श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
168-अध्यायः
भीष्म उवाच||
पाञ्चालराजस्य सुतो राजन्परपुरञ्जयः |
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ||१||
एष योत्स्यति सङ्ग्रामे नाशयन्पूर्वसंस्थितिम् |
परं यशो विप्रथयंस्तव सेनासु भारत ||२||
एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः |
तेनासौ रथवंशेन महत्कर्म करिष्यति ||३||
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत |
मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः ||४||
एष योत्स्यति सङ्ग्रामे सूदयन्वै परान्रणे |
भगवानिव सङ्क्रुद्धः पिनाकी युगसङ्क्षये ||५||
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः |
बहुत्वात्सागरप्रख्यं देवानामिव संयुगे ||६||
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप |
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः ||७||
शिशुपालसुतो वीरश्चेदिराजो महारथः |
धृष्टकेतुर्महेष्वासः सम्बन्धी पाण्डवस्य ह ||८||
एष चेदिपतिः शूरः सह पुत्रेण भारत |
महारथेनासुकरं महत्कर्म करिष्यति ||९||
क्षत्रधर्मरतो मह्यं मतः परपुरञ्जयः |
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः ||१०||
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः ||१०||
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः |
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः ||११||
अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ |
पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः ||१२||
शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ ||१२||
केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः |
सर्व एते रथोदाराः सर्वे लोहितकध्वजाः ||१३||
काशिकः सुकुमारश्च नीलो यश्चापरो नृपः |
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः ||१४||
सर्व एते रथोदाराः सर्वे चाहवलक्षणाः |
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम ||१५||
वार्धक्षेमिर्महाराज रथो मम महान्मतः |
चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः ||१६||
स हि सङ्ग्रामशोभी च भक्तश्चापि किरीटिनः ||१६||
चेकितानः सत्यधृतिः पाण्डवानां महारथौ |
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम ||१७||
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत |
मतौ मम रथोदारौ पाण्डवानां न संशयः ||१८||
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः |
यः समो वासुदेवेन भीमसेनेन चाभिभूः ||१९||
स योत्स्यतीह विक्रम्य समरे तव सैनिकैः ||१९||
मां द्रोणं च कृपं चैव यथा संमन्यते भवान् |
तथा स समरश्लाघी मन्तव्यो रथसत्तमः ||२०||
काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः |
रथ एकगुणो मह्यं मतः परपुरञ्जयः ||२१||
अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः |
सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा ||२२||
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः |
पाण्डवानां यशस्कामः परं कर्म करिष्यति ||२३||
अनुरक्तश्च शूरश्च रथोऽयमपरो महान् |
पाण्ड्यराजो महावीर्यः पाण्डवानां धुरन्धरः ||२४||
दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः |
श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः ||२५||
उभावेतावतिरथौ मतौ मम परन्तप ||२५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
169-अध्यायः
भीष्म उवाच||
रोचमानो महाराज पाण्डवानां महारथः |
योत्स्यतेऽमरवत्सङ्ख्ये परसैन्येषु भारत ||१||
पुरुजित्कुन्तिभोजश्च महेष्वासो महाबलः |
मातुलो भीमसेनस्य स च मेऽतिरथो मतः ||२||
एष वीरो महेष्वासः कृती च निपुणश्च ह |
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः ||३||
स योत्स्यति हि विक्रम्य मघवानिव दानवैः |
योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः ||४||
भागिनेयकृते वीरः स करिष्यति सङ्गरे |
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते नृपः ||५||
भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः |
मतो मे बहुमायावी रथयूथपयूथपः ||६||
योत्स्यते समरे तात मायाभिः समरप्रियः |
ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः ||७||
एते चान्ये च बहवो नानाजनपदेश्वराः |
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः ||८||
एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः |
रथाश्चातिरथाश्चैव ये चाप्यर्धरथा मताः ||९||
नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप |
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना ||१०||
तैरहं समरे वीर त्वामायद्भिर्जयैषिभिः |
योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे ||११||
पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ |
सन्ध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ ||१२||
ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः |
सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि ||१३||
एते रथाश्चातिरथाश्च तुभ्यं; यथाप्रधानं नृप कीर्तिता मया |
तथा राजन्नर्धरथाश्च के चि; त्तथैव तेषामपि कौरवेन्द्र ||१४||
अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः |
सर्वानावारयिष्यामि यावद्द्रक्ष्यामि भारत ||१५||
पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् |
उद्यतेषुमभिप्रेक्ष्य प्रतियुध्यन्तमाहवे ||१६||
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया |
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः ||१७||
चित्राङ्गदं कौरवाणामहं राज्येऽभ्यषेचयम् |
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् ||१८||
देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु |
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन ||१९||
स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः |
कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत ||२०||
सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ |
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप ||२१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
170-अध्यायः-अम्बोपाख्यानपर्व
दुर्योधन उवाच||
किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम् |
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ||१||
पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैः |
वधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ||२||
भीष्म उवाच||
शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः |
यदर्थं युधि सम्प्रेक्ष्य नाहं हन्यां शिखण्डिनम् ||३||
महाराजो मम पिता शन्तनुर्भरतर्षभः |
दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ ||४||
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् |
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् ||५||
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः |
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ||६||
मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः |
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ||७||
तस्य दारक्रियां तात चिकीर्षुरहमप्युत |
अनुरूपादिव कुलादिति चिन्त्य मनो दधे ||८||
तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे |
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा ||९||
अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा ||९||
राजानश्च समाहूताः पृथिव्यां भरतर्षभ |
अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा ||१०||
अम्बालिका च राजेन्द्र राजकन्या यवीयसी ||१०||
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् |
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलङ्कृताः ||११||
राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते ||११||
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान् |
रथमारोपयां चक्रे कन्यास्ता भरतर्षभ ||१२||
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा |
अवोचं पार्थिवान्सर्वानहं तत्र समागतान् ||१३||
भीष्मः शान्तनवः कन्या हरतीति पुनः पुनः ||१३||
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः |
प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः ||१४||
ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः |
योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन् ||१५||
ते रथैर्मेघसङ्काशैर्गजैश्च गजयोधिनः |
पृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ||१६||
ततस्ते मां महीपालाः सर्व एव विशां पते |
रथव्रातेन महता सर्वतः पर्यवारयन् ||१७||
तानहं शरवर्षेण महता प्रत्यवारयम् |
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ||१८||
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् |
एकैकेन हि बाणेन भूमौ पातितवानहम् ||१९||
हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे |
अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ ||२०||
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम |
अथाहं हास्तिनपुरमायां जित्वा महीक्षितः ||२१||
अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत |
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ||२२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
171-अध्यायः
भीष्म उवाच||
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् |
अभिगम्योपसङ्गृह्य दाशेयीमिदमब्रुवम् ||१||
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् |
विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः ||२||
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप |
आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया ||३||
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते |
उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता ||४||
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः |
श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुमिहार्हसि ||५||
मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः |
तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः ||६||
कथं मामन्यकामां त्वं राजञ्शास्त्रमधीत्य वै |
वासयेथा गृहे भीष्म कौरवः सन्विशेषतः ||७||
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ |
यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि ||८||
स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते |
कृपां कुरु महाबाहो मयि धर्मभृतां वर ||९||
त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम् ||९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
172-अध्यायः
भीष्म उवाच||
ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा |
मन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान् ||१||
समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप ||१||
अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम् |
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा ||२||
अतीत्य च तमध्वानमाससाद नराधिपम् ||२||
सा तमासाद्य राजानं शाल्वं वचनमब्रवीत् |
आगताहं महाबाहो त्वामुद्दिश्य महाद्युते ||३||
तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पते |
त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ||४||
गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वै |
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ||५||
त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा |
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ||६||
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि ||६||
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् |
नारीं विदितविज्ञानः परेषां धर्ममादिशन् ||७||
यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम् ||७||
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता |
मैवं वद महीपाल नैतदेवं कथञ्चन ||८||
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन |
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् ||९||
भजस्व मां शाल्वपते भक्तां बालामनागसम् |
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ||१०||
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् |
अनुज्ञाता च तेनैव तवैव गृहमागता ||११||
न स भीष्मो महाबाहुर्मामिच्छति विशां पते |
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ||१२||
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप |
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ||१३||
यथा शाल्वपते नान्यं नरं ध्यामि कथञ्चन |
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ||१४||
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता |
सत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे ||१५||
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम् |
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ||१६||
तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम् |
अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः ||१७||
एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघ |
नाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ ||१८||
ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता |
अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा ||१९||
त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते |
तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम् ||२०||
एवं सम्भाषमाणां तु नृशंसः शाल्वराट्तदा |
पर्यत्यजत कौरव्य करुणं परिदेवतीम् ||२१||
गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत |
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ||२२||
एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना |
निश्चक्राम पुराद्दीना रुदती कुररी यथा ||२३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
173-अध्यायः
भीष्म उवाच||
सा निष्क्रमन्ती नगराच्चिन्तयामास भारत |
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ||१||
बान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता ||१||
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् |
अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम् ||२||
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् |
आहो स्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् ||३||
ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा |
प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा ||४||
तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत् ||४||
धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम् |
येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता ||५||
धिङ्मां धिक्षाल्वराजानं धिग्धातारमथापि च |
येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ||६||
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः |
अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम ||७||
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि साम्प्रतम् |
तपसा वा युधा वापि दुःखहेतुः स मे मतः ||८||
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः ||८||
एवं सा परिनिश्चित्य जगाम नगराद्बहिः |
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ||९||
ततस्तामवसद्रात्रिं तापसैः परिवारिता ||९||
आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत |
विस्तरेण महाबाहो निखिलेन शुचिस्मिता ||१०||
हरणं च विसर्गं च शाल्वेन च विसर्जनम् ||१०||
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः |
शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः ||११||
आर्तां तामाह स मुनिः शैखावत्यो महातपाः |
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ||१२||
एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः |
आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः ||१३||
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः |
प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम् ||१४||
मयैवैतानि कर्माणि पूर्वदेहेषु मूढया |
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् ||१५||
नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः |
प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता ||१६||
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः |
युष्माभिर्देवसङ्काशाः कृपा भवतु वो मयि ||१७||
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः |
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
174-अध्यायः
भीष्म उवाच||
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा |
तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः ||१||
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः |
केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः ||२||
केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे |
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ||३||
एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः |
पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः ||४||
अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः |
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ||५||
प्रतिपत्स्यति राजा स पिता ते यदनन्तरम् |
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ||६||
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता ||६||
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि |
गतिः पतिः समस्थाया विषमे तु पिता गतिः ||७||
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः |
राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि ||८||
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि |
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ||९||
ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम् |
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने ||१०||
प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः ||१०||
अम्बोवाच||
न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान् |
अवज्ञाता भविष्यामि बान्धवानां न संशयः ||११||
उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः |
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम ||१२||
तपस्तप्तुमभीप्सामि तापसैः परिपालिता ||१२||
यथा परेऽपि मे लोके न स्यादेवं महात्ययः |
दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ||१३||
भीष्म उवाच||
इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा |
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ||१४||
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् |
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ||१५||
तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः |
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ||१६||
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत |
स वेपमान उत्थाय मातुरस्याः पिता तदा ||१७||
तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो ||१७||
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः |
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ||१८||
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः |
कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ||१९||
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः |
मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् ||२०||
दुःखं छेत्स्यामि तेऽहं वै मयि वर्तस्व पुत्रिके |
पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि ||२१||
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् |
रामस्तव महद्दुःखं शोकं चापनयिष्यति ||२२||
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः ||२२||
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् |
प्रतिष्ठापयिता स त्वां समे पथि महातपाः ||२३||
ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः |
अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम् ||२४||
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् |
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् ||२५||
कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः |
एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै ||२६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
175-अध्यायः
होत्रवाहन उवाच||
रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने |
उग्रे तपसि वर्तन्तं सत्यसन्धं महाबलम् ||१||
महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यमुपासते |
ऋषयो वेदविदुषो गन्धर्वाप्सरसस्तथा ||२||
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम |
अभिवाद्य पूर्वं शिरसा तपोवृद्धं दृढव्रतम् ||३||
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम् |
मयि सङ्कीर्तिते रामः सर्वं तत्ते करिष्यति ||४||
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे |
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ||५||
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने |
अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः ||६||
ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः |
स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः ||७||
ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः |
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ||८||
ततस्ते कथयामासुः कथास्तास्ता मनोरमाः |
कान्ता दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ||९||
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः |
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ||१०||
क्व सम्प्रति महाबाहो जामदग्न्यः प्रतापवान् |
अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः ||११||
अकृतव्रण उवाच||
भवन्तमेव सततं रामः कीर्तयति प्रभो |
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ||१२||
इह रामः प्रभाते श्वो भवितेति मतिर्मम |
द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्क्षया ||१३||
इयं च कन्या राजर्षे किमर्थं वनमागता |
कस्य चेयं तव च का भवतीच्छामि वेदितुम् ||१४||
होत्रवाहन उवाच||
दौहित्रीयं मम विभो काशिराजसुता शुभा |
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ ||१५||
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता |
अम्बिकाम्बालिके त्वन्ये यवीयस्यौ तपोधन ||१६||
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत् |
कन्यानिमित्तं ब्रह्मर्षे तत्रासीदुत्सवो महान् ||१७||
ततः किल महावीर्यो भीष्मः शान्तनवो नृपान् |
अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः ||१८||
निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम् |
आजगाम विशुद्धात्मा कन्याभिः सह भारत ||१९||
सत्यवत्यै निवेद्याथ विवाहार्थमनन्तरम् |
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ||२०||
ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् |
अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ||२१||
मया शाल्वपतिर्वीर मनसाभिवृतः पतिः |
न मामर्हसि धर्मज्ञ परचित्तां प्रदापितुम् ||२२||
तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः |
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ||२३||
अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः |
कन्येयं मुदिता विप्र काले वचनमब्रवीत् ||२४||
विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय |
मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ ||२५||
प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः |
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ||२६||
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् |
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते ||२७||
अम्बोवाच||
भगवन्नेवमेवैतद्यथाह पृथिवीपतिः |
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ||२८||
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन |
अवमानभयाच्चैव व्रीडया च महामुने ||२९||
यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम |
तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः ||३०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
176-अध्यायः
अकृतव्रण उवाच||
दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि |
प्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे ||१||
यदि सौभपतिर्भद्रे नियोक्तव्यो मते तव |
नियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया ||२||
अथापगेयं भीष्मं तं रामेणेच्छसि धीमता |
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ||३||
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते |
यदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम् ||४||
अम्बोवाच||
अपनीतास्मि भीष्मेण भगवन्नविजानता |
न हि जानाति मे भीष्मो ब्रह्मञ्शाल्वगतं मनः ||५||
एतद्विचार्य मनसा भवानेव विनिश्चयम् |
विचिनोतु यथान्यायं विधानं क्रियतां तथा ||६||
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः |
उभयोरेव वा ब्रह्मन्यद्युक्तं तत्समाचर ||७||
निवेदितं मया ह्येतद्दुःखमूलं यथातथम् |
विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ||८||
अकृतव्रण उवाच||
उपपन्नमिदं भद्रे यदेवं वरवर्णिनि |
धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम ||९||
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् |
शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः ||१०||
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि |
संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे ||११||
भीष्मः पुरुषमानी च जितकाशी तथैव च |
तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया ||१२||
अम्बोवाच||
ममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्तते |
घातयेयं यदि रणे भीष्ममित्येव नित्यदा ||१३||
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि |
प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता ||१४||
भीष्म उवाच||
एवं कथयतामेव तेषां स दिवसो गतः |
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ||१५||
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा |
शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ||१६||
धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधी |
विरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम् ||१७||
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः |
तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी ||१८||
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् |
अर्चितश्च यथायोगं निषसाद सहैव तैः ||१९||
ततः पूर्वव्यतीतानि कथयेते स्म तावुभौ |
सृञ्जयश्च स राजर्षिर्जामदग्न्यश्च भारत ||२०||
ततः कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् |
उवाच मधुरं काले रामं वचनमर्थवत् ||२१||
रामेयं मम दौहित्री काशिराजसुता प्रभो |
अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ||२२||
परमं कथ्यतां चेति तां रामः प्रत्यभाषत |
ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम् ||२३||
सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा |
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ||२४||
रुरोद सा शोकवती बाष्पव्याकुललोचना |
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ||२५||
राम उवाच||
यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे |
ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ||२६||
अम्बोवाच||
भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रत |
शोकपङ्कार्णवाद्घोरादुद्धरस्व च मां विभो ||२७||
भीष्म उवाच||
तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनः |
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ||२८||
किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः |
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ||२९||
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता |
सर्वमेव यथातत्त्वं कथयामास भार्गवे ||३०||
तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा |
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ||३१||
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि |
करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः ||३२||
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः |
धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा ||३३||
अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते |
तावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि ||३४||
अम्बोवाच||
विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन |
शाल्वराजगतं चेतो मम पूर्वं मनीषितम् ||३५||
सौभराजमुपेत्याहमब्रुवं दुर्वचं वचः |
न च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः ||३६||
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन |
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ||३७||
ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः |
येनाहं वशमानीता समुत्क्षिप्य बलात्तदा ||३८||
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् |
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ||३९||
स हि लुब्धश्च मानी च जितकाशी च भार्गव |
तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ ||४०||
एष मे ह्रियमाणाया भारतेन तदा विभो |
अभवद्धृदि सङ्कल्पो घातयेयं महाव्रतम् ||४१||
तस्मात्कामं ममाद्येमं राम संवर्तयानघ |
जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः ||४२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
177-अध्यायः
भीष्म उवाच||
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो |
उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः ||१||
काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि |
ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते ||२||
वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ |
भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः ||३||
न तु शस्त्रं ग्रहीष्यामि कथञ्चिदपि भामिनि |
ऋते नियोगाद्विप्राणामेष मे समयः कृतः ||४||
अम्बोवाच||
मम दुःखं भगवता व्यपनेयं यतस्ततः |
तत्तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम् ||५||
राम उवाच||
काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ |
शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम ||६||
अम्बोवाच||
जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम् |
प्रतिश्रुतं च यदि तत्सत्यं कर्तुमिहार्हसि ||७||
भीष्म उवाच||
तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा |
अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् ||८||
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि |
जहि भीष्मं रणे राम गर्जन्तमसुरं यथा ||९||
यदि भीष्मस्त्वयाहूतो रणे राम महामुने |
निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव ||१०||
कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन |
वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो ||११||
इयं चापि प्रतिज्ञा ते तदा राम महामुने |
जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम् ||१२||
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि |
ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव ||१३||
शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम् |
न शक्ष्यामि परित्यागं कर्तुं जीवन्कथञ्चन ||१४||
यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम् |
दृप्तात्मानमहं तं च हनिष्यामीति भार्गव ||१५||
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः |
तेन युध्यस्व सङ्ग्रामे समेत्य भृगुनन्दन ||१६||
राम उवाच||
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम |
तथैव च करिष्यामि यथा साम्नैव लप्स्यते ||१७||
कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम् |
गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः ||१८||
यदि भीष्मो रणश्लाघी न करिष्यति मे वचः |
हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः ||१९||
न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम् |
कायेषु विदितं तुभ्यं पुरा क्षत्रियसङ्गरे ||२०||
भीष्म उवाच||
एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः |
प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः ||२१||
ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः |
हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया ||२२||
अभ्यगच्छत्ततो रामः सह तैर्ब्राह्मणर्षभैः |
कुरुक्षेत्रं महाराज कन्यया सह भारत ||२३||
न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् |
तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः ||२४||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
178-अध्यायः
भीष्म उवाच||
ततस्तृतीये दिवसे समे देशे व्यवस्थितः |
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः ||१||
तमागतमहं श्रुत्वा विषयान्तं महाबलम् |
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ||२||
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः |
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः ||३||
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् |
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ||४||
भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया |
अकामेयमिहानीता पुनश्चैव विसर्जिता ||५||
विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात् |
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति ||६||
प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत |
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत ||७||
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम् |
न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ ||८||
ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम् |
नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथञ्चन ||९||
शाल्वस्याहमिति प्राह पुरा मामिह भार्गव |
मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति ||१०||
न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया |
क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम् ||११||
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः |
न करिष्यसि चेदेतद्वाक्यं मे कुरुपुङ्गव ||१२||
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः |
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः ||१३||
तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम् |
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ||१४||
तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम् |
अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि ||१५||
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम् |
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ||१६||
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः |
जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे ||१७||
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते ||१७||
न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन |
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः ||१८||
त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति ||१८||
तथा ब्रुवन्तं तमहं रामं परपुरञ्जयम् |
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ||१९||
गुरुत्वं त्वयि सम्प्रेक्ष्य जामदग्न्य पुरातनम् |
प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया ||२०||
को जातु परभावां हि नारीं व्यालीमिव स्थिताम् |
वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान् ||२१||
न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते |
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम् ||२२||
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो |
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना ||२३||
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः |
उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् ||२४||
स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् |
गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया ||२५||
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः |
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ||२६||
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् |
यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् ||२७||
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ||२७||
क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन |
यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् ||२८||
नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति ||२८||
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् |
अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च ||२९||
यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे |
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ||३०||
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् ||३०||
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन |
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह ||३१||
द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने ||३१||
तत्र त्वं निहतो राम मया शरशताचितः |
लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे ||३२||
स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय |
तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन ||३३||
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः |
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव ||३४||
तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद |
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव ||३५||
यच्चापि कत्थसे राम बहुशः परिषत्सु वै |
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु ||३६||
न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा |
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् ||३७||
सोऽहं जातो महाबाहो भीष्मः परपुरञ्जयः |
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ||३८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
179-अध्यायः
भीष्म उवाच||
ततो मामब्रवीद्रामः प्रहसन्निव भारत |
दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि सङ्गरे ||१||
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह |
भाषितं तत्करिष्यामि तत्रागच्छेः परन्तप ||२||
तत्र त्वां निहतं माता मया शरशताचितम् |
जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम् ||३||
कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता |
मया विनिहतं देवी रोदतामद्य पार्थिव ||४||
अतदर्हा महाभागा भगीरथसुता नदी |
या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् ||५||
एहि गच्छ मया भीष्म युद्धमद्यैव वर्तताम् |
गृहाण सर्वं कौरव्य रथादि भरतर्षभ ||६||
इति ब्रुवाणं तमहं रामं परपुरञ्जयम् |
प्रणम्य शिरसा राजन्नेवमस्त्वित्यथाब्रुवम् ||७||
एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया |
प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् ||८||
ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः |
द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते ||९||
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः |
सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् ||१०||
उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् |
तत्कुलीनेन वीरेण हयशास्त्रविदा नृप ||११||
युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा |
दंशितः पाण्डुरेणाहं कवचेन वपुष्मता ||१२||
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम |
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ||१३||
पाण्डुरैश्चामरैश्चापि वीज्यमानो नराधिप |
शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः ||१४||
स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात् |
कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ ||१५||
ते हयाश्चोदितास्तेन सूतेन परमाहवे |
अवहन्मां भृशं राजन्मनोमारुतरंहसः ||१६||
गत्वाहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् |
युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् ||१७||
ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः |
प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम् ||१८||
ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः |
अपश्यन्त रणं दिव्यं देवाः सर्षिगणास्तदा ||१९||
ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः |
वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह ||२०||
ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः |
प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् ||२१||
ततो मामब्रवीद्देवी सर्वभूतहितैषिणी |
माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम् ||२२||
गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह |
भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः ||२३||
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव |
जामदग्न्येन समरे योद्धुमित्यवभर्त्सयत् ||२४||
किं न वै क्षत्रियहरो हरतुल्यपराक्रमः |
विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि ||२५||
ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः |
सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे ||२६||
यथा च रामो राजेन्द्र मया पूर्वं प्रसादितः |
काशिराजसुतायाश्च यथा कामः पुरातनः ||२७||
ततः सा राममभ्येत्य जननी मे महानदी |
मदर्थं तमृषिं देवी क्षमयामास भार्गवम् ||२८||
भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत् ||२८||
स च तामाह याचन्तीं भीष्ममेव निवर्तय |
न हि मे कुरुते काममित्यहं तमुपागमम् ||२९||
सञ्जय उवाच||
ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत् |
न चास्याः सोऽकरोद्वाक्यं क्रोधपर्याकुलेक्षणः ||३०||
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः |
आह्वयामास च पुनर्युद्धाय द्विजसत्तमः ||३१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
180-अध्यायः
भीष्म उवाच||
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् |
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ||१||
आरोह स्यन्दनं वीर कवचं च महाभुज |
बधान समरे राम यदि योद्धुं मयेच्छसि ||२||
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे |
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ||३||
सूतो मे मातरिश्वा वै कवचं वेदमातरः |
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ||४||
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः |
शरव्रातेन महता सर्वतः पर्यवारयत् ||५||
ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम् |
सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने ||६||
मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे |
दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते ||७||
ध्वजेन च महाबाहो सोमालङ्कृतलक्ष्मणा |
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ||८||
सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः |
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ||९||
आह्वयानः स मां युद्धे मनो हर्षयतीव मे |
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ||१०||
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् |
क्षत्रियान्तकरं राममेकमेकः समासदम् ||११||
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै |
अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम् ||१२||
अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम् |
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ||१३||
योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च |
गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो ||१४||
राम उवाच||
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता |
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ||१५||
शपेयं त्वां न चेदेवमागच्छेथा विशां पते |
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ||१६||
न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः |
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ||१७||
भीष्म उवाच||
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः |
प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम् ||१८||
ततो युद्धं समभवन्मम तस्य च भारत |
दिवसान्सुबहून्राजन्परस्परजिगीषया ||१९||
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः |
षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम् ||२०||
चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते |
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ||२१||
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत |
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ||२२||
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि |
भूयस्तु शृणु मे ब्रह्मन्सम्पदं धर्मसङ्ग्रहे ||२३||
ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत् |
तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् ||२४||
प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः |
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ||२५||
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे |
एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम् ||२६||
तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ |
तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत् ||२७||
नव चापि पृषत्कानां शतानि नतपर्वणाम् |
प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति ||२८||
काये विषक्तास्तु तदा वायुनाभिसमीरिताः |
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ||२९||
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः |
बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन् ||३०||
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः |
बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः ||३१||
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः |
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ||३२||
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः |
अकम्पयन्महावेगाः सर्पानलविषोपमाः ||३३||
ततोऽहं समवष्टभ्य पुनरात्मानमाहवे |
शतसङ्ख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ||३४||
स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः |
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ||३५||
ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना |
धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ ||३६||
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः |
अहो बत कृतं पापं मयेदं क्षत्रकर्मणा ||३७||
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः |
ततो न प्राहरं भूयो जामदग्न्याय भारत ||३८||
अथावताप्य पृथिवीं पूषा दिवससङ्क्षये |
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ||३९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
181-अध्यायः
भीष्म उवाच||
आत्मनस्तु ततः सूतो हयानां च विशां पते |
मम चापनयामास शल्यान्कुशलसंमतः ||१||
स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः |
प्रभात उदिते सूर्ये ततो युद्धमवर्तत ||२||
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम् |
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ||३||
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् |
धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् ||४||
अभिवाद्य तथैवाहं रथमारुह्य भारत |
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ||५||
ततो मां शरवर्षेण महता समवाकिरत् |
अहं च शरवर्षेण वर्षन्तं समवाकिरम् ||६||
सङ्क्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः |
प्रेषयामास मे राजन्दीप्तास्यानुरगानिव ||७||
तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः |
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ||८||
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् |
मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् ||९||
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम् |
ततो दिवि महान्नादः प्रादुरासीत्समन्ततः ||१०||
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् |
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ||११||
ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान् |
वारुणेनैव रामस्तद्वारयामास मे विभुः ||१२||
एवमस्त्राणि दिव्यानि रामस्याहमवारयम् |
रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः ||१३||
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः |
उरस्यविध्यत्सङ्क्रुद्धो जामदग्न्यो महाबलः ||१४||
ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे |
अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत् ||१५||
गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम् ||१५||
ततो मामपयातं वै भृशं विद्धमचेतसम् |
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः ||१६||
अकृतव्रणप्रभृतयः काशिकन्या च भारत ||१६||
ततस्तु लब्धसञ्ज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् |
याहि सूत यतो रामः सज्जोऽहं गतवेदनः ||१७||
ततो मामवहत्सूतो हयैः परमशोभितैः |
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ||१८||
ततोऽहं राममासाद्य बाणजालेन कौरव |
अवाकिरं सुसंरब्धः संरब्धं विजिगीषया ||१९||
तानापतत एवासौ रामो बाणानजिह्मगान् |
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ||२०||
ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः |
रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे ||२१||
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् |
असृजं जामदग्न्याय रामायाहं जिघांसया ||२२||
तेन त्वभिहतो गाढं बाणच्छेदवशं गतः |
मुमोह सहसा रामो भूमौ च निपपात ह ||२३||
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते |
जगद्भारत संविग्नं यथार्कपतनेऽभवत् ||२४||
तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः |
तपोधनास्ते सहसा काश्या च भृगुनन्दनम् ||२५||
त एनं सम्परिष्वज्य शनैराश्वासयंस्तदा |
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ||२६||
ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत् |
तिष्ठ भीष्म हतोऽसीति बाणं सन्धाय कार्मुके ||२७||
स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे |
येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः ||२८||
हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे |
अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः ||२९||
ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम् |
अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः ||३०||
रामस्य मम चैवाशु व्योमावृत्य समन्ततः ||३०||
न स्म सूर्यः प्रतपति शरजालसमावृतः |
मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् ||३१||
ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः |
अभितापात्स्वभावाच्च पावकः समजायत ||३२||
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना |
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ||३३||
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च |
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ||३४||
रामः शराणां सङ्क्रुद्धो मयि तूर्णमपातयत् ||३४||
ततोऽहं तानपि रणे शरैराशीविषोपमैः |
सञ्छिद्य भूमौ नृपतेऽपातयं पन्नगानिव ||३५||
एवं तदभवद्युद्धं तदा भरतसत्तम |
सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ||३६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
182-अध्यायः
भीष्म उवाच||
समागतस्य रामेण पुनरेवातिदारुणम् |
अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम ||१||
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः |
अयोजयत धर्मात्मा दिवसे दिवसे विभुः ||२||
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत |
व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान् ||३||
अस्त्रैरस्त्रेषु बहुधा हतेष्वथ च भार्गवः |
अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे ||४||
ततः शक्तिं प्राहिणोद्घोररूपा; मस्त्रै रुद्धो जामदग्न्यो महात्मा |
कालोत्सृष्टां प्रज्वलितामिवोल्कां; संदीप्ताग्रां तेजसावृत्य लोकान् ||५||
ततोऽहं तामिषुभिर्दीप्यमानैः; समायान्तीमन्तकालार्कदीप्ताम् |
छित्त्वा त्रिधा पातयामास भूमौ; ततो ववौ पवनः पुण्यगन्धिः ||६||
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः; शक्तीर्घोराः प्राहिणोद्द्वादशान्याः |
तासां रूपं भारत नोत शक्यं; तेजस्वित्वाल्लाघवाच्चैव वक्तुम् ||७||
किं त्वेवाहं विह्वलः सम्प्रदृश्य; दिग्भ्यः सर्वास्ता महोल्का इवाग्नेः |
नानारूपास्तेजसोग्रेण दीप्ता; यथादित्या द्वादश लोकसङ्क्षये ||८||
ततो जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन् |
द्वादशेषून्प्राहिणवं रणेऽहं; ततः शक्तीर्व्यधमं घोररूपाः ||९||
ततोऽपरा जामदग्न्यो महात्मा; शक्तीर्घोराः प्राक्षिपद्धेमदण्डाः |
विचित्रिताः काञ्चनपट्टनद्धा; यथा महोल्का ज्वलितास्तथा ताः ||१०||
ताश्चाप्युग्राश्चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र |
बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये; दिव्यांश्चाश्वानभ्यवर्षं ससूतान् ||११||
निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः |
प्रादुश्चक्रे दिव्यमस्त्रं महात्मा; क्रोधाविष्टो हैहयेशप्रमाथी ||१२||
ततः श्रेण्यः शलभानामिवोग्राः; समापेतुर्विशिखानां प्रदीप्ताः |
समाचिनोच्चापि भृशं शरीरं; हयान्सूतं सरथं चैव मह्यम् ||१३||
रथः शरैर्मे निचितः सर्वतोऽभू; त्तथा हयाः सारथिश्चैव राजन् |
युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तोऽथ भग्नः ||१४||
ततस्तस्मिन्बाणवर्षे व्यतीते; शरौघेण प्रत्यवर्षं गुरुं तम् |
स विक्षतो मार्गणैर्ब्रह्मराशि; र्देहादजस्रं मुमुचे भूरि रक्तम् ||१५||
यथा रामो बाणजालाभितप्त; स्तथैवाहं सुभृशं गाढविद्धः |
ततो युद्धं व्यरमच्चापराह्णे; भानावस्तं प्रार्थयाने महीध्रम् ||१६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
183-अध्यायः
भीष्म उवाच||
ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते |
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ||१||
ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः |
ववर्ष शरवर्षाणि मयि शक्र इवाचले ||२||
तेन सूतो मम सुहृच्छरवर्षेण ताडितः |
निपपात रथोपस्थे मनो मम विषादयन् ||३||
ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत् |
पृथिव्यां च शराघातान्निपपात मुमोह च ||४||
ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः |
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ||५||
ततः सूते हते राजन्क्षिपतस्तस्य मे शरान् |
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् ||६||
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः |
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ||७||
स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः |
मयैव सह राजेन्द्र जगाम वसुधातलम् ||८||
मत्वा तु निहतं रामस्ततो मां भरतर्षभ |
मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः ||९||
तथा तु पतिते राजन्मयि रामो मुदा युतः |
उदक्रोशन्महानादं सह तैरनुयायिभिः ||१०||
मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः |
आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः ||११||
आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते ||११||
ततोऽपश्यं पातितो राजसिंह; द्विजानष्टौ सूर्यहुताशनाभान् |
ते मां समन्तात्परिवार्य तस्थुः; स्वबाहुभिः परिगृह्याजिमध्ये ||१२||
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् |
अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ||१३||
स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ||१३||
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् |
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् ||१४||
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः |
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ||१५||
हयाश्च मे सङ्गृहीतास्तया वै; महानद्या संयति कौरवेन्द्र |
पादौ जनन्याः प्रतिपूज्य चाहं; तथार्ष्टिषेणं रथमभ्यरोहम् ||१६||
ररक्ष सा मम रथं हयांश्चोपस्कराणि च |
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ||१७||
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः |
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ||१८||
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् |
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ||१९||
ततो जगाम वसुधां बाणवेगप्रपीडितः |
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ||२०||
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे |
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ||२१||
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः |
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ||२२||
ववुश्च वाताः परुषाश्चलिता च वसुन्धरा |
गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः ||२३||
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् |
अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः ||२४||
एतदौत्पातिकं घोरमासीद्भरतसत्तम |
विसञ्ज्ञकल्पे धरणीं गते रामे महात्मनि ||२५||
ततो रविर्मन्दमरीचिमण्डलो; जगामास्तं पांसुपुञ्जावगाढः |
निशा व्यगाहत्सुखशीतमारुता; ततो युद्धं प्रत्यवहारयावः ||२६||
एवं राजन्नवहारो बभूव; ततः पुनर्विमलेऽभूत्सुघोरम् |
काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि त्रीणि ||२७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
184-अध्यायः
भीष्म उवाच||
ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा |
ब्राह्मणानां पितॄणां च देवतानां च सर्वशः ||१||
नक्तञ्चराणां भूतानां रजन्याश्च विशां पते |
शयनं प्राप्य रहिते मनसा समचिन्तयम् ||२||
जामदग्न्येन मे युद्धमिदं परमदारुणम् |
अहानि सुबहून्यद्य वर्तते सुमहात्ययम् ||३||
न च रामं महावीर्यं शक्नोमि रणमूर्धनि |
विजेतुं समरे विप्रं जामदग्न्यं महाबलम् ||४||
यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् |
दैवतानि प्रसन्नानि दर्शयन्तु निशां मम ||५||
ततोऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः |
दक्षिणेनैव पार्श्वेन प्रभातसमये इव ||६||
ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात् |
उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः ||७||
त एव मां महाराज स्वप्नदर्शनमेत्य वै |
परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह ||८||
उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किञ्चन |
रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान् ||९||
न त्वां रामो रणे जेता जामदग्न्यः कथञ्चन |
त्वमेव समरे रामं विजेता भरतर्षभ ||१०||
इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् |
विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे ||११||
प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत |
न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित् ||१२||
तत्स्मरस्व महाबाहो भृशं संयोजयस्व च |
न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप ||१३||
एनसा च न योगं त्वं प्राप्स्यसे जातु मानद |
स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः ||१४||
ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि |
अस्त्रेण दयितेनाजौ भीष्म सम्बोधनेन वै ||१५||
एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः |
प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम् ||१६||
न च रामेण मर्तव्यं कदाचिदपि पार्थिव |
ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति ||१७||
इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः |
अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
185-अध्यायः
भीष्म उवाच||
ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत |
तं च सञ्चिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् ||१||
ततः समभवद्युद्धं मम तस्य च भारत |
तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम् ||२||
ततो बाणमयं वर्षं ववर्ष मयि भार्गवः |
न्यवारयमहं तं च शरजालेन भारत ||३||
ततः परमसङ्क्रुद्धः पुनरेव महातपाः |
ह्यस्तनेनैव कोपेन शक्तिं वै प्राहिणोन्मयि ||४||
इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम् |
ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः ||५||
ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा |
सा मामभ्यहनत्तूर्णमंसदेशे च भारत ||६||
अथासृङ्मेऽस्रवद्घोरं गिरेर्गैरिकधातुवत् |
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण ||७||
ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः |
प्रेषयं मृत्युसङ्काशं बाणं सर्पविषोपमम् ||८||
स तेनाभिहतो वीरो ललाटे द्विजसत्तमः |
अशोभत महाराज सशृङ्ग इव पर्वतः ||९||
स संरब्धः समावृत्य बाणं कालान्तकोपमम् |
संदधे बलवत्कृष्य घोरं शत्रुनिबर्हणम् ||१०||
स वक्षसि पपातोग्रः शरो व्याल इव श्वसन् |
महीं राजंस्ततश्चाहमगच्छं रुधिराविलः ||११||
अवाप्य तु पुनः सञ्ज्ञां जामदग्न्याय धीमते |
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव ||१२||
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे |
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् ||१३||
तत एनं परिष्वज्य सखा विप्रो महातपाः |
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा ||१४||
समाश्वस्तस्तदा रामः क्रोधामर्षसमन्वितः |
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः ||१५||
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् |
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् ||१६||
तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः |
असम्प्राप्यैव रामं च मां च भारतसत्तम ||१७||
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् |
भूतानि चैव सर्वाणि जग्मुरार्तिं विशां पते ||१८||
ऋषयश्च सगन्धर्वा देवताश्चैव भारत |
सन्तापं परमं जग्मुरस्त्रतेजोभिपीडिताः ||१९||
ततश्चचाल पृथिवी सपर्वतवनद्रुमा |
सन्तप्तानि च भूतानि विषादं जग्मुरुत्तमम् ||२०||
प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश |
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा ||२१||
ततो हाहाकृते लोके सदेवासुरराक्षसे |
इदमन्तरमित्येव योक्तुकामोऽस्मि भारत ||२२||
प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम् |
चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा ||२३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
186-अध्यायः
भीष्म उवाच||
ततो हलहलाशब्दो दिवि राजन्महानभूत् |
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन ||१||
अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने |
प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् ||२||
एते वियति कौरव्य दिवि देवगणाः स्थिताः |
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय ||३||
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते |
तस्यावमानं कौरव्य मा स्म कार्षीः कथञ्चन ||४||
ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः |
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् ||५||
यथाह भरतश्रेष्ठ नारदस्तत्तथा कुरु |
एतद्धि परमं श्रेयो लोकानां भरतर्षभ ||६||
ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं मृधे |
ब्रह्मास्त्रं दीपयां चक्रे तस्मिन्युधि यथाविधि ||७||
ततो रामो रुषितो राजपुत्र; दृष्ट्वा तदस्त्रं विनिवर्तितं वै |
जितोऽस्मि भीष्मेण सुमन्दबुद्धि; रित्येव वाक्यं सहसा व्यमुञ्चत् ||८||
ततोऽपश्यत्पितरं जामदग्न्यः; पितुस्तथा पितरं तस्य चान्यम् |
त एवैनं सम्परिवार्य तस्थु; रूचुश्चैनं सान्त्वपूर्वं तदानीम् ||९||
मा स्मैवं साहसं वत्स पुनः कार्षीः कथञ्चन |
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः ||१०||
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन |
स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम् ||११||
इदं निमित्ते कस्मिंश्चिदस्माभिरुपमन्त्रितम् |
शस्त्रधारणमत्युग्रं तच्च कार्यं कृतं त्वया ||१२||
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे |
विमर्दस्ते महाबाहो व्यपयाहि रणादितः ||१३||
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् |
विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव ||१४||
एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः |
निवर्तस्व रणादस्मादिति चैव प्रचोदितः ||१५||
रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः |
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह ||१६||
मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे ||१६||
वयं तु गुरवस्तुभ्यं ततस्त्वां वारयामहे |
भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक ||१७||
गाङ्गेयः शन्तनोः पुत्रो वसुरेष महायशाः |
कथं त्वया रणे जेतुं राम शक्यो निवर्त वै ||१८||
अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली |
नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः ||१९||
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान् |
भीष्ममृत्युर्यथाकालं विहितो वै स्वयम्भुवा ||२०||
एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम् |
नाहं युधि निवर्तेयमिति मे व्रतमाहितम् ||२१||
न निवर्तितपूर्वं च कदाचिद्रणमूर्धनि |
निवर्त्यतामापगेयः कामं युद्धात्पितामहाः ||२२||
न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथञ्चन ||२२||
ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा |
नारदेनैव सहिताः समागम्येदमब्रुवन् ||२३||
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमान् |
नेत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया ||२४||
मम व्रतमिदं लोके नाहं युद्धात्कथञ्चन |
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः ||२५||
नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात् |
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः ||२६||
ततस्ते मुनयः सर्वे नारदप्रमुखा नृप |
भागीरथी च मे माता रणमध्यं प्रपेदिरे ||२७||
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः |
स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् ||२८||
समेत्य सहिता भूयः समरे भृगुनन्दनम् ||२८||
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव |
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम ||२९||
अवध्यो हि त्वया भीष्मस्त्वं च भीष्मस्य भार्गव ||२९||
एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम् |
न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम् ||३०||
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः |
अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् ||३१||
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् |
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु ||३२||
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै |
लोकानां च हितं कुर्वन्नहमप्याददे वचः ||३३||
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः |
रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः ||३४||
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः |
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया ||३५||
मम चैव समक्षं तां कन्यामाहूय भार्गवः |
उवाच दीनया वाचा मध्ये तेषां तपस्विनाम् ||३६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
187-अध्यायः
राम उवाच||
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि |
यथा मया परं शक्त्या कृतं वै पौरुषं महत् ||१||
न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम् |
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् ||२||
एषा मे परमा शक्तिरेतन्मे परमं बलम् |
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ||३||
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः |
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ||४||
भीष्म उवाच||
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः |
तूष्णीमासीत्तदा कन्या प्रोवाच भृगुनन्दनम् ||५||
भगवन्नेवमेवैतद्यथाह भगवांस्तथा |
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ||६||
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया |
अनिधाय रणे वीर्यमस्त्राणि विविधानि च ||७||
न चैष शक्यते युद्धे विशेषयितुमन्ततः |
न चाहमेनं यास्यामि पुनर्भीष्मं कथञ्चन ||८||
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन |
समरे पातयिष्यामि स्वयमेव भृगूद्वह ||९||
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना |
तपसे धृतसङ्कल्पा मम चिन्तयती वधम् ||१०||
ततो महेन्द्रं सह तैर्मुनिभिर्भृगुसत्तमः |
यथागतं ययौ रामो मामुपामन्त्र्य भारत ||११||
ततोऽहं रथमारुह्य स्तूयमानो द्विजातिभिः |
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ||१२||
यथावृत्तं महाराज सा च मां प्रत्यनन्दत ||१२||
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि |
दिवसे दिवसे ह्यस्या गतजल्पितचेष्टितम् ||१३||
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते मम ||१३||
यदैव हि वनं प्रायात्कन्या सा तपसे धृता |
तदैव व्यथितो दीनो गतचेता इवाभवम् ||१४||
न हि मां क्षत्रियः कश्चिद्वीर्येण विजयेद्युधि |
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ||१५||
अपि चैतन्मया राजन्नारदेऽपि निवेदितम् |
व्यासे चैव भयात्कार्यं तौ चोभौ मामवोचताम् ||१६||
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति |
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ||१७||
सा तु कन्या महाराज प्रविश्याश्रममण्डलम् |
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ||१८||
निराहारा कृशा रूक्षा जटिला मलपङ्किनी |
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना ||१९||
यमुनातीरमासाद्य संवत्सरमथापरम् |
उदवासं निराहारा पारयामास भामिनी ||२०||
शीर्णपर्णेन चैकेन पारयामास चापरम् |
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ||२१||
एवं द्वादश वर्षाणि तापयामास रोदसी |
निवर्त्यमानापि तु सा ज्ञातिभिर्नैव शक्यते ||२२||
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् |
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ||२३||
तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम् |
व्यचरत्काशिकन्या सा यथाकामविचारिणी ||२४||
नन्दाश्रमे महाराज ततोलूकाश्रमे शुभे |
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च ||२५||
प्रयागे देवयजने देवारण्येषु चैव ह |
भोगवत्यां तथा राजन्कौशिकस्याश्रमे तथा ||२६||
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा |
रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे ||२७||
एतेषु तीर्थेषु तदा काशिकन्या विशां पते |
आप्लावयत गात्राणि तीव्रमास्थाय वै तपः ||२८||
तामब्रवीत्कौरवेय मम माता जलोत्थिता |
किमर्थं क्लिश्यसे भद्रे तथ्यमेतद्ब्रवीहि मे ||२९||
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता |
भीष्मो रामेण समरे न जितश्चारुलोचने ||३०||
कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषुं महीपतिम् |
साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ||३१||
चरामि पृथिवीं देवि यथा हन्यामहं नृपम् |
एतद्व्रतफलं देहे परस्मिन्स्याद्यथा हि मे ||३२||
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि |
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले ||३३||
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम् |
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि ||३४||
नदी भविष्यसि शुभे कुटिला वार्षिकोदका ||३४||
दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी |
भीमग्राहवती घोरा सर्वभूतभयङ्करी ||३५||
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत |
माता मम महाभागा स्मयमानेव भामिनी ||३६||
कदाचिदष्टमे मासि कदाचिद्दशमे तथा |
न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी ||३७||
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः |
पतिता परिधावन्ती पुनः काशिपतेः सुता ||३८||
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत |
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा ||३९||
सा कन्या तपसा तेन भागार्धेन व्यजायत |
नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा ||४०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
188-अध्यायः
भीष्म उवाच||
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् |
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ||१||
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा |
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ||२||
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः |
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ||३||
यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम् |
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ||४||
नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः |
एष मे हृदि सङ्कल्पो यदर्थमिदमुद्यतम् ||५||
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया |
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ||६||
तां देवो दर्शयामास शूलपाणिरुमापतिः |
मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् ||७||
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् |
वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ||८||
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह |
उपपद्येत्कथं देव स्त्रियो मम जयो युधि ||९||
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ||९||
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः |
यथा स सत्यो भवति तथा कुरु वृषध्वज ||१०||
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ||१०||
तामुवाच महादेवः कन्यां किल वृषध्वजः |
न मे वागनृतं भद्रे प्राह सत्यं भविष्यति ||११||
वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे |
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ||१२||
द्रुपदस्य कुले जाता भविष्यसि महारथः |
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ||१३||
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति |
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ||१४||
एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः |
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ||१५||
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता |
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ||१६||
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् |
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ||१७||
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् |
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
189-अध्यायः
दुर्योधन उवाच||
कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा |
पुरुषोऽभवद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः |
महिषी दयिता ह्यासीदपुत्रा च विशां पते ||२||
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः |
अपत्यार्थं महाराज तोषयामास शङ्करम् ||३||
अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः |
लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन् ||४||
भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया |
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ||५||
निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत् |
स तु गत्वा च नगरं भार्यामिदमुवाच ह ||६||
कृतो यत्नो मया देवि पुत्रार्थे तपसा महान् |
कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शम्भुना ||७||
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः |
न तदन्यद्धि भविता भवितव्यं हि तत्तथा ||८||
ततः सा नियता भूत्वा ऋतुकाले मनस्विनी |
पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह ||९||
लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना |
पार्षतात्सा महीपाल यथा मां नारदोऽब्रवीत् ||१०||
ततो दधार तं गर्भं देवी राजीवलोचना |
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ||११||
पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा ||११||
अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः |
कन्यां प्रवररूपां तां प्राजायत नराधिप ||१२||
अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी |
ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै ||१३||
ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप |
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् ||१४||
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा |
चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत ||१५||
न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात् ||१५||
श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः |
छादयामास तां कन्यां पुमानिति च सोऽब्रवीत् ||१६||
जातकर्माणि सर्वाणि कारयामास पार्थिवः |
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ||१७||
अहमेकस्तु चारेण वचनान्नारदस्य च |
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
190-अध्यायः
भीष्म उवाच||
चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत् |
ततो लेख्यादिषु तथा शिल्पेषु च परं गता ||१||
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह ||१||
तस्य माता महाराज राजानं वरवर्णिनी |
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा ||२||
ततस्तां पार्षतो दृष्ट्वा कन्यां सम्प्राप्तयौवनाम् |
स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया ||३||
द्रुपद उवाच||
कन्या ममेयं सम्प्राप्ता यौवनं शोकवर्धिनी |
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ||४||
न तन्मिथ्या महाराज्ञि भविष्यति कथञ्चन |
त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति ||५||
भार्योवाच||
यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः |
श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज ||६||
क्रियतामस्य नृपते विधिवद्दारसङ्ग्रहः |
सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः ||७||
भीष्म उवाच||
ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती |
वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ||८||
ततो राजा द्रुपदो राजसिंहः; सर्वान्राज्ञः कुलतः संनिशाम्य |
दाशार्णकस्य नृपतेस्तनूजां; शिखण्डिने वरयामास दारान् ||९||
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः |
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ||१०||
स च राजा दशार्णेषु महानासीन्महीपतिः |
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ||११||
कृते विवाहे तु तदा सा कन्या राजसत्तम |
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ||१२||
कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत् |
न च सा वेद तां कन्यां कञ्चित्कालं स्त्रियं किल ||१३||
हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम् |
धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत् ||१४||
कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ||१४||
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा |
जग्मुरार्तिं परां दुःखात्प्रेषयामासुरेव च ||१५||
ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन् |
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ||१६||
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा |
विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ||१७||
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ |
हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह ||१८||
ततो दाशार्णको राजा तीव्रकोपसमन्वितः |
दूतं प्रस्थापयामास द्रुपदस्य निवेशने ||१९||
ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः |
एक एकान्तमुत्सार्य रहो वचनमब्रवीत् ||२०||
दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् |
अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ ||२१||
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव |
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ||२२||
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते |
एष त्वां सजनामात्यमुद्धरामि स्थिरो भव ||२३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
191-अध्यायः
भीष्म उवाच||
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप |
चोरस्येव गृहीतस्य न प्रावर्तत भारती ||१||
स यत्नमकरोत्तीव्रं सम्बन्धैरनुसान्त्वनैः |
दूतैर्मधुरसम्भाषैर्नैतदस्तीति संदिशन् ||२||
स राजा भूय एवाथ कृत्वा तत्त्वत आगमम् |
कन्येति पाञ्चालसुतां त्वरमाणोऽभिनिर्ययौ ||३||
ततः सम्प्रेषयामास मित्राणाममितौजसाम् |
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ||४||
ततः समुदयं कृत्वा बलानां राजसत्तमः |
अभियाने मतिं चक्रे द्रुपदं प्रति भारत ||५||
ततः संमन्त्रयामास मित्रैः सह महीपतिः |
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति ||६||
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् |
तथ्यं चेद्भवति ह्येतत्कन्या राजञ्शिखण्डिनी ||७||
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहान् ||७||
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् |
घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम् ||८||
स तदा दूतमाज्ञाय पुनः क्षत्तारमीश्वरः |
प्रास्थापयत्पार्षताय हन्मीति त्वां स्थिरो भव ||९||
स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः |
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ||१०||
विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः |
समेत्य भार्यां रहिते वाक्यमाह नराधिपः ||११||
भयेन महताविष्टो हृदि शोकेन चाहतः |
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ||१२||
अभियास्यति मां कोपात्सम्बन्धी सुमहाबलः |
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् ||१३||
किमिदानीं करिष्यामि मूढः कन्यामिमां प्रति |
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ||१४||
इति निश्चित्य तत्त्वेन समित्रः सबलानुगः |
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति ||१५||
किमत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने |
श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा ||१६||
अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी |
त्वं च राज्ञि महत्कृच्छ्रं सम्प्राप्ता वरवर्णिनि ||१७||
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः |
तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते ||१८||
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः ||१८||
क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः |
मया दाशार्णको राजा वञ्चितश्च महीपतिः ||१९||
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ||१९||
जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै |
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ||२०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
192-अध्यायः
भीष्म उवाच||
ततः शिखण्डिनो माता यथातत्त्वं नराधिप |
आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम् ||१||
अपुत्रया मया राजन्सपत्नीनां भयादिदम् |
कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः ||२||
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम् |
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ ||३||
भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता ||३||
त्वया च प्रागभिहितं देववाक्यार्थदर्शनात् |
कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् ||४||
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः; सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य |
मन्त्रं राजा मन्त्रयामास राज; न्यद्यद्युक्तं रक्षणे वै प्रजानाम् ||५||
सम्बन्धकं चैव समर्थ्य तस्मि; न्दाशार्णके वै नृपतौ नरेन्द्र |
स्वयं कृत्वा विप्रलम्भं यथाव; न्मन्त्रैकाग्रो निश्चयं वै जगाम ||६||
स्वभावगुप्तं नगरमापत्काले तु भारत |
गोपयामास राजेन्द्र सर्वतः समलङ्कृतम् ||७||
आर्तिं च परमां राजा जगाम सह भार्यया |
दशार्णपतिना सार्धं विरोधे भरतर्षभ ||८||
कथं सम्बन्धिना सार्धं न मे स्याद्विग्रहो महान् |
इति सञ्चिन्त्य मनसा दैवतान्यर्चयत्तदा ||९||
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तथा |
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् ||१०||
देवानां प्रतिपत्तिश्च सत्या साधुमता सदा |
सा तु दुःखार्णवं प्राप्य नः स्यादर्चयतां भृशम् ||११||
दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः |
अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने ||१२||
अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो |
देवतानां प्रसादेन सर्वमेतद्भविष्यति ||१३||
मन्त्रिभिर्मन्त्रितं सार्धं त्वया यत्पृथुलोचन |
पुरस्यास्याविनाशाय तच्च राजंस्तथा कुरु ||१४||
दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव |
परस्परविरोधात्तु नानयोः सिद्धिरस्ति वै ||१५||
तस्माद्विधाय नगरे विधानं सचिवैः सह |
अर्चयस्व यथाकामं दैवतानि विशां पते ||१६||
एवं सम्भाषमाणौ तौ दृष्ट्वा शोकपरायणौ |
शिखण्डिनी तदा कन्या व्रीडितेव मनस्विनी ||१७||
ततः सा चिन्तयामास मत्कृते दुःखितावुभौ |
इमाविति ततश्चक्रे मतिं प्राणविनाशने ||१८||
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा |
जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम् ||१९||
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम् |
तद्भयादेव च जनो विसर्जयति तद्वनम् ||२०||
तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम् |
लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् ||२१||
तत्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप |
अनश्नती बहुतिथं शरीरमुपशोषयत् ||२२||
दर्शयामास तां यक्षः स्थूणो मध्वक्षसंयुतः |
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् ||२३||
अशक्यमिति सा यक्षं पुनः पुनरुवाच ह |
करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः ||२४||
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे |
अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम् ||२५||
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत् |
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत ||२६||
आपन्नो मे पिता यक्ष नचिराद्विनशिष्यति |
अभियास्यति सङ्क्रुद्धो दशार्णाधिपतिर्हि तम् ||२७||
महाबलो महोत्साहः स हेमकवचो नृपः |
तस्माद्रक्षस्व मां यक्ष पितरं मातरं च मे ||२८||
प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम |
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः ||२९||
यावदेव स राजा वै नोपयाति पुरं मम |
तावदेव महायक्ष प्रसादं कुरु गुह्यक ||३०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
193-अध्यायः
भीष्म उवाच||
शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ |
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ||१||
भवितव्यं तथा तद्धि मम दुःखाय कौरव ||१||
भद्रे कामं करिष्यामि समयं तु निबोध मे |
किञ्चित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव ||२||
आगन्तव्यं त्वया काले सत्यमेतद्ब्रवीमि ते ||२||
प्रभुः सङ्कल्पसिद्धोऽस्मि कामरूपी विहङ्गमः |
मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान् ||३||
स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे |
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव ||४||
शिखण्ड्युवाच||
प्रतिदास्यामि भगवँल्लिङ्गं पुनरिदं तव |
किञ्चित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ||५||
प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि |
कन्यैवाहं भविष्यामि पुरुषस्त्वं भविष्यसि ||६||
भीष्म उवाच||
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप |
अन्योन्यस्यानभिद्रोहे तौ सङ्क्रामयतां ततः ||७||
स्त्रीलिङ्गं धारयामास स्थूणो यक्षो नराधिप |
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत ||८||
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव |
विवेश नगरं हृष्टः पितरं च समासदत् ||९||
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च ||९||
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् |
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा ||१०||
ततः सम्प्रेषयामास दशार्णाधिपतेर्नृप |
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति ||११||
अथ दाशार्णको राजा सहसाभ्यागमत्तदा |
पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः ||१२||
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्तदा |
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम् ||१३||
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् |
यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते ||१४||
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ||१४||
एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम |
दूतः प्रयातो नगरं दाशार्णनृपचोदितः ||१५||
तत आसादयामास पुरोधा द्रुपदं पुरे |
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ||१६||
प्रापयामास राजेन्द्र सह तेन शिखण्डिना ||१६||
तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह |
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा ||१७||
यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वञ्चितः |
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते ||१८||
देहि युद्धं नरपते ममाद्य रणमूर्धनि |
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् ||१९||
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः |
दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा ||२०||
अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः |
यदाह मां भवान्ब्रह्मन्सम्बन्धिवचनाद्वचः ||२१||
तस्योत्तरं प्रतिवचो दूत एव वदिष्यति ||२१||
ततः सम्प्रेषयामास द्रुपदोऽपि महात्मने |
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् ||२२||
समागम्य तु राज्ञा स दशार्णपतिना तदा |
तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह ||२३||
आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम |
मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत ||२४||
ततः स राजा द्रुपदस्य श्रुत्वा; विमर्शयुक्तो युवतीर्वरिष्ठाः |
सम्प्रेषयामास सुचारुरूपाः; शिखण्डिनं स्त्री पुमान्वेति वेत्तुम् ||२५||
ताः प्रेषितास्तत्त्वभावं विदित्वा; प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् |
शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम् ||२६||
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ |
सम्बन्धिना समागम्य हृष्टो वासमुवास ह ||२७||
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः |
हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा ||२८||
पूजितश्च प्रतिययौ निवर्त्य तनयां किल ||२८||
विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे |
प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी ||२९||
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः |
लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम् ||३०||
स तद्गृहस्योपरि वर्तमान; आलोकयामास धनाधिगोप्ता |
स्थूणस्य यक्षस्य निशाम्य वेश्म; स्वलङ्कृतं माल्यगुणैर्विचित्रम् ||३१||
लाजैश्च गन्धैश्च तथा वितानै; रभ्यर्चितं धूपनधूपितं च |
ध्वजैः पताकाभिरलङ्कृतं च; भक्ष्यान्नपेयामिषदत्तहोमम् ||३२||
तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलङ्कृतम् |
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ||३३||
स्वलङ्कृतमिदं वेश्म स्थूणस्यामितविक्रमाः |
नोपसर्पति मां चापि कस्मादद्य सुमन्दधीः ||३४||
यस्माज्जानन्सुमन्दात्मा मामसौ नोपसर्पति |
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ||३५||
यक्षा ऊचुः||
द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी |
तस्यै निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् ||३६||
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतस्तिष्ठते गृहे |
नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान् ||३७||
एतस्मात्कारणाद्राजन्स्थूणो न त्वाद्य पश्यति |
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् ||३८||
भीष्म उवाच||
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् |
कर्तास्मि निग्रहं तस्येत्युवाच स पुनः पुनः ||३९||
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते |
स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः ||४०||
तं शशाप सुसङ्क्रुद्धो धनदः कुरुनन्दन |
एवमेव भवत्वस्य स्त्रीत्वं पापस्य गुह्यकाः ||४१||
ततोऽब्रवीद्यक्षपतिर्महात्मा; यस्माददास्त्ववमन्येह यक्षान् |
शिखण्डिने लक्षणं पापबुद्धे; स्त्रीलक्षणं चाग्रहीः पापकर्मन् ||४२||
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्कृतं त्वया |
तस्मादद्य प्रभृत्येव त्वं स्त्री स पुरुषस्तथा ||४३||
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल |
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ||४४||
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः |
सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया ||४५||
हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते |
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः ||४६||
इत्युक्त्वा भगवान्देवो यक्षराक्षसपूजितः |
प्रययौ सह तैः सर्वैर्निमेषान्तरचारिभिः ||४७||
स्थूणस्तु शापं सम्प्राप्य तत्रैव न्यवसत्तदा |
समये चागमत्तं वै शिखण्डी स क्षपाचरम् ||४८||
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति |
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ||४९||
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् |
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ||५०||
यक्ष उवाच||
शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज |
गच्छेदानीं यथाकामं चर लोकान्यथासुखम् ||५१||
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् |
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् ||५२||
भीष्म उवाच||
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत |
प्रत्याजगाम नगरं हर्षेण महतान्वितः ||५३||
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः |
द्विजातीन्देवताश्चापि चैत्यानथ चतुष्पथान् ||५४||
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना |
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ||५५||
शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुङ्गव |
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ||५६||
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः |
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ||५७||
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् |
जडान्धबधिराकारा ये युक्ता द्रुपदे मया ||५८||
एवमेष महाराज स्त्रीपुमान्द्रुपदात्मजः |
सम्भूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः ||५९||
ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता |
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ ||६०||
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् |
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ||६१||
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् |
स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि ||६२||
न मुञ्चेयमहं बाणानिति कौरवनन्दन |
न हन्यामहमेतेन कारणेन शिखण्डिनम् ||६३||
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः |
ततो नैनं हनिष्यामि समरेष्वाततायिनम् ||६४||
यदि भीष्मः स्त्रियं हन्याद्धन्यादात्मानमप्युत |
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् ||६५||
सञ्जय उवाच||
एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा |
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत ||६६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
194-अध्यायः
सञ्जय उवाच||
प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव |
मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत ||१||
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम् |
प्रभूतनरनागाश्वं महारथसमाकुलम् ||२||
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः |
लोकपालोपमैर्गुप्तं धृष्टद्युम्नपुरोगमैः ||३||
अप्रधृष्यमनावार्यमुद्वृत्तमिव सागरम् |
सेनासागरमक्षोभ्यमपि देवैर्महाहवे ||४||
केन कालेन गाङ्गेय क्षपयेथा महाद्युते |
आचार्यो वा महेष्वासः कृपो वा सुमहाबलः ||५||
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः |
दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम ||६||
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे |
हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम ||७||
भीष्म उवाच||
अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते |
बलाबलममित्राणां स्वेषां च यदि पृच्छसि ||८||
शृणु राजन्मम रणे या शक्तिः परमा भवेत् |
अस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज ||९||
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः |
मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः ||१०||
हन्यामहं महाबाहो पाण्डवानामनीकिनीम् |
दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम ||११||
योधानां दशसाहस्रं कृत्वा भागं महाद्युते |
सहस्रं रथिनामेकमेष भागो मतो मम ||१२||
अनेनाहं विधानेन संनद्धः सततोत्थितः |
क्षपयेयं महत्सैन्यं कालेनानेन भारत ||१३||
यदि त्वस्त्राणि मुञ्चेयं महान्ति समरे स्थितः |
शतसाहस्रघातीनि हन्यां मासेन भारत ||१४||
सञ्जय उवाच||
श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा |
पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् ||१५||
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् |
निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव ||१६||
स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः |
अस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् ||१७||
यथा भीष्मः शान्तनवो मासेनेति मतिर्मम |
एषा मे परमा शक्तिरेतन्मे परमं बलम् ||१८||
द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत् |
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् ||१९||
कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् ||१९||
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः |
जहास सस्वनं हासं वाक्यं चेदमुवाच ह ||२०||
न हि तावद्रणे पार्थं बाणखड्गधनुर्धरम् |
वासुदेवसमायुक्तं रथेनोद्यन्तमच्युतम् ||२१||
समागच्छसि राधेय तेनैवमभिमन्यसे |
शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः ||२२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
195-अध्यायः
वैशम्पायन उवाच||
एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे |
आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ||१||
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम |
ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ||२||
दुर्योधनः किलापृच्छदापगेयं महाव्रतम् |
केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ||३||
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः |
तावता चापि कालेन द्रोणोऽपि प्रत्यजानत ||४||
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् |
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ||५||
तथा दिव्यास्त्रवित्कर्णः सम्पृष्टः कुरुसंसदि |
पञ्चभिर्दिवसैर्हन्तुं स सैन्यं प्रतिजज्ञिवान् ||६||
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः |
कालेन कियता शत्रून्क्षपयेरिति संयुगे ||७||
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः |
वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत ||८||
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः |
असंशयं महाराज हन्युरेव बलं तव ||९||
अपैतु ते मनस्तापो यथासत्यं ब्रवीम्यहम् |
हन्यामेकरथेनाहं वासुदेवसहायवान् ||१०||
सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान् |
भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः ||११||
यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम |
कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते ||१२||
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् |
प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते ||१३||
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः |
न च द्रोणसुतो राजन्कुत एव तु सूतजः ||१४||
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् |
आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ||१५||
तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव |
सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः ||१६||
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः |
निहन्युः समरे सेनां देवानामपि पाण्डव ||१७||
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः |
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ||१८||
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि |
स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादने अपि ||१९||
क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते |
क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव ||२०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
196-अध्यायः
वैशम्पायन उवाच||
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः |
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ||१||
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः |
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ||२||
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः |
सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ||३||
आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः |
एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च ||४||
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह |
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ||५||
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः |
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः ||६||
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः |
शकाः किराता यवनाः शिबयोऽथ वसातयः ||७||
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् |
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ||८||
कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः |
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ||९||
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः |
एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः ||१०||
ते समेन पथा यात्वा योत्स्यमाना महारथाः |
कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ||११||
दुर्योधनस्तु शिबिरं कारयामास भारत |
यथैव हास्तिनपुरं द्वितीयं समलङ्कृतम् ||१२||
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा |
कुशला अपि राजेन्द्र नरा नगरवासिनः ||१३||
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः |
कारयामास कौरव्यः शतशोऽथ सहस्रशः ||१४||
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् |
सेनानिवेशास्ते राजन्नाविशञ्शतसङ्घशः ||१५||
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् |
विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः ||१६||
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् |
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ||१७||
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः |
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ||१८||
वणिजो गणिका वारा ये चैव प्रेक्षका जनाः |
सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ||१९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
197-अध्यायः
वैशम्पायन उवाच||
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः |
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ||१||
चेदिकाशिकरूषाणां नेतारं दृढविक्रमम् |
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ||२||
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् |
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ||३||
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः |
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ||४||
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ||४||
सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः |
दिदेश तान्यनीकानि प्रयाणाय महीपतिः ||५||
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः |
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ||६||
भीमं च युयुधानं च पाण्डवं च धनञ्जयम् |
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ||७||
भाण्डं समारोपयतां चरतां सम्प्रधावताम् |
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् ||८||
स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः |
तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः ||९||
भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता |
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ||१०||
ततः पुनरनीकानि व्ययोजयत बुद्धिमान् |
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् ||११||
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः |
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ||१२||
दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः |
अयुतं च पदातीनां रथाः पञ्चशतास्तथा ||१३||
भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम् |
मध्यमे तु विराटं च जयत्सेनं च मागधम् ||१४||
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ |
वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ||१५||
अन्वयातां ततो मध्ये वासुदेवधनञ्जयौ ||१५||
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः |
तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः ||१६||
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः |
पदातयश्च ये शूराः कार्मुकासिगदाधराः ||१७||
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ||१७||
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे |
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ||१८||
तत्र नागसहस्राणि हयानामयुतानि च |
तथा रथसहस्राणि पदातीनां च भारत ||१९||
यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् ||१९||
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः |
नदन्तः प्रययुस्तेषामनीकानि सहस्रशः ||२०||
तत्र भेरीसहस्राणि शङ्खानामयुतानि च |
वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः ||२१||
उद्योगपर्व सम्पूर्णम्