श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
192-अध्यायः
धुन्धुमारोपाख्यानम्
वैशम्पायन उवाच||
युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ |
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ||१||
विदितास्तव धर्मज्ञ देवदानवराक्षसाः |
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ||२||
न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजोत्तम ||२||
कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् |
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज ||३||
कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः |
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ||४||
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम |
विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः ||५||
मार्कण्डेय उवाच||
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर |
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ||६||
यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः |
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ||७||
महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत |
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ||८||
उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम् |
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो ||९||
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् |
दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः ||१०||
त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः |
स्थावराणि च भूतानि जङ्गमानि तथैव च ||११||
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ||११||
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ |
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ||१२||
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ||१२||
ऊरू ते पर्वता देव खं नाभिर्मधुसूदन |
पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा ||१३||
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः |
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ||१४||
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर |
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ||१५||
त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम् |
भयानामपनेतासि त्वमेकः पुरुषोत्तम ||१६||
देवानां मानुषाणां च सर्वभूतसुखावहः |
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः ||१७||
असुराणां समृद्धानां विनाशश्च त्वया कृतः ||१७||
तव विक्रमणैर्देवा निर्वाणमगमन्परम् |
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते ||१८||
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः |
आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः ||१९||
एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना |
उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ||२०||
उत्तङ्क उवाच||
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् |
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ||२१||
विष्णुरुवाच||
प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम |
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ||२२||
एवं सञ्छन्द्यमानस्तु वरेण हरिणा तदा |
उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ||२३||
यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः |
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा ||२४||
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर ||२४||
विष्णुरुवाच||
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज |
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ||२५||
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ||२५||
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः |
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ||२६||
बृहदश्व इति ख्यातो भविष्यति महीपतिः |
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः ||२७||
स योगबलमास्थाय मामकं पार्थिवोत्तमः |
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ||२८||
मार्कण्डेय उवाच||
उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत |
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
193-अध्यायः
मार्कण्डेय उवाच||
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् |
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ||१||
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् |
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ||२||
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान् |
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ||३||
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता |
श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ||४||
बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः ||४||
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः |
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ||५||
कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत् |
समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत् ||६||
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ||६||
पुत्रसङ्क्रामितश्रीस्तु बृहदश्वो महीपतिः |
जगाम तपसे धीमांस्तपोवनममित्रहा ||७||
अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर |
वनं सम्प्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ||८||
तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् |
न्यवारयदमेयात्मा समासाद्य नरोत्तमम् ||९||
उत्तङ्क उवाच||
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि |
निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि ||१०||
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना |
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ||११||
पालने हि महान्धर्मः प्रजानामिह दृश्यते |
न तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी ||१२||
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते |
प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः ||१३||
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ||१३||
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव |
ममाश्रमसमीपे वै समेषु मरुधन्वसु ||१४||
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः |
बहुयोजनविस्तीर्णो बहुयोजनमायतः ||१५||
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः |
मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः ||१६||
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः |
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ||१७||
शेते लोकविनाशाय तप आस्थाय दारुणम् |
त्रिदशानां विनाशाय लोकानां चापि पार्थिव ||१८||
अवध्यो देवतानां स दैत्यानामथ रक्षसाम् |
नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः ||१९||
अवाप्य स वरं राजन्सर्वलोकपितामहात् ||१९||
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा |
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ||२०||
क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै |
संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते ||२१||
यदा तदा भूश्चलति सशैलवनकानना ||२१||
तस्य निःश्वासवातेन रज उद्धूयते महत् |
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ||२२||
सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् ||२२||
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे |
तं विनाशय राजेन्द्र लोकानां हितकाम्यया ||२३||
लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे ||२३||
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः |
तेजसा तव तेजश्च विष्णुराप्याययिष्यति ||२४||
विष्णुना च वरो दत्तो मम पूर्वं ततो वधे |
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः ||२५||
तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् ||२५||
तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम् |
तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् ||२६||
न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते |
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ||२७||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
194-अध्यायः
मार्कण्डेय उवाच||
स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः |
उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत् ||१||
न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति |
पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः ||२||
धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि |
प्रियं वै सर्वमेतत्ते करिष्यति न संशयः ||३||
पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः |
विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि साम्प्रतम् ||४||
तथास्त्विति च तेनोक्तो मुनिनामिततेजसा |
स तमादिश्य तनयमुत्तङ्काय महात्मने ||५||
क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् ||५||
युधिष्ठिर उवाच||
क एष भगवन्दैत्यो महावीर्यस्तपोधन |
कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् ||६||
एवं महाबलो दैत्यो न श्रुतो मे तपोधन |
एतदिच्छामि भगवन्याथातथ्येन वेदितुम् ||७||
सर्वमेव महाप्राज्ञ विस्तरेण तपोधन ||७||
मार्कण्डेय उवाच||
शृणु राजन्निदं सर्वं यथावृत्तं नराधिप |
एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे ||८||
प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ||८||
प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः |
सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह ||९||
नागस्य भोगे महति शेषस्यामिततेजसः ||९||
लोककर्ता महाभाग भगवानच्युतो हरिः |
नागभोगेन महता परिरभ्य महीमिमाम् ||१०||
स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् |
नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः ||११||
साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे ||११||
चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः |
स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः ||१२||
कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ |
मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् ||१३||
शयानं शयने दिव्ये नागभोगे महाद्युतिम् |
बहुयोजनविस्तीर्णे बहुयोजनमायते ||१४||
किरीटकौस्तुभधरं पीतकौशेयवाससम् |
दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा ||१५||
सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् ||१५||
विस्मयः सुमहानासीन्मधुकैटभयोस्तदा |
दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् ||१६||
वित्रासयेतामथ तौ ब्रह्माणममितौजसम् |
वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः ||१७||
अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः ||१७||
अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ |
दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ ||१८||
ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते ||१८||
तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ |
प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् ||१९||
आवां वरय देव त्वं वरदौ स्वः सुरोत्तम |
दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् ||२०||
भगवानुवाच||
प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम |
युवां हि वीर्यसम्पन्नौ न वामस्ति समः पुमान् ||२१||
वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ |
एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै ||२२||
मधुकैटभावूचतुः||
अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा |
सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम ||२३||
बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ |
धर्मे तपसि दाने च शीलसत्त्वदमेषु च ||२४||
उपप्लवो महानस्मानुपावर्तत केशव |
उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः ||२५||
आवामिच्छावहे देव कृतमेकं त्वया विभो |
अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम ||२६||
पुत्रत्वमभिगच्छाव तव चैव सुलोचन |
वर एष वृतो देव तद्विद्धि सुरसत्तम ||२७||
भगवानुवाच||
बाढमेवं करिष्यामि सर्वमेतद्भविष्यति |
मार्कण्डेय उवाच||
विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम् |
अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः ||२९||
स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा |
मधुकैटभयो राजञ्शिरसी मधुसूदनः ||३०||
चक्रेण शितधारेण न्यकृन्तत महायशाः ||३०||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
195-अध्यायः
मार्कण्डेय उवाच||
धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः |
स तपोऽतप्यत महन्महावीर्यपराक्रमः ||१||
अतिष्ठदेकपादेन कृशो धमनिसन्ततः |
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो ||२||
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् |
अवध्योऽहं भवेयं वै वर एष वृतो मया ||३||
एवं भवतु गच्छेति तमुवाच पितामहः |
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह ||४||
स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः |
अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत् ||५||
स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः |
बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम् ||६||
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः |
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ ||७||
बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो ||७||
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा |
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ||८||
शेते लोकविनाशाय तपोबलसमाश्रितः |
उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ||९||
एतस्मिन्नेव काले तु सभृत्यबलवाहनः |
कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ||१०||
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः |
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् ||११||
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः |
उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया ||१२||
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् |
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ||१३||
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् |
देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः ||१४||
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः |
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः ||१५||
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर |
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ||१६||
कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः |
देवगन्धर्वसहिताः समवैक्षन्महर्षयः ||१७||
नारायणेन कौरव्य तेजसाप्यायितस्तदा |
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् ||१८||
अर्णवं खानयामास कुवलाश्वो महीपतिः |
कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे ||१९||
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः |
आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत् ||२०||
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ||२०||
ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम् |
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ||२१||
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः |
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ||२२||
पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः ||२२||
स वध्यमानः सङ्क्रुद्धः समुत्तस्थौ महाबलः |
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ||२३||
आस्याद्वमन्पावकं स संवर्तकसमं तदा |
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ||२४||
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव |
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ||२५||
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ||२५||
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम |
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् ||२६||
आससाद महातेजाः कुवलाश्वो महीपतिः ||२६||
तस्य वारि महाराज सुस्राव बहु देहतः |
तदापीयत तत्तेजो राजा वारिमयं नृप ||२७||
योगी योगेन वह्निं च शमयामास वारिणा ||२७||
ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् |
ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै ||२८||
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् |
सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः ||२९||
धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः ||२९||
प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा |
वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा ||३०||
अतीव मुदितो राजन्निदं वचनमब्रवीत् ||३०||
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः |
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च ||३१||
धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः ||३१||
तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः |
ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता ||३२||
सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम् |
देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे ||३३||
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन् |
दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत ||३४||
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ||३४||
एवं स निहतस्तेन कुवलाश्वेन सत्तम |
धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः ||३५||
कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः |
नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत् ||३६||
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि |
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ||३७||
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् |
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ||३८||
आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु |
न च व्याधिभयं किञ्चित्प्राप्नोति विगतज्वरः ||३९||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
196-अध्यायः
पतिव्रतोपाख्यानम्
वैशम्पायन उवाच||
ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् |
पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् ||१||
श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम् |
कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः ||२||
प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम |
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ||३||
पिता माता च भगवन्गाव एव च सत्तम |
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ||४||
मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः |
पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे ||५||
पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो |
निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ ||६||
पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः ||६||
भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो |
मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज ||७||
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् |
साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः ||८||
दुष्करं बत कुर्वन्ति पितरो मातरश्च वै ||८||
एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत |
कुक्षिणा दश मासांश्च गर्भं सन्धारयन्ति याः ||९||
नार्यः कालेन सम्भूय किमद्भुततरं ततः ||९||
संशयं परमं प्राप्य वेदनामतुलामपि |
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ||१०||
पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम ||१०||
ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः |
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ||११||
क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज |
धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना ||१२||
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर |
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ||१३||
मार्कण्डेय उवाच||
हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम् |
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ||१४||
मातरं सदृशीं तात पितॄनन्ये च मन्यते |
दुष्करं कुरुते माता विवर्धयति या प्रजाः ||१५||
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया |
अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् ||१६||
एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् |
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ||१७||
आशंसते च पुत्रेषु पिता माता च भारत |
यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च ||१८||
तयोराशां तु सफलां यः करोति स धर्मवित् |
पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा ||१९||
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः ||१९||
नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् |
या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते ||२०||
एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर |
प्रतिव्रतानां नियतं धर्मं चावहितः शृणु ||२१||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
197-अध्यायः
मार्कण्डेय उवाच||
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः |
तपस्वी धर्मशीलश्च कौशिको नाम भारत ||१||
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः |
स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ||२||
उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत |
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ||३||
तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः |
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ||४||
अपध्याता च विप्रेण न्यपतद्वसुधातले |
बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् ||५||
कारुण्यादभिसन्तप्तः पर्यशोचत तां द्विजः ||५||
अकार्यं कृतवानस्मि रागद्वेषबलात्कृतः |
इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः ||६||
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ |
प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः ||७||
देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः |
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी ||८||
एतस्मिन्नन्तरे राजन्क्षुधासम्पीडितो भृशम् |
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ||९||
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् |
पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम् ||१०||
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा |
आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ||११||
उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर |
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ||१२||
न कर्मणा न मनसा नात्यश्नान्नापि चापिबत् |
तं सर्वभावोपगता पतिशुश्रूषणे रता ||१३||
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी |
भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते ||१४||
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा |
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ||१५||
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् |
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ||१६||
व्रीडिता साभवत्साध्वी तदा भरतसत्तम |
भिक्षामादाय विप्राय निर्जगाम यशस्विनी ||१७||
ब्राह्मण उवाच||
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने |
उपरोधं कृतवती न विसर्जितवत्यसि ||१८||
मार्कण्डेय उवाच||
ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा |
दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् ||१९||
क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत् |
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया ||२०||
ब्राह्मण उवाच||
ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः |
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ||२१||
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि |
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ||२२||
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ||२२||
स्त्र्युवाच||
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः |
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ||२३||
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् |
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ||२४||
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् |
येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति ||२५||
ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान् |
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ||२६||
प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम् |
क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् ||२७||
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ |
पतिशुश्रूषया धर्मो यः स मे रोचते द्विज ||२८||
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् |
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ||२९||
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् |
बलाका हि त्वया दग्धा रोषात्तद्विदितं मम ||३०||
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम |
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ||३१||
यो वदेदिह सत्यानि गुरुं सन्तोषयेत च |
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः ||३२||
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः |
कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः ||३३||
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः |
सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः ||३४||
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा |
दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः ||३५||
ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः |
स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः ||३६||
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् |
सत्यं तथा व्याहरतां नानृते रमते मनः ||३७||
धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् |
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ||३८||
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ||३८||
दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः |
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ||३९||
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम |
भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः ||४०||
न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः ||४०||
मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः |
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ||४१||
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम ||४१||
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित |
स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः ||४२||
ब्राह्मण उवाच||
प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने |
उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् ||४३||
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ||४३||
मार्कण्डेय उवाच||
तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ |
विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम ||४४||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
198-अध्यायः
ब्राह्मणव्याधसंवादः
मार्कण्डेय उवाच||
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः |
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ||१||
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् |
श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् ||२||
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल |
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ||३||
इति सञ्चिन्त्य मनसा श्रद्दधानः स्त्रिया वचः |
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ||४||
सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः ||४||
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च |
ततो जगाम मिथिलां जनकेन सुरक्षिताम् ||५||
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् |
गोपुराट्टालकवतीं गृहप्राकारशोभिताम् ||६||
प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् |
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ||७||
अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् |
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ||८||
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् |
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ||९||
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् |
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ||१०||
आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः ||१०||
स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः |
आजगाम यतो विप्रः स्थित एकान्त आसने ||११||
व्याध उवाच||
अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम |
अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् ||१२||
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति |
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ||१३||
मार्कण्डेय उवाच||
श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः |
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ||१४||
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् |
गृहं गच्छाव भगवन्यदि रोचयसेऽनघ ||१५||
बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् |
अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति ||१६||
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः |
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ||१७||
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् |
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ||१८||
अनुतप्ये भृशं तात तव घोरेण कर्मणा ||१८||
व्याध उवाच||
कुलोचितमिदं कर्म पितृपैतामहं मम |
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ||१९||
धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम् |
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ||२०||
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च |
देवतातिथिभृत्यानामवशिष्टेन वर्तये ||२१||
न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम् |
कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ||२२||
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् |
दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत ||२३||
कर्म शूद्रे कृषिर्वैश्ये सङ्ग्रामः क्षत्रिये स्मृतः |
ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा ||२४||
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः |
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ||२५||
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते |
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ||२६||
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते |
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम ||२७||
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् |
दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् ||२८||
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति |
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ||२९||
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् |
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ||३०||
परेण हि हतान्ब्रह्मन्वराहमहिषानहम् |
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ||३१||
न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् |
सदोपवासी च तथा नक्तभोजी तथा द्विज ||३२||
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् |
प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः ||३३||
व्यभिचारान्नरेन्द्राणां धर्मः सङ्कीर्यते महान् |
अधर्मो वर्धते चापि सङ्कीर्यन्ते तथा प्रजाः ||३४||
उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च |
क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः ||३५||
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ||३५||
स एष राजा जनकः सर्वं धर्मेण पश्यति |
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ||३६||
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः |
सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् ||३७||
ये जीवन्ति स्वधर्मेण सम्भुञ्जन्ते च पार्थिवाः |
न किञ्चिदुपजीवन्ति दक्षा उत्थानशीलिनः ||३८||
शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता |
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ||३९||
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ||३९||
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः |
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ||४०||
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् |
न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् ||४१||
कर्म चेत्किञ्चिदन्यत्स्यादितरन्न समाचरेत् |
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ||४२||
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् |
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ||४३||
कर्म चैतदसाधूनां वृजिनानामसाधुवत् |
न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये ||४४||
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ||४४||
महादृतिरिवाध्मातः पापो भवति नित्यदा |
मूढानामवलिप्तानामसारं भाषितं भवेत् ||४५||
दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ||४५||
न लोके राजते मूर्खः केवलात्मप्रशंसया |
अपि चेह मृजा हीनः कृतविद्यः प्रकाशते ||४६||
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् |
न कश्चिद्गुणसम्पन्नः प्रकाशो भुवि दृश्यते ||४७||
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते |
नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ||४८||
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम |
एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते ||४९||
पापान्यबुद्ध्वेह पुरा कृतानि; प्राग्धर्मशीलो विनिहन्ति पश्चात् |
धर्मो ब्रह्मन्नुदते पूरुषाणां; यत्कुर्वते पापमिह प्रमादात् ||५०||
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः |
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ||५१||
वसनस्येव छिद्राणि साधूनां विवृणोति यः |
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ||५२||
मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः ||५२||
यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति |
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ||५३||
पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम |
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ||५४||
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ||५४||
तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः |
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ||५५||
मार्कण्डेय उवाच||
स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत |
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ||५६||
एतन्महामते व्याध प्रब्रवीहि यथातथम् ||५६||
व्याध उवाच||
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम |
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ||५७||
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् |
धर्म इत्येव सन्तुष्टास्ते शिष्टाः शिष्टसंमताः ||५८||
न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् |
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ||५९||
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च |
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ||६०||
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः |
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ||६१||
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः |
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ||६२||
ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः |
अपथा गच्छतां तेषामनुयातापि पीड्यते ||६३||
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः |
धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः ||६४||
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः |
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ||६५||
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् |
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ||६६||
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् |
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ||६७||
क्रमेण सञ्चितो धर्मो बुद्धियोगमयो महान् |
शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि ||६८||
अहिंसा सत्यवचनं सर्वभूतहितं परम् |
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ||६९||
सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ||६९||
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् |
आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः ||७०||
यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते |
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ||७१||
आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः |
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ||७२||
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः |
ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते ||७३||
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः |
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ||७४||
तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् |
स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति ||७५||
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् |
धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ||७६||
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः |
श्रुतवृत्तोपसम्पन्नाः ते सन्तः स्वर्गगामिनः ||७७||
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः |
शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ||७८||
पारणं चापि विद्यानां तीर्थानामवगाहनम् |
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ||७९||
सर्वभूतदयावन्तो अहिंसानिरताः सदा |
परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः ||८०||
शुभानामशुभानां च कर्मणां फलसञ्चये |
विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ||८१||
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः |
सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे ||८२||
दातारः संविभक्तारो दीनानुग्रहकारिणः |
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ||८३||
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः |
दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् ||८४||
पीडया च कलत्रस्य भृत्यानां च समाहिताः |
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः ||८५||
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च |
एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः ||८६||
अहिंसा सत्यवचनमानृशंस्यमथार्जवम् |
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ||८७||
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः |
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ||८८||
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् |
न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् ||८९||
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः |
गच्छन्तीह सुसन्तुष्टा धर्म्यं पन्थानमुत्तमम् ||९०||
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ||९०||
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता |
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ||९१||
कर्मणा श्रुतसम्पन्नं सतां मार्गमनुत्तमम् |
शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः ||९२||
प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् |
प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ||९३||
अतिपुण्यानि पापानि तानि द्विजवरोत्तम ||९३||
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् |
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ||९४||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
199-अध्यायः
मार्कण्डेय उवाच||
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर |
यदहं ह्याचरे कर्म घोरमेतदसंशयम् ||१||
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम् |
पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् ||२||
दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् ||२||
विधिना विहिते पूर्वं निमित्तं घातको भवेत् |
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ||३||
येषां हतानां मांसानि विक्रीणामो वयं द्विज |
तेषामपि भवेद्धर्म उपभोगेन भक्षणात् ||४||
देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् ||४||
ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः |
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ||५||
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः |
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ||६||
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज |
द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा ||७||
समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः |
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ||८||
चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः ||८||
अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः |
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः ||९||
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ||९||
यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा |
भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम ||१०||
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे |
देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा ||११||
यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् ||११||
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः |
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ||१२||
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते |
सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज ||१३||
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ||१३||
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम |
पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा ||१४||
स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते |
स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः ||१५||
पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति |
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये ||१६||
द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता |
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ||१७||
कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत् ||१७||
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा |
द्विजातिपूजने चाहं धर्मे च निरतः सदा ||१८||
अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम ||१८||
कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता |
कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून् ||१९||
जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते ||१९||
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम |
सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते ||२०||
अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च |
वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज ||२१||
जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च |
उदके बहवश्चापि तत्र किं प्रतिभाति ते ||२२||
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः |
मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते ||२३||
सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम |
प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते ||२४||
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् |
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ||२५||
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः |
ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते ||२६||
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा |
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ||२७||
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा |
के न हिंसन्ति जीवन्वै लोकेऽस्मिन्द्विजसत्तम ||२८||
बहु सञ्चिन्त्य इह वै नास्ति कश्चिदहिंसकः ||२८||
अहिंसायां तु निरता यतयो द्विजसत्तम |
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ||२९||
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः |
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ||३०||
सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः |
सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः ||३१||
समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि |
गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः ||३२||
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम |
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ||३३||
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु |
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ||३४||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
200-अध्यायः
मार्कण्डेय उवाच||
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर |
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः ||१||
श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम् |
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका ||२||
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् |
अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् ||३||
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा |
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ||४||
यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम |
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ||५||
विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् |
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ||६||
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम |
सुखदुःखविपर्यासो यदा समुपपद्यते ||७||
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ||७||
यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात् |
यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् ||८||
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः |
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ||९||
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः |
वञ्चनायां च लोकस्य स सुखेनेह जीवति ||१०||
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति |
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ||११||
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः |
दशमासधृता गर्भे जायन्ते कुलपांसनाः ||१२||
अपरे धनधान्यैश्च भोगैश्च पितृसञ्चितैः |
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ||१३||
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः |
आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव ||१४||
ते चापि कुशलैर्वैद्यैर्निपुणैः सम्भृतौषधैः |
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ||१५||
येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः |
न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ||१६||
अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः |
दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ||१७||
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् |
स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा ||१८||
न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः |
नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् ||१९||
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते |
यतते च यथाशक्ति न च तद्वर्तते तथा ||२०||
बहवः सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः |
महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु ||२१||
न कश्चिदीशते ब्रह्मन्स्वयङ्ग्राहस्य सत्तम |
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ||२२||
यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः |
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ||२३||
वध्यमाने शरीरे तु देहनाशो भवत्युत |
जीवः सङ्क्रमतेऽन्यत्र कर्मबन्धनिबन्धनः ||२४||
ब्राह्मण उवाच||
कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः |
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर ||२५||
व्याध उवाच||
न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्म्रियतेति मूढाः |
जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः ||२६||
अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी |
यत्तेन किञ्चिद्धि कृतं हि कर्म; तदश्नुते नास्ति कृतस्य नाशः ||२७||
अपुण्यशीलाश्च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति |
नरोऽनुयातस्त्विह कर्मभिः स्वै; स्ततः समुत्पद्यति भावितस्तैः ||२८||
ब्राह्मण उवाच||
कथं सम्भवते योनौ कथं वा पुण्यपापयोः |
जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ||२९||
व्याध उवाच||
गर्भाधानसमायुक्तं कर्मेदं सम्प्रदृश्यते |
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ||३०||
यथा सम्भृतसम्भारः पुनरेव प्रजायते |
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ||३१||
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् |
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ||३२||
जातिमृत्युजरादुःखैः सततं समभिद्रुतः |
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ||३३||
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च |
जीवाः सम्परिवर्तन्ते कर्मबन्धनिबन्धनाः ||३४||
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः |
तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ||३५||
ततः कर्म समादत्ते पुनरन्यन्नवं बहु |
पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः ||३६||
अजस्रमेव दुःखार्तोऽदुःखितः सुखसञ्ज्ञितः |
ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि ||३७||
परिक्रामति संसारे चक्रवद्बहुवेदनः ||३७||
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः |
प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति ||३८||
पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति |
तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् ||३९||
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते |
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ||४०||
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः |
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ||४१||
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् |
असङ्क्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज ||४२||
सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः |
स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसङ्करः ||४३||
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति |
तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम ||४४||
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ||४४||
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति |
स मैत्रजनसन्तुष्ट इह प्रेत्य च नन्दति ||४५||
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम |
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ||४६||
धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज |
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ||४७||
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते |
विरज्यति यथाकामं न च धर्मं विमुञ्चति ||४८||
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् |
ततो मोक्षे प्रयतते नानुपायादुपायतः ||४९||
एवं निर्वेदमादत्ते पापं कर्म जहाति च |
धार्मिकश्चापि भवति मोक्षं च लभते परम् ||५०||
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः |
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ||५१||
इन्द्रियाणां निरोधेन सत्येन च दमेन च |
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ||५२||
ब्राह्मण उवाच||
इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत |
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ||५३||
कथं च फलमाप्नोति तेषां धर्मभृतां वर |
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ||५४||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
201-अध्यायः
मार्कण्डेय उवाच||
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर |
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ||१||
व्याध उवाच||
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते |
तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ||२||
ततस्तदर्थं यतते कर्म चारभते महत् |
इष्टानां रूपगन्धानामभ्यासं च निषेवते ||३||
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् |
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ||४||
तस्य लोभाभिभूतस्य रागद्वेषहतस्य च |
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ||५||
व्याजेन चरते धर्ममर्थं व्याजेन रोचते |
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ||६||
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति ||६||
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम |
उत्तरं श्रुतिसम्बद्धं ब्रवीति श्रुतियोजितम् ||७||
अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः |
पापं चिन्तयते चापि ब्रवीति च करोति च ||८||
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः |
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ||९||
स तेनासुखमाप्नोति परत्र च विहन्यते |
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु ||१०||
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति |
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते ||११||
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते ||११||
ब्राह्मण उवाच||
ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते |
दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे ||१२||
व्याध उवाच||
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा |
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ||१३||
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम |
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ||१४||
इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः |
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ||१५||
महाभूतानि खं वायुरग्निरापस्तथा च भूः |
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ||१६||
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् |
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ||१७||
षष्ठस्तु चेतना नाम मन इत्यभिधीयते |
सप्तमी तु भवेद्बुद्धिरहङ्कारस्ततः परम् ||१८||
इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा |
इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ||१९||
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः |
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः ||२०||
एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि ||२०||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
202-अध्यायः
मार्कण्डेय उवाच||
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत |
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ||१||
ब्राह्मण||
महाभूतानि यान्याहुः पञ्च धर्मविदां वर |
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ||२||
व्याध उवाच||
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च |
गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् ||३||
भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् |
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ||४||
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ||५||
शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम |
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ||६||
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः |
शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च ||७||
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु |
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ||८||
अन्योन्यं नातिवर्तन्ते सम्पच्च भवति द्विज ||८||
यदा तु विषमीभावमाचरन्ति चराचराः |
तदा देही देहमन्यं व्यतिरोहति कालतः ||९||
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः |
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ||१०||
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ||१०||
इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् |
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ||११||
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु |
इन्द्रियाणि यदा देही धारयन्निह तप्यते ||१२||
लोके विततमात्मानं लोकं चात्मनि पश्यति |
परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति ||१३||
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा |
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ||१४||
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् |
लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते ||१५||
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् |
अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ||१६||
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि ||१६||
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ |
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ||१७||
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् |
एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च ||१८||
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् |
संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते ||१९||
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति |
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ||२०||
रथः शरीरं पुरुषस्य दृष्ट; मात्मा नियन्तेन्द्रियाण्याहुरश्वान् |
तैरप्रमत्तः कुशली सदश्वै; र्दान्तैः सुखं याति रथीव धीरः ||२१||
षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम् |
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ||२२||
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु |
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ||२३||
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि ||२४||
येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे |
तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ||२५||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
203-अध्यायः
मार्कण्डेय उवाच||
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत |
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः ||१||
ब्राह्मण उवाच||
सत्त्वस्य रजसश्चैव तमसश्च यथातथम् |
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ||२||
व्याध उवाच||
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि |
एषां गुणान्पृथक्त्वेन निबोध गदतो मम ||३||
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् |
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ||४||
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः |
दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः ||५||
प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः |
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ||६||
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः |
अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः ||७||
सात्त्विकस्त्वथ सम्बुद्धो लोकवृत्तेन क्लिश्यते |
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते ||८||
वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते |
मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत् ||९||
ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् |
न चास्य संयमो नाम क्वचिद्भवति कश्चन ||१०||
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः |
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ||११||
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते |
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ||१२||
ब्राह्मण उवाच||
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् |
अवकाशविशेषेण कथं वर्तयतेऽनिलः ||१३||
मार्कण्डेय उवाच||
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर |
व्याधः स कथयामास ब्राह्मणाय महात्मने ||१४||
व्याध उवाच||
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् |
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ||१५||
भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् ||१५||
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे |
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ||१६||
मनो बुद्धिरहङ्कारो भूतानां विषयश्च सः ||१६||
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते |
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ||१७||
बस्तिमूले गुदे चैव पावकः समुपाश्रितः |
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ||१८||
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते |
उदान इति तं प्राहुरध्यात्मविदुषो जनाः ||१९||
सन्धौ सन्धौ संनिविष्टः सर्वेष्वपि तथानिलः |
शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते ||२०||
धातुष्वग्निस्तु विततः स तु वायुसमीरितः |
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ||२१||
प्राणानां संनिपातात्तु संनिपातः प्रजायते |
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ||२२||
अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ |
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ||२३||
तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसञ्ज्ञितः |
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ||२४||
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते |
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ||२५||
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः |
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ||२६||
प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा |
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ||२७||
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् |
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ||२८||
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ||२८||
एकादशविकारात्मा कलासम्भारसम्भृतः |
मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् ||२९||
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः |
आत्मानं तं विजानीहि नित्यं योगजितात्मकम् ||३०||
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे |
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् ||३१||
जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा |
जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् ||३२||
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् |
ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद्यो भुवनानि सप्त ||३३||
एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते |
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ||३४||
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् |
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ||३५||
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् |
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ||३६||
पूर्वरात्रे परे चैव युञ्जानः सततं मनः |
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि ||३७||
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति |
दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते ||३८||
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः |
एतत्पवित्रं यज्ञानां तपो वै सङ्क्रमो मतः ||३९||
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् |
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ||४०||
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् |
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् ||४१||
सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् |
यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् ||४२||
यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा |
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ||४३||
यतो न गुरुरप्येनं च्यावयेदुपपादयन् |
तं विद्याद्ब्रह्मणो योगं वियोगं योगसञ्ज्ञितम् ||४४||
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् |
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ||४५||
आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम् |
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ||४६||
परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः |
अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च ||४७||
तपोनित्येन दान्तेन मुनिना संयतात्मना |
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ||४८||
गुणागुणमनासङ्गमेककार्यमनन्तरम् |
एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम् ||४९||
परित्यजति यो दुःखं सुखं चाप्युभयं नरः |
ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति ||५०||
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम |
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ||५१||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
204-अध्यायः
मार्कण्डेय उवाच||
एवं सङ्कथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर |
दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह ||१||
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् |
न तेऽस्त्यविदितं किञ्चिद्धर्मेष्विह हि दृश्यते ||२||
व्याध उवाच||
प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम |
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव ||३||
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् |
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ||४||
मार्कण्डेय उवाच||
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् |
सौधं हृद्यं चतुःशालमतीव च मनोहरम् ||५||
देवतागृहसङ्काशं दैवतैश्च सुपूजितम् |
शयनासनसम्बाधं गन्धैश्च परमैर्युतम् ||६||
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ |
कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने ||७||
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् ||७||
वृद्धावूचतुः||
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु |
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि ||८||
सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ ||८||
न तेऽन्यद्दैवतं किञ्चिद्दैवतेष्वपि वर्तते |
प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः ||९||
पितुः पितामहा ये च तथैव प्रपितामहाः |
प्रीतास्ते सततं पुत्र दमेनावां च पूजया ||१०||
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते |
न चान्या वितथा बुद्धिर्दृश्यते साम्प्रतं तव ||११||
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ |
तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक ||१२||
मार्कण्डेय उवाच||
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् |
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ||१३||
प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ |
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे ||१४||
अनामयं च वां कच्चित्सदैवेह शरीरयोः ||१४||
वृद्धावूचतुः||
कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः |
कच्चित्त्वमप्यविघ्नेन सम्प्राप्तो भगवन्निह ||१५||
मार्कण्डेय उवाच||
बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः |
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ||१६||
पिता माता च भगवन्नेतौ मे दैवतं परम् |
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ||१७||
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः |
सम्पूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ||१८||
उपहारानाहरन्तो देवतानां यथा द्विजाः |
कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः ||१९||
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् |
एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज ||२०||
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः |
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ||२१||
एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः |
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ||२२||
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये |
आहारं सम्प्रयच्छामि स्वयं च द्विजसत्तम ||२३||
अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् |
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ||२४||
धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम |
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ||२५||
पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः |
पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम ||२६||
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम |
भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः ||२७||
गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः ||२७||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
205-अध्यायः
मार्कण्डेय उवाच||
गुरू निवेद्य विप्राय तौ मातापितरावुभौ |
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ||१||
प्रवृत्तचक्षुर्जातोऽस्मि सम्पश्य तपसो बलम् |
यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति ||२||
पतिशुश्रूषपरया दान्तया सत्यशीलया |
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ||३||
ब्राह्मण उवाच||
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत |
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ||४||
व्याध उवाच||
यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो |
दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः ||५||
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया |
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ||६||
त्वया विनिकृता माता पिता च द्विजसत्तम |
अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित ||७||
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् ||७||
तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ |
तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान् ||८||
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा |
सर्वमेतदपार्थं ते क्षिप्रं तौ सम्प्रसादय ||९||
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि |
गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् ||१०||
ब्राह्मण उवाच||
यदेतदुक्तं भवता सर्वं सत्यमसंशयम् |
प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित ||११||
व्याध उवाच||
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः |
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ||१२||
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् |
अतः परमहं धर्मं नान्यं पश्यामि कञ्चन ||१३||
ब्राह्मण उवाच||
इहाहमागतो दिष्ट्या दिष्ट्या मे सङ्गतं त्वया |
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ||१४||
एको नरसहस्रेषु धर्मविद्विद्यते न वा |
प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम ||१५||
पतमानो हि नरके भवतास्मि समुद्धृतः |
भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ ||१६||
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा |
सद्भिः पुरुषशार्दूल तथाहं भवता त्विह ||१७||
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव |
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ||१८||
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता |
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ||१९||
येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया ||१९||
एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते |
कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् ||२०||
व्याध उवाच||
अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम |
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ||२१||
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज |
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः ||२२||
आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम् ||२२||
कश्चिद्राजा मम सखा धनुर्वेदपरायणः |
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ||२३||
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः |
सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः ||२४||
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ||२४||
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम |
ताडितश्च मुनिस्तेन शरेणानतपर्वणा ||२५||
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् |
नापराध्याम्यहं किञ्चित्केन पापमिदं कृतम् ||२६||
मन्वानस्तं मृगं चाहं सम्प्राप्तः सहसा मुनिम् |
अपश्यं तमृषिं विद्धं शरेणानतपर्वणा ||२७||
तमुग्रतपसं विप्रं निष्टनन्तं महीतले ||२७||
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः |
अजानता कृतमिदं मयेत्यथ तमब्रुवम् ||२८||
क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः ||२८||
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः |
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ||२९||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
206-अध्यायः
व्याध उवाच||
एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम |
अभिप्रसादयमृषिं गिरा वाक्यविशारदम् ||१||
अजानता मयाकार्यमिदमद्य कृतं मुने |
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ||२||
ऋषिरुवाच||
नान्यथा भविता शाप एवमेतदसंशयम् |
आनृशंस्यादहं किञ्चित्कर्तानुग्रहमद्य ते ||३||
शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि |
मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः ||४||
तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि |
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि ||५||
शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः ||५||
व्याध उवाच||
एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा |
प्रसादश्च कृतस्तेन ममैवं द्विपदां वर ||६||
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम |
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ||७||
एतत्ते सर्वमाख्यातं यथा मम पुराभवत् |
अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम ||८||
ब्राह्मण उवाच||
एवमेतानि पुरुषा दुःखानि च सुखानि च |
प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ||९||
दुष्करं हि कृतं तात जानता जातिमात्मनः ||९||
कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै |
कञ्चित्कालं मृष्यतां वै ततोऽसि भविता द्विजः ||१०||
साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ||१०||
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु |
दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ||११||
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः |
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ||१२||
कर्मदोषेण विषमां गतिमाप्नोति दारुणाम् |
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ||१३||
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः |
लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः ||१४||
व्याध उवाच||
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः |
एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् ||१५||
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च |
मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ||१६||
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च |
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ||१७||
अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते |
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ||१८||
शोचतो न भवेत्किञ्चित्केवलं परितप्यते ||१८||
परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः |
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ||१९||
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः |
असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ||२०||
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ||२०||
न विषादे मनः कार्यं विषादो विषमुत्तमम् |
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ||२१||
यं विषादोऽभिभवति विषमे समुपस्थिते |
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ||२२||
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् |
न हि निर्वेदमागम्य किञ्चित्प्राप्नोति शोभनम् ||२३||
अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे |
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ||२४||
भूतेष्वभावं सञ्चिन्त्य ये तु बुद्धेः परं गताः |
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ||२५||
न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम् |
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ||२६||
ब्राह्मण उवाच||
कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव |
नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् ||२७||
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु |
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर ||२८||
मार्कण्डेय उवाच||
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह |
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ||२९||
स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा |
मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः ||३०||
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर |
पृष्टवानसि यं तात धर्मं धर्मभृतां वर ||३१||
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम |
मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः ||३२||
युधिष्ठिर उवाच||
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् |
सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम ||३३||
सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम् |
न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ||३४||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
207-अध्यायः
आङ्गिरसम्
वैशम्पायन उवाच||
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् |
पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम् ||१||
युधिष्ठिर उवाच||
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा |
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः ||२||
अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु |
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ||३||
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् |
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च ||४||
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन |
कौतूहलसमाविष्टो यथातथ्यं महामुने ||५||
मार्कण्डेय उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ||६||
यथा च भगवानग्निः स्वयमेवाङ्गिराभवत् |
सन्तापयन्स्वप्रभया नाशयंस्तिमिराणि च ||७||
आश्रमस्थो महाभागो हव्यवाहं विशेषयन् |
तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन् ||८||
तपश्चरंश्च हुतभुक्सन्तप्तस्तस्य तेजसा |
भृशं ग्लानश्च तेजस्वी न स किञ्चित्प्रजज्ञिवान् ||९||
अथ सञ्चिन्तयामास भगवान्हव्यवाहनः |
अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रवर्तितः ||१०||
अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः ||१०||
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः |
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ||११||
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः |
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ||१२||
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ||१२||
त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः |
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद ||१३||
अग्निरुवाच||
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः |
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ||१४||
निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव |
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ||१५||
अङ्गिरा उवाच||
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः |
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ||१६||
मार्कण्डेय उवाच||
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् |
राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ||१७||
ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम् |
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ||१८||
स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत् |
प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा ||१९||
अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् |
कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह ||२०||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
208-अध्यायः
मार्कण्डेय उवाच||
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह |
तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु ||१||
बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः |
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ||२||
प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् |
देवी भानुमती नाम प्रथमाङ्गिरसः सुता ||३||
भूतानामेव सर्वेषां यस्यां रागस्तदाभवत् |
रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता ||४||
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः |
तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता ||५||
पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती |
षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम् ||६||
महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती |
महामतीति विख्याता सप्तमी कथ्यते सुता ||७||
यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते |
एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम् ||८||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
209-अध्यायः
मार्कण्डेय उवाच||
बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी |
अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ||१||
आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते |
सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः ||२||
चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः |
दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान् ||३||
शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा |
अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ||४||
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे |
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ||५||
पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् |
भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः ||६||
तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः |
भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका ||७||
भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः |
महानत्यर्थमहितस्तथा भरतसत्तम ||८||
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः |
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ||९||
हविषा यो द्वितीयेन सोमेन सह युज्यते |
रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ||१०||
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् |
आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते ||११||
यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया |
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ||१२||
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् |
विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु ||१३||
आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् |
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ||१४||
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः |
तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः ||१५||
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति |
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ||१६||
अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् |
स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत ||१७||
ब्रह्मचारी यतात्मा च सततं विपुलव्रतः |
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ||१८||
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया |
तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः ||१९||
वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः |
ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः ||२०||
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते |
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ||२१||
यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः |
क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ||२२||
स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति ||२२||
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन |
अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ||२३||
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः |
समरे नाशयेच्छत्रूनमोघो नाम पावकः ||२४||
उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः |
महावाचं त्वजनयत्सकामाश्वं हि यं विदुः ||२५||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
210-अध्यायः
मार्कण्डेय उवाच||
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः |
अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः ||१||
अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् |
पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् ||२||
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ |
जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः ||३||
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा |
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ||४||
पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः |
पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः ||५||
दश वर्षसहस्राणि तपस्तप्त्वा महातपाः |
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ||६||
बृहद्रथन्तरं मूर्ध्नो वक्त्राच्च तरसाहरौ |
शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् ||७||
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह |
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ||८||
बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः |
भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ||९||
प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः |
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ||१०||
अभीममतिभीमं च भीमं भीमबलाबलम् |
एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः ||११||
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् |
मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः ||१२||
सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् |
सुराणामपि हन्तारं पञ्चैतानसृजत्तपः ||१३||
त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् |
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः ||१४||
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि |
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ||१५||
हविर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम् |
तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ||१६||
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते |
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ||१७||
बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः |
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते ||१८||
रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते |
मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः ||१९||
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः ||१९||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
211-अध्यायः
मार्कण्डेय उवाच||
गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः |
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति ||१||
भरत्येष प्रजाः सर्वास्ततो भरत उच्यते ||१||
अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः |
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ||२||
तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत् |
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ||३||
ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते |
अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् ||४||
शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः |
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ||५||
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् |
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ||६||
प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवाम्पतिः |
असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् ||७||
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत् |
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः ||८||
भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा |
असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम् ||९||
दुर्बलानां तु भूतानां तनुं यः सम्प्रयच्छति |
तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् ||१०||
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः |
अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः ||११||
दर्शे च पौर्णमासे च यस्येह हविरुच्यते |
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः ||१२||
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् |
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ||१३||
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः |
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ||१४||
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा |
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ||१५||
पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः |
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ||१६||
अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते |
सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः ||१७||
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ||१७||
कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता |
कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः ||१८||
प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम् |
तस्य संनिहितो नाम शब्दरूपस्य साधनः ||१९||
शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम् |
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः ||२०||
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा |
अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ||२१||
अग्निर्यच्छति भूतानि येन भूतानि नित्यदा |
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ||२२||
इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि |
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् ||२३||
संस्पृशेयुर्यदान्योन्यं कथञ्चिद्वायुनाग्नयः |
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ||२४||
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल |
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ||२५||
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना |
इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये ||२६||
अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम् |
इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये ||२७||
मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा |
इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये ||२८||
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः |
इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये ||२९||
दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम् |
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ||३०||
सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् |
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये ||३१||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
212-अध्यायः
मार्कण्डेय उवाच||
आपस्य मुदिता भार्या सहस्य परमा प्रिया |
भूपतिर्भुवभर्ता च जनयत्पावकं परम् ||१||
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् |
आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु ||२||
महतां चैव भूतानां सर्वेषामिह यः पतिः |
भगवान्स महातेजा नित्यं चरति पावकः ||३||
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते |
हुतं वहति यो हव्यमस्य लोकस्य पावकः ||४||
अपां गर्भो महाभागः सहपुत्रो महाद्भुतः |
भूपतिर्भुवभर्ता च महतः पतिरुच्यते ||५||
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् |
अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु ||६||
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् |
देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् ||७||
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् |
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ||८||
अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ||८||
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् |
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ||९||
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् |
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ||१०||
अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः |
नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् ||११||
स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा |
भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि ||१२||
आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च |
श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा ||१३||
यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः |
नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् ||१४||
शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप ||१४||
एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः |
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ||१५||
भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी |
दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् ||१६||
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् |
अर्चयामासुरेवैनमथर्वाणं सुरर्षयः ||१७||
अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् |
मिषतां सर्वभूतानामुन्ममाथ महार्णवम् ||१८||
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा |
आहूतः सर्वभूतानां हव्यं वहति सर्वदा ||१९||
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् |
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ||२०||
सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती |
गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया ||२१||
चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा |
ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ||२२||
तमसा नर्मदा चैव नदी गोदावरी तथा |
वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत ||२३||
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा |
कृष्णा च कृष्णवेण्णा च कपिला शोण एव च ||२४||
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ||२४||
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः |
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च ||२५||
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः |
अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ||२६||
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ||२६||
एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया |
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ||२७||
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् |
तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः ||२८||
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः |
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ||२९||
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया |
पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ||३०||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
213-अध्यायः
मार्कण्डेय उवाच||
अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ |
शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः ||१||
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् |
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ||२||
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् |
तत्राजयन्सदा देवान्दानवा घोररूपिणः ||३||
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः |
स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ||४||
देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः |
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ||५||
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् |
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ||६||
अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह |
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ||७||
पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव |
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ||८||
किरीटिनं गदापाणिं धातुमन्तमिवाचलम् |
हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् ||९||
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि |
वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् ||१०||
केश्युवाच||
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया |
क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन ||११||
मार्कण्डेय उवाच||
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै |
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ||१२||
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् |
तदापतन्तं सम्प्रेक्ष्य शैलशृङ्गं शतक्रतुः ||१३||
बिभेद राजन्वज्रेण भुवि तन्निपपात ह ||१३||
पतता तु तदा केशी तेन शृङ्गेण ताडितः |
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ||१४||
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् |
कासि कस्यासि किं चेह कुरुषे त्वं शुभानने ||१५||
कन्योवाच||
अहं प्रजापतेः कन्या देवसेनेति विश्रुता |
भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता ||१६||
सहैवावां भगिन्यौ तु सखीभिः सह मानसम् |
आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् ||१७||
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः |
इच्छत्येनं दैत्यसेना न त्वहं पाकशासन ||१८||
सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु |
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ||१९||
इन्द्र उवाच||
मम मातृष्वसेया त्वं माता दाक्षायणी मम |
आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया ||२०||
कन्योवाच||
अबलाहं महाबाहो पतिस्तु बलवान्मम |
वरदानात्पितुर्भावी सुरासुरनमस्कृतः ||२१||
इन्द्र उवाच||
कीदृशं वै बलं देवि पत्युस्तव भविष्यति |
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ||२२||
कन्योवाच||
देवदानवयक्षाणां किंनरोरगरक्षसाम् |
जेता स दृष्टो दुष्टानां महावीर्यो महाबलः ||२३||
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति |
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ||२४||
मार्कण्डेय उवाच||
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् |
अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते ||२५||
अथापश्यत्स उदये भास्करं भास्करद्युतिः |
सोमं चैव महाभागं विशमानं दिवाकरम् ||२६||
अमावास्यां सम्प्रवृत्तं मुहूर्तं रौद्रमेव च |
देवासुरं च सङ्ग्रामं सोऽपश्यदुदये गिरौ ||२७||
लोहितैश्च घनैर्युक्तां पूर्वां सन्ध्यां शतक्रतुः |
अपश्यल्लोहितोदं च भगवान्वरुणालयम् ||२८||
भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः |
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ||२९||
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् |
तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् ||३०||
समालोक्यैकतामेव शशिनो भास्करस्य च |
समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् ||३१||
एष रौद्रश्च सङ्घातो महान्युक्तश्च तेजसा |
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ||३२||
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ||३२||
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता |
एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ||३३||
एवं सञ्चिन्त्य भगवान्ब्रह्मलोकं तदा गतः |
गृहीत्वा देवसेनां तामवन्दत्स पितामहम् ||३४||
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश ||३४||
ब्रह्मोवाच||
यथैतच्चिन्तितं कार्यं त्वया दानवसूदन |
तथा स भविता गर्भो बलवानुरुविक्रमः ||३५||
स भविष्यति सेनानीस्त्वया सह शतक्रतो |
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ||३६||
मार्कण्डेय उवाच||
एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया |
तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन् ||३७||
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः ||३७||
भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे |
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ||३८||
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने |
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् ||३९||
समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् |
विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः ||४०||
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ||४०||
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः |
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ||४१||
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् |
स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् ||४२||
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः |
हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः ||४३||
स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः |
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ||४४||
स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत् |
साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् ||४५||
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः |
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ||४६||
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः |
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ||४७||
निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः |
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ||४८||
कामसन्तप्तहृदयो देहत्यागे सुनिश्चितः |
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः ||४९||
स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा |
सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी ||५०||
अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता ||५०||
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् |
तत्त्वतः कामसन्तप्तं चिन्तयामास भामिनी ||५१||
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् |
कामयिष्यामि कामार्तं तासां रूपेण मोहितम् ||५२||
एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् ||५२||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
214-अध्यायः
मार्कण्डेय उवाच||
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता |
तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप ||१||
जगाम पावकाभ्याशं तं चोवाच वराङ्गना ||१||
मामग्ने कामसन्तप्तां त्वं कामयितुमर्हसि |
करिष्यसि न चेदेवं मृतां मामुपधारय ||२||
अहमङ्गिरसो भार्या शिवा नाम हुताशन |
सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ||३||
अग्निरुवाच||
कथं मां त्वं विजानीषे कामार्तमितराः कथम् |
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ||४||
शिवोवाच||
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव |
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् ||५||
मैथुनायेह सम्प्राप्ता कामं प्राप्तं द्रुतं चर |
मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन ||६||
मार्कण्डेय उवाच||
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः |
प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना ||७||
अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने |
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ||८||
तस्मादेतद्रक्ष्यमाणा गरुडी सम्भवाम्यहम् |
वनान्निर्गमनं चैव सुखं मम भविष्यति ||९||
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् |
अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ||१०||
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः |
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ||११||
राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः ||११||
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् |
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती ||१२||
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् |
पत्नीसरूपतां कृत्वा कामयामास पावकम् ||१३||
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया |
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ||१४||
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम |
तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ||१५||
तत्स्कन्नं तेजसा तत्र सम्भृतं जनयत्सुतम् |
ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः ||१६||
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः |
एकग्रीवस्त्वेककायः कुमारः समपद्यत ||१७||
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ |
अङ्गप्रत्यङ्गसम्भूतश्चतुर्थ्यामभवद्गुहः ||१८||
लोहिताभ्रेण महता संवृतः सह विद्युता |
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ||१९||
गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम् |
न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् ||२०||
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा |
संमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान् ||२१||
तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् |
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ||२२||
तावापतन्तौ सम्प्रेक्ष्य स बालार्कसमद्युतिः |
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ||२३||
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ||२३||
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् |
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः ||२४||
द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् |
प्राध्मापयत भूतानां त्रासनं बलिनामपि ||२५||
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः |
क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन् ||२६||
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ||२६||
स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः |
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ||२७||
स पश्यन्विविधान्भावांश्चकार निनदं पुनः ||२७||
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः |
भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः ||२८||
ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः |
तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ||२९||
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् |
धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ||३०||
बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् |
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ||३१||
स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन् |
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ||३२||
स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः |
न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् ||३३||
सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना |
बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ||३४||
स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह |
उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ||३५||
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः |
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ||३६||
पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः |
अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ||३७||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
215-अध्यायः
मार्कण्डेय उवाच||
ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान् |
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ||१||
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः |
तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् ||२||
सङ्गम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ||२||
अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः |
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ||३||
न तु तत्स्वाहया कर्म कृतं जानाति वै जनः ||३||
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति |
उपगम्य शनैः स्कन्दमाहाहं जननी तव ||४||
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् |
तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् ||५||
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः |
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत ||६||
अहं जाने नैतदेवमिति राजन्पुनः पुनः ||६||
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः |
पावकं कामसन्तप्तमदृष्टः पृष्ठतोऽन्वगात् ||७||
तत्तेन निखिलं सर्वमवबुद्धं यथातथम् ||७||
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः |
स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः ||८||
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश |
जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः ||९||
षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् |
शक्त्या देव्याः साधनं च तथा पारिषदामपि ||१०||
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै |
तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः ||११||
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः |
अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः ||१२||
श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् ||१२||
स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन् |
अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् ||१३||
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति |
त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः ||१४||
स तानुवाच व्यथितो बालोऽयं सुमहाबलः |
स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् ||१५||
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः |
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः ||१६||
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः |
अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः ||१७||
ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत् |
अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः ||१८||
ताः सम्पूज्य महासेनः कामांश्चासां प्रदाय सः |
अपश्यदग्निमायान्तं पितरं बलिनां बली ||१९||
स तु सम्पूजितस्तेन सह मातृगणेन ह |
परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् ||२०||
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा |
धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत ||२१||
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना |
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ||२२||
अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः |
रमयामास शैलस्थं बालं क्रीडनकैरिव ||२३||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
216-अध्यायः
मार्कण्डेय उवाच||
ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा |
हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः ||१||
एते चान्ये च बहवो घोरास्त्रिदिववासिनः |
परिवार्य महासेनं स्थिता मातृगणैः सह ||२||
संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः |
आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ||३||
विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ||३||
उग्रं तच्च महावेगं देवानीकं महाप्रभम् |
विचित्रध्वजसंनाहं नानावाहनकार्मुकम् ||४||
प्रवराम्बरसंवीतं श्रिया जुष्टमलङ्कृतम् ||४||
विजिघांसुं तदायान्तं कुमारः शक्रमभ्ययात् |
विनदन्पथि शक्रस्तु द्रुतं याति महाबलः ||५||
संहर्षयन्देवसेनां जिघांसुः पावकात्मजम् ||५||
सम्पूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः |
समीपमुपसम्प्राप्तः कार्त्तिकेयस्य वासवः ||६||
सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः |
गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा ||७||
तस्य शब्देन महता समुद्धूतोदधिप्रभम् |
बभ्राम तत्र तत्रैव देवसैन्यमचेतनम् ||८||
जिघांसूनुपसम्प्राप्तान्देवान्दृष्ट्वा स पावकिः |
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ||९||
ता देवसैन्यान्यदहन्वेष्टमानानि भूतले ||९||
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः |
प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ||१०||
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् |
देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः ||११||
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रोऽभ्यवासृजत् |
तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् ||१२||
बिभेद च महाराज पार्श्वं तस्य महात्मनः ||१२||
वज्रप्रहारात्स्कन्दस्य सञ्जातः पुरुषोऽपरः |
युवा काञ्चनसंनाहः शक्तिधृग्दिव्यकुण्डलः ||१३||
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ||१३||
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् |
भयादिन्द्रस्ततः स्कन्दं प्राञ्जलिः शरणं गतः ||१४||
तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम |
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ||१५||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
217-अध्यायः
मार्कण्डेय उवाच||
स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान् |
वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः ||१||
ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः ||१||
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः |
कुमाराश्च विशाखं तं पितृत्वे समकल्पयन् ||२||
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा |
वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः ||३||
मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः |
ततः कुमारपितरं स्कन्दमाहुर्जना भुवि ||४||
रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम् |
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः ||५||
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः |
किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषत ||६||
मातर ऊचुः||
भवेम सर्वलोकस्य वयं मातर उत्तमाः |
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ||७||
मार्कण्डेय उवाच||
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः |
अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः ||८||
ततः सङ्कल्प्य पुत्रत्वे स्कंदं मातृगणोऽगमत् |
काकी च हलिमा चैव रुद्राथ बृहली तथा ||९||
आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः ||९||
एतासां वीर्यसम्पन्नः शिशुर्नामातिदारुणः |
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयङ्करः ||१०||
एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः |
छागवक्त्रेण सहितो नवकः परिकीर्त्यते ||११||
षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् |
षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ||१२||
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते |
शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ||१३||
इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् |
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ||१४||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
218-अध्यायः
मार्कण्डेय उवाच||
उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् |
हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् ||१||
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् |
सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम् ||२||
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् |
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ||३||
श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा |
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ||४||
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् |
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ||५||
हिरण्यवर्ण भद्रं ते लोकानां शङ्करो भव |
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ||६||
अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम |
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयङ्करः ||७||
स्कन्द उवाच||
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः |
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ||८||
ऋषय ऊचुः||
इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् |
तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः ||९||
दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति |
अनुशास्ति च भूतानि कार्येषु बलसूदनः ||१०||
असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः |
भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः ||११||
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् |
त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः ||१२||
शक्र उवाच||
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः |
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ||१३||
स्कन्द उवाच||
शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः |
अहं ते किङ्करः शक्र न ममेन्द्रत्वमीप्सितम् ||१४||
शक्र उवाच||
बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि |
अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः ||१५||
इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम् |
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः ||१६||
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति |
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा ||१७||
विग्रहः सम्प्रवर्तेत भूतभेदान्महाबल ||१७||
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि |
तस्मादिन्द्रो भवानद्य भविता मा विचारय ||१८||
स्कन्द उवाच||
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च |
करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे ||१९||
शक्र उवाच||
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया |
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु ||२०||
अभिषिच्यस्व देवानां सेनापत्ये महाबल |
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल ||२१||
स्कन्द उवाच||
दानवानां विनाशाय देवानामर्थसिद्धये |
गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम् ||२२||
मार्कण्डेय उवाच||
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह |
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ||२३||
तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत |
यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ||२४||
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी |
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ||२५||
आगम्य मनुजव्याघ्र सह देव्या परन्तप |
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ||२६||
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः |
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् ||२७||
पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे ||२७||
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः |
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम् ||२८||
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः |
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ||२९||
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा |
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ||३०||
अरजे वाससी रक्ते वसानः पावकात्मजः |
भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् ||३१||
कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलङ्कृतः |
रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः ||३२||
विवेश कवचं चास्य शरीरं सहजं ततः |
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ||३३||
शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः |
ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् ||३४||
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् |
स्कन्देन सह जातानि सर्वाण्येव जनाधिप ||३५||
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलङ्कृतः |
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ||३६||
इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि |
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ||३७||
एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलङ्कृतैः |
क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः ||३८||
अभिषिक्तं महासेनमपश्यन्त दिवौकसः |
विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा ||३९||
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः |
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम् ||४०||
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः |
अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि ||४१||
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा |
सस्मार तां देवसेनां या सा तेन विमोक्षिता ||४२||
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् |
इति चिन्त्यानयामास देवसेनां स्वलङ्कृताम् ||४३||
स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम |
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयम्भुवा ||४४||
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् |
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् ||४५||
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि |
बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च ||४६||
एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः |
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम् ||४७||
सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम् ||४७||
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया |
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ||४८||
श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता |
षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः ||४९||