श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
165-अध्यायः
सञ्जय उवाच||
क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे |
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा ||१||
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत |
छत्राणां चापविद्धानां चामराणां च संयुगे ||२||
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः |
सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाभवत् ||३||
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम |
चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ||४||
वर्तमाने तथा युद्धे घोरे देवासुरोपमे |
अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ||५||
अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः ||५||
एष वै पार्षतो वीरो भारद्वाजेन सङ्गतः |
घटते च यथाशक्ति भारद्वाजस्य नाशने ||६||
यादृशानि हि रूपाणि दृश्यन्ते नो महारणे |
अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः ||७||
ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत ||७||
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः |
अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः ||८||
तान्समापततः सर्वान्भारद्वाजो महारथः |
अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः ||९||
प्रयाते सत्यसन्धे तु समकम्पत मेदिनी |
ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम् ||१०||
पपात महती चोल्का आदित्यान्निर्गतेव ह |
दीपयन्तीव तापेन शंसन्तीव महद्भयम् ||११||
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष |
रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ||१२||
हतौजा इव चाप्यासीद्भारद्वाजो महारथः |
ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति ||१३||
सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ||१३||
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः |
निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ||१४||
हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः |
दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः ||१५||
सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः |
क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः ||१६||
पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी |
अविषण्णं महात्मानं त्वरमाणः समभ्ययात् ||१७||
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः |
अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ||१८||
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् |
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः ||१९||
स तथोक्तो महाबाहुः सर्वभारसहं नवम् |
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ||२०||
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे |
विवारयिषुराचार्यं शरवर्षैरवाकिरत् ||२१||
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ |
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ||२२||
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे |
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ||२३||
स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि |
रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः ||२४||
धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् |
बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः ||२५||
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः |
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ||२६||
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् |
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ||२७||
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः |
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् ||२८||
अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः |
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ||२९||
श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् |
अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया ||३०||
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा |
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ||३१||
स चाद्य पतितः शेते पृष्टेनावेदितस्तव |
धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि ||३२||
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः |
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत ||३३||
कर्ण कर्ण महेष्वास कृप दुर्योधनेति च ||३३||
सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः |
पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् ||३४||
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च |
उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च ||३५||
अभयं सर्वभूतानां प्रददौ योगयुक्तवान् ||३५||
तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः |
खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ||३६||
हाहाकृतानि भूतानि मानुषाणीतराणि च |
द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ||३७||
हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् |
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः ||३८||
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः |
दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् ||३९||
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते |
एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः ||४०||
समपद्यत चार्काभे भारद्वाजनिशाकरे ||४०||
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत |
आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ||४१||
ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते ||४१||
वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः |
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ||४२||
अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः |
वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः ||४३||
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः |
महिमानं महाराज योगमुक्तस्य गच्छतः ||४४||
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः |
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः ||४५||
आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम् ||४५||
वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम् |
धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् ||४६||
तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः |
किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः ||४७||
हर्षेण महता युक्तो भारद्वाजे निपातिते |
सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे ||४८||
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः |
त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ||४९||
उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः |
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ||५०||
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह |
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् ||५१||
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः |
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ||५२||
शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः |
लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत ||५३||
एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः ||५३||
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् |
तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ||५४||
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः |
पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् ||५५||
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् |
अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप ||५६||
ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च |
विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव ||५७||
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ||५७||
हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः |
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ||५८||
निहता हयभूयिष्ठाः सङ्ग्रामे निशितैः शरैः |
तावका निहते द्रोणे गतासव इवाभवन् ||५९||
पराजयमथावाप्य परत्र च महद्भयम् |
उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः ||६०||
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः |
नाध्यगच्छंस्तदा राजन्कबन्धायुतसङ्कुले ||६१||
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः |
बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ||६२||
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः |
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ||६३||
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् |
भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत ||६४||
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ||६४||
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः |
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः ||६५||
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि |
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ||६६||
पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते |
अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन् ||६७||
ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः |
हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः ||६८||
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः |
आर्तस्वरेण महता पुत्रं ते पर्यवारयन् ||६९||
रजस्वला वेपमाना वीक्षमाणा दिशो दश |
अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ||७०||
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव |
अशक्नुवन्नवस्थातुमपायात्तनयस्तव ||७१||
क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत |
आदित्येन च सन्तप्ता भृशं विमनसोऽभवन् ||७२||
भास्करस्येव पतनं समुद्रस्येव शोषणम् |
विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् ||७३||
अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् |
त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् ||७४||
गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह |
हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः ||७५||
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् |
परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् ||७६||
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् |
मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् ||७७||
हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः |
वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् ||७८||
भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः |
कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः ||७९||
पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः |
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ||८०||
दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः |
दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ||८१||
गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः |
दुर्योधनो महाराज प्रायात्तत्र महारथः ||८२||
गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः |
प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ||८३||
नेदमस्तीति पुरुषा हतोत्साहा हतौजसः |
उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो ||८४||
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ |
तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे ||८५||
धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलङ्कृतान् |
अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् ||८६||
द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि |
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् ||८७||
हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः |
कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः ||८८||
द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् |
दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् ||८९||
किमियं द्रवते सेना त्रस्तरूपेव भारत |
द्रवमाणां च राजेन्द्र नावस्थापयसे रणे ||९०||
त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप |
कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः ||९१||
अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा |
कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत ||९२||
कस्मिन्निदं हते राजन्रथसिंहे बलं तव |
एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव ||९३||
तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् |
घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः ||९४||
भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे |
बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ||९५||
ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् |
शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् ||९६||
अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः |
शशंस द्रोणपुत्राय यथा द्रोणो निपातितः ||९७||
कृप उवाच||
वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् |
प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलैः ||९८||
ततः प्रवृत्ते सङ्ग्रामे विमिश्राः कुरुसोमकाः |
अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् ||९९||
ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः |
अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ||१००||
पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः |
सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ||१०१||
सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् |
द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे ||१०२||
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः |
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ||१०३||
क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु |
अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन् ||१०४||
तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित् |
दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः ||१०५||
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् |
मध्यङ्गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् ||१०६||
ते दह्यमाना द्रोणेन सूर्येणेव विराजता |
दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः ||१०७||
तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः |
जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् ||१०८||
नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः |
अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः ||१०९||
ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः |
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ||११०||
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम |
हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः ||१११||
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः |
अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः ||११२||
भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव |
अश्वत्थामा हत इति तच्चाबुध्यत ते पिता ||११३||
स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत |
हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः ||११४||
तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः |
अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत ||११५||
भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ||११५||
उपसृत्य तदा द्रोणमुच्चैरिदमभाषत |
यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि ||११६||
पुत्रस्ते दयितो नित्यं शोऽश्वत्थामा निपातितः ||११६||
तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् |
नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा ||११७||
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् |
पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् ||११८||
तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः |
दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् ||११९||
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा |
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः ||१२०||
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् |
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ||१२१||
उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः |
जीवन्तमानयाचार्यं मा वधीरिति धर्मवित् ||१२२||
तथापि वार्यमाणेन कौरवैरर्जुनेन च |
हत एव नृशंसेन पिता तव नरर्षभ ||१२३||
सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः |
वयं चापि निरुत्साहा हते पितरि तेऽनघ ||१२४||
सञ्जय उवाच||
तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे |
क्रोधमाहारयत्तीव्रं पदाहत इवोरगः ||१२५||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
166-अध्यायः-नारायणास्त्रमोक्षपर्व
धृतराष्ट्र उवाच||
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय |
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् ||१||
मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् |
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् ||२||
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन सञ्जय |
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ||३||
येन रामादवाप्येह धनुर्वेदं महात्मना |
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे ||४||
एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् |
इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथञ्चन ||५||
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् |
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ||६||
स शिल्पं प्राप्य तत्सर्वं सविशेषं च सञ्जय |
शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः ||७||
रामस्यानुमतः शास्त्रे पुरंदरसमो युधि |
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ||८||
महीधरसमो धृत्या तेजसाग्निसमो युवा |
समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः ||९||
स रथी प्रथमो लोके दृढधन्वा जितक्लमः |
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः ||१०||
अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता |
यो न व्यथति सङ्ग्रामे वीरः सत्यपराक्रमः ||११||
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः |
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ||१२||
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे |
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ||१३||
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना |
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ||१४||
तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना |
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ||१५||
सञ्जय उवाच||
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा |
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ ||१६||
तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत |
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ||१७||
अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः |
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ||१८||
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः |
धर्मध्वजवता पापं कृतं तद्विदितं मम ||१९||
अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् ||१९||
युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ |
द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ||२०||
न्यायवृत्तो वधो यस्तु सङ्ग्रामे युध्यतो भवेत् |
न स दुःखाय भवति तथा दृष्टो हि स द्विजः ||२१||
गतः स वीरलोकाय पिता मम न संशयः |
न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः ||२२||
यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् |
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ||२३||
कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः |
वैधर्मिकानि कुर्वन्ति तथा परिभवेन च ||२४||
तदिदं पार्षतेनेह महदाधर्मिकं कृतम् |
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ||२५||
तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् |
अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ||२६||
यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा |
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ||२७||
सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे |
धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् ||२८||
कर्मणा येन तेनेह मृदुना दारुणेन वा |
पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ||२९||
यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः |
प्रेत्य चेह च सम्प्राप्तं त्राणाय महतो भयात् ||३०||
पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा |
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ||३१||
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् |
यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् ||३२||
स तथाहं करिष्यामि यथा भरतसत्तम |
परलोकगतस्यापि गमिष्याम्यनृणः पितुः ||३३||
आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः |
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ||३४||
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः |
मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः ||३५||
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः |
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ ||३६||
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः |
अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् ||३७||
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः ||३७||
कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे |
दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् ||३८||
अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः |
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह ||३९||
किरन्हि शरजालानि सर्वतो भैरवस्वरम् |
शत्रून्निपातयिष्यामि महावात इव द्रुमान् ||४०||
न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः |
न भीमसेनो न यमौ न च राजा युधिष्ठिरः ||४१||
न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः |
यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् ||४२||
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् |
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते ||४३||
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ |
वव्रे पिता मे परममस्त्रं नारायणं ततः ||४४||
अथैनमब्रवीद्राजन्भगवान्देवसत्तमः |
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ||४५||
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन |
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ||४६||
न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो |
अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् ||४७||
वधः सङ्ख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् |
प्रयाचनं च शत्रूणां गमनं शरणस्य च ||४८||
एते प्रशमने योगा महास्त्रस्य परन्तप |
सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे ||४९||
तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः |
त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः ||५०||
अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि ||५०||
एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः |
एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना ||५१||
तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान् |
विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ||५२||
यथा यथाहमिच्छेयं तथा भूत्वा शरा मम |
निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत ||५३||
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः |
अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ||५४||
परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् ||५४||
सोऽहं नारायणास्त्रेण महता शत्रुतापन |
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ||५५||
मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः |
पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते ||५६||
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी |
ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः ||५७||
भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः |
तथा ननाद वसुधा खुरनेमिप्रपीडिता ||५८||
स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ||५८||
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् |
समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् ||५९||
तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत |
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा ||६०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
167-अध्यायः
सञ्जय उवाच||
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा |
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ||१||
चचाल पृथिवी चापि चुक्षुभे च महोदधिः |
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ||२||
शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत |
अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे ||३||
तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् |
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ||४||
देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते |
कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ||५||
व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः |
तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् ||६||
धृतराष्ट्र उवाच||
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे |
भृशं शोकाभितप्तेन पितुर्वधममृष्यता ||७||
कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे |
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय ||८||
सञ्जय उवाच||
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः |
पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत ||९||
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे |
निहते वज्रहस्तेन यथा वृत्रे महासुरे ||१०||
नाशंसन्त जयं युद्धे दीनात्मानो धनञ्जय |
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा ||११||
केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः |
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ||१२||
भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः |
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः ||१३||
युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः ||१३||
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः |
शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ||१४||
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः |
सञ्छिन्ना नेमिषु गता मृदिताश्च हयद्विपैः ||१५||
क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् |
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ||१६||
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् |
जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि ||१७||
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् |
पुनरावर्तितं केन यदि जानासि शंस मे ||१८||
हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् |
रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् ||१९||
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे |
मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् ||२०||
य एष तुमुलः शब्दः श्रूयते लोमहर्षणः |
सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम ||२१||
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः |
द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ||२२||
प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः |
धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ||२३||
क एष कौरवान्दीर्णानवस्थाप्य महारथः |
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ||२४||
अर्जुन उवाच||
उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः |
धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः ||२५||
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते |
धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह ||२६||
ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् |
व्याख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् ||२७||
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् |
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ||२८||
जातमात्रेण वीरेण येनोच्चैःश्रवसा इव |
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ||२९||
तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा |
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ||३०||
योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा |
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ||३१||
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् |
तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ||३२||
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् |
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ||३३||
सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः |
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ||३४||
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् |
आचार्य उक्तो भवता हतः कुञ्जर इत्युत ||३५||
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः |
आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः ||३६||
स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः |
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ||३७||
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् |
रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् ||३८||
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना |
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ||३९||
सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः |
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ||४०||
विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि |
अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः ||४१||
यदा गतं वयो भूयः शिष्टमल्पतरं च नः |
तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् ||४२||
पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः |
सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः ||४३||
धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते |
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ||४४||
स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः |
अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः ||४५||
अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः |
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ||४६||
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः |
कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः ||४७||
पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः |
त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः ||४८||
स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः |
तस्मादवाक्षिरा राजन्प्राप्तोऽस्मि नरकं विभो ||४९||
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम् |
घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् ||५०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
168-अध्यायः
सञ्जय उवाच||
अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः |
अप्रियं वा प्रियं वापि महाराज धनञ्जयम् ||१||
ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत |
उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ ||२||
मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् |
न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः ||३||
क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु |
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् ||४||
स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः |
अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे ||५||
पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः |
न चातिवर्तसे धर्मं वेलामिव महोदधिः ||६||
न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम् |
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ||७||
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते |
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ||८||
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः |
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः ||९||
वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः |
अनर्हमाणास्तं भावं त्रयोदश समाः परैः ||१०||
एतान्यमर्षस्थानानि मर्षितानि त्वयानघ |
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ||११||
तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया |
सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ||१२||
त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम् |
घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ||१३||
स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते |
भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ||१४||
वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन |
विदीर्यते मे हृदयं त्वया वाक्षल्यपीडितम् ||१५||
अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे |
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ||१६||
यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि ||१६||
स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् |
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ||१७||
आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् |
गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ||१८||
स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ |
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ||१९||
अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः |
अहमेनं गदापाणिर्जेष्याम्येको महाहवे ||२०||
ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् |
सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः ||२१||
बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् |
याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ ||२२||
षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः |
हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे ||२३||
अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः |
अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् ||२४||
तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् |
माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् ||२५||
तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा |
कुरुते भैरवं नादं तत्र किं मम हीयते ||२६||
न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया |
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ||२७||
यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् |
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ||२८||
यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे |
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय ||२९||
यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः |
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ||३०||
विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् |
जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे ||३१||
नृशंसः स मयाक्रम्य रथ एव निपातितः |
तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ||३२||
कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् |
भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि ||३३||
योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् |
छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः ||३४||
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया |
निषादविषये क्षिप्तं जयद्रथशिरो यथा ||३५||
अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन |
क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः ||३६||
स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव |
यथा त्वया हतः शूरो भगदत्तः पितुः सखा ||३७||
पितामहं रणे हत्वा मन्यसे धर्ममात्मनः |
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ||३८||
नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन |
शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव ||३९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
169-अध्यायः
धृतराष्ट्र उवाच||
साङ्गा वेदा यथान्यायं येनाधीता महात्मना |
यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ||१||
तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा |
नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ||२||
यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः |
अमानुषाणि सङ्ग्रामे देवैरसुकराणि च ||३||
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः |
नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् ||४||
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः |
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय ||५||
सञ्जय उवाच||
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः |
तूष्णीं बभूवू राजानः सर्व एव विशां पते ||६||
अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् |
सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् ||७||
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे |
आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् ||८||
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् |
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ||९||
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते |
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ||१०||
याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः |
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ||११||
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् |
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ||१२||
कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः |
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ||१३||
सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः |
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ||१४||
उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् |
तथान्तो विहितस्तेन स्वयमेव महात्मना ||१५||
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः |
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ||१६||
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल |
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ||१७||
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः |
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ||१८||
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि |
शिरस्ते पातयिष्यामि गदया वज्रकल्पया ||१९||
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् |
संरब्धः सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव ||२०||
श्रूयते श्रूयते चेति क्षम्यते चेति माधव |
न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ||२१||
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् |
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ||२२||
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः |
आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ||२३||
यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया |
वार्यमाणेन निहतस्ततः पापतरं नु किम् ||२४||
व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे |
विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ||२५||
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् |
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् ||२६||
निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् |
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ||२७||
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः |
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ||२८||
यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् |
किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् ||२९||
स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् |
वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ||३०||
कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम |
पापानां च त्वमावासः कर्मणां मा पुनर्वद ||३१||
जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम् |
अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ||३२||
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् |
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ||३३||
न चैव मूर्ख धर्मेण केवलेनैव शक्यते |
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ||३४||
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः |
द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ||३५||
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया |
सर्वस्वमपकृष्टं च तथाधर्मेण बालिश ||३६||
अधर्मेणापकृष्टश्च मद्रराजः परैरितः |
इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः ||३७||
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ||३७||
एवं परैराचरितं पाण्डवेयैश्च संयुगे |
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ||३८||
दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः |
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ||३९||
एवमादीनि वाक्यानि क्रूराणि परुषाणि च |
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ||४०||
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् |
विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ||४१||
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् |
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ||४२||
तमापतन्तं सहसा महाबलममर्षणम् |
पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम् ||४३||
चोदितो वासुदेवेन भीमसेनो महाबलः |
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ||४४||
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली |
प्रस्कन्दमानमादाय जगाम बलिनं बलात् ||४५||
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः |
निगृहीतः पदे षष्ठे बलेन बलिनां वरः ||४६||
अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा |
उवाच श्लक्ष्णया वाचा सहदेवो विशां पते ||४७||
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते |
परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ||४८||
तथैवान्धकवृष्णीनां तव चैव विशेषतः |
कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते ||४९||
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् |
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ||५०||
स भवानीदृशं मित्रं मन्यते च यथा भवान् |
भवन्तश्च यथास्माकं भवतां च तथा वयम् ||५१||
स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन् |
नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गव ||५२||
पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः |
वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ||५३||
प्रशाम्यमाने शैनेये सहदेवेन मारिष |
पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ||५४||
मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् |
आसादयतु मामेष धराधरमिवानिलः ||५५||
यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् |
युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे ||५६||
किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम् |
सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ||५७||
अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे |
अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ||५८||
मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे |
उत्सृजैनमहं वैनमेष मां वा हनिष्यति ||५९||
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् |
भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ||६०||
त्वरया वासुदेवश्च धर्मराजश्च मारिष |
यत्नेन महता वीरौ वारयामासतुस्ततः ||६१||
निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ |
युयुत्सवः परान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः ||६२||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
170-अध्यायः
सञ्जय उवाच||
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः |
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ||१||
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् |
अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम् ||२||
शूलक्रव्यादसङ्घुष्टं भूतयक्षगणाकुलम् |
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ||३||
ततो वेगेन महता विनद्य स नरर्षभः |
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ||४||
यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः |
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ||५||
तस्मात्सम्पश्यतस्तस्य द्रावयिष्यामि वाहिनीम् |
विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु ||६||
सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे |
सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् ||७||
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् |
सिंहनादेन महता व्यपोह्य सुमहद्भयम् ||८||
ततः समागमो राजन्कुरुपाण्डवसेनयोः |
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ||९||
संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः |
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ||१०||
तेषां परमहृष्टानां जयमात्मनि पश्यताम् |
संरब्धानां महावेगः प्रादुरासीद्रणाजिरे ||११||
यथा शिलोच्चये शैलः सागरे सागरो यथा |
प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः ||१२||
ततः शङ्खसहस्राणि भेरीणामयुतानि च |
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ||१३||
ततो निर्मथ्यमानस्य सागरस्येव निस्वनः |
अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः ||१४||
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा |
अभिसन्धाय पाण्डूनां पाञ्चालानां च वाहिनीम् ||१५||
प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः |
पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः ||१६||
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे |
मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः ||१७||
तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले |
प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः ||१८||
चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः |
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ||१९||
शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ |
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ||२०||
यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः |
तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप ||२१||
वध्यमानास्तथास्त्रेण तेन नारायणेन वै |
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे ||२२||
यथा हि शिशिरापाये दहेत्कक्षं हुताशनः |
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ||२३||
आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो |
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ||२४||
द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् |
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ||२५||
धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया |
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् ||२६||
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् |
उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः ||२७||
सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः |
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ||२८||
भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामं भीरुदुस्तरम् |
अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे ||२९||
कामः सम्पद्यतामस्य बीभत्सोराशु मां प्रति |
कल्याणवृत्त आचार्यो मया युधि निपातितः ||३०||
येन बालः स सौभद्रो युद्धानामविशारदः |
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः ||३१||
येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता |
उपेक्षिता सपुत्रेण दासभावं नियच्छती ||३२||
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् |
कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च ||३३||
येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः |
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ||३४||
येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः |
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ||३५||
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् |
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः ||३६||
एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः |
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ||३७||
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत |
एष योगोऽत्र विहितः प्रतिघातो महात्मना ||३८||
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत |
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ||३९||
यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति |
तथा तथा भवन्त्येते कौरवा बलवत्तराः ||४०||
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये |
तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान् ||४१||
ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन |
निहनिष्यति तान्सर्वान्रसातलगतानपि ||४२||
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत |
ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च ||४३||
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः |
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ||४४||
न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित् |
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ||४५||
अथ वाप्यनया गुर्व्या हेमविग्रहया रणे |
कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् ||४६||
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह |
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ||४७||
पश्यध्वं मे दृढौ बाहू नागराजकरोपमा |
समर्थौ पर्वतस्यापि शैशिरस्य निपातने ||४८||
नागायुतसमप्राणो ह्यहमेको नरेष्विह |
शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः ||४९||
अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि |
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ||५०||
यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते |
अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु ||५१||
एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः |
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ||५२||
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः |
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ||५३||
ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च |
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ||५४||
पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे |
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ||५५||
तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे |
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ||५६||
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति |
अवर्धत महाराज यथाग्निरनिलोद्धतः ||५७||
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् |
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ||५८||
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले |
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ||५९||
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च |
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ||६०||
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः |
भीमसेनमपश्यन्त तेजसा संवृतं तदा ||६१||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
171-अध्यायः
सञ्जय उवाच||
भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनञ्जयः |
तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ||१||
नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम् |
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ||२||
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः |
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ||३||
यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति |
समापेतुस्तथा बाणा भीमसेनरथं प्रति ||४||
स हि भीमो रथश्चास्य हयाः सूतश्च मारिष |
संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् ||५||
यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम् |
गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् ||६||
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः |
तथा प्रविष्टं तत्तेजो न प्राज्ञायत किञ्चन ||७||
विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति |
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे ||८||
सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः |
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् ||९||
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती |
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ||१०||
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम् |
विगाह्य तौ सुबलिनौ माययाविशतां तदा ||११||
न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः |
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः ||१२||
ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च |
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् ||१३||
अपकृष्यमाणः कौन्तेयो नदत्येव महारथः |
वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम् ||१४||
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन |
वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे ||१५||
यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः |
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः ||१६||
रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः |
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम ||१७||
एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत् |
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ||१८||
यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि |
ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् ||१९||
तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे |
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ||२०||
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः |
वाहनानि च हृष्टानि योधाश्च मनुजेश्वर ||२१||
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत |
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः ||२२||
हतशेषं बलं तत्र पाण्डवानामतिष्ठत |
अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया ||२३||
व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा |
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् ||२४||
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय |
व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः ||२५||
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष |
सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् ||२६||
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते |
आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः ||२७||
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् |
अन्यथा विहितः सङ्ख्ये वधः शत्रोर्जनाधिप ||२८||
पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः |
निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः ||२९||
दुर्योधन उवाच||
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते |
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ||३०||
त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा |
इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः ||३१||
धृतराष्ट्र उवाच||
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते |
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ||३२||
दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समवस्थितान् |
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ||३३||
सञ्जय उवाच||
जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः |
सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम् ||३४||
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः |
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् ||३५||
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् |
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ||३६||
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः |
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ||३७||
विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम् |
आददत्सर्वलोकस्य प्राणानिव महारणे ||३८||
पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः |
द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् ||३९||
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि |
अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः ||४०||
तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः |
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ||४१||
द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके |
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् ||४२||
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे |
तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः ||४३||
प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते |
सम्भ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् ||४४||
दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् |
शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति ||४५||
अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत् |
विंशत्या पुनराहत्य नानारूपैरमर्षणम् ||४६||
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ||४६||
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः |
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् ||४७||
शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः |
न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च ||४८||
एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् |
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ||४९||
स तं निर्भिद्य तेनास्तः सायकः सशरावरम् |
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः ||५०||
स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः |
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः ||५१||
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् |
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ||५२||
अथान्येन सुपुङ्खेन शरेण नतपर्वणा |
आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः ||५३||
स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः |
ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम् ||५४||
तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् |
जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः ||५५||
किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः |
युवराजश्च चेदीनां मालवश्च सुदर्शनः ||५६||
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् ||५६||
आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः |
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् ||५७||
सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत् |
मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् ||५८||
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः |
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ||५९||
युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् |
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ||६०||
ततोऽर्जुनं षड्भिरथाजघान; द्रौणायनिर्दशभिर्वासुदेवम् |
भीमं दशार्धैर्युवराजं चतुर्भि; र्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च ||६१||
पुनः पार्थं शरवर्षेण विद्ध्वा; द्रौणिर्घोरं सिंहनादं ननाद ||६१||
तस्यास्यतः सुनिशितान्पीतधारा; न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च |
धरा वियद्द्यौः प्रदिशो दिशश्च; छन्ना बाणैरभवन्घोररूपैः ||६२||
आसीनस्य स्वरथं तूग्रतेजाः; सुदर्शनस्येन्द्रकेतुप्रकाशौ |
भुजौ शिरश्चेन्द्रसमानवीर्य; स्त्रिभिः शरैर्युगपत्सञ्चकर्त ||६३||
स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश्चापि बाणैः |
छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच्छिर उच्चकर्त ||६४||
युवानमिन्दीवरदामवर्णं; चेदिप्रियं युवराजं प्रहस्य |
बाणैस्त्वरावाञ्ज्वलिताग्निकल्पै; र्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम् ||६५||
तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः |
दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ||६६||
ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः |
धृष्टद्युम्नरथं भीतास्त्यक्त्वा सम्प्राद्रवन्दिशः ||६७||
तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः |
अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् ||६८||
ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः |
द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे ||६९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
172-अध्यायः
सञ्जय उवाच||
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः |
न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया ||१||
ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे |
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ||२||
एक एव तु बीभत्सुः सोमकावयवैः सह |
मत्स्यैरन्यैश्च सन्धाय कौरवैः संन्यवर्तत ||३||
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् |
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ||४||
या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् |
धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते ||५||
यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय ||५||
स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः |
कालानलसमप्रख्यो द्विषतामन्तको युधि ||६||
समासादय पाञ्चाल्यं मां चापि सहकेशवम् ||६||
धृतराष्ट्र उवाच||
आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय |
प्रीतिर्धनञ्जये चास्य प्रियश्चापि स वासवेः ||७||
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् |
अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् ||८||
सञ्जय उवाच||
युवराजे हते चैव वृद्धक्षत्रे च पौरवे |
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ||९||
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते |
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ||१०||
अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो |
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ||११||
तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् |
मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा ||१२||
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप |
पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा ||१३||
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ||१३||
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् |
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ||१४||
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः |
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ||१५||
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ||१५||
ततस्तुमुलमाकाशे शरवर्षमजायत |
ववुश्च शिशिरा वाताः सूर्यो नैव तताप च ||१६||
चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् |
रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे ||१७||
पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः |
परमं प्रयतात्मानो न शान्तिमुपलेभिरे ||१८||
भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् |
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवातुरम् ||१९||
शरतेजोऽभिसन्तप्ता नागा भूमिशयास्तथा |
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ||२०||
जलजानि च सत्त्वानि दह्यमानानि भारत |
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ||२१||
दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः |
उच्चावचा निपेतुर्वै गरुडानिलरंहसः ||२२||
तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः |
प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः ||२३||
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः |
नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ||२४||
अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः |
त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः ||२५||
द्रुमाणां शिखराणीव दावदग्धानि मारिष |
अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो ||२६||
अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ||२६||
तत्सैन्यं भगवानग्निर्ददाह युधि भारत |
युगान्ते सर्वभूतानि संवर्तक इवानलः ||२७||
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे |
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ||२८||
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत |
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ||२९||
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः |
तमसा संवृते लोके नादृश्यत महाहवे ||३०||
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् |
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ||३१||
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् |
सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना ||३२||
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह |
प्रववौ चानिलः शीतो दिशश्च विमलाभवन् ||३३||
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् |
अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया ||३४||
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ |
सहितौ सम्प्रदृश्येतां नभसीव तमोनुदौ ||३५||
सपताकध्वजहयः सानुकर्षवरायुधः |
प्रबभौ स रथो मुक्तस्तावकानां भयङ्करः ||३६||
ततः किलकिलाशब्दः शङ्खभेरीरवैः सह |
पाण्डवानां प्रहृष्टानां क्षणेन समजायत ||३७||
हताविति तयोरासीत्सेनयोरुभयोर्मतिः |
तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ||३८||
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ |
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् ||३९||
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः |
मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष ||४०||
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः |
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा ||४१||
ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः |
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ||४२||
ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् |
आवासं च सरस्वत्याः स वै व्यासं ददर्श ह ||४३||
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह |
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ||४४||
भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् |
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ||४५||
अधरोत्तरमेतद्वा लोकानां वा पराभवः |
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ||४६||
नासुरामरगन्धर्वा न पिशाचा न राक्षसाः |
न सर्पयक्षपतगा न मनुष्याः कथञ्चन ||४७||
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् |
तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् ||४८||
केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ |
एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ||४९||
व्यास उवाच||
महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् |
तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ||५०||
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः |
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ||५१||
स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः |
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः ||५२||
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च |
अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः ||५३||
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् |
द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ||५४||
स तेन तपसा तात ब्रह्मभूतो यदाभवत् |
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ||५५||
ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् |
अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् ||५६||
रुद्रमीशानमृषभं चेकितानमजं परम् |
गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् ||५७||
दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम् |
दिव्यं चापमिषुधी चाददानं; हिरण्यवर्माणमनन्तवीर्यम् ||५८||
पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम् |
सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम् ||५९||
शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर्गणैः शोभितं भूतसङ्घैः |
एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतमिष्टवाग्भिः ||६०||
जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच्च |
नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नममृतस्य योनिम् ||६१||
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः |
स तन्निष्ठस्तपसा धर्ममीड्यं; तद्भक्त्या वै विश्वरूपं ददर्श ||६२||
दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम् ||६२||
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् |
ततो नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ||६३||
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् |
अजमीशानमव्यग्रं कारणात्मानमच्युतम् ||६४||
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने |
पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् ||६५||
त्वत्सम्भूता भूतकृतो वरेण्य; गोप्तारोऽद्य भुवनं पूर्वदेवाः |
आविश्येमां धरणीं येऽभ्यरक्ष; न्पुरा पुराणां तव देव सृष्टिम् ||६६||
सुरासुरान्नागरक्षःपिशाचा; न्नरान्सुपर्णानथ गन्धर्वयक्षान् |
पृथग्विधान्भूतसङ्घांश्च विश्वां; स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव ||६७||
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ||६७||
रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी |
कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च; त्वत्सम्भूतं स्थास्नु चरिष्णु चेदम् ||६८||
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश्चैक्यं सङ्क्षये यान्ति भूयः |
एवं विद्वान्प्रभवं चाप्ययं च; हित्वा भूतानां तत्र सायुज्यमेति ||६९||
दिव्यावृतौ मानसौ द्वौ सुपर्णा; ववाक्षाखः पिप्पलः सप्त गोपाः |
दशाप्यन्ये ये पुरं धारयन्ति; त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् ||७०||
भूतं भव्यं भविता चाप्यधृष्यं; त्वत्सम्भूता भुवनानीह विश्वा ||७०||
भक्तं च मां भजमानं भजस्व; मा रीरिषो मामहिताहितेन |
आत्मानं त्वामात्मनोऽनन्यभावो; विद्वानेवं गच्छति ब्रह्म शुक्रम् ||७१||
अस्तौषं त्वां तव संमानमिच्छ; न्विचिन्वन्वै सवृषं देववर्य |
सुदुर्लभान्देहि वरान्ममेष्टा; नभिष्टुतः प्रतिकार्षीश्च मा माम् ||७२||
तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् |
अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः ||७३||
नीलकण्ठ उवाच||
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु |
अप्रमेयबलात्मा त्वं नारायण भविष्यसि ||७४||
न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः |
न पिशाचा न गन्धर्वा न नरा न च राक्षसाः ||७५||
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः |
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ||७६||
न शस्त्रेण न वज्रेण नाग्निना न च वायुना |
नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा ||७७||
कश्चित्तव रुजं कर्ता मत्प्रसादात्कथञ्चन |
अपि चेत्समरं गत्वा भविष्यसि ममाधिकः ||७८||
व्यास उवाच||
एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा |
स एष देवश्चरति मायया मोहयञ्जगत् ||७९||
तस्यैव तपसा जातं नरं नाम महामुनिम् |
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ||८०||
तावेतौ पूर्वदेवानां परमोपचितावृषी |
लोकयात्राविधानार्थं सञ्जायेते युगे युगे ||८१||
तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च |
तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते ||८२||
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् |
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ||८३||
शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् |
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ||८४||
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् |
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ||८५||
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः |
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे ||८६||
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् |
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ||८७||
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः |
प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् ||८८||
स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः |
कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः ||८९||
सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् |
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ||९०||
सञ्जय उवाच||
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः |
नमश्चकार रुद्राय बहु मेने च केशवम् ||९१||
हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये |
वरूथिनीमभिप्रेत्य अवहारमकारयत् ||९२||
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते |
कौरवाणां च दीनानां द्रोणे युधि निपातिते ||९३||
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् |
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ||९४||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
173-अध्यायः
धृतराष्ट्र उवाच||
तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय |
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ||१||
सञ्जय उवाच||
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै |
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः ||२||
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् |
यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ ||३||
सङ्ग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम् |
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ||४||
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते |
तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने ||५||
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति |
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ||६||
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः |
तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् ||७||
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः |
शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः ||८||
व्यास उवाच||
प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् |
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ||९||
ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् |
तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् ||१०||
महादेवं महात्मानमीशानं जटिलं शिवम् |
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ||११||
दातारं चैव भक्तानां प्रसादविहितान्वरान् ||११||
तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः |
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ||१२||
महाकाया महोत्साहा महाकर्णास्तथापरे |
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ||१३||
ईदृशैः स महादेवः पूज्यमानो महेश्वरः |
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ||१४||
तस्मिन्घोरे तदा पार्थ सङ्ग्रामे लोमहर्षणे ||१४||
द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः |
कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ||१५||
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ||१५||
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते |
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ||१६||
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः |
विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ||१७||
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि |
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ||१८||
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् |
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ||१९||
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा |
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ||२०||
कपर्दिने करालाय हर्यक्ष्णे वरदाय च |
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ||२१||
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च |
हरिकेशाय मुण्डाय कृशायोत्तरणाय च ||२२||
भास्कराय सुतीर्थाय देवदेवाय रंहसे |
बहुरूपाय शर्वाय प्रियाय प्रियवाससे ||२३||
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे |
गिरिशाय प्रशान्ताय पतये चीरवाससे ||२४||
हिरण्यबाहवे चैव उग्राय पतये दिशाम् |
पर्जन्यपतये चैव भूतानां पतये नमः ||२५||
वृक्षाणां पतये चैव अपां च पतये तथा |
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ||२६||
स्रुवहस्ताय देवाय धन्विने भार्गवाय च |
बहुरूपाय विश्वस्य पतये चीरवाससे ||२७||
सहस्रशिरसे चैव सहस्रनयनाय च |
सहस्रबाहवे चैव सहस्रचरणाय च ||२८||
शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् |
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ||२९||
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ||२९||
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् |
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ||३०||
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् |
वृषायुधं वृषशरं वृषभूतं महेश्वरम् ||३१||
महोदरं महाकायं द्वीपिचर्मनिवासिनम् |
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ||३२||
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् |
पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ||३३||
प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ||३३||
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा |
सुवाससे नमो नित्यं सुव्रताय सुधन्विने ||३४||
स्रुवहस्ताय देवाय सुखधन्वाय धन्विने |
धन्वन्तराय धनुषे धन्वाचार्याय धन्विने ||३५||
उग्रायुधाय देवाय नमः सुरवराय च |
नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने ||३६||
नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने |
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ||३७||
वनस्पतीनां पतये नराणां पतये नमः |
अपां च पतये नित्यं यज्ञानां पतये नमः ||३८||
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च |
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ||३९||
कर्माणि चैव दिव्यानि महादेवस्य धीमतः |
तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ||४०||
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः |
सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ||४१||
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा |
धनुषा बाणमुत्सृज्य सघोषं विननाद च ||४२||
ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा |
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ||४३||
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः |
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ||४४||
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा |
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ||४५||
अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः |
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ||४६||
चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च |
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ||४७||
पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव |
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ||४८||
ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् |
पुनश्च संदधे दीप्तं देवानां निशितं शरम् ||४९||
रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् |
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ||५०||
तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा |
यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति ||५१||
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि |
आयसं राजतं चैव सौवर्णमपरं महत् ||५२||
आयसं तारकाक्षस्य कमलाक्षस्य राजतम् |
सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च ||५३||
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि |
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ||५४||
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः |
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ||५५||
निपातयिष्यसे चैनानसुरान्भुवनेश्वर ||५५||
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया |
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ||५६||
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै |
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ||५७||
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् |
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ||५८||
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः |
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् ||५९||
बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः |
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ||६०||
न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् |
सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ||६१||
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् |
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ||६२||
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः |
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ||६३||
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः |
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ||६४||
स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् |
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ||६५||
स भवः स च पर्जन्यो महादेवः स चानघः |
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ||६६||
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च |
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ||६७||
स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् |
सर्वासां देवतानां च धारयत्यवपुर्वपुः ||६८||
सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः |
शतधा सहस्रधा चैव तथा शतसहस्रधा ||६९||
ईदृशः स महादेवो भूयश्च भगवानजः |
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ||७०||
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् |
स मोचयति सुप्रीतः शरण्यः शरणागतान् ||७१||
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् |
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ||७२||
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते |
स चैव व्याहृते लोके मनुष्याणां शुभाशुभे ||७३||
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते |
महेश्वरश्च भूतानां महतामीश्वरश्च सः ||७४||
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् |
अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ||७५||
एष चैव श्मशानेषु देवो वसति नित्यशः |
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ||७६||
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च |
लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च ||७७||
नामधेयानि लोकेषु बहून्यत्र यथार्थवत् |
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ||७८||
वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् |
नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः ||७९||
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः |
स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् ||८०||
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा |
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ||८१||
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः |
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ||८२||
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् |
महयन्ति च लोकाश्च महेश्वर इति स्मृतः ||८३||
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा |
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ||८४||
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः |
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ||८५||
यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् |
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ||८६||
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा |
क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः ||८७||
धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते |
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ||८८||
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः |
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ||८९||
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु |
शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः ||९०||
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा |
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ||९१||
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् |
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ||९२||
विषमस्थः शरीरेषु समश्च प्राणिनामिह |
स वायुर्विषमस्थेषु प्राणापानशरीरिषु ||९३||
पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् |
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ||९४||
ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः |
आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते ||९५||
तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः |
भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते ||९६||
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया |
यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ||९७||
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् |
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ||९८||
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः |
सङ्ग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् ||९९||
एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः |
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ||१००||
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सञ्ज्ञितम् |
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ||१०१||
सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् |
सर्वपापप्रशमनं सर्वदुःखभयापहम् ||१०२||
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा |
विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते ||१०३||
चरितं महात्मनो दिव्यं साङ्ग्रामिकमिदं शुभम् |
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ||१०४||
भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा |
वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः ||१०५||
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः |
यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः ||१०६||
सञ्जय उवाच||
एवमुक्त्वार्जुनं सङ्ख्ये पराशरसुतस्तदा |
जगाम भरतश्रेष्ठ यथागतमरिंदम ||१०७||
द्रोणपर्व सम्पूर्णम्