[highlight_content]

शाल्यपर्वम् अध्यायः 21-37

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

021-अध्यायः

सञ्जय उवाच||

पुत्रस्तु ते महाराज रथस्थो रथिनां वरः |

दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ||१||

तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही |

परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ||२||

न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे |

हयो गजो रथो वापि योऽस्य बाणैरविक्षतः ||३||

यं यं हि समरे योधं प्रपश्यामि विशां पते |

स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत ||४||

यथा सैन्येन रजसा समुद्धूतेन वाहिनी |

प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः ||५||

बाणभूतामपश्याम पृथिवीं पृथिवीपते |

दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना ||६||

तेषु योधसहस्रेषु तावकेषु परेषु च |

एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम ||७||

तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् |

यदेकं सहिताः पार्था नात्यवर्तन्त भारत ||८||

युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ |

भीमसेनं च सप्तत्या सहदेवं च सप्तभिः ||९||

नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः |

सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् ||१०||

धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष ||१०||

तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् |

अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः ||११||

ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः ||११||

नकुलश्च ततो वीरो राजानं नवभिः शरैः |

घोररूपैर्महेष्वासो विव्याध च ननाद च ||१२||

सात्यकिश्चापि राजानं शरेणानतपर्वणा |

द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च सप्तभिः ||१३||

अशीत्या भीमसेनश्च शरै राजानमार्दयत् ||१३||

समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः |

न चचाल महाराज सर्वसैन्यस्य पश्यतः ||१४||

लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः |

अति सर्वाणि भूतानि ददृशुः सर्वमानवाः ||१५||

धार्तराष्ट्रास्तु राजेन्द्र यात्वा तु स्वल्पमन्तरम् |

अपश्यमाना राजानं पर्यवर्तन्त दंशिताः ||१६||

तेषामापततां घोरस्तुमुलः समजायत |

क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि ||१७||

समासाद्य रणे ते तु राजानमपराजितम् |

प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः ||१८||

भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत् |

ततो बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् ||१९||

नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा ||१९||

तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ |

घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ ||२०||

त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ ||२०||

शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् |

तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः ||२१||

नादं चकार बलवान्सर्वसैन्यानि कम्पयन् ||२१||

एतस्मिन्नन्तरे वीरं राजानमपराजितम् |

अपोवाह रथेनाजौ सहदेवः प्रतापवान् ||२२||

अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः |

शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ||२३||

ननाद च महानादं प्रवरः सर्वधन्विनाम् ||२३||

तद्युद्धमभवच्चित्रं घोररूपं च मारिष |

ईक्षितृप्रीतिजननं सिद्धचारणसेवितम् ||२४||

उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् |

अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः ||२५||

तथैव नकुलः शूरः सौबलस्य सुतं रणे |

शरवर्षेण महता समन्तात्पर्यवारयत् ||२६||

तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ |

योधयन्तावपश्येतां परस्परकृतागसौ ||२७||

तथैव कृतवर्मा तु शैनेयं शत्रुतापनम् |

योधयञ्शुशुभे राजन्बलं शक्र इवाहवे ||२८||

दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे |

अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ||२९||

धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् |

राजानं योधयामास पश्यतां सर्वधन्विनाम् ||३०||

तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ |

प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः ||३१||

गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान् |

विव्याध बहुभिः शूरः शरैः संनतपर्वभिः ||३२||

तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः |

घोररूपमसंवार्यं निर्मर्यादमतीव च ||३३||

ते च तं पीडयामासुरिन्द्रियाणीव बालिशम् |

स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे ||३४||

एवं चित्रमभूद्युद्धं तस्य तैः सह भारत |

उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो ||३५||

नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा |

हया हयैः समासक्ता रथिनो रथिभिस्तथा ||३६||

सङ्कुलं चाभवद्भूयो घोररूपं विशां पते ||३६||

इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो |

युद्धान्यासन्महाराज घोराणि च बहूनि च ||३७||

ते समासाद्य समरे परस्परमरिंदमाः |

विव्यधुश्चैव जघ्नुश्च समासाद्य महाहवे ||३८||

तेषां शस्त्रसमुद्भूतं रजस्तीव्रमदृश्यत |

प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः ||३९||

रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् |

रजः सन्ध्याभ्रकपिलं दिवाकरपथं ययौ ||४०||

रजसा तेन सम्पृक्ते भास्करे निष्प्रभीकृते |

सञ्छादिताभवद्भूमिस्ते च शूरा महारथाः ||४१||

मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः |

वीरशोणितसिक्तायां भूमौ भरतसत्तम ||४२||

उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ||४२||

ततोऽपश्यं महाराज द्वंद्वयुद्धानि भारत |

यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे ||४३||

वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः ||४३||

शब्दः सुतुमुलः सङ्ख्ये शराणां पततामभूत् |

महावेणुवनस्येव दह्यमानस्य सर्वतः ||४४||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

022-अध्यायः

सञ्जय उवाच||

वर्तमाने तथा युद्धे घोररूपे भयानके |

अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः ||१||

तांस्तु यत्नेन महता संनिवार्य महारथान् |

पुत्रस्ते योधयामास पाण्डवानामनीकिनीम् ||२||

निवृत्ताः सहसा योधास्तव पुत्रप्रियैषिणः |

संनिवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् ||३||

तावकानां परेषां च देवासुररणोपमम् |

परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः ||४||

अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम् |

तेषां क्षयो महानासीद्युध्यतामितरेतरम् ||५||

ततो युधिष्ठिरो राजा क्रोधेन महता युतः |

जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान् ||६||

त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः |

चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः ||७||

अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् |

अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ||८||

ततो दुर्योधनो राजा रथान्सप्तशतान्रणे |

प्रेषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः ||९||

ते रथा रथिभिर्युक्ता मनोमारुतरंहसः |

अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति ||१०||

ते समन्तान्महाराज परिवार्य युधिष्ठिरम् |

अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् ||११||

नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः |

रथैरग्र्यजवैर्युक्तैः किङ्किणीजालसंवृतैः ||१२||

आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् ||१२||

ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः |

पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः ||१३||

रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् |

पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् ||१४||

तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः |

न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम् ||१५||

वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः |

वध्यमानेषु योधेषु तावकेष्वितरेषु च ||१६||

निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः |

उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम् ||१७||

अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु |

धावमानेषु योधेषु जयगृद्धिषु मारिष ||१८||

संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे |

बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा ||१९||

निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे |

प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः ||२०||

चचाल शब्दं कुर्वाणा सपर्वतवना मही ||२०||

सदण्डाः सोल्मुका राजञ्शीर्यमाणाः समन्ततः |

उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् ||२१||

विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः |

अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशद्भृशम् ||२२||

एतान्घोराननादृत्य समुत्पातान्सुदारुणान् |

पुनर्युद्धाय संमन्त्र्य क्षत्रियास्तस्थुरव्यथाः ||२३||

रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः ||२३||

ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् |

युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् ||२४||

ततो नः सम्प्रयातानां मद्रयोधास्तरस्विनः |

हृष्टाः किलकिलाशब्दमकुर्वन्तापरे तथा ||२५||

अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः |

शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् ||२६||

ततो हतं परैस्तत्र मद्रराजबलं तदा |

दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् ||२७||

गान्धारराजस्तु पुनर्वाक्यमाह ततो बली |

निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ||२८||

अनीकं दशसाहस्रमश्वानां भरतर्षभ |

आसीद्गान्धारराजस्य विमलप्रासयोधिनाम् ||२९||

बलेन तेन विक्रम्य वर्तमाने जनक्षये |

पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः ||३०||

तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः |

अभज्यत महाराज पाण्डूनां सुमहद्बलम् ||३१||

ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् |

अभ्यचोदयदव्यग्रः सहदेवं महाबलम् ||३२||

असौ सुबलपुत्रो नो जघनं पीड्य दंशितः |

सेनां निसूदयन्त्येष पश्य पाण्डव दुर्मतिम् ||३३||

गच्छ त्वं द्रौपदेयाश्च शकुनिं सौबलं जहि |

रथानीकमहं रक्ष्ये पाञ्चालसहितोऽनघ ||३४||

गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया |

पादाताश्च त्रिसाहस्राः शकुनिं सौबलं जहि ||३५||

ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः |

पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् ||३६||

पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः |

रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् ||३७||

ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् |

जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान् ||३८||

अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् |

प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् ||३९||

ते तत्र सादिनः शूराः सौबलस्य महद्बलम् |

गजमध्येऽवतिष्ठन्तः शरवर्षैरवाकिरन् ||४०||

तदुद्यतगदाप्रासमकापुरुषसेवितम् |

प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव ||४१||

उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् |

न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत ||४२||

शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ |

ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः ||४३||

ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशां पते |

सम्पतन्तीभिराकाशमावृतं बह्वशोभत ||४४||

प्रासानां पततां राजन्रूपमासीत्समन्ततः |

शलभानामिवाकाशे तदा भरतसत्तम ||४५||

रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः |

हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ||४६||

अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम् |

अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः ||४७||

ततोऽभवत्तमो घोरं सैन्येन रजसा वृते |

तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिंदमान् ||४८||

अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति ||४८||

भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु |

केशाकेशिसमालग्ना न शेकुश्चेष्टितुं जनाः ||४९||

अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः |

मल्ला इव समासाद्य निजघ्नुरितरेतरम् ||५०||

अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः ||५०||

भूमौ निपतिताश्चान्ये बहवो विजयैषिणः |

तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः ||५१||

रक्तोक्षितैश्छिन्नभुजैरपकृष्टशिरोरुहैः |

व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः ||५२||

दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् |

साश्वारोहैर्हतैरश्वैरावृते वसुधातले ||५३||

रुधिरोक्षितसंनाहैरात्तशस्त्रैरुदायुधैः |

नानाप्रहरणैर्घोरैः परस्परवधैषिभिः ||५४||

सुसंनिकृष्टैः सङ्ग्रामे हतभूयिष्ठसैनिकैः ||५४||

स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशां पते |

षट्सहस्रैर्हयैः शिष्टैरपायाच्छकुनिस्ततः ||५५||

तथैव पाण्डवानीकं रुधिरेण समुक्षितम् |

षट्सहस्रैर्हयैः शिष्टैरपायाच्छ्रान्तवाहनम् ||५६||

अश्वारोहास्तु पाण्डूनामब्रुवन्रुधिरोक्षिताः |

सुसंनिकृष्टाः सङ्ग्रामे भूयिष्ठं त्यक्तजीविताः ||५७||

नेह शक्यं रथैर्योद्धुं कुत एव महागजैः |

रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ||५८||

प्रतियातो हि शकुनिः स्वमनीकमवस्थितः |

न पुनः सौबलो राजा युद्धमभ्यागमिष्यति ||५९||

ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः |

प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ||६०||

सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते |

एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः ||६१||

ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः |

पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ||६२||

तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत |

तावकानां परेषां च परस्परवधैषिणाम् ||६३||

ते ह्यन्योन्यमवेक्षन्त तस्मिन्वीरसमागमे |

योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः ||६४||

असिभिश्छिद्यमानानां शिरसां लोकसङ्क्षये |

प्रादुरासीन्महाशब्दस्तालानां पततामिव ||६५||

विमुक्तानां शरीराणां भिन्नानां पततां भुवि |

सायुधानां च बाहूनामुरूणां च विशां पते ||६६||

आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः ||६६||

निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि |

योधाः परिपतन्ति स्म यथामिषकृते खगाः ||६७||

अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् |

अहं पूर्वमहं पूर्वमिति न्यघ्नन्सहस्रशः ||६८||

सङ्घातैरासनभ्रष्टैरश्वारोहैर्गतासुभिः |

हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ||६९||

स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रसारिणाम् |

स्तनतां च मनुष्याणां संनद्धानां विशां पते ||७०||

शक्त्यृष्टिप्रासशब्दश्च तुमुलः समजायत |

भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव ||७१||

श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः |

विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः ||७२||

मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः |

जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् ||७३||

बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः |

भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः ||७४||

वृकगृध्रशृगालानां तुमुले मोदनेऽहनि |

आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः ||७५||

नराश्वकायसञ्छन्ना भूमिरासीद्विशां पते |

रुधिरोदकचित्रा च भीरूणां भयवर्धिनी ||७६||

असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः |

तावकाः पाण्डवाश्चैव नाभ्यवर्तन्त भारत ||७७||

प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् |

योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः ||७८||

शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत |

उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम् ||७९||

अथोत्थितेषु बहुषु कबन्धेषु जनाधिप |

तथा रुधिरगन्धेन योधाः कश्मलमाविशन् ||८०||

मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् |

अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः ||८१||

ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः |

पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः ||८२||

कोष्टकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः |

शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः ||८३||

त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् |

साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः ||८४||

केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् |

निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् ||८५||

रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः |

विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद्यथा ||८६||

एवमन्योन्यमायस्ता योधा जघ्नुर्महामृधे |

पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथापरे ||८७||

एवमासीदमर्यादं युद्धं भरतसत्तम |

प्रासासिबाणकलिले वर्तमाने सुदारुणे ||८८||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

023-अध्यायः

सञ्जय उवाच||

तस्मिञ्शब्दे मृदौ जाते पाण्डवैर्निहते बले |

अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः ||१||

स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि |

युध्यध्वमिति संहृष्टाः पुनः पुनररिंदमः ||२||

अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महारथः ||२||

शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ |

असौ तिष्ठति कौरव्यो रणमध्ये महारथः ||३||

यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् |

यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः ||४||

यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः |

तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् ||५||

एवमुक्तस्तु तैः शूरैः शकुनिः सौबलस्तदा |

प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप ||६||

सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः ||६||

ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् |

सरथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः ||७||

दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते |

कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् ||८||

जहि राजन्रथानीकमश्वाः सर्वे जिता मया |

नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः ||९||

हते तस्मिन्रथानीके पाण्डवेनाभिपालिते |

गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा ||१०||

श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः |

जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् ||११||

सर्वे विवृततूणीराः प्रगृहीतशरासनाः |

शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे ||१२||

ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते |

प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः ||१३||

तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान् |

उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः ||१४||

चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम् |

अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः ||१५||

अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन |

वर्तमानस्य महतः समासाद्य परस्परम् ||१६||

अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् |

क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् ||१७||

समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव |

अस्मानासाद्य सञ्जातं गोष्पदोपममच्युत ||१८||

हते भीष्मे च संदध्याच्छिवं स्यादिह माधव |

न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः ||१९||

उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव |

तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः ||२०||

तस्मिंस्तु पतिते भीष्मे प्रच्युते पृथिवीतले |

न जाने कारणं किं नु येन युद्धमवर्तत ||२१||

मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् |

पतिते शन्तनोः पुत्रे येऽकार्षुः संयुगं पुनः ||२२||

अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे |

राधेये च विकर्णे च नैवाशाम्यत वैशसम् ||२३||

अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते |

सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम् ||२४||

श्रुतायुषि हते शूरे जलसन्धे च पौरवे |

श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम् ||२५||

भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन |

आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम् ||२६||

जयद्रथे च निहते राक्षसे चाप्यलायुधे |

बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम् ||२७||

भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे |

दुःशासने च निहते नैवाशाम्यत वैशसम् ||२८||

दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् |

बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम् ||२९||

अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान् |

मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम् ||३०||

को नु राजकुले जातः कौरवेयो विशेषतः |

निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् ||३१||

गुणतोऽभ्यधिकं ज्ञात्वा बलतः शौर्यतोऽपि वा |

अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् ||३२||

यन्न तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः |

प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुयात्कथम् ||३३||

येन शान्तनवो भीष्मो द्रोणो विदुर एव च |

प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम् ||३४||

मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन |

तथा माता हितं वाक्यं भाषमाणा हितैषिणी ||३५||

प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः ||३५||

कुलान्तकरणो व्यक्तं जात एष जनार्दन |

तथास्य दृश्यते चेष्टा नीतिश्चैव विशां पते ||३६||

नैष दास्यति नो राज्यमिति मे मतिरच्युत ||३६||

उक्तोऽहं बहुशस्तात विदुरेण महात्मना |

न जीवन्दास्यते भागं धार्तराष्ट्रः कथञ्चन ||३७||

यावत्प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद |

तावद्युष्मास्वपापेषु प्रचरिष्यति पातकम् ||३८||

न स युक्तोऽन्यथा जेतुमृते युद्धेन माधव |

इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः ||३९||

तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः |

यदुक्तं वचनं तेन विदुरेण महात्मना ||४०||

यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् |

अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः ||४१||

उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने |

एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति ||४२||

तदिदं वचनं तेषां निरुक्तं वै जनार्दन |

क्षयं याता हि राजानो दुर्योधनकृते भृशम् ||४३||

सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव |

क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते ||४४||

वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति |

तदन्तं हि भवेद्वैरमनुमानेन माधव ||४५||

एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया |

विदुरस्य च वाक्येन चेष्टया च दुरात्मनः ||४६||

संयाहि भारतीं वीर यावद्धन्मि शितैः शरैः |

दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे ||४७||

क्षेममद्य करिष्यामि धर्मराजस्य माधव |

हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः ||४८||

सञ्जय उवाच||

अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना |

तद्बलौघममित्राणामभीतः प्राविशद्रणे ||४९||

शरासनवरं घोरं शक्तिकण्टकसंवृतम् |

गदापरिघपन्थानं रथनागमहाद्रुमम् ||५०||

हयपत्तिलताकीर्णं गाहमानो महायशाः |

व्यचरत्तत्र गोविन्दो रथेनातिपताकिना ||५१||

ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे |

दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः ||५२||

ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः |

किरञ्शरशतांस्तीक्ष्णान्वारिधारा इवाम्बुदः ||५३||

प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् |

इषुभिश्छाद्यमानानां समरे सव्यसाचिना ||५४||

असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि |

इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ||५५||

नरान्नागान्समाहत्य हयांश्चापि विशां पते |

अपतन्त रणे बाणाः पतङ्गा इव घोषिणः ||५६||

आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः |

न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा ||५७||

सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः |

रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः ||५८||

ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः |

समासीदन्त कौरव्या वध्यमानाः शितैः शरैः ||५९||

शरचापधरः पार्थः प्रज्वलन्निव भारत |

ददाह समरे योधान्कक्षमग्निरिव ज्वलन् ||६०||

यथा वनान्ते वनपैर्विसृष्टः; कक्षं दहेत्कृष्णगतिः सघोषः |

भूरिद्रुमं शुष्कलतावितानं; भृशं समृद्धो ज्वलनः प्रतापी ||६१||

एवं स नाराचगणप्रतापी; शरार्चिरुच्चावचतिग्मतेजाः |

ददाह सर्वां तव पुत्रसेना; ममृष्यमाणस्तरसा तरस्वी ||६२||

तस्येषवः प्राणहराः सुमुक्ता; नासज्जन्वै वर्मसु रुक्मपुङ्खाः |

न च द्वितीयं प्रमुमोच बाणं; नरे हये वा परमद्विपे वा ||६३||

अनेकरूपाकृतिभिर्हि बाणै; र्महारथानीकमनुप्रविश्य |

स एव एकस्तव पुत्रसेनां; जघान दैत्यानिव वज्रपाणिः ||६४||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

024-अध्यायः

सञ्जय उवाच||

अस्यतां यतमानानां शूराणामनिवर्तिनाम् |

सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ||१||

इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः |

विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ||२||

तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना |

सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः ||३||

हतधुर्या रथाः केचिद्धतसूतास्तथापरे |

भग्नाक्षयुगचक्रेषाः केचिदासन्विशां पते ||४||

अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः |

अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ||५||

केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः |

विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः ||६||

बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा |

दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते ||७||

बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः |

निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः ||८||

तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम् |

विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ||९||

तानपास्य गताः केचित्पुनरेव युयुत्सवः |

कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ||१०||

पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् |

वर्माणि च समारोप्य केचिद्भरतसत्तम ||११||

समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च |

पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ||१२||

सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते |

आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ||१३||

ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे |

त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ||१४||

आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः |

पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ||१५||

धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः |

नाकुलिश्च शतानीको रथानीकमयोधयन् ||१६||

पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः |

अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः ||१७||

ततस्त्वापततस्तस्य तव पुत्रो जनाधिप |

बाणसङ्घाननेकान्वै प्रेषयामास भारत ||१८||

धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना |

नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः ||१९||

सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः |

तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे ||२०||

सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ||२०||

ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः |

अपाक्रामद्धतरथो नातिदूरमरिंदमः ||२१||

दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः |

तव पुत्रो महाराज प्रययौ यत्र सौबलः ||२२||

ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः |

पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन् ||२३||

ते वृताः समरे पञ्च गजानीकेन भारत |

अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव ||२४||

ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः |

विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ||२५||

तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः |

नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत् ||२६||

तत्रैकबाणनिहतानपश्याम महागजान् |

पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना ||२७||

भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः |

करेण गृह्य महतीं गदामभ्यपतद्बली ||२८||

अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ||२८||

तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् |

वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः ||२९||

आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ||२९||

गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान् |

धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ||३०||

प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः |

पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ||३१||

तान्भिन्नकुम्भान्सुबहून्द्रवमाणानितस्ततः |

पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः ||३२||

युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ |

गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ||३३||

धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम् |

अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते ||३४||

दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् |

धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः ||३५||

पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ ||३५||

अदृष्ट्वा तु रथानीके दुर्योधनमरिंदमम् |

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ||३६||

अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ||३६||

अपश्यमाना राजानं वर्तमाने जनक्षये |

मन्वाना निहतं तत्र तव पुत्रं महारथाः ||३७||

विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ||३७||

आहुः केचिद्धते सूते प्रयातो यत्र सौबलः |

अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः ||३८||

दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति |

युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ||३९||

ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः |

शरैः सम्पीड्यमानाश्च नातिव्यक्तमिवाब्रुवन् ||४०||

इदं सर्वं बलं हन्मो येन स्म परिवारिताः |

एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ||४१||

श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः |

हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ||४२||

कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः |

रथानीकं परित्यज्य शूराः सुदृढधन्विनः ||४३||

ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः |

आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ||४४||

दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् |

पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा ||४५||

विवर्णमुखभूयिष्ठमभवत्तावकं बलम् ||४५||

परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् |

राजन्बलेन द्व्यङ्गेन त्यक्त्वा जीवितमात्मनः ||४६||

आत्मनापञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह |

तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः ||४७||

सम्प्रयुद्धा वयं पञ्च किरीटिशरपीडिताः |

धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् ||४८||

जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ||४८||

अथापश्यं सात्यकिं तमुपायान्तं महारथम् |

रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे ||४९||

धृष्टद्युम्नादहं मुक्तः कथञ्चिच्छ्रान्तवाहनः |

पतितो माधवानीकं दुष्कृती नरकं यथा ||५०||

तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम् ||५०||

सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् |

जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि ||५१||

ततो मुहूर्तादिव तद्गजानीकमवध्यत |

गदया भीमसेनेन नाराचैरर्जुनेन च ||५२||

प्रतिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः |

नातिप्रसिद्धेव गतिः पाण्डवानामजायत ||५३||

रथमार्गांस्ततश्चक्रे भीमसेनो महाबलः |

पाण्डवानां महाराज व्यपकर्षन्महागजान् ||५४||

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |

अपश्यन्तो रथानीके दुर्योधनमरिंदमम् ||५५||

राजानं मृगयामासुस्तव पुत्रं महारथम् ||५५||

परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः |

राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये ||५६||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

025-अध्यायः

सञ्जय उवाच||

गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत |

वध्यमाने बले चैव भीमसेनेन संयुगे ||१||

चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम् |

दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् ||२||

समेत्य समरे राजन्हतशेषाः सुतास्तव |

अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव ||३||

सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ||३||

दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः |

इत्येते सहिता भूत्वा तव पुत्राः समन्ततः ||४||

भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् ||४||

ततो भीमो महाराज स्वरथं पुनरास्थितः |

मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ||५||

ते कीर्यमाणा भीमेन पुत्रास्तव महारणे |

भीमसेनमपासेधन्प्रवणादिव कुञ्जरम् ||६||

ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह |

क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ||७||

ततोऽपरेण भल्लेन सर्वावरणभेदिना |

श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ||८||

जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव |

पातयामास कौरव्यं रथोपस्थादरिंदमः ||९||

स पपात रथाद्राजन्भूमौ तूर्णं ममार च ||९||

श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष |

शतेन गृध्रवाजानां शराणां नतपर्वणाम् ||१०||

ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् |

त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः ||११||

ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः |

वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ||१२||

ततोऽपरेण तीक्ष्णेन नाराचेन परन्तपः |

दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ||१३||

स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः |

गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ||१४||

दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव |

एकैकं न्यवधीत्सङ्ख्ये द्वाभ्यां द्वाभ्यां चमूमुखे ||१५||

तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ||१५||

ततो यतन्तमपरमभिवीक्ष्य सुतं तव |

भल्लेन युधि विव्याध भीमो दुर्विषहं रणे ||१६||

स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् ||१६||

दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगे |

अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् ||१७||

विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् |

विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् ||१८||

स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे |

अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ||१९||

ततोऽन्यद्धनुरादाय भीमसेनो महारथः |

अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् ||२०||

महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् |

यादृशं समरे पूर्वं जम्भवासवयोरभूत् ||२१||

तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः |

समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा ||२२||

ततः श्रुतर्वा सङ्क्रुद्धो धनुरायम्य सायकैः |

भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ||२३||

सोऽतिविद्धो महाराज तव पुत्रेण धन्विना |

भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः ||२४||

ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष |

सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् ||२५||

विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः |

अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ||२६||

श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी |

अथास्याददतः खड्गं शतचन्द्रं च भानुमत् ||२७||

क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः ||२७||

छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः |

पपात कायः स रथाद्वसुधामनुनादयन् ||२८||

तस्मिन्निपतिते वीरे तावका भयमोहिताः |

अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः ||२९||

तानापतत एवाशु हतशेषाद्बलार्णवात् |

दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् ||३०||

ते तु तं वै समासाद्य परिवव्रुः समन्ततः ||३०||

ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः |

पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ||३१||

ततः पञ्चशतान्हत्वा सवरूथान्महारथान् |

जघान कुञ्जरानीकं पुनः सप्तशतं युधि ||३२||

हत्वा दश सहस्राणि पत्तीनां परमेषुभिः |

वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ||३३||

भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव |

मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ||३४||

तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् |

ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत ||३५||

विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान् |

दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ||३६||

हतभूयिष्ठयोधा तु तव सेना विशां पते |

किञ्चिच्छेषा महाराज कृपणा समपद्यत ||३७||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

026-अध्यायः

सञ्जय उवाच||

दुर्योधनो महाराज सुदर्शश्चापि ते सुतः |

हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ ||१||

ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् |

उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम् ||२||

शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः |

गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः ||३||

परिश्रान्तश्च नकुलः सहदेवश्च भारत |

योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान् ||४||

सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः |

कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ||५||

असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः |

दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ||६||

असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः |

छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः ||७||

प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः |

एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ||८||

गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम |

यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् ||९||

यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति |

परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ||१०||

तव हत्वा बलं सर्वं सङ्ग्रामे धृतराष्ट्रजः |

जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् ||११||

निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः |

ध्रुवमेष्यति सङ्ग्रामे वधायैवात्मनो नृपः ||१२||

एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् |

धृतराष्ट्रसुताः सर्वे हता भीमेन मानद ||१३||

यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः ||१३||

हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः |

मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ||१४||

हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च |

रथानां तु शते शिष्टे द्वे एव तु जनार्दन ||१५||

दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ||१५||

अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा |

उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ||१६||

एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव |

मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् ||१७||

तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् |

अद्याह्ना हि महाराजो हतामित्रो भविष्यति ||१८||

न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये |

ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः ||१९||

तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ||१९||

अद्य युद्धे सुसङ्क्रुद्धो दीर्घं राज्ञः प्रजागरम् |

अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः ||२०||

निकृत्या वै दुराचारो यानि रत्नानि सौबलः |

सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ||२१||

अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः |

श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ||२२||

समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति |

अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति ||२३||

नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम |

निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ||२४||

मम ह्येतदशक्तं वै वाजिवृन्दमरिंदम |

सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ||२५||

एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना |

अचोदयद्धयान्राजन्दुर्योधनबलं प्रति ||२६||

तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः |

भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष ||२७||

प्रययुः सिंहनादेन दुर्योधनजिघांसया ||२७||

तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् |

सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ||२८||

सुदर्शनस्तव सुतो भीमसेनं समभ्ययात् |

सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ||२९||

सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ||२९||

ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप |

प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ||३०||

सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः |

रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ||३१||

प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशां पते |

दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् ||३२||

पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः |

शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ||३३||

तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः |

पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ||३४||

ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः |

अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ||३५||

सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः |

ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ||३६||

शिलाशितेन च विभो क्षुरप्रेण महायशाः |

शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम् ||३७||

सत्येषुमथ चादत्त योधानां मिषतां ततः |

यथा सिंहो वने राजन्मृगं परिबुभुक्षितः ||३८||

तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः |

विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् ||३९||

ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसम्भृतम् |

मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ||४०||

तमर्जुनः पृषत्कानां शतेन भरतर्षभ |

पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः ||४१||

ततः शरं समादाय यमदण्डोपमं शितम् |

सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ||४२||

स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना |

सुशर्माणं समासाद्य बिभेद हृदयं रणे ||४३||

स गतासुर्महाराज पपात धरणीतले |

नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ||४४||

सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् |

सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ||४५||

ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् |

अभ्यगाद्भारतीं सेनां हतशेषां महारथः ||४६||

भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप |

सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव ||४७||

ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् |

क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ||४८||

तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः |

परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान् ||४९||

ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः |

इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ||५०||

ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ||५०||

तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः |

भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ||५१||

तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः ||५१||

तथैव तावका राजन्पाण्डवेयान्महारथान् |

शरवर्षेण महता समन्तात्पर्यवारयन् ||५२||

व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह |

तावकानां च समरे पाण्डवेयैर्युयुत्सताम् ||५३||

तत्र योधास्तदा पेतुः परस्परसमाहताः |

उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् ||५४||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

027-अध्यायः

सञ्जय उवाच||

तस्मिन्प्रवृत्ते सङ्ग्रामे नरवाजिगजक्षये |

शकुनिः सौबलो राजन्सहदेवं समभ्ययात् ||१||

ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् |

शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान् ||२||

उलूकश्च रणे भीमं विव्याध दशभिः शरैः ||२||

शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः |

सायकानां नवत्या वै सहदेवमवाकिरत् ||३||

ते शूराः समरे राजन्समासाद्य परस्परम् |

विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः ||४||

स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः ||४||

तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते |

आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ||५||

ततः क्रुद्धो रणे भीमः सहदेवश्च भारत |

चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ ||६||

ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत |

अन्धकारमिवाकाशमभवत्तत्र तत्र ह ||७||

अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते |

तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ||८||

निहतानां हयानां च सहैव हययोधिभिः |

वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ||९||

सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव ||९||

योधास्तत्र महाराज समासाद्य परस्परम् |

व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ||१०||

उद्वृत्तनयनै रोषात्संदष्टौष्ठपुटैर्मुखैः |

सकुण्डलैर्मही छन्ना पद्मकिञ्जल्कसंनिभैः ||११||

भुजैश्छिन्नैर्महाराज नागराजकरोपमैः |

साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः ||१२||

कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि |

क्रव्यादगणसङ्कीर्णा घोराभूत्पृथिवी विभो ||१३||

अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे |

प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ||१४||

एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् |

प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ||१५||

स विह्वलो महाराज रथोपस्थ उपाविशत् ||१५||

सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् |

सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत ||१६||

निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः |

विनिर्भिद्याकरोच्चैव सिंहनादमरिंदम ||१७||

तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः |

प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ||१८||

प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् |

निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ||१९||

इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते |

प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन् ||२०||

एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः |

पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ||२१||

द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः |

क्षुब्धसागरसङ्काशः क्षुभितः सर्वतोऽभवत् ||२२||

तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान् |

प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः ||२३||

प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते |

शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ||२४||

धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ||२४||

अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः |

विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः ||२५||

उलूकोऽपि महाराज भीमं विव्याध सप्तभिः |

सहदेवं च सप्तत्या परीप्सन्पितरं रणे ||२६||

तं भीमसेनः समरे विव्याध निशितैः शरैः |

शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ||२७||

ते हन्यमाना भीमेन नाराचैस्तैलपायितैः |

सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः ||२८||

पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ||२८||

ततोऽस्यापततः शूरः सहदेवः प्रतापवान् |

उलूकस्य महाराज भल्लेनापाहरच्छिरः ||२९||

स जगाम रथाद्भूमिं सहदेवेन पातितः |

रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ||३०||

पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत |

साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ||३१||

चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् |

सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ||३२||

तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रतापवान् |

सहदेवो महाराज धनुश्चिच्छेद संयुगे ||३३||

छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा |

प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् ||३४||

तमापतन्तं सहसा घोररूपं विशां पते |

द्विधा चिच्छेद समरे सौबलस्य हसन्निव ||३५||

असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम् |

प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ||३६||

ततः शक्तिं महाघोरां कालरात्रिमिवोद्यताम् |

प्रेषयामास सङ्क्रुद्धः पाण्डवं प्रति सौबलः ||३७||

तामापतन्तीं सहसा शरैः काञ्चनभूषणैः |

त्रिधा चिच्छेद समरे सहदेवो हसन्निव ||३८||

सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा |

शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा ||३९||

शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् |

दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ||४०||

अथोत्क्रुष्टं महद्ध्यासीत्पाण्डवैर्जितकाशिभिः |

धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन् ||४१||

तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् |

शरैरनेकसाहस्रैर्वारयामास संयुगे ||४२||

ततो गान्धारकैर्गुप्तं पृष्ठैरश्वैर्जये धृतम् |

आससाद रणे यान्तं सहदेवोऽथ सौबलम् ||४३||

स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप |

रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ||४४||

अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः ||४४||

स सौबलमभिद्रुत्य गृध्रपत्रैः शिलाशितैः |

भृशमभ्यहनत्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ||४५||

उवाच चैनं मेधावी निगृह्य स्मारयन्निव |

क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव ||४६||

यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले |

फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ||४७||

निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा |

दुर्योधनः कुलाङ्गारः शिष्टस्त्वं तस्य मातुलः ||४८||

अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः |

वृक्षात्फलमिवोद्धृत्य लगुडेन प्रमाथिना ||४९||

एवमुक्त्वा महाराज सहदेवो महाबलः |

सङ्क्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह ||५०||

अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः |

विकृष्य बलवच्चापं क्रोधेन प्रहसन्निव ||५१||

शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः |

छत्रं ध्वजं धनुश्चास्य छित्त्वा सिंह इवानदत् ||५२||

छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः |

ततो विद्धश्च बहुभिः सर्वमर्मसु सायकैः ||५३||

ततो भूयो महाराज सहदेवः प्रतापवान् |

शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम् ||५४||

ततस्तु क्रुद्धः सुबलस्य पुत्रो; माद्रीसुतं सहदेवं विमर्दे |

प्रासेन जाम्बूनदभूषणेन; जिघांसुरेकोऽभिपपात शीघ्रम् ||५५||

माद्रीसुतस्तस्य समुद्यतं तं; प्रासं सुवृत्तौ च भुजौ रणाग्रे |

भल्लैस्त्रिभिर्युगपत्सञ्चकर्त; ननाद चोच्चैस्तरसाजिमध्ये ||५६||

तस्याशुकारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन |

भल्लेन सर्वावरणातिगेन; शिरः शरीरात्प्रममाथ भूयः ||५७||

शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन |

हृतोत्तमाङ्गो युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः ||५८||

स तच्छिरो वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन |

प्रावेरयत्कुपितः पाण्डुपुत्रो; यत्तत्कुरूणामनयस्य मूलम् ||५९||

हृतोत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम् |

योधास्त्वदीया भयनष्टसत्त्वा; दिशः प्रजग्मुः प्रगृहीतशस्त्राः ||६०||

विप्रद्रुताः शुष्कमुखा विसञ्ज्ञा; गाण्डीवघोषेण समाहताश्च |

भयार्दिता भग्नरथाश्वनागाः; पदातयश्चैव सधार्तराष्ट्राः ||६१||

ततो रथाच्छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः |

शङ्खान्प्रदध्मुः समरे प्रहृष्टाः; सकेशवाः सैनिकान्हर्षयन्तः ||६२||

तं चापि सर्वे प्रतिपूजयन्तो; हृष्टा ब्रुवाणाः सहदेवमाजौ |

दिष्ट्या हतो नैकृतिको दुरात्मा; सहात्मजो वीर रणे त्वयेति ||६३||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

028-अध्यायः

सञ्जय उवाच||

ततः क्रुद्धा महाराज सौबलस्य पदानुगाः |

त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् ||१||

तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः |

भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः ||२||

शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् |

सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ||३||

प्रगृहीतायुधान्बाहून्योधानामभिधावताम् |

भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि ||४||

ते हताः प्रत्यपद्यन्त वसुधां विगतासवः |

त्वरिता लोकवीरेण प्रहताः सव्यसाचिना ||५||

ततो दुर्योधनो राजा दृष्ट्वा स्वबलसङ्क्षयम् |

हतशेषान्समानीय क्रुद्धो रथशतान्विभो ||६||

कुञ्जरांश्च हयांश्चैव पादातांश्च परन्तप |

उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः ||७||

समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् |

पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत ||८||

तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः |

प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् ||९||

तानभ्यापततः शीघ्रं हतशेषान्महारणे |

शरैराशीविषाकारैः पाण्डवाः समवाकिरन् ||१०||

तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः |

अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत ||११||

प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम् ||११||

अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते |

न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा ||१२||

ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः |

अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत ||१३||

ततो निःशेषमभवत्तत्सैन्यं तव भारत ||१३||

अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत |

एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः ||१४||

तेषु राजसहस्रेषु तावकेषु महात्मसु |

एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः ||१५||

ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् |

विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे ||१६||

मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः |

बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् ||१७||

दुर्योधनो महाराज कश्मलेनाभिसंवृतः |

अपयाने मनश्चक्रे विहीनबलवाहनः ||१८||

धृतराष्ट्र उवाच||

निहते मामके सैन्ये निःशेषे शिबिरे कृते |

पाण्डवानां बलं सूत किं नु शेषमभूत्तदा ||१९||

एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय ||१९||

यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम |

बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ||२०||

सञ्जय उवाच||

रथानां द्वे सहस्रे तु सप्त नागशतानि च |

पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः ||२१||

एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् |

परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ||२२||

एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः |

नापश्यत्समरे कञ्चित्सहायं रथिनां वरः ||२३||

नर्दमानान्परांश्चैव स्वबलस्य च सङ्क्षयम् |

हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ||२४||

एकादशचमूभर्ता पुत्रो दुर्योधनस्तव |

गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम् ||२५||

नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः |

सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः ||२६||

इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा |

महद्वैशसमस्माकं क्षत्रियाणां च संयुगे ||२७||

एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः |

दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम् ||२८||

पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः |

अभ्यधावन्त सङ्क्रुद्धास्तव राजन्बलं प्रति ||२९||

शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् |

सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ||३०||

तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः |

रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत ||३१||

सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे |

महावनमिव छिन्नमभवत्तावकं बलम् ||३२||

अनेकशतसाहस्रे बले दुर्योधनस्य ह |

नान्यो महारथो राजञ्जीवमानो व्यदृश्यत ||३३||

द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः |

कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ||३४||

धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् |

किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ||३५||

धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः |

उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा ||३६||

तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् |

मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन ||३७||

द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः |

ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय ||३८||

अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः |

प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः ||३९||

क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् |

एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ||४०||

स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् |

उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम् ||४१||

तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे |

मुहूर्तं नाशकं वक्तुं किञ्चिद्दुःखपरिप्लुतः ||४२||

ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा |

द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे ||४३||

मुहूर्तमिव च ध्यात्वा प्रतिलभ्य च चेतनाम् |

भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः ||४४||

तस्मै तदहमाचक्षं सर्वं प्रत्यक्षदर्शिवान् |

भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम् ||४५||

त्रयः किल रथाः शिष्टास्तावकानां नराधिप |

इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् ||४६||

स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः |

अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ||४७||

त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय |

द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः ||४८||

ब्रूयाः सञ्जय राजानं प्रज्ञाचक्षुषमीश्वरम् |

दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत ||४९||

सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च |

पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः ||५०||

आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात् |

अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम् ||५१||

एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः |

अस्तम्भयत तोयं च मायया मनुजाधिपः ||५२||

तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् |

अपश्यं सहितानेकस्तं देशं समुपेयुषः ||५३||

कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् |

भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ||५४||

ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदयन् |

उपयाय च मामूचुर्दिष्ट्या जीवसि सञ्जय ||५५||

अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् |

कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय ||५६||

आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् |

तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ||५७||

ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः ||५७||

अश्वत्थामा तु तद्राजन्निशम्य वचनं मम |

तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् ||५८||

अहो धिङ्न स जानाति जीवतोऽस्मान्नराधिपः |

पर्याप्ता हि वयं तेन सह योधयितुं परान् ||५९||

ते तु तत्र चिरं कालं विलप्य च महारथाः |

प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ||६०||

ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् |

सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ||६१||

तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति |

सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव सङ्क्षयम् ||६२||

ततो वृद्धा महाराज योषितां रक्षणो नराः |

राजदारानुपादाय प्रययुर्नगरं प्रति ||६३||

तत्र विक्रोशतीनां च रुदतीनां च सर्वशः |

प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसङ्क्षयम् ||६४||

ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः |

कुरर्य इव शब्देन नादयन्त्यो महीतलम् ||६५||

आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत |

लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह ||६६||

हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च |

क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते ||६७||

ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः |

राजदारानुपादाय प्रययुर्नगरं प्रति ||६८||

वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते |

शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च ||६९||

समादाय ययुस्तूर्णं नगरं दाररक्षिणः ||६९||

आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे जनाः |

स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति ||७०||

अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु |

ददृशुस्ता महाराज जना यान्तीः पुरं प्रति ||७१||

ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः |

प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः ||७२||

आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति |

ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः ||७३||

अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् |

प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति ||७४||

तस्मिंस्तदा वर्तमाने विद्रवे भृशदारुणे |

युयुत्सुः शोकसंमूढः प्राप्तकालमचिन्तयत् ||७५||

जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः |

एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः ||७६||

हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः ||७६||

अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया |

विद्रुतानि च सर्वाणि शिबिराणि समन्ततः ||७७||

दुर्योधनस्य सचिवा ये केचिदवशेषिताः |

राजदारानुपादाय व्यधावन्नगरं प्रति ||७८||

प्राप्तकालमहं मन्ये प्रवेशं तैः सहाभिभो |

युधिष्ठिरमनुज्ञाप्य भीमसेनं तथैव च ||७९||

एतमर्थं महाबाहुरुभयोः स न्यवेदयत् |

तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता ||८०||

परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ||८०||

ततः स रथमास्थाय द्रुतमश्वानचोदयत् |

असम्भावितवांश्चापि राजदारान्पुरं प्रति ||८१||

तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे |

प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ||८२||

अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् |

राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ||८३||

तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् |

अस्मिन्कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि ||८४||

विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः |

एतन्मे कारणं सर्वं विस्तरेण निवेदय ||८५||

युयुत्सुरुवाच||

निहते शकुनौ तात सज्ञातिसुतबान्धवे |

हतशेषपरीवारो राजा दुर्योधनस्ततः ||८६||

स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ||८६||

अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् |

भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति ||८७||

ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः |

वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन्भयात् ||८८||

ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् |

प्रविष्टो हास्तिनपुरं रक्षँल्लोकाद्धि वाच्यताम् ||८९||

एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् |

प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् ||९०||

अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम् ||९०||

प्राप्तकालमिदं सर्वं भवतो भरतक्षये |

अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् ||९१||

एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित् |

युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् ||९२||

युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा ||९२||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

029-अध्यायः-तीर्थयात्रापर्व

धृतराष्ट्र उवाच||

हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे |

मम सैन्यावशिष्टास्ते किमकुर्वत सञ्जय ||१||

कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् |

दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा ||२||

सञ्जय उवाच||

सम्प्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम् |

विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः ||३||

निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम् |

विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः ||४||

स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः ||४||

युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे |

हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया ||५||

मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः |

यत्नतोऽन्वेषमाणास्तु नैवापश्यञ्जनाधिपम् ||६||

स हि तीव्रेण वेगेन गदापाणिरपाक्रमत् |

तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया ||७||

यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः |

ततः स्वशिबिरं प्राप्य व्यतिष्ठन्सहसैनिकाः ||८||

ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः |

संनिविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः ||९||

ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः |

अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ||१०||

राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् |

जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ||११||

तेषामपि बलं सर्वं हतं दुर्योधन त्वया |

प्रतिरब्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः ||१२||

न ते वेगं विषहितुं शक्तास्तव विशां पते |

अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत ||१३||

दुर्योधन उवाच||

दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् |

पाण्डुकौरवसंमर्दाज्जीवमानान्नरर्षभान् ||१४||

विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः |

भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः ||१५||

उदीर्णं च बलं तेषां तेन युद्धं न रोचये ||१५||

न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः |

अस्मासु च परा भक्तिर्न तु कालः पराक्रमे ||१६||

विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे |

प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः ||१७||

सञ्जय उवाच||

एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् |

उत्तिष्ठ राजन्भद्रं ते विजेष्यामो रणे परान् ||१८||

इष्टापूर्तेन दानेन सत्येन च जपेन च |

शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् ||१९||

मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम् |

यदीमां रजनीं व्युष्टां न निहन्मि परान्रणे ||२०||

नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो |

इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप ||२१||

तेषु सम्भाषमाणेषु व्याधास्तं देशमाययुः |

मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया ||२२||

ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः |

मांसभारानुपाजह्रुर्भक्त्या परमया विभो ||२३||

ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः |

दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः ||२४||

तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे |

निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः ||२५||

तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् |

अयुद्धमनसं चैव राजानं स्थितमम्भसि ||२६||

तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः |

व्याधाभ्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् ||२७||

ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव |

यदृच्छोपगतास्तत्र राजानं परिमार्गिताः ||२८||

ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा |

अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिदम् ||२९||

दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः |

सुव्यक्तमिति नः ख्यातो ह्रदे दुर्योधनो नृपः ||३०||

तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः |

आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् ||३१||

धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते |

शयानं सलिले सर्वे कथयामो धनुर्भृते ||३२||

स नो दास्यति सुप्रीतो धनानि बहुलान्युत |

किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा ||३३||

एवमुक्त्वा ततो व्याधाः सम्प्रहृष्टा धनार्थिनः |

मांसभारानुपादाय प्रययुः शिबिरं प्रति ||३४||

पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः |

अपश्यमानाः समरे दुर्योधनमवस्थितम् ||३५||

निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः |

चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरम् ||३६||

आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् |

न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः ||३७||

तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ |

चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः ||३८||

अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ |

तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो ||३९||

आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् |

वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ||४०||

ते तु पाण्डवमासाद्य भीमसेनं महाबलम् |

तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ||४१||

ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु |

धर्मराजाय तत्सर्वमाचचक्षे परन्तपः ||४२||

असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः |

संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे ||४३||

तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते |

अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः ||४४||

तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम् |

क्षिप्रमेव ततोऽगच्छत्पुरस्कृत्य जनार्दनम् ||४५||

ततः किलकिलाशब्दः प्रादुरासीद्विशां पते |

पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः ||४६||

सिंहनादांस्ततश्चक्रुः क्ष्वेडांश्च भरतर्षभ |

त्वरिताः क्षत्रिया राजञ्जग्मुर्द्वैपायनं ह्रदम् ||४७||

ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे |

प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः ||४८||

तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् |

बभूव तुमुलः शब्दो दिवस्पृक्पृथिवीपते ||४९||

दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम् |

अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः ||५०||

अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ |

धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः ||५१||

उत्तमौजा युधामन्युः सात्यकिश्चापराजितः |

पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत ||५२||

हयाश्च सर्वे नागाश्च शतशश्च पदातयः ||५२||

ततः प्राप्तो महाराज धर्मपुत्रो युधिष्ठिरः |

द्वैपायनह्रदं ख्यातं यत्र दुर्योधनोऽभवत् ||५३||

शीतामलजलं हृद्यं द्वितीयमिव सागरम् |

मायया सलिलं स्तभ्य यत्राभूत्ते सुतः स्थितः ||५४||

अत्यद्भुतेन विधिना दैवयोगेन भारत |

सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो ||५५||

मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः ||५५||

ततो दुर्योधनो राजा सलितान्तर्गतो वसन् |

शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् ||५६||

युधिष्ठिरस्तु राजेन्द्र ह्रदं तं सह सोदरैः |

आजगाम महाराज तव पुत्रवधाय वै ||५७||

महता शङ्खनादेन रथनेमिस्वनेन च |

उद्धुन्वंश्च महारेणुं कम्पयंश्चापि मेदिनीम् ||५८||

यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः |

कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् ||५९||

इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः |

अपयास्यामहे तावदनुजानातु नो भवान् ||६०||

दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र यशस्विनाम् |

तथेत्युक्त्वा ह्रदं तं वै माययास्तम्भयत्प्रभो ||६१||

ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः |

जग्मुर्दूरं महाराज कृपप्रभृतयो रथाः ||६२||

ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष |

न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति ||६३||

विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः |

पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः ||६४||

कथं नु युद्धं भविता कथं राजा भविष्यति |

कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् ||६५||

इत्येवं चिन्तयन्तस्ते रथेभ्योऽश्वान्विमुच्य ह |

तत्रासां चक्रिरे राजन्कृपप्रभृतयो रथाः ||६६||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

030-अध्यायः

सञ्जय उवाच||

ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः |

तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ||१||

आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम् |

स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ||२||

वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः ||२||

पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् |

विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् ||३||

दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् |

निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते ||४||

यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् |

तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव ||५||

श्रीवासुदेव उवाच||

मायाविन इमां मायां मायया जहि भारत |

मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ||६||

क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य ह |

जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम् ||७||

क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः |

क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना ||८||

क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः |

हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ||९||

वृत्रश्च निहतो राजन्क्रिययैव न संशयः ||९||

तथा पौलस्त्यतनयो रावणो नाम राक्षसः |

रामेण निहतो राजन्सानुबन्धः सहानुगः ||१०||

क्रियया योगमास्थाय तथा त्वमपि विक्रम ||१०||

क्रियाभ्युपायैर्निहतो मया राजन्पुरातने |

तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ||११||

वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो |

सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ||१२||

क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो |

क्रिया बलवती राजन्नान्यत्किञ्चिद्युधिष्ठिर ||१३||

दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा |

क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ||१४||

सञ्जय उवाच||

इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः |

जलस्थं तं महाराज तव पुत्रं महाबलम् ||१५||

अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ||१५||

सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया |

सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते ||१६||

जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः |

उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ||१७||

स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः |

यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ||१८||

सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि |

व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ||१९||

उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः |

कौरवेयो विशेषेण कुले जन्म च संस्मर ||२०||

स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः |

युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि ||२१||

अयुद्धमव्यवस्थानं नैष धर्मः सनातनः |

अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् ||२२||

कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः |

इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा ||२३||

सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा |

घातयित्वा कथं तात ह्रदे तिष्ठसि साम्प्रतम् ||२४||

शूरमानी न शूरस्त्वं मिथ्या वदसि भारत |

शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ||२५||

न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन |

ब्रूहि वा त्वं यया धृत्या शूर त्यजसि सङ्गरम् ||२६||

स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः |

घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ||२७||

नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया |

क्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन ||२८||

यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम् |

अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान् ||२९||

तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत |

कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ||३०||

क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन |

क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ||३१||

क्व ते कृतास्त्रता याता किं च शेषे जलाशये |

स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ||३२||

अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् |

अथ वा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत ||३३||

एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना |

तं कुरुष्व यथातथ्यं राजा भव महारथ ||३४||

दुर्योधन उवाच||

नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् |

न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ||३५||

अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः |

एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् ||३६||

न प्राणहेतोर्न भयान्न विषादाद्विशां पते |

इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ||३७||

त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव |

अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ||३८||

युधिष्ठिर उवाच||

आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे |

तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ||३९||

हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि |

निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ||४०||

दुर्योधन उवाच||

यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन |

त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ||४१||

क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम् |

नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ||४२||

अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर |

भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ||४३||

न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् |

द्रोणे कर्णे च संशान्ते निहते च पितामहे ||४४||

अस्त्विदानीमियं राजन्केवला पृथिवी तव |

असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ||४५||

सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपि |

भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ||४६||

अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः |

रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ||४७||

हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा |

एषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः ||४८||

वनमेव गमिष्यामि वसानो मृगचर्मणी |

न हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो ||४९||

गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम् |

हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम् ||५०||

युधिष्ठिर उवाच||

आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः |

नैतन्मनसि मे राजन्वाशितं शकुनेरिव ||५१||

यदि चापि समर्थः स्यास्त्वं दानाय सुयोधन |

नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ||५२||

अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् |

न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ||५३||

त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् |

त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम् ||५४||

अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि |

त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ||५५||

धर्मतो याचमानानां शमार्थं च कुलस्य नः |

वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम् ||५६||

किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः |

अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम् ||५७||

न त्वमद्य महीं दातुमीशः कौरवनन्दन |

आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि ||५८||

मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् ||५८||

सूच्यग्रेणापि यद्भूमेरपि ध्रीयेत भारत |

तन्मात्रमपि नो मह्यं न ददाति पुरा भवान् ||५९||

स कथं पृथिवीमेतां प्रददासि विशां पते |

सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ||६०||

एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् |

को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् ||६१||

त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे |

पृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे ||६२||

अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् |

अथ वा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ||६३||

आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् |

संशयः सर्वभूतानां विजये नो भविष्यति ||६४||

जीवितं तव दुष्प्रज्ञ मयि सम्प्रति वर्तते |

जीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः ||६५||

दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः |

आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः ||६६||

त्वया विनिकृता राजन्राज्यस्य हरणेन च ||६६||

एतस्मात्कारणात्पाप जीवितं ते न विद्यते |

उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति ||६७||

सञ्जय उवाच||

एवं तु विविधा वाचो जययुक्ताः पुनः पुनः |

कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप ||६८||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

031-अध्यायः

धृतराष्ट्र उवाच||

एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः |

प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः ||१||

न हि सन्तर्जना तेन श्रुतपूर्वा कदाचन |

राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ||२||

इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् |

प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव सञ्जय ||३||

स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः |

विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् ||४||

श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः |

किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय ||५||

सञ्जय उवाच||

तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः |

युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ||६||

श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः |

दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः ||७||

सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः |

मनश्चकार युद्धाय राजानं चाभ्यभाषत ||८||

यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः |

अहमेकः परिद्यूनो विरथो हतवाहनः ||९||

आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः |

कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे ||१०||

एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर |

न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि ||११||

विशेषतो विकवचः श्रान्तश्चापः समाश्रितः |

भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ||१२||

न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् |

फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः ||१३||

यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः |

एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे ||१४||

धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप |

धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ||१५||

अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे |

अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा ||१६||

अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् |

नक्षत्राणीव सर्वाणि सविता रात्रिसङ्क्षये ||१७||

तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः ||१७||

अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम् |

बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः ||१८||

जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः |

मद्रराजस्य शल्यस्य भूरिश्रवस एव च ||१९||

पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च |

मित्राणां सुहृदां चैव बान्धवानां तथैव च ||२०||

आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह |

एतावदुक्त्वा वचनं विरराम जनाधिपः ||२१||

युधिष्ठिर उवाच||

दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन |

दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ||२२||

दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि सङ्गरम् |

यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि ||२३||

एक एकेन सङ्गम्य यत्ते संमतमायुधम् |

तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ||२४||

अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् |

हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि ||२५||

दुर्योधन उवाच||

एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते |

आयुधानामियं चापि वृता त्वत्संमते गदा ||२६||

भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते |

पदातिर्गदया सङ्ख्ये स युध्यतु मया सह ||२७||

वृत्तानि रथयुद्धानि विचित्राणि पदे पदे |

इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् ||२८||

अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः |

युद्धानामपि पर्यायो भवत्वनुमते तव ||२९||

गदया त्वां महाबाहो विजेष्यामि सहानुजम् |

पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः ||३०||

युधिष्ठिर उवाच||

उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन |

एक एकेन सङ्गम्य संयुगे गदया बली ||३१||

पुरुषो भव गान्धारे युध्यस्व सुसमाहितः |

अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः ||३२||

सञ्जय उवाच||

एतत्स नरशार्दूलो नामृष्यत तवात्मजः |

सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ||३३||

तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः |

वाचं न ममृषे धीमानुत्तमाश्वः कशामिव ||३४||

सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् |

अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् ||३५||

अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ||३५||

स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् |

उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव ||३६||

ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम् |

गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ||३७||

गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् |

प्रजानामिव सङ्क्रुद्धं शूलपाणिमवस्थितम् ||३८||

सगदो भारतो भाति प्रतपन्भास्करो यथा ||३८||

तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम् |

मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम् ||३९||

वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् |

ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप ||४०||

तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः |

पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ||४१||

अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव |

उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ||४२||

त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः |

प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् ||४३||

अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः |

गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् ||४४||

उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव |

अतिष्ठत गदापाणी रुधिरेण समुक्षितः ||४५||

तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् |

शरीरं स्म तदा भाति स्रवन्निव महीधरः ||४६||

तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः |

वैवस्वतमिव क्रुद्धं किङ्करोद्यतपाणिनम् ||४७||

स मेघनिनदो हर्षान्नदन्निव च गोवृषः |

आजुहाव ततः पार्थान्गदया युधि वीर्यवान् ||४८||

दुर्योधन उवाच||

एकैकेन च मां यूयमासीदत युधिष्ठिर |

न ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि ||४९||

न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः |

भृशं विक्षतगात्रश्च हतवाहनसैनिकः ||५०||

युधिष्ठिर उवाच||

नाभूदियं तव प्रज्ञा कथमेवं सुयोधन |

यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः ||५१||

आमुञ्च कवचं वीर मूर्धजान्यमयस्व च |

यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत ||५२||

इममेकं च ते कामं वीर भूयो ददाम्यहम् ||५२||

पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि |

तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि ||५३||

ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ||५३||

सञ्जय उवाच||

ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् |

विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ||५४||

सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत् |

रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ||५५||

संनद्धः स गदी राजन्सज्जः सङ्ग्राममूर्धनि |

अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ||५६||

भ्रातॄणां भवतामेको युध्यतां गदया मया |

सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ||५७||

अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ |

योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे ||५८||

अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् |

गदया पुरुषव्याघ्र हेमपट्टविनद्धया ||५९||

गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय |

गदया वो हनिष्यामि सर्वानेव समागतान् ||६०||

गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह ||६०||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

032-अध्यायः

सञ्जय उवाच||

एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः |

युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् ||१||

यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर |

अर्जुनं नकुलं वापि सहदेवमथापि वा ||२||

किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् |

एकमेव निहत्याजौ भव राजा कुरुष्विति ||३||

एतेन हि कृता योग्या वर्षाणीह त्रयोदश |

आयसे पुरुषे राजन्भीमसेनजिघांसया ||४||

कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ |

साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ||५||

नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे |

ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ||६||

तदिदं द्यूतमारब्धं पुनरेव यथा पुरा |

विषमं शकुनेश्चैव तव चैव विशां पते ||७||

बली भीमः समर्थश्च कृती राजा सुयोधनः |

बलवान्वा कृती वेति कृती राजन्विशिष्यते ||८||

सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः |

न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ||९||

को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा |

पणित्वा चैकपाणेन रोचयेदेवमाहवम् ||१०||

न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम् |

युध्येद्दुर्योधनं सङ्ख्ये कृतित्वाद्धि विशेषयेत् ||११||

फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा |

न समर्थानहं मन्ये गदाहस्तस्य संयुगे ||१२||

स कथं वदसे शत्रुं युध्यस्व गदयेति ह |

एकं च नो निहत्याजौ भव राजेति भारत ||१३||

वृकोदरं समासाद्य संशयो विजये हि नः |

न्यायतो युध्यमानानां कृती ह्येष महाबलः ||१४||

भीम उवाच||

मधुसूदन मा कार्षीर्विषादं यदुनन्दन |

अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ||१५||

अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः |

विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते ||१६||

अध्यर्धेन गुणेनेयं गदा गुरुतरी मम |

न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् ||१७||

सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि |

योधयेयं रणे हृष्टः किमुताद्य सुयोधनम् ||१८||

सञ्जय उवाच||

तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् |

हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् ||१९||

त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः |

निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः ||२०||

त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे |

राजानो राजपुत्राश्च नागाश्च विनिपातिताः ||२१||

कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा |

त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ||२२||

हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् |

धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ||२३||

त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति |

त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि ||२४||

यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः |

कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ||२५||

ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् |

विविधाभिश्च तां वाग्भिः पूजयामास माधवः ||२६||

पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः |

तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ||२७||

ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् |

सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ||२८||

अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे |

न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ||२९||

अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् |

सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ||३०||

शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् |

निहत्य गदया पापमद्य राजन्सुखी भव ||३१||

अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ |

प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ||३२||

राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् |

स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ||३३||

इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् |

उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ||३४||

तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् |

निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ||३५||

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |

भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ||३६||

राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् |

स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ||३७||

द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला |

द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात् ||३८||

यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि |

अनागःसु च पार्थेषु तस्य पश्य महत्फलम् ||३९||

त्वत्कृते निहतः शेते शरतल्पे महायशाः |

गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ||४०||

हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान् |

वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि ||४१||

भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः |

राजानश्च हताः शूराः समरेष्वनिवर्तिनः ||४२||

एते चान्ये च निहता बहवः क्षत्रियर्षभाः |

प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ||४३||

अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः |

त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ||४४||

अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप |

राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् ||४५||

दुर्योधन उवाच||

किं कत्थितेन बहुधा युध्यस्वाद्य मया सह |

अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ||४६||

किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् |

हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ||४७||

गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः |

न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः ||४८||

मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् |

दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते ||४९||

तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः |

सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः ||५०||

तं मत्तमिव मातङ्गं तलशब्देन मानवाः |

भूयः संहर्षयामासू राजन्दुर्योधनं नृपम् ||५१||

बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् |

शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् ||५२||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

033-अध्यायः

सञ्जय उवाच||

तस्मिन्युद्धे महाराज सम्प्रवृत्ते सुदारुणे |

उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु ||१||

ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते |

श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ||२||

तं दृष्ट्वा परमप्रीताः पूजयित्वा नराधिपाः |

शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन् ||३||

अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम् |

दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ||४||

चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै |

पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः ||५||

शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव ||५||

ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् |

स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् ||६||

कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् |

सस्वजाते परिप्रीतौ प्रियमाणौ यशस्विनौ ||७||

माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः |

अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् ||८||

भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप |

तथैव चोद्यतगदौ पूजयामासतुर्बलम् ||९||

स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः |

पश्य युद्धं महाबाहो इति ते राममब्रुवन् ||१०||

एवमूचुर्महात्मानं रौहिणेयं नराधिपाः ||१०||

परिष्वज्य तदा रामः पाण्डवान्सृञ्जयानपि |

अपृच्छत्कुशलं सर्वान्पाण्डवांश्चामितौजसः ||११||

तथैव ते समासाद्य पप्रच्छुस्तमनामयम् ||११||

प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महामनाः |

कृत्वा कुशलसंयुक्तां संविदं च यथावयः ||१२||

जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे |

मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत ||१३||

तौ चैनं विधिवद्राजन्पूजयामासतुर्गुरुम् |

ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदा युतौ ||१४||

ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिंदमम् |

इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत ||१५||

तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः |

न्यविशत्परमप्रीतः पूज्यमानो महारथैः ||१६||

स बभौ राजमध्यस्थो नीलवासाः सितप्रभः |

दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः ||१७||

ततस्तयोः संनिपातस्तुमुलो रोमहर्षणः |

आसीदन्तकरो राजन्वैरस्य तव पुत्रयोः ||१८||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

034-अध्यायः

जनमेजय उवाच||

पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते |

आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ||१||

साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव |

न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ||२||

एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः |

तस्य चागमनं भूयो ब्रह्मञ्शंसितुमर्हसि ||३||

आख्याहि मे विस्तरतः कथं राम उपस्थितः |

कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम ||४||

वैशम्पायन उवाच||

उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु |

प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ||५||

शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् ||५||

स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च |

उक्तवान्वचनं तथ्यं हितं चैव विशेषतः ||६||

न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा ||६||

अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः |

आगच्छत महाबाहुरुपप्लव्यं जनाधिप ||७||

ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः |

अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत् ||८||

न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः |

निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया ||९||

ततो विभज्यमानेषु बलेषु बलिनां वरः |

प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ||१०||

तेषामपि महाबाहो साहाय्यं मधुसूदन |

क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा ||११||

ततो मन्युपरीतात्मा जगाम यदुनन्दनः |

तीर्थयात्रां हलधरः सरस्वत्यां महायशाः ||१२||

मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः ||१२||

आश्रयामास भोजस्तु दुर्योधनमरिंदमः |

युयुधानेन सहितो वासुदेवस्तु पाण्डवान् ||१३||

रौहिणेये गते शूरे पुष्येण मधुसूदनः |

पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून् ||१४||

गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह |

सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च ||१५||

आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा ||१५||

सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः |

कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च ||१६||

क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् ||१६||

प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः |

ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् ||१७||

एवं संदिश्य तु प्रेष्यान्बलदेवो महाबलः |

तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा ||१८||

सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान् ||१८||

ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः |

रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ ||१९||

गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ||१९||

श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् |

तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत ||२०||

बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः ||२०||

यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा |

तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप ||२१||

तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात् |

भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ||२२||

वासांसि च महार्हाणि पर्यङ्कास्तरणानि च |

पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम् ||२३||

यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत |

तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत ||२४||

यथासुखं जनः सर्वस्तिष्ठते याति वा तदा |

यातुकामस्य यानानि पानानि तृषितस्य च ||२५||

बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ |

उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ||२६||

स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः |

स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ||२७||

नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः |

विपण्यापणपण्यानां नानाजनशतैर्वृतः ||२८||

नानाद्रुमलतोपेतो नानारत्नविभूषितः ||२८||

ततो महात्मा नियमे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन् |

ददौ द्विजेभ्यः क्रतुदक्षिणाश्च; यदुप्रवीरो हलभृत्प्रतीतः ||२९||

दोग्ध्रीश्च धेनूश्च सहस्रशो वै; सुवाससः काञ्चनबद्धशृङ्गीः |

हयांश्च नानाविधदेशजाता; न्यानानि दासीश्च तथा द्विजेभ्यः ||३०||

रत्नानि मुक्तामणिविद्रुमं च; शृङ्गीसुवर्णं रजतं च शुभ्रम् |

अयस्मयं ताम्रमयं च भाण्डं; ददौ द्विजातिप्रवरेषु रामः ||३१||

एवं स वित्तं प्रददौ महात्मा; सरस्वतीतीर्थवरेषु भूरि |

ययौ क्रमेणाप्रतिमप्रभाव; स्ततः कुरुक्षेत्रमुदारवृत्तः ||३२||

जनमेजय उवाच||

सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे |

फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च ||३३||

यथाक्रमं च भगवंस्तीर्थानामनुपूर्वशः |

ब्रह्मन्ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे ||३४||

वैशम्पायन उवाच||

तीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः |

मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः ||३५||

पूर्वं महाराज यदुप्रवीर; ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् |

पुण्यं प्रभासं समुपाजगाम; यत्रोडुराड्यक्ष्मणा क्लिश्यमानः ||३६||

विमुक्तशापः पुनराप्य तेजः; सर्वं जगद्भासयते नरेन्द्र |

एवं तु तीर्थप्रवरं पृथिव्यां; प्रभासनात्तस्य ततः प्रभासः ||३७||

जनमेजय उवाच||

किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत |

कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ||३८||

कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी |

एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ||३९||

वैशम्पायन उवाच||

दक्षस्य तनया यास्ताः प्रादुरासन्विशां पते |

स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ ||४०||

नक्षत्रयोगनिरताः सङ्ख्यानार्थं च भारत |

पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः ||४१||

तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि |

अत्यरिच्यत तासां तु रोहिणी रूपसम्पदा ||४२||

ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः |

सास्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा ||४३||

पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम् |

ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः ||४४||

ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः |

सोमो वसति नास्मासु रोहिणीं भजते सदा ||४५||

ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर |

वत्स्यामो नियताहारास्तपश्चरणतत्पराः ||४६||

श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् |

समं वर्तस्व भार्यासु मा त्वाधर्मो महान्स्पृशेत् ||४७||

ताश्च सर्वाब्रवीद्दक्षो गच्छध्वं सोममन्तिकात् |

समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ||४८||

विसृष्टास्तास्तदा जग्मुः शीतांशुभवनं तदा |

तथापि सोमो भगवान्पुनरेव महीपते ||४९||

रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः ||४९||

ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् |

तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे ||५०||

सोमो वसति नास्मासु नाकरोद्वचनं तव ||५०||

तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् |

समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन ||५१||

अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी |

रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः ||५२||

गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा |

सोमो वसति नास्मासु तस्मान्नः शरणं भव ||५३||

रोहिण्यामेव भगवन्सदा वसति चन्द्रमाः |

तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् ||५४||

तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते |

ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् ||५५||

स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी |

यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः ||५६||

इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः |

न चामुच्यत शापाद्वै क्षयं चैवाभ्यगच्छत ||५७||

क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे |

निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः ||५८||

ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः |

कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे ||५९||

ततो देवाः समागम्य सोममूचुर्महीपते |

किमिदं भवतो रूपमीदृशं न प्रकाशते ||६०||

कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् |

श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम् ||६१||

एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः |

शापं च कारणं चैव यक्ष्माणं च तथात्मनः ||६२||

देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाब्रुवन् |

प्रसीद भगवन्सोमे शापश्चैष निवर्त्यताम् ||६३||

असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते |

क्षयाच्चैवास्य देवेश प्रजाश्चापि गताः क्षयम् ||६४||

वीरुदोषधयश्चैव बीजानि विविधानि च |

तथा वयं लोकगुरो प्रसादं कर्तुमर्हसि ||६५||

एवमुक्तस्तदा चिन्त्य प्राह वाक्यं प्रजापतिः |

नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा ||६६||

हेतुना तु महाभागा निवर्तिष्यति केनचित् ||६६||

समं वर्ततु सर्वासु शशी भार्यासु नित्यशः |

सरस्वत्या वरे तीर्थे उन्मज्जञ्शशलक्षणः ||६७||

पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम ||६७||

मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति |

मासार्धं च सदा वृद्धिं सत्यमेतद्वचो मम ||६८||

सरस्वतीं ततः सोमो जगाम ऋषिशासनात् |

प्रभासं परमं तीर्थं सरस्वत्या जगाम ह ||६९||

अमावास्यां महातेजास्तत्रोन्मज्जन्महाद्युतिः |

लोकान्प्रभासयामास शीतांशुत्वमवाप च ||७०||

देवाश्च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम् |

सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ||७१||

ततः प्रजापतिः सर्वा विससर्जाथ देवताः |

सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् ||७२||

मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन |

गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम ||७३||

स विसृष्टो महाराज जगामाथ स्वमालयम् |

प्रजाश्च मुदिता भूत्वा भोजने च यथा पुरा ||७४||

एतत्ते सर्वमाख्यातं यथा शप्तो निशाकरः |

प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्यभूत् ||७५||

अमावास्यां महाराज नित्यशः शशलक्षणः |

स्नात्वा ह्याप्यायते श्रीमान्प्रभासे तीर्थ उत्तमे ||७६||

अतश्चैनं प्रजानन्ति प्रभासमिति भूमिप |

प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः ||७७||

ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली |

चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ||७८||

तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः |

उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ||७९||

उदपानमथागच्छत्त्वरावान्केशवाग्रजः |

आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत्फलम् ||८०||

स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय |

जानन्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम् ||८१||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

035-अध्यायः

त्रितोपाख्यानम्

वैशम्पायन उवाच||

तस्मान्नदीगतं चापि उदपानं यशस्विनः |

त्रितस्य च महाराज जगामाथ हलायुधः ||१||

तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान् |

उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ||२||

तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः |

कूपे च वसता तेन सोमः पीतो महात्मना ||३||

तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् |

ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ||४||

जनमेजय उवाच||

उदपानं कथं ब्रह्मन्कथं च सुमहातपाः |

पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तमः ||५||

कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् |

एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे ||६||

वैशम्पायन उवाच||

आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः |

एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः ||७||

सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च |

ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः ||८||

तेषां तु तपसा प्रीतो नियमेन दमेन च |

अभवद्गौतमो नित्यं पिता धर्मरतः सदा ||९||

स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च |

जगाम भगवान्स्थानमनुरूपमिवात्मनः ||१०||

राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः |

ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ||११||

तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च |

त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ||१२||

तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः |

अपूजयन्महाभागं तथा विद्वत्तयैव तु ||१३||

कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ |

यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः ||१४||

तयोश्चिन्ता समभवत्त्रितं गृह्य परन्तप |

याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः ||१५||

सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् |

चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह ||१६||

तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति |

याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून् ||१७||

याज्येन कर्मणा तेन प्रतिगृह्य विधानतः |

प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ||१८||

त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् |

एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ||१९||

तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत् |

कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् ||२०||

तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह |

यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ||२१||

त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः |

अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते ||२२||

तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे |

त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः ||२३||

तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत् |

तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् ||२४||

अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः |

तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह ||२५||

अगाधे सुमहाघोरे सर्वभूतभयङ्करे ||२५||

त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः |

आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ||२६||

तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ |

वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ||२७||

भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः |

उदपाने महाराज निर्जले पांसुसंवृते ||२८||

त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते |

निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा ||२९||

बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः |

सोमः कथं नु पातव्य इहस्थेन मया भवेत् ||३०||

स एवमनुसञ्चिन्त्य तस्मिन्कूपे महातपाः |

ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ||३१||

पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः |

अग्नीन्सङ्कल्पयामास होत्रे चात्मानमेव च ||३२||

ततस्तां वीरुधं सोमं सङ्कल्प्य सुमहातपाः |

ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः ||३३||

ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ||३३||

आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् |

सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् ||३४||

स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै |

समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः ||३५||

वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः |

आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते ||३६||

ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः |

श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः ||३७||

त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः |

स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ||३८||

तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः |

प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते ||३९||

ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः |

ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ||४०||

दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् |

ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम् ||४१||

अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः |

अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ||४२||

ततस्त्रितो महाराज भागांस्तेषां यथाविधि |

मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् ||४३||

ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः |

प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ||४४||

स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः |

यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् ||४५||

तत्र चोर्मिमती राजन्नुत्पपात सरस्वती |

तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ||४६||

तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम् |

त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा ||४७||

क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा |

उवाच परुषं वाक्यं शशाप च महातपाः ||४८||

पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ |

तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ ||४९||

भवितारौ मया शप्तौ पापेनानेन कर्मणा |

प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ||५०||

इत्युक्ते तु तदा तेन क्षणादेव विशां पते |

तथाभूतावदृश्येतां वचनात्सत्यवादिनः ||५१||

तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः |

दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् ||५२||

उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः |

नदीगतमदीनात्मा प्राप्तो विनशनं तदा ||५३||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

036-अध्यायः

वैशम्पायन उवाच||

ततो विनशनं राजन्नाजगाम हलायुधः |

शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती ||१||

यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती |

तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह ||२||

तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः |

सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे ||३||

तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः |

क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ||४||

तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर |

अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् ||५||

तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः |

समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् ||६||

तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः |

पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ||७||

आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा |

सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ||८||

तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः |

श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ||९||

छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् |

गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ||१०||

विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः |

नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम् ||११||

तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु |

अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा ||१२||

भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः |

प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः ||१३||

तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः |

गर्गस्रोतो महातीर्थमाजगामैककुण्डली ||१४||

यत्र गर्गेण वृद्धेन तपसा भावितात्मना |

कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ||१५||

उत्पाता दारुणाश्चैव शुभाश्च जनमेजय |

सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना ||१६||

तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ||१६||

तत्र गर्गं महाभागमृषयः सुव्रता नृप |

उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ||१७||

तत्र गत्वा महाराज बलः श्वेतानुलेपनः |

विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम् ||१८||

उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः |

नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः ||१९||

तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् |

श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम् ||२०||

सरस्वत्यास्तटे जातं नगं तालध्वजो बली ||२०||

यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः |

पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः ||२१||

ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः |

व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते ||२२||

प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् |

अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ||२३||

एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः |

तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् ||२४||

तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् |

ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ||२५||

पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः |

पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः ||२६||

तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः |

आप्लुत्य सलिले चापि पूजयामास वै द्विजान् ||२७||

तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् |

ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् ||२८||

गत्वा चैव महाबाहुर्नातिदूरं महायशाः |

धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ||२९||

यत्र पन्नगराजस्य वासुकेः संनिवेशनम् |

महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् ||३०||

यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश ||३०||

यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् |

सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि ||३१||

पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव ||३१||

तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसञ्चयान् |

प्रायात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा ||३२||

आप्लुत्य बहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली |

दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः ||३३||

तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः |

ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत् ||३४||

यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती |

ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम् ||३५||

निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली |

बभूव विस्मितो राजन्बलः श्वेतानुलेपनः ||३६||

जनमेजय उवाच||

कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखी ततः |

व्याख्यातुमेतदिच्छामि सर्वमध्वर्युसत्तम ||३७||

कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः |

विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम ||३८||

वैशम्पायन उवाच||

पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः |

वर्तमाने सुबहुले सत्रे द्वादशवार्षिके ||३९||

ऋषयो बहवो राजंस्तत्र सम्प्रतिपेदिरे ||३९||

उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि |

निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके ||४०||

आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात् ||४०||

ऋषीणां बहुलत्वात्तु सरस्वत्या विशां पते |

तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा ||४१||

समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः |

तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ||४२||

जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् |

स्वाध्यायेनापि महता बभूवुः पूरिता दिशः ||४३||

अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् |

अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ||४४||

वालखिल्या महाराज अश्मकुट्टाश्च तापसाः |

दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथापरे ||४५||

वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः |

नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः ||४६||

आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः |

शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ||४७||

ततः पश्चात्समापेतुरृषयः सत्रयाजिनः |

तेऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः ||४८||

ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै |

जुहुवुश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः ||४९||

ततस्तमृषिसङ्घातं निराशं चिन्तयान्वितम् |

दर्शयामास राजेन्द्र तेषामर्थे सरस्वती ||५०||

ततः कुञ्जान्बहून्कृत्वा संनिवृत्ता सरिद्वरा |

ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय ||५१||

ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती |

भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा ||५२||

अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम् |

इत्यद्भुतं महच्चक्रे ततो राजन्महानदी ||५३||

एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः |

कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः ||५४||

तत्र कुञ्जान्बहून्दृष्ट्वा संनिवृत्तां च तां नदीम् |

बभूव विस्मयस्तत्र रामस्याथ महात्मनः ||५५||

उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः |

दत्त्वा दायान्द्विजातिभ्यो भाण्डानि विविधानि च ||५६||

भक्ष्यं पेयं च विविधं ब्राह्मणान्प्रत्यपादयत् ||५६||

ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः |

सरस्वतीतीर्थवरं नानाद्विजगणायुतम् ||५७||

बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः |

पनसैश्च पलाशैश्च करीरैः पीलुभिस्तथा ||५८||

सरस्वतीतीररुहैर्बन्धनैः स्यन्दनैस्तथा |

परूषकवनैश्चैव बिल्वैराम्रातकैस्तथा ||५९||

अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् |

कदलीवनभूयिष्ठमिष्टं कान्तं मनोरमम् ||६०||

वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि |

तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम् ||६१||

स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम् |

अहिंस्रैर्धर्मपरमैर्नृभिरत्यन्तसेवितम् ||६२||

सप्तसारस्वतं तीर्थमाजगाम हलायुधः |

यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः ||६३||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

037-अध्यायः

जनमेजय उवाच||

सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः |

कथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत् ||१||

कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम |

एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम ||२||

वैशम्पायन उवाच||

राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत् |

आहूता बलवद्भिर्हि तत्र तत्र सरस्वती ||३||

सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा |

सरस्वती ओघवती सुवेणुर्विमलोदका ||४||

पितामहस्य महतो वर्तमाने महीतले |

वितते यज्ञवाटे वै समेतेषु द्विजातिषु ||५||

पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा |

देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ||६||

तत्र चैव महाराज दीक्षिते प्रपितामहे |

यजतस्तत्र सत्रेण सर्वकामसमृद्धिना ||७||

मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा |

उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह ||८||

जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः |

वादित्राणि च दिव्यानि वादयामासुरञ्जसा ||९||

तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवता अपि |

विस्मयं परमं जग्मुः किमु मानुषयोनयः ||१०||

वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे |

अब्रुवन्नृषयो राजन्नायं यज्ञो महाफलः ||११||

न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ||११||

तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् |

पितामहेन यजता आहूता पुष्करेषु वै ||१२||

सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ||१२||

तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम् |

पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे ||१३||

एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती |

पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् ||१४||

नैमिषे मुनयो राजन्समागम्य समासते |

तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ||१५||

तत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः |

ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् ||१६||

सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः |

समागतानां राजेन्द्र सहायार्थं महात्मनाम् ||१७||

आजगाम महाभागा तत्र पुण्या सरस्वती ||१७||

नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम् |

आगता सरितां श्रेष्ठा तत्र भारत पूजिता ||१८||

गयस्य यजमानस्य गयेष्वेव महाक्रतुम् |

आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ||१९||

विशालां तु गयेष्वाहुरृषयः संशितव्रताः |

सरित्सा हिमवत्पार्श्वात्प्रसूता शीघ्रगामिनी ||२०||

औद्दालकेस्तथा यज्ञे यजतस्तत्र भारत |

समेते सर्वतः स्फीते मुनीनां मण्डले तदा ||२१||

उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः |

औद्दालकेन यजता पूर्वं ध्याता सरस्वती ||२२||

आजगाम सरिच्छ्रेष्ठा तं देशमृषिकारणात् |

पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ||२३||

मनोह्रदेति विख्याता सा हि तैर्मनसा हृता ||२३||

सुवेणुरृषभद्वीपे पुण्ये राजर्षिसेविते |

कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः ||२४||

आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ||२४||

ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना |

समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ||२५||

दक्षेण यजता चापि गङ्गाद्वारे सरस्वती |

विमलोदा भगवती ब्रह्मणा यजता पुनः ||२६||

समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ||२६||

एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः |

सप्तसारस्वतं तीर्थं ततस्तत्प्रथितं भुवि ||२७||

इति सप्त सरस्वत्यो नामतः परिकीर्तिताः |

सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ||२८||

शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः |

आपगामवगाढस्य राजन्प्रक्रीडितं महत् ||२९||

दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत |

स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् ||३०||

सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ||३०||

तद्रेतः स तु जग्राह कलशे वै महातपाः |

सप्तधा प्रविभागं तु कलशस्थं जगाम ह ||३१||

तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ||३१||

वायुवेगो वायुबलो वायुहा वायुमण्डलः |

वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् ||३२||

एवमेते समुत्पन्ना मरुतां जनयिष्णवः ||३२||

इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुवि |

महर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम् ||३३||

पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम् |

क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ||३४||

स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ||३४||

ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् |

प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ||३५||

ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः |

विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ||३६||

नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ||३६||

ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह |

सुराणां हितकामार्थं महादेवोऽभ्यभाषत ||३७||

भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै |

हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम ||३८||

तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ||३८||

ऋषिरुवाच||

किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् |

यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो ||३९||

तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् |

अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ||४०||

एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता |

अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत् ||४१||

ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् |

तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ||४२||

ऋषिरुवाच||

नान्यं देवादहं मन्ये रुद्रात्परतरं महत् |

सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ||४३||

त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः |

त्वामेव सर्वं विशति पुनरेव युगक्षये ||४४||

देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया |

त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ ||४५||

सर्वस्त्वमसि देवानां कर्ता कारयिता च ह |

त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ||४६||

एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् |

भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति ||४७||

ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् |

तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ||४८||

आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ||४८||

सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः |

न तस्य दुर्लभं किञ्चिद्भवितेह परत्र च ||४९||

सारस्वतं च लोकं ते गमिष्यन्ति न संशयः ||४९||

एतन्मङ्कणकस्यापि चरितं भूरितेजसः |

स हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना ||५०||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.