श्रीः
श्रीमहाभारतम्
||१६ मौसलपर्वम् ||
001-अध्यायः
वैशम्पायन उवाच||
षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः |
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ||१||
ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः |
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ||२||
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः |
उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि ||३||
आदित्यो रजसा राजन्समवच्छन्नमण्डलः |
विरश्मिरुदये नित्यं कबन्धैः समदृश्यत ||४||
परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः |
त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ||५||
एते चान्ये च बहव उत्पाता भयशंसिनः |
दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः ||६||
कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः |
शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् ||७||
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः |
समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत ||८||
परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् |
वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन् ||९||
निधनं वासुदेवस्य समुद्रस्येव शोषणम् |
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ||१०||
मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः |
विषण्णा हतसङ्कल्पाः पाण्डवाः समुपाविशन् ||११||
श्रीमहाभारतम्
||१६ मौसलपर्वम् ||
002-अध्यायः
मुनिशापात्साम्बस्य मुसलप्रसवः
जनमेजय उवाच||
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह |
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ||१||
वैशम्पायन उवाच||
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् |
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ||२||
जनमेजय उवाच||
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः |
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ||३||
वैशम्पायन उवाच||
विश्वामित्रं च कण्वं च नारदं च तपोधनम् |
सारणप्रमुखा वीरा ददृशुर्द्वारकागतान् ||४||
ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा |
अब्रुवन्नुपसङ्गम्य दैवदण्डनिपीडिताः ||५||
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः |
ऋषयः साधु जानीत किमियं जनयिष्यति ||६||
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः |
प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप ||७||
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् |
वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ||८||
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः |
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ||९||
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः |
जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति ||१०||
इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः |
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ||११||
तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः |
अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः |
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ||१३||
एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् |
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ||१४||
श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै |
वृष्ण्यन्धकविनाशाय किङ्करप्रतिमं महत् ||१५||
प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन् |
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ||१६||
प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात् |
अघोषयंश्च नगरे वचनादाहुकस्य च ||१७||
अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह |
सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ||१८||
यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् |
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ||१९||
ततो राजभयात्सर्वे नियमं चक्रिरे तदा |
नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः ||२०||
श्रीमहाभारतम्
||१६ मौसलपर्वम् ||
003-अध्यायः
उत्पातदर्शनम्
वैशम्पायन उवाच||
एवं प्रयतमानानां वृष्णीनामन्धकैः सह |
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ||१||
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः |
गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् ||२||
उत्पेदिरे महावाता दारुणाश्चा दिने दिने |
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ||३||
विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा |
चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु ||४||
नोपशाम्यति शब्दश्च स दिवारात्रमेव हि ||४||
अनुकुर्वन्नुलूकानां सारसा विरुतं तथा |
अजाः शिवानां च रुतमन्वकुर्वत भारत ||५||
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः |
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ||६||
व्यजायन्त खरा गोषु करभाश्वतरीषु च |
शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ||७||
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा |
प्राद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ||८||
गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ |
पत्न्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा ||९||
विभावसुः प्रज्वलितो वामं विपरिवर्तते |
नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक् ||१०||
उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः |
व्यदृश्यतासकृत्पुम्भिः कबन्धैः परिवारितः ||११||
महानसेषु सिद्धेऽन्ने संस्कृतेऽतीव भारत |
आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप ||१२||
पुण्याहे वाच्यमाने च जपत्सु च महात्मसु |
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ||१३||
परस्परं च नक्षत्रं हन्यमानं पुनः पुनः |
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन ||१४||
नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने |
समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः ||१५||
एवं पश्यन्हृषीकेशः सम्प्राप्तं कालपर्ययम् |
त्रयोदश्याममावास्यां तां दृष्ट्वा प्राब्रवीदिदम् ||१६||
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः |
तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ||१७||
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः |
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ||१८||
पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा |
यदनुव्याजहारार्ता तदिदं समुपागतम् ||१९||
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः |
पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान् ||२०||
इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत् |
आज्ञापयामास तदा तीर्थयात्रामरिंदम ||२१||
अघोषयन्त पुरुषास्तत्र केशवशासनात् |
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ||२२||
श्रीमहाभारतम्
||१६ मौसलपर्वम् ||
004-अध्यायः
वृष्ण्यन्धकादिविनाशः
वैशम्पायन उवाच||
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि |
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ||१||
अलङ्काराश्च छत्रं च ध्वजाश्च कवचानि च |
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ||२||
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् |
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ||३||
युक्तं रथं दिव्यमादित्यवर्णं; हयाहरन्पश्यतो दारुकस्य |
ते सागरस्योपरिष्ठादवर्त; न्मनोजवाश्चतुरो वाजिमुख्याः ||४||
तालः सुपर्णश्च महाध्वजौ तौ; सुपूजितौ रामजनार्दनाभ्याम् |
उच्चैर्जह्रुरप्सरसो दिवानिशं; वाचश्चोचुर्गम्यतां तीर्थयात्रा ||५||
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः |
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ||६||
ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः |
बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः ||७||
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः |
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ||८||
ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् |
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ||९||
निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित् |
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ||१०||
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् |
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ||११||
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः |
अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी ||१२||
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् |
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ||१३||
ततस्तूर्यशताकीर्णं नटनर्तकसङ्कुलम् |
प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् ||१४||
कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा |
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ||१५||
ततः परिषदो मध्ये युयुधानो मदोत्कटः |
अब्रवीत्कृतवर्माणमवहस्यावमन्य च ||१६||
कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव |
न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ||१७||
इत्युक्ते युयुधानेन पूजयामास तद्वचः |
प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च ||१८||
ततः परमसङ्क्रुद्धः कृतवर्मा तमब्रवीत् |
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ||१९||
भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया |
वधेन सुनृशंसेन कथं वीरेण पातितः ||२०||
इति तस्य वचः श्रुत्वा केशवः परवीरहा |
तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् ||२१||
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् |
तां कथां स्मारयामास सात्यकिर्मधुसूदनम् ||२२||
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा |
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ||२३||
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् |
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ||२४||
एष गच्छामि पदवीं सत्येन च तथा शपे |
सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ||२५||
द्रोणपुत्रसहायेन पापेन कृतवर्मणा |
समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे ||२६||
इतीदमुक्त्वा खड्गेन केशवस्य समीपतः |
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ||२७||
तथान्यानपि निघ्नन्तं युयुधानं समन्ततः |
अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा ||२८||
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः |
भोजान्धका महाराज शैनेयं पर्यवारयन् ||२९||
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः |
न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ||३०||
ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना |
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ||३१||
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः |
तदन्तरमुपाधावन्मोक्षयिष्यञ्शिनेः सुतम् ||३२||
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह |
बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ||३३||
हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः |
एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ||३४||
तदभून्मुसलं घोरं वज्रकल्पमयोमयम् |
जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन् ||३५||
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा |
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ||३६||
यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप |
वज्रभूतेव सा राजन्नदृश्यत तदा विभो ||३७||
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत |
ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ||३८||
आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम् |
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ||३९||
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत |
मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् ||४०||
पतङ्गा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः |
नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ||४१||
तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम् |
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ||४२||
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः |
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ||४३||
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः |
स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ||४४||
तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः |
दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् ||४५||
भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत |
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ||४६||
श्रीमहाभारतम्
||१६ मौसलपर्वम् ||
005-अध्यायः
रामकृष्णावतारसमाप्तिः
वैशम्पायन उवाच||
ततो ययुर्दारुकः केशवश्च; बभ्रुश्च रामस्य पदं पतन्तः |
अथापश्यन्राममनन्तवीर्यं; वृक्षे स्थितं चिन्तयानं विविक्ते ||१||
ततः समासाद्य महानुभावः; कृष्णस्तदा दारुकमन्वशासत् |
गत्वा कुरूञ्शीघ्रमिमं महान्तं; पार्थाय शंसस्व वधं यदूनाम् ||२||
ततोऽर्जुनः क्षिप्रमिहोपयातु; श्रुत्वा मृतान्यादवान्ब्रह्मशापात् |
इत्येवमुक्तः स ययौ रथेन; कुरूंस्तदा दारुको नष्टचेताः ||३||
ततो गते दारुके केशवोऽथ; दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् |
स्त्रियो भवान्रक्षतु यातु शीघ्रं; नैता हिंस्युर्दस्यवो वित्तलोभात् ||४||
स प्रस्थितः केशवेनानुशिष्टो; मदातुरो ज्ञातिवधार्दितश्च |
तं वै यान्तं संनिधौ केशवस्य; त्वरन्तमेकं सहसैव बभ्रुम् ||५||
ब्रह्मानुशप्तमवधीन्महद्वै; कूटोन्मुक्तं मुसलं लुब्धकस्य ||५||
ततो दृष्ट्वा निहतं बभ्रुमाह; कृष्णो वाक्यं भ्रातरमग्रजं तु |
इहैव त्वं मां प्रतीक्षस्व राम; यावत्स्त्रियो ज्ञातिवशाः करोमि ||६||
ततः पुरीं द्वारवतीं प्रविश्य; जनार्दनः पितरं प्राह वाक्यम् |
स्त्रियो भवान्रक्षतु नः समग्रा; धनञ्जयस्यागमनं प्रतीक्षन् ||७||
रामो वनान्ते प्रतिपालयन्मा; मास्तेऽद्याहं तेन समागमिष्ये ||७||
दृष्टं मयेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुङ्गवानाम् |
नाहं विना यदुभिर्यादवानां; पुरीमिमां द्रष्टुमिहाद्य शक्तः ||८||
तपश्चरिष्यामि निबोध तन्मे; रामेण सार्धं वनमभ्युपेत्य |
इतीदमुक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस्त्वरितो जगाम ||९||
ततो महान्निनदः प्रादुरासी; त्सस्त्रीकुमारस्य पुरस्य तस्य |
अथाब्रवीत्केशवः संनिवर्त्य; शब्दं श्रुत्वा योषितां क्रोशतीनाम् ||१०||
पुरीमिमामेष्यति सव्यसाची; स वो दुःखान्मोचयिता नराग्र्यः |
ततो गत्वा केशवस्तं ददर्श; रामं वने स्थितमेकं विविक्ते ||११||
अथापश्यद्योगयुक्तस्य तस्य; नागं मुखान्निःसरन्तं महान्तम् |
श्वेतं ययौ स ततः प्रेक्ष्यमाणो; महार्णवो येन महानुभावः ||१२||
सहस्रशीर्षः पर्वताभोगवर्ष्मा; रक्ताननः स्वां तनुं तां विमुच्य |
सम्यक्च तं सागरः प्रत्यगृह्णा; न्नागा दिव्याः सरितश्चैव पुण्याः ||१३||
कर्कोटको वासुकिस्तक्षकश्च; पृथुश्रवा वरुणः कुञ्जरश्च |
मिश्री शङ्खः कुमुदः पुण्डरीक; स्तथा नागो धृतराष्ट्रो महात्मा ||१४||
ह्रादः क्राथः शितिकण्ठोऽग्रतेजा; स्तथा नागौ चक्रमन्दातिषण्डौ |
नागश्रेष्ठो दुर्मुखश्चाम्बरीषः; स्वयं राजा वरुणश्चापि राजन् ||१५||
प्रत्युद्गम्य स्वागतेनाभ्यनन्दं; स्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः ||१५||
ततो गते भ्रातरि वासुदेवो; जानन्सर्वा गतयो दिव्यदृष्टिः |
वने शून्ये विचरंश्चिन्तयानो; भूमौ ततः संविवेशाग्र्यतेजाः ||१६||
सर्वं हि तेन प्राक्तदा वित्तमासी; द्गान्धार्या यद्वाक्यमुक्तः स पूर्वम् |
दुर्वाससा पायसोच्छिष्टलिप्ते; यच्चाप्युक्तं तच्च सस्मार कृष्णः ||१७||
स चिन्तयानोऽन्धकवृष्णिनाशं; कुरुक्षयं चैव महानुभावः |
मेने ततः सङ्क्रमणस्य कालं; ततश्चकारेन्द्रियसंनिरोधम् ||१८||
स संनिरुद्धेन्द्रियवाङ्मनास्तु; शिश्ये महायोगमुपेत्य कृष्णः |
जराथ तं देशमुपाजगाम; लुब्धस्तदानीं मृगलिप्सुरुग्रः ||१९||
स केशवं योगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेन |
जराविध्यत्पादतले त्वरावां; स्तं चाभितस्तज्जिघृक्षुर्जगाम ||२०||
अथापश्यत्पुरुषं योगयुक्तं; पीताम्बरं लुब्धकोऽनेकबाहुम् ||२०||
मत्वात्मानमपराद्धं स तस्य; जग्राह पादौ शिरसा चार्तरूपः |
आश्वासयत्तं महात्मा तदानीं; गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ||२१||
दिवं प्राप्तं वासवोऽथाश्विनौ च; रुद्रादित्या वसवश्चाथ विश्वे |
प्रत्युद्ययुर्मुनयश्चापि सिद्धा; गन्धर्वमुख्याश्च सहाप्सरोभिः ||२२||
ततो राजन्भगवानुग्रतेजा; नारायणः प्रभवश्चाव्ययश्च |
योगाचार्यो रोदसी व्याप्य लक्ष्म्या; स्थानं प्राप स्वं महात्माप्रमेयम् ||२३||
ततो देवैरृषिभिश्चापि कृष्णः; समागतश्चारणैश्चैव राजन् |
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः; सिद्धैः साध्यैश्चानतैः पूज्यमानः ||२४||
ते वै देवाः प्रत्यनन्दन्त राज; न्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम् |
गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः; प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ||२५||
श्रीमहाभारतम्
||१६ मौसलपर्वम् ||
006-अध्यायः
अर्जुनागमनम्
वैशम्पायन उवाच||
दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् |
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ||१||
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान् |
पाण्डवाः शोकसन्तप्ता वित्रस्तमनसोऽभवन् ||२||
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा |
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ||३||
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो |
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ||४||
याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् |
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ||५||
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः |
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ||६||
तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः |
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ||७||
तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् |
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ||८||
रत्नशैवलसङ्घाटां वज्रप्राकारमालिनीम् |
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ||९||
रामकृष्णमहाग्राहां द्वारकासरितं तदा |
कालपाशग्रहां घोरां नदीं वैतरणीमिव ||१०||
तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुङ्गवैः |
गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ||११||
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः |
सस्वनं बाष्पमुत्सृज्य निपपात महीतले ||१२||
सात्राजिती ततः सत्या रुक्मिणी च विशां पते |
अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम् ||१३||
ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य च |
अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ||१४||
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः |
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ||१५||
श्रीमहाभारतम्
||१६ मौसलपर्वम् ||
007-अध्यायः
वसुदेवविलापः
वैशम्पायन उवाच||
तं शयानं महात्मानं वीरमानकदुन्दुभिम् |
पुत्रशोकाभिसन्तप्तं ददर्श कुरुपुङ्गवः ||१||
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः |
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ||२||
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः |
रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः ||३||
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि ||३||
वसुदेव उवाच||
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन |
तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ||४||
यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा |
तयोरपनयात्पार्थ वृष्णयो निधनं गताः ||५||
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ |
प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ ||६||
नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः |
तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय ||७||
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन |
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ||८||
केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः |
विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम् ||९||
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् |
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ||१०||
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् |
सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः ||११||
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि |
शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम् ||१२||
सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ |
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् ||१३||
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् |
स तु श्रुत्वा महातेजा यदूनामनयं प्रभो ||१४||
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ||१४||
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु |
यद्ब्रूयात्तत्तथा कार्यमिति बुध्यस्व माधव ||१५||
स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च |
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् ||१६||
इमां च नगरीं सद्यः प्रतियाते धनञ्जये |
प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति ||१७||
अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः |
कालं कर्ता सद्य एव रामेण सह धीमता ||१८||
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः |
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ||१९||
सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव |
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ||२०||
न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव |
यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ||२१||
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह |
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ||२२||
श्रीमहाभारतम्
||१६ मौसलपर्वम् ||
008-अध्यायः
वसुदेवनिधनम् | वज्राभिषेकः
वैशम्पायन उवाच||
एवमुक्तः स बीभत्सुर्मातुलेन परन्तपः |
दुर्मना दीनमनसं वसुदेवमुवाच ह ||१||
नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल |
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ||२||
राजा च भीमसेनश्च सहदेवश्च पाण्डवः |
नकुलो याज्ञसेनी च षडेकमनसो वयम् ||३||
राज्ञः सङ्क्रमणे चापि कालोऽयं वर्तते ध्रुवम् |
तमिमं विद्धि सम्प्राप्तं कालं कालविदां वर ||४||
सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च |
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ||५||
इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः |
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ||६||
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् |
प्रविवेशार्जुनः शूरः शोचमानो महारथान् ||७||
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा |
ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे ||८||
तान्दीनमनसः सर्वान्निभृतान्गतचेतसः |
उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा ||९||
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् |
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ||१०||
सज्जीकुरुत यानानि रत्नानि विविधानि च |
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ||११||
सप्तमे दिवसे चैव रवौ विमल उद्गते |
बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम् ||१२||
इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा |
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ||१३||
तां रात्रिमवसत्पार्थः केशवस्य निवेशने |
महता शोकमोहेन सहसाभिपरिप्लुतः ||१४||
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् |
युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् ||१५||
ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि |
दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ||१६||
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः |
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः ||१७||
तं देवकी च भद्रा च रोहिणी मदिरा तथा |
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ||१८||
ततः शौरिं नृयुक्तेन बहुमाल्येन भारत |
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ||१९||
तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः |
द्वारकावासिनः पौराः सर्व एव नरर्षभ ||२०||
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः |
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ||२१||
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः |
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ||२२||
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः |
तत्रैनमुपसङ्कल्प्य पितृमेधं प्रचक्रिरे ||२३||
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः |
ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ||२४||
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः |
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ||२५||
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः |
सामगानां च निर्घोषो नराणां रुदतामपि ||२६||
ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः |
सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः ||२७||
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः |
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ||२८||
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः |
बभूवातीव कौरव्यः प्राप्तकालं चकार च ||२९||
यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा |
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ||३०||
ततः शरीरे रामस्य वासुदेवस्य चोभयोः |
अन्विष्य दाहयामास पुरुषैराप्तकारिभिः ||३१||
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः |
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ||३२||
अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ||३२||
स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः |
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम् ||३३||
भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये |
वीरहीनं वृद्धबालं पौरजानपदास्तथा ||३४||
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ||३४||
कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा |
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ||३५||
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः |
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ||३६||
दश षट्च सहस्राणि वासुदेवावरोधनम् |
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ||३७||
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च |
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ||३८||
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् |
उवाह रथिनां श्रेष्ठः पार्थः परपुरञ्जयः ||३९||
निर्याते तु जने तस्मिन्सागरो मकरालयः |
द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत्तदा ||४०||
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः |
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ||४१||
काननेषु च रम्येषु पर्वतेषु नदीषु च |
निवसन्नानयामास वृष्णिदारान्धनञ्जयः ||४२||
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् |
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ||४३||
ततो लोभः समभवद्दस्यूनां निहतेश्वराः |
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ||४४||
ततस्ते पापकर्माणो लोभोपहतचेतसः |
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ||४५||
अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् |
नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः ||४६||
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः |
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ||४७||
महता सिंहनादेन द्रावयन्तः पृथग्जनम् |
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ||४८||
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः |
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ||४९||
निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः |
नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ||५०||
तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः |
अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः ||५१||
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् |
आरोपयितुमारेभे यत्नादिव कथञ्चन ||५२||
चकार सज्यं कृच्छ्रेण सम्भ्रमे तुमुले सति |
चिन्तयामास चास्त्राणि न च सस्मार तान्यपि ||५३||
वैकृत्यं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि |
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ||५४||
वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः |
न शेकुरावर्तयितुं ह्रियमाणं च तं जनम् ||५५||
कलत्रस्य बहुत्वात्तु सम्पतत्सु ततस्ततः |
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ||५६||
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः |
समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ||५७||
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जयः |
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः ||५८||
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः |
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ||५९||
स शरक्षयमासाद्य दुःखशोकसमाहतः |
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ||६०||
प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः |
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ||६१||
धनञ्जयस्तु दैवं तन्मनसाचिन्तयत्प्रभुः |
दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् ||६२||
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य सङ्क्षयात् |
धनुषश्चाविधेयत्वाच्छराणां सङ्क्षयेण च ||६३||
बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन् |
न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत् ||६४||
ततः स शेषमादाय कलत्रस्य महामतिः |
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ||६५||
एवं कलत्रमानीय वृष्णीनां हृतशेषितम् |
न्यवेशयत कौरव्यस्तत्र तत्र धनञ्जयः ||६६||
हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् |
भोजराजकलत्रं च हृतशेषं नरोत्तमः ||६७||
ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः |
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ||६८||
यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् |
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ||६९||
इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा |
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ||७०||
रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि |
देवी जाम्बवती चैव विविशुर्जातवेदसम् ||७१||
सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः |
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ||७२||
द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः |
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ||७३||
स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः |
कृष्णद्वैपायनं राजन्ददर्शासीनमाश्रमे ||७४||
श्रीमहाभारतम्
||१६ मौसलपर्वम् ||
009-अध्यायः
व्यासार्जुनसमागमः
वैशम्पायन उवाच||
प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः |
ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् ||१||
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् |
अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः ||२||
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः |
आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ||३||
तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः |
निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ||४||
अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया |
युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे ||५||
न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ |
श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ||६||
अर्जुन उवाच||
यः स मेधवपुः श्रीमान्बृहत्पङ्कजलोचनः |
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ||७||
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः |
बभूव वीरान्तकरः प्रभासे रोमहर्षणः ||८||
ये ते शूरा महात्मानः सिंहदर्पा महाबलाः |
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ||९||
गदापरिघशक्तीनां सहाः परिघबाहवः |
त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ||१०||
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् |
निधनं समनुप्राप्तं समासाद्येतरेतरम् ||११||
पुनः पुनर्न मृश्यामि विनाशममितौजसाम् |
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ||१२||
शोषणं सागरस्येव पर्वतस्येव चालनम् |
नभसः पतनं चैव शैत्यमग्नेस्तथैव च ||१३||
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः |
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ||१४||
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन |
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ||१५||
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः |
आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ||१६||
धनुरादाय तत्राहं नाशकं तस्य पूरणे |
यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत् ||१७||
अस्त्राणि मे प्रनष्टानि विविधानि महामुने |
शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ||१८||
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः |
चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ||१९||
यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः |
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ||२०||
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा |
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् ||२१||
तमपश्यन्विषीदामि घूर्णामीव च सत्तम |
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ||२२||
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे |
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ||२३||
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः |
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ||२४||
व्यास उवाच||
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः |
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ||२५||
भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम् |
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ||२६||
त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् |
प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ||२७||
रथस्य पुरतो याति यः स चक्रगदाधरः |
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ||२८||
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः |
मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ||२९||
त्वया त्विह महत्कर्म देवानां पुरुषर्षभ |
कृतं भीमसहायेन यमाभ्यां च महाभुज ||३०||
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव |
गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ||३१||
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत |
भवन्ति भवकालेषु विपद्यन्ते विपर्यये ||३२||
कालमूलमिदं सर्वं जगद्बीजं धनञ्जय |
काल एव समादत्ते पुनरेव यदृच्छया ||३३||
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः |
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ||३४||
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् |
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ||३५||
कालो गन्तुं गतिं मुख्यां भवतामपि भारत |
एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ||३६||
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः |
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ||३७||
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् |
आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति ||३८||
मौसलपर्व सम्पूर्णम्