श्रीः
श्रीमहाभारतम्
||१७ महाप्रस्थानिकपर्वम् ||
001-अध्यायः–महाप्रस्थानिकपर्व
पाण्डवप्रव्रजनम्
जनमेजय उवाच||
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् |
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ||१||
वैशम्पायन उवाच||
श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् |
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ||२||
कालः पचति भूतानि सर्वाण्येव महामते |
कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ||३||
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् |
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् ||४||
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा |
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ||५||
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया |
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ||६||
अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् |
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ||७||
एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति |
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ||८||
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः |
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ||९||
इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः |
मातुलस्य च वृद्धस्य रामादीनां तथैव च ||१०||
मातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः |
श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा ||११||
ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि |
स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः ||१२||
कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् |
शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ||१३||
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः |
सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ||१४||
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः |
भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ||१५||
नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् |
न च राजा तथाकार्षीत्कालपर्यायधर्मवित् ||१६||
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् |
गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा ||१७||
ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः |
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ||१८||
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी |
तथैव सर्वे जगृहुर्वल्कलानि जनाधिप ||१९||
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ |
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः ||२०||
ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् |
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ||२१||
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति |
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ||२२||
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः |
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् ||२३||
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ||२३||
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् |
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ||२४||
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् |
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ||२५||
चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति |
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ||२६||
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी |
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ||२७||
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः |
अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा ||२८||
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् |
अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् ||२९||
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा |
द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम ||३०||
श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने |
क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् ||३१||
गाण्डीवं च धनुर्दिव्यं न मुमोच धनञ्जयः |
रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी ||३२||
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः |
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ||३३||
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् |
भो भो पाण्डुसुता वीराः पावकं मां विबोधत ||३४||
युधिष्ठिर महाबाहो भीमसेन परन्तप |
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ||३५||
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् |
अर्जुनस्य प्रभावेण तथा नारायणस्य च ||३६||
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् |
परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन ||३७||
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि |
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ||३८||
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् |
गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् ||३९||
ततस्ते भ्रातरः सर्वे धनञ्जयमचोदयन् |
स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी ||४०||
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत |
ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ||४१||
ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः |
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् ||४२||
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते |
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ||४३||
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः |
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ||४४||
श्रीमहाभारतम्
||१७ महाप्रस्थानिकपर्वम् ||
002-अध्यायः
भीमादिपतनम्
वैशम्पायन उवाच||
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः |
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ||१||
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् |
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ||२||
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् |
याज्ञसेनी भ्रष्टयोगा निपपात महीतले ||३||
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः |
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ||४||
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परन्तप |
कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ||५||
युधिष्ठिर उवाच||
पक्षपातो महानस्या विशेषेण धनञ्जये |
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ||६||
वैशम्पायन उवाच||
एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः |
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ||७||
सहदेवस्ततो धीमान्निपपात महीतले |
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ||८||
योऽयमस्मासु सर्वेषु शुश्रूषुरनहङ्कृतः |
सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ||९||
युधिष्ठिर उवाच||
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन |
तेन दोषेण पतितस्तस्मादेष नृपात्मजः ||१०||
वैशम्पायन उवाच||
इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा |
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ||११||
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् |
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ||१२||
तस्मिन्निपतिते वीरे नकुले चारुदर्शने |
पुनरेव तदा भीमो राजानमिदमब्रवीत् ||१३||
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः |
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ||१४||
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः |
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः ||१५||
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् |
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ||१६||
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर |
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ||१७||
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः |
पपात शोकसन्तप्तस्ततोऽनु परवीरहा ||१८||
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि |
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ||१९||
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः |
अथ कस्य विकारोऽयं येनायं पतितो भुवि ||२०||
युधिष्ठिर उवाच||
एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् |
न च तत्कृतवानेष शूरमानी ततोऽपतत् ||२१||
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः |
यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ||२२||
वैशम्पायन उवाच||
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह |
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ||२३||
भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव |
किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ||२४||
युधिष्ठिर उवाच||
अतिभुक्तं च भवता प्राणेन च विकत्थसे |
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ||२५||
वैशम्पायन उवाच||
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् |
श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया ||२६||
श्रीमहाभारतम्
||१७ महाप्रस्थानिकपर्वम् ||
003-अध्यायः
इन्द्रयुधिष्ठिरसंवादः
वैशम्पायन उवाच||
ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः |
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ||१||
स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः |
अब्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः ||२||
भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह |
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ||३||
सुकुमारी सुखार्हा च राजपुत्री पुरंदर |
सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् ||४||
इन्द्र उवाच||
भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् |
कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ||५||
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ |
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ||६||
युधिष्ठिर उवाच||
अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह |
स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ||७||
इन्द्र उवाच||
अमर्त्यत्वं मत्समत्वं च राज; ञ्श्रियं कृत्स्नां महतीं चैव कीर्तिम् |
सम्प्राप्तोऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसमस्ति ||८||
युधिष्ठिर उवाच||
अनार्यमार्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करमेतदार्य |
मा मे श्रिया सङ्गमनं तयास्तु; यस्याः कृते भक्तजनं त्यजेयम् ||९||
इन्द्र उवाच||
स्वर्गे लोके श्ववतां नास्ति धिष्ण्य; मिष्टापूर्तं क्रोधवशा हरन्ति |
ततो विचार्य क्रियतां धर्मराज; त्यज श्वानं नात्र नृशंसमस्ति ||१०||
युधिष्ठिर उवाच||
भक्तत्यागं प्राहुरत्यन्तपापं; तुल्यं लोके ब्रह्मवध्याकृतेन |
तस्मान्नाहं जातु कथञ्चनाद्य; त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र ||११||
इन्द्र उवाच||
शुना दृष्टं क्रोधवशा हरन्ति; यद्दत्तमिष्टं विवृतमथो हुतं च |
तस्माच्छुनस्त्यागमिमं कुरुष्व; शुनस्त्यागात्प्राप्स्यसे देवलोकम् ||१२||
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर |
श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ||१३||
युधिष्ठिर उवाच||
न विद्यते सन्धिरथापि विग्रहो; मृतैर्मर्त्यैरिति लोकेषु निष्ठा |
न ते मया जीवयितुं हि शक्या; तस्मात्त्यागस्तेषु कृतो न जीवताम् ||१४||
प्रतिप्रदानं शरणागतस्य; स्त्रिया वधो ब्राह्मणस्वापहारः |
मित्रद्रोहस्तानि चत्वारि शक्र; भक्तत्यागश्चैव समो मतो मे ||१५||
वैशम्पायन उवाच||
तद्धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवानुवाच |
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं; श्लक्ष्णैर्वाक्यैः संस्तवसम्प्रयुक्तैः ||१६||
अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया |
अनुक्रोशेन चानेन सर्वभूतेषु भारत ||१७||
पुरा द्वैतवने चासि मया पुत्र परीक्षितः |
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ||१८||
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ |
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ||१९||
अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया |
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप ||२०||
अतस्तवाक्षया लोकाः स्वशरीरेण भारत |
प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ||२१||
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि |
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ||२२||
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः |
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ||२३||
स तं रथं समास्थाय राजा कुरुकुलोद्वहः |
ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी ||२४||
ततो देवनिकायस्थो नारदः सर्वलोकवित् |
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ||२५||
येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः |
कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ||२६||
लोकानावृत्य यशसा तेजसा वृत्तसम्पदा |
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात् ||२७||
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् |
देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ||२८||
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे |
तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये ||२९||
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः |
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ||३०||
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः |
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ||३१||
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् |
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन ||३२||
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप |
स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ||३३||
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् |
पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ||३४||
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण |
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ||३५||
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता |
द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम ||३६||
महाप्रस्थानिकपर्व सम्पूर्णम्