श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
023-अध्यायः
धृतराष्ट्र उवाच||
व्यथयेयुरिमे सेनां देवानामपि संयुगे |
आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः ||१||
सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः |
तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः ||२||
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी |
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ||३||
स एव महतीं सेनां समावर्तयदाहवे |
किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् ||४||
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः |
स तथाकृष्यते तेन न यथा स्वयमिच्छति ||५||
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः |
स पुनर्भागधेयेन सहायानुपलब्धवान् ||६||
अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये |
चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः ||७||
पृथिवी भूयसी तात मम पार्थस्य नो तथा |
इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा ||८||
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः |
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः ||९||
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् |
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ||१०||
समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः |
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे ||११||
यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् |
दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह ||१२||
नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि |
पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् ||१३||
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः |
सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति ||१४||
अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य सञ्जय |
अवशेषं न पश्यामि ककुदे मृदिते सति ||१५||
कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः |
यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ ||१६||
व्यक्तमेव च मे शंस यथा युद्धमवर्तत |
केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् ||१७||
धनञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः |
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः ||१८||
यथासीच्च निवृत्तेषु पाण्डवेषु च सञ्जय |
मम सैन्यावशेषस्य संनिपातः सुदारुणः ||१९||
मामकानां च ये शूराः कांस्तत्र समवारयन् ||१९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
024-अध्यायः
सञ्जय उवाच||
महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु |
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ||१||
तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव |
ततो हतममन्याम द्रोणं दृष्टिपथे हते ||२||
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः |
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ||३||
यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः |
वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ||४||
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव |
आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ||५||
तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे |
तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ||६||
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः |
बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ||७||
कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते |
पर्यवारयदायान्तं शूरं समितिशोभनम् ||८||
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् |
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ||९||
सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् |
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ||१०||
क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके |
नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ||११||
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् |
विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ||१२||
युयुत्सुं पाण्डवार्थाय यतमानं महारथम् |
सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ||१३||
सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ |
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ||१४||
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् |
वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् ||१५||
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् |
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ||१६||
तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् |
क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ||१७||
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः |
आद्रवन्तं सहानीकं सहानीको न्यवारयत् ||१८||
तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः |
यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः ||१९||
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् |
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ||२०||
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् |
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ||२१||
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः |
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ||२२||
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः |
चक्रे विबाहुशिरसं भूतकर्माणमाहवे ||२३||
सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् |
द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ||२४||
सुतसोमस्तु सङ्क्रुद्धः स्वपितृव्यमजिह्मगैः |
विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ||२५||
अथ भीमरथः शाल्वमाशुगैरायसैः शितैः |
षड्भिः साश्वनियन्तारमनयद्यमसादनम् ||२६||
श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः |
चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ||२७||
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ |
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ||२८||
तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे |
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ||२९||
तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः |
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ||३०||
प्रवपन्निव बीजानि बीजकाले नरर्षभ |
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ||३१||
यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः |
तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ||३२||
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत |
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ||३३||
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् |
पर्यवारयदायान्तं युवानं समरे युवा ||३४||
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् |
विधूय तद्बाणजालं बभौ तव सुतो बली ||३५||
अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे |
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ||३६||
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः |
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ||३७||
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली |
द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ||३८||
स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् |
तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ||३९||
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् |
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ||४०||
ते चैनं भृशसङ्क्रुद्धाः शरव्रातैरवाकिरन् |
स च तांश्छादयामास शरजालैः पुनः पुनः ||४१||
नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः |
साश्वसूतध्वजरथाः परस्परशराचिताः ||४२||
पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह |
नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ||४३||
तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् |
सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ||४४||
क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि |
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ||४५||
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् |
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ||४६||
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् |
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ||४७||
तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया |
स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ||४८||
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः |
अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ||४९||
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ |
ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ||५०||
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् |
पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ||५१||
स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने |
पुनः पताकां सूतं च छत्रं चापातयद्रथात् ||५२||
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा |
साश्वसूतध्वजरथं तं चकर्त वरासिना ||५३||
रथं च स्वं समास्थाय धनुरादाय चापरम् |
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ||५४||
मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः |
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ||५५||
आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् |
सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ||५६||
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः |
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ||५७||
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः |
तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः ||५८||
एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् |
पदातीनां च भद्रं ते तव तेषां च सङ्कुलम् ||५९||
नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः |
द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ||६०||
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो |
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ||६१||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
025-अध्यायः
धृतराष्ट्र उवाच||
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः |
कथं युयुधिरे पार्था मामकाश्च तरस्विनः ||१||
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति |
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय ||२||
सञ्जय उवाच||
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः |
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ||३||
स नाग इव नागेन गोवृषेणेव गोवृषः |
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ||४||
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः |
अभिनत्कुञ्जरानीकमचिरेणैव मारिष ||५||
ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम् |
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ||६||
विधमेदभ्रजालानि यथा वायुः समन्ततः |
व्यधमत्तान्यनीकानि तथैव पवनात्मजः ||७||
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत |
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ||८||
ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः |
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ||९||
तथा गजानां कदनं कुर्वाणमनिलात्मजम् |
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ||१०||
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः |
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ||११||
स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् |
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ||१२||
तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् |
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ||१३||
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष |
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ||१४||
तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् |
कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ||१५||
तस्य कायं विनिर्भिद्य ममज्ज धरणीतले |
ततः पपात द्विरदो वज्राहत इवाचलः ||१६||
तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः |
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ||१७||
तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः |
सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ||१८||
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः |
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ||१९||
येन नागेन मघवानजयद्दैत्यदानवान् |
स नागप्रवरो भीमं सहसा समुपाद्रवत् ||२०||
श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च |
व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ||२१||
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् |
हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ||२२||
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी |
सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ||२३||
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् |
भगदत्तं सपाञ्चालः सर्वतः समवारयत् ||२४||
तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः |
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ||२५||
स विघातं पृषत्कानामङ्कुशेन समाचरन् |
गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ||२६||
तदद्भुतमपश्याम भगदत्तस्य संयुगे |
तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ||२७||
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् |
तिर्यग्यातेन नागेन समदेनाशुगामिना ||२८||
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः |
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ||२९||
प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च |
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ||३०||
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः |
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ||३१||
उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः |
रथानीकेन महता सर्वतः पर्यवारयत् ||३२||
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः |
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ||३३||
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् |
किरतां शरवर्षाणि स नागः पर्यवर्तत ||३४||
ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् |
प्रेषयामास सहसा युयुधानरथं प्रति ||३५||
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः |
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ||३६||
बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः |
तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं पुनः ||३७||
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् |
निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ||३८||
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः |
तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो नृपाः ||३९||
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः |
ऐरावतस्थेन यथा देवराजेन दानवाः ||४०||
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः |
गजवाजिकृतः शब्दः सुमहान्समजायत ||४१||
भगदत्तेन समरे काल्यमानेषु पाण्डुषु |
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ||४२||
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा |
सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ||४३||
ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः |
समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ||४४||
ततो रुचिरपर्वाणं शरेण नतपर्वणा |
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ||४५||
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः |
चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ||४६||
त एनं शरधाराभिर्धाराभिरिव तोयदाः |
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ||४७||
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः |
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ||४८||
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् |
पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् ||४९||
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः |
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ||५०||
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः |
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ||५१||
सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ |
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ||५२||
नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः |
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ||५३||
गोपाल इव दण्डेन यथा पशुगणान्वने |
आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ||५४||
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः |
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ||५५||
स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप |
भयं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः ||५६||
ततो ध्वनिर्द्विरदरथाश्वपार्थिवै; र्भयाद्द्रवद्भिर्जनितोऽतिभैरवः |
क्षितिं वियद्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संयुगे तदा ||५७||
स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम् |
पुरा सुगुप्तां विबुधैरिवाहवे; विरोचनो देववरूथिनीमिव ||५८||
भृशं ववौ ज्वलनसखो वियद्रजः; समावृणोन्मुहुरपि चैव सैनिकान् |
तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः ||५९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
026-अध्यायः
सञ्जय उवाच||
यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि |
तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे ||१||
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् |
भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् ||२||
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन |
त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः ||३||
इन्द्रादनवरः सङ्ख्ये गजयानविशारदः |
प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः ||४||
स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि |
सर्वशब्दातिगः सङ्ख्ये कृतकर्मा जितक्लमः ||५||
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ |
स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति ||६||
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् |
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ||७||
शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम् |
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ||८||
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः |
दार्यते भगदत्तेन यत्र पाण्डववाहिनी ||९||
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः |
संशप्तकाः समारोहन्सहस्राणि चतुर्दश ||१०||
दशैव तु सहस्राणि त्रिगर्तानां नराधिप |
चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः ||११||
दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष |
आहूयमानस्य च तैरभवद्धृदयं द्विधा ||१२||
किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् |
इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ||१३||
तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह |
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ||१४||
स संनिवृत्तः सहसा कपिप्रवरकेतनः |
एको रथसहस्राणि निहन्तुं वासवी रणे ||१५||
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः |
अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ||१६||
स तु संवर्तयामास द्वैधीभावेन पाण्डवः |
रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा ||१७||
ततः शतसहस्राणि शराणां नतपर्वणाम् |
व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः ||१८||
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः |
न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ||१९||
यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः |
ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् ||२०||
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः |
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ||२१||
द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः |
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ||२२||
विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः |
सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ||२३||
सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः |
सञ्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ||२४||
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष |
सञ्छिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे ||२५||
जज्वालालङ्कृतैः सेना पत्रिभिः प्राणभोजनैः |
नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने ||२६||
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव |
धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन् ||२७||
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः |
विस्मयं परमं गत्वा तलमाहत्य पूजयत् ||२८||
ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः |
भगदत्ताय याहीति पार्थः कृष्णमचोदयत् ||२९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
027-अध्यायः
सञ्जय उवाच||
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् |
अप्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय पाण्डुरान् ||१||
तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् |
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ||२||
ततः श्वेतहयः कृष्णमब्रवीदजितं जयः |
एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ||३||
दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन |
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ||४||
किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् |
इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ||५||
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् |
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ||६||
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः |
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ||७||
त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः |
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ||८||
ततो भुजगसङ्काशां सुशर्मा शक्तिमायसीम् |
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ||९||
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः |
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ||१०||
तं वासवमिवायान्तं भूरिवर्षशरौघिणम् |
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ||११||
ततो धनञ्जयो बाणैस्तत एव महारथान् |
आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ||१२||
तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः |
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ||१३||
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः |
सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ||१४||
यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् |
धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम् ||१५||
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः |
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ||१६||
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी |
व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ||१७||
ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् |
मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ||१८||
व्यपेतहृदयत्रास आपद्धर्मातिगो रथः |
आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ||१९||
यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः |
मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ||२०||
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः |
तेन नागेन सहसा धनञ्जयमुपाद्रवत् ||२१||
तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् |
स संनिपातस्तुमुलो बभूव रथनागयोः ||२२||
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च |
सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ ||२३||
ततो जीमूतसङ्काशान्नागादिन्द्र इवाभिभूः |
अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम् ||२४||
स चापि शरवर्षं तच्छरवर्षेण वासविः |
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ||२५||
ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् |
शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ||२६||
ततः स शरजालेन महताभ्यवकीर्य तौ |
चोदयामास तं नागं वधायाच्युतपार्थयोः ||२७||
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् |
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ||२८||
सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम् |
सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः ||२९||
स तु नागो द्विपरथान्हयांश्चारुज्य मारिष |
प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनञ्जयः ||३०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
028-अध्यायः
धृतराष्ट्र उवाच||
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः |
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ||१||
सञ्जय उवाच||
प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ |
मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ||२||
तथा हि शरवर्षाणि पातयत्यनिशं प्रभो |
भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः ||३||
अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः |
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ||४||
अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः |
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः ||५||
तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च |
लाडयन्निव राजानं भगदत्तमयोधयत् ||६||
सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश |
प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् ||७||
ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः |
शरजालेन स बभौ व्यभ्रः पर्वतराडिव ||८||
ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् |
व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् ||९||
ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः |
विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् ||१०||
सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः |
भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः ||११||
व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च |
तैरर्जुनस्य समरे किरीटं परिवर्तितम् ||१२||
परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः |
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् ||१३||
एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम् |
अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् ||१४||
तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च |
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् ||१५||
विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् |
अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ||१६||
विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् |
उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः ||१७||
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि |
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ||१८||
अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन |
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ||१९||
यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे |
ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते ||२०||
सबाणः सधनुश्चाहं ससुरासुरमानवान् |
शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ||२१||
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः |
शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ ||२२||
चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः |
आत्मानं प्रविभज्येह लोकानां हितमादधे ||२३||
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता |
अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ||२४||
अपरा कुरुते कर्म मानुषं लोकमाश्रिता |
शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् ||२५||
यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम |
वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ||२६||
तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा |
प्रायाचत वरं यं मां नरकार्थाय तं शृणु ||२७||
देवानामसुराणां च अवध्यस्तनयोऽस्तु मे |
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ||२८||
एवं वरमहं श्रुत्वा जगत्यास्तनये तदा |
अमोघमस्त्रमददं वैष्णवं तदहं पुरा ||२९||
अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे |
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ||३०||
अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः |
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ||३१||
तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी |
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ||३२||
तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् |
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ||३३||
तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् |
वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् ||३४||
वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् |
यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ||३५||
एवमुक्तस्ततः पार्थः केशवेन महात्मना |
भगदत्तं शितैर्बाणैः सहसा समवाकिरत् ||३६||
ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः |
कुम्भयोरन्तरे नागं नाराचेन समार्पयत् ||३७||
समासाद्य तु तं नागं बाणो वज्र इवाचलम् |
अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ||३८||
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ |
नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः ||३९||
ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा |
बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः ||४०||
स भिन्नहृदयो राजा भगदत्तः किरीटिना |
शरासनं शरांश्चैव गतासुः प्रमुमोच ह ||४१||
शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः |
नालताडनविभ्रष्टं पलाशं नलिनादिव ||४२||
स हेममाली तपनीयभाण्डा; त्पपात नागाद्गिरिसंनिकाशात् |
सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः ||४३||
निहत्य तं नरपतिमिन्द्रविक्रमं; सखायमिन्द्रस्य तथैन्द्रिराहवे |
ततोऽपरांस्तव जयकाङ्क्षिणो नरा; न्बभञ्ज वायुर्बलवान्द्रुमानिव ||४४||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
029-अध्यायः
सञ्जय उवाच||
प्रियमिन्द्रस्य सततं सखायममितौजसम् |
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ||१||
ततो गान्धारराजस्य सुतौ परपुरञ्जयौ |
आर्छेतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ ||२||
तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ |
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ||३||
वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् |
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ||४||
ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि |
गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः ||५||
ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् |
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः ||६||
हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः |
आरुरोह रथं भ्रातुरन्यच्च धनुराददे ||७||
तावेकरथमारूढौ भ्रातरौ वृषकाचलौ |
शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः ||८||
स्यालौ तव महात्मानौ राजानौ वृषकाचलौ |
भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ||९||
लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः |
निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा ||१०||
तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ |
संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः ||११||
तौ रथात्सिंहसङ्काशौ लोहिताक्षौ महाभुजौ |
गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ ||१२||
तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ |
यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ ||१३||
दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ |
भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते ||१४||
निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः |
कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः ||१५||
लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः |
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः ||१६||
सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः |
क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसन्धिनः ||१७||
चक्राणि विशिखाः प्रासा विविधान्यायुधानि च |
प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ||१८||
खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः |
ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः ||१९||
विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति |
सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च ||२०||
ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः |
विसृजन्निषुजालानि सहसा तान्यताडयत् ||२१||
ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः |
विरुवन्तो महारावान्विनेशुः सर्वतो हताः ||२२||
ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति |
तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् ||२३||
तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् |
हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः ||२४||
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः |
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ||२५||
एवं बहुविधा मायाः सौबलस्य कृताः कृताः |
जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा ||२६||
तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः |
अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा ||२७||
ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु |
अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् ||२८||
सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी |
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ||२९||
द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः |
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ||३०||
नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् |
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ||३१||
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् |
गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ||३२||
ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम् |
सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् ||३३||
नानाविधान्यनीकानि पुत्राणां तव भारत |
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ||३४||
तं वासवमिवायान्तं भूरिवर्षशरौघिणम् |
महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् ||३५||
ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् |
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ||३६||
तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः |
शलभा इव सम्पेतुः संवृण्वाना दिशो दश ||३७||
तुरगं रथिनं नागं पदातिमपि मारिष |
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ||३८||
न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः |
पृथगेकशरारुग्णा निपेतुस्ते गतासवः ||३९||
हतैर्मनुष्यैस्तुरगैश्च सर्वतः; शराभिवृष्टैर्द्विरदैश्च पातितैः |
तदा श्वगोमायुबडाभिनादितं; विचित्रमायोधशिरो बभूव ह ||४०||
पिता सुतं त्यजति सुहृद्वरं सुहृ; त्तथैव पुत्रः पितरं शरातुरः |
स्वरक्षणे कृतमतयस्तदा जना; स्त्यजन्ति वाहानपि पार्थपीडिताः ||४१||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
030-अध्यायः
धृतराष्ट्र उवाच||
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय |
चलितानां द्रुतानां च कथमासीन्मनो हि वः ||१||
अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् |
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय ||२||
सञ्जय उवाच||
तथापि तव पुत्रस्य प्रियकामा विशां पते |
यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ||३||
समुद्यतेषु शस्त्रेषु सम्प्राप्ते च युधिष्ठिरे |
अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ||४||
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः |
सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो ||५||
द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् |
मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ||६||
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे |
कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत ||७||
यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् |
तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते ||८||
यथाभागविपर्यासे सङ्ग्रामे भैरवे सति |
वीराः समासदन्वीरानगच्छन्भीरवः परान् ||९||
अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः |
अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः ||१०||
ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः |
त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ||११||
अयसामिव सम्पातः शिलानामिव चाभवत् |
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ||१२||
न तु स्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम् |
दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा ||१३||
प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने |
प्रवर्तता बलौघेन महता भारपीडिता ||१४||
घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः |
अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् ||१५||
समासाद्य तु पाण्डूनामनीकानि सहस्रशः |
द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः ||१६||
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा |
पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् ||१७||
तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा |
नैव तस्योपमा काचित्सम्भवेदिति मे मतिः ||१८||
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् |
शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः ||१९||
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् |
पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत ||२०||
नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा |
मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः ||२१||
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् |
व्याकोशपद्माभमुखं नीलो विव्याध सायकैः ||२२||
तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः |
धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत ||२३||
सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् |
द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् ||२४||
तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् |
भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ ||२५||
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः |
प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ ||२६||
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला |
आचार्यपुत्रेण हते नीले ज्वलिततेजसि ||२७||
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः |
कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष ||२८||
दक्षिणेन तु सेनायाः कुरुते कदनं बली |
संशप्तकावशेषस्य नारायणबलस्य च ||२९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
031-अध्यायः
सञ्जय उवाच||
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः |
सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः ||१||
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः |
जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह ||२||
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः |
षड्भिर्दुर्योधनो राजा तत एनमवाकिरत् ||३||
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः |
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः ||४||
दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः |
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे ||५||
तस्मिन्सन्त्यजति प्राणान्मृत्युसाधारणीकृते |
अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् ||६||
ते ययुर्भीमसेनस्य समीपममितौजसः |
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ ||७||
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः |
महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः ||८||
समापेतुर्महावीर्या भीमप्रभृतयो रथाः |
तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः ||९||
महाबलानतिरथान्वीरान्समरशोभिनः |
बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः ||१०||
सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् |
आसीच्छक्त्यसिसम्पातो युद्धमासीत्परश्वधैः ||११||
निकृष्टमसियुद्धं च बभूव कटुकोदयम् |
कुञ्जराणां च सङ्घातैर्युद्धमासीत्सुदारुणम् ||१२||
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्षिराः |
नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष ||१३||
तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः |
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः ||१४||
अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् |
विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् ||१५||
नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः |
बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् ||१६||
कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् |
पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव ||१७||
गृध्रपत्राधिवासांसि शयनानि नराधिपाः |
ह्रीमन्तः कालसम्पक्वाः सुदुःखान्यधिशेरते ||१८||
हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते |
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत ||१९||
अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् |
युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः ||२०||
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् |
गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ ||२१||
रथिना ताडितो नागो नाराचेनापतद्व्यसुः |
सारोहश्चापतद्वाजी गजेनाताडितो भृशम् ||२२||
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् |
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि ||२३||
प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः |
इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः ||२४||
नरस्याश्वस्य नागस्य समसज्जत शोणितम् |
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् ||२५||
आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् |
नखैर्दन्तैश्च शूराणमद्वीपे द्वीपमिच्छताम् ||२६||
तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः |
सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा ||२७||
प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् |
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् ||२८||
शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् |
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ||२९||
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः |
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे ||३०||
तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् |
अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् ||३१||
शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् |
बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् ||३२||
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन |
सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत ||३३||
ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् |
नित्याभित्वरितानेव त्वरयामास पाण्डवान् ||३४||
कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः |
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ||३५||
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत |
इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ||३६||
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः |
विन्दानुविन्दाववन्त्यौ शल्यश्चैनानवारयन् ||३७||
ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः |
शरार्ता न जुहुर्द्रोणं पाञ्चालाः पाण्डवैः सह ||३८||
ततो द्रोणोऽभिसङ्क्रुद्धो विसृजञ्शतशः शरान् |
चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् ||३९||
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष |
वज्रसङ्घातसङ्काशस्त्रासयन्पाण्डवान्बहून् ||४०||
एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली |
अब्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति ||४१||
तं शरौघमहावर्तं शोणितोदं महाह्रदम् |
तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः ||४२||
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः |
दीप्यमानमपश्याम तेजसा वानरध्वजम् ||४३||
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः |
स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ||४४||
प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा |
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ||४५||
तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः |
ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः ||४६||
केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः |
पार्थबाणहताः केचिन्निपेतुर्विगतासवः ||४७||
तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् |
न जघानार्जुनो योधान्योधव्रतमनुस्मरन् ||४८||
ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः |
कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः ||४९||
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् |
मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ||५०||
स भारतरथश्रेष्ठः सर्वभारतहर्षणः |
प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः ||५१||
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च |
शरौघाञ्शरजालेन विदुधाव धनञ्जयः ||५२||
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ||५२||
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः |
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ||५३||
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः |
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः ||५४||
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव |
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ||५५||
ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः |
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ||५६||
ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः |
ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् ||५७||
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः |
कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः ||५८||
ततः शत्रुञ्जयं हत्वा पार्थः षड्भिरजिह्मगैः |
जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ||५९||
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना |
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः ||६०||
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् |
वरासिना कर्णपक्षाञ्जघान दश पञ्च च ||६१||
पुनः स्वरथमास्थाय धनुरादाय चापरम् |
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ||६२||
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् |
जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् ||६३||
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् |
आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे ||६४||
शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति |
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ||६५||
भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् |
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||६६||
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः |
निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ||६७||
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च |
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ||६८||
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् |
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ||६९||
पदातिरथनागाश्वैर्गजाश्वरथपत्तयः |
रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः ||७०||
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह |
संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ||७१||
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् |
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् ||७२||
ततो हता नररथवाजिकुञ्जरै; रनेकशो द्विपरथवाजिपत्तयः |
गजैर्गजा रथिभिरुदायुधा रथा; हयैर्हयाः पत्तिगणैश्च पत्तयः ||७३||
रथैर्द्विपा द्विरदवरैर्महाहया; हयैर्नरा वररथिभिश्च वाजिनः |
निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षयं गताः प्रमथितवर्मभूषणाः ||७४||
तथा परैर्बहुकरणैर्वरायुधै; र्हता गताः प्रतिभयदर्शनाः क्षितिम् |
विपोथिता हयगजपादताडिता; भृशाकुला रथखुरनेमिभिर्हताः ||७५||
प्रमोदने श्वापदपक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे |
महाबलास्ते कुपिताः परस्परं; निषूदयन्तः प्रविचेरुरोजसा ||७६||
ततो बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसम्प्लुते |
दिवाकरेऽस्तङ्गिरिमास्थिते शनै; रुभे प्रयाते शिबिराय भारत ||७७||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
032-अध्यायः-अभिमन्युवधपर्व
सञ्जय उवाच||
पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा |
द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे ||१||
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः |
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ||२||
अवहारं ततः कृत्वा भारद्वाजस्य संमते |
लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे ||३||
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् |
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ||४||
अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ||४||
ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् |
प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः ||५||
शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः ||५||
नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम |
तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ||६||
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः |
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ||७||
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि |
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ||८||
ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् |
नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये ||९||
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः |
नालं लोका रणे जेतुं पाल्यमानं किरीटिना ||१०||
विश्वसृग्यत्र गोविन्दः पृतनारिस्तहार्जुनः |
तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः ||११||
सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् |
अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् ||१२||
तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि |
योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ||१३||
न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन |
तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः ||१४||
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः |
आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् ||१५||
तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः |
तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् ||१६||
ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत |
चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः ||१७||
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत |
बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा ||१८||
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः |
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः ||१९||
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः |
सौभद्रे निहते राजन्नवहारमकुर्वत ||२०||
धृतराष्ट्र उवाच||
पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम् |
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ||२१||
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः |
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ||२२||
बालमत्यन्तसुखिनं विचरन्तमभीतवत् |
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ||२३||
बिभित्सता रथानीकं सौभद्रेणामितौजसा |
विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय ||२४||
सञ्जय उवाच||
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् |
तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ||२५||
विक्रीडितं कुमारेण यथानीकं बिभित्सता ||२५||
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे |
वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ||२६||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
033-अध्यायः
सञ्जय उवाच||
समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः |
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ||१||
सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया |
नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् ||२||
सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः |
सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ||३||
युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् |
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ||४||
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः |
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ||५||
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः |
नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् ||६||
श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः |
सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ||७||
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः |
अभिमन्यौ किलैकस्था दृश्यन्ते गुणसञ्चयाः ||८||
युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च |
कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः ||९||
धनञ्जयस्य रूपेण विक्रमेण श्रुतेन च |
विनयात्सहदेवस्य सदृशो नकुलस्य च ||१०||
धृतराष्ट्र उवाच||
अभिमन्युमहं सूत सौभद्रमपराजितम् |
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ||११||
सञ्जय उवाच||
चक्रव्यूहो महाराज आचार्येणाभिकल्पितः |
तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः ||१२||
सङ्घातो राजपुत्राणां सर्वेषामभवत्तदा |
कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ||१३||
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः |
सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ||१४||
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् |
पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ||१५||
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः |
अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ||१६||
कर्णदुःशासनकृपैर्वृतो राजा महारथैः |
देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ||१७||
चामरव्यजनाक्षेपैरुदयन्निव भास्करः ||१७||
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके |
सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः ||१८||
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः |
सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः ||१९||
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा |
पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ||२०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
034-अध्यायः
सञ्जय उवाच||
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् |
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ||१||
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः |
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ||२||
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् |
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ||३||
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः |
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ||४||
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् |
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ||५||
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः |
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ||६||
समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् |
असम्भ्रान्तः शरौघेण महता समवारयत् ||७||
महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् |
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ||८||
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः |
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ||९||
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् |
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ||१०||
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः |
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ||११||
अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः |
अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ||१२||
वासुदेवादनवरं फल्गुनाच्चामितौजसम् |
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ||१३||
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु |
चक्रव्यूहस्य न वयं विद्म भेदं कथञ्चन ||१४||
त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा |
चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते ||१५||
अभिमन्यो वरं तात याचतां दातुमर्हसि |
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ||१६||
धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात् |
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ||१७||
अभिमन्युरुवाच||
द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि |
पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च ||१८||
उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने |
नोत्सहे तु विनिर्गन्तुमहं कस्याञ्चिदापदि ||१९||
युधिष्ठिर उवाच||
भिन्ध्यनीकं युधा श्रेष्ठ द्वारं सञ्जनयस्व नः |
वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि ||२०||
धनञ्जयसमं युद्धे त्वां वयं तात संयुगे |
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ||२१||
भीम उवाच||
अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः |
पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः ||२२||
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः |
वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् ||२३||
अभिमन्युरुवाच||
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् |
पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् ||२४||
तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः |
मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ||२५||
शिशुनैकेन सङ्ग्रामे काल्यमानानि सङ्घशः |
अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया ||२६||
युधिष्ठिर उवाच||
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् |
यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ||२७||
रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः |
साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ||२८||
सञ्जय उवाच||
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् |
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ||२९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
035-अध्यायः
सञ्जय उवाच||
सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः |
अचोदयत यन्तारं द्रोणानीकाय भारत ||१||
तेन सञ्चोद्यमानस्तु याहि याहीति सारथिः |
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ||२||
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः |
सम्प्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि ||३||
आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः |
अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः ||४||
ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् |
सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा ||५||
ऐरावतगतं शक्रं सहामरगणैरहम् |
योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ||६||
न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् ||६||
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज |
पितरं चार्जुनं सङ्ख्ये न भीर्मामुपयास्यति ||७||
ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः |
याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ||८||
ततः सञ्चोदयामास हयानस्य त्रिहायनान् |
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ||९||
ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः |
द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः ||१०||
तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः |
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ||११||
स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः |
युयुत्सया द्रोणमुखान्महारथा; न्समासदत्सिंहशिशुर्यथा गजान् ||१२||
ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे |
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ||१३||
शूराणां युध्यमानानां निघ्नतामितरेतरम् |
सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ||१४||
प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे |
द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः ||१५||
तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम् |
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ||१६||
नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः |
हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः ||१७||
घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति |
असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः ||१८||
बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि |
संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ||१९||
तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् |
क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः ||२०||
ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः |
अभिपेतुस्तमेवाजौ शलभा इव पावकम् ||२१||
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः |
सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ||२२||
बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् |
सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् ||२३||
सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान् |
सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् ||२४||
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् |
समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ||२५||
सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् |
सञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः ||२६||
तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः |
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ||२७||
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः |
संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ||२८||
चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः |
विनालनलिनाकारैर्दिवाकरशशिप्रभैः ||२९||
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः |
द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः ||३०||
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |
वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् ||३१||
विजङ्घकूबराक्षांश्च विनेमीननरानपि |
विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ||३२||
प्रशातितोपकरणान्हतयोधान्सहस्रशः |
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ||३३||
पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् |
तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् ||३४||
घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् |
शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ||३५||
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् |
स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ||३६||
स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः |
विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् ||३७||
निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान् |
हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् ||३८||
निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् |
निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत ||३९||
एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् |
तथा विमथितं तेन त्र्यङ्गं तव बलं महत् ||४०||
व्यहनत्स पदात्योघांस्त्वदीयानेव भारत ||४०||
एवमेकेन तां सेनां सौभद्रेण शितैः शरैः |
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ||४१||
त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश |
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः ||४२||
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये |
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ||४३||
हतान्पुत्रांस्तथा पितॄन्सुहृत्सम्बन्धिबान्धवान् |
प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ||४४||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
036-अध्यायः
सञ्जय उवाच||
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा |
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ||१||
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे |
दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ||२||
पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् |
तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ||३||
ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः |
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ||४||
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः |
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ||५||
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् |
सौभद्रं शरवर्षेण महता समवाकिरन् ||६||
संमोहयित्वा तमथ दुर्योधनममोचयन् |
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ||७||
ताञ्शरौघेण महता साश्वसूतान्महारथान् |
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ||८||
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः |
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ||९||
त एनं कोष्ठकीकृत्य रथवंशेन मारिष |
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ||१०||
तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः |
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ||११||
ततस्ते कोपितास्तेन शरैराशीविषोपमैः |
परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ||१२||
समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् |
अभिमन्युर्दधारैको वेलेव मकरालयम् ||१३||
शूराणां युध्यमानानां निघ्नतामितरेतरम् |
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ||१४||
तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे |
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ||१५||
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः |
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ||१६||
विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः |
बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ||१७||
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः |
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ||१८||
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः |
नृत्यन्निव महाराज चापहस्तः प्रतापवान् ||१९||
ततोऽभिमन्युः सङ्क्रुद्धस्ताप्यमानस्तवात्मजैः |
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ||२०||
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः |
दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ||२१||
विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ||२१||
तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् |
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ||२२||
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे |
सञ्चचाल बलं सर्वं पलायनपरायणम् ||२३||
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः |
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ||२४||
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः |
वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ||२५||
दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ||२५||
सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः |
शरमादत्त कर्णाय परकायावभेदनम् ||२६||
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः |
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ||२७||
स तेनातिप्रहारेण व्यथितो विह्वलन्निव |
सञ्चचाल रणे कर्णः क्षितिकम्पे यथाचलः ||२८||
अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् |
कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली ||२९||
कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् |
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ||३०||
स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः |
विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ||३१||
शल्यं च बाणवर्षेण समीपस्थमवाकिरत् |
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ||३२||
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः |
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ||३३||
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना |
सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ||३४||
प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् |
त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ||३५||
स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसङ्घैः |
अवनितलगतैश्च भूतसङ्घै; रतिविबभौ हुतभुग्यथाज्यसिक्तः ||३६||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
037-अध्यायः
धृतराष्ट्र उवाच||
तथा प्रमथमानं तं महेष्वासमजिह्मगैः |
आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् ||१||
सञ्जय उवाच||
शृणु राजन्कुमारस्य रणे विक्रीडितं महत् |
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ||२||
मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे |
शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् ||३||
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् |
उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् ||४||
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् |
छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् ||५||
चक्रे युगेषां तूणीराननुकर्षं च सायकैः |
पताकां चक्रगोप्तारौ सर्वोपकरणानि च ||६||
व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन ||६||
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः |
वायुनेव महाचैत्यः सम्भग्नोऽमिततेजसा ||७||
अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् ||७||
आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः |
नादेन सर्वभूतानि साधु साध्विति भारत ||८||
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः |
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ||९||
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः |
रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः ||१०||
बाणशब्देन महता खुरनेमिस्वनेन च |
हुङ्कारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः ||११||
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् |
ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति ||१२||
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव |
यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ||१३||
संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च |
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ||१४||
वासुदेवादुपात्तं यद्यदस्त्रं च धनञ्जयात् |
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् ||१५||
दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः |
संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ||१६||
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत |
तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा ||१७||
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः |
महाशनिमुचः काले पयोदस्येव निस्वनः ||१८||
ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः |
संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत ||१९||
मृदुर्भूत्वा महाराज दारुणः समपद्यत |
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ||२०||
शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् |
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ||२१||
क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः |
नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि ||२२||
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः |
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ||२३||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
038-अध्यायः
धृतराष्ट्र उवाच||
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च सञ्जय |
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ||१||
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः |
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ||२||
सञ्जय उवाच||
हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम् |
एकस्य च बहूनां च यथासीत्तुमुलो रणः ||३||
अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् |
रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ||४||
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् |
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ||५||
नानानृपान्नृपसुतान्सैन्यानि विविधानि च |
अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ||६||
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् |
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ||७||
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः |
समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ||८||
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् |
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ||९||
घट्टयन्निव मर्माणि तव पुत्रस्य मारिष |
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ||१०||
एष गच्छति सौभद्रः पार्थानामग्रतो युवा |
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ||११||
नकुलं सहदेवं च भीमसेनं च पाण्डवम् |
बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ||१२||
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम् |
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ||१३||
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः |
आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ||१४||
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् |
दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ||१५||
सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः |
अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ||१६||
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः |
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ||१७||
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति |
पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ||१८||
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः |
आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ||१९||
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः |
संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ||२०||
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा |
अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ||२१||
अहमेनं हनिष्यामि महाराज ब्रवीमि ते |
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ||२२||
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ||२२||
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः |
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ||२३||
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ||२३||
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः |
एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ||२४||
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव |
शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ||२५||
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव |
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ||२६||
तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः |
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ||२७||
दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः |
अयोधयत सौभद्रमभिमन्युश्च तं रणे ||२८||
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् |
चरमाणावयुध्येतां रथशिक्षाविशारदौ ||२९||
अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम् |
निनदमतिभृशं नराः प्रचक्रु; र्लवणजलोद्भवसिंहनादमिश्रम् ||३०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
039-अध्यायः
सञ्जय उवाच||
शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् |
अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ||१||
दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम् |
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ||२||
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः |
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ||३||
जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता ||३||
परवित्तापहारस्य क्रोधस्याप्रशमस्य च |
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ||४||
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् |
तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ||५||
सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते |
शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ||६||
अद्याहमनृणस्तस्य कोपस्य भविता रणे |
अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ||७||
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि |
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ||८||
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् |
संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ||९||
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् |
अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् ||१०||
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |
दुःशासनो महाराज कश्मलं चाविशन्महत् ||११||
सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् |
रणमध्यादपोवाह सौभद्रशरपीडितम् ||१२||
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् |
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ||१३||
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः |
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ||१४||
पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम् |
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ||१५||
धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा |
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ||१६||
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ |
केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जयाः ||१७||
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः |
अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः ||१८||
ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह |
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ||१९||
दुर्योधनो महाराज राधेयमिदमब्रवीत् |
पश्य दुःशासनं वीरमभिमन्युवशं गतम् ||२०||
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे |
सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ||२१||
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् |
अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ||२२||
तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः |
अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ||२३||
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः |
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ||२४||
तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे |
आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ||२५||
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम् |
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ||२६||
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् |
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ||२७||
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः |
समरेऽमरसङ्काशः सौभद्रो न व्यषीदत ||२८||
ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः |
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ||२९||
स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् ||२९||
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः |
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ||३०||
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः |
वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः ||३१||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
040-अध्यायः
सञ्जय उवाच||
सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः |
तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत् ||१||
सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् |
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ||२||
पितृपैतामहं कर्म कुर्वाणमतिमानुषम् |
दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् ||३||
तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा |
शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि ||४||
कर्णिकारमिवोद्धूतं वातेन मथितं नगात् |
भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ ||५||
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः |
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे ||६||
ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् |
झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः ||७||
कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना |
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत ||८||
शलभैरिव चाकाशे धाराभिरिव चावृते |
अभिमन्योः शरै राजन्न प्राज्ञायत किञ्चन ||९||
तावकानां तु योधानां वध्यतां निशितैः शरैः |
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ||१०||
सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः |
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ||११||
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् |
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ||१२||
रथनागाश्वमनुजानर्दयन्निशितैः शरैः |
स प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम् ||१३||
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः |
स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः ||१४||
ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः |
निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम् ||१५||
सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे |
दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः ||१६||
शराश्चापानि खड्गाश्च शरीराणि शिरांसि च |
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ||१७||
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः |
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः ||१८||
शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः ||१८||
निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते |
अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा ||१९||
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् |
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः ||२०||
स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् ||२०||
सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् |
व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् ||२१||
तं तदा नानुपश्याम सैन्येन रजसावृतम् |
आददानं गजाश्वानां नृणां चायूंषि भारत ||२२||
क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा |
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् ||२३||
स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः |
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत ||२४||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
041-अध्यायः
धृतराष्ट्र उवाच||
बालमत्यन्तसुखिनमवार्यबलदर्पितम् |
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् ||१||
गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः |
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी ||२||
सञ्जय उवाच||
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ |
धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः ||३||
धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे ||३||
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः |
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् ||४||
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् |
जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् ||५||
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः |
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ||६||
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् |
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् ||७||
धृतराष्ट्र उवाच||
अतिभारमहं मन्ये सैन्धवे सञ्जयाहितम् |
यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् ||८||
अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे |
तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ||९||
किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः |
सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् ||१०||
सञ्जय उवाच||
द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः |
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ||११||
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः |
क्षुत्पिपासातपसहः कृशो धमनिसन्ततः ||१२||
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ||१२||
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् |
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ||१३||
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ||१३||
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः |
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ||१४||
पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान् |
एको रणे धारयेयं समस्तानिति भारत ||१५||
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् |
ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् ||१६||
धारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् |
एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः ||१७||
स तेन वरदानेन दिव्येनास्त्रबलेन च |
एकः सन्धारयामास पाण्डवानामनीकिनीम् ||१८||
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् |
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ||१९||
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् |
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ||२०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
042-अध्यायः
सञ्जय उवाच||
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् |
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ||१||
तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः |
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ||२||
गन्धर्वनगराकारं विधिवत्कल्पितं रथम् |
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ||३||
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च |
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ||४||
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् |
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ||५||
स विस्फार्य महच्चापं किरन्निषुगणान्बहून् |
तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः ||६||
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् |
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ||७||
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् |
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ||८||
युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् |
इषुजालेन महता तदद्भुतमिवाभवत् ||९||
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् |
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ||१०||
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् |
विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ||११||
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः |
धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ||१२||
सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् |
भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ||१३||
स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् |
सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ||१४||
ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः |
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ||१५||
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा |
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ||१६||
सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः |
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ||१७||
यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः |
पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ||१८||
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः |
तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ||१९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
043-अध्यायः
सञ्जय उवाच||
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु |
सुघोरमभवद्युद्धं त्वदीयानां परैः सह ||१||
प्रविश्य त्वार्जुनिः सेनां सत्यसन्धो दुरासदाम् |
व्यक्षोभयत तेजस्वी मकरः सागरं यथा ||२||
तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् |
यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ||३||
तेषां तस्य च संमर्दो दारुणः समपद्यत |
सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ||४||
रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः |
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ||५||
तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः |
वातायमानैरथ तैरश्वैरपहृतो रणात् ||६||
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् |
रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः ||७||
तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् |
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ||८||
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् |
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ||९||
तमयस्मयवर्माणमिषुणा आशुपातिना |
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ||१०||
वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः |
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ||११||
विस्फारयन्तश्चापानि नानारूपाण्यनेकशः |
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ||१२||
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च |
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ||१३||
सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः |
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ||१४||
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः |
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ||१५||
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः |
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ||१६||
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः |
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ||१७||
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः |
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ||१८||
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा |
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ||१९||
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च |
धनुषश्च शराणां च तदपश्याम केवलम् ||२०||
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् |
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ||२१||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
044-अध्यायः
सञ्जय उवाच||
आददानस्तु शूराणामायूंष्यभवदार्जुनिः |
अन्तकः सर्वभूतानां प्राणान्काल इवागते ||१||
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली |
अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ||२||
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः |
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् ||३||
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः |
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ||४||
अहं पूर्वमहं पूर्वमिति क्षत्रियपुङ्गवाः |
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ||५||
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् |
जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ||६||
ये केचन गतास्तस्य समीपमपलायिनः |
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ||७||
महाग्राहगृहीतेव वातवेगभयार्दिता |
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ||८||
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली |
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ||९||
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते |
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ||१०||
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् |
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ||११||
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् |
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ||१२||
स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ |
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ||१३||
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् |
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ||१४||
सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः |
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ||१५||
तालमात्राणि चापानि विकर्षन्तो महारथाः |
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ||१६||
शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः |
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ||१७||
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् |
वैवस्वतस्य भवनं गतमेनममन्यत ||१८||
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः |
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ||१९||
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष |
आचितं समपश्याम श्वाविधं शललैरिव ||२०||
स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः |
गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ||२१||
अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् |
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ||२२||
एकः स शतधा राजन्दृश्यते स्म सहस्रधा |
अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन् ||२३||
रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः |
बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ||२४||
प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः |
राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ||२५||
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् |
शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ||२६||
चूतारामो यथा भग्नः पञ्चवर्षफलोपगः |
राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ||२७||
क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान् |
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ||२८||
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् |
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ||२९||
तयोः क्षणमिवापूर्णः सङ्ग्रामः समपद्यत |
अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ||३०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
045-अध्यायः
धृतराष्ट्र उवाच||
यथा वदसि मे सूत एकस्य बहुभिः सह |
सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः ||१||
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् |
किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ||२||
दुर्योधनेऽथ विमुखे राजपुत्रशते हते |
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ||३||
सञ्जय उवाच||
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः |
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ||४||
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान् |
उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ||५||
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः |
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ||६||
अभिद्रुताः सुसङ्क्रुद्धाः सौभद्रमपराजितम् |
तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ||७||
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः |
इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ||८||
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत |
अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ||९||
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः |
स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ||१०||
पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् |
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ||११||
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् |
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ||१२||
लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा |
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ||१३||
सङ्क्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः |
पौत्रस्तव महाराज तव पौत्रमभाषत ||१४||
सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि |
पश्यतां बान्धवानां त्वां नयामि यमसादनम् ||१५||
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा |
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ||१६||
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् |
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ||१७||
लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ||१७||
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते |
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ||१८||
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः |
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ||१९||
स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः |
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ||२०||
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः |
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ||२१||
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ||२१||
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः |
यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे ||२२||
ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् |
अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ||२३||
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ||२३||
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् |
शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ||२४||
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः |
छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ||२५||
कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च |
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ||२६||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
046-अध्यायः
धृतराष्ट्र उवाच||
तथा प्रविष्टं तरुणं सौभद्रमपराजितम् |
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपलायिनम् ||१||
आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः |
प्लवमानमिवाकाशे के शूराः समवारयन् ||२||
सञ्जय उवाच||
अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः |
अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः ||३||
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः |
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ||४||
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् |
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ||५||
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः |
तालमात्राणि चापानि विकर्षन्तो महारथाः ||६||
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् |
व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ||७||
द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् |
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ||८||
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः |
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ||९||
स कर्णं कर्णिना कर्णे पीतेन निशितेन च |
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ||१०||
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी |
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ||११||
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् |
पुत्राणां तव वीराणां पश्यतामवधीद्बली ||१२||
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् |
वरं वरममित्राणामारुजन्तमभीतवत् ||१३||
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष |
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ||१४||
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः |
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ||१५||
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः |
प्रत्यविध्यन्महातेजा बलवानपकारिणम् ||१६||
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् |
अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे ||१७||
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश |
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ||१८||
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः |
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ||१९||
तं कोसलानामधिपः कर्णिनाताडयद्धृदि |
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ||२०||
अथ कोसलराजस्तु विरथः खड्गचर्मधृत् |
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ||२१||
स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् |
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ||२२||
बभञ्ज च सहस्राणि दश राजन्महात्मनाम् |
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ||२३||
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे |
विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः ||२४||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
047-अध्यायः
सञ्जय उवाच||
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः |
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ||१||
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः |
स तैराचितसर्वाङ्गो बह्वशोभत भारत ||२||
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् |
कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ||३||
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ |
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ||४||
अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः |
साश्वसूतध्वजरथान्सौभद्रो निजघान ह ||५||
अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः |
प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् ||६||
मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः |
साश्वं ससूतं तरुणमश्वकेतुमपातयत् ||७||
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् |
क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ||८||
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् |
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ||९||
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः |
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ||१०||
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा |
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ||११||
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् |
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ||१२||
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् |
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ||१३||
तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी |
तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ||१४||
शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम् |
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ||१५||
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् |
सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ||१६||
अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा |
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ||१७||
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत |
अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ||१८||
अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् |
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ||१९||
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते |
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ||२०||
आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः |
प्रहर्षयति मा भूयः सौभद्रः परवीरहा ||२१||
अति मा नन्दयत्येष सौभद्रो विचरन्रणे |
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ||२२||
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः |
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ||२३||
अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः |
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ||२४||
तेजस्विनः कुमारस्य शराः परमदारुणाः |
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ||२५||
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव |
अभेद्यमस्य कवचं युवा चाशुपराक्रमः ||२६||
उपदिष्टा मया अस्य पितुः कवचधारणा |
तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः ||२७||
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः |
अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ||२८||
एतत्कुरु महेष्वास राधेय यदि शक्यते |
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ||२९||
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः |
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ||३०||
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् |
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ||३१||
अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी |
शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ||३२||
त्वरमाणास्त्वराकाले विरथं षण्महारथाः |
शरवर्षैरकरुणा बालमेकमवाकिरन् ||३३||
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् |
खड्गचर्मधरः श्रीमानुत्पपात विहायसम् ||३४||
मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च |
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ||३५||
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः |
विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ||३६||
तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् |
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ||३७||
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् |
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ||३८||
स चक्ररेणूज्ज्वलशोभिताङ्गो; बभावतीवोन्नतचक्रपाणिः |
रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन् ||३९||
स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः |
प्रभुरमितबलो रणेऽभिमन्यु; र्नृपवरमध्यगतो भृशं व्यराजत् ||४०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
048-अध्यायः
सञ्जय उवाच||
विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः |
रराजातिरथः सङ्ख्ये जनार्दन इवापरः ||१||
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् |
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ||२||
तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा |
महारथस्ततः कार्ष्णिः सञ्जग्राह महागदाम् ||३||
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः |
अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् ||४||
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव |
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ||५||
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी |
शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत ||६||
ततः सुबलदायादं कालकेयमपोथयत् |
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ||७||
पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश |
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ||८||
दौःशासनिरथं साश्वं गदया समपोथयत् ||८||
ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष |
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् ||९||
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ |
भ्रातृव्यौ सम्प्रजह्राते पुरेव त्र्यम्बकान्तकौ ||१०||
तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ |
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ ||११||
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः |
प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ||१२||
गदावेगेन महता व्यायामेन च मोहितः |
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ||१३||
एवं विनिहतो राजन्नेको बहुभिराहवे ||१३||
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः |
अशोभत हतो वीरो व्याधैर्वनगजो यथा ||१४||
तं तथा पतितं शूरं तावकाः पर्यवारयन् |
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ||१५||
विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् |
अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् ||१६||
उपप्लुतं यथा सोमं संशुष्कमिव सागरम् |
पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् ||१७||
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः |
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ||१८||
आसीत्परमको हर्षस्तावकानां विशां पते |
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ||१९||
अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते |
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ||२०||
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः |
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ||२१||
तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी |
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ||२२||
रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता |
उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः ||२३||
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता |
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ||२४||
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः |
खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ||२५||
चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः |
विविधैरायुधैश्चान्यैः संवृता भूरशोभत ||२६||
वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः |
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ||२७||
साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः |
पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः ||२८||
पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः |
ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः ||२९||
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः |
भीरूणां त्रासजननी घोररूपाभवन्मही ||३०||
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् |
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ||३१||
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने |
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ||३२||
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते |
अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् ||३३||
स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः |
संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् ||३४||
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः |
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ||३५||
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् |
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरन्वगात् ||३६||
हत्वा दशसहस्राणि कौसल्यं च महारथम् |
कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् ||३७||
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः |
अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् ||३८||
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः |
निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः ||३९||
निरीक्षमाणास्तु वयं परे चायोधनं शनैः |
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ||४०||
ततो निशाया दिवसस्य चाशिवः; शिवारुतः सन्धिरवर्तताद्भुतः |
कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम् ||४१||
वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम् |
दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम् ||४२||
महाभ्रकूटाचलशृङ्गसंनिभै; र्गजैरनेकैरिव वज्रपातितैः |
सवैजयन्त्यङ्कुशवर्मयन्तृभि; र्निपातितैर्निष्टनतीव गौश्चिता ||४३||
हतेश्वरैश्चूर्णितपत्त्युपस्करै; र्हताश्वसूतैर्विपताककेतुभिः |
महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप ||४४||
रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः |
निरस्तजिह्वादशनान्त्रलोचनै; र्धरा बभौ घोरविरूपदर्शना ||४५||
प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः |
महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः ||४६||
अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः |
वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसङ्घाश्च सुदारुणा रणे ||४७||
त्वचो विनिर्भिद्य पिबन्वसामसृ; क्तथैव मज्जां पिशितानि चाश्नुवन् |
वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः ||४८||
शरीरसङ्घाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसङ्कटा |
मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी ||४९||
महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी |
उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी ||५०||
पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसङ्घा विविधाः सुभैरवाः |
सुनन्दिताः प्राणभृतां भयङ्कराः; समानभक्षाः श्वसृगालपक्षिणः ||५१||
तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम् |
निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसङ्कुलम् ||५२||
अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम् |
रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम् ||५३||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
049-अध्यायः
सञ्जय उवाच||
तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे |
विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः ||१||
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् |
तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः ||२||
ततो युधिष्ठिरो राजा विललाप सुदुःखितः |
अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ||३||
द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया |
भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी ||४||
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे |
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ||५||
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः |
क्षिप्रं ह्यभिमुखः सङ्क्ये विसञ्ज्ञो विमुखीकृतः ||६||
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् |
प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् ||७||
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् |
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ||८||
किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् |
तावुभौ प्रतिवक्ष्यामो हृषीकेशधनञ्जयौ ||९||
अहमेव सुभद्रायाः केशवार्जुनयोरपि |
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ||१०||
न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते |
मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् ||११||
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च |
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ||१२||
कथं हि बालस्तरुणो युद्धानामविशारदः |
सदश्व इव सम्बाधे विषमे क्षेममर्हति ||१३||
नो चेद्धि वयमप्येनं महीमनुशयीमहि |
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ||१४||
अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली |
वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः ||१५||
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः |
निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ||१६||
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः |
अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः ||१७||
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः |
तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् ||१८||
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम् |
पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ||१९||
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः |
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् ||२०||
न मे जयः प्रीतिकरो न राज्यं; न चामरत्वं न सुरैः सलोकता |
इमं समीक्ष्याप्रतिवीर्यपौरुषं; निपातितं देववरात्मजात्मजम् ||२१||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
050-अध्यायः
सञ्जय उवाच||
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये |
आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ||१||
व्यपयातेषु सैन्येषु वासाय भरतर्षभ |
हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ||२||
प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् |
गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ||३||
किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव |
स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत ||४||
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति |
भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् ||५||
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः |
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ||६||
वासुदेव उवाच||
व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति |
मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ||७||
सञ्जय उवाच||
ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने |
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ||८||
ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् |
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ||९||
ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा |
बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ||१०||
नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन |
मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ||११||
वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ||११||
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च |
स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ||१२||
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः |
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ||१३||
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव |
न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ||१४||
अपि पाञ्चालराजस्य विराटस्य च मानद |
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ||१५||
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह |
रणादायान्तमुचितं प्रत्युद्याति हसन्निव ||१६||
एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् |
ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ||१७||
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः |
अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ||१८||
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते |
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ||१९||
मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः |
न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ||२०||
न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः |
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ||२१||
भित्त्वानीकं महेष्वासः परेषां बहुशो युधि |
कच्चिन्न निहतः शेते सौभद्रः परवीरहा ||२२||
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु |
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ||२३||
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् |
सदा मम प्रियं ब्रूत कथमायोधने हतः ||२४||
वार्ष्णेयीदयितं शूरं मया सततलालितम् |
अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः ||२५||
सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः |
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ||२६||
सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च |
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ||२७||
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् |
मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् ||२८||
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा |
बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् ||२९||
महोत्साहं महाबाहुं दीर्घराजीवलोचनम् |
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ||३०||
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम् |
युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् ||३१||
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् |
न च पूर्वप्रहर्तारं सङ्ग्रामे नष्टसम्भ्रमम् ||३२||
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ||३२||
सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् |
अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ||३३||
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् |
अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ||३४||
रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् |
अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे ||३५||
अभिवादनदक्षं तं पितॄणां वचने रतम् |
नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ||३६||
सुकुमारः सदा वीरो महार्हशयनोचितः |
भूमावनाथवच्छेते नूनं नाथवतां वरः ||३७||
शयानं समुपासन्ति यं पुरा परमस्त्रियः |
तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ||३८||
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः |
बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः ||३९||
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् |
नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति ||४०||
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने |
भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ||४१||
साद्य संयमनी नूनं सदा सुकृतिनां गतिः |
स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते ||४२||
नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः |
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ||४३||
एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा |
दुःखेन महताविष्टो युधिष्ठिरमपृच्छत ||४४||
कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन |
स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभः ||४५||
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः |
असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ||४६||
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् |
इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः ||४७||
अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च |
सुभद्रायां च सम्भूतो नैवं वक्तुमिहार्हति ||४८||
वज्रसारमयं नूनं हृदयं सुदृढं मम |
अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ||४९||
कथं बाले महेष्वासे नृशंसा मर्मभेदिनः |
स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ||५०||
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति |
उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ||५१||
नूनं स पतितः शेते धरण्यां रुधिरोक्षितः |
शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ||५२||
रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्ष्यति |
सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती ||५३||
द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् ||५३||
वज्रसारमयं नूनं हृदयं यन्न यास्यति |
सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ||५४||
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः |
युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ||५५||
अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः |
किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् ||५६||
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे |
सिंहवन्नदत प्रीताः शोककाल उपस्थिते ||५७||
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः |
अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ||५८||
इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः |
अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ||५९||
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम |
अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् ||६०||
निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् |
मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ||६१||
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् |
क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ||६२||
एषा वै युध्यमानानां शूराणामनिवर्तिनाम् |
विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर ||६३||
ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् |
गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ||६४||
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ |
सङ्ग्रामेऽभिमुखा मृत्युं प्रप्नुयामेति मानद ||६५||
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् |
वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखो रणे ||६६||
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः |
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ||६७||
इमे ते भ्रातरः सर्वे दीना भरतसत्तम |
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ||६८||
एतांस्त्वं वचसा साम्ना समाश्वासय मानद |
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ||६९||
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा |
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् ||७०||
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः |
अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ||७१||
सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया |
सङ्ग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः ||७२||
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् |
सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ||७३||
यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम |
पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः ||७४||
कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् |
नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ||७५||
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः |
यत्राभिमन्युः समरे पश्यतां वो निपातितः ||७६||
आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् |
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् ||७७||
आहो स्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः |
वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् ||७८||
एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् |
न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ||७९||
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः |
पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ||८०||
नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् |
अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात् ||८१||
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ |
बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः ||८२||
ततस्तं पुत्रशोकेन भृशं पीडितमानसम् |
राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ||८३||