श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
038-अध्यायः
वैशम्पायन उवाच||
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः |
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ||१||
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च |
पूजितो मुनिसङ्घैश्च प्रातरुत्थाय लाङ्गली ||२||
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत |
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ||३||
तत औशनसं तीर्थमाजगाम हलायुधः |
कपालमोचनं नाम यत्र मुक्तो महामुनिः ||४||
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः |
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ||५||
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना |
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः ||६||
तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ||६||
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् |
विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम् ||७||
जनमेजय उवाच||
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः |
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ||८||
वैशम्पायन उवाच||
पुरा वै दण्डकारण्ये राघवेण महात्मना |
वसता राजशार्दूल राक्षसास्तत्र हिंसिताः ||९||
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः |
क्षुरेण शितधारेण तत्पपात महावने ||१०||
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया |
वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा ||११||
स तेन लग्नेन तदा द्विजातिर्न शशाक ह |
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ||१२||
स पूतिना विस्रवता वेदनार्तो महामुनिः |
जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम् ||१३||
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः |
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ||१४||
आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान् |
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ||१५||
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा |
सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम् ||१६||
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः |
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा ||१७||
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा ||१७||
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः |
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ||१८||
सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः |
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ||१९||
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद |
कपालमोचनमिति नाम चक्रुः समागताः ||२०||
तत्र दत्त्वा बहून्दायान्विप्रान्सम्पूज्य माधवः |
जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा ||२१||
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत |
ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः ||२२||
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः |
जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत् ||२३||
रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत |
देहन्यासे कृतमना विचिन्त्य बहुधा बहु ||२४||
ततः सर्वानुपादाय तनयान्वै महातपाः |
रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम् ||२५||
विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः |
तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् ||२६||
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् |
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् ||२७||
स तत्र विधिना राजन्नाप्लुतः सुमहातपाः |
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः ||२८||
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ||२८||
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् |
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ||२९||
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः |
दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः ||३०||
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः |
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः ||३१||
तपसा महता राजन्प्राप्तवानृषिसत्तमः ||३१||
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः |
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ||३२||
महातपस्वी भगवानुग्रतेजा महातपाः ||३२||
तत्राजगाम बलवान्बलभद्रः प्रतापवान् |
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
039-अध्यायः
जनमेजय उवाच||
कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः |
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ||१||
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम |
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ||२||
वैशम्पायन उवाच||
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः |
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ||३||
तस्य राजन्गुरुकुले वसतो नित्यमेव ह |
समाप्तिं नागमद्विद्या नापि वेदा विशां पते ||४||
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः |
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ||५||
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः |
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ||६||
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः |
आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ||७||
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति |
अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् ||८||
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः |
एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् ||९||
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् |
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ||१०||
तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः |
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ||११||
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि |
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ||१२||
स राजा कौशिकस्तात महायोग्यभवत्किल |
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ||१३||
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः |
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ||१४||
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा |
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ||१५||
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च |
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः ||१६||
न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ||१६||
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् |
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः ||१७||
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् |
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् ||१८||
ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात् |
ददृशे च ततः सर्वं भज्यमानं महावनम् ||१९||
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः |
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह ||२०||
तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान् |
ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ||२१||
तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः |
तपः परं मन्यमानस्तपस्येव मनो दधे ||२२||
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः |
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः ||२३||
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् |
तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् ||२४||
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे |
न चास्य नियमाद्बुद्धिरपयाति महात्मनः ||२५||
ततः परेण यत्नेन तप्त्वा बहुविधं तपः |
तेजसा भास्कराकारो गाधिजः समपद्यत ||२६||
तपसा तु तथा युक्तं विश्वामित्रं पितामहः |
अमन्यत महातेजा वरदो वरमस्य तत् ||२७||
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति |
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ||२८||
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः |
विचचार महीं कृत्स्नां कृतकामः सुरोपमः ||२९||
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु |
पयस्विनीस्तथा धेनूर्यानानि शयनानि च ||३०||
तथा वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम् |
अददान्मुदितो राजन्पूजयित्वा द्विजोत्तमान् ||३१||
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् |
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ||३२||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
040-अध्यायः
वैशम्पायन उवाच||
ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः |
यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः ||१||
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः ||१||
तपसा घोररूपेण कर्शयन्देहमात्मनः |
क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् ||२||
पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके |
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ||३||
तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः |
बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् ||४||
तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति |
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ||५||
एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान् |
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ||६||
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् |
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ||७||
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम |
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ||८||
ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित् |
अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ||९||
चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः |
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ||१०||
स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः |
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ||११||
अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् |
बको दाल्भ्यो महाराज नियमं परमास्थितः ||१२||
स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः ||१२||
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे |
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ||१३||
छिद्यमानं यथानन्तं वनं परशुना विभो |
बभूवापहतं तच्चाप्यवकीर्णमचेतनम् ||१४||
दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः |
बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः ||१५||
मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा |
अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप ||१६||
यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप |
अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय ||१७||
ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया |
मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः ||१८||
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् |
तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् ||१९||
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ||१९||
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् |
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ||२०||
प्रसादये त्वा भगवन्नपराधं क्षमस्व मे |
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ||२१||
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ||२१||
तं तथा विलपन्तं तु शोकोपहतचेतसम् |
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् ||२२||
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः |
मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् ||२३||
मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून् |
हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि ||२४||
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः |
स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् ||२५||
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः |
असुराणामभावाय भावाय च दिवौकसाम् ||२६||
मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः |
दैवतैरपि सम्भग्ना जितकाशिभिराहवे ||२७||
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः |
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् ||२८||
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् |
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ||२९||
यत्र यज्ञे ययातेस्तु महाराज सरस्वती |
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ||३०||
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः |
आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् ||३१||
ययातेर्यजमानस्य यत्र राजन्सरस्वती |
प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् ||३२||
यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति |
तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् ||३३||
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा |
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् ||३४||
ततस्तालकेतुर्महाधर्मसेतु; र्महात्मा कृतात्मा महादाननित्यः |
वसिष्ठापवाहं महाभीमवेगं; धृतात्मा जितात्मा समभ्याजगाम ||३५||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
041-अध्यायः
जनमेजय उवाच||
वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः |
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ||१||
केन चास्याभवद्वैरं कारणं किं च तत्प्रभो |
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम् ||२||
वैशम्पायन उवाच||
विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत |
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ||३||
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् |
पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः ||४||
यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः |
यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः ||५||
यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् |
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ||६||
तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप |
सेनापत्येन महता सुरारिविनिबर्हणम् ||७||
तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः |
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ||८||
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत |
स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ ||९||
तत्राप्यधिकसन्तापो विश्वामित्रो महामुनिः |
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ||१०||
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत ||१०||
इयं सरस्वती तूर्णं मत्समीपं तपोधनम् |
आनयिष्यति वेगेन वसिष्ठं जपतां वरम् ||११||
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ||११||
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः |
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ||१२||
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह |
जज्ञे चैनं महावीर्यं महाकोपं च भामिनी ||१३||
तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा |
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ||१४||
हतवीरा यथा नारी साभवद्दुःखिता भृशम् |
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् ||१५||
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय |
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ||१६||
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा |
विव्यथे सुविरूढेव लता वायुसमीरिता ||१७||
तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम् |
विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय ||१८||
ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत |
उभयोः शापयोर्भीता कथमेतद्भविष्यति ||१९||
साभिगम्य वसिष्ठं तु इममर्थमचोदयत् |
यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता ||२०||
उभयोः शापयोर्भीता वेपमाना पुनः पुनः |
चिन्तयित्वा महाशापमृषिवित्रासिता भृशम् ||२१||
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् |
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ||२२||
त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी |
विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम् ||२३||
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् |
चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत् ||२४||
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि |
कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया ||२५||
अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् |
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् ||२६||
इदमन्तरमित्येव ततः सा सरितां वरा |
कूलापहारमकरोत्स्वेन वेगेन सा सरित् ||२७||
तेन कूलापहारेण मैत्रावरुणिरौह्यत |
उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम् ||२८||
पितामहस्य सरसः प्रवृत्तासि सरस्वति |
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ||२९||
त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः |
सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे ||३०||
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा |
त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत् ||३१||
त्वमेव सर्वभूतेषु वससीह चतुर्विधा ||३१||
एवं सरस्वती राजन्स्तूयमाना महर्षिणा |
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ||३२||
न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् ||३२||
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः |
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ||३३||
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी |
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता ||३४||
उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम् ||३४||
ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् |
अब्रवीदथ सङ्क्रुद्धो विश्वामित्रो ह्यमर्षणः ||३५||
यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता |
शोणितं वह कल्याणि रक्षोग्रामणिसंमतम् ||३६||
ततः सरस्वती शप्ता विश्वामित्रेण धीमता |
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ||३७||
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तथा |
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः ||३८||
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप |
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा ||३९||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
042-अध्यायः
वैशम्पायन उवाच||
सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता |
तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत् ||१||
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत |
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ||२||
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः |
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ||३||
कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः |
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ||४||
तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुङ्गवाः |
प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः ||५||
प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा ||५||
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा |
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् ||६||
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ||६||
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः |
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ||७||
ते तु सर्वे महाभागाः समागम्य महाव्रताः |
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ||८||
कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम् |
एवमाकुलतां यातः श्रुत्वा पास्यामहे वयम् ||९||
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती |
दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः ||१०||
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे |
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ||११||
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् |
विमोचयामहे सर्वे शापादेतां सरस्वतीम् ||१२||
तेषां तु वचनादेव प्रकृतिस्था सरस्वती |
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि ||१३||
विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ||१३||
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् |
कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः ||१४||
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः ||१४||
वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् |
न च नः कामकारोऽयं यद्वयं पापकारिणः ||१५||
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा |
पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः ||१६||
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च |
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ||१७||
आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा |
प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ||१८||
योषितां चैव पापानां योनिदोषेण वर्धते ||१८||
तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः |
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ||१९||
तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम् |
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ||२०||
क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् |
केशावपन्नमाधूतमारुग्णमपि यद्भवेत् ||२१||
श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह ||२१||
तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत् |
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ||२२||
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः |
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ||२३||
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा |
अरुणामानयामास स्वां तनुं पुरुषर्षभ ||२४||
तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः |
अरुणायां महाराज ब्रह्महत्यापहा हि सा ||२५||
एतमर्थमभिज्ञाय देवराजः शतक्रतुः |
तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल ||२६||
जनमेजय उवाच||
किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान् |
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ||२७||
वैशम्पायन उवाच||
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर |
यथा बिभेद समयं नमुचेर्वासवः पुरा ||२८||
नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् |
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ||२९||
नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि |
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ||३०||
एवं स कृत्वा समयं सृष्ट्वा नीहारमीश्वरः |
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ||३१||
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात् |
हे मित्रहन्पाप इति ब्रुवाणं शक्रमन्तिकात् ||३२||
एवं स शिरसा तेन चोद्यमानः पुनः पुनः |
पितामहाय सन्तप्त एवमर्थं न्यवेदयत् ||३३||
तमब्रवील्लोकगुरुररुणायां यथाविधि |
इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा ||३४||
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय |
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ||३५||
स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह |
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ||३६||
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत |
लोकान्कामदुघान्प्राप्तमक्षयान्राजसत्तम ||३७||
तत्राप्युपस्पृश्य बलो महात्मा; दत्त्वा च दानानि पृथग्विधानि |
अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ||३८||
यत्रायजद्राजसूयेन सोमः; साक्षात्पुरा विधिवत्पार्थिवेन्द्र |
अत्रिर्धीमान्विप्रमुख्यो बभूव; होता यस्मिन्क्रतुमुख्ये महात्मा ||३९||
यस्यान्तेऽभूत्सुमहान्दानवानां; दैतेयानां राक्षसानां च देवैः |
स सङ्ग्रामस्तारकाख्यः सुतीव्रो; यत्र स्कन्दस्तारकाख्यं जघान ||४०||
सेनापत्यं लब्धवान्देवतानां; महासेनो यत्र दैत्यान्तकर्ता |
साक्षाच्चात्र न्यवसत्कार्त्तिकेयः; सदा कुमारो यत्र स प्लक्षराजः ||४१||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
043-अध्यायः
स्कन्दाभिषेकः
जनमेजय उवाच||
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम |
कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि ||१||
यस्मिन्काले च देशे च यथा च वदतां वर |
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ||२||
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् |
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ||३||
वैशम्पायन उवाच||
कुरुवंशस्य सदृशमिदं कौतूहलं तव |
हर्षमुत्पादयत्येतद्वचो मे जनमेजय ||४||
हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप |
अभिषेकं कुमारस्य प्रभावं च महात्मनः ||५||
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा |
तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम् ||६||
तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः |
न चैव धारयामास गर्भं तेजोमयं तदा ||७||
स गङ्गामभिसङ्गम्य नियोगाद्ब्रह्मणः प्रभुः |
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ||८||
अथ गङ्गापि तं गर्भमसहन्ती विधारणे |
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ||९||
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः |
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ||१०||
शरस्तम्बे महात्मानमनलात्मजमीश्वरम् |
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः ||११||
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः |
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ||१२||
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः |
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ||१३||
यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि |
स शैलः काञ्चनः सर्वः सम्बभौ कुरुसत्तम ||१४||
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता |
अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः ||१५||
कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः |
गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः ||१६||
स देवस्तपसा चैव वीर्येण च समन्वितः |
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः ||१७||
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः |
स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा ||१८||
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः |
दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः ||१९||
अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा |
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम् ||२०||
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः |
वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः ||२१||
धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससङ्ग्रहः |
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ||२२||
स ददर्श महावीर्यं देवदेवमुमापतिम् |
शैलपुत्र्या सहासीनं भूतसङ्घशतैर्वृतम् ||२३||
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः |
विकृता विकृताकारा विकृताभरणध्वजाः ||२४||
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः |
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ||२५||
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः |
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ||२६||
श्वाविच्छल्यकगोधानां खरैडकगवां तथा |
सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन् ||२७||
केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः |
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ||२८||
सप्तमातृगणाश्चैव समाजग्मुर्विशां पते |
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ||२९||
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः |
ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सह विष्णुना ||३०||
शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम् |
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ||३१||
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः |
ऋभवो नाम वरदा देवानामपि देवताः ||३२||
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ||३२||
स तु बालोऽपि भगवान्महायोगबलान्वितः |
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ||३३||
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् |
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ||३४||
किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति |
अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ||३५||
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः |
युगपद्योगमास्थाय ससर्ज विविधास्तनूः ||३६||
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः |
स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः ||३७||
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः |
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ||३८||
विशाखस्तु ययौ येन देवी गिरिवरात्मजा |
शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम् ||३९||
नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः ||३९||
सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः |
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ||४०||
हाहाकारो महानासीद्देवदानवरक्षसाम् |
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ||४१||
ततो रुद्रश्च देवी च पावकश्च पितामहम् |
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ||४२||
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव |
इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया ||४३||
अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम् |
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ||४४||
ततः स भगवान्धीमान्सर्वलोकपितामहः |
मनसा चिन्तयामास किमयं लभतामिति ||४५||
ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम् |
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः ||४६||
पूर्वमेवादिदेशासौ निकायेषु महात्मनाम् |
समर्थं च तमैश्वर्ये महामतिरमन्यत ||४७||
ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः |
सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत ||४८||
सर्वदेवनिकायानां ये राजानः परिश्रुताः |
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ||४९||
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः |
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः ||५०||
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् |
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ||५१||
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते |
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः ||५२||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
044-अध्यायः
वैशम्पायन उवाच||
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः |
बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि ||१||
ततो हिमवता दत्ते मणिप्रवरशोभिते |
दिव्यरत्नाचिते दिव्ये निषण्णः परमासने ||२||
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् |
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ||३||
इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा |
धाता चैव विधाता च तथा चैवानिलानलौ ||४||
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता |
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ||५||
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः |
विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ||६||
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः |
देवर्षिभिरसङ्ख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ||७||
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः |
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ||८||
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः ||८||
पितामहः पुलस्त्यश्च पुलहश्च महातपाः |
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ||९||
क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च |
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते ||१०||
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः |
समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च ||११||
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ||११||
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती |
उमा शची सिनीवाली तथा चानुमतिः कुहूः ||१२||
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ||१२||
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् |
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च ||१३||
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ||१३||
उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः |
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ||१४||
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः |
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ||१५||
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः |
ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः ||१६||
जगृहुस्ते तदा राजन्सर्व एव दिवौकसः |
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ||१७||
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप |
सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु ||१८||
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः |
सेनापतिं महात्मानमसुराणां भयावहम् ||१९||
पुरा यथा महाराज वरुणं वै जलेश्वरम् |
तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः ||२०||
कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः ||२०||
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः |
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः ||२१||
नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम् |
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् ||२२||
ततः स्थाणुं महावेगं महापारिषदं क्रतुम् |
मायाशतधरं कामं कामवीर्यबलान्वितम् ||२३||
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ||२३||
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् |
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश ||२४||
तथा देवा ददुस्तस्मै सेनां नैरृतसङ्कुलाम् |
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ||२५||
जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः |
गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा ||२६||
यमः प्रादादनुचरौ यमकालोपमावुभौ |
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ||२७||
सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ |
तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ||२८||
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ |
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ||२९||
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः |
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ||३०||
परिघं च वटं चैव भीमं च सुमहाबलम् |
दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ ||३१||
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते ||३१||
उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ |
ददावनलपुत्राय वासवः परवीरहा ||३२||
तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् ||३२||
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम् |
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ||३३||
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ |
स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ||३४||
कुन्दनं कुसुमं चैव कुमुदं च महायशाः |
डम्बराडम्बरौ चैव ददौ धाता महात्मने ||३५||
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ |
ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ ||३६||
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने |
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः ||३७||
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ |
सुप्रभं च महात्मानं शुभकर्माणमेव च ||३८||
कार्त्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ ||३८||
पालितकं कालिकं च महामायाविनावुभौ |
पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत ||३९||
बलं चातिबलं चैव महावक्त्रौ महाबलौ |
प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम ||४०||
घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ |
प्रददौ कार्त्तिकेयाय वरुणः सत्यसङ्गरः ||४१||
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् |
हिमवान्प्रददौ राजन्हुताशनसुताय वै ||४२||
काञ्चनं च महात्मानं मेघमालिनमेव च |
ददावनुचरौ मेरुरग्निपुत्राय भारत ||४३||
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ |
महात्मनेऽग्निपुत्राय महाबलपराक्रमौ ||४४||
उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ |
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ ||४५||
सङ्ग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ |
प्रददावग्निपुत्राय महापारिषदावुभौ ||४६||
उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च |
प्रददावग्निपुत्राय पार्वती शुभदर्शना ||४७||
जयं महाजयं चैव नागौ ज्वलनसूनवे |
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः ||४८||
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा |
सागराः सरितश्चैव गिरयश्च महाबलाः ||४९||
ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः |
दिव्यप्रहरणोपेतान्नानावेषविभूषितान् ||५०||
शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः |
विविधायुधसम्पन्नाश्चित्राभरणवर्मिणः ||५१||
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च |
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ ||५२||
द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः |
अक्षसन्तर्जनो राजन्कुनदीकस्तमोभ्रकृत् ||५३||
एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः |
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः ||५४||
पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः |
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः ||५५||
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः |
ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः ||५६||
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः |
विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः ||५७||
उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः |
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च ||५८||
पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ |
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ||५९||
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् |
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ||६०||
क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत |
गोव्रजः कनकापीडो महापारिषदेश्वरः ||६१||
गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् |
वैताली चातिताली च तथा कतिकवातिकौ ||६२||
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह |
रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः ||६३||
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः |
कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा ||६४||
यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः |
सजालश्च महातेजाः क्रथक्राथौ च भारत ||६५||
तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान् |
मधुरः सुप्रसादश्च किरीटी च महाबलः ||६६||
वसनो मधुवर्णश्च कलशोदर एव च |
धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ||६७||
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः |
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ||६८||
अचलः कनकाक्षश्च बालानामयिकः प्रभुः |
सञ्चारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः ||६९||
लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः |
मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः ||७०||
पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः |
चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः ||७१||
योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः |
पैतामहा महात्मानो महापारिषदाश्च ह ||७२||
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय ||७२||
सहस्रशः पारिषदाः कुमारमुपतस्थिरे |
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय ||७३||
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा |
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ||७४||
मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा |
भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा ||७५||
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत |
नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे ||७६||
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा |
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः ||७७||
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा |
भीमा गजाननाश्चैव तथा नक्रमुखाः परे ||७८||
गरुडाननाः खड्गमुखा वृककाकमुखास्तथा |
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा ||७९||
महाजठरपादाङ्गास्तारकाक्षाश्च भारत |
पारावतमुखाश्चान्ये तथा वृषमुखाः परे ||८०||
कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः |
कृकलासमुखाश्चैव विरजोम्बरधारिणः ||८१||
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः |
आशीविषाश्चीरधरा गोनासावरणास्तथा ||८२||
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः |
ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः ||८३||
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः |
स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः ||८४||
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि |
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा ||८५||
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः |
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः ||८६||
नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे |
भुजङ्गभोगवदना नानागुल्मनिवासिनः ||८७||
चीरसंवृतगात्राश्च तथा फलकवाससः |
नानावेषधराश्चैव चर्मवासस एव च ||८८||
उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः |
किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः ||८९||
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे |
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ||९०||
चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा |
दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः ||९१||
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः |
स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः ||९२||
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः |
कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः ||९३||
हस्तिनासाः कूर्मनासा वृकनासास्तथापरे |
दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः ||९४||
महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे |
वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ||९५||
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः |
पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत ||९६||
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः |
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ||९७||
नानावर्मभिराच्छन्ना नानाभाषाश्च भारत ||९७||
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः |
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ||९८||
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः |
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत ||९९||
वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः |
श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे ||१००||
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ||१००||
चामरापीडकनिभाः श्वेतलोहितराजयः |
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ||१०१||
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु |
शेषैः कृतं पारिषदैरायुधानां परिग्रहम् ||१०२||
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः |
पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः ||१०३||
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः |
शूलासिहस्ताश्च तथा महाकाया महाबलाः ||१०४||
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः |
असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत ||१०५||
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः |
महाबला महावेगा महापारिषदास्तथा ||१०६||
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः |
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः ||१०७||
एते चान्ये च बहवो महापारिषदा नृप |
उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् ||१०८||
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः |
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् ||१०९||
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च |
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ||११०||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
045-अध्यायः
वैशम्पायन उवाच||
शृणु मातृगणान्राजन्कुमारानुचरानिमान् |
कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ||१||
यशस्विनीनां मातॄणां शृणु नामानि भारत |
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ||२||
प्रभावती विशालाक्षी पलिता गोनसी तथा |
श्रीमती बहुला चैव तथैव बहुपुत्रिका ||३||
अप्सुजाता च गोपाली बृहदम्बालिका तथा |
जयावती मालतिका ध्रुवरत्ना भयङ्करी ||४||
वसुदामा सुदामा च विशोका नन्दिनी तथा |
एकचूडा महाचूडा चक्रनेमिश्च भारत ||५||
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना |
शत्रुञ्जया तथा चैव क्रोधना शलभी खरी ||६||
माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत |
गीतप्रिया च कल्याणी कद्रुला चामिताशना ||७||
मेघस्वना भोगवती सुभ्रूश्च कनकावती |
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ||८||
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना |
सन्तानिका च कौरव्य कमला च महाबला ||९||
सुदामा बहुदामा च सुप्रभा च यशस्विनी |
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ||१०||
शतघण्टा शतानन्दा भगनन्दा च भामिनी |
वपुष्मती चन्द्रशीता भद्रकाली च भारत ||११||
सङ्कारिका निष्कुटिका भ्रमा चत्वरवासिनी |
सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया ||१२||
धनदा सुप्रसादा च भवदा च जलेश्वरी |
एडी भेडी समेडी च वेतालजननी तथा ||१३||
कण्डूतिः कालिका चैव देवमित्रा च भारत ||१३||
लम्बसी केतकी चैव चित्रसेना तथा बला |
कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप ||१४||
कुण्डारिका कोकलिका कण्डरा च शतोदरी |
उत्क्राथिनी जरेणा च महावेगा च कङ्कणा ||१५||
मनोजवा कण्टकिनी प्रघसा पूतना तथा |
खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा ||१६||
मण्डोदरी च तुण्डा च कोटरा मेघवासिनी |
सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी ||१७||
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला |
पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च ||१८||
पक्षालिका मन्थनिका जरायुर्जर्जरानना |
ख्याता दहदहा चैव तथा धमधमा नृप ||१९||
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला |
अमोचा चैव कौरव्य तथा लम्बपयोधरा ||२०||
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला |
शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ||२१||
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा |
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ||२२||
कालेडिका वामनिका मुकुटा चैव भारत |
लोहिताक्षी महाकाया हरिपिण्डी च भूमिप ||२३||
एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत |
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ||२४||
चतुष्पथनिकेता च गोकर्णी महिषानना |
खरकर्णी महाकर्णी भेरीस्वनमहास्वना ||२५||
शङ्खकुम्भस्वना चैव भङ्गदा च महाबला |
गणा च सुगणा चैव तथाभीत्यथ कामदा ||२६||
चतुष्पथरता चैव भूतितीर्थान्यगोचरा |
पशुदा वित्तदा चैव सुखदा च महायशाः ||२७||
पयोदा गोमहिषदा सुविषाणा च भारत ||२७||
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना |
गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा ||२८||
एकचक्रा मेघरवा मेघमाला विरोचना ||२८||
एताश्चान्याश्च बहवो मातरो भरतर्षभ |
कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ||२९||
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत |
सरला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः ||३०||
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा |
निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः ||३१||
कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ |
अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः ||३२||
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः |
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ||३३||
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः |
वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा ||३४||
याम्यो रौद्र्यस्तथा सौम्याः कौबेर्योऽथ महाबलाः |
वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परन्तप ||३५||
वायव्यश्चाथ कौमार्यो ब्राह्म्यश्च भरतर्षभ |
रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा ||३६||
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः |
शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा ||३७||
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः |
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ||३८||
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा |
नानाविचित्रवेषाश्च नानाभाषास्तथैव च ||३९||
एते चान्ये च बहवो गणाः शत्रुभयङ्कराः |
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य संमते ||४०||
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः |
गुहाय राजशार्दूल विनाशाय सुरद्विषाम् ||४१||
महास्वनां महाघण्टां द्योतमानां सितप्रभाम् |
तरुणादित्यवर्णां च पताकां भरतर्षभ ||४२||
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् |
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् ||४३||
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् |
उमा ददौ चारजसी वाससी सूर्यसप्रभे ||४४||
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् |
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ||४५||
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् |
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ||४६||
पाशं तु वरुणो राजा बलवीर्यसमन्वितम् |
कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः ||४७||
समरेषु जयं चैव प्रददौ लोकभावनः ||४७||
सेनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह |
शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः ||४८||
ततः पारिषदैश्चैव मातृभिश्च समन्वितः ||४८||
सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना |
सभेरीशङ्खमुरजा सायुधा सपताकिनी ||४९||
शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता ||४९||
ततो देवनिकायास्ते भूतसेनागणास्तथा |
वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान् ||५०||
पटहाञ्झर्झरांश्चैव कृकचान्गोविषाणिकान् |
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ||५१||
तुष्टुवुस्ते कुमारं च सर्वे देवाः सवासवाः |
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ||५२||
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ |
रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः ||५३||
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् |
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ||५४||
सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः |
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ||५५||
स निर्ययौ महासेनो महत्या सेनया वृतः |
वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् ||५६||
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः |
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ||५७||
स तया भीमया देवः शूलमुद्गरहस्तया |
गदामुसलनाराचशक्तितोमरहस्तया ||५८||
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ||५८||
तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा |
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ||५९||
अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः ||५९||
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः |
शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् ||६०||
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ||६०||
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा |
उल्काज्वाला महाराज पपात वसुधातले ||६१||
संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ |
यथान्तकालसमये सुघोराः स्युस्तथा नृप ||६२||
क्षिप्ता ह्येका तथा शक्तिः सुघोरानलसूनुना |
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ||६३||
स शक्त्यस्त्रेण सङ्ग्रामे जघान भगवान्प्रभुः |
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ||६४||
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप ||६४||
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान् |
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् ||६५||
ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः |
जघानानुचरैः सार्धं विविधायुधपाणिभिः ||६६||
तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु |
कुमारानुचरा राजन्पूरयन्तो दिशो दश ||६७||
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः |
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे ||६८||
पताकयावधूताश्च हताः केचित्सुरद्विषः |
केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले ||६९||
केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः ||६९||
एवं सुरद्विषोऽनेकान्बलवानाततायिनः |
जघान समरे वीरः कार्त्तिकेयो महाबलः ||७०||
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः |
क्रौञ्चं पर्वतमासाद्य देवसङ्घानबाधत ||७१||
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः |
स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान् ||७२||
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् |
शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया ||७३||
सशालस्कन्धसरलं त्रस्तवानरवारणम् |
पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् ||७४||
गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम् |
कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम् ||७५||
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः |
शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः ||७६||
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः |
किंनराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ||७७||
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः |
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ||७८||
तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे |
बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा ||७९||
बहुधा चैकधा चैव कृत्वात्मानं महात्मना |
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ||८०||
एवम्प्रभावो भगवानतो भूयश्च पावकिः |
क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः ||८१||
ततः स भगवान्देवो निहत्य विबुधद्विषः |
सभाज्यमानो विबुधैः परं हर्षमवाप ह ||८२||
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत |
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् ||८३||
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः |
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ||८४||
केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम् |
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ||८५||
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः |
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ||८६||
एकधा च द्विधा चैव चतुर्धा च महाबलम् |
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ||८७||
एतत्ते कथितं राजन्कार्त्तिकेयाभिषेचनम् |
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ||८८||
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु |
कुमारेण महाराज त्रिविष्टपमिवापरम् ||८९||
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् |
तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः ||९०||
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः |
अभिषिक्तो महाराज देवसेनापतिः सुरैः ||९१||
औजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः |
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ||९२||
तस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली |
ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च ||९३||
उषित्वा रजनीं तत्र माधवः परवीरहा |
पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ||९४||
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः ||९४||
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि |
यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः ||९५||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
046-अध्यायः
जनमेजय उवाच||
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः |
अभिषेकं कुमारस्य विस्तरेण यथाविधि ||१||
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन |
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ||२||
अभिषेकं कुमारस्य दैत्यानां च वधं तथा |
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ||३||
अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः |
तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम ||४||
वैशम्पायन उवाच||
शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम् |
आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि ||५||
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ||५||
यथास्मान्सुरराट्शक्रो भयेभ्यः पाति सर्वदा |
तथा त्वमपि सर्वासां सरितां वै पतिर्भव ||६||
वासश्च ते सदा देव सागरे मकरालये |
समुद्रोऽयं तव वशे भविष्यति नदीपतिः ||७||
सोमेन सार्धं च तव हानिवृद्धी भविष्यतः |
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ||८||
समागम्य ततः सर्वे वरुणं सागरालयम् |
अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ||९||
अभिषिच्य ततो देवा वरुणं यादसां पतिम् |
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ||१०||
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः |
सरितः सागरांश्चैव नदांश्चैव सरांसि च ||११||
पालयामास विधिना यथा देवाञ्शतक्रतुः ||११||
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु |
अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा ||१२||
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः ||१२||
लोकालोकविनाशे च प्रादुर्भूते तदानघ |
उपतस्थुर्महात्मानं सर्वलोकपितामहम् ||१३||
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे |
सर्वलोकक्षयो मा भूत्सम्पादयतु नोऽनलम् ||१४||
जनमेजय उवाच||
किमर्थं भगवानग्निः प्रनष्टो लोकभावनः |
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ||१५||
वैशम्पायन उवाच||
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् |
शमीगर्भमथासाद्य ननाश भगवांस्ततः ||१६||
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः |
अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ||१७||
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि |
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ||१८||
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः |
ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः ||१९||
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ||१९||
भृगोः शापान्महीपाल यदुक्तं ब्रह्मवादिना |
तत्राप्याप्लुत्य मतिमान्ब्रह्मयोनिं जगाम ह ||२०||
ससर्ज भगवान्यत्र सर्वलोकपितामहः |
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ||२१||
ससर्ज चान्नानि तथा देवतानां यथाविधि ||२१||
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च |
कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः ||२२||
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः ||२२||
तत्रस्थमेव तं राजन्धनानि निधयस्तथा |
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः ||२३||
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ||२३||
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे |
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ||२४||
यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः |
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा ||२५||
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् |
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा ||२६||
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः |
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोरमम् ||२७||
विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च ||२७||
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् |
जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः ||२८||
निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम् |
नानर्तुकवनोपेतं सदापुष्पफलं शुभम् ||२९||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
047-अध्यायः
स्रुचावत्युपाख्यानम्
वैशम्पायन उवाच||
ततस्तीर्थवरं रामो ययौ बदरपाचनम् |
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ||१||
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि |
स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी ||२||
तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप |
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ||३||
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह |
चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् ||४||
तस्यास्तु तेन वृत्तेन तपसा च विशां पते |
भक्त्या च भगवान्प्रीतः परया पाकशासनः ||५||
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः |
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ||६||
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् |
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ||७||
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा |
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ||८||
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत |
शक्रभक्त्या तु ते पाणिं न दास्यामि कथञ्चन ||९||
व्रतैश्च नियमैश्चैव तपसा च तपोधन |
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ||१०||
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् |
उवाच नियमज्ञां तां सान्त्वयन्निव भारत ||११||
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते |
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ||१२||
तच्च सर्वं यथाभूतं भविष्यति वरानने |
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ||१३||
यानि स्थानानि दिव्यानि विबुधानां शुभानने |
तपसा तानि प्राप्यानि तपोमूलं महत्सुखम् ||१४||
इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः |
देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम ||१५||
पचस्वैतानि सुभगे बदराणि शुभव्रते |
पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः ||१६||
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः |
अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे ||१७||
इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते ||१७||
तस्या जिज्ञासनार्थं स भगवान्पाकशासनः |
बदराणामपचनं चकार विबुधाधिपः ||१८||
ततः स प्रयता राजन्वाग्यता विगतक्लमा |
तत्परा शुचिसंवीता पावके समधिश्रयत् ||१९||
अपचद्राजशार्दूल बदराणि महाव्रता ||१९||
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ |
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ||२०||
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः |
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ||२१||
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना |
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा ||२२||
चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता |
दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया ||२३||
अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः |
ततः संदर्शयामास कन्यायै रूपमात्मनः ||२४||
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् |
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ||२५||
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे |
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ||२६||
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति |
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् ||२७||
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ||२७||
अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा |
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ||२८||
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः |
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ||२९||
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने |
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ||३०||
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः |
अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा ||३१||
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् |
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ||३२||
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः |
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ||३३||
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना |
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय ||३४||
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते ||३४||
इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया |
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ||३५||
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा |
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ||३६||
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः |
अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः ||३७||
ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात् |
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा ||३८||
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् |
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ||३९||
ततः संदर्शयामास स्वरूपं भगवान्हरः |
ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् ||४०||
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् |
अस्याश्च यत्तपो विप्रा न समं तन्मतं मम ||४१||
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् |
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ||४२||
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः |
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ||४३||
साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि |
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम् ||४४||
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् ||४४||
तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः |
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् ||४५||
एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् ||४५||
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् |
अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् ||४६||
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया |
यथा त्वया महाभागे मदर्थं संशितव्रते ||४७||
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः |
तथा चेदं ददाम्यद्य नियमेन सुतोषितः ||४८||
विशेषं तव कल्याणि प्रयच्छामि वरं वरे |
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना ||४९||
तस्य चाहं प्रसादेन तव कल्याणि तेजसा |
प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि ||५०||
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः |
स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् ||५१||
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् |
स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ||५२||
गते वज्रधरे राजंस्तत्र वर्षं पपात ह |
पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् ||५३||
नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः |
मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते ||५४||
उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् |
तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत ||५५||
जनमेजय उवाच||
का तस्या भगवन्माता क्व संवृद्धा च शोभना |
श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे ||५६||
वैशम्पायन उवाच||
भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः |
दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम् ||५७||
स तु जग्राह तद्रेतः करेण जपतां वरः |
तदावपत्पर्णपुटे तत्र सा सम्भवच्छुभा ||५८||
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः |
नाम चास्याः स कृतवान्भारद्वाजो महामुनिः ||५९||
स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि |
स च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ||६०||
तत्राप्युपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यः |
जगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस्तदानीम् ||६१||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
048-अध्यायः
वैशम्पायन उवाच||
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली |
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ||१||
तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह |
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ||२||
निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् |
आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः ||३||
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः |
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ||४||
तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम् |
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ||५||
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः |
ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः ||६||
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ||६||
यत्र रामो महाभागो भार्गवः सुमहातपाः |
असकृत्पृथिवीं सर्वां हतक्षत्रियपुङ्गवाम् ||७||
उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम् |
अयजद्वाजपेयेन सोऽश्वमेधशतेन च ||८||
प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम् ||८||
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय |
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ||९||
पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः |
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् ||१०||
यत्रानयामास तदा राजसूयं महीपते |
पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः ||११||
तत्र निर्जित्य सङ्ग्रामे मानुषान्दैवतांस्तथा |
वरं क्रतुं समाजह्रे वरुणः परवीरहा ||१२||
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत |
देवानां दानवानां च त्रैलोक्यस्य क्षयावहः ||१३||
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय |
जायते सुमहाघोरः सङ्ग्रामः क्षत्रियान्प्रति ||१४||
सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा |
तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ||१५||
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः |
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ||१६||
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम |
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ||१७||
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः |
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ||१८||
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः |
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते ||१९||
एते चान्ये च बहवो योगसिद्धाः सहस्रशः |
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप ||२०||
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ |
आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे ||२१||
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत |
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः ||२२||
असितो देवलश्चैव तस्मिन्नेव महातपाः |
परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ||२३||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
049-अध्यायः
जैगीषव्योपाख्यानम्
वैशम्पायन उवाच||
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः |
गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा ||१||
धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः |
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ||२||
अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः |
काञ्चने लोष्टके चैव समदर्शी महातपाः ||३||
देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह |
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ||४||
ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः |
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ||५||
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः |
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ||६||
तं तत्र वसमानं तु जैगीषव्यं महामुनिम् |
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ||७||
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् |
जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ||८||
आहारकाले मतिमान्परिव्राड्जनमेजय |
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ||९||
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् |
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ||१०||
देवलस्तु यथाशक्ति पूजयामास भारत |
ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः ||११||
कदाचित्तस्य नृपते देवलस्य महात्मनः |
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ||१२||
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम |
न चायमलसो भिक्षुरभ्यभाषत किञ्चन ||१३||
एवं विगणयन्नेव स जगाम महोदधिम् |
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः ||१४||
गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम् |
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ||१५||
ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः |
कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च ||१६||
इत्येवं चिन्तयामास महर्षिरसितस्तदा |
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह ||१७||
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह |
कलशं जलपूर्णं वै गृहीत्वा जनमेजय ||१८||
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः |
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत ||१९||
न व्याहरति चैवैनं जैगीषव्यः कथञ्चन |
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ||२०||
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् |
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ||२१||
असितो देवलो राजंश्चिन्तयामास बुद्धिमान् |
दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् ||२२||
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः |
मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् ||२३||
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः |
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते ||२४||
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ||२४||
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् |
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ||२५||
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः |
अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः ||२६||
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत |
पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत ||२७||
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् |
व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् ||२८||
लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम् |
ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह ||२९||
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः |
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् ||३०||
व्रजन्तं लोकममलमपश्यद्देवपूजितम् ||३०||
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः |
तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् ||३१||
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः |
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ||३२||
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् |
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ||३३||
यजन्ते पुण्डरीकेण राजसूयेन चैव ये |
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||३४||
अश्वमेधं क्रतुवरं नरमेधं तथैव च |
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ||३५||
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये |
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||३६||
द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप |
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||३७||
मित्रावरुणयोर्लोकानादित्यानां तथैव च |
सलोकतामनुप्राप्तमपश्यत ततोऽसितः ||३८||
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः |
तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ||३९||
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् |
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ||४०||
त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा |
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ||४१||
ततो मुनिवरं भूयो जैगीषव्यमथासितः |
नान्वपश्यत योगस्थमन्तर्हितमरिंदम ||४२||
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः |
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ||४३||
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् |
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः ||४४||
जैगीषव्यं न पश्यामि तं शंसत महौजसम् |
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ||४५||
सिद्धा ऊचुः||
शृणु देवल भूतार्थं शंसतां नो दृढव्रत |
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् ||४६||
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम् |
असितो देवलस्तूर्णमुत्पपात पपात च ||४७||
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह |
न देवल गतिस्तत्र तव गन्तुं तपोधन ||४८||
ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् ||४८||
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः |
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ||४९||
स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् |
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ||५०||
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया |
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ||५१||
ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः |
विनयावनतो राजन्नुपसर्प्य महामुनिम् ||५२||
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ||५२||
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः |
विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः ||५३||
संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः |
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ||५४||
संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह |
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ||५५||
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा |
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ||५६||
ततस्तु फलमूलानि पवित्राणि च भारत |
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ||५७||
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः |
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ||५८||
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः |
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् ||५९||
इति निश्चित्य मनसा देवलो राजसत्तम |
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ||६०||
एवमादीनि सञ्चिन्त्य देवलो निश्चयात्ततः |
प्राप्तवान्परमां सिद्धिं परं योगं च भारत ||६१||
ततो देवाः समागम्य बृहस्पतिपुरोगमाः |
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ||६२||
अथाब्रवीदृषिवरो देवान्वै नारदस्तदा |
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ||६३||
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः |
मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ||६४||
तत्राप्युपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद्द्विजेभ्यः |
अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ||६५||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
050-अध्यायः
वैशम्पायन उवाच||
यत्रेजिवानुडुपती राजसूयेन भारत |
तस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः ||१||
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् |
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ||२||
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् |
वेदानध्यापयामास पुरा सारस्वतो मुनिः ||३||
जनमेजय उवाच||
कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः |
वेदानध्यापयामास पुरा सारस्वतो मुनिः ||४||
वैशम्पायन उवाच||
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः |
दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः ||५||
तस्यातितपसः शक्रो बिभेति सततं विभो |
न स लोभयितुं शक्यः फलैर्बहुविधैरपि ||६||
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः |
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ||७||
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः |
समीपतो महाराज सोपातिष्ठत भामिनी ||८||
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः |
रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा ||९||
कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ |
सा दधार च तं गर्भं पुत्रहेतोर्महानदी ||१०||
सुषुवे चापि समये पुत्रं सा सरितां वरा |
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ||११||
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् |
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् ||१२||
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ||१२||
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् |
तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ||१३||
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् |
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ||१४||
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् |
मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ||१५||
परिष्वज्य चिरं कालं तदा भरतसत्तम |
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ||१६||
विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः |
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ||१७||
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् |
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ||१८||
प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा |
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ||१९||
मम प्रियकरी चापि सततं प्रियदर्शने |
तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि ||२०||
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः |
सारस्वत इति ख्यातो भविष्यति महातपाः ||२१||
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् |
सारस्वतो महाभागे वेदानध्यापयिष्यति ||२२||
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे |
भविष्यसि महाभागे मत्प्रसादात्सरस्वति ||२३||
एवं सा संस्तुता तेन वरं लब्ध्वा महानदी |
पुत्रमादाय मुदिता जगाम भरतर्षभ ||२४||
एतस्मिन्नेव काले तु विरोधे देवदानवैः |
शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह ||२५||
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा |
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ||२६||
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः |
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ||२७||
तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः |
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ||२८||
स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा |
प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् ||२९||
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ||२९||
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा |
कारयामास दिव्यानि नानाप्रहरणान्युत ||३०||
वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् ||३०||
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा |
प्रजापतिसुतेनाथ भृगुणा लोकभावनः ||३१||
अतिकायः स तेजस्वी लोकसारविनिर्मितः |
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ||३२||
नित्यमुद्विजते चास्य तेजसा पाकशासनः ||३२||
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत |
भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च ||३३||
दैत्यदानववीराणां जघान नवतीर्नव ||३३||
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करे |
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ||३४||
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः |
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ||३५||
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा |
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ||३६||
न गन्तव्यमितः पुत्र तवाहारमहं सदा |
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ||३७||
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा |
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ||३८||
अथ तस्यामतीतायामनावृष्ट्यां महर्षयः |
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ||३९||
तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् |
सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् ||४०||
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् |
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ||४१||
स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम् |
स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने ||४२||
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः |
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ||४३||
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः |
शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत ||४४||
ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक |
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ||४५||
यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः |
म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ||४६||
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः |
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ||४७||
एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः |
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ||४८||
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे |
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ||४९||
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन् |
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ||५०||
तत्रापि दत्त्वा वसु रौहिणेयो; महाबलः केशवपूर्वजोऽथ |
जगाम तीर्थं मुदितः क्रमेण; ख्यातं महद्वृद्धकन्या स्म यत्र ||५१||