श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
051-अध्यायः
वृद्धकन्योपाख्यानम्
जनमेजय उवाच||
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा |
किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् ||१||
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् |
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ||२||
वैशम्पायन उवाच||
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः |
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ||३||
मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ||३||
तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः |
जगाम त्रिदिवं राजन्सन्त्यज्येह कलेवरम् ||४||
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा |
महता तपसोग्रेण कृत्वाश्रममनिन्दिता ||५||
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा |
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ||६||
सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता |
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ||७||
ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम् |
पितृदेवार्चनरता बभूव विजने वने ||८||
सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता |
वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता ||९||
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् |
चकार गमने बुद्धिं परलोकाय वै तदा ||१०||
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् |
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे ||११||
एवं हि श्रुतमस्माभिर्देवलोके महाव्रते |
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः ||१२||
तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि |
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः ||१३||
इत्युक्ते चास्या जग्राह पाणिं गालवसम्भवः |
ऋषिः प्राक्षृङ्गवान्नाम समयं चेदमब्रवीत् ||१४||
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने |
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह ||१५||
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा |
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ||१६||
सा रात्रावभवद्राजंस्तरुणी देववर्णिनी |
दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना ||१७||
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना |
उवास च क्षपामेकां प्रभाते साब्रवीच्च तम् ||१८||
यस्त्वया समयो विप्र कृतो मे तपतां वर |
तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ||१९||
सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः |
वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः ||२०||
चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत् |
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ||२१||
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता ||२१||
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् |
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् ||२२||
साधयित्वा तदात्मानं तस्याः स गतिमन्वयात् |
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ||२३||
एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत् ||२३||
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः |
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तप ||२४||
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा ||२४||
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः |
पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम् ||२५||
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो |
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ||२६||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
052-अध्यायः
ऋषय ऊचुः||
प्रजापतेरुत्तरवेदिरुच्यते; सनातना राम समन्तपञ्चकम् |
समीजिरे यत्र पुरा दिवौकसो; वरेण सत्रेण महावरप्रदाः ||१||
पुरा च राजर्षिवरेण धीमता; बहूनि वर्षाण्यमितेन तेजसा |
प्रकृष्टमेतत्कुरुणा महात्मना; ततः कुरुक्षेत्रमितीह पप्रथे ||२||
राम उवाच||
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना |
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ||३||
ऋषय ऊचुः||
पुरा किल कुरुं राम कृषन्तं सततोत्थितम् |
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ||४||
किमिदं वर्तते राजन्प्रयत्नेन परेण च |
राजर्षे किमभिप्रेतं येनेयं कृष्यते क्षितिः ||५||
कुरुरुवाच||
इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो |
ते गमिष्यन्ति सुकृताँल्लोकान्पापविवर्जितान् ||६||
अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः |
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् ||७||
आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च |
शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह ||८||
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः |
ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ||९||
तच्छ्रुत्वा चाब्रुवन्देवाः सहस्राक्षमिदं वचः |
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ||१०||
यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः |
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ||११||
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् |
अलं खेदेन भवतः क्रियतां वचनं मम ||१२||
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः |
युधि वा निहताः सम्यगपि तिर्यग्गता नृप ||१३||
ते स्वर्गभाजो राजेन्द्र भवन्त्विति महामते |
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ||१४||
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना |
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः ||१५||
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा |
शक्रेण चाप्यनुज्ञातं पुण्यं प्राणान्विमुञ्चताम् ||१६||
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः |
कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध ||१७||
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः |
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ||१८||
सुरर्षभा ब्राह्मणसत्तमाश्च; तथा नृगाद्या नरदेवमुख्याः |
इष्ट्वा महार्हैः क्रतुभिर्नृसिंह; संन्यस्य देहान्सुगतिं प्रपन्नाः ||१९||
तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य |
एतत्कुरुक्षेत्रसमन्तपञ्चकं; प्रजापतेरुत्तरवेदिरुच्यते ||२०||
शिवं महत्पुण्यमिदं दिवौकसां; सुसंमतं स्वर्गगुणैः समन्वितम् |
अतश्च सर्वेऽपि वसुन्धराधिपा; हता गमिष्यन्ति महात्मनां गतिम् ||२१||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
053-अध्यायः
वैशम्पायन उवाच||
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः |
आश्रमं सुमहद्दिव्यमगमज्जनमेजय ||१||
मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसङ्कुलम् |
चिरिबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् ||२||
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् |
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ||३||
ते तु सर्वे महात्मानमूचू राजन्हलायुधम् |
शृणु विस्तरतो राम यस्यायं पूर्वमाश्रमः ||४||
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् |
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ||५||
अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी |
योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी ||६||
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः |
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी ||७||
सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम् |
भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा ||८||
गता स्वर्गं महाभागा पूजिता नियतात्मभिः ||८||
अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुङ्गवः |
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः ||९||
स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम् ||९||
नातिदूरं ततो गत्वा नगं तालध्वजो बली |
पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः ||१०||
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः |
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ||११||
हलायुधस्तत्र चापि दत्त्वा दानं महाबलः |
आप्लुतः सलिले शीते तस्माच्चापि जगाम ह ||१२||
आश्रमं परमप्रीतो मित्रस्य वरुणस्य च ||१२||
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन् |
तं देशं कारपचनाद्यमुनायां जगाम ह ||१३||
स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च |
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः ||१४||
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः ||१४||
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः |
आजगामाथ तं देशं यत्र रामो व्यवस्थितः ||१५||
जटामण्डलसंवीतः स्वर्णचीरी महातपाः |
हेमदण्डधरो राजन्कमण्डलुधरस्तथा ||१६||
कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम् |
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ||१७||
प्रकर्ता कलहानां च नित्यं च कलहप्रियः |
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ||१८||
प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम् |
देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति ||१९||
ततोऽस्याकथयद्राजन्नारदः सर्वधर्मवित् |
सर्वमेव यथावृत्तमतीतं कुरुसङ्क्षयम् ||२०||
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा |
किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः ||२१||
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन |
विस्तरश्रवणे जातं कौतूहलमतीव मे ||२२||
नारद उवाच||
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा |
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ||२३||
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् |
एते चान्ये च बहवस्तत्र तत्र महाबलाः ||२४||
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै |
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ||२५||
अहतांस्तु महाबाहो शृणु मे तत्र माधव |
धार्तराष्ट्रबले शेषाः कृपो भोजश्च वीर्यवान् ||२६||
अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः ||२६||
दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु |
ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः ||२७||
शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा |
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ||२८||
स तुद्यमानो बलवान्वाग्भी राम समन्ततः |
उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम् ||२९||
स चाप्युपगतो युद्धं भीमेन सह साम्प्रतम् |
भविष्यति च तत्सद्यस्तयो राम सुदारुणम् ||३०||
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् |
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ||३१||
वैशम्पायन उवाच||
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् |
सर्वान्विसर्जयामास ये तेनाभ्यागताः सह ||३२||
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ||३२||
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् |
ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत् ||३३||
विप्राणां संनिधौ श्लोकमगायदिदमच्युतः ||३३||
सरस्वतीवाससमा कुतो रतिः; सरस्वतीवाससमाः कुतो गुणाः |
सरस्वतीं प्राप्य दिवं गता जनाः; सदा स्मरिष्यन्ति नदीं सरस्वतीम् ||३४||
सरस्वती सर्वनदीषु पुण्या; सरस्वती लोकसुखावहा सदा |
सरस्वतीं प्राप्य जनाः सुदुष्कृताः; सदा न शोचन्ति परत्र चेह च ||३५||
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् |
हयैर्युक्तं रथं शुभ्रमातिष्ठत परन्तपः ||३६||
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः |
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्धमुपस्थितम् ||३७||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
054-अध्यायः-गदायुद्धपर्व
वैशम्पायन उवाच||
एवं तदभवद्युद्धं तुमुलं जनमेजय |
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ||१||
रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते |
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय ||२||
सञ्जय उवाच||
रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव |
युद्धकामो महाबाहुः समहृष्यत वीर्यवान् ||३||
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत |
प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् ||४||
समन्तपञ्चकं क्षिप्रमितो याम विशां पते |
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ||५||
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने |
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति ||६||
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः |
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ||७||
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् |
पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह ||८||
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् |
अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् ||९||
वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः ||९||
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः |
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ||१०||
ततः शङ्खनिनादेन भेरीणां च महास्वनैः |
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ||११||
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते |
गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् ||१२||
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् |
तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन् ||१३||
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् |
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ||१४||
अवबद्धशिरस्त्राणः सङ्ख्ये काञ्चनवर्मभृत् |
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ||१५||
वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ |
संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ ||१६||
रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ |
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ||१७||
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ |
दहन्तौ लोचनै राजन्परस्परवधैषिणौ ||१८||
सम्प्रहृष्टमना राजन्गदामादाय कौरवः |
सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ||१९||
ततो दुर्योधनो राजा गदामादाय वीर्यवान् |
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ||२०||
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् |
आह्वयामास नृपतिं सिंहः सिंहं यथा वने ||२१||
तावुद्यतगदापाणी दुर्योधनवृकोदरौ |
संयुगे स्म प्रकाशेते गिरी सशिखराविव ||२२||
तावुभावभिसङ्क्रुद्धावुभौ भीमपराक्रमौ |
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ||२३||
उभौ सदृशकर्माणौ यमवासवयोरिव |
तथा सदृशकर्माणौ वरुणस्य महाबलौ ||२४||
वासुदेवस्य रामस्य तथा वैश्रवणस्य च |
सदृशौ तौ महाराज मधुकैटभयोर्युधि ||२५||
उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः |
तथैव कालस्य समौ मृत्योश्चैव परन्तपौ ||२६||
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ |
वाशितासङ्गमे दृप्तौ शरदीव मदोत्कटौ ||२७||
मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ |
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ||२८||
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ |
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ||२९||
सिंहाविव दुराधर्षौ गदायुद्धे परन्तपौ |
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ||३०||
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ |
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ||३१||
रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ |
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ||३२||
व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ |
जहृषाते महाबाहू सिंहौ केसरिणाविव ||३३||
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ |
ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ ||३४||
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् |
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ||३५||
उभौ परमसंहृष्टावुभौ परमसंमतौ |
सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ||३६||
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ |
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ||३७||
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् |
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ||३८||
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः |
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ||३९||
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् |
विराजमानं ददृशे दिवीवादित्यमण्डलम् ||४०||
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः |
उपविष्टो महाराज पूज्यमानः समन्ततः ||४१||
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः |
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः ||४२||
तौ तथा तु महाराज गदाहस्तौ दुरासदौ |
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ||४३||
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुङ्गवौ |
उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे ||४४||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
055-अध्यायः
वैशम्पायन उवाच||
ततो वाग्युद्धमभवत्तुमुलं जनमेजय |
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ||१||
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी |
एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः ||२||
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम् |
गदामादाय वेगेन पदातिः प्रस्थितो रणम् ||३||
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः |
गदामुद्यम्य यो याति किमन्यद्भागधेयतः ||४||
अहो दुःखं महत्प्राप्तं पुत्रेण मम सञ्जय |
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः ||५||
सञ्जय उवाच||
स मेघनिनदो हर्षाद्विनदन्निव गोवृषः |
आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान् ||६||
भीममाह्वयमाने तु कुरुराजे महात्मनि |
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत ||७||
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च |
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः ||८||
महास्वनाः सनिर्घातास्तुमुला रोमहर्षणाः |
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम् ||९||
राहुश्चाग्रसदादित्यमपर्वणि विशां पते |
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ||१०||
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करवर्षिणः |
गिरीणां शिखराण्येव न्यपतन्त महीतले ||११||
मृगा बहुविधाकाराः सम्पतन्ति दिशो दश |
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ||१२||
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः |
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ||१३||
उदपानगताश्चापो व्यवर्धन्त समन्ततः |
अशरीरा महानादाः श्रूयन्ते स्म तदा नृप ||१४||
एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः |
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् ||१५||
नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः |
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम् ||१६||
सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा ||१६||
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् |
निहत्य गदया पापमिमं कुरुकुलाधमम् ||१७||
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि |
हत्वेमं पापकर्माणं गदया रणमूर्धनि ||१८||
अद्यास्य शतधा देहं भिनद्मि गदयानया |
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् ||१९||
सर्पोत्सर्गस्य शयने विषदानस्य भोजने |
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि ||२०||
सभायामवहासस्य सर्वस्वहरणस्य च |
वर्षमज्ञातवासस्य वनवासस्य चानघ ||२१||
अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम |
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ||२२||
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः |
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् ||२३||
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः |
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले ||२४||
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् |
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ||२५||
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् |
अवातिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ||२६||
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह ||२७||
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः |
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ||२८||
द्रौपदी च परिक्लिष्टा सभायां यद्रजस्वला |
द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च ||२९||
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् |
विराटनगरे चैव योन्यन्तरगतैरिव ||३०||
तत्सर्वं यातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ||३०||
त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान् |
गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना ||३१||
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् |
वैराग्नेरादिकर्ता च शकुनिः सौबलो हतः ||३२||
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः |
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः ||३३||
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः |
त्वामद्य निहनिष्यामि गदया नात्र संशयः ||३४||
इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम् |
उवाच वीतभी राजन्पुत्रस्ते सत्यविक्रमः ||३५||
किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर |
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ||३६||
नैव दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै |
शक्यस्त्रासयितुं वाचा यथान्यः प्राकृतो नरः ||३७||
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम |
त्वया सह गदायुद्धं त्रिदशैरुपपादितम् ||३८||
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते |
वाणी सम्पद्यतामेषा कर्मणा मा चिरं कृथाः ||३९||
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् |
राजानः सोमकाश्चैव ये तत्रासन्समागताः ||४०||
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः |
भूयो धीरं मनश्चक्रे युद्धाय कुरुनन्दनः ||४१||
तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः |
भूयः संहर्षयां चक्रुर्दुर्योधनममर्षणम् ||४२||
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः |
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः ||४३||
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् |
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम् ||४४||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
056-अध्यायः
सञ्जय उवाच||
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम् |
प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ||१||
समापेततुरानद्य शृङ्गिणौ वृषभाविव |
महानिर्घातघोषश्च सम्प्रहारस्तयोरभूत् ||२||
अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम् |
जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव ||३||
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ |
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ||४||
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे |
खद्योतसङ्घैरिव खं दर्शनीयं व्यरोचत ||५||
तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम् |
उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ||६||
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ |
अभ्यहारयतां तत्र सम्प्रगृह्य गदे शुभे ||७||
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ |
बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ ||८||
अपारवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ |
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ||९||
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ |
संशयः सर्वभूतानां विजये समपद्यत ||१०||
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ |
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ||११||
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् |
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ||१२||
आविध्यतो गदां तस्य भीमसेनस्य संयुगे |
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ||१३||
आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् |
गदामलघुवेगां तां विस्मितः सम्बभूव ह ||१४||
चरंश्च विविधान्मार्गान्मण्डलानि च भारत |
अशोभत तदा वीरो भूय एव वृकोदरः ||१५||
तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे |
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ||१६||
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा |
मण्डलानि विचित्राणि स्थानानि विविधानि च ||१७||
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च |
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ||१८||
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् |
परावर्तनसंवर्तमवप्लुतमथाप्लुतम् ||१९||
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ||१९||
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् |
वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ ||२०||
विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः |
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली ||२१||
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत |
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ||२२||
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि |
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ||२३||
आहतस्तु तदा भीमस्तव पुत्रेण भारत |
आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन् ||२४||
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् |
ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ||२५||
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः |
समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः ||२६||
गदामारुतवेगेन तव पुत्रस्य भारत |
शब्द आसीत्सुतुमुलस्तेजश्च समजायत ||२७||
स चरन्विविधान्मार्गान्मण्डलानि च भागशः |
समशोभत तेजस्वी भूयो भीमात्सुयोधनः ||२८||
आविद्धा सर्ववेगेन भीमेन महती गदा |
सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना ||२९||
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः |
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ||३०||
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः |
भयं विवेश पाण्डून्वै सर्वानेव ससोमकान् ||३१||
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः |
गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ ||३२||
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा |
अशोभेतां महाराज शोणितेन परिप्लुतौ ||३३||
एवं तदभवद्युद्धं घोररूपमसंवृतम् |
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ||३४||
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः |
चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे ||३५||
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् |
अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ||३६||
सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः |
प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव ||३७||
वेगवत्या तया तत्र भीमसेनप्रमुक्तया |
निपतन्त्या महाराज पृथिवी समकम्पत ||३८||
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे |
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ||३९||
स सव्यं मण्डलं राजन्नुद्भ्राम्य कृतनिश्चयः |
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ||४०||
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः |
नाकम्पत महाराज तदद्भुतमिवाभवत् ||४१||
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् |
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ||४२||
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् |
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ||४३||
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः |
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ||४४||
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता |
चालयामास पृथिवीं महानिर्घातनिस्वना ||४५||
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः |
गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत् ||४६||
वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः |
ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः ||४७||
गदयाभिहतो भीमो मुह्यमानो महारणे |
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ||४८||
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः |
भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् ||४९||
स तु तेन प्रहारेण मातङ्ग इव रोषितः |
हस्तिवद्धस्तिसङ्काशमभिदुद्राव ते सुतम् ||५०||
ततस्तु रभसो भीमो गदया तनयं तव |
अभिदुद्राव वेगेन सिंहो वनगजं यथा ||५१||
उपसृत्य तु राजानं गदामोक्षविशारदः |
आविध्यत गदां राजन्समुद्दिश्य सुतं तव ||५२||
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा |
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ||५३||
तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते |
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ||५४||
तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः |
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ||५५||
उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन् |
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ||५६||
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत् |
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ||५७||
स महात्मा महात्मानं भीमं भीमपराक्रमः |
अताडयच्छङ्खदेशे स चचालाचलोपमः ||५८||
स भूयः शुशुभे पार्थस्ताडितो गदया रणे |
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः ||५९||
ततो गदां वीरहणीमयस्मयीं; प्रगृह्य वज्राशनितुल्यनिस्वनाम् |
अताडयच्छत्रुममित्रकर्शनो; बलेन विक्रम्य धनञ्जयाग्रजः ||६०||
स भीमसेनाभिहतस्तवात्मजः; पपात सङ्कम्पितदेहबन्धनः |
सुपुष्पितो मारुतवेगताडितो; महावने साल इवावघूर्णितः ||६१||
ततः प्रणेदुर्जहृषुश्च पाण्डवाः; समीक्ष्य पुत्रं पतितं क्षितौ तव |
ततः सुतस्ते प्रतिलभ्य चेतनां; समुत्पपात द्विरदो यथा ह्रदात् ||६२||
स पार्थिवो नित्यममर्षितस्तदा; महारथः शिक्षितवत्परिभ्रमन् |
अताडयत्पाण्डवमग्रतः स्थितं; स विह्वलाङ्गो जगतीमुपास्पृशत् ||६३||
स सिंहनादान्विननाद कौरवो; निपात्य भूमौ युधि भीममोजसा |
बिभेद चैवाशनितुल्यतेजसा; गदानिपातेन शरीररक्षणम् ||६४||
ततोऽन्तरिक्षे निनदो महानभू; द्दिवौकसामप्सरसां च नेदुषाम् |
पपात चोच्चैरमरप्रवेरितं; विचित्रपुष्पोत्करवर्षमुत्तमम् ||६५||
ततः परानाविशदुत्तमं भयं; समीक्ष्य भूमौ पतितं नरोत्तमम् |
अहीयमानं च बलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः ||६६||
ततो मुहूर्तादुपलभ्य चेतनां; प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः |
धृतिं समालम्ब्य विवृत्तलोचनो; बलेन संस्तभ्य वृकोदरः स्थितः ||६७||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
057-अध्यायः
दुर्योधनोरुभङ्गः
सञ्जय उवाच||
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः |
अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम् ||१||
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः |
कस्य वा को गुणो भूयानेतद्वद जनार्दन ||२||
वासुदेव उवाच||
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः |
कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात् ||३||
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति |
अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम् ||४||
मायया निर्जिता देवैरसुरा इति नः श्रुतम् |
विरोचनश्च शक्रेण मायया निर्जितः सखे ||५||
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः ||५||
प्रतिज्ञातं तु भीमेन द्यूतकाले धनञ्जय |
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम् ||६||
सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः |
मायाविनं च राजानं माययैव निकृन्ततु ||७||
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति |
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ||८||
पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे |
धर्मराजापराधेन भयं नः पुनरागतम् ||९||
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् |
जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम् ||१०||
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ||१०||
अबुद्धिरेषा महती धर्मराजस्य पाण्डव |
यदेकविजये युद्धं पणितं कृतमीदृशम् ||११||
सुयोधनः कृती वीर एकायनगतस्तथा ||११||
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः |
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ||१२||
पुनरावर्तमानानां भग्नानां जीवितैषिणाम् |
भेतव्यमरिशेषाणामेकायनगता हि ते ||१३||
सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम् |
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने ||१४||
को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत् |
अपि वो निर्जितं राज्यं न हरेत सुयोधनः ||१५||
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः |
चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया ||१६||
एवं चेन्न महाबाहुरन्यायेन हनिष्यति |
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ||१७||
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः |
प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत् ||१८||
गृह्य सञ्ज्ञां ततो भीमो गदया व्यचरद्रणे |
मण्डलानि विचित्राणि यमकानीतराणि च ||१९||
दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च |
व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव ||२०||
तथैव तव पुत्रोऽपि गदामार्गविशारदः |
व्यचरल्लघु चित्रं च भीमसेनजिघांसया ||२१||
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते |
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ||२२||
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ |
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ||२३||
मण्डलानि विचित्राणि चरतोर्नृपभीमयोः |
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः ||२४||
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे |
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ||२५||
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव |
गदानिर्घातसंह्रादः प्रहाराणामजायत ||२६||
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम् |
उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ||२७||
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ |
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे ||२८||
तयोः समभवद्युद्धं घोररूपमसंवृतम् |
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ||२९||
व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ |
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ||३०||
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसम्प्लुतौ |
ददृशाते हिमवति पुष्पिताविव किंशुकौ ||३१||
दुर्योधनेन पार्थस्तु विवरे सम्प्रदर्शिते |
ईषदुत्स्मयमानस्तु सहसा प्रससार ह ||३२||
तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः |
अवाक्षिपद्गदां तस्मै वेगेन महता बली ||३३||
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते |
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ||३४||
मोक्षयित्वा प्रहारं तं सुतस्तव स सम्भ्रमात् |
भीमसेनं च गदया प्राहरत्कुरुसत्तमः ||३५||
तस्य विष्यन्दमानेन रुधिरेणामितौजसः |
प्रहारगुरुपाताच्च मूर्छेव समजायत ||३६||
दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे |
धारयामास भीमोऽपि शरीरमतिपीडितम् ||३७||
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे |
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ||३८||
ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम् |
वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान् ||३९||
तमापतन्तं सम्प्रेक्ष्य संरब्धममितौजसम् |
मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ||४०||
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः |
इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम् ||४१||
अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम् |
अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् ||४२||
सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः |
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ||४३||
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा |
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ ||४४||
स पपात नरव्याघ्रो वसुधामनुनादयन् |
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ||४५||
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च |
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ||४६||
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् |
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी ||४७||
पपात चोल्का महती पतिते पृथिवीपतौ ||४७||
तथा शोणितवर्षं च पांसुवर्षं च भारत |
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते ||४८||
यक्षाणां राक्षसानां च पिशाचानां तथैव च |
अन्तरिक्षे महानादः श्रूयते भरतर्षभ ||४९||
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् |
जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम् ||५०||
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह |
मुमुचुस्ते महानादं तव पुत्रे निपातिते ||५१||
भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् |
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ||५२||
बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः |
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ||५३||
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च |
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते ||५४||
ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम |
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन् ||५५||
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् |
दुर्योधने तदा राजन्पतिते तनये तव ||५६||
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह |
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ ||५७||
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा |
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ||५८||
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः |
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ||५९||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
058-अध्यायः
सञ्जय उवाच||
तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम् |
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः ||१||
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् |
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः ||२||
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् |
पतितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् ||३||
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् |
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते ||४||
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि ||४||
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् |
शिरश्च राजसिंहस्य पादेन समलोडयत् ||५||
तथैव क्रोधसंरक्तो भीमः परबलार्दनः |
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप ||६||
येऽस्मान्पुरोऽपनृत्यन्त पुनर्गौरिति गौरिति |
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ||७||
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना |
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् ||८||
सोऽवाप्य वैरस्य परस्य पारं; वृकोदरः प्राह शनैः प्रहस्य |
युधिष्ठिरं केशवसृञ्जयांश्च; धनञ्जयं माद्रवतीसुतौ च ||९||
रजस्वलां द्रौपदीमानयन्ये; ये चाप्यकुर्वन्त सदस्यवस्त्राम् |
तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रा; न्रणे हतांस्तपसा याज्ञसेन्याः ||१०||
ये नः पुरा षण्ढतिलानवोच; न्क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः |
ते नो हताः सगणाः सानुबन्धाः; कामं स्वर्गं नरकं वा व्रजामः ||११||
पुनश्च राज्ञः पतितस्य भूमौ; स तां गदां स्कन्धगतां निरीक्ष्य |
वामेन पादेन शिरः प्रमृद्य; दुर्योधनं नैकृतिकेत्यवोचत् ||१२||
हृष्टेन राजन्कुरुपार्थिवस्य; क्षुद्रात्मना भीमसेनेन पादम् |
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्द; न्धर्मात्मानः सोमकानां प्रबर्हाः ||१३||
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् |
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् ||१४||
मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽत्यगान्महान् |
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ ||१५||
विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः |
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया ||१६||
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः |
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि ||१७||
दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस्तथागतम् |
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ||१८||
नूनमेतद्बलवता धात्रादिष्टं महात्मना |
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम ||१९||
आत्मनो ह्यपराधेन महद्व्यसनमीदृशम् |
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत ||२०||
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा |
पुत्रान्पौत्रांस्तथाचार्यांस्ततोऽसि निधनं गतः ||२१||
तवापराधादस्माभिर्भ्रातरस्ते महारथाः |
निहता ज्ञातयश्चान्ये दिष्टं मन्ये दुरत्ययम् ||२२||
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः |
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः ||२३||
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः |
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः ||२४||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
059-अध्यायः
बलदेववासुदेवसंवादः
धृतराष्ट्र उवाच||
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः |
किमब्रवीत्तदा सूत बलदेवो महाबलः ||१||
गदायुद्धविशेषज्ञो गदायुद्धविशारदः |
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय ||२||
सञ्जय उवाच||
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् |
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ||३||
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः |
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ||४||
अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे |
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ||५||
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः |
अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्सम्प्रवर्तते ||६||
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् |
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ||७||
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः |
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः ||८||
तमुत्पतन्तं जग्राह केशवो विनयानतः |
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ||९||
सितासितौ यदुवरौ शुशुभातेऽधिकं ततः |
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ||१०||
उवाच चैनं संरब्धं शमयन्निव केशवः |
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा ||११||
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ||११||
आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत् |
तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत् ||१२||
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः |
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ||१३||
प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह |
सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे ||१४||
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ||१४||
मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा |
ऊरू भेत्स्यति ते भीमो गदयेति परन्तप ||१५||
अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन् ||१५||
यौनैर्हार्दैश्च सम्बन्धैः सम्बद्धाः स्मेह पाण्डवैः |
तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ ||१६||
राम उवाच||
धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति |
अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः ||१७||
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् |
धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते ||१८||
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् |
भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् ||१९||
वासुदेव उवाच||
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः |
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ||२०||
प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च |
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः ||२१||
सञ्जय उवाच||
धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते |
नैव प्रीतमना रामो वचनं प्राह संसदि ||२२||
हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम् |
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ||२३||
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् |
ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः ||२४||
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च |
हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः ||२५||
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् |
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ||२६||
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते |
रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ||२७||
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् |
शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम् ||२८||
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे |
हतबन्धोर्यदेतस्य पतितस्य विचेतसः ||२९||
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा |
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ||३०||
युधिष्ठिर उवाच||
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः |
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ||३१||
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् |
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह ||३२||
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते |
इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ||३३||
तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम् |
लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते ||३४||
सञ्जय उवाच||
इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम् |
काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः ||३५||
इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा |
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ||३६||
भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणः |
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः ||३७||
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् |
हर्षादुत्फुल्लनयनो जितकाशी विशां पते ||३८||
तवाद्य पृथिवी राजन्क्षेमा निहतकण्टका |
तां प्रशाधि महाराज स्वधर्ममनुपालयन् ||३९||
यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः |
सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते ||४०||
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः |
राधेयः शकुनिश्चापि निहतास्तव शत्रवः ||४१||
सेयं रत्नसमाकीर्णा मही सवनपर्वता |
उपावृत्ता महाराज त्वामद्य निहतद्विषम् ||४२||
युधिष्ठिर उवाच||
गतं वैरस्य निधनं हतो राजा सुयोधनः |
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा ||४३||
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः |
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ||४४||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
060-अध्यायः
धृतराष्ट्र उवाच||
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे |
पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय ||१||
सञ्जय उवाच||
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे |
सिंहेनेव महाराज मत्तं वनगजं वने ||२||
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः |
पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने ||३||
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे |
नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा ||४||
धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन् |
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः ||५||
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः |
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ||६||
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् |
कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् ||७||
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे |
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ||८||
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः |
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ||९||
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् |
अशक्यमेतदन्येन सम्पादयितुमीदृशम् ||१०||
कुञ्जरेणेव मत्तेन वीर सङ्ग्राममूर्धनि |
दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया ||११||
सिंहेन महिषस्येव कृत्वा सङ्गरमद्भुतम् |
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ ||१२||
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् |
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ||१३||
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च |
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ||१४||
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः |
तथा त्वां निहतामित्रं वयं नन्दाम भारत ||१५||
दुर्योधनवधे यानि रोमाणि हृषितानि नः |
अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत ||१६||
इत्यब्रुवन्भीमसेनं वातिकास्तत्र सङ्गताः ||१६||
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह |
ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः ||१७||
न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः |
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ||१८||
तदैवैष हतः पापो यदैव निरपत्रपः |
लुब्धः पापसहायश्च सुहृदां शासनातिगः ||१९||
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः |
पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् ||२०||
नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः |
किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा ||२१||
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः |
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ||२२||
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः |
अमर्षवशमापन्न उदतिष्ठद्विशां पते ||२३||
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् |
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत् ||२४||
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत् |
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत ||२५||
प्राणान्तकरणीं घोरां वेदनामविचिन्तयन् |
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ||२६||
कंसदासस्य दायाद न ते लज्जास्त्यनेन वै |
अधर्मेण गदायुद्धे यदहं विनिपातितः ||२७||
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता |
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः ||२८||
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः |
जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ||२९||
अहन्यहनि शूराणां कुर्वाणः कदनं महत् |
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ||३०||
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते |
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम ||३१||
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् |
पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ||३२||
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च |
घटोत्कचे व्यंसयथाः कस्त्वत्तः पापकृत्तमः ||३३||
छिन्नबाहुः प्रायगतस्तथा भूरिश्रवा बली |
त्वया निसृष्टेन हतः शैनेयेन दुरात्मना ||३४||
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया |
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै ||३५||
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः |
पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम् ||३६||
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे |
ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ||३७||
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः |
स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ||३८||
वासुदेव उवाच||
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः |
सगणः ससुहृच्चैव पापमार्गमनुष्ठितः ||३९||
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ |
कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः ||४०||
याच्यमानो मया मूढ पित्र्यमंशं न दित्ससि |
पाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चयात् ||४१||
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः |
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ||४२||
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला |
तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः ||४३||
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना |
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ||४४||
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने |
यातेषु मृगयां तेषु तृणबिन्दोरथाश्रमे ||४५||
अभिमन्युश्च यद्बाल एको बहुभिराहवे |
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ||४६||
दुर्योधन उवाच||
अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा |
मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया ||४७||
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् |
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया ||४८||
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः |
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया ||४९||
ससुहृत्सानुबन्धश्च स्वर्गं गन्ताहमच्युत |
यूयं विहतसङ्कल्पाः शोचन्तो वर्तयिष्यथ ||५०||
सञ्जय उवाच||
अस्य वाक्यस्य निधने कुरुराजस्य भारत |
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ||५१||
अवादयन्त गन्धर्वा जगुश्चाप्सरसां गणाः |
सिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत ||५२||
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः |
व्यराजतामलं चैव नभो वैडूर्यसंनिभम् ||५३||
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः |
दुर्योधनस्य पूजां च दृष्ट्वा व्रीडामुपागमन् ||५४||
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते |
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ||५५||
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः |
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ||५६||
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः |
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ||५७||
उपाया विहिता ह्येते मया तस्मान्नराधिपाः |
अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ||५८||
ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि |
न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ||५९||
तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमः |
न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना ||६०||
न च वो हृदि कर्तव्यं यदयं घातितो नृपः |
मिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः ||६१||
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः |
सद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते ||६२||
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे |
साश्वनागरथाः सर्वे विश्रमामो नराधिपाः ||६३||
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह |
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् ||६४||
ततः प्राध्मापयञ्शङ्खान्पाञ्चजन्यं च माधवः |
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ||६५||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
061-अध्यायः
सञ्जय उवाच||
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः |
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ||१||
पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते |
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ||२||
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः |
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ||३||
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् |
दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने ||४||
गतोत्सवं पुरमिव हृतनागमिव ह्रदम् |
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ||५||
तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः |
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ||६||
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः |
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ||७||
ततो गाण्डीवधन्वानमभ्यभाषत केशवः |
स्थितः प्रियहिते नित्यमतीव भरतर्षभ ||८||
अवरोपय गाण्डीवमक्षय्यौ च महेषुधी |
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम ||९||
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ |
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः ||१०||
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् |
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ||११||
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि |
कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः ||१२||
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः |
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ||१३||
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः |
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ||१४||
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो |
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ||१५||
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च |
गोविन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना ||१६||
किमेतन्महदाश्चर्यमभवद्यदुनन्दन |
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे ||१७||
वासुदेव उवाच||
अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन |
मदधिष्ठितत्वात्समरे न विशीर्णः परन्तप ||१८||
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा |
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ||१९||
सञ्जय उवाच||
ईषदुत्स्मयमानश्च भगवान्केशवोऽरिहा |
परिष्वज्य च राजानं युधिष्ठिरमभाषत ||२०||
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः |
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ||२१||
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ |
मुक्ता वीरक्षयादस्मात्सङ्ग्रामान्निहतद्विषः ||२२||
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ||२२||
उपयातमुपप्लव्यं सह गाण्डीवधन्वना |
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः ||२३||
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः |
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ||२४||
तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम् ||२४||
स सव्यसाची गुप्तस्ते विजयी च नरेश्वर |
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः ||२५||
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् ||२५||
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः |
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ||२६||
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन |
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरंदरः ||२७||
भवतस्तु प्रसादेन सङ्ग्रामे बहवो जिताः |
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ||२८||
तथैव च महाबाहो पर्यायैर्बहुभिर्मया |
कर्मणामनुसन्तानं तेजसश्च गतिः शुभा ||२९||
उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् |
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ||३०||
इत्येवमुक्ते ते वीराः शिबिरं तव भारत |
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसञ्चयान् ||३१||
रजतं जातरूपं च मणीनथ च मौक्तिकान् |
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ||३२||
दासीदासमसङ्ख्येयं राज्योपकरणानि च ||३२||
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ |
उदक्रोशन्महेष्वासा नरेन्द्र विजितारयः ||३३||
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च |
अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा ||३४||
अथाब्रवीन्महाराज वासुदेवो महायशाः |
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः ||३५||
तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा |
वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः ||३६||
ते समासाद्य सरितं पुण्यामोघवतीं नृप |
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ||३७||
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम् |
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् ||३८||
दारुकं रथमारोप्य येन राजाम्बिकासुतः ||३८||
तमूचुः सम्प्रयास्यन्तं सैन्यसुग्रीववाहनम् |
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् ||३९||
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः |
आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम् ||४०||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
062-अध्यायः
जनमेजय उवाच||
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः |
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् ||१||
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति |
न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ||२||
निहतेषु तु योधेषु हते दुर्योधने तथा |
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ||३||
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे |
किं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ||४||
न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे |
यत्रागमदमेयात्मा स्वयमेव जनार्दनः ||५||
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम |
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ||६||
वैशम्पायन उवाच||
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव |
तत्तेऽहं सम्प्रवक्ष्यामि यथावद्भरतर्षभ ||७||
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे |
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ||८||
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत |
युधिष्ठिरं महाराज महद्भयमथाविशत् ||९||
चिन्तयानो महाभागां गान्धारीं तपसान्विताम् |
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ||१०||
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा |
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ||११||
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् |
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ||१२||
कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति |
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ||१३||
एवं विचिन्त्य बहुधा भयशोकसमन्वितः |
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ||१४||
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् |
अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत ||१५||
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे |
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ||१६||
त्वया देवासुरे युद्धे वधार्थममरद्विषाम् |
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ||१७||
साह्यं तथा महाबाहो दत्तमस्माकमच्युत |
सारथ्येन च वार्ष्णेय भवता यद्धृता वयम् ||१८||
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे |
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ||१९||
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् |
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः ||२०||
वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा |
ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत ||२१||
गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव |
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता ||२२||
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति |
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम ||२३||
कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम् |
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ||२४||
तत्र मे गमनं प्राप्तं रोचते तव माधव |
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम ||२५||
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः |
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ||२६||
क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि |
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ||२७||
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् |
कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा ||२८||
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः |
आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम् ||२९||
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः |
न्यवेदयद्रथं सज्जं केशवाय महात्मने ||३०||
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः |
जगाम हास्तिनपुरं त्वरितः केशवो विभुः ||३१||
ततः प्रायान्महाराज माधवो भगवान्रथी |
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ||३२||
प्रविश्य नगरं वीरो रथघोषेण नादयन् |
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् ||३३||
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् |
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ||३४||
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः |
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ||३५||
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः |
पाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह ||३६||
स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम् |
प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि ||३७||
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिंदमः ||३७||
न तेऽस्त्यविदितं किञ्चिद्भूतभव्यस्य भारत |
कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो ||३८||
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः |
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ||३९||
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः |
द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः ||४०||
अज्ञातवासचर्या च नानावेशसमावृतैः |
अन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा ||४१||
मया च स्वयमागम्य युद्धकाल उपस्थिते |
सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः ||४२||
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः |
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ||४३||
भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च |
द्रोणेन च सपुत्रेण विदुरेण च धीमता ||४४||
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ||४४||
कालोपहतचित्तो हि सर्वो मुह्यति भारत |
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ||४५||
किमन्यत्कालयोगाद्धि दिष्टमेव परायणम् |
मा च दोषं महाराज पाण्डवेषु निवेशय ||४६||
अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् |
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप ||४७||
एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम् |
असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ||४८||
कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम् |
गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् ||४९||
एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम् |
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ||५०||
जानासि च महाबाहो धर्मराजस्य या त्वयि |
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ||५१||
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् |
दह्यते स्म दिवारात्रं न च शर्माधिगच्छति ||५२||
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् |
स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति ||५३||
ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति |
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् ||५४||
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः |
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ||५५||
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते |
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ||५६||
जानामि च यथा राज्ञि सभायां मम संनिधौ |
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ||५७||
उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम् ||५७||
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः |
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः ||५८||
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे |
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः ||५९||
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ||५९||
शक्ता चासि महाभागे पृथिवीं सचराचराम् |
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ||६०||
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् |
एवमेतन्महाबाहो यथा वदसि केशव ||६१||
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम |
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ||६२||
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव |
त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर ||६३||
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा |
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह ||६४||
तत एनां महाबाहुः केशवः शोककर्शिताम् |
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ||६५||
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः |
द्रौणेः सङ्कल्पितं भावमन्वबुध्यत केशवः ||६६||
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च |
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ||६७||
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः |
द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ||६८||
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ||६८||
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् |
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ||६९||
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय |
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ||७०||
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ||७०||
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् |
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ||७१||
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह |
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ||७२||
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् |
तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत् ||७३||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
063-अध्यायः
धृतराष्ट्र उवाच||
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः |
शौटीरमानी पुत्रो मे कान्यभाषत सञ्जय ||१||
अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु |
व्यसनं परमं प्राप्तः किमाह परमाहवे ||२||
सञ्जय उवाच||
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप |
राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते ||३||
भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः |
यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश ||४||
केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा |
संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम् ||५||
बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः |
प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् ||६||
गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् ||६||
भीष्मे शान्तनवे नाथे कर्णे चास्त्रभृतां वरे |
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे ||७||
अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि |
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः ||८||
एकादशचमूभर्ता सोऽहमेतां दशां गतः |
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते ||९||
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति सङ्गरे |
यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः ||१०||
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः |
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति ||११||
इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम् |
येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः ||१२||
का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम् |
को वा समयभेत्तारं बुधः संमन्तुमर्हति ||१३||
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः |
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः ||१४||
किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम |
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः ||१५||
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु |
एवं कुर्यान्नरो यो हि स वै सञ्जय पूजितः ||१६||
अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे |
तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनान्मम ||१७||
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा |
मूर्ध्नि स्थितममित्राणां जीवतामेव सञ्जय ||१८||
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् |
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया ||१९||
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् |
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया ||२०||
मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः |
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया ||२१||
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः |
आजानेयैस्तथा यातं को नु स्वन्ततरो मया ||२२||
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् |
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया ||२३||
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः |
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो ||२४||
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम् |
निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया ||२५||
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः |
दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः ||२६||
सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा |
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः ||२७||
अश्वत्थामा महाभागः कृतवर्मा च सात्वतः |
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम ||२८||
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः |
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ ||२९||
वातिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः |
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे ||३०||
सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा |
वृषसेनं महावीर्यं शकुनिं चापि सौबलम् ||३१||
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम् |
सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम् ||३२||
दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा |
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ ||३३||
एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः |
पृष्ठतोऽनुगमिष्यामि सार्थहीन इवाध्वगः ||३४||
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम |
रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति ||३५||
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम |
गान्धारीसहितः क्रोशन्कां गतिं प्रतिपत्स्यते ||३६||
नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा |
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना ||३७||
यदि जानाति चार्वाकः परिव्राड्वाग्विशारदः |
करिष्यति महाभागो ध्रुवं सोऽपचितिं मम ||३८||
समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते |
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् ||३९||
ततो जनसहस्राणि बाष्पपूर्णानि मारिष |
प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश ||४०||
ससागरवना घोरा पृथिवी सचराचरा |
चचालाथ सनिर्ह्रादा दिशश्चैवाविलाभवन् ||४१||
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन् |
व्यवहारं गदायुद्धे पार्थिवस्य च घातनम् ||४२||
तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत |
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् ||४३||
श्रीमहाभारतम्
||९ शाल्यपर्वम् ||
064-अध्यायः
द्रौणिसेनापत्याभिषेकः
सञ्जय उवाच||
वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् |
हतशिष्टास्ततो राजन्कौरवाणां महारथाः ||१||
विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः |
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ||२||
त्वरिता जवनैरश्वैरायोधनमुपागमन् ||२||
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् |
प्रभग्नं वायुवेगेन महाशालं यथा वने ||३||
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् |
महागजमिवारण्ये व्याधेन विनिपातितम् ||४||
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् |
यदृच्छया निपतितं चक्रमादित्यगोचरम् ||५||
महावातसमुत्थेन संशुष्कमिव सागरम् |
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ||६||
रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् |
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः ||७||
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् ||७||
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् |
सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा ||८||
ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् |
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः ||९||
अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ |
दुर्योधनं च सम्प्रेक्ष्य सर्वे भूमावुपाविशन् ||१०||
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् |
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ||११||
न नूनं विद्यतेऽसह्यं मानुष्ये किञ्चिदेव हि |
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ||१२||
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् |
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ||१३||
दुःशासनं न पश्यामि नापि कर्णं महारथम् |
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ||१४||
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन |
लोकानां च भवान्यत्र शेते पांसुषु रूषितः ||१५||
एष मूर्धावसिक्तानामग्रे गत्वा परन्तपः |
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ||१६||
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव |
सा च ते महती सेना क्व गता पार्थिवोत्तम ||१७||
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे |
यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः ||१८||
अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते |
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ||१९||
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः |
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ||२०||
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् |
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ||२१||
ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते |
विनाशः सर्वभूतानां कालपर्यायकारितः ||२२||
सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः |
पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः ||२३||
दिष्ट्या नाहं परावृत्तो युद्धे कस्याञ्चिदापदि |
दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः ||२४||
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता |
दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः ||२५||
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् |
स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम् ||२६||
मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे |
यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः ||२७||
मन्यमानः प्रभावं च कृष्णस्यामिततेजसः |
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ||२८||
स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन |
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः ||२९||
यतितं विजये नित्यं दैवं तु दुरतिक्रमम् ||२९||
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः |
तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम् ||३०||
तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम् |
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये ||३१||
स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च |
बाष्पविह्वलया वाचा राजानमिदमब्रवीत् ||३२||
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा |
न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै ||३३||
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो |
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ||३४||
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः |
सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम् ||३५||
अनुज्ञां तु महाराज भवान्मे दातुमर्हति ||३५||
इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः |
मनसः प्रीतिजननं कृपं वचनमब्रवीत् ||३६||
आचार्य शीघ्रं कलशं जलपूर्णं समानय ||३६||
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः |
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् ||३७||
तमब्रवीन्महाराज पुत्रस्तव विशां पते |
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् ||३८||
सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् ||३८||
राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः |
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ||३९||
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः |
द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत् ||४०||
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् |
प्रययौ सिंहनादेन दिशः सर्वा विनादयन् ||४१||
दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः |
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् ||४२||
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप |
शोकसंविग्नमनसश्चिन्ताध्यानपराभवन् ||४३||
शाल्यपर्व सम्पूर्णम्