श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
071-अध्यायः
सञ्जय उवाच||
राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम |
कुरूणां पाण्डवानां च यथा युद्धमवर्तत ||१||
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् |
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ||२||
रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः |
अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ||३||
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः |
आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ ||४||
विराटश्च महाराज तावुभौ समरे स्थितौ |
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ||५||
तेषां युद्धं समभवद्दारुणं शोणितोदकम् |
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ||६||
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः |
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ||७||
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः |
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ||८||
तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् |
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ||९||
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा |
अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन ||१०||
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् |
ससैन्यो योधयामास गजः प्रतिगजं यथा ||११||
बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् |
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ||१२||
अयोधयंस्ते च भृशं तं शरौघैः समन्ततः |
इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर ||१३||
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव |
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ||१४||
सोऽतिविद्धो बलवता महेष्वासेन धन्विना |
ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ||१५||
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् |
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ||१६||
तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ |
रेजतुः समरे राजन्पुष्पिताविव किंशुकौ ||१७||
अलम्बुसस्तु सङ्क्रुद्धः कुन्तिभोजशरार्दितः |
अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ||१८||
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः |
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ||१९||
ततस्तौ समरे शूरौ योधयन्तौ परस्परम् |
ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा ||२०||
शकुनिं रभसं युद्धे कृतवैरं च भारत |
माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे ||२१||
तन्मूलः स महाराज प्रावर्तत जनक्षयः |
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ||२२||
उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः |
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ||२३||
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः |
नाभ्यजानत कर्तव्यं युधि किञ्चित्पराक्रमम् ||२४||
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ |
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ||२५||
स वध्यमानो बहुभिः शरैः संनतपर्वभिः |
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ||२६||
घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् |
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ||२७||
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् |
यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ||२८||
ततो युधिष्ठिरो राजा मद्रराजानमाहवे |
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ||२९||
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप |
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ||३०||
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः |
अयोधयन्भीमसेनं महत्या सेनया वृताः ||३१||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
072-अध्यायः
सञ्जय उवाच||
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे |
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ||१||
जलसन्धं महाबाहुर्भीमसेनो न्यवारयत् |
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ||२||
किरन्तं शरवर्षाणि रोचमान इवांशुमान् |
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ||३||
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् |
कुरूणां सोमकानां च सङ्क्रुद्धानां परस्परम् ||४||
सङ्क्षये तु तथा भूते वर्तमाने महाभये |
द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ||५||
द्रोणः पाञ्चालपुत्रेण बली बलवता सह |
विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् ||६||
पुण्डरीकवनानीव विध्वस्तानि समन्ततः |
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ||७||
विनिकीर्णानि वीराणामनीकेषु समन्ततः |
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ||८||
तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च |
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ||९||
कुञ्जराश्वनरान्सङ्ख्ये पातयन्तः पतत्रिभिः |
तालमात्राणि चापानि विकर्षन्तो महारथाः ||१०||
असिचर्माणि चापानि शिरांसि कवचानि च |
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ||११||
उत्थितान्यगणेयानि कबन्धानि समन्ततः |
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ||१२||
गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा |
बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष ||१३||
भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् |
विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप ||१४||
आकर्षन्तः शरीराणि शरीरावयवांस्तथा |
नराश्वगजसङ्घानां शिरांसि च ततस्ततः ||१५||
कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः |
रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा ||१६||
असिमार्गान्बहुविधान्विचेरुस्तावका रणे |
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः ||१७||
गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि |
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ||१८||
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः |
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ||१९||
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः |
उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे ||२०||
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते |
धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ||२१||
ते हया साध्वशोभन्त विमिश्रा वातरंहसः |
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ||२२||
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ||२२||
धृष्टद्युम्नश्च सम्प्रेक्ष्य द्रोणमभ्याशमागतम् |
असिचर्माददे वीरो धनुरुत्सृज्य भारत ||२३||
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा |
ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ||२४||
अतिष्ठद्युगमध्ये स युगसंनहनेषु च |
जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ||२५||
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः |
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ||२६||
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः |
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ||२७||
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् |
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ||२८||
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली |
ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी ||२९||
अथास्मै त्वरितो बाणमपरं जीवितान्तकम् |
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ||३०||
तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः |
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ||३१||
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष |
द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ||३२||
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे |
शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् ||३३||
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान् |
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ||३४||
ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः |
सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् ||३५||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
073-अध्यायः
धृतराष्ट्र उवाच||
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते |
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ||१||
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः |
नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ||२||
सञ्जय उवाच||
सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः |
तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् ||३||
संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् |
नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः ||४||
उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः |
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ||५||
शरपातमहावर्षं रथघोषबलाहकम् |
कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् ||६||
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् |
द्रोणमेघमनावार्यं हयमारुतचोदितम् ||७||
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः |
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ||८||
एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् |
आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् ||९||
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् |
आचार्यं राजपुत्राणां सततं शूरमानिनम् ||१०||
ततो रजतसङ्काशा माधवस्य हयोत्तमाः |
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ||११||
इषुजालावृतं घोरमन्धकारमनन्तरम् |
अनाधृष्यमिवान्येषां शूराणामभवत्तदा ||१२||
ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा |
नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः ||१३||
इषूणां संनिपातेन शब्दो धाराभिघातजः |
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ||१४||
नाराचैरतिविद्धानां शराणां रूपमाबभौ |
आशीविषविदष्टानां सर्पाणामिव भारत ||१५||
तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः |
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ||१६||
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी |
रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा ||१७||
निर्मलानामजिह्मानां नाराचानां विशां पते |
निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः ||१८||
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ |
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ||१९||
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ |
अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः ||२०||
गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः |
उपारमन्महाराज व्याजहार न कश्चन ||२१||
तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन् |
ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः ||२२||
रथिनो हस्तियन्तारो हयारोहाः पदातयः |
अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ ||२३||
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् |
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ||२४||
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः |
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ||२५||
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः |
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ||२६||
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु |
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ||२७||
सबलाकाः सखद्योताः सैरावतशतह्रदाः |
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ||२८||
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः |
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ||२९||
विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः |
सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः ||३०||
गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः |
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ||३१||
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ |
अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी ||३२||
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे |
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते ||३३||
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः |
सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः ||३४||
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत |
सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः ||३५||
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् |
युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् ||३६||
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये |
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ||३७||
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् |
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ||३८||
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः |
न तामालक्षयामासुर्लघुतां शीघ्रकारिणः ||३९||
देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते |
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ||४०||
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः |
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ||४१||
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः |
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ||४२||
तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे |
युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ||४३||
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः |
तमाचार्योऽप्यसम्भ्रान्तोऽयोधयच्छत्रुतापनः ||४४||
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः |
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ||४५||
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः |
अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् ||४६||
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ |
न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ||४७||
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते |
न तावदभिषज्येते व्यावर्तदथ भास्करः ||४८||
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः |
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ||४९||
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः |
मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ||५०||
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः |
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ||५१||
ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् |
रजसा संवृते लोके शरजालसमावृते ||५२||
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन |
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ||५३||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
074-अध्यायः
सञ्जय उवाच||
परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः |
रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः ||१||
तिष्ठतां युध्यमानानां पुनरावर्ततामपि |
भज्यतां जयतां चैव जगाम तदहः शनैः ||२||
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु |
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ||३||
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः |
चकार तत्र पन्थानं ययौ येन जनार्दनः ||४||
यत्र यत्र रथो याति पाण्डवस्य महात्मनः |
तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते ||५||
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् |
उत्तमाधममध्यानि मण्डलानि विदर्शयन् ||६||
ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः |
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ||७||
वैणवायस्मयशराः स्वायता विविधाननाः |
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ||८||
रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् |
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ||९||
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः |
तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ||१०||
न तथा गच्छति रथस्तपनस्य विशां पते |
नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ||११||
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः |
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ||१२||
प्रविश्य तु रणे राजन्केशवः परवीरहा |
सेनामध्ये हयांस्तूर्णं चोदयामास भारत ||१३||
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः |
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः ||१४||
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः |
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ||१५||
हतानां वाजिनागानां रथानां च नरैः सह |
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ||१६||
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप |
सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् ||१७||
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् |
शराणां च शतेनाश्वानविध्येतां मुदान्वितौ ||१८||
तावर्जुनो महाराज नवभिर्नतपर्वभिः |
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ||१९||
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् |
आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः ||२०||
तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः |
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ||२१||
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा |
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ||२२||
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः |
चिच्छेद धनुषी तूर्णं भूय एव धनञ्जयः ||२३||
तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः |
जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी ||२४||
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत |
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ||२५||
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् |
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ||२६||
अभ्यद्रवत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् |
गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः ||२७||
अनुविन्दस्तु गदया ललाटे मधुसूदनम् |
स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ||२८||
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः |
निचकर्त स सञ्छिन्नः पपाताद्रिचयो यथा ||२९||
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः |
अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ||३०||
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ |
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ||३१||
तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनञ्जयः |
विबभौ जलदान्भित्त्वा दिवाकर इवोदितः ||३२||
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः |
अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ ||३३||
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् |
सिंहनादेन महता सर्वतः पर्यवारयन् ||३४||
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः |
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ||३५||
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः |
किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ||३६||
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा |
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ||३७||
मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे |
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ||३८||
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् |
ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ||३९||
अर्जुन उवाच||
अहमावारयिष्यामि सर्वसैन्यानि केशव |
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ||४०||
सञ्जय उवाच||
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः |
गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ||४१||
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः |
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ||४२||
तमेकं रथवंशेन महता पर्यवारयन् |
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ||४३||
अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् |
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ||४४||
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् |
रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ||४५||
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत |
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ||४६||
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः |
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ||४७||
तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते |
सङ्घर्षेण महार्चिष्मान्पावकः समजायत ||४८||
तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः |
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शनैः ||४९||
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे |
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ||५०||
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् |
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् ||५१||
असङ्ख्येयमपारं च रजोऽऽभीलमतीव च |
उष्णीषकमठच्छन्नं पताकाफेनमालिनम् ||५२||
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् |
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ||५३||
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम् |
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ||५४||
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन |
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ||५५||
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् |
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ||५६||
शरवंशं शरस्थूणं शराच्छादनमद्भुतम् |
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ||५७||
ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् |
शरवेश्मनि पार्थेन कृते तस्मिन्महारणे ||५८||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
075-अध्यायः
सञ्जय उवाच||
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना |
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ||१||
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः |
मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ||२||
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् |
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ||३||
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः |
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ||४||
आपतत्सु रथौघेषु प्रभूतगजवाजिषु |
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ||५||
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः |
न चाव्यथत धर्मात्मा वासविः परवीरहा ||६||
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् |
आगतानग्रसत्पार्थः सरितः सागरो यथा ||७||
अस्त्रवेगेन महता पार्थो बाहुबलेन च |
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ||८||
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः |
अपूजयन्महाराज कौरवाः परमाद्भुतम् ||९||
किमद्भुततरं लोके भविताप्यथ वाप्यभूत् |
यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ||१०||
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ |
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ||११||
अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत |
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ||१२||
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः |
मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ||१३||
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् |
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ||१४||
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् |
उपावृत्य यथान्यायं पाययामास वारि सः ||१५||
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् |
योजयामास संहृष्टः पुनरेव रथोत्तमे ||१६||
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः |
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ||१७||
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः |
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ||१८||
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः |
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ||१९||
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ |
बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ||२०||
क्रोशतां यतमानानामसंसक्तौ परन्तपौ |
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ||२१||
तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् |
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ||२२||
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् |
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ||२३||
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः |
अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् ||२४||
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः |
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ||२५||
विलयं समनुप्राप्ता तच्च राजा न बुध्यते |
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ||२६||
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् |
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ||२७||
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति |
निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ||२८||
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् |
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ||२९||
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः |
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ||३०||
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् |
बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ||३१||
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः |
तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ||३२||
वातोद्धूतपताकान्तं रथं जलदनिस्वनम् |
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ||३३||
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् |
शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ||३४||
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् |
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ||३५||
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् |
दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ||३६||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
076-अध्यायः
सञ्जय उवाच||
स्रंसन्त इव मज्जानस्तावकानां भयान्नृप |
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ ||१||
सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः |
स्थिरीबूता महात्मानः प्रत्यगच्छन्धनञ्जयम् ||२||
ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः |
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ||३||
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः |
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ||४||
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ |
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ||५||
मत्स्याविव महाजालं विदार्य विगतज्वरौ |
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ||६||
विमुक्तौ शस्त्रसम्बाधाद्द्रोणानीकात्सुदुर्भिदात् |
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ||७||
अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात् |
अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ ||८||
विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव |
व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव ||९||
तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः |
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ||१०||
तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती |
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ||११||
आशा बलवती राजन्पुत्राणामभवत्तव |
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ||१२||
तामाशां विफलां कृत्वा निस्तीर्णौ तौ परन्तपौ |
द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ||१३||
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ |
निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे ||१४||
मिथश्च समभाषेतामभीतौ भयवर्धनौ |
जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ ||१५||
असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः |
चक्षुर्विषयसम्प्राप्तो न नौ मोक्ष्यति सैन्धवः ||१६||
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह |
तथाप्येनं हनिष्याव इति कृष्णावभाषताम् ||१७||
इति कृष्णौ महाबाहू मिथः कथयतां तदा |
सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः ||१८||
अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ |
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ ||१९||
व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् |
अदृश्येतां महाबाहू यथा मृत्युजरातिगौ ||२०||
तथा हि मुखवर्णोऽयमनयोरिति मेनिरे |
तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः ||२१||
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् |
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ||२२||
तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ |
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ||२३||
शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् |
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ||२४||
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः |
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ||२५||
द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसङ्कटात् |
अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः ||२६||
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः |
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ||२७||
बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः |
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ||२८||
इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ |
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् ||२९||
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया |
रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ||३०||
यथा हि मुखवर्णोऽयमनयोरिति मेनिरे |
तव योधा महाराज हतमेव जयद्रथम् ||३१||
लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ |
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ||३२||
शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः |
तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव ||३३||
हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः |
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ||३४||
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके |
सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे ||३५||
तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनञ्जयौ |
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ||३६||
द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा |
ययावेकरथेनाजौ हयसंस्कारवित्प्रभो ||३७||
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः |
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ||३८||
ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् |
प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनञ्जयम् ||३९||
सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः |
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ||४०||
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः |
ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो ||४१||
दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् |
अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ||४२||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
077-अध्यायः
वासुदेव उवाच||
सुयोधनमतिक्रान्तमेनं पश्य धनञ्जय |
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ||१||
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः |
दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ||२||
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः |
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ||३||
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ |
अत्र वो द्यूतमायातं विजयायेतराय वा ||४||
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम् |
एष मूलमनर्थानां पाण्डवानां महारथः ||५||
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः |
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ||६||
दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम् |
स यथा जीवितं जह्यात्तथा कुरु धनञ्जय ||७||
ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् |
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ||८||
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः |
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ||९||
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् |
जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः ||१०||
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ |
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ||११||
बहूनि सुनृशंसानि कृतान्येतेन मानद |
युष्मासु पापमतिना अपापेष्वेव नित्यदा ||१२||
तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् |
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ||१३||
निकृत्या राज्यहरणं वनवासं च पाण्डव |
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ||१४||
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते |
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ||१५||
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह |
दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः ||१६||
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् |
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ||१७||
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् |
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ||१८||
सञ्जय उवाच||
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम |
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ||१९||
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् |
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ||२०||
अपि तस्या अनर्हायाः परिक्लेशस्य माधव |
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ||२१||
इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् |
प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् ||२२||
तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ |
न चकार भयं प्राप्ते भये महति मारिष ||२३||
तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् |
यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् ||२४||
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते |
महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ||२५||
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति |
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ||२६||
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना |
संरम्भमगमद्भूयः स च तस्मिन्परन्तपः ||२७||
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ |
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ||२८||
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष |
प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् ||२९||
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः |
व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ||३०||
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयाश्च सर्वशः |
निराशाः समपद्यन्त पुत्रस्य तव जीविते ||३१||
शोकमीयुः परं चैव कुरवः सर्व एव ते |
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ||३२||
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ |
हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः ||३३||
जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् |
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ||३४||
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः |
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ||३५||
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च |
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ||३६||
यद्बलं तव वीर्यं च केशवस्य तथैव च |
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ||३७||
अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते |
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ||३८||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
078-अध्यायः
सञ्जय उवाच||
एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः |
प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ||१||
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे |
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ||२||
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः |
अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ||३||
तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च |
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ||४||
अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् |
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ||५||
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् |
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ||६||
कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ |
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ||७||
न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः |
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ||८||
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् |
व्यर्थान्निपततः सङ्ख्ये दुर्योधनरथं प्रति ||९||
वज्राशनिसमा घोराः परकायावभेदिनः |
शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ||१०||
अर्जुन उवाच||
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता |
अन्ते विहितमस्त्राणामेतत्कवचधारणम् ||११||
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि |
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ||१२||
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन |
अपि वज्रेण गोविन्द स्वयं मघवता युधि ||१३||
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् |
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ||१४||
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव |
न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ||१५||
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् |
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ||१६||
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव |
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ||१७||
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन |
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ||१८||
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् |
पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् ||१९||
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् |
नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ||२०||
सञ्जय उवाच||
एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् |
विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ||२१||
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ||२१||
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना |
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ||२२||
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन |
अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ||२३||
ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः |
अविध्यत रणे राजञ्शरैराशीविषोपमैः ||२४||
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ||२४||
शरवर्षेण महता ततोऽहृष्यन्त तावकाः |
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ||२५||
ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् |
नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ||२६||
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः |
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ||२७||
धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् |
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ||२८||
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् |
अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ||२९||
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः |
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ||३०||
ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः |
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ||३१||
अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत |
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ||३२||
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् |
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ||३३||
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् |
स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ||३४||
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् |
धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ||३५||
ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् |
महता शरवर्षेण तलशब्देन चार्जुनः ||३६||
पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः |
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ||३७||
तस्य शङ्खस्य नादेन धनुषो निस्वनेन च |
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ||३८||
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः |
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ||३९||
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु |
चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुन्धराम् ||४०||
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः |
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ||४१||
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् |
प्रदध्मतुस्तदा शङ्खौ वासुदेवधनञ्जयौ ||४२||
तेन शब्देन महता पूरितेयं वसुन्धरा |
सशैला सार्णवद्वीपा सपाताला विशां पते ||४३||
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश |
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ||४४||
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ |
संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ||४५||
अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ |
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ||४६||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
079-अध्यायः
सञ्जय उवाच||
तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ |
प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् ||१||
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः |
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ||२||
रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते |
कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ||३||
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः |
कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ||४||
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः |
व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ||५||
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः |
समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ||६||
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् |
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ||७||
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः |
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ||८||
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः |
धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ||९||
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः |
पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ||१०||
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ |
प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि ||११||
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ||११||
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः |
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ||१२||
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः |
सर्वशब्दानतिक्रम्य पूरयामास रोदसी ||१३||
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले |
भीरूणां त्रासजनने शूराणां हर्षवर्धने ||१४||
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च |
मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ||१५||
महारथसमाख्याता दुर्योधनहितैषिणः |
अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ||१६||
नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ||१६||
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः |
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ||१७||
बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् |
उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ||१८||
तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् |
बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ||१९||
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् |
त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ||२०||
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः |
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ||२१||
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् |
अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ||२२||
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् |
अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ||२३||
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा |
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ||२४||
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् |
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ||२५||
कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः |
जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ||२६||
मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ||२६||
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् |
वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ||२७||
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः |
प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ||२८||
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः |
शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ||२९||
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः |
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ||३०||
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह |
पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ||३१||
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः |
अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ||३२||
ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः |
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ||३३||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
080-अध्यायः
धृतराष्ट्र उवाच||
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया |
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ||१||
सञ्जय उवाच||
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् |
रूपतो वर्णतश्चैव नामतश्च निबोध मे ||२||
तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः |
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ||३||
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः |
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ||४||
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः |
नानावर्णविरागाभिर्विबभुः सर्वतो वृताः ||५||
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः |
नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः ||६||
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ |
दोधूयमाना रथिनां शोभयन्ति महारथान् ||७||
सिंहलाङ्गूलमुग्रास्यं धजं वानरलक्षणम् |
धनञ्जयस्य सङ्ग्रामे प्रत्यपश्याम भैरवम् ||८||
स वानरवरो राजन्पताकाभिरलङ्कृतः |
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ||९||
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत |
ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ||१०||
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् |
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् ||११||
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे |
आहवे खं महाराज ददृशे पूरयन्निव ||१२||
पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे |
नृत्यतीव रथोपस्थे श्वसनेन समीरितः ||१३||
आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः |
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ||१४||
स तेन भ्राजते राजन्गोवृषेण महारथः |
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते ||१५||
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् |
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् ||१६||
तेन तस्य रथो भाति मयूरेण महात्मनः |
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ||१७||
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव |
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ||१८||
सा सीता भ्राजते तस्य रथमास्थाय मारिष |
सर्वबीजविरूढेव यथा सीता श्रिया वृता ||१९||
वराहः सिन्धुराजस्य राजतोऽभिविराजते |
ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ||२०||
शुशुभे केतुना तेन राजतेन जयद्रथः |
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ||२१||
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः |
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ||२२||
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते |
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ||२३||
शलस्य तु महाराज राजतो द्विरदो महान् |
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ||२४||
स केतुः शोभयामास सैन्यं ते भरतर्षभ |
यथा श्वेतो महानागो देवराजचमूं तथा ||२५||
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः |
किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे ||२६||
व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते |
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ||२७||
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः |
व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः ||२८||
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः |
अदीप्यतार्जुनो येन हिमवानिव वह्निना ||२९||
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः |
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ||३०||
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः |
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ||३१||
तवापराधाद्धि नरा निहता बहुधा युधि |
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ||३२||
तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् |
दुर्योधनमुखानां च पाण्डूनामृषभस्य च ||३३||
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः |
यदेको बहुभिः सार्धं समागच्छदभीतवत् ||३४||
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः |
जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् ||३५||
तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः |
अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः ||३६||
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः |
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ||३७||
संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने |
महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः ||३८||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
081-अध्यायः
धृतराष्ट्र उवाच||
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः |
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय ||१||
सञ्जय उवाच||
अपराह्णे महाराज सङ्ग्रामे लोमहर्षणे |
पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ||२||
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः |
अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष ||३||
ततः सुतुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः |
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ||४||
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पण्डवैः सह |
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ||५||
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः |
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ||६||
तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः |
प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् ||७||
तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः |
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ||८||
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः |
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् ||९||
तमापतन्तं सहसा व्यादितास्यमिवान्तकम् |
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ||१०||
युधिष्ठिरं महाराज जिगीषुं समवस्थितम् |
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ||११||
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी |
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ||१२||
सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः |
शरैरनेकसाहस्रैः समवाकिरदाशुगैः ||१३||
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् |
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ||१४||
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् |
संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् ||१५||
भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् |
प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः ||१६||
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे |
यादृगेव पुरा वृत्तं रामरावणयोर्नृप ||१७||
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् |
आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत ||१८||
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे |
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ||१९||
भूय एव तु विंशत्या सायकानां समाचिनोत् |
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ||२०||
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः |
अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ||२१||
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे |
चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः ||२२||
अथैनं छिन्नधन्वानं त्वरमाणो महारथः |
शरैरनेकसाहस्रैः पुरयामास सर्वतः ||२३||
अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः |
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ||२४||
केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् |
हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना ||२५||
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः |
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ||२६||
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ||२६||
ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः |
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ||२७||
छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः |
शक्तिं जग्राह समरे गिरीणामपि दारणीम् ||२८||
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ||२८||
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली |
नादेन सर्वभूतानि त्रासयन्निव भारत ||२९||
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे |
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ||३०||
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा |
प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा ||३१||
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ||३१||
तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते |
प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ||३२||
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् |
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ||३३||
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् |
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत ||३४||
विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः |
क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः ||३५||
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः |
गदां चिक्षेप सहसा धर्मपुत्राय मारिष ||३६||
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः |
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तपः ||३७||
ते गदे सहसा मुक्ते समासाद्य परस्परम् |
सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ||३८||
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष |
चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ||३९||
धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् |
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ||४०||
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः |
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ||४१||
विरथं तं समालोक्य व्यायुधं च विशेषतः |
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ||४२||
मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः |
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ||४३||
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना |
हा हेति सहसा शब्दः पाण्डूनां समजायत ||४४||
हृतो राजा हृतो राजा भारद्वाजेन मारिष |
इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः ||४५||
ततस्त्वरितमारुह्य सहदेवरथं नृपः |
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ||४६||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
082-अध्यायः
सञ्जय उवाच||
बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् |
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ||१||
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् |
आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया ||२||
क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः |
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ||३||
अथैनं छिन्नधन्वानं शरेण नतपर्वणा |
विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् ||४||
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव |
व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् ||५||
ततोऽपरेण भल्लेन पीतेन निशितेन च |
जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् ||६||
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् |
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ||७||
तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः |
सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् ||८||
धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी |
वीरधन्वा महेष्वासो वारयामास भारत ||९||
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ |
शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ||१०||
तावुभौ नरशार्दूलौ युयुधाते परस्परम् |
महावने तीव्रमदौ वारणाविव यूथपौ ||११||
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ |
युयुधाते महावीर्यौ परस्परजिघांसया ||१२||
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते |
सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम् ||१३||
वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् |
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ||१४||
तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः |
शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् ||१५||
तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत |
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ||१६||
स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् |
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ||१७||
तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे |
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ||१८||
सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् |
ननाद च महानादं तर्जयन्पाण्डवं रणे ||१९||
मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः |
भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव ||२०||
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् |
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ||२१||
दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः |
जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ||२२||
अथापरेण भल्लेन पीतेन निशितेन च |
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् ||२३||
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः |
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ||२४||
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा |
आरुरोह रथं राजन्निरमित्रस्य भारत ||२५||
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे |
जघान पृतनामध्ये भल्लेन परवीरहा ||२६||
स पपात रथोपस्थान्निरमित्रो जनेश्वरः |
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ||२७||
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत |
यथा दाशरथी रामः खरं हत्वा महाबलम् ||२८||
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर |
राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् ||२९||
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् |
मुहूर्ताज्जितवान्सङ्ख्ये तदद्भुतमिवाभवत् ||३०||
सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः |
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ||३१||
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् |
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ||३२||
कुमारे निहते तस्मिन्मगधस्य सुते प्रभो |
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ||३३||
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः |
भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि ||३४||
अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् |
तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः ||३५||
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ ||३५||
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः |
बलं तेऽभज्यत विभो युयुधानशरार्दितम् ||३६||
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः |
विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ||३७||
भज्यमानं बलं राजन्सात्वतेन महात्मना |
नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना ||३८||
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी |
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ||३९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
083-अध्यायः
सञ्जय उवाच||
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः |
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ||१||
ते पीडिता भृशं तेन रौद्रेण सहसा विभो |
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन ||२||
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् |
द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ||३||
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः |
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ||४||
स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् |
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ||५||
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना |
परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ||६||
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः |
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ||७||
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः |
ननाद बलवन्नादं विव्याध च शितैः शरैः ||८||
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् |
नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ||९||
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् |
क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ||१०||
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् |
भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ||११||
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः |
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ||१२||
अलम्बुसस्तु समरे भीमसेनं महाबलम् |
योधयामास सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ||१३||
सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ |
विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ||१४||
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः |
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ||१५||
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् |
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ||१६||
स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः |
भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ||१७||
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ||१७||
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः |
निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ||१८||
प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्छितः |
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ||१९||
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ||१९||
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः |
शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ||२०||
स वध्यमानः समरे भीमचापच्युतैः शरैः |
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ||२१||
घोरं रूपमथो कृत्वा भीमसेनमभाषत |
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ||२२||
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली |
परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ||२३||
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा |
महाता शरवर्षेण भृशं तं समवाकिरत् ||२४||
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा |
आकाशं पूरयामास शरैः संनतपर्वभिः ||२५||
स वध्यमानो भीमेन निमेषाद्रथमास्थितः |
जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ||२६||
उच्चावचानि रूपाणि चकार सुबहूनि च |
उच्चावचास्तथा वाचो व्याजहार समन्ततः ||२७||
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः |
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ||२८||
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ||२८||
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् |
छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ||२९||
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् |
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ||३०||
तं तथा समरे राजन्विचरन्तमभीतवत् |
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तत्स्य विक्रमम् ||३१||
तावकानां तु सैन्यानां प्रहर्षः समजायत |
वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ||३२||
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः |
नामृष्यत यथा नागस्तलशब्दं समीरितम् ||३३||
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः |
संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ||३४||
ततः शरसहस्राणि प्रादुरासन्समन्ततः |
तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ||३५||
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे |
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ||३६||
स वध्यमानो बहुधा भीमसेनेन राक्षसः |
सन्त्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ||३७||
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना |
अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ||३८||
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् |
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ||३९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
084-अध्यायः
सञ्जय उवाच||
अलम्बुसं तथा युद्धे विचरन्तमभीतवत् |
हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ||१||
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः |
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ||२||
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् |
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ||३||
अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ||३||
तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् |
विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ||४||
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ |
निर्विशेषमयुध्येतां मायाभिरितरेतरम् ||५||
मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् |
मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ||६||
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप |
तां तामलम्बुसो राजन्माययैव निजघ्निवान् ||७||
तं तथा युध्यमानं तु मायायुद्धविशारदम् |
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ||८||
त एनं भृशसङ्क्रुद्धाः सर्वतः प्रवरा रथैः |
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनादयो नृप ||९||
त एनं कोष्ठकीकृत्य रथवंशेन मारिष |
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ||१०||
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया |
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ||११||
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् |
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ||१२||
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ||१२||
नकुलं च त्रिसप्तत्या द्रुपदेयांश्च मारिष |
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ||१३||
तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः |
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ||१४||
नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ||१४||
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः |
पुनर्विव्याध सप्तत्या ननाद च महाबलः ||१५||
सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः |
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ||१६||
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः |
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ||१७||
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः |
व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ||१८||
ते शरा नतपर्वाणो विविशू राक्षसं तदा |
रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ||१९||
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् |
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ||२०||
स वध्यमानः समरे पाण्डवैर्जितकाशिभिः |
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ||२१||
समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः |
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ||२२||
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च |
भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ||२३||
स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः |
घटोत्कचेन वीरेण हतः सालकटङ्कटः ||२४||
ततः सुमनसः पार्था हते तस्मिन्निशाचरे |
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ||२५||
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् |
अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ||२६||
हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ||२६||
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः |
यदृच्छया निपतितं भूमावङ्गारकं यथा ||२७||
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् |
मुमोच बलवन्नादं बलं हत्वेव वासवः ||२८||
स पूज्यमानः पितृभिः सबान्धवै; र्घटोत्कचः कर्मणि दुष्करे कृते |
रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा ||२९||
ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान् |
निशम्य तं प्रत्यनदंस्तु कौरवा; स्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ||३०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
085-अध्यायः
धृतराष्ट्र उवाच||
भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् |
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ||१||
सञ्जय उवाच||
शृणु राजन्महाप्राज्ञ सङ्ग्रामं लोमहर्षणम् |
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ||२||
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष |
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ||३||
तमापतन्तं सहसा भारद्वाजं महारथम् |
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ||४||
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः |
अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः ||५||
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः |
अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः ||६||
दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः |
द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः ||७||
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् |
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ||८||
ततः क्रुद्धो महेष्वासो भूय एव महाबलः |
सात्वतं पीडयामास शतेन नतपर्वणा ||९||
स वध्यमानः समरे भारद्वाजेन सात्यकिः |
नाभ्यपद्यत कर्तव्यं किञ्चिदेव विशां पते ||१०||
विषण्णवदनश्चापि युयुधानोऽभवन्नृप |
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ||११||
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते |
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ||१२||
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् |
युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत ||१३||
एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् |
ग्रस्यते युधि वीरेण भानुमानिव राहुणा ||१४||
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ||१४||
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप |
अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत ||१५||
न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् ||१५||
असौ द्रोणो महेष्वासो युयुधानेन संयुगे |
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ||१६||
तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः |
त्वयैव सहिता यत्ता युयुधानरथं प्रति ||१७||
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः |
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ||१८||
एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः |
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ||१९||
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् |
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ||२०||
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् |
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ||२१||
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् |
अतिथीनागतान्यद्वत्सलिलेनासनेन च ||२२||
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः |
आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा ||२३||
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् |
मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो ||२४||
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः |
अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ||२५||
वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा |
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ||२६||
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः |
घभस्तय इवार्कस्य प्रतपन्तः समन्ततः ||२७||
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः |
महारथसमाख्याता धृष्टद्युम्नस्य संमताः ||२८||
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च |
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ||२९||
केकयानां शतं हत्वा विद्राव्य च समन्ततः |
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ||३०||
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि |
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ||३१||
तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः |
वनौकसामिवारण्ये दह्यतां धूमकेतुना ||३२||
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप |
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ||३३||
तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे |
न चाप्यभिययुः केचिदपरे नैव विव्यधुः ||३४||
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये |
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् ||३५||
पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् |
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ||३६||
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ||३६||
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः |
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ||३७||
न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् |
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ||३८||
एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना |
अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ||३९||
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः |
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ||४०||
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः |
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ||४१||
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव |
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ||४२||
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः |
स कार्ये साम्पराये तु नियोज्य इति मे मतिः ||४३||
यथा च केशवो नित्यं पाण्डवानां परायणम् |
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ||४४||
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि |
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ||४५||
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे |
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ||४६||
त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः |
लोके विख्यायसे वीर कर्मभिः सत्यवागिति ||४७||
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् |
पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् ||४८||
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः |
दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ||४९||
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः |
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ||५०||
एक एव सदा कृष्णो मित्राणामभयङ्करः |
रणे सन्त्यजति प्राणान्द्वितीयस्त्वं च सात्यके ||५१||
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः |
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ||५२||
ईदृशे तु परामर्दे वर्तमानस्य माधव |
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ||५३||
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः |
मम सञ्जनयन्हर्षं पुनः पुनरकीर्तयत् ||५४||
लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः |
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ||५५||
महास्कन्धो महोरस्को महाबाहुर्महाधनुः |
महाबलो महावीर्यः स महात्मा महारथः ||५६||
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे |
युयुधानः सहायो मे प्रमथिष्यति कौरवान् ||५७||
अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः |
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ||५८||
गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः |
सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि ||५९||
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् |
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ||६०||
इति द्वैतवने तात मामुवाच धनञ्जयः |
परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ||६१||
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि |
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ||६२||
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति |
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ||६३||
न तत्सौहृदमन्येषु मया शैनेय लक्षितम् |
यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ||६४||
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च |
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ||६५||
सत्यस्य च महाबाहो अनुकम्पार्थमेव च |
अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ||६६||
सोयोधनो हि सहसा गतो द्रोणेन दंशितः |
पूर्वमेव तु यातास्ते कौरवाणां महारथाः ||६७||
सुमहान्निनदश्चैव श्रूयते विजयं प्रति |
स शैनेय जवेनात्र गन्तुमर्हसि माधव ||६८||
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः |
द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ||६९||
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे |
महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ||७०||
महामारुतवेगेन समुद्रमिव पर्वसु |
धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ||७१||
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह |
सैन्यं रजःसमुद्धूतमेतत्सम्परिवर्तते ||७२||
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः |
अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ||७३||
नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः |
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ||७४||
शरशक्तिध्वजवनं हयनागसमाकुलम् |
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ||७५||
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् |
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ||७६||
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः |
सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ||७७||
पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः |
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ||७८||
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् |
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ||७९||
सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् ||७९||
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः |
लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् ||८०||
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते |
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ||८१||
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ||८१||
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् |
अविषह्यां महाबाहुः सुरैरपि महामृधे ||८२||
न च मे वर्तते बुद्धिरद्य युद्धे कथञ्चन |
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ||८३||
प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः ||८३||
युगपच्च समेतानां कार्याणां त्वं विचक्षणः |
महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव ||८४||
तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा |
अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ||८५||
नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् |
स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान् ||८६||
विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते |
किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ||८७||
अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि |
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ||८८||
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा |
तादृशस्येदृशे काले मादृशेनाभिचोदितः ||८९||
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ |
प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ||९०||
अस्त्रे नारायणसमः सङ्कर्षणसमो बले |
वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ||९१||
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् |
त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ||९२||
नासाध्यं विद्यते लोके सात्यकेरिति माधव |
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ||९३||
सम्भावना हि लोकस्य तव पार्थस्य चोभयोः |
नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि ||९४||
परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् |
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ||९५||
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम् |
भीरूणामसतां मार्गो नैष दाशार्हसेवितः ||९६||
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव |
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ||९७||
कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् |
मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ||९८||
वासुदेवमतं चैतन्मम चैवार्जुनस्य च |
सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ||९९||
एतद्वचनमाज्ञाय मम सत्यपराक्रम |
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ||१००||
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः |
यथार्हमात्मनः कर्म रणे सात्वत दर्शय ||१०१||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
086-अध्यायः
सञ्जय उवाच||
प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च |
कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् ||१||
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः |
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ||२||
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत |
न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् ||३||
एवंविधे तथा काले मदृशं प्रेक्ष्य संमतम् |
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ||४||
न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन |
त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे ||५||
लोकत्रयं योधयेयं सदेवासुरमानुषम् |
त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् ||६||
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः |
विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ||७||
कुशल्यहं कुशलिनं समासाद्य धनञ्जयम् |
हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ||८||
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप |
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ||९||
दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः |
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ||१०||
अद्य माधव राजानमप्रमत्तोऽनुपालय |
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ||११||
त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे |
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ||१२||
जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् |
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ||१३||
ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति |
शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् ||१४||
एवं त्वयि समाधाय धर्मराजं नरोत्तमम् |
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि ||१५||
जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव |
धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् ||१६||
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव |
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ||१७||
एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि |
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ||१८||
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति |
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ||१९||
स त्वमद्य महाबाहो प्रियार्थं मम माधव |
जयार्थं च यशोर्थं च रक्ष राजानमाहवे ||२०||
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना |
भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो ||२१||
तस्यापि च महाबाहो नित्यं पश्यति संयुगे |
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ||२२||
मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः ||२२||
सोऽहं सम्भावनां चैतामाचार्यवचनं च तत् |
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ||२३||
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः |
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ||२४||
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः |
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः ||२५||
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि |
यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् ||२६||
मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम् |
न स जातु महाबाहुर्भारमुद्यम्य सीदति ||२७||
ये च सौवीरका योधास्तथा सैन्धवपौरवाः |
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ||२८||
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः |
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ||२९||
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा |
सराक्षसगणा राजन्सकिंनरमहोरगा ||३०||
जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे |
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये ||३१||
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ |
न तत्र कर्मणो व्यापत्कथञ्चिदपि विद्यते ||३२||
दैवं कृतास्त्रतां योगममर्षमपि चाहवे |
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ||३३||
मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति |
द्रोणे चित्रास्त्रतां सङ्ख्ये राजंस्त्वमनुचिन्तय ||३४||
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति |
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ||३५||
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि |
यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति ||३६||
न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे |
क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ||३७||
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर |
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् ||३८||
युधिष्ठिर उवाच||
एवमेतन्महाबाहो यथा वदसि माधव |
न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष ||३९||
करिष्ये परमं यत्नमात्मनो रक्षणं प्रति |
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः ||४०||
आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति |
विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये ||४१||
स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः |
ममापि रक्षणं भीमः करिष्यति महाबलः ||४२||
पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः |
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ||४३||
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः |
विराटो द्रुपदश्चैव शिखण्डी च महारथः ||४४||
धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष |
नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा ||४५||
एते समाहितास्तात रक्षिष्यन्ति न संशयः ||४५||
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे |
समासादयितुं शक्तो न च मां धर्षयिष्यति ||४६||
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः |
वारयिष्यति विक्रम्य वेलेव मकरालयम् ||४७||
यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा |
न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथञ्चन ||४८||
एष द्रोणविनाशाय समुत्पन्नो हुताशनात् |
कवची स शरी खड्गी धन्वी च वरभूषणः ||४९||
विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम् |
धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति ||५०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
087-अध्यायः
सञ्जय उवाच||
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः |
पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः ||१||
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः |
न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति ||२||
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः |
धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ ||३||
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते |
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ||४||
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते |
यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ||५||
तस्याहं पदवीं यास्ये संदेशात्तव मानद |
त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ||६||
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर |
तथा तवापि वचनं विशिष्टतरमेव मे ||७||
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ |
तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव ||८||
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो |
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम ||९||
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् |
तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ||१०||
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् |
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ||११||
इतस्त्रियोजनं मन्ये तमध्वानं विशां पते |
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ||१२||
त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् |
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ||१३||
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः |
आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः ||१४||
अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ||१४||
हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् |
इष्वस्त्रवरसम्बाधं क्षोभयिष्ये बलार्णवम् ||१५||
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि |
कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः ||१६||
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः |
नागा मेघनिभा राजन्क्षरन्त इव तोयदाः ||१७||
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः |
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ||१८||
अथ यान्रथिनो राजन्समन्तादनुपश्यसि |
एते रुक्मरथा नाम राजपुत्रा महारथाः ||१९||
रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते |
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ||२०||
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा |
खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ||२१||
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् |
नित्यं च समरे राजन्विजिगीषन्ति मानवान् ||२२||
कर्णेन विजिता राजन्दुःशासनमनुव्रताः |
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ||२३||
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः |
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ||२४||
ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः |
मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ||२५||
एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव |
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ||२६||
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च |
प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ||२७||
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना |
स्वलङ्कृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः ||२८||
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् |
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ||२९||
तेषामेते महामात्राः किराता युद्धदुर्मदाः |
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ||३०||
एते विनिर्जिताः सर्वे सङ्ग्रामे सव्यसाचिना |
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ||३१||
एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् |
सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् ||३२||
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः |
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ||३३||
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः |
लब्धलक्ष्या रणे राजन्नैरावणसमा युधि ||३४||
उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः |
कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ||३५||
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः |
अनेकयोनयश्चान्ये तथा मानुषयोनयः ||३६||
अनीकमसतामेतद्धूमवर्णमुदीर्यते |
म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् ||३७||
एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् |
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ||३८||
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् |
कृतार्थमथ चात्मानं मन्यते कालचोदितः ||३९||
ते च सर्वेऽनुसम्प्राप्ता मम नाराचगोचरम् |
न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ||४०||
तेन सम्भाविता नित्यं परवीर्योपजीविना |
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ||४१||
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः |
एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः ||४२||
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः |
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ||४३||
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत |
यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः ||४४||
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः |
तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः ||४५||
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च |
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ||४६||
अस्मिंस्तु खलु सङ्ग्रामे ग्राह्यं विविधमायुधम् |
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ||४७||
काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः |
नानाशस्त्रसमावापैर्विविधायुधयोधिभिः ||४८||
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः |
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ||४९||
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः |
अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ||५०||
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः |
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ||५१||
तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः |
उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ||५२||
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च |
रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च ||५३||
ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः |
रसवत्पाययामासुः पानं मदसमीरिणम् ||५४||
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान् |
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ||५५||
तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः |
संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे ||५६||
महाध्वजेन सिंहेन हेमकेसरमालिना |
संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः ||५७||
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते ||५७||
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे |
योजयामास विधिवद्धेमभाण्डविभूषितान् ||५८||
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा |
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ||५९||
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः |
स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् ||६०||
आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ||६०||
ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु |
लोहिताक्षो बभौ तत्र मदविह्वललोचनः ||६१||
आलभ्य वीरकांस्यं च हर्षेण महतान्वितः |
द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः ||६२||
उत्सङ्गे धनुरादाय सशरं रथिनां वरः ||६२||
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः |
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ||६३||
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः |
तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ||६४||
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः |
अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः ||६५||
अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् |
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ||६६||
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् |
आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ||६७||
जानीषे मम वीर्यं त्वं तव चाहमरिंदम |
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ||६८||
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये |
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ||६९||
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः |
गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम ||७०||
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः |
निमित्तानि च धन्यानि यथा भीम वदन्ति मे ||७१||
निहते सैन्धवे पापे पाण्डवेन महात्मना |
परिष्वजिष्ये राजानं धर्मात्मानं न संशयः ||७२||
एतावदुक्त्वा भीमं तु विसृज्य च महामनाः |
सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ||७३||
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप |
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ||७४||
ततः प्रयातः सहसा सैन्यं तव स सात्यकिः |
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ||७५||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
088-अध्यायः
सञ्जय उवाच||
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया |
धर्मराजो महाराज स्वेनानीकेन संवृतः ||१||
प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः ||१||
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः |
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ||२||
आगच्छत प्रहरत द्रुतं विपरिधावत |
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ||३||
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये |
इति ब्रुवन्तो वेगेन समापेतुर्बलं तव ||४||
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः |
ततः शब्दो महानासीद्युयुधानरथं प्रति ||५||
प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी |
सात्वतेन महाराज शतधाभिव्यदीर्यत ||६||
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः |
सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् ||७||
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना |
आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् ||८||
रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष |
चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः ||९||
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः |
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते ||१०||
हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः |
ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम ||११||
शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः |
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ||१२||
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः |
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ||१३||
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः |
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः ||१४||
गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ||१४||
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः |
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ||१५||
ततस्तेनैव मार्गेण येन यातो धनञ्जयः |
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ||१६||
भरद्वाजं समासाद्य युयुधानस्तु मारिष |
नाभ्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः ||१७||
निवार्य तु रणे द्रोणो युयुधानं महारथम् |
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ||१८||
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः |
हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ||१९||
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् |
स तं न ममृषे द्रोणं युयुधानो महारथः ||२०||
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः |
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ||२१||
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः |
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ||२२||
ध्वजमेकेन बाणेन विव्याध युधि मारिष ||२२||
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः |
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ||२३||
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः |
प्राच्छादयदसम्भ्रान्तस्ततो द्रोण उवाच ह ||२४||
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा |
युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ||२५||
त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव |
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ||२६||
सात्यकिरुवाच||
धनञ्जयस्य पदवीं धर्मराजस्य शासनात् |
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ||२७||
सञ्जय उवाच||
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् |
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ||२८||
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे |
यत्तो याहि रणे सूत शृणु चेदं वचः परम् ||२९||
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् |
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् ||३०||
तदनन्तरमेतच्च बाह्लिकानां बलं महत् |
बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् ||३१||
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे |
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ||३२||
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् |
मध्यमं जवमास्थाय वह मामत्र सारथे ||३३||
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः |
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ||३४||
हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते |
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ||३५||
एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् |
स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् ||३६||
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् |
युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् ||३७||
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः |
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ||३८||
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च |
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ||३९||
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः |
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ||४०||
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः |
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ||४१||
स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः |
सात्वतेन महाराज कृतवर्मा न चक्षमे ||४२||
स वत्सदन्तं सन्धाय जिह्मगानलसंनिभम् |
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ||४३||
स तस्य देहावरणं भित्त्वा देहं च सायकः |
सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः ||४४||
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् |
समार्गणगुणं राजन्कृतवर्मा शरासनम् ||४५||
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् |
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ||४६||
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः |
अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः ||४७||
ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः |
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ||४८||
सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् |
छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः ||४९||
अथास्य भल्लेन शिरः सारथेः समकृन्तत |
स पपात हतः सूतो हार्दिक्यस्य महारथात् ||५०||
ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् ||५०||
अथ भोजस्त्वसम्भ्रान्तो निगृह्य तुरगान्स्वयम् |
तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ||५१||
स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् |
व्यपेतभीरमित्राणामावहत्सुमहद्भयम् ||५२||
सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् ||५२||
युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः |
प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् ||५३||
स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः |
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ||५४||
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च |
अन्वधावद्रणे यत्तो युयुधानं युयुत्सया ||५५||
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः |
न्यवारयन्त सङ्क्रुद्धाः पाण्डुसैन्ये बृहत्तमाः ||५६||
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् |
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ||५७||
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ||५७||
यतमानांस्तु तान्सर्वानीषद्विगतचेतसः |
अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् ||५८||
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे |
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ||५९||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
089-अध्यायः
धृतराष्ट्र उवाच||
एवं बहुविधं सैन्यमेवं प्रविचितं वरम् |
व्यूढमेवं यथान्यायमेवं बहु च सञ्जय ||१||
नित्यं पूजितमस्माभिरभिकामं च नः सदा |
प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् ||२||
नातिवृद्धमबालं च न कृशं नातिपीवरम् |
लघुवृत्तायतप्राणं सारगात्रमनामयम् ||३||
आत्तसंनाहसम्पन्नं बहुशस्त्रपरिच्छदम् |
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ||४||
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते |
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ||५||
नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् |
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ||६||
न गोष्ठ्या नोपचारेण न सम्बन्धनिमित्ततः |
नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह ||७||
कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् |
कृतमानोपकारं च यशस्वि च मनस्वि च ||८||
सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः |
लोकपालोपमैस्तात पालितं नरसत्तमैः ||९||
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः |
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ||१०||
महोदधिमिवापूर्णमापगाभिः समन्ततः |
अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम् ||११||
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् |
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ||१२||
ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् |
वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् ||१३||
द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् |
जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम् ||१४||
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे |
सञ्जयैकरथेनैव युयुधाने च मामकम् ||१५||
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि |
सात्वते च रथोदारे मम सैन्यस्य सञ्जय ||१६||
तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ |
सिन्धुराजं च सम्प्रेक्ष्य गाण्डीवस्येषुगोचरे ||१७||
किं तदा कुरवः कृत्यं विदधुः कालचोदिताः |
दारुणैकायने काले कथं वा प्रतिपेदिरे ||१८||
ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात सङ्गतान् |
विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै ||१९||
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ |
न च वारयिता कश्चित्तयोरस्तीह सञ्जय ||२०||
भृताश्च बहवो योधाः परीक्ष्यैव महारथाः |
वेतनेन यथायोग्यं प्रियवादेन चापरे ||२१||
अकारणभृतस्तात मम सैन्ये न विद्यते |
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ||२२||
न च योधोऽभवत्कश्चिन्मम सैन्ये तु सञ्जय |
अल्पदानभृतस्तात न कुप्यभृतको नरः ||२३||
पूजिता हि यथाशक्त्या दानमानासनैर्मया |
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ||२४||
ते च प्राप्यैव सङ्ग्रामे निर्जिताः सव्यसाचिना |
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ||२५||
रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः |
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ||२६||
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् |
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ||२७||
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् |
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ||२८||
सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ |
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ||२९||
दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् |
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ||३०||
दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च |
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ||३१||
विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये |
पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ||३२||
शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च |
हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ||३३||
व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः |
धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ||३४||
विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् |
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ||३५||
पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः |
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ||३६||
द्रोणस्य समतिक्रान्तावनीकमपराजितौ |
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ||३७||
संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ |
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ||३८||
तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे |
भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः ||३९||
तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु |
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व सञ्जय ||४०||
द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः |
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ||४१||
बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः |
भारद्वाजस्तथा तेषु कृतवैरो महारथः ||४२||
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति |
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय ||४३||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
090-अध्यायः
सञ्जय उवाच||
आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ |
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ||१||
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च |
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ||२||
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ||२||
सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः |
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ||३||
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः |
न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत ||४||
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ||४||
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् |
शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ||५||
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे |
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ||६||
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् |
दधारैको रणे पाण्डून्कृतवर्मा महारथः ||७||
यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् |
पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारयत् ||८||
तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् |
यदेनं सहिताः पार्था नातिचक्रमुराहवे ||९||
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः |
शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ||१०||
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः |
शतेन नकुलश्चापि हार्दिक्यं समविध्यत ||११||
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः |
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ||१२||
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ||१२||
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः |
पुनर्विव्याध विंशत्या सायकानां हसन्निव ||१३||
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् |
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ||१४||
धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् ||१४||
अथैनं छिन्नधन्वानं त्वरमाणो महारथः |
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ||१५||
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः |
चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ||१६||
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः |
विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् ||१७||
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष |
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ||१८||
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः |
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ||१९||
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ||१९||
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा |
कृतवर्माणमभितः प्रजज्वाल सुदारुणा ||२०||
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् |
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ||२१||
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा |
द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता ||२२||
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ||२२||
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् |
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ||२३||
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे |
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह ||२४||
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष |
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ||२५||
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव |
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ||२६||
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् |
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ||२७||
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः |
धनुश्चिच्छेद समरे प्रहसन्निव भारत ||२८||
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् |
असिं जग्राह समरे शतचन्द्रं च भास्वरम् ||२९||
भ्रामयित्वा महाचर्म चामीकरविभूषितम् |
तमसिं प्रेषयामास कृतवर्मरथं प्रति ||३०||
स तस्य सशरं चापं छित्त्वा सङ्ख्ये महानसिः |
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ||३१||
एतस्मिन्नेव काले तु त्वरमाणा महारथाः |
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ||३२||
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः |
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ||३३||
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः |
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ||३४||
धनुरन्यत्समादाय शिखण्डी तु महायशाः |
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ||३५||
ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः |
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ||३६||
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः |
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ||३७||
तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ |
समासेदतुरन्योन्यं शरसङ्घैररिंदमौ ||३८||
विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् |
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ||३९||
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ |
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ||४०||
कृतवर्मा तु रभसं याज्ञसेनिं महारथम् |
विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ||४१||
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |
विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः ||४२||
तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ |
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ||४३||
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् |
अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ||४४||
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् |
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ||४५||
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः |
यदेकः समरे पार्थान्वारयामास सानुगान् ||४६||
पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि |
केकयांश्च महावीर्यान्कृतवर्मा महारथः ||४७||
ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः |
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ||४८||
जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् |
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ||४९||
ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः |
विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः ||५०||
श्रीमहाभारतम्
||७ द्रोणपर्वम् ||
091-अध्यायः
सञ्जय उवाच||
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि |
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना ||१||
लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः |
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ||२||
श्रुत्वा तु निनदं भीमं तावकानां महाहवे |
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ||३||
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः |
अवाकिरत्सुसङ्क्रुद्धस्ततोऽक्रुध्यत सात्यकिः ||४||
ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे |
प्रेषयामास समरे शरांश्च चतुरोऽपरान् ||५||
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः |
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ||६||
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः |
सेनामस्यार्दयामास शरैः संनतपर्वभिः ||७||
साभज्यताथ पृतना शैनेयशरपीडिता |
ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः ||८||
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् |
अतीत्य स महाराज द्रोणानीकमहार्णवम् ||९||
पराजित्य च संहृष्टः कृतवर्माणमाहवे |
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् ||१०||
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसङ्कुलम् |
पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः ||११||
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः |
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ||१२||
एते हि बहवः सूत दुर्निवार्याश्च संयुगे |
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ||१३||
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ||१३||
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः |
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ||१४||
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे |
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ||१५||
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः |
रथेनादित्यवर्णेन भास्वरेण पताकिना ||१६||
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः |
वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः ||१७||
आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः |
परिवव्रुस्ततः शूरा गजानीकेन सर्वतः ||१८||
किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः ||१८||
सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् |
पर्वतानिव वर्षेण तपान्ते जलदो महान् ||१९||
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः |
प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः ||२०||
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः |
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ||२१||
सम्भिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः |
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ||२२||
रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः |
नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः ||२३||
तस्मिन्द्रुते गजानीके जलसन्धो महारथः |
यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति ||२४||
रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः |
कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः ||२५||
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् |
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ||२६||
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि |
अशोभत महाराज सविद्युदिव तोयदः ||२७||
तमापतन्तं सहसा मागधस्य गजोत्तमम् |
सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् ||२८||
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः |
अक्रुध्यत रणे राजञ्जलसन्धो महाबलः ||२९||
ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः |
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ||३०||
ततोऽपरेण भल्लेन पीतेन निशितेन च |
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ||३१||
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत |
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ||३२||
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान् |
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ||३३||
अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली |
धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह ||३४||
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि |
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ||३५||
क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः |
जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः ||३६||
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम् |
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ||३७||
स निर्भिद्य भुजं सव्यं माधवस्य महारणे |
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ||३८||
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः |
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् ||३९||
प्रगृह्य तु ततः खड्गं जलसन्धो महाबलः |
आर्षभं चर्म च महच्छतचन्द्रमलङ्कृतम् ||४०||
तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह ||४०||
शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् |
अलातचक्रवच्चैव व्यरोचत महीं गतः ||४१||
अथान्यद्धनुरादाय सर्वकायावदारणम् |
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् ||४२||
विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ||४२||
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः |
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव ||४३||
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् |
वसुन्धरधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ ||४४||
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम् |
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः ||४५||
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् |
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ||४६||
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः |
नैषादिं पातयामास गजस्कन्धाद्विशां पते ||४७||
रुधिरेणावसिक्ताङ्गो जलसन्धस्य कुञ्जरः |
विलम्बमानमवहत्संश्लिष्टं परमासनम् ||४८||
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् |
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ||४९||
हाहाकारो महानासीत्तव सैन्यस्य मारिष |
जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण ह ||५०||
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः |
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ||५१||
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः |
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ||५२||
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः |
द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् ||५३||
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च |
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ||५४||