श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
276-अध्यायः
मार्कण्डेय उवाच||
एवमेतन्महाबाहो रामेणामिततेजसा |
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ||१||
मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप |
बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये ||२||
न हि ते वृजिनं किञ्चिद्दृश्यते परमण्वपि |
अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः ||३||
संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना |
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी ||४||
सहायवति सर्वार्थाः सन्तिष्ठन्तीह सर्वशः |
किं नु तस्याजितं सङ्ख्ये भ्राता यस्य धनञ्जयः ||५||
अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः |
युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ ||६||
एभिः सहायैः कस्मात्त्वं विषीदसि परन्तप ||६||
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् |
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ||७||
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ||७||
इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना |
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ||८||
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् |
जयद्रथं च राजानं विजितं वशमागतम् ||९||
असहायेन रामेण वैदेही पुनराहृता |
हत्वा सङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् ||१०||
यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा |
जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय ||११||
तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ |
त्वद्विधा हि महात्मानो न शोचन्ति परन्तप ||१२||
वैशम्पायन उवाच||
एवमाश्वासितो राजा मार्कण्डेयेन धीमता |
त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत् ||१३||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
277-अध्यायः
सावित्र्युपाख्यानम्
युधिष्ठिर उवाच||
नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने |
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ||१||
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् |
जयद्रथेन च पुनर्वनादपहृता बलात् ||२||
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता |
पतिव्रता महाभागा यथेयं द्रुपदात्मजा ||३||
मार्कण्डेय उवाच||
शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर |
सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ||४||
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः |
ब्रह्मण्यश्च शरण्यश्च सत्यसन्धो जितेन्द्रियः ||५||
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः |
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ||६||
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः |
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान् ||७||
अपत्योत्पादनार्थं स तीव्रं नियममास्थितः |
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ||८||
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम |
षष्ठे षष्ठे तदा काले बभूव मितभोजनः ||९||
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु |
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ||१०||
स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् ||१०||
अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता |
उवाच चैनं वरदा वचनं पार्थिवं तदा ||११||
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च |
सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ||१२||
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् |
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन ||१३||
अश्वपतिरुवाच||
अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया |
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ||१४||
तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् |
सन्तानं हि परो धर्म इत्याहुर्मां द्विजातयः ||१५||
सावित्र्युवाच||
पूर्वमेव मया राजन्नभिप्रायमिमं तव |
ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः ||१६||
प्रसादाच्चैव तस्मात्ते स्वयम्भुविहिताद्भुवि |
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ||१७||
उत्तरं च न ते किञ्चिद्व्याहर्तव्यं कथञ्चन |
पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते ||१८||
मार्कण्डेय उवाच||
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः |
प्रसादयामास पुनः क्षिप्रमेवं भवेदिति ||१९||
अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः |
स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् ||२०||
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः |
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे ||२१||
राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ |
व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे ||२२||
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् |
क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा ||२३||
सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि |
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ||२४||
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा |
कालेन चापि सा कन्या यौवनस्था बभूव ह ||२५||
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव |
प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः ||२६||
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा |
न कश्चिद्वरयामास तेजसा प्रतिवारितः ||२७||
अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा |
हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ||२८||
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः |
पितुः सकाशमगमद्देवी श्रीरिव रूपिणी ||२९||
साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च |
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ||३०||
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् |
अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ||३१||
राजोवाच||
पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् |
स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ||३२||
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम |
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ||३३||
श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः |
तथा त्वमपि कल्याणि गदतो मे वचः शृणु ||३४||
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः |
मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता ||३५||
इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर |
देवतानां यथा वाच्यो न भवेयं तथा कुरु ||३६||
मार्कण्डेय उवाच||
एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः |
व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत् ||३७||
साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी |
पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ||३८||
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता |
तपोवनानि रम्याणि राजर्षीणां जगामह ||३९||
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् |
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ||४०||
एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा |
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ||४१||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
278-अध्यायः
मार्कण्डेय उवाच||
अथ मद्राधिपो राजा नारदेन समागतः |
उपविष्टः सभामध्ये कथायोगेन भारत ||१||
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा |
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ||२||
नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा |
उभयोरेव शिरसा चक्रे पादाभिवन्दनम् ||३||
नारद उवाच||
क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप |
किमर्थं युवतीं भर्त्रे न चैनां सम्प्रयच्छसि ||४||
अश्वपतिरुवाच||
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता |
तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ||५||
मार्कण्डेय उवाच||
सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा |
दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् ||६||
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः |
द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह ||७||
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः |
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ||८||
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् |
महारण्यगतश्चापि तपस्तेपे महाव्रतः ||९||
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने |
सत्यवाननुरूपो मे भर्तेति मनसा वृतः ||१०||
नारद उवाच||
अहो बत महत्पापं सावित्र्या नृपते कृतम् |
अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ||११||
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते |
ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ||१२||
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् |
चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ||१३||
राजोवाच||
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः |
क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः ||१४||
नारद उवाच||
विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ |
महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः ||१५||
अश्वपतिरुवाच||
अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् |
रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः ||१६||
नारद उवाच||
साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः |
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ||१७||
ययातिरिव चोदारः सोमवत्प्रियदर्शनः |
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ||१८||
स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः |
स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः ||१९||
नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा |
सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ||२०||
अश्वपतिरुवाच||
गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे |
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ||२१||
नारद उवाच||
एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् |
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ||२२||
राजोवाच||
एहि सावित्रि गच्छ त्वमन्यं वरय शोभने |
तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति ||२३||
यथा मे भगवानाह नारदो देवसत्कृतः |
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ||२४||
सावित्र्युवाच||
सकृदंशो निपतति सकृत्कन्या प्रदीयते |
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ||२५||
दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा |
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ||२६||
मनसा निश्चयं कृत्वा ततो वाचाभिधीयते |
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ||२७||
नारद उवाच||
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव |
नैषा चालयितुं शक्या धर्मादस्मात्कथञ्चन ||२८||
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः |
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ||२९||
राजोवाच||
अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः |
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ||३०||
नारद उवाच||
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव |
साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः ||३१||
मार्कण्डेय उवाच||
एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः |
राजापि दुहितुः सर्वं वैवाहिकमकारयत् ||३२||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
279-अध्यायः
मार्कण्डेय उवाच||
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् |
समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ||१||
ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् |
समाहूय तिथौ पुण्ये प्रययौ सह कन्यया ||२||
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः |
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ||३||
तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् |
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ||४||
स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः |
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ||५||
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् |
किमागमनमित्येवं राजा राजानमब्रवीत् ||६||
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् |
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ||७||
अश्वपतिरुवाच||
सावित्री नाम राजर्षे कन्येयं मम शोभना |
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ||८||
द्युमत्सेन उवाच||
च्युताः स्म राज्याद्वनवासमाश्रिता; श्चराम धर्मं नियतास्तपस्विनः |
कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव ||९||
अश्वपतिरुवाच||
सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च |
न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप ||१०||
आशां नार्हसि मे हन्तुं सौहृदाद्प्रणयेन च |
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि ||११||
अनुरूपो हि संयोगे त्वं ममाहं तवापि च |
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ||१२||
द्युमत्सेन उवाच||
पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह |
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ||१३||
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः |
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ||१४||
मार्कण्डेय उवाच||
ततः सर्वान्समानीय द्विजानाश्रमवासिनः |
यथाविधि समुद्वाहं कारयामासतुर्नृपौ ||१५||
दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् |
ययौ स्वमेव भवनं युक्तः परमया मुदा ||१६||
सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् |
मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ||१७||
गते पितरि सर्वाणि संन्यस्याभरणानि सा |
जगृहे वल्कलान्येव वस्त्रं काषायमेव च ||१८||
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च |
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् ||१९||
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः |
श्वशुरं देवकार्यैश्च वाचः संयमनेन च ||२०||
तथैव प्रियवादेन नैपुणेन शमेन च |
रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ||२१||
एवं तत्राश्रमे तेषां तदा निवसतां सताम् |
कालस्तपस्यतां कश्चिदतिचक्राम भारत ||२२||
सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् |
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ||२३||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
280-अध्यायः
मार्कण्डेय उवाच||
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन |
प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप ||१||
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते |
तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ||२||
चतुर्थेऽहनि मर्तव्यमिति सञ्चिन्त्य भामिनी |
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत् ||३||
तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः |
उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् ||४||
अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे |
तिसृणां वसतीनां हि स्थानं परमदुष्करम् ||५||
सावित्र्युवाच||
न कार्यस्तात सन्तापः पारयिष्याम्यहं व्रतम् |
व्यवसायकृतं हीदं व्यवसायश्च कारणम् ||६||
द्युमत्सेन उवाच||
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन |
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ||७||
मार्कण्डेय उवाच||
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः |
तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते ||८||
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ |
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ||९||
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् |
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः ||१०||
ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च |
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ||११||
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः |
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ||१२||
एवमस्त्विति सावित्री ध्यानयोगपरायणा |
मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् ||१३||
तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा |
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ||१४||
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् |
एकान्तस्थमिदं वाक्यं प्रीत्या भरतसत्तम ||१५||
श्वशुरावूचतुः||
व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया |
आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम् ||१६||
सावित्र्युवाच||
अस्तं गते मयादित्ये भोक्तव्यं कृतकामया |
एष मे हृदि सङ्कल्पः समयश्च कृतो मया ||१७||
मार्कण्डेय उवाच||
एवं सम्भाषमाणायाः सावित्र्या भोजनं प्रति |
स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ||१८||
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि |
सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे ||१९||
सत्यवानुवाच||
वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि |
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ||२०||
सावित्र्युवाच||
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः |
गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि ||२१||
सत्यवानुवाच||
यदि ते गमनोत्साहः करिष्यामि तव प्रियम् |
मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ||२२||
मार्कण्डेय उवाच||
साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता |
अयं गच्छति मे भर्ता फलाहारो महावनम् ||२३||
इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च |
अनेन सह निर्गन्तुं न हि मे विरहः क्षमः ||२४||
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव |
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ||२५||
संवत्सरः किञ्चिदूनो न निष्क्रान्ताहमाश्रमात् |
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ||२६||
द्युमत्सेन उवाच||
यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम |
नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ||२७||
तदेषा लभतां कामं यथाभिलषितं वधूः |
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ||२८||
मार्कण्डेय उवाच||
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी |
सह भर्त्रा हसन्तीव हृदयेन विदूयता ||२९||
सा वनानि विचित्राणि रमणीयानि सर्वशः |
मयूररवघुष्टानि ददर्श विपुलेक्षणा ||३०||
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् |
सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् ||३१||
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता |
मृतमेव हि तं मेने काले मुनिवचः स्मरन् ||३२||
अनुवर्तती तु भर्तारं जगाम मृदुगामिनी |
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ||३३||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
281-अध्यायः
मार्कण्डेय उवाच||
अथ भार्यासहायः स फलान्यादाय वीर्यवान् |
कठिनं पूरयामास ततः काष्ठान्यपाटयत् ||१||
तस्य पाटयतः काष्ठं स्वेदो वै समजायत |
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ||२||
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः |
व्यायामेन ममानेन जाता शिरसि वेदना ||३||
अङ्गानि चैव सावित्रि हृदयं दूयतीव च |
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ||४||
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् |
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ||५||
समासाद्याथ सावित्री भर्तारमुपगूह्य च |
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ||६||
ततः सा नारदवचो विमृशन्ती तपस्विनी |
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ||७||
मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम् |
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ||८||
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् |
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ||९||
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः |
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता ||१०||
दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम् |
कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि ||११||
यम उवाच||
पतिव्रतासि सावित्रि तथैव च तपोन्विता |
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ||१२||
अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः |
नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ||१३||
मार्कण्डेय उवाच||
इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम् |
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ||१४||
अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः |
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ||१५||
ततः सत्यवतः कायात्पाशबद्धं वशं गतम् |
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ||१६||
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् |
निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् ||१७||
यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः |
सावित्री चापि दुःखार्ता यममेवान्वगच्छत ||१८||
नियमव्रतसंसिद्धा महाभागा पतिव्रता ||१८||
यम उवाच||
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् |
कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया ||१९||
सावित्र्युवाच||
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति |
मयापि तत्र गन्तव्यमेष धर्मः सनातनः ||२०||
तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च |
तव चैव प्रसादेन न मे प्रतिहता गतिः ||२१||
प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः |
मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ||२२||
नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च |
विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम् ||२३||
एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः |
मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम् ||२४||
यम उवाच||
निवर्त तुष्टोऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया |
वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम् ||२५||
सावित्र्युवाच||
च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे |
स लब्धचक्षुर्बलवान्भवेन्नृप; स्तव प्रसादाज्ज्वलनार्कसंनिभः ||२६||
यम उवाच||
ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा |
तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत् ||२७||
सावित्र्युवाच||
कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा |
यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे ||२८||
सतां सकृत्सङ्गतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते |
न चाफलं सत्पुरुषेण सङ्गतं; ततः सतां संनिवसेत्समागमे ||२९||
यम उवाच||
मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम् |
विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि ||३०||
सावित्र्युवाच||
हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः |
जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीयमेतं वरयामि ते वरम् ||३१||
यम उवाच||
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा; न्न च स्वधर्मात्परिहास्यते नृपः |
कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् ||३२||
सावित्र्युवाच||
प्रजास्त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया |
अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरमीरितां मया ||३३||
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा |
अनुग्रहश्च दानं च सतां धर्मः सनातनः ||३४||
एवम्प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः |
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ||३५||
यम उवाच||
पिपासितस्येव यथा भवेत्पय; स्तथा त्वया वाक्यमिदं समीरितम् |
विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि ||३६||
सावित्र्युवाच||
ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम् |
कुलस्य सन्तानकरं च यद्भवे; त्तृतीयमेतं वरयामि ते वरम् ||३७||
यम उवाच||
कुलस्य सन्तानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे |
कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता ||३८||
सावित्र्युवाच||
न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति |
तथा व्रजन्नेव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च ||३९||
विवस्वतस्त्वं तनयः प्रतापवां; स्ततो हि वैवस्वत उच्यसे बुधैः |
शमेन धर्मेण च रञ्जिताः प्रजा; स्ततस्तवेहेश्वर धर्मराजता ||४०||
आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः |
तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ||४१||
सौहृदात्सर्वभूतानां विश्वासो नाम जायते |
तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ||४२||
यम उवाच||
उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मया श्रुतम् |
अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च ||४३||
सावित्र्युवाच||
ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम् |
शतं सुतानां बलवीर्यशालिना; मिदं चतुर्थं वरयामि ते वरम् ||४४||
यम उवाच||
शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले |
परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता ||४५||
सावित्र्युवाच||
सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति |
सतां सद्भिर्नाफलः सङ्गमोऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः ||४६||
सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति |
सन्तो गतिर्भूतभव्यस्य राज; न्सतां मध्ये नावसीदन्ति सन्तः ||४७||
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् |
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ||४८||
न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः |
यस्मादेतन्नियतं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति ||४९||
यम उवाच||
यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत् |
तथा तथा मे त्वयि भक्तिरुत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते ||५०||
सावित्र्युवाच||
न तेऽपवर्गः सुकृताद्विनाकृत; स्तथा यथान्येषु वरेषु मानद |
वरं वृणे जीवतु सत्यवानयं; यथा मृता ह्येवमहं विना पतिम् ||५१||
न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम् |
न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम् ||५२||
वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः |
वरं वृणे जीवतु सत्यवानयं; तवैव सत्यं वचनं भविष्यति ||५३||
मार्कण्डेय उवाच||
तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः |
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ||५४||
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि |
अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति ||५५||
चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति |
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ||५६||
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति |
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ||५७||
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः ||५७||
पितुश्च ते पुत्रशतं भविता तव मातरि |
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ||५८||
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ||५८||
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् |
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ||५९||
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च |
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ||६०||
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च |
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ||६१||
सञ्ज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत |
प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै ||६२||
सत्यवानुवाच||
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः |
क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह ||६३||
सावित्र्युवाच||
सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ |
गतः स भगवान्देवः प्रजासंयमनो यमः ||६४||
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज |
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ||६५||
मार्कण्डेय उवाच||
उपलभ्य ततः सञ्ज्ञां सुखसुप्त इवोत्थितः |
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ||६६||
फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे |
ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् ||६७||
शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन् |
तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे ||६८||
त्वयोपगूढस्य च मे निद्रयापहृतं मनः |
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् ||६९||
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे |
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत् ||७०||
तमुवाचाथ सावित्री रजनी व्यवगाहते |
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज ||७१||
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत |
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ||७२||
नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः |
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ||७३||
एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् |
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ||७४||
सत्यवानुवाच||
वनं प्रतिभयाकारं घनेन तमसा वृतम् |
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ||७५||
सावित्र्युवाच||
अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् |
वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् ||७६||
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः |
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः ||७७||
यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये |
न च ज्ञास्यसि पन्थानं तमसा संवृते वने ||७८||
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव |
वसावेह क्षपामेतां रुचितं यदि तेऽनघ ||७९||
सत्यवानुवाच||
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये |
मातापितृभ्यामिच्छामि सङ्गमं त्वत्प्रसादजम् ||८०||
न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः |
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् ||८१||
दिवापि मयि निष्क्रान्ते सन्तप्येते गुरू मम |
विचिनोति च मां तातः सहैवाश्रमवासिभिः ||८२||
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा |
उपालब्धः सुबहुशश्चिरेणागच्छसीति ह ||८३||
का त्ववस्था तयोरद्य मदर्थमिति चिन्तये |
तयोरदृश्ये मयि च महद्दुःखं भविष्यति ||८४||
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ |
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ||८५||
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक |
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ||८६||
वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः |
त्वयि पिण्डश्च कीर्तिश्च सन्तानं चावयोरिति ||८७||
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल |
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ||८८||
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम |
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी ||८९||
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः |
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ||९०||
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम |
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ||९१||
नात्मानमनुशोचामि यथाहं पितरं शुभे |
भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् ||९२||
मत्कृतेन हि तावद्य सन्तापं परमेष्यतः |
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ||९३||
तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् ||९३||
मार्कण्डेय उवाच||
एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः |
उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह ||९४||
ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम् |
प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी ||९५||
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि |
श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी ||९६||
न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् |
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ||९७||
सत्यवानुवाच||
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् |
पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् ||९८||
न जीविष्ये वरारोहे सत्येनात्मानमालभे ||९८||
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि |
मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात् ||९९||
मार्कण्डेय उवाच||
सावित्री तत उत्थाय केशान्संयम्य भामिनी |
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ||१००||
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना |
दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे ||१०१||
तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि |
योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् ||१०२||
कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् |
गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् ||१०३||
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा |
दक्षिणेन परिष्वज्य जगाम मृदुगामिनी ||१०४||
सत्यवानुवाच||
अभ्यासगमनाद्भीरु पन्थानो विदिता मम |
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ||१०५||
आगतौ स्वः पथा येन फलान्यवचितानि च |
यथागतं शुभे गच्छ पन्थानं मा विचारय ||१०६||
पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा |
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ||१०७||
स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ ||१०७||
मार्कण्डेय उवाच||
ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति |
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
282-अध्यायः
मार्कण्डेय उवाच||
एतस्मिन्नेव काले तु द्युमत्सेनो महावने |
लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ||१||
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया |
पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ||२||
तावाश्रमान्नदीश्चैव वनानि च सरांसि च |
तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ||३||
श्रुत्वा शब्दं तु यत्किञ्चिदुन्मुखौ सुतशङ्कया |
सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ||४||
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः |
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ||५||
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः |
परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ||६||
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः |
आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ||७||
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया |
बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ||८||
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ |
हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ||९||
सुवर्चा उवाच||
यथास्य भार्या सावित्री तपसा च दमेन च |
आचारेण च संयुक्ता तथा जीवति सत्यवान् ||१०||
गौतम उवाच||
वेदाः साङ्गा मयाधीतास्तपो मे सञ्चितं महत् |
कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ||११||
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे |
वायुभक्षोपवासश्च कुशलानि च यानि मे ||१२||
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् |
सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति ||१३||
शिष्य उवाच||
उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् |
नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ||१४||
ऋषय ऊचुः||
यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः |
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ||१५||
भारद्वाज उवाच||
यथास्य भार्या सावित्री तपसा च दमेन च |
आचारेण च संयुक्ता तथा जीवति सत्यवान् ||१६||
दाल्भ्य उवाच||
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् |
गताहारमकृत्वा च तथा जीवति सत्यवान् ||१७||
माण्डव्य उवाच||
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः |
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ||१८||
धौम्य उवाच||
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः |
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ||१९||
मार्कण्डेय उवाच||
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः |
तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् ||२०||
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह |
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ||२१||
ब्राह्मणा ऊचुः||
पुत्रेण सङ्गतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च |
सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ||२२||
समागमेन पुत्रस्य सावित्र्या दर्शनेन च |
चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ||२३||
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः |
भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ||२४||
मार्कण्डेय उवाच||
ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि |
उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ||२५||
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः |
सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ||२६||
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः |
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ||२७||
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो |
विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् ||२८||
सन्तापितः पिता माता वयं चैव नृपात्मज |
नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ||२९||
सत्यवानुवाच||
पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः |
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ||३०||
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये |
तावत्कालं च न मया सुप्तपूर्वं कदाचन ||३१||
सर्वेषामेव भवतां सन्तापो मा भवेदिति |
अतो विरात्रागमनं नान्यदस्तीह कारणम् ||३२||
गौतम उवाच||
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः |
नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ||३३||
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् |
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ||३४||
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् |
रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः ||३५||
सावित्र्युवाच||
एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः |
न च किञ्चिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् ||३६||
मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना |
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ||३७||
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिङ्करः |
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ||३८||
अस्तौषं तमहं देवं सत्येन वचसा विभुम् |
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ||३९||
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे |
लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ||४०||
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् |
भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ||४१||
एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः |
यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम ||४२||
ऋषय ऊचुः||
निमज्जमानं व्यसनैरभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे |
त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया ||४३||
मार्कण्डेय उवाच||
तथा प्रशस्य ह्यभिपूज्य चैव ते; वरस्त्रियं तामृषयः समागताः |
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा; शिवेन जग्मुर्मुदिताः स्वमालयम् ||४४||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
283-अध्यायः
मार्कण्डेय उवाच||
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले |
कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः ||१||
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः |
द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ||२||
ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप |
आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम् ||३||
तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् |
न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम् ||४||
ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति |
सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति ||५||
अनेन निश्चयेनेह वयं प्रस्थापिता नृप |
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ||६||
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः |
अध्यास्स्व चिररात्राय पितृपैतामहं पदम् ||७||
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् |
मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः ||८||
ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः |
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ||९||
शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा |
नरयुक्तेन यानेन प्रययौ सेनया वृता ||१०||
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः |
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ||११||
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् |
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ||१२||
भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् |
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् ||१३||
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च |
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम् ||१४||
तथैवैषापि कल्याणी द्रौपदी शीलसंमता |
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना ||१५||
वैशम्पायन उवाच||
एवं स पाण्डवस्तेन अनुनीतो महात्मना |
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा ||१६||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
284-अध्यायः-कुण्डलाहरणपर्व
जनमेजय उवाच||
यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत् |
इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम् ||१||
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् |
तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ||२||
किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम् |
आसीन्न च स धर्मात्मा कथयामास कस्यचित् ||३||
वैशम्पायन उवाच||
अहं ते राजशार्दूल कथयामि कथामिमाम् |
पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम ||४||
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे |
पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः ||५||
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः |
कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् ||६||
महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते |
शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् ||७||
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् |
कृपया परयाविष्टः पुत्रस्नेहाच्च भारत ||८||
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान् |
हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः ||९||
कर्ण मद्वचनं तात शृणु सत्यभृतां वर |
ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् ||१०||
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया |
ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया ||११||
विदितं तेन शीलं ते सर्वस्य जगतस्तथा |
यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे ||१२||
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः |
वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् ||१३||
तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः |
आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् ||१४||
तस्मै प्रयाचमानाय न देये कुण्डले त्वया |
अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् ||१५||
कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया |
अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः ||१६||
रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि |
निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः ||१७||
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे |
आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि ||१८||
कवचेन च संयुक्तः कुण्डलाभ्यां च मानद |
अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम ||१९||
अमृतादुत्थितं ह्येतदुभयं रत्नसम्भवम् |
तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव ||२०||
कर्ण उवाच||
को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् |
कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् ||२१||
ब्राह्मण उवाच||
अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये |
कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते ||२२||
कर्ण उवाच||
श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः |
प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम ||२३||
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् |
न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः ||२४||
व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो |
यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् ||२५||
यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः |
हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् ||२६||
दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् |
न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता ||२७||
मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् |
युक्तं हि यशसा युक्तं मरणं लोकसंमतम् ||२८||
सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा |
यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति ||२९||
हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् |
तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति ||३०||
वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् |
कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति ||३१||
कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत् |
अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः ||३२||
अयं पुराणः श्लोको हि स्वयं गीतो विभावसो |
धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै ||३३||
पुरुषस्य परे लोके कीर्तिरेव परायणम् |
इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ||३४||
सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् |
दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि ||३५||
हुत्वा शरीरं सङ्ग्रामे कृत्वा कर्म सुदुष्करम् |
विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम् ||३६||
भीतानामभयं दत्त्वा सङ्ग्रामे जीवितार्थिनाम् |
वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात् ||३७||
प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन |
जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम् ||३८||
सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम् |
ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् ||३९||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
285-अध्यायः
सूर्य उवाच||
माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा |
पुत्राणामथ भार्याणामथो मातुरथो पितुः ||१||
शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर |
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ||२||
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् |
सा ते प्राणान्समादाय गमिष्यति न संशयः ||३||
जीवतां कुरुते कार्यं पिता माता सुतास्तथा |
ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ||४||
राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ||४||
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते |
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ||५||
मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते ||५||
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः |
अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया ||६||
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना |
भक्तोऽयं परया भक्त्या मामित्येव महाभुज ||७||
ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ||७||
अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम् |
अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया ||८||
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ |
तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ||९||
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् |
मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये ||१०||
शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते |
विशाखयोर्मध्यगतः शशीव विमलो दिवि ||११||
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् |
प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः ||१२||
शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ |
विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः ||१३||
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः |
पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ||१४||
त्व हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना |
सव्यसाची त्वया चैव युधि शूरः समेष्यति ||१५||
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् |
विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ||१६||
तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे |
सङ्ग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् ||१७||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
286-अध्यायः
कर्ण उवाच||
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते |
तथा परमतिग्मांशो नान्यं देवं कथञ्चन ||१||
न मे दारा न मे पुत्रा न चात्मा सुहृदो न च |
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ||२||
इष्टानां च महात्मानो भक्तानां च न संशयः |
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ||३||
इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि |
जानीत इति वै कृत्वा भगवानाह मद्धितम् ||४||
भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः |
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ||५||
बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् |
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ||६||
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ||६||
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति |
व्येतु सन्तापजं दुःखं तव भास्कर मानसम् ||७||
अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम् ||७||
तवापि विदितं देव ममाप्यस्त्रबलं महत् |
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ||८||
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम |
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ||९||
सूर्य उवाच||
यदि तात ददास्येते वज्रिणे कुण्डले शुभे |
त्वमप्येनमथो ब्रूया विजयार्थं महाबल ||१०||
नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः |
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ||११||
अर्जुनेन विनाशं हि तव दानवसूदनः |
प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति ||१२||
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः |
अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ||१३||
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् |
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ||१४||
इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले |
तया त्वं कर्ण सङ्ग्रामे हनिष्यसि रणे रिपून् ||१५||
नाहत्वा हि महाबाहो शत्रूनेति करं पुनः |
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ||१६||
वैशम्पायन उवाच||
एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत |
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ||१७||
यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि |
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ||१८||
तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः |
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ||१९||
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा |
शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ||२०||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
287-अध्यायः
जनमेजय उवाच||
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना |
कीदृशे कुण्डले ते च कवचं चैव कीदृशम् ||१||
कुतश्च कवचं तस्य कुण्डले चैव सत्तम |
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ||२||
वैशम्पायन उवाच||
अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः |
यादृशे कुण्डले चैव कवचं चैव यादृशम् ||३||
कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः |
तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः ||४||
दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव |
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ||५||
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः |
भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर ||६||
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः |
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ ||७||
यथाकामं च गच्छेयमागच्छेयं तथैव च |
शय्यासने च मे राजन्नापराध्येत कश्चन ||८||
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः |
एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् ||९||
मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी |
शीलवृत्तान्विता साध्वी नियता न च मानिनी ||१०||
उपस्थास्यति सा त्वां वै पूजयानवमन्य च |
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ||११||
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि |
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ||१२||
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति |
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ||१३||
त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् |
तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् ||१४||
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः |
यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् ||१५||
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः |
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ||१६||
अमानयन्हि मानार्हान्वातापिश्च महासुरः |
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च ||१७||
सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम् |
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ||१८||
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि |
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ||१९||
तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु |
मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे ||२०||
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते |
सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि ||२१||
संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति |
पृथे बालेति कृत्वा वै सुता चासि ममेति च ||२२||
वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता |
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् ||२३||
वसुदेवस्य भगिनी सुतानां प्रवरा मम |
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ||२४||
तादृशे हि कुले जाता कुले चैव विवर्धिता |
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता ||२५||
दौष्कुलेया विशेषेण कथञ्चित्प्रग्रहं गताः |
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ||२६||
पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् |
तेन तेनासि सम्पन्ना समुपेता च भामिनी ||२७||
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि |
आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे ||२८||
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् |
कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् ||२९||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
288-अध्यायः
कुन्त्युवाच||
ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया |
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम् ||१||
एष चैव स्वभावो मे पूजयेयं द्विजानिति |
तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम ||२||
यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि |
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति ||३||
लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान् |
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ||४||
विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः |
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते ||५||
यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ |
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ||६||
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते |
तारणाय समर्थाः स्युर्विपरीते वधाय च ||७||
साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् |
न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ||८||
अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः |
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा ||९||
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् |
यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति ||१०||
राजोवाच||
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया |
मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि ||११||
वैशम्पायन उवाच||
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः |
पृथां परिददौ तस्मै द्विजाय सुतवत्सलः ||१२||
इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता |
अपराध्येत यत्किञ्चिन्न तत्कार्यं हृदि त्वया ||१३||
द्विजातयो महाभागा वृद्धबालतपस्विषु |
भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा ||१४||
सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः |
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम ||१५||
तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः |
हंसचन्द्रांशुसङ्काशं गृहमस्य न्यवेदयत् ||१६||
तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत् |
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् ||१७||
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च |
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने ||१८||
तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती |
विधिवत्परिचारार्हं देववत्पर्यतोषयत् ||१९||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
289-अध्यायः
वैशम्पायन उवाच||
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् |
तोषयामास शुद्धेन मनसा संशितव्रता ||१||
प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः |
तत आयाति राजेन्द्र साये रात्रावथो पुनः ||२||
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः |
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ||३||
अन्नादिसमुदाचारः शय्यासनकृतस्तथा |
दिवसे दिवसे तस्य वर्धते न तु हीयते ||४||
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा |
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ||५||
व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः |
दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् ||६||
कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत् |
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ||७||
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा |
प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता ||८||
तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः |
अवधानेन भूयोऽस्य परं यत्नमथाकरोत् ||९||
तां प्रभाते च साये च पिता पप्रच्छ भारत |
अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया ||१०||
तं सा परममित्येव प्रत्युवाच यशस्विनी |
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ||११||
ततः संवत्सरे पूर्णे यदासौ जपतां वरः |
नापश्यद्दुष्कृतं किञ्चित्पृथायाः सौहृदे रतः ||१२||
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् |
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे ||१३||
वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह |
यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि ||१४||
कुन्त्युवाच||
कृतानि मम सर्वाणि यस्या मे वेदवित्तम |
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ||१५||
ब्राह्मण उवाच||
यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते |
इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् ||१६||
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि |
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति ||१७||
अकामो वा सकामो वा न स नैष्यति ते वशम् |
विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः ||१८||
वैशम्पायन उवाच||
न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता |
तं वै द्विजातिप्रवरं तदा शापभयान्नृप ||१९||
ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः |
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ||२०||
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह |
उषितोऽस्मि सुखं राजन्कन्यया परितोषितः ||२१||
तव गेहे सुविहितः सदा सुप्रतिपूजितः |
साधयिष्यामहे तावदित्युक्त्वान्तरधीयत ||२२||
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा |
बभूव विस्मयाविष्टः पृथां च समपूजयत् ||२३||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
290-अध्यायः
वैशम्पायन उवाच||
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये |
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ||१||
अयं वै कीदृशस्तेन मम दत्तो महात्मना |
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव ||२||
एवं सञ्चिन्तयन्ती सा ददर्शर्तुं यदृच्छया |
व्रीडिता साभवद्बाला कन्याभावे रजस्वला ||३||
अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह |
न ततर्प च रूपेण भानोः सन्ध्यागतस्य सा ||४||
तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् |
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ||५||
तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप |
आह्वानमकरोत्साथ तस्य देवस्य भामिनी ||६||
प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् |
आजगाम ततो राजंस्त्वरमाणो दिवाकरः ||७||
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव |
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ||८||
योगात्कृत्वा द्विधात्मानमाजगाम तताप च |
आबभाषे ततः कुन्तीं साम्ना परमवल्गुना ||९||
आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः |
किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते ||१०||
कुन्त्युवाच||
गम्यतां भगवंस्तत्र यतोऽसि समुपागतः |
कौतूहलात्समाहूतः प्रसीद भगवन्निति ||११||
सूर्य उवाच||
गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे |
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ||१२||
तवाभिसन्धिः सुभगे सूर्यात्पुत्रो भवेदिति |
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ||१३||
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि |
उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने ||१४||
अथ गच्छाम्यहं भद्रे त्वयासङ्गम्य सुस्मिते |
शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते ||१५||
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः |
पितरं चैव ते मूढं यो न वेत्ति तवानयम् ||१६||
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव |
शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ||१७||
एते हि विबुधाः सर्वे पुरंदरमुखा दिवि |
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि ||१८||
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते |
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ||१९||
वैशम्पायन उवाच||
ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान् |
प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव ||२०||
सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता |
गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः ||२१||
पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने |
नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा ||२२||
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो |
बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो ||२३||
सूर्य उवाच||
बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत |
आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु ||२४||
न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै |
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् ||२५||
सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे ||२५||
सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् |
विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि ||२६||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
291-अध्यायः
वैशम्पायन उवाच||
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः |
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ||१||
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् |
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ||२||
अनागसः पितुः शापो ब्राह्मणस्य तथैव च |
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ||३||
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि |
नात्यासादयितव्यानि तेजांसि च तपांसि च ||४||
साहमद्य भृशं भीता गृहीता च करे भृशम् |
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ||५||
सैवं शापपरित्रस्ता बहु चिन्तयती तदा |
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः ||६||
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम |
व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते ||७||
कुन्त्युवाच||
पिता मे ध्रियते देव माता चान्ये च बान्धवाः |
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् ||८||
त्वया मे सङ्गमो देव यदि स्याद्विधिवर्जितः |
मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः ||९||
अथ वा धर्ममेतं त्वं मन्यसे तपतां वर |
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ||१०||
आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम् |
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ||११||
सूर्य उवाच||
न ते पिता न ते माता गुरवो वा शुचिस्मिते |
प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः ||१२||
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि |
तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि ||१३||
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि |
अधर्मं कुत एवाहं चरेयं लोककाम्यया ||१४||
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि |
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ||१५||
सा मया सह सङ्गम्य पुनः कन्या भविष्यसि |
पुत्रश्च ते महाबाहुर्भविष्यति महायशाः ||१६||
कुन्त्युवाच||
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह |
कुण्डली कवची शूरो महाबाहुर्महाबलः ||१७||
सूर्य उवाच||
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् |
उभयं चामृतमयं तस्य भद्रे भविष्यति ||१८||
कुन्त्युवाच||
यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम् |
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ||१९||
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया |
त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च ||२०||
सूर्य उवाच||
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि |
तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् ||२१||
पृथोवाच||
परमं भगवन्देव सङ्गमिष्ये त्वया सह |
यदि पुत्रो भवेदेवं यथा वदसि गोपते ||२२||
वैशम्पायन उवाच||
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः |
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ||२३||
ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा |
पपाताथ च सा देवी शयने मूढचेतना ||२४||
सूर्य उवाच||
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि |
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि ||२५||
वैशम्पायन उवाच||
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् |
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् ||२६||
इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा |
तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव ||२७||
तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविष्यात्मसंस्थां चकार |
न चैवैनां दूषयामास भानुः; सञ्ज्ञां लेभे भूय एवाथ बाला ||२८||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
292-अध्यायः
वैशम्पायन उवाच||
ततो गर्भः समभवत्पृथायाः पृथिवीपते |
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ||१||
सा बान्धवभयाद्बाला तं गर्भं विनिगूहती |
धारयामास सुश्रोणी न चैनां बुबुधे जनः ||२||
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते |
कन्यापुरगतां बालां निपुणां परिरक्षणे ||३||
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी |
कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ||४||
तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् |
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ||५||
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी |
मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः ||६||
मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा |
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ||७||
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् |
पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् ||८||
समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले |
उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु ||९||
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक |
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ||१०||
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः |
आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः ||११||
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः |
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ||१२||
पिता त्वां पातु सर्वत्र तपनस्तपतां वरः |
येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल ||१३||
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः |
मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः ||१४||
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च |
वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् ||१५||
धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः |
यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ||१६||
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति |
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ||१७||
को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् |
दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् ||१८||
पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् |
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ||१९||
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् |
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ||२०||
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे |
हिमवद्वनसम्भूतं सिंहं केसरिणं यथा ||२१||
एवं बहुविधं राजन्विलप्य करुणं पृथा |
अवासृजत मञ्जूषामश्वनद्यास्तदा जले ||२२||
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा |
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ||२३||
विसर्जयित्वा मञ्जूषां सम्बोधनभयात्पितुः |
विवेश राजभवनं पुनः शोकातुरा ततः ||२४||
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् |
चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह ||२५||
गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम् |
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ||२६||
अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम् |
धारयामास तं गर्भं दैवं च विधिनिर्मितम् ||२७||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
293-अध्यायः
वैशम्पायन उवाच||
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा |
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ||१||
तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि |
राधा नाम महाभागा न सा पुत्रमविन्दत ||२||
अपत्यार्थे परं यत्नमकरोच्च विशेषतः ||२||
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया |
दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् ||३||
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ||३||
सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी |
ततो निवेदयामास सूतस्याधिरथस्य वै ||४||
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् |
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् ||५||
तरुणादित्यसङ्काशं हेमवर्मधरं तथा |
मृष्टकुण्डलयुक्तेन वदनेन विराजता ||६||
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः |
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ||७||
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि |
दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः ||८||
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम |
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ||९||
प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् |
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ||१०||
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् |
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ||११||
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् |
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ||१२||
एवं स सूतपुत्रत्वं जगामामितविक्रमः |
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ||१३||
स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् |
चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् ||१४||
सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः |
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ||१५||
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि |
सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ||१६||
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् |
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ||१७||
सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः |
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ||१८||
सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते |
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ||१९||
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् |
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ||२०||
यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् |
स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः ||२१||
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः |
नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु ||२२||
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः |
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ||२३||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
294-अध्यायः
वैशम्पायन उवाच||
देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः |
दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् ||१||
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् |
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ||२||
ब्राह्मण उवाच||
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् |
नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ||३||
यदेतत्सहजं वर्म कुण्डले च तवानघ |
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ||४||
एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परन्तप |
एष मे सर्वलाभानां लाभः परमको मतः ||५||
कर्ण उवाच||
अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् |
तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले ||६||
वैशम्पायन उवाच||
एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः |
कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ||७||
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि |
नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ||८||
यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः |
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ||९||
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे |
तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् ||१०||
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् |
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ||११||
कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च |
गमनीयो भविष्यामि शत्रूणां द्विजसत्तम ||१२||
यदा नान्यं वरं वव्रे भगवान्पाकशासनः |
ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः ||१३||
विदितो देवदेवेश प्रागेवासि मम प्रभो |
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ||१४||
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम |
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ||१५||
यदि दास्यामि ते देव कुण्डले कवचं तथा |
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ||१६||
तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् |
हरस्व शक्र कामं मे न दद्यामहमन्यथा ||१७||
शक्र उवाच||
विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् |
तेन ते सर्वमाख्यातमेवमेतन्न संशयः ||१८||
काममस्तु तथा तात तव कर्ण यथेच्छसि |
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि ||१९||
वैशम्पायन उवाच||
ततः कर्णः प्रहृष्टस्तु उपसङ्गम्य वासवम् |
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ||२०||
कर्ण उवाच||
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव |
अमोघां शत्रुसङ्घानां घातनीं पृतनामुखे ||२१||
वैशम्पायन उवाच||
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः |
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ||२२||
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् |
गृहाण कर्ण शक्तिं त्वमनेन समयेन मे ||२३||
अमोघा हन्ति शतशः शत्रून्मम करच्युता |
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ||२४||
सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् |
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ||२५||
कर्ण उवाच||
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे |
गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् ||२६||
इन्द्र उवाच||
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे |
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ||२७||
यमाहुर्वेदविद्वांसो वराहमजितं हरिम् |
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ||२८||
कर्ण उवाच||
एवमप्यस्तु भगवन्नेकवीरवधे मम |
अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् ||२९||
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते |
निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् ||३०||
इन्द्र उवाच||
न ते बीभत्सता कर्ण भविष्यति कथञ्चन |
व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि ||३१||
यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर |
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ||३२||
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये |
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ||३३||
कर्ण उवाच||
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् |
यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ||३४||
वैशम्पायन उवाच||
ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते |
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ||३५||
ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम् |
दृष्ट्वा सर्वे सिद्धसङ्घाश्च नेदु; र्न ह्यस्यासीद्दुःखजो वै विकारः ||३६||
ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् |
दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं; मुहुश्चापि स्मयमानं नृवीरम् ||३७||
ततश्छित्त्वा कवचं दिव्यमङ्गा; त्तथैवार्द्रं प्रददौ वासवाय |
तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः ||३८||
ततः शक्रः प्रहसन्वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा |
कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात ||३९||
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् |
तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः ||४०||
जनमेजय उवाच||
क्वस्था वीराः पाण्डवास्ते बभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रियं ते |
किं वाकार्षुर्द्वादशेऽब्दे व्यतीते; तन्मे सर्वं भगवान्व्याकरोतु ||४१||
वैशम्पायन उवाच||
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते |
मार्कण्डेयाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण ||४२||
प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश्च |
ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् ||४३||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
295-अध्यायः-आरणेयपर्व
जनमेजय उवाच||
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् |
प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः ||१||
वैशम्पायन उवाच||
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् |
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ||२||
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः |
स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ||३||
अनुगुप्तफलाहाराः सर्व एव मिताशनाः |
न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ||४||
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः |
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ||५||
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः |
क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ||६||
अजातशत्रुमासीनं भ्रातृभिः सहितं वने |
आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ||७||
अरणीसहितं मह्यं समासक्तं वनस्पतौ |
मृगस्य घर्षमाणस्य विषाणे समसज्जत ||८||
तदादाय गतो राजंस्त्वरमाणो महामृगः |
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ||९||
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् |
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ||१०||
ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः |
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ||११||
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः |
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ||१२||
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः |
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ||१३||
तेषां प्रयतमानानां नादृश्यत महामृगः |
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ||१४||
शीतलच्छायमासाद्य न्यग्रोधं गहने वने |
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ||१५||
तेषां समुपविष्टानां नकुलो दुःखितस्तदा |
अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ||१६||
नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव |
अनुत्तराः सर्वभूतेषु भूयः; सम्प्राप्ताः स्मः संशयं केन राजन् ||१७||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
296-अध्यायः
युधिष्ठिर उवाच||
नापदामस्ति मर्यादा न निमित्तं न कारणम् |
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ||१||
भीम उवाच||
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा |
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ||२||
अर्जुन उवाच||
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः |
अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् ||३||
सहदेव उवाच||
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत |
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ||४||
वैशम्पायन उवाच||
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् |
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ||५||
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् |
इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ||६||
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् |
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ||७||
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् |
सारसानां च निर्ह्रादमत्रोदकमसंशयम् ||८||
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः |
गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ||९||
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् |
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ||१०||
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् |
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ||११||
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ||१२||
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः |
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ||१३||
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः |
अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् ||१४||
भ्राता चिरायते तात सहदेव तवाग्रजः |
तं चैवानय सोदर्यं पानीयं च त्वमानय ||१५||
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत |
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ||१६||
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः |
अभिदुद्राव पानीयं ततो वागभ्यभाषत ||१७||
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |
प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ||१८||
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः |
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ||१९||
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः |
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ||२०||
तौ चैवानय भद्रं ते पानीयं च त्वमानय ||२०||
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः |
आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत ||२१||
यतः पुरुषशार्दूलौ पानीयहरणे गतौ |
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ||२२||
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः |
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ||२३||
नापश्यत्तत्र किञ्चित्स भूतं तस्मिन्महावने |
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ||२४||
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे |
किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ||२५||
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे |
ततः पास्यसि पानीयं हरिष्यसि च भारत ||२६||
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय |
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ||२७||
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः |
ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ||२८||
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ |
अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ||२९||
यक्ष उवाच||
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब |
अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ||३०||
वैशम्पायन उवाच||
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः |
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ||३१||
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च बीभत्सुश्चापराजितः ||३२||
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत |
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ||३३||
भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत |
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ||३४||
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः |
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ||३५||
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ||३५||
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः |
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ||३६||
यक्ष उवाच||
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ||३७||
वैशम्पायन उवाच||
एवमुक्तस्ततो भीमो यक्षेणामिततेजसा |
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ||३८||
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः |
समुत्थाय महाबाहुर्दह्यमानेन चेतसा ||३९||
अपेतजननिर्घोषं प्रविवेश महावनम् |
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ||४०||
नीलभास्वरवर्णैश्च पादपैरुपशोभितम् |
भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः ||४१||
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् |
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ||४२||
उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः |
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ||४३||
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ||४३||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
297-अध्यायः
यक्षप्रश्नाः
वैशम्पायन उवाच||
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् |
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ||१||
विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् |
भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः ||२||
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः |
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ||३||
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् |
भूतं महदिदं मन्ये भ्रातरो येन मे हताः ||४||
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ||४||
स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् |
गान्धारराजरचितं सततं जिह्मबुद्धिना ||५||
यस्य कार्यमकार्यं वा सममेव भवत्युत |
कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ||६||
अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः |
भवेदिति महाबाहुर्बहुधा समचिन्तयत् ||७||
तस्यासीन्न विषेणेदमुदकं दूषितं यथा |
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ||८||
एकैकशश्चौघबलानिमान्पुरुषसत्तमान् |
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ||९||
एतेनाध्यवसायेन तत्तोयमवगाढवान् |
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ||१०||
यक्ष उवाच||
अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः |
त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि ||११||
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ||१२||
युधिष्ठिर उवाच||
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् |
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ||१३||
हिमवान्पारियात्रश्च विन्ध्यो मलय एव च |
चत्वारः पर्वताः केन पातिता भुवि तेजसा ||१४||
अतीव ते महत्कर्म कृतं बलवतां वर |
यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ||१५||
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ||१५||
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् |
कौतूहलं महज्जातं साध्वसं चागतं मम ||१६||
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः |
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ||१७||
यक्ष उवाच||
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः |
मयैते निहताः सर्वे भ्रातरस्ते महौजसः ||१८||
वैशम्पायन उवाच||
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् |
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ||१९||
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् |
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ||२०||
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः |
मेघगम्भीरया वाचा तर्जयन्तं महाबलम् ||२१||
यक्ष उवाच||
इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् |
बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया ||२२||
न पेयमुदकं राजन्प्राणानिह परीप्सता |
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ||२३||
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ||२३||
युधिष्ठिर उवाच||
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् |
कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ||२४||
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो |
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ||२५||
यक्ष उवाच||
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः |
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ||२६||
युधिष्ठिर उवाच||
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः |
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ||२७||
यक्ष उवाच||
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् |
केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ||२८||
युधिष्ठिर उवाच||
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् |
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ||२९||
यक्ष उवाच||
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव |
कश्चैषां मानुषो भावः किमेषामसतामिव ||३०||
युधिष्ठिर उवाच||
स्वाध्याय एषां देवत्वं तप एषां सतामिव |
मरणं मानुषो भावः परिवादोऽसतामिव ||३१||
यक्ष उवाच||
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव |
कश्चैषां मानुषो भावः किमेषामसतामिव ||३२||
युधिष्ठिर उवाच||
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव |
भयं वै मानुषो भावः परित्यागोऽसतामिव ||३३||
यक्ष उवाच||
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः |
का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ||३४||
युधिष्ठिर उवाच||
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः |
वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ||३५||
यक्ष उवाच||
किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् |
किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ||३६||
युधिष्ठिर उवाच||
वर्षमापततां श्रेष्ठं बीजं निपततां वरम् |
गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ||३७||
यक्ष उवाच||
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः |
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ||३८||
युधिष्ठिर उवाच||
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः |
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ||३९||
यक्ष उवाच||
किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् |
किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ||४०||
युधिष्ठिर उवाच||
माता गुरुतरा भूमेः पिता उच्चतरश्च खात् |
मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ||४१||
यक्ष उवाच||
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति |
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ||४२||
युधिष्ठिर उवाच||
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति |
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ||४३||
यक्ष उवाच||
किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः |
आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ||४४||
युधिष्ठिर उवाच||
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः |
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ||४५||
यक्ष उवाच||
किं स्विदेको विचरति जातः को जायते पुनः |
किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ||४६||
युधिष्ठिर उवाच||
सूर्य एको विचरति चन्द्रमा जायते पुनः |
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ||४७||
यक्ष उवाच||
किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः |
किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ||४८||
युधिष्ठिर उवाच||
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः |
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ||४९||
यक्ष उवाच||
किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा |
उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ||५०||
युधिष्ठिर उवाच||
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा |
उपजीवनं च पर्जन्यो दानमस्य परायणम् ||५१||
यक्ष उवाच||
धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् |
लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ||५२||
युधिष्ठिर उवाच||
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् |
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ||५३||
यक्ष उवाच||
कश्च धर्मः परो लोके कश्च धर्मः सदाफलः |
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ||५४||
युधिष्ठिर उवाच||
आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः |
मनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ||५५||
यक्ष उवाच||
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति |
किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ||५६||
युधिष्ठिर उवाच||
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति |
कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् ||५७||
यक्ष उवाच||
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् |
श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ||५८||
युधिष्ठिर उवाच||
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् |
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ||५९||
यक्ष उवाच||
का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् |
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ||६०||
युधिष्ठिर उवाच||
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् |
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ||६१||
यक्ष उवाच||
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप |
पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ||६२||
युधिष्ठिर उवाच||
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः |
यावत्स शब्दो भवति तावत्पुरुष उच्यते ||६३||
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च |
अतीतानागते चोभे स वै सर्वधनी नरः ||६४||
यक्ष उवाच||
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः |
तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ||६५||
युधिष्ठिर उवाच||
श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः |
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ||६६||
यक्ष उवाच||
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् |
स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ||६७||
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् |
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ||६८||
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव |
अथ केनानुभावेन सापत्नं जीवमिच्छसि ||६९||
यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः |
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ||७०||
युधिष्ठिर उवाच||
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् |
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ||७१||
धर्मशीलः सदा राजा इति मां मानवा विदुः |
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ||७२||
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः |
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ||७३||
यक्ष उवाच||
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् |
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ||७४||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
298-अध्यायः
वैशम्पायन उवाच||
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः |
क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ||१||
युधिष्ठिर उवाच||
सरस्येकेन पादेन तिष्ठन्तमपराजितम् |
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ||२||
वसूनां वा भवानेको रुद्राणामथ वा भवान् |
अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ||३||
मम हि भ्रातर इमे सहस्रशतयोधिनः |
न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ||४||
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये |
स भवान्सुहृदस्माकमथ वा नः पिता भवान् ||५||
यक्ष उवाच||
अहं ते जनकस्तात धर्मो मृदुपराक्रम |
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ||६||
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् |
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ||७||
अहिंसा समता शान्तिस्तपः शौचममत्सरः |
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ||८||
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता |
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ||९||
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः |
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ||१०||
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ |
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ||११||
युधिष्ठिर उवाच||
अरणीसहितं यस्य मृग आदाय गच्छति |
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ||१२||
धर्म उवाच||
अरणीसहितं तस्य ब्राह्मणस्य हृतं मया |
मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ||१३||
वैशम्पायन उवाच||
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत |
अन्यं वरय भद्रं ते वरं त्वममरोपम ||१४||
युधिष्ठिर उवाच||
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् |
तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् ||१५||
वैशम्पायन उवाच||
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत |
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ||१६||
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् |
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ||१७||
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः |
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ||१८||
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् |
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ||१९||
अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत |
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ||२०||
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् |
त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् ||२१||
युधिष्ठिर उवाच||
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः |
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ||२२||
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो |
दाने तपसि सत्ये च मनो मे सततं भवेत् ||२३||
धर्म उवाच||
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव |
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ||२४||
वैशम्पायन उवाच||
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः |
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ||२५||
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः |
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ||२६||
इदं समुत्थानसमागमं मह; त्पितुश्च पुत्रस्य च कीर्तिवर्धनम् |
पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत् ||२७||
न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने |
कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम् ||२८||
श्रीमहाभारतम्
||३ आरण्यकपर्वम् ||
299-अध्यायः
वैशम्पायन उवाच||
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः |
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ||१||
उपोपविश्य विद्वांसः सहिताः संशितव्रताः ||१||
ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः |
तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा ||२||
अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः ||२||
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् |
छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः ||३||
उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् |
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् ||४||
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ||४||
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः |
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ||५||
युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च ||५||
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह |
समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि ||६||
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा |
संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः ||७||
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह |
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा ||८||
राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः |
नैवंविधाः प्रमुह्यन्ति नराः कस्याञ्चिदापदि ||९||
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा |
तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः ||१०||
इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा |
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ||११||
विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता |
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ||१२||
प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा |
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ||१३||
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा |
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ||१४||
प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे |
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ||१५||
हुताशनेन यच्चापः प्रविश्य छन्नमासता |
विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया ||१६||
एवं विवस्वता तात छन्नेनोत्तमतेजसा |
निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः ||१७||
विष्णुना वसता चापि गृहे दशरथस्य वै |
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ||१८||
एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह |
अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि ||१९||
तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः |
शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः ||२०||
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः |
राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन् ||२१||
अवेक्षया महाराज तव गाण्डीवधन्वना |
धर्मानुगतया बुद्ध्या न किञ्चित्साहसं कृतम् ||२२||
सहदेवो मया नित्यं नकुलश्च निवारितौ |
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ||२३||
न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् |
भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् ||२४||
इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः |
प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् ||२५||
सर्वे वेदविदो मुख्या यतयो मुनयस्तथा |
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ||२६||
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः |
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ||२७||
क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः |
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ||२८||
पृथक्षास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः |
सन्धिविग्रहकालज्ञा मन्त्राय समुपाविशन् ||२९||
आरण्यकपर्व सम्पूर्णम्