष्टसञ्ज्ञा विचेतसः ||३९||
स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः |
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च ||४०||
असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः |
त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम् ||४१||
नरनारायणौ यौ तौ तावेवार्जुनकेशवौ |
विजानीहि महाराज प्रवीरौ पुरुषर्षभौ ||४२||
यद्येतदेवं जानासि न च मामतिशङ्कसे |
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ||४३||
अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति |
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ||४४||
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि |
तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय ||४५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
095-अध्यायः
वैशम्पायन उवाच||
जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः |
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ||१||
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः |
तथैव भगवन्तौ तौ नरनारायणावृषी ||२||
आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः |
अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ||३||
निमित्तमरणास्त्वन्ये चन्द्रसूर्यौ मही जलम् |
वायुरग्निस्तथाकाशं ग्रहास्तारागणास्तथा ||४||
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा |
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ||५||
मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः |
तिर्यग्योन्यश्च ये चान्ये जीवलोकचराः स्मृताः ||६||
भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये |
मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम् ||७||
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हति |
पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धराम् ||८||
बलवानहमित्येव न मन्तव्यं सुयोधन |
बलवन्तो हि बलिभिर्दृश्यन्ते पुरुषर्षभ ||९||
न बलं बलिनां मध्ये बलं भवति कौरव |
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः ||१०||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ||११||
मतस्त्रैलोक्यराजस्य मातलिर्नाम सारथिः |
तस्यैकैव कुले कन्या रूपतो लोकविश्रुता ||१२||
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी |
श्रिया च वपुषा चैव स्त्रियोऽन्याः सातिरिच्यते ||१३||
तस्याः प्रदानसमयं मातलिः सह भार्यया |
ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ||१४||
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् |
नराणामृद्धसत्त्वानां कुले कन्याप्ररोहणम् ||१५||
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते |
कुलत्रयं संशयितं कुरुते कन्यका सताम् ||१६||
देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा |
अवगाह्यैव विचितौ न च मे रोचते वरः ||१७||
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् |
अरोचयं वरकृते तथैव बहुलानृषीन् ||१८||
भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया |
मातलिर्नागलोकाय चकार गमने मतिम् ||१९||
न मे देवमनुष्येषु गुणकेश्याः समो वरः |
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ||२०||
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम् |
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ||२१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
096-अध्यायः
कण्व उवाच||
मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा |
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ||१||
नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः |
स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः ||२||
मातलिर्नारदेनैवं सम्पृष्टः पथि गच्छता |
यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति ||३||
तमुवाचाथ स मुनिर्गच्छावः सहिताविति |
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ||४||
अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम् |
दृष्ट्वा तत्र वरं कञ्चिद्रोचयिष्याव मातले ||५||
अवगाह्य ततो भूमिमुभौ मातलिनारदौ |
ददृशाते महात्मानौ लोकपालमपां पतिम् ||६||
तत्र देवर्षिसदृशीं पूजां प्राप स नारदः |
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ||७||
तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह |
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ||८||
नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् |
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ||९||
नारद उवाच||
दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः |
पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ||१०||
एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः |
एष तं शीलवृत्तेन शौचेन च विशिष्यते ||११||
एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः |
रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः ||१२||
ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् |
आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः ||१३||
भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम् |
यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ||१४||
एतानि हृतराज्यानां दैतेयानां स्म मातले |
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ||१५||
अक्षयाणि किलैतानि विवर्तन्ते स्म मातले |
अनुभावप्रयुक्तानि सुरैरवजितानि ह ||१६||
अत्र राक्षसजात्यश्च भूतजात्यश्च मातले |
दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ||१७||
अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे |
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ||१८||
एष गाण्डीमयश्चापो लोकसंहारसम्भृतः |
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ||१९||
एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् |
सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवम् ||२०||
अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु |
सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना ||२१||
एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम् |
पुत्राः सलिलराजस्य धारयन्ति महोदयम् ||२२||
एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् |
सर्वतः सलिलं शीतं जीमूत इव वर्षति ||२३||
एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् |
तमसा मूर्छितं याति येन नार्छति दर्शनम् ||२४||
बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले |
तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम् ||२५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
097-अध्यायः
नारद उवाच||
एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् |
पातालमिति विख्यातं दैत्यदानवसेवितम् ||१||
इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः |
प्रविशन्तो महानादं नदन्ति भयपीडिताः ||२||
अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः |
व्यापारेण धृतात्मानं निबद्धं समबुध्यत ||३||
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः |
अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ||४||
अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि |
उत्तिष्ठति सुवर्णाभं वार्भिरापूरयञ्जगत् ||५||
यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तयः |
तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमम् ||६||
ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः |
मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ||७||
अत्र नानाविधाकारास्तिमयो नैकरूपिणः |
अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ||८||
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः |
मृता दिवसतः सूत पुनर्जीवन्ति ते निशि ||९||
उदये नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः |
अमृतं स्पृश्य संस्पर्शात्सञ्जीवयति देहिनः ||१०||
अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः |
दैतेया निवसन्ति स्म वासवेन हृतश्रियः ||११||
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः |
भूतये सर्वभूतानामचरत्तप उत्तमम् ||१२||
अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः |
त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ||१३||
यत्रतत्रशयो नित्यं येनकेनचिदाशितः |
येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते ||१४||
ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः |
प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ||१५||
पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः |
वरयिष्याव तं गत्वा यत्नमास्थाय मातले ||१६||
अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया |
आ प्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति ||१७||
नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै |
पितरं मातरं वापि नास्य जानाति कश्चन ||१८||
अतः किल महानग्निरन्तकाले समुत्थितः |
धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ||१९||
कण्व उवाच||
मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् |
न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ||२०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
098-अध्यायः
नारद उवाच||
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् |
दैत्यानां दानवानां च मायाशतविचारिणाम् ||१||
अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा |
मयेन मनसा सृष्टं पातालतलमाश्रितम् ||२||
अत्र मायासहस्राणि विकुर्वाणा महौजसः |
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा ||३||
नैते शक्रेण नान्येन वरुणेन यमेन वा |
शक्यन्ते वशमानेतुं तथैव धनदेन च ||४||
असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः |
नैरृता यातुधानाश्च ब्रह्मवेदोद्भवाश्च ये ||५||
दंष्ट्रिणो भीमरूपाश्च निवसन्त्यात्मरक्षिणः |
मायावीर्योपसम्पन्ना निवसन्त्यात्मरक्षिणः ||६||
निवातकवचा नाम दानवा युद्धदुर्मदाः |
जानासि च यथा शक्रो नैताञ्शक्नोति बाधितुम् ||७||
बहुशो मातले त्वं च तव पुत्रश्च गोमुखः |
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ||८||
पश्य वेश्मानि रौक्माणि मातले राजतानि च |
कर्मणा विधियुक्तेन युक्तान्युपगतानि च ||९||
वैडूर्यहरितानीव प्रवालरुचिराणि च |
अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च ||१०||
पार्थिवानीव चाभान्ति पुनर्नगमयानि च |
शैलानीव च दृश्यन्ते तारकाणीव चाप्युत ||११||
सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च |
मणिजालविचित्राणि प्रांशूनि निबिडानि च ||१२||
नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा |
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ||१३||
आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत |
रत्नवन्ति महार्हाणि भाजनान्यासनानि च ||१४||
जलदाभांस्तथा शैलांस्तोयप्रस्रवणान्वितान् |
कामपुष्पफलांश्चैव पादपान्कामचारिणः ||१५||
मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् |
अथ वान्यां दिशं भूमेर्गच्छाव यदि मन्यसे ||१६||
कण्व उवाच||
मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् |
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् ||१७||
नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः |
अरिपक्षेण सम्बन्धं रोचयिष्याम्यहं कथम् ||१८||
अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान् |
जानामि तु तथात्मानं दित्सात्मकमलं यथा ||१९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
099-अध्यायः
नारद उवाच||
अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् |
विक्रमे गमने भारे नैषामस्ति परिश्रमः ||१||
वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् |
सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा ||२||
सुरूपपक्षिराजेन सुबलेन च मातले |
वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः ||३||
पक्षिराजाभिजात्यानां सहस्राणि शतानि च |
कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः ||४||
सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः |
सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत ||५||
कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः |
ज्ञातिसङ्क्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै ||६||
नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु |
मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् ||७||
दैवतं विष्णुरेतेषां विष्णुरेव परायणम् |
हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा ||८||
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः |
अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली ||९||
काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः |
वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा ||१०||
त्रिवारः सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा |
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः ||११||
सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः |
मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः ||१२||
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः |
विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा ||१३||
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च |
मलयो मातरिश्वा च निशाकरदिवाकरौ ||१४||
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः |
प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते ||१५||
यद्यत्र न रुचिः काचिदेहि गच्छाव मातले |
तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे ||१६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
100-अध्यायः
नारद उवाच||
इदं रसातलं नाम सप्तमं पृथिवीतलम् |
यत्रास्ते सुरभिर्माता गवाममृतसम्भवा ||१||
क्षरन्ती सततं क्षीरं पृथिवीसारसम्भवम् |
षण्णां रसानां सारेण रसमेकमनुत्तमम् ||२||
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा |
पितामहस्य वदनादुदतिष्ठदनिन्दिता ||३||
यस्याः क्षीरस्य धाराया निपतन्त्या महीतले |
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् ||४||
पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम् |
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ||५||
फेनपा नाम नाम्ना ते फेनाहाराश्च मातले |
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ||६||
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले |
निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः ||७||
पूर्वां दिशं धारयते सुरूपा नाम सौरभी |
दक्षिणां हंसका नाम धारयत्यपरां दिशम् ||८||
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया |
महानुभावया नित्यं मातले विश्वरूपया ||९||
सर्वकामदुघा नाम धेनुर्धारयते दिशम् |
उत्तरां मातले धर्म्यां तथैलविलसञ्ज्ञिताम् ||१०||
आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे |
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ||११||
उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले |
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ||१२||
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् |
अमृतं चामृताशेषु सुरभिः क्षरते पयः ||१३||
अत्र गाथा पुरा गीता रसातलनिवासिभिः |
पौराणी श्रूयते लोके गीयते या मनीषिभिः ||१४||
न नागलोके न स्वर्गे न विमाने त्रिविष्टपे |
परिवासः सुखस्तादृग्रसातलतले यथा ||१५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
101-अध्यायः
नारद उवाच||
इयं भोगवती नाम पुरी वासुकिपालिता |
यादृशी देवराजस्य पुरीवर्यामरावती ||१||
एष शेषः स्थितो नागो येनेयं धार्यते सदा |
तपसा लोकमुख्येन प्रभावमहता मही ||२||
श्वेतोच्चयनिभाकारो नानाविधविभूषणः |
सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः ||३||
इह नानाविधाकारा नानाविधविभूषणाः |
सुरसायाः सुता नागा निवसन्ति गतव्यथाः ||४||
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः |
सहस्रसङ्ख्या बलिनः सर्वे रौद्राः स्वभावतः ||५||
सहस्रशिरसः केचित्केचित्पञ्चशताननाः |
शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च ||६||
द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा |
महाभोगा महाकायाः पर्वताभोगभोगिनः ||७||
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च |
नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु ||८||
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ |
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ||९||
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः |
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ||१०||
आर्यको नन्दकश्चैव तथा कलशपोतकौ |
कैलासकः पिञ्जरको नागश्चैरावतस्तथा ||११||
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ |
आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा ||१२||
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः |
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ||१३||
करवीरः पीठरकः संवृत्तो वृत्त एव च |
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ||१४||
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः |
कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा ||१५||
विरजा धारणश्चैव सुबाहुर्मुखरो जयः |
बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा ||१६||
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः |
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ||१७||
कण्व उवाच||
मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै |
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ||१८||
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च |
द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः ||१९||
कः पिता जननी चास्य कतमस्यैष भोगिनः |
वंशस्य कस्यैष महान्केतुभूत इव स्थितः ||२०||
प्रणिधानेन धैर्येण रूपेण वयसा च मे |
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ||२१||
मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात् |
निवेदयामास तदा माहात्म्यं जन्म कर्म च ||२२||
ऐरावतकुले जातः सुमुखो नाम नागराट् |
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ||२३||
एतस्य हि पिता नागश्चिकुरो नाम मातले |
नचिराद्वैनतेयेन पञ्चत्वमुपपादितः ||२४||
ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः |
एष मे रुचितस्तात जामाता भुजगोत्तमः ||२५||
क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै |
अस्य नागपतेर्दातुं प्रियां दुहितरं मुने ||२६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
102-अध्यायः
नारद उवाच||
सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् |
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ||१||
शक्रस्यायं सखा चैव मन्त्री सारथिरेव च |
अल्पान्तरप्रभावश्च वासवेन रणे रणे ||२||
अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् |
देवासुरेषु युद्धेषु मनसैव नियच्छति ||३||
अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः |
अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत ||४||
अस्य कन्या वरारोहा रूपेणासदृशी भुवि |
सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता ||५||
तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते |
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ||६||
यदि ते रोचते सौम्य भुजगोत्तम माचिरम् |
क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे ||७||
यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः |
कुले तव तथैवास्तु गुणकेशी सुमध्यमा ||८||
पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु |
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ||९||
पितृहीनमपि ह्येनं गुणतो वरयामहे |
बहुमानाच्च भवतस्तथैवैरावतस्य च ||१०||
सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ||१०||
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः |
मातलेस्तस्य संमानं कर्तुमर्हो भवानपि ||११||
कण्व उवाच||
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः |
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ||१२||
न मे नैतद्बहुमतं देवर्षे वचनं तव |
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् ||१३||
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने |
अस्य देहकरस्तात मम पुत्रो महाद्युते ||१४||
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ||१४||
पुनरेव च तेनोक्तं वैनतेयेन गच्छता |
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ||१५||
ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् |
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ||१६||
मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया |
जामातृभावेन वृतः सुमुखस्तव पुत्रजः ||१७||
सोऽयं मया च सहितो नारदेन च पन्नगः |
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ||१८||
शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः |
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ||१९||
सुमुखश्च मया सार्धं देवेशमभिगच्छतु |
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ||२०||
ततस्ते सुमुखं गृह्य सर्व एव महौजसः |
ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ||२१||
सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः |
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ||२२||
ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम् |
अमृतं दीयतामस्मै क्रियताममरैः समः ||२३||
मातलिर्नारदश्चैव सुमुखश्चैव वासव |
लभन्तां भवतः कामात्काममेतं यथेप्सितम् ||२४||
पुरंदरोऽथ सञ्चिन्त्य वैनतेयपराक्रमम् |
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ||२५||
विष्णुरुवाच||
ईशस्त्वमसि लोकानां चराणामचराश्च ये |
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ||२६||
कण्व उवाच||
प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् |
न त्वेनममृतप्राशं चकार बलवृत्रहा ||२७||
लब्ध्वा वरं तु सुमुखः सुमुखः सम्बभूव ह |
कृतदारो यथाकामं जगाम च गृहान्प्रति ||२८||
नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ |
प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ||२९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
103-अध्यायः
कण्व उवाच||
गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः |
आयुःप्रदानं शक्रेण कृतं नागस्य भारत ||१||
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः |
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ||२||
गरुड उवाच||
भगवन्किमवज्ञानात्क्षुधां प्रति भये मम |
कामकारवरं दत्त्वा पुनश्चलितवानसि ||३||
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे |
आहारो विहितो धात्रा किमर्थं वार्यते त्वया ||४||
वृतश्चैष महानागः स्थापितः समयश्च मे |
अनेन च मया देव भर्तव्यः प्रसवो महान् ||५||
एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे |
क्रीडसे कामकारेण देवराज यथेच्छकम् ||६||
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम |
ये च भृत्या मम गृहे प्रीतिमान्भव वासव ||७||
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् |
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ||८||
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम |
त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम् ||९||
ममापि दक्षस्य सुता जननी कश्यपः पिता |
अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा ||१०||
असह्यं सर्वभूतानां ममापि विपुलं बलम् |
मयापि सुमहत्कर्म कृतं दैतेयविग्रहे ||११||
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः |
प्रसभः कालकाक्षश्च मयापि दितिजा हताः ||१२||
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् |
वहामि चैवानुजं ते तेन मामवमन्यसे ||१३||
कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः |
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम् ||१४||
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः |
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ||१५||
अदित्यां य इमे जाता बलविक्रमशालिनः |
त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः ||१६||
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः |
विमृश त्वं शनैस्तात को न्वत्र बलवानिति ||१७||
कण्व उवाच||
तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम् |
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ||१८||
गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम् |
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ||१९||
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे |
अहमेवात्मनात्मानं वहामि त्वां च धारये ||२०||
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह |
यद्येनं धारयस्येकं सफलं ते विकत्थितम् ||२१||
ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत् |
निपपात स भारार्तो विह्वलो नष्टचेतनः ||२२||
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह |
एकस्या देहशाखायास्तावद्भारममन्यत ||२३||
न त्वेनं पीडयामास बलेन बलवत्तरः |
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ||२४||
विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः |
मुमोच पत्राणि तदा गुरुभारप्रपीडितः ||२५||
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः |
विचेता विह्वलो दीनः किञ्चिद्वचनमब्रवीत् ||२६||
भगवँल्लोकसारस्य सदृशेन वपुष्मता |
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ||२७||
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः |
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ||२८||
न विज्ञातं बलं देव मया ते परमं विभो |
तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः ||२९||
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः |
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ||३०||
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे |
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ||३१||
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः |
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ||३२||
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ |
एते देवास्त्वया केन हेतुना शक्यमीक्षितुम् ||३३||
तदलं ते विरोधेन शमं गच्छ नृपात्मज |
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ||३४||
प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः |
माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः ||३५||
वैशम्पायन उवाच||
दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः |
राधेयमभिसम्प्रेक्ष्य जहास स्वनवत्तदा ||३६||
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः |
ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ||३७||
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः |
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ||३८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
104-अध्यायः
गालवचरितम्
जनमेजय उवाच||
अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम् |
अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ||१||
ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् |
सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ||२||
कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः |
सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ||३||
वैशम्पायन उवाच||
उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् |
उक्तं बहुविधं चैव नारदेनापि तच्छृणु ||४||
नारद उवाच||
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् |
तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति ||५||
श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन |
न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ||६||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ||७||
विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा |
अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ||८||
सप्तर्षीणामन्यतमं वेषमास्थाय भारत |
बुभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य ह ||९||
विश्वामित्रोऽथ सम्भ्रान्तः श्रपयामास वै चरुम् |
परमान्नस्य यत्नेन न च स प्रत्यपालयत् ||१०||
अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः |
अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत् ||११||
भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ |
विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ||१२||
भक्तं प्रगृह्य मूर्ध्ना तद्बाहुभ्यां पार्श्वतोऽगमत् |
स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ||१३||
तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः |
गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ||१४||
अथ वर्षशते पूर्णे धर्मः पुनरुपागमत् |
वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ||१५||
स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा |
तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ||१६||
प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् |
भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ||१७||
क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः |
धर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत् ||१८||
विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः |
शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम् ||१९||
अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव ||१९||
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् |
प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ||२०||
दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि |
दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवम् ||२१||
दक्षिणानां हि सृष्टानामपवर्गेण भुज्यते |
स्वर्गे क्रतुफलं सद्भिर्दक्षिणा शान्तिरुच्यते ||२२||
किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ||२२||
जानमानस्तु भगवाञ्जितः शुश्रूषणेन च |
विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ||२३||
असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः |
किं ददानीति बहुशो गालवः प्रत्यभाषत ||२४||
निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः |
किञ्चिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ||२५||
एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे |
हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् ||२६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
105-अध्यायः
नारद उवाच||
एवमुक्तस्तदा तेन विश्वामित्रेण धीमता |
नास्ते न शेते नाहारं कुरुते गालवस्तदा ||१||
त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः |
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ||२||
कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कुतः |
हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ||३||
कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश्च मे |
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ||४||
अहं पारं समुद्रस्य पृथिव्या वा परं परात् |
गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे ||५||
अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः |
ऋणं धारयमाणस्य कुतः सुखमनीहया ||६||
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् |
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ||७||
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः |
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ||८||
न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः |
नानृतस्याधिपत्यं च कुत एव गतिः शुभा ||९||
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् |
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ||१०||
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् |
पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् ||११||
सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च |
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ||१२||
सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ||१२||
अर्थना न मया काचित्कृतपूर्वा दिवौकसाम् |
मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे ||१३||
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् |
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ||१४||
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् |
प्रयतो द्रष्टुमिच्छामि महायोगिनमव्ययम् ||१५||
एवमुक्ते सखा तस्य गरुडो विनतात्मजः |
दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ||१६||
सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् |
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ||१७||
विभवश्चास्ति मे विप्र वासवावरजो द्विज |
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ||१८||
स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् |
देशं पारं पृथिव्या वा गच्छ गालव माचिरम् ||१९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
106-अध्यायः
सुपर्ण उवाच||
अनुशिष्टोऽस्मि देवेन गालवाज्ञातयोनिना |
ब्रूहि कामनुसंयामि द्रष्टुं प्रथमतो दिशम् ||१||
पूर्वां वा दक्षिणां वाहमथ वा पश्चिमां दिशम् |
उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ||२||
यस्यामुदयते पूर्वं सर्वलोकप्रभावनः |
सविता यत्र सन्ध्यायां साध्यानां वर्तते तपः ||३||
यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत् |
चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ||४||
हुतं यतोमुखैर्हव्यं सर्पते सर्वतोदिशम् |
एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः ||५||
यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः |
यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसम्भवाः ||६||
यतोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत |
सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ||७||
एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते |
यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः ||८||
अत एव च पूर्वेषां पूर्वामाशामवेक्षताम् |
पूर्वकार्याणि कार्याणि दैवानि सुखमीप्सता ||९||
अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः |
अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु ||१०||
अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम |
अत्र लब्धवरैः सोमः सुरैः क्रतुषु पीयते ||११||
अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते |
अत्र पातालमाश्रित्य वरुणः श्रियमाप च ||१२||
अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ |
सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ||१३||
ओङ्कारस्यात्र जायन्ते सूतयो दशतीर्दश |
पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः ||१४||
प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने |
शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः ||१५||
अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये |
उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ||१६||
एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च |
एष पूर्वो दिशाभागो विशावैनं यदीच्छसि ||१७||
प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः |
ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
107-अध्यायः
सुपर्ण उवाच||
इयं विवस्वता पूर्वं श्रौतेन विधिना किल |
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक् ||१||
अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः |
अत्रोष्मपानां देवानां निवासः श्रूयते द्विज ||२||
अत्र विश्वे सदा देवाः पितृभिः सार्धमासते |
इज्यमानाः स्म लोकेषु सम्प्राप्तास्तुल्यभागताम् ||३||
एतद्द्वितीयं धर्मस्य द्वारमाचक्षते द्विज |
त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः ||४||
अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा |
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ||५||
अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते |
गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः ||६||
एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते |
वृता त्वनवबोधेन सुखं तेन न गम्यते ||७||
नैरृतानां सहस्राणि बहून्यत्र द्विजर्षभ |
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ||८||
अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च |
गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज ||९||
अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः |
गतदारो गतामात्यो गतराज्यो वनं गतः ||१०||
अत्र सावर्णिना चैव यवक्रीतात्मजेन च |
मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते ||११||
अत्र राक्षसराजेन पौलस्त्येन महात्मना |
रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता ||१२||
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान् |
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ||१३||
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव |
अत्र वैतरणी नाम नदी वितरणैर्वृता ||१४||
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते ||१४||
अत्रावृत्तो दिनकरः क्षरते सुरसं पयः |
काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः ||१५||
अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन् |
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ||१६||
अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः |
विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः ||१७||
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः |
अधीत्य सखिलान्वेदानालभन्ते यमक्षयम् ||१८||
अत्र भोगवती नाम पुरी वासुकिपालिता |
तक्षकेण च नागेन तथैवैरावतेन च ||१९||
अत्र निर्याणकालेषु तमः सम्प्राप्यते महत् |
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना ||२०||
एष तस्यापि ते मार्गः परितापस्य गालव |
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम ||२१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
108-अध्यायः
सुपर्ण उवाच||
इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः |
सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ||१||
अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम् |
पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ||२||
यादसामत्र राज्येन सलिलस्य च गुप्तये |
कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ||३||
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् |
जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ||४||
अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा |
निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज ||५||
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः |
अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्पति ||६||
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये |
जायते जीवलोकस्य हर्तुमर्धमिवायुषः ||७||
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् |
विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ||८||
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् |
अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ||९||
अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च |
उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ||१०||
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते |
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ||११||
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः |
अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः ||१२||
अत्र ध्वजवती नाम कुमारी हरिमेधसः |
आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् ||१३||
अत्र वायुस्तथा वह्निरापः खं चैव गालव |
आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति ||१४||
अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः ||१४||
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् |
अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना ||१५||
निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः ||१५||
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः |
अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः ||१६||
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् |
अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ||१७||
अत्रानलसखस्यापि पवनस्य निवेशनम् |
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ||१८||
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः |
ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ||१९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
109-अध्यायः
सुपर्ण उवाच||
यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते |
तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः ||१||
उत्तरस्य हिरण्यस्य परिवापस्य गालव |
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ||२||
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ |
नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः ||३||
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः |
बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ||४||
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः |
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ||५||
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् |
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ||६||
अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया |
अत्र कामश्च रोषश्च शैलश्चोमा च सम्बभुः ||७||
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव |
आधिपत्येन कैलासे धनदोऽप्यभिषेचितः ||८||
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः |
अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ||९||
अत्र सौगन्धिकवनं नैरृतैरभिरक्ष्यते |
शाड्वलं कदलीस्कन्धमत्र सन्तानका नगाः ||१०||
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् |
विमानान्यनुरूपाणि कामभोग्यानि गालव ||११||
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा |
अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः ||१२||
अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः |
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ||१३||
अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः |
धामा नाम महात्मानो मुनयः सत्यवादिनः ||१४||
न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम् |
परिवर्तसहस्राणि कामभोग्यानि गालव ||१५||
यथा यथा प्रविशति तस्मात्परतरं नरः |
तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव ||१६||
न तत्केनचिदन्येन गतपूर्वं द्विजर्षभ |
ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ||१७||
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् |
अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश ||१८||
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् |
त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ||१९||
अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम |
उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः ||२०||
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः |
साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः ||२१||
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् |
वव्रे वनं महर्षिः स जैमूतं तद्वनं ततः ||२२||
अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ |
कस्य कार्यं किमिति वै परिक्रोशन्ति गालव ||२३||
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा |
उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा ||२४||
एता विस्तरशस्तात तव सङ्कीर्तिता दिशः |
चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि ||२५||
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः |
पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ||२६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
110-अध्यायः
गालव उवाच||
गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज |
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ||१||
पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता |
दैवतानां हि सांनिध्यमत्र कीर्तितवानसि ||२||
अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः |
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम् ||३||
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज ||३||
नारद उवाच||
तमाह विनतासूनुरारोहस्वेति वै द्विजम् |
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ||४||
गालव उवाच||
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन |
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ||५||
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् |
प्रस्थितानामिव समं पश्यामीह गतिं खग ||६||
ससागरवनामुर्वीं सशैलवनकाननाम् |
आकर्षन्निव चाभासि पक्षवातेन खेचर ||७||
समीननागनक्रं च खमिवारोप्यते जलम् |
वायुना चैव महता पक्षवातेन चानिशम् ||८||
तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिङ्गिलान् |
नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितानिव ||९||
महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते |
न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ||१०||
शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन् |
न दृश्यते रविस्तात न दिशो न च खं खग ||११||
तम एव तु पश्यामि शरीरं ते न लक्षये |
मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ||१२||
शरीरे तु न पश्यामि तव चैवात्मनश्च ह |
पदे पदे तु पश्यामि सलिलादग्निमुत्थितम् ||१३||
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः |
तन्निवर्त महान्कालो गच्छतो विनतात्मज ||१४||
न मे प्रयोजनं किञ्चिद्गमने पन्नगाशन |
संनिवर्त महावेग न वेगं विषहामि ते ||१५||
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् |
एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ||१६||
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज |
ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः ||१७||
नैव मेऽस्ति धनं किञ्चिन्न धनेनान्वितः सुहृत् |
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ||१८||
नारद उवाच||
एवं बहु च दीनं च ब्रुवाणं गालवं तदा |
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ||१९||
नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि |
न चापि कृत्रिमः कालः कालो हि परमेश्वरः ||२०||
किमहं पूर्वमेवेह भवता नाभिचोदितः |
उपायोऽत्र महानस्ति येनैतदुपपद्यते ||२१||
तदेष ऋषभो नाम पर्वतः सागरोरसि |
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ||२२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
111-अध्यायः
नारद उवाच||
ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ |
शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् ||१||
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् |
तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः ||२||
सिद्धमन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम् |
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ ||३||
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया |
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ||४||
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः |
गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत ||५||
किमिदं भवता प्राप्तमिहागमनजं फलम् |
वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ||६||
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् |
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ||७||
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज |
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ||८||
यत्र देवो महादेवो यत्र विष्णुः सनातनः |
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ||९||
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया |
मयैतन्नाम प्रध्यातं मनसा शोचता किल ||१०||
तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् |
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ||११||
सा तौ तदाब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ |
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज सम्भ्रमम् ||१२||
निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् |
लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत् ||१३||
हीनयालक्षणैः सर्वैस्तथानिन्दितया मया |
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ||१४||
आचाराल्लभते धर्ममाचाराल्लभते धनम् |
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ||१५||
तदायुष्मन्खगपते यथेष्टं गम्यतामितः |
न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्वचित् ||१६||
भवितासि यथापूर्वं बलवीर्यसमन्वितः |
बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ||१७||
अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत् |
नैव चासादयामास तथारूपांस्तुरङ्गमान् ||१८||
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम् |
उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ ||१९||
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज |
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ||२०||
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् |
यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम् ||२१||
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् |
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ||२२||
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव |
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम् ||२३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
112-अध्यायः
नारद उवाच||
अथाह गालवं दीनं सुपर्णः पततां वरः |
निर्मितं वह्निना भूमौ वायुना वैधितं तथा ||१||
यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ||१||
धत्ते धारयते चेदमेतस्मात्कारणाद्धनम् |
तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ||२||
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा |
मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ||३||
अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च |
एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ ||४||
ऋते च धनमश्वानां नावाप्तिर्विद्यते तव |
अर्थं याचात्र राजानं कञ्चिद्राजर्षिवंशजम् ||५||
अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ ||५||
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा |
अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ||६||
ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः |
स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ||७||
विभवश्चास्य सुमहानासीद्धनपतेरिव |
एवं स तु धनं विद्वान्दानेनैव व्यशोधयत् ||८||
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् |
प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ ||९||
प्रतिगृह्य च सत्कारमर्घादिं भोजनं वरम् |
पृष्टश्चागमने हेतुमुवाच विनतासुतः ||१०||
अयं मे नाहुष सखा गालवस्तपसो निधिः |
विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ||११||
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः |
तमाह भगवान्कां ते ददानि गुरुदक्षिणाम् ||१२||
असकृत्तेन चोक्तेन किञ्चिदागतमन्युना |
अयमुक्तः प्रयच्छेति जानता विभवं लघु ||१३||
एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् |
अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ||१४||
गुर्वर्थो दीयतामेष यदि गालव मन्यसे |
इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ||१५||
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः |
अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ||१६||
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः |
कृत्वापवर्गं गुरवे चरिष्यति महत्तपः ||१७||
तपसः संविभागेन भवन्तमपि योक्ष्यते |
स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ||१८||
यावन्ति रोमाणि हये भवन्ति हि नरेश्वर |
तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते ||१९||
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् |
शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् ||२०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
113-अध्यायः
नारद उवाच||
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् |
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ||१||
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः |
ययातिर्वत्सकाशीश इदं वचनमब्रवीत् ||२||
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् |
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ||३||
अतीत्य च नृपानन्यानादित्यकुलसम्भवान् |
मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च ||४||
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् |
अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ ||५||
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा |
न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे ||६||
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग |
न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे ||७||
तत्तु दास्यामि यत्कार्यमिदं सम्पादयिष्यति |
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ||८||
नातः परं वैनतेय किञ्चित्पापिष्ठमुच्यते |
यथाशानाशनं लोके देहि नास्तीति वा वचः ||९||
हताशो ह्यकृतार्थः सन्हतः सम्भावितो नरः |
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् ||१०||
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम |
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ||११||
सदा देवमनुष्याणामसुराणां च गालव |
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ||१२||
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् |
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ||१३||
स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम् |
अहं दौहित्रवान्स्यां वै वर एष मम प्रभो ||१४||
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा |
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ||१५||
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः |
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ||१६||
गते पतगराजे तु गालवः सह कन्यया |
चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ||१७||
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् |
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ||१८||
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् |
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ||१९||
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् |
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ||२०||
इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम् |
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् ||२१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
114-अध्यायः
नारद उवाच||
हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः |
दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः ||१||
उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु |
गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु ||२||
बहुदेवासुरालोका बहुगन्धर्वदर्शना |
बहुलक्षणसम्पन्ना बहुप्रसवधारिणी ||३||
समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् |
ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ||४||
गालव उवाच||
एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे |
हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् ||५||
ततस्तव भवित्रीयं पुत्राणां जननी शुभा |
अरणीव हुताशानां योनिरायतलोचना ||६||
नारद उवाच||
एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः |
उवाच गालवं दीनो राजर्षिरृषिसत्तमम् ||७||
द्वे मे शते संनिहिते हयानां यद्विधास्तव |
एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ||८||
सोऽहमेकमपत्यं वै जनयिष्यामि गालव |
अस्यामेतं भवान्कामं सम्पादयतु मे वरम् ||९||
एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् |
मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना ||१०||
प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि |
स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् ||११||
नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै |
भविष्यन्ति तथा पुत्रा मम चत्वार एव च ||१२||
क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम |
एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज ||१३||
एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा |
हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् ||१४||
इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् |
चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् ||१५||
प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च |
समये देशकाले च लब्धवान्सुतमीप्सितम् ||१६||
ततो वसुमना नाम वसुभ्यो वसुमत्तरः |
वसुप्रख्यो नरपतिः स बभूव वसुप्रदः ||१७||
अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः |
उपसङ्गम्य चोवाच हर्यश्वं प्रीतिमानसम् ||१८||
जातो नृप सुतस्तेऽयं बालभास्करसंनिभः |
कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् ||१९||
हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे |
दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः ||२०||
माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम् |
कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् ||२१||
त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः |
प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् ||२२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
115-अध्यायः
गालव उवाच||
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः |
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ||१||
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः |
धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः ||२||
नारद उवाच||
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः |
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ||३||
दिवोदास उवाच||
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज |
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम ||४||
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् |
मामेवमुपयातोऽसि भावि चैतदसंशयम् ||५||
स एव विभवोऽस्माकमश्वानामपि गालव |
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् ||६||
नारद उवाच||
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः |
विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान् ||७||
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः |
स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः ||८||
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः |
वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः ||९||
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः |
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ||१०||
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया |
च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा ||११||
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा |
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ||१२||
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः |
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया ||१३||
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः |
ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः ||१४||
तथा तु रममाणस्य दिवोदासस्य भूपतेः |
माधवी जनयामास पुत्रमेकं प्रतर्दनम् ||१५||
अथाजगाम भगवान्दिवोदासं स गालवः |
समये समनुप्राप्ते वचनं चेदमब्रवीत् ||१६||
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः |
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ||१७||
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् |
कन्यां निर्यातयामास स्थितः सत्ये महीपतिः ||१८||