श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
146-अध्यायः
वासुदेव उवाच||
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत |
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ||१||
प्रातीपः शन्तनुस्तात कुलस्यार्थे यथोत्थितः |
तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ||२||
ततः पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः |
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः ||३||
ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते |
यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः ||४||
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् |
वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ ||५||
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् |
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ||६||
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् |
अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम् ||७||
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च |
चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः ||८||
कोशसञ्जनने दाने भृत्यानां चान्ववेक्षणे |
भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः ||९||
सन्धिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः |
अवैक्षत महातेजा भीष्मः परपुरञ्जयः ||१०||
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः |
अन्वास्यमानः सततं विदुरेण महात्मना ||११||
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि |
सम्भूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप ||१२||
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन |
भीष्मेण दत्तमश्नामि न त्वया राजसत्तम ||१३||
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप |
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ||१४||
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन |
सममाचार्यकं तात तव तेषां च मे सदा ||१५||
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम |
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ||१६||
एवमुक्ते महाराज द्रोणेनामिततेजसा |
व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः ||१७||
पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् ||१७||
देवव्रत निबोधेदं वचनं मम भाषतः |
प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ||१८||
तन्मे विलपमानस्य वचनं समुपेक्षसे |
कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ||१९||
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे |
अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः ||२०||
अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ||२०||
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै |
यथा ते न प्रणश्येयुर्महाराज तथा कुरु ||२१||
मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते |
चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय ||२२||
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा ||२२||
नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् |
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ||२३||
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ||२३||
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् |
साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम् ||२४||
प्रसीद राजशार्दूल विनाशो दृश्यते महान् |
पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् ||२५||
विररामैवमुक्त्वा तु विदुरो दीनमानसः |
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ||२६||
ततोऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाशभीता |
दुर्योधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतमाह कोपात् ||२७||
ये पार्थिवा राजसभां प्रविष्टा; ब्रह्मर्षयो ये च सभासदोऽन्ये |
शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य ||२८||
राज्यं कुरूणामनुपूर्वभोग्यं; क्रमागतो नः कुलधर्म एषः |
त्वं पापबुद्धेऽतिनृशंसकर्म; न्राज्यं कुरूणामनयाद्विहंसि ||२९||
राज्ये स्थितो धृतराष्ट्रो मनीषी; तस्यानुजो विदुरो दीर्घदर्शी |
एतावतिक्रम्य कथं नृपत्वं; दुर्योधन प्रार्थयसेऽद्य मोहात् ||३०||
राजा च क्षत्ता च महानुभावौ; भीष्मे स्थिते परवन्तौ भवेताम् |
अयं तु धर्मज्ञतया महात्मा; न राज्यकामो नृवरो नदीजः ||३१||
राज्यं तु पाण्डोरिदमप्रधृष्यं; तस्याद्य पुत्राः प्रभवन्ति नान्ये |
राज्यं तदेतन्निखिलं पाण्डवानां; पैतामहं पुत्रपौत्रानुगामि ||३२||
यद्वै ब्रूते कुरुमुख्यो महात्मा; देवव्रतः सत्यसन्धो मनीषी |
सर्वं तदस्माभिरहत्य धर्मं; ग्राह्यं स्वधर्मं परिपालयद्भिः ||३३||
अनुज्ञया चाथ महाव्रतस्य; ब्रूयान्नृपो यद्विदुरस्तथैव |
कार्यं भवेत्तत्सुहृद्भिर्नियुज्य; धर्मं पुरस्कृत्य सुदीर्घकालम् ||३४||
न्यायागतं राज्यमिदं कुरूणां; युधिष्ठिरः शास्तु वै धर्मपुत्रः |
प्रचोदितो धृतराष्ट्रेण राज्ञा; पुरस्कृतः शान्तनवेन चैव ||३५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
147-अध्यायः
वासुदेव उवाच||
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः |
दुर्योधनमुवाचेदं नृपमध्ये जनाधिप ||१||
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक |
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ||२||
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः |
सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः ||३||
तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः |
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ||४||
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः |
शर्मिष्ठायाः सम्प्रसूतो दुहितुर्वृषपर्वणः ||५||
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् |
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ||६||
यादवानां कुलकरो बलवान्वीर्यसंमतः |
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ||७||
न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः |
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ||८||
पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली |
वशे कृत्वा स नृपतीनवसन्नागसाह्वये ||९||
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः |
शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् ||१०||
य चैनमन्ववर्तन्त भ्रातरो बलदर्पितम् |
शशाप तानपि क्रुद्धो ययातिस्तनयानथ ||११||
यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् |
राज्ये निवेशयामास विधेयं नृपसत्तमः ||१२||
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते |
यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया ||१३||
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः |
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ||१४||
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः |
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ||१५||
देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम् |
तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः ||१६||
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः |
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ||१७||
पौरजानपदानां च संमतः साधुसत्कृतः |
सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः ||१८||
प्राज्ञश्च सत्यसन्धश्च सर्वभूतहिते रतः |
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ||१९||
बाह्लीकस्य प्रियो भ्राता शन्तनोश्च महात्मनः |
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ||२०||
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः |
सम्भारानभिषेकार्थं कारयामास शास्त्रतः ||२१||
मङ्गलानि च सर्वाणि कारयामास चाभिभूः ||२१||
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह |
सर्वे निवारयामासुर्देवापेरभिषेचनम् ||२२||
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् |
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ||२३||
एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत् |
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ||२४||
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः |
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ||२५||
ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः |
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ||२६||
बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः |
पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् ||२७||
बाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः |
पितर्युपरते राजन्राजा राज्यमकारयत् ||२८||
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना |
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ||२९||
पाण्डुस्तु राज्यं सम्प्राप्तः कनीयानपि सन्नृपः |
विनाशे तस्य पुत्राणामिदं राज्यमरिंदम ||३०||
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ||३०||
युधिष्ठिरो राजपुत्रो महात्मा; न्यायागतं राज्यमिदं च तस्य |
स कौरवस्यास्य जनस्य भर्ता; प्रशासिता चैव महानुभावः ||३१||
स सत्यसन्धः सतताप्रमत्तः; शास्त्रे स्थितो बन्धुजनस्य साधुः |
प्रियः प्रजानां सुहृदानुकम्पी; जितेन्द्रियः साधुजनस्य भर्ता ||३२||
क्षमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं श्रुतमप्रमादः |
भूतानुकम्पा ह्यनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः ||३३||
अराजपुत्रस्त्वमनार्यवृत्तो; लुब्धस्तथा बन्धुषु पापबुद्धिः |
क्रमागतं राज्यमिदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः ||३४||
प्रयच्छ राज्यार्धमपेतमोहः; सवाहनं त्वं सपरिच्छदं च |
ततोऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन्नरेन्द्र ||३५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
148-अध्यायः
वासुदेव उवाच||
एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च |
गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत ||१||
अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः |
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ||२||
अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः |
प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ||३||
ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः |
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ||४||
अक्षौहिण्यो दशैका च पार्थिवानां समागताः |
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ||५||
यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते ||५||
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च |
गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ||६||
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ||६||
साम आदौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता |
अभेदात्कुरुवंशस्य प्रजानां च विवृद्धये ||७||
पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते |
कर्मानुकीर्तनं चैव देवमानुषसंहितम् ||८||
यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः |
तदा मया समानीय भेदिताः सर्वपार्थिवाः ||९||
अद्भुतानि च घोराणि दारुणानि च भारत |
अमानुषाणि कर्माणि दर्शितानि च मे विभो ||१०||
भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम् |
राधेयं भीषयित्वा च सौबलं च पुनः पुनः ||११||
न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः |
भेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत् ||१२||
पुनः सामाभिसंयुक्तं सम्प्रदानमथाब्रुवम् |
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च ||१३||
ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च |
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ||१४||
प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च |
यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत् ||१५||
सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय |
अवश्यं भरणीया हि पितुस्ते राजसत्तम ||१६||
एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत |
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ||१७||
निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः |
एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि ||१८||
न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव |
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ||१९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
149-अध्यायः
वैशम्पायन उवाच||
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः |
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ||१||
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि |
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ||२||
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः |
अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै ||३||
तासां मे पतयः सप्त विख्यातास्तान्निबोधत |
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ||४||
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् |
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ||५||
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः |
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ||६||
इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः ||६||
सप्तानामपि यो नेता सेनानां प्रविभागवित् |
यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् ||७||
त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन |
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ||८||
सहदेव उवाच||
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः |
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ||९||
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः |
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ||१०||
वैशम्पायन उवाच||
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः |
नकुलोऽनन्तरं तस्मादिदं वचनमाददे ||११||
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च |
ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः ||१२||
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः |
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ||१३||
श्लाघ्यः पार्थिवसङ्घस्य प्रमुखे वाहिनीपतिः |
पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ||१४||
यस्तताप तपो घोरं सदारः पृथिवीपतिः |
रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ||१५||
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः |
श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु ||१६||
स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम |
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ||१७||
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः |
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ||१८||
योऽयं तपःप्रभावेन ऋषिसन्तोषणेन च |
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः ||१९||
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः |
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ||२०||
गर्जन्निव महामेघो रथघोषेण वीर्यवान् |
सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः ||२१||
सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः |
सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ||२२||
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः |
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ||२३||
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः |
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ||२४||
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् |
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ||२५||
यमदूतसमान्वेगे निपाते पावकोपमान् |
रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् ||२६||
पुरुषं तं न पश्यामि यः सहेत महाव्रतम् |
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ||२७||
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम |
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ||२८||
भीम उवाच||
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः |
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ||२९||
यस्य सङ्ग्राममध्येषु दिव्यमस्त्रं विकुर्वतः |
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ||३०||
न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् |
शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् ||३१||
द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् |
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ||३२||
युधिष्ठिर उवाच||
सर्वस्य जगतस्तात सारासारं बलाबलम् |
सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः ||३३||
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः |
कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ||३४||
एष नो विजये मूलमेष तात विपर्यये |
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ||३५||
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता |
यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः ||३६||
ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते ||३६||
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् |
रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ||३७||
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ||३७||
वैशम्पायन उवाच||
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः |
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ||३८||
ममाप्येते महाराज भवद्भिर्य उदाहृताः |
नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः ||३९||
सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् ||३९||
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे |
किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ||४०||
मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम |
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ||४१||
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ||४१||
कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः |
धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः ||४२||
युज्यतां वाहिनी साधु वधसाध्या हि ते मताः |
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ||४३||
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ |
युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् ||४४||
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि |
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् ||४५||
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् |
धार्तराष्ट्रबलं सङ्ख्ये वधिष्यति न संशयः ||४६||
एवमुक्ते तु कृष्णेन सम्प्रहृष्यन्नरोत्तमाः |
तेषां प्रहृष्टमनसां नादः समभवन्महान् ||४७||
योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम् |
हयवारणशब्दश्च नेमिघोषश्च सर्वशः ||४८||
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ||४८||
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः |
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ||४९||
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ |
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः ||५०||
प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः ||५०||
ततः शब्दः समभवत्समुद्रस्येव पर्वणि |
हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशत् ||५१||
प्रहृष्टा दंशिता योधाः परानीकविदारणाः |
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ||५२||
शकटापणवेशाश्च यानयुग्यं च सर्वशः |
कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ||५३||
फल्गु यच्च बलं किञ्चित्तथैव कृशदुर्बलम् |
तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ||५४||
उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी |
सह स्त्रीभिर्निववृते दासीदाससमावृता ||५५||
कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः |
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ||५६||
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः |
स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ||५७||
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः |
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ||५८||
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः |
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ||५९||
जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः |
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ||६०||
रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः |
पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् ||६१||
अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः |
परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ||६२||
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः |
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ||६३||
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः |
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ ||६४||
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः |
निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ||६५||
शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् |
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ||६६||
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने |
निवेशयामास तदा सेनां राजा युधिष्ठिरः ||६७||
परिहृत्य श्मशानानि देवतायतनानि च |
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ||६८||
मधुरानूषरे देशे शिवे पुण्ये महीपतिः |
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ||६९||
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः |
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ||७०||
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् |
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ||७१||
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः |
सात्यकिश्च रथोदारो युयुधानः प्रतापवान् ||७२||
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् |
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ||७३||
खानयामास परिखां केशवस्तत्र भारत |
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ||७४||
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् |
तद्विधानि नरेन्द्राणां कारयामास केशवः ||७५||
प्रभूतजलकाष्ठानि दुराधर्षतराणि च |
भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः ||७६||
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् |
विमानानीव राजेन्द्र निविष्टानि महीतले ||७७||
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः |
सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः ||७८||
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः |
ससर्ज रसपांसूनां राशयः पर्वतोपमाः ||७९||
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् |
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ||८०||
महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः |
धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा ||८१||
गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः |
अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः ||८२||
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत |
अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः ||८३||
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः |
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ||८४||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
150-अध्यायः
जनमेजय उवाच||
युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया |
संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ||१||
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् |
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ||२||
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः |
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ||३||
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |
सम्भ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ||४||
व्यथयेयुर्हि देवानां सेनामपि समागमे |
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ||५||
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः |
युयुधानश्च विक्रान्तो देवैरपि दुरासदः ||६||
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ||७||
वैशम्पायन उवाच||
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा |
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ||८||
अकृतेनैव कार्येण गतः पार्थानधोक्षजः |
स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् ||९||
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः |
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ||१०||
अजातशत्रुरप्यद्य भीमार्जुनवशानुगः |
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ||११||
विराटद्रुपदौ चैव कृतवैरौ मया सह |
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ||१२||
भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः |
तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ||१३||
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः |
सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ||१४||
आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः |
अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च ||१५||
विविधायुधपूर्णानि पताकाध्वजवन्ति च ||१५||
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः |
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ||१६||
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा |
हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् ||१७||
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् |
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ||१८||
बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः |
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ||१९||
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः |
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ||२०||
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः |
सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ||२१||
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च |
विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ||२२||
पदातयश्च पुरुषाः शस्त्राणि विविधानि च |
उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः ||२३||
तदुत्सव इवोदग्रं सम्प्रहृष्टनरावृतम् |
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ||२४||
जनौघसलिलावर्तो रथनागाश्वमीनवान् |
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ||२५||
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् |
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ||२६||
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः |
अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः ||२७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
151-अध्यायः
वैशम्पायन उवाच||
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः |
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् ||१||
अस्मिन्नभ्यागते काले किं च नः क्षममच्युत |
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ||२||
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च |
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ||३||
विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः |
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ||४||
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः |
यन्नः क्षमं महाबाहो तद्ब्रवीह्यविचारयन् ||५||
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः |
मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत् ||६||
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् |
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ||७||
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा |
मम वा भाषितं किञ्चित्सर्वमेवातिवर्तते ||८||
न स कामयते धर्मं न स कामयते यशः |
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ||९||
बन्धमाज्ञापयामास मम चापि सुयोधनः |
न च तं लब्धवान्कामं दुरात्मा शासनातिगः ||१०||
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः |
सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत ||११||
शकुनिः सौबलश्चैव कर्णदुःशासनावपि |
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ||१२||
किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः |
सङ्क्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ||१३||
न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः |
यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् ||१४||
न चापि वयमत्यर्थं परित्यागेन कर्हिचित् |
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ||१५||
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् |
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ||१६||
युधिष्ठिरस्त्वभिप्रायमुपलभ्य महीक्षिताम् |
योगमाज्ञापयामास भीमार्जुनयमैः सह ||१७||
ततः किलकिलाभूतमनीकं पाण्डवस्य ह |
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ||१८||
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः |
निष्टनन्भीमसेनं च विजयं चेदमब्रवीत् ||१९||
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया |
सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ||२०||
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः |
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ||२१||
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति |
कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति ||२२||
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः |
यदुक्तं वासुदेवेन श्रावयामास तद्वचः ||२३||
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च |
वचनं तत्त्वया राजन्निखिलेनावधारितम् ||२४||
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः |
न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः ||२५||
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा |
स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन् ||२६||
ततस्ते धृतसङ्कल्पा युद्धाय सहसैनिकाः |
पाण्डवेया महाराज तां रात्रिं सुखमावसन् ||२७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
152-अध्यायः
वैशम्पायन उवाच||
व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः |
व्यभजत्तान्यनीकानि दश चैकं च भारत ||१||
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च |
सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः ||२||
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः |
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः ||३||
सध्वजाः सपताकाश्च सशरासनतोमराः |
रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः ||४||
सकचग्रहविक्षेपाः सतैलगुडवालुकाः |
साशीविषघटाः सर्वे ससर्जरसपांसवः ||५||
सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः |
व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः ||६||
सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः |
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ||७||
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः |
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः ||८||
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः |
बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः ||९||
चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः |
संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः ||१०||
धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी |
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ||११||
नगराणीव गुप्तानि दुरादेयानि शत्रुभिः |
आसन्रथसहस्राणि हेममालीनि सर्वशः ||१२||
यथा रथास्तथा नागा बद्धकक्ष्याः स्वलङ्कृताः |
बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः ||१३||
द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ |
द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक् ||१४||
गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः |
तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः ||१५||
विचित्रकवचामुक्तैः सपताकैः स्वलङ्कृतैः |
सादिभिश्चोपसम्पन्ना आसन्नयुतशो हयाः ||१६||
सुसङ्ग्राहाः सुसन्तोषा हेमभाण्डपरिच्छदाः |
अनेकशतसाहस्रास्ते च सादिवशे स्थिताः ||१७||
नानारूपविकाराश्च नानाकवचशस्त्रिणः |
पदातिनो नरास्तत्र बभूवुर्हेममालिनः ||१८||
रथस्यासन्दश गजा गजस्य दश वाजिनः |
नरा दश हयस्यासन्पादरक्षाः समन्ततः ||१९||
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः |
हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः ||२०||
सेना पञ्चशतं नागा रथास्तावन्त एव च |
दशसेना च पृतना पृतना दशवाहिनी ||२१||
वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः |
अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी ||२२||
एवं व्यूढान्यनीकानि कौरवेयेण धीमता ||२२||
अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह |
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् ||२३||
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ||२३||
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते |
सेनामुखं च तिस्रस्ता गुल्म इत्यभिसञ्ज्ञितः ||२४||
दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् |
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ||२५||
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान् |
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा ||२६||
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् |
विधिपूर्वं समानीय पार्थिवानभ्यषेचयत् ||२७||
कृपं द्रोणं च शल्यं च सैन्धवं च महारथम् |
सुदक्षिणं च काम्बोजं कृतवर्माणमेव च ||२८||
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च |
शकुनिं सौबलं चैव बाह्लीकं च महारथम् ||२९||
दिवसे दिवसे तेषां प्रतिवेलं च भारत |
चक्रे स विविधाः सञ्ज्ञाः प्रत्यक्षं च पुनः पुनः ||३०||
तथा विनियताः सर्वे ये च तेषां पदानुगाः |
बभूवुः सैनिका राजन्राज्ञः प्रियचिकीर्षवः ||३१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
153-अध्यायः-भीष्माभिषेचनपर्व
वैशम्पायन उवाच||
ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः |
सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ||१||
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि |
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ||२||
न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् |
शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् ||३||
श्रूयते च महाप्राज्ञ हैहयानमितौजसः |
अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ||४||
तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह |
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ||५||
ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः |
क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् ||६||
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः |
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ||७||
वयमेकस्य शृणुमो महाबुद्धिमतो रणे |
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ||८||
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् |
नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः ||९||
एवं ये कुशलं शूरं हिते स्थितमकल्मषम् |
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ||१०||
भवानुशनसा तुल्यो हितैषी च सदा मम |
असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ||११||
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः |
कुबेर इव यक्षाणां मरुतामिव वासवः ||१२||
पर्वतानां यथा मेरुः सुपर्णः पततामिव |
कुमार इव भूतानां वसूनामिव हव्यवाट् ||१३||
भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः |
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ||१४||
प्रयातु नो भवानग्रे देवानामिव पावकिः |
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ||१५||
भीष्म उवाच||
एवमेतन्महाबाहो यथा वदसि भारत |
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ||१६||
अपि चैव मय श्रेयो वाच्यं तेषां नराधिप |
योद्धव्यं तु तवार्थाय यथा स समयः कृतः ||१७||
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि |
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात् ||१८||
स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः |
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ||१९||
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् |
कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् ||२०||
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप |
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ||२१||
एवमेषां करिष्यामि निधनं कुरुनन्दन |
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ||२२||
सेनापतिस्त्वहं राजन्समयेनापरेण ते |
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ||२३||
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते |
स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ||२४||
कर्ण उवाच||
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन |
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ||२५||
वैशम्पायन उवाच||
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् |
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ||२६||
ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान् |
वादयामासुरव्यग्राः पुरुषा राजशासनात् ||२७||
सिंहनादाश्च विविधा वाहनानां च निस्वनाः |
प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ||२८||
निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः |
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ||२९||
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे |
शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम् ||३०||
सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् |
तदैतान्युग्ररूपाणि अभवञ्शतशो नृप ||३१||
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् |
वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः ||३२||
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः |
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ||३३||
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ||३३||
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः |
शिबिरं मापयामास समे देशे नराधिपः ||३४||
मधुरानूषरे देशे प्रभूतयवसेन्धने |
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ||३५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
154-अध्यायः
जनमेजय उवाच||
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् |
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ||१||
बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् |
समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ||२||
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् |
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ||३||
रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे |
दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः ||४||
किमब्रवीन्महाबाहुः सर्वधर्मविशारदः |
भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत ||५||
वैशम्पायन उवाच||
आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः |
सर्वान्भ्रातॄन्समानीय वासुदेवं च सात्वतम् ||६||
उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः ||६||
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः |
पितामहेन वो युद्धं पूर्वमेव भविष्यति ||७||
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ||७||
वासुदेव उवाच||
यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते |
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ||८||
रोचते मे महाबाहो क्रियतां यदनन्तरम् |
नायकास्तव सेनायामभिषिच्यन्तु सप्त वै ||९||
वैशम्पायन उवाच||
ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् |
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम् ||१०||
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ||१०||
एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः |
सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ||११||
सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत् |
द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः ||१२||
सर्वेषामेव तेषां तु समस्तानां महात्मनाम् |
सेनापतिपतिं चक्रे गुडाकेशं धनञ्जयम् ||१३||
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् |
सङ्कर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ||१४||
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् |
प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः ||१५||
सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः |
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ||१६||
वृष्णिमुख्यैरभिगतैर्व्याघ्रैरिव बलोत्कटैः |
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ||१७||
नीलकौशेयवसनः कैलासशिखरोपमः |
सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ||१८||
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः |
उदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः ||१९||
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन |
पूजयां चक्रुरभ्येत्य ते स्म सर्वे हलायुधम् ||२०||
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना |
वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् ||२१||
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः |
युधिष्ठिरेण सहित उपाविशदरिंदमः ||२२||
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः |
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ||२३||
भवितायं महारौद्रो दारुणः पुरुषक्षयः |
दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ||२४||
अस्माद्युद्धात्समुत्तीर्णानपि वः ससुहृज्जनान् |
अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः ||२५||
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् |
विमर्दः सुमहान्भावी मांसशोणितकर्दमः ||२६||
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे |
सम्बन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ||२७||
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः |
तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः ||२८||
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः |
निविष्टः सर्वभावेन धनञ्जयमवेक्ष्य च ||२९||
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः |
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ||३०||
न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् |
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ||३१||
उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ |
तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे ||३२||
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् |
न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् ||३३||
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः |
तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ||३४||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
155-अध्यायः
वैशम्पायन उवाच||
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः |
हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै ||१||
आहृतीनामधिपतेर्भोजस्यातियशस्विनः |
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ||२||
यः किम्पुरुषसिंहस्य गन्धमादनवासिनः |
शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् ||३||
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा |
शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् ||४||
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् |
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ||५||
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः |
धारयामास यत्कृष्णः परसेनाभयावहम् ||६||
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः |
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ||७||
सञ्छिद्य मौरवान्पाशान्निहत्य मुरमोजसा |
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ||८||
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च |
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ||९||
रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम् |
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ||१०||
नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः |
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ||११||
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम् |
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् ||१२||
सेनया चतुरङ्गिण्या महत्या दूरपातया |
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया ||१३||
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् |
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ||१४||
यत्रैव कृष्णेन रणे निर्जितः परवीरहा |
तत्र भोजकटं नाम चक्रे नगरमुत्तमम् ||१५||
सैन्येन महता तेन प्रभूतगजवाजिना |
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ||१६||
स भोजराजः सैन्येन महता परिवारितः |
अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् ||१७||
ततः स कवची खड्गी शरी धन्वी तली रथी |
ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् ||१८||
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया |
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ||१९||
स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः |
प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः ||२०||
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ||२०||
सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव |
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ||२१||
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन |
निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन ||२२||
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ |
शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ||२३||
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् |
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ||२४||
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः |
सहायो घोषयात्रायां कस्तदासीत्सखा मम ||२५||
तथा प्रतिभये तस्मिन्देवदानवसङ्कुले |
खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् ||२६||
निवातकवचैर्युद्धे कालकेयैश्च दानवैः |
तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ||२७||
तथा विराटनगरे कुरुभिः सह सङ्गरे |
युध्यतो बहुभिस्तात कः सहायोऽभवन्मम ||२८||
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् |
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ||२९||
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् |
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ||३०||
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः |
द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् ||३१||
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम् |
वचनं नरशार्दूल वज्रायुधमपि स्वयम् ||३२||
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे |
यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा ||३३||
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् |
दुर्योधनमुपागच्छत्तथैव भरतर्षभ ||३४||
तथैव चाभिगम्यैनमुवाच स नराधिपः |
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ||३५||
द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः |
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः ||३६||
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा |
उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि ||३७||
समितिर्धर्मराजस्य सा पार्थिवसमाकुला |
शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत ||३८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
156-अध्यायः
जनमेजय उवाच||
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ |
किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः ||१||
वैशम्पायन उवाच||
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ |
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ||२||
एहि सञ्जय मे सर्वमाचक्ष्वानवशेषतः |
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ||३||
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् |
यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान् ||४||
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् |
न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ||५||
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी |
दुर्योधनं समासाद्य पुनः सा परिवर्तते ||६||
एवं गते वै यद्भावि तद्भविष्यति सञ्जय |
क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः ||७||
सञ्जय उवाच||
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि |
न तु दुर्योधने दोषमिममासक्तुमर्हसि ||८||
शृणुष्वानवशेषेण वदतो मम पार्थिव ||८||
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः |
एनसा न स दैवं वा कालं वा गन्तुमर्हति ||९||
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् |
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ||१०||
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया |
अनुभूताः सहामात्यैर्निकृतैरधिदेवने ||११||
हयानां च गजानां च राज्ञां चामिततेजसाम् |
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ||१२||
स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम् |
यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ||१३||
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः |
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ||१४||
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया |
पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते ||१५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
157-अध्यायः-उलूकयानपर्व
सञ्जय उवाच||
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु |
दुर्योधनो महाराज कर्णेन सह भारत ||१||
सौबलेन च राजेन्द्र तथा दुःशासनेन च |
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ||२||
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् |
गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः ||३||
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् |
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम् ||४||
यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत् |
मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः ||५||
यथा वः सम्प्रतिज्ञातं तत्सर्वं क्रियतामिति ||५||
अमर्षं राज्यहरणं वनवासं च पाण्डव |
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ||६||
यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम् |
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ||७||
पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् ||७||
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च |
न स्फुटेद्धृदयं कस्य ऐश्वर्याद्भ्रंशितस्य च ||८||
कुले जातस्य शूरस्य परवित्तेषु गृध्यतः |
आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ||९||
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् |
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ||१०||
अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः |
द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम् ||११||
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् |
अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि ||१२||
राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव |
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ||१३||
अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः |
अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम् ||१४||
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् |
इह ते पार्थ दृश्यन्तां सङ्ग्रामे पुरुषो भव ||१५||
तं च तूबरकं मूढं बह्वाशिनमविद्यकम् |
उलूक मद्वचो ब्रूया असकृद्भीमसेनकम् ||१६||
अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर |
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ||१७||
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् |
पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
158-अध्यायः
सञ्जय उवाच||
सेनानिवेशं सम्प्राप्य कैतव्यः पाण्डवस्य ह |
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ||१||
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम |
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ||२||
युधिष्ठिर उवाच||
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः |
यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ||३||
सञ्जय उवाच||
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् |
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ||४||
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ |
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ||५||
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः |
शृण्वतां कुरुवीराणां तन्निबोध नराधिप ||६||
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् |
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ||७||
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः |
संवत्सरं विराटस्य दास्यमास्थाय चोषिताः ||८||
अमर्षं राज्यहरणं वनवासं च पाण्डव |
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ||९||
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव |
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ||१०||
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् |
समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः ||११||
असमागम्य भीष्मेण संयुगे किं विकत्थसे |
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ||१२||
द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि |
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ||१३||
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः |
युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् ||१४||
द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा |
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ||१५||
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् |
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ||१६||
को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् |
गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् ||१७||
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा |
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ||१८||
किं दर्दुरः कूपशयो यथेमां; न बुध्यसे राजचमूं समेताम् |
दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ||१९||
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै; रुदीच्यकाम्बोजशकैः खशैश्च |
शाल्वैः समत्स्यैः कुरुमध्यदेशै; र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ||२०||
नानाजनौघं युधि सम्प्रवृद्धं; गाङ्गं यथा वेगमवारणीयम् |
मां च स्थितं नागबलस्य मध्ये; युयुत्ससे मन्द किमल्पबुद्धे ||२१||
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् |
अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ||२२||
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु |
पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ||२३||
यदीदं कत्थनात्सिध्येत्कर्म लोके धनञ्जय |
सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः ||२४||
जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम् |
जानाम्येतत्त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि ||२५||
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम् |
मनसैव हि भूतानि धाता प्रकुरुते वशे ||२६||
त्रयोदश समा भुक्तं राज्यं विलपतस्तव |
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ||२७||
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः |
क्व तदा भीमसेनस्य बलमासीच्च फल्गुन ||२८||
सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात् |
न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् ||२९||
सा वो दास्यं समापन्नान्मोक्षयामास भामिनी |
अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् ||३०||
अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् |
धृता हि वेणी पार्थेन विराटनगरे तदा ||३१||
सूदकर्मणि च श्रान्तं विराटस्य महानसे |
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ||३२||
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः |
श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते ||३३||
न भयाद्वासुदेवस्य न चापि तव फल्गुन |
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ||३४||
न माया हीन्द्रजालं वा कुहका वा विभीषणी |
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ||३५||
वासुदेवसहस्रं वा फल्गुनानां शतानि वा |
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ||३६||
संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् |
प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् ||३७||
शारद्वतमहीमानं विविंशतिझषाकुलम् |
बृहद्बलसमुच्चालं सौमदत्तितिमिङ्गिलम् ||३८||
दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्रायुधनागनक्रम् |
जयद्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम् ||३९||
शस्त्रौघमक्षय्यमतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताः |
भविष्यसि त्वं हतसर्वबान्धव; स्तदा मनस्ते परितापमेष्यति ||४०||
तदा मनस्ते त्रिदिवादिवाशुचे; र्निवर्ततां पार्थ महीप्रशासनात् |
राज्यं प्रशास्तुं हि सुदुर्लभं त्वया; बुभूषता स्वर्ग इवातपस्विना ||४१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
159-अध्यायः
सञ्जय उवाच||
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् |
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ||१||
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् |
प्रागेव भृशसङ्क्रुद्धाः कैतव्येन प्रधर्षिताः ||२||
नासनेष्ववतिष्ठन्त बाहूंश्चैव विचिक्षिपुः |
आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् ||३||
अवाक्षिरा भीमसेनः समुदैक्षत केशवम् |
नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ||४||
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् |
उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ||५||
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् |
श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् ||६||
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः |
श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते ||७||
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः |
सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ||८||
जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान् |
निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ||९||
युधिष्ठिरनियोगात्तु फल्गुनस्य महात्मनः |
करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः ||१०||
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् |
तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः ||११||
यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम् |
दुःशासनस्य रुधिरं पीतमित्यवधार्यताम् ||१२||
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः |
न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ||१३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
160-अध्यायः
सञ्जय उवाच||
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः |
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ||१||
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः |
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ||२||
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् |
अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते ||३||
परवीर्यं समाश्रित्य यः समाह्वयते परान् |
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ||४||
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः |
स्वयं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि ||५||
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् |
मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे ||६||
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन |
न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च ||७||
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे |
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ||८||
कैतव्य गत्वा भरतान्समेत्य; सुयोधनं धार्तराष्ट्रं ब्रवीहि |
तथेत्याह अर्जुनः सव्यसाची; निशाव्यपाये भविता विमर्दः ||९||
यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो; मध्ये कुरूणां हर्षयन्सत्यसन्धः |
अहं हन्ता पाण्डवानामनीकं; शाल्वेयकांश्चेति ममैष भारः ||१०||
हन्यामहं द्रोणमृते हि लोकं; न ते भयं विद्यते पाण्डवेभ्यः |
ततो हि ते लब्धतमं च राज्यं; क्षयं गताः पाण्डवाश्चेति भावः ||११||
स दर्पपूर्णो न समीक्षसे त्व; मनर्थमात्मन्यपि वर्तमानम् |
तस्मादहं ते प्रथमं समूहे; हन्ता समक्षं कुरुवृद्धमेव ||१२||
सूर्योदये युक्तसेनः प्रतीक्ष्य; ध्वजी रथी रक्ष च सत्यसन्धम् |
अहं हि वः पश्यतां द्वीपमेनं; रथाद्भीष्मं पातयितास्मि बाणैः ||१३||
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः |
अर्दितं शरजालेन मया दृष्ट्वा पितामहम् ||१४||
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः |
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ||१५||
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् |
सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन ||१६||
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा |
नैष्ठुर्यस्यावलेपस्य आत्मसम्भावनस्य च ||१७||
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च |
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ||१८||
दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च |
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ||१९||
वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप |
आशा ते जीविते मूढ राज्ये वा केन हेतुना ||२०||
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते |
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ||२१||
भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन |
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ||२२||
न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः |
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ||२३||
इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च |
अनुज्ञातो निववृते पुनरेव यथागतम् ||२४||
उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् |
गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि ||२५||
केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः |
दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत ||२६||
आज्ञापयत राज्ञश्च बलं मित्रबलं तथा |
यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी ||२७||
ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः |
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ||२८||
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् |
आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति ||२९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
161-अध्यायः-रथातिरथसंख्यानपर्व
सञ्जय उवाच||
उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः |
सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् ||१||
पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम् |
चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव ||२||
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः |
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ||३||
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः |
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति ||४||
यथाबलं यथोत्साहं रथिनः समुपादिशत् |
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ||५||
अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे |
सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् ||६||
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् |
सहदेवं शकुनये चेकितानं शलाय च ||७||
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् |
द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत् ||८||
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् |
समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे ||९||
एवं विभज्य योधांस्तान्पृथक्च सह चैव ह |
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ||१०||
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः |
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ||११||
यथादिष्टान्यनीकानि पाण्डवानामयोजयत् |
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ||१२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
162-अध्यायः
धृतराष्ट्र उवाच||
प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य सञ्जय |
किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः ||१||
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे |
वासुदेवसहायेन पार्थेन दृढधन्वना ||२||
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् |
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ||३||
सेनापत्यं च सम्प्राप्य कौरवाणां धुरन्धरः |
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ||४||
वैशम्पायन उवाच||
ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत् |
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ||५||
सञ्जय उवाच||
सेनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप |
दुर्योधनमुवाचेदं वचनं हर्षयन्निव ||६||
नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये |
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः ||७||
सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च |
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ||८||
यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च |
भृशं वेद महाराज यथा वेद बृहस्पतिः ||९||
व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान् |
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ||१०||
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् |
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ||११||
दुर्योधन उवाच||
न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि |
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ||१२||
किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते |
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ||१३||
भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम |
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ||१४||
रथसङ्ख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा |
तथैवातिरथानां च वेत्तुमिच्छामि कौरव ||१५||
पितामहो हि कुशलः परेषामात्मनस्तथा |
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ||१६||
भीष्म उवाच||
गान्धारे शृणु राजेन्द्र रथसङ्ख्यां स्वके बले |
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ||१७||
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च |
रथानां तव सेनायां यथामुख्यं तु मे शृणु ||१८||
भवानग्रे रथोदारः सह सर्वैः सहोदरैः |
दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः ||१९||
सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः |
रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि ||२०||
संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः |
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ||२१||
एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् |
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ||२२||
ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव |
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ||२३||
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते ||२३||
कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः |
अर्थसिद्धिं तव रणे करिष्यति न संशयः ||२४||
अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः |
हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव ||२५||
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः |
स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे ||२६||
भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः |
एष योत्स्यति सङ्ग्रामे कृष्णं चक्रगदाधरम् ||२७||
सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान् |
भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् ||२८||
सौमदत्तिर्महेष्वासो रथयूथपयूथपः |
बलक्षयममित्राणां सुमहान्तं करिष्यति ||२९||
सिन्धुराजो महाराज मतो मे द्विगुणो रथः |
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ||३०||
द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः |
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ||३१||
एतेन हि तदा राजंस्तप आस्थाय दारुणम् |
सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे ||३२||
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे |
योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ||३३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
163-अध्यायः
भीष्म उवाच||
सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः |
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ||१||
एतस्य रथसिंहस्य तवार्थे राजसत्तम |
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ||२||
एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् |
काम्बोजानां महाराज शलभानामिवायतिः ||३||
नीलो माहिष्मतीवासी नीलवर्मधरस्तव |
रथवंशेन शत्रूणां कदनं वै करिष्यति ||४||
कृतवैरः पुरा चैव सहदेवेन पार्थिवः |
योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम ||५||
विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ |
कृतिनौ समरे तात दृढवीर्यपराक्रमौ ||६||
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः |
गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः ||७||
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ |
यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ||८||
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम |
कृतवैराश्च पार्थेन विराटनगरे तदा ||९||
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् |
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् ||१०||
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् |
एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् ||११||
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह |
दिशो विजयता राजञ्श्वेतवाहेन भारत ||१२||
ते हनिष्यन्ति पार्थानां समासाद्य महारथान् |
वरान्वरान्महेष्वासान्क्षत्रियाणां धुरन्धराः ||१३||
लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च |
उभौ तौ पुरुषव्याघ्रौ सङ्ग्रामेष्वनिवर्तिनौ ||१४||
तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ |
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ||१५||
रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ |
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ||१६||
दण्डधारो महाराज रथ एको नरर्षभः |
योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः ||१७||
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः |
रथो मम मतस्तात दृढवेगपराक्रमः ||१८||
एष योत्स्यति सङ्ग्रामे स्वां चमूं सम्प्रहर्षयन् |
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ||१९||
कृपः शारद्वतो राजन्रथयूथपयूथपः |
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ||२०||
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः |
कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् ||२१||
एष सेनां बहुविधां विविधायुधकार्मुकाम् |
अग्निवत्समरे तात चरिष्यति विमर्दयन् ||२२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
164-अध्यायः
भीष्म उवाच||
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप |
प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ||१||
एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः |
विकृतायुधभूयिष्ठा वायुवेगसमा जवे ||२||
द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम् |
समरे चित्रयोधी च दृढास्त्रश्च महारथः ||३||
एतस्य हि महाराज यथा गाण्डीवधन्वनः |
शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः ||४||
नैष शक्यो मया वीरः सङ्ख्यातुं रथसत्तमः |
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः ||५||
क्रोधस्तेजश्च तपसा सम्भृतोऽऽश्रमवासिना |
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ||६||
दोषस्त्वस्य महानेको येनैष भरतर्षभ |
न मे रथो नातिरथो मतः पार्थिवसत्तम ||७||
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः |
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ||८||
हन्यादेकरथेनैव देवानामपि वाहिनीम् |
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ||९||
असङ्ख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः |
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ||१०||
युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः |
एष भारत युद्धस्य पृष्ठं संशमयिष्यति ||११||
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः |
रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः ||१२||
अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः |
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः ||१३||
रथयूथपयूथानां यूथपः स नरर्षभः |
भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः ||१४||
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः |
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः ||१५||
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् |
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ||१६||
श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः |
पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति ||१७||
हन्यादेकरथेनैव देवगन्धर्वदानवान् |
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ||१८||
पौरवो राजशार्दूलस्तव राजन्महारथः |
मतो मम रथो वीर परवीररथारुजः ||१९||
स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम् |
प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा ||२०||
सत्यव्रतो रथवरो राजपुत्रो महारथः |
तव राजन्रिपुबले कालवत्प्रचरिष्यति ||२१||
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः |
विचरिष्यन्ति सङ्ग्रामे निघ्नन्तः शात्रवांस्तव ||२२||
वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः |
प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः ||२३||
जलसन्धो महातेजा राजन्रथवरस्तव |
त्यक्ष्यते समरे प्राणान्मागधः परवीरहा ||२४||
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः |
रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम् ||२५||
रथ एष महाराज मतो मम नरर्षभः |
त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे ||२६||
एष विक्रान्तयोधी च चित्रयोधी च सङ्गरे |
वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते ||२७||
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता |
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ||२८||
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन |
यथा सततगो राजन्नाभिहत्य परान्रणे ||२९||
सेनापतिर्महाराज सत्यवांस्ते महारथः |
रणेष्वद्भुतकर्मा च रथः पररथारुजः ||३०||
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन |
उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् ||३१||
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् |
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ||३२||
अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः |
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ||३३||
एष राक्षससैन्यानां सर्वेषां रथसत्तमः |
मायावी दृढवैरश्च समरे विचरिष्यति ||३४||
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् |
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ||३५||
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः |
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ||३६||
ततः सखायं गान्धारे मानयन्पाकशासनम् |
अकरोत्संविदं तेन पाण्डवेन महात्मना ||३७||
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः |
ऐरावतगतो राजा देवानामिव वासवः ||३८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
165-अध्यायः
भीष्म उवाच||
अचलो वृषकश्चैव भ्रातरौ सहितावुभौ |
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ||१||
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ |
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ||२||
सखा ते दयितो नित्यं य एष रणकर्कशः |
प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ||३||
परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव |
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ||४||
एष नैव रथः पूर्णो नाप्येवातिरथो नृप |
वियुक्तः कवचेनैष सहजेन विचेतनः ||५||
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी ||५||
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् |
करणानां वियोगाच्च तेन मेऽर्धरथो मतः ||६||
नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते ||६||
सञ्जय उवाच||
ततोऽब्रवीन्महाबाहुर्द्रोणः शस्त्रभृतां वरः |
एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किञ्चन ||७||
रणे रणेऽतिमानी च विमुखश्चैव दृश्यते |
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ||८||
एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः |
उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत् ||९||
पितामह यथेष्टं मां वाक्षरैरुपकृन्तसि |
अनागसं सदा द्वेषादेवमेव पदे पदे ||१०||
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै ||१०||
त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा |
भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः ||११||
सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे |
कुरूणामहितो नित्यं न च राजावबुध्यते ||१२||
को हि नाम समानेषु राजसूदात्तकर्मसु |
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे ||१३||
यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि ||१३||
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः |
महारथत्वं सङ्ख्यातुं शक्यं क्षत्रस्य कौरव ||१४||
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः |
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः ||१५||
यथेच्छकं स्वयङ्ग्राहाद्रथानतिरथांस्तथा |
कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ||१६||
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् |
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ||१७||
भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत |
मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता ||१८||
एषां द्वैधं समुत्पन्नं योधानां युधि भारत |
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ||१९||
रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः |
अहमावारयिष्यामि पाण्डवानामनीकिनीम् ||२०||
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश |
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ||२१||
क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा |
क्व च भीष्मो गतवया मन्दात्मा कालमोहितः ||२२||
स्पर्धते हि सदा नित्यं सर्वेण जगता सह |
न चान्यं पुरुषं कञ्चिन्मन्यते मोघदर्शनः ||२३||
श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम् |
न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः ||२४||
अहमेको हनिष्यामि पाण्डवान्नात्र संशयः |
सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति ||२५||
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप |
सेनापतिं गुणो गन्ता न तु योधान्कथञ्चन ||२६||
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन |
हते तु भीष्मे योधास्मि सर्वैरेव महारथैः ||२७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
166-अध्यायः
भीष्म उवाच||
समुद्यतोऽयं भारो मे सुमहान्सागरोपमः |
धार्तराष्ट्रस्य सङ्ग्रामे वर्षपूगाभिचिन्तितः ||१||
तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे |
मिथोभेदो न मे कार्यस्तेन जीवसि सूतज ||२||
न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव |
युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज ||३||
जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता |
न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि ||४||
कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम् |
वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन ||५||
समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे |
निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः ||६||
ईदृशानां सहस्राणि विशिष्टानामथो पुनः |
मयैकेन निरस्तानि ससैन्यानि रणाजिरे ||७||
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् |
उपस्थितो विनाशाय यतस्व पुरुषो भव ||८||
युध्यस्व पार्थं समरे येन विस्पर्धसे सह |
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ||९||
सञ्जय उवाच||
तमुवाच ततो राजा धार्तराष्ट्रो महामनाः |
मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ||१०||
चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम् |
उभावपि भवन्तौ मे महत्कर्म करिष्यतः ||११||
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् |
ये चैवातिरथास्तत्र तथैव रथयूथपाः ||१२||
बलाबलममित्राणां श्रोतुमिच्छामि कौरव |
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ||१३||
भीष्म उवाच||
एते रथास्ते सङ्ख्यातास्तथैवातिरथा नृप |
य चाप्यर्धरथा राजन्पाण्डवानामतः शृणु ||१४||
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप |
रथसङ्ख्यां महाबाहो सहैभिर्वसुधाधिपैः ||१५||
स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः |
अग्निवत्समरे तात चरिष्यति न संशयः ||१६||
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः |
नागायुतबलो मानी तेजसा न स मानुषः ||१७||
माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ |
अश्विनाविव रूपेण तेजसा च समन्वितौ ||१८||
एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः |
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः ||१९||
सर्व एव महात्मानः शालस्कन्धा इवोद्गताः |
प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः ||२०||
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः |
चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः ||२१||
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः |
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः ||२२||
सर्वे जितमहीपाला दिग्जये भरतर्षभ ||२२||
न चैषां पुरुषाः केचिदायुधानि गदाः शरान् |
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ||२३||
उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम् ||२३||
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे |
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः ||२४||
ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः |
विध्वंसयिष्यन्ति रणे मा स्म तैः सह सङ्गमः ||२५||
एकैकशस्ते सङ्ग्रामे हन्युः सर्वान्महीक्षितः |
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ||२६||
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः |
ते संस्मरन्तः सङ्ग्रामे विचरिष्यन्ति कालवत् ||२७||
लोहिताक्षो गुडाकेशो नारायणसहायवान् |
उभयोः सेनयोर्वीर रथो नास्तीह तादृशः ||२८||
न हि देवेषु वा पूर्वं दानवेषूरगेषु वा |
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ||२९||
भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः |
समायुक्तो महाराज यथा पार्थस्य धीमतः ||३०||
वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः |
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ||३१||
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी |
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च ||३२||
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः |
वज्रादीनि च मुख्यानि नानाप्रहरणानि वै ||३३||
दानवानां सहस्राणि हिरण्यपुरवासिनाम् |
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः ||३४||
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः |
तव सेनां महाबाहुः स्वां चैव परिपालयन् ||३५||
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम् |
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि ||३६||
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ||३६||
जीमूत इव घर्मान्ते महावातसमीरितः |
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् ||३७||
तरुणश्च कृती चैव जीर्णावावामुभावपि ||३७||
सञ्जय उवाच||
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा |
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ||३८||
मनोभिः सह सावेगैः संस्मृत्य च पुरातनम् |
सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात् ||३९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
167-अध्यायः
भीष्म उवाच||
द्रौपदेया महाराज सर्वे पञ्च महारथाः |
वैराटिरुत्तरश्चैव रथो मम महान्मतः ||१||
अभिमन्युर्महाराज रथयूथपयूथपः |
समः पार्थेन समरे वासुदेवेन वा भवेत् ||२||
लघ्वस्त्रश्चित्रयोधी च मनस्वी दृढविक्रमः |
संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति ||३||
सात्यकिर्माधवः शूरो रथयूथपयूथपः |
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः ||४||
उत्तमौजास्तथा राजन्रथो मम महान्मतः |
युधामन्युश्च विक्रान्तो रथोदारो नरर्षभः ||५||
एतेषां बहुसाहस्रा रथा नागा हयास्तथा |
योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया ||६||
पाण्डवैः सह राजेन्द्र तव सेनासु भारत |
अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् ||७||
अजेयौ समरे वृद्धौ विराटद्रुपदावुभौ |
महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ ||८||
वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौ |
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि ||९||
सम्बन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात् |
आर्यवृत्तौ महेष्वासौ स्नेहपाशसितावुभौ ||१०||
कारणं प्राप्य तु नराः सर्व एव महाभुजाः |
शूरा वा कातरा वापि भवन्ति नरपुङ्गव ||११||
एकायनगतावेतौ पार्थेन दृढभक्तिकौ |
त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप ||१२||
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ |
सम्बन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः ||१३||
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत |
प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः ||१४||