श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
118-अध्यायः
भीष्म उवाच||
स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् |
ऋषिणा हुङ्कृतः पापस्तपोवनबहिष्कृतः ||१||
एवं राज्ञा मतिमता विदित्वा शीलशौचताम् |
आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् ||२||
अनुक्रोशं बलं वीर्यं भावं सम्प्रशमं क्षमाम् |
भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः ||३||
नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति |
अकुलीननराकीर्णो न राजा सुखमेधते ||४||
कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा |
न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि ||५||
अकुलीनस्तु पुरुषः प्रकृतः साधुसङ्क्षयात् |
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् ||६||
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् |
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा ||७||
कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् |
अलुब्धं लब्धसन्तुष्टं स्वामिमित्रबुभूषकम् ||८||
सचिवं देशकालज्ञं सर्वसङ्ग्रहणे रतम् |
सत्कृतं युक्तमनसं हितैषिणमतन्द्रितम् ||९||
युक्ताचारं स्वविषये सन्धिविग्रहकोविदम् |
राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम् ||१०||
खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम् |
इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम् ||११||
हस्तिशिक्षासु तत्त्वज्ञमहङ्कारविवर्जितम् |
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम् ||१२||
चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम् |
नायकं नीतिकुशलं गुणषष्ट्या समन्वितम् ||१३||
अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च |
धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम् ||१४||
सचिवं यः प्रकुरुते न चैनमवमन्यते |
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ||१५||
एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः |
एष्टव्यो धर्मपरमः प्रजापालनतत्परः ||१६||
धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् |
शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः ||१७||
मेधावी धारणायुक्तो यथान्यायोपपादकः |
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये ||१८||
दानाच्छेदे स्वयङ्कारी सुद्वारः सुखदर्शनः |
आर्तहस्तप्रदो नित्यमाप्तंमन्यो नये रतः ||१९||
नाहंवादी न निर्द्वंद्वो न यत्किञ्चनकारकः |
कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः ||२०||
सङ्गृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा |
दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः ||२१||
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः |
चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा ||२२||
राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत् |
योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगुणैर्वृताः ||२३||
अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः |
न विमानयितव्याश्च राज्ञा वृद्धिमभीप्सता ||२४||
योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः |
धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः ||२५||
अर्थमानविवृद्धाश्च रथचर्याविशारदाः |
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही ||२६||
सर्वसङ्ग्रहणे युक्तो नृपो भवति यः सदा |
उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः ||२७||
शक्या अश्वसहस्रेण वीरारोहेण भारत |
सङ्गृहीतमनुष्येण कृत्स्ना जेतुं वसुन्धरा ||२८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
119-अध्यायः
भीष्म उवाच||
एवं शुनासमान्भृत्यान्स्वस्थाने यो नराधिपः |
नियोजयति कृत्येषु स राज्यफलमश्नुते ||१||
न श्वा स्वस्थानमुत्क्रम्य प्रमाणमभि सत्कृतः |
आरोप्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत्प्रपद्यते ||२||
स्वजातिकुलसम्पन्नाः स्वेषु कर्मस्ववस्थिताः |
प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा ||३||
अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति |
स भृत्यगुणसम्पन्नं राजा फलमुपाश्नुते ||४||
शरभः शरभस्थाने सिंहः सिंह इवोर्जितः |
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा ||५||
कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि |
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा ||६||
यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः |
भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः ||७||
न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः |
नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा ||८||
साधवः कुशलाः शूरा ज्ञानवन्तोऽनसूयकाः |
अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः ||९||
न्यग्भूतास्तत्पराः क्षान्ताश्चौक्षाः प्रकृतिजाः शुभाः |
स्वे स्वे स्थानेऽपरिक्रुष्टास्ते स्यू राज्ञो बहिश्चराः ||१०||
सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् |
असिंहः सिंहसहितः सिंहवल्लभते फलम् ||११||
यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः |
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः ||१२||
एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः |
कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुन्धराम् ||१३||
नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः |
सङ्ग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर ||१४||
बाणवद्विसृता यान्ति स्वामिकार्यपरा जनाः |
ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत् ||१५||
कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः |
कोशमूला हि राजानः कोशमूलकरो भव ||१६||
कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसञ्चितम् |
सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव ||१७||
नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः |
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते ||१८||
ज्ञातिबन्धुजनावेक्षी मित्रसम्बन्धिसंवृतः |
पौरकार्यहितान्वेषी भव कौरवनन्दन ||१९||
एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया |
श्वा ते निदर्शनं तात किं भूयः श्रोतुमिच्छसि ||२०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
120-अध्यायः
युधिष्ठिर उवाच||
राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत |
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ||१||
तदेव विस्तरेणोक्तं पूर्वैर्दृष्टं सतां मतम् |
प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ ||२||
भीष्म उवाच||
रक्षणं सर्वभूतानामिति क्षत्रे परं मतम् |
तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते ||३||
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः |
तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् ||४||
तैक्ष्ण्यं जिह्मत्वमादान्त्यं सत्यमार्जवमेव च |
मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति ||५||
यस्मिन्नर्थे हितं यत्स्यात्तद्वर्णं रूपमाविशेत् |
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति ||६||
नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी |
श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः ||७||
आपद्द्वारेषु यत्तः स्याज्जलप्रस्रवणेष्विव |
शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् ||८||
अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम् |
नित्यमुद्यतदण्डः स्यादाचरेच्चाप्रमादतः ||९||
लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाप्लवन् ||९||
मृजावान्स्यात्स्वयूथ्येषु भावानि चरणैः क्षिपेत् |
जातपक्षः परिस्पन्देद्रक्षेद्वैकल्यमात्मनः ||१०||
दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत् |
काननेष्विव पुष्पाणि बर्हीवार्थान्समाचरेत् ||११||
उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान् |
श्रयेच्छायामविज्ञातां गुप्तं शरणमाश्रयेत् ||१२||
प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने |
मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत् ||१३||
न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना ||१३||
चारभूमिष्वभिगमान्पाशांश्च परिवर्जयेत् |
पीडयेच्चापि तां भूमिं प्रणश्येद्गहने पुनः ||१४||
हन्यात्क्रुद्धानतिविषान्ये जिह्मगतयोऽहितान् |
नाश्रयेद्बालबर्हाणि सन्निवासानि वासयेत् ||१५||
सदा बर्हिनिभः कामं प्रसक्तिकृतमाचरेत् |
सर्वतश्चाददेत्प्रज्ञां पतङ्गान्गहनेष्विव ||१६||
एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत् ||१६||
आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः |
आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम् ||१७||
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् ||१७||
परं चाश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् |
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् ||१८||
सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः ||१८||
निगूढबुद्धिर्धीरः स्याद्वक्तव्ये वक्ष्यते तथा |
संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः ||१९||
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके ||१९||
अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः |
आगमैरुपदिष्टानि स्वस्य चैव परस्य च ||२०||
क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम् |
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ||२१||
अप्यदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु |
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता ||२२||
धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् |
ममायमिति राजा यः स पर्वत इवाचलः ||२३||
व्यवसायं समाधाय सूर्यो रश्मिमिवायताम् |
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये ||२४||
कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः |
मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितेन्द्रियान् ||२५||
अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् |
स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः ||२६||
एतेनैव प्रकारेण कृत्यानामागतिं गतिम् |
युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः ||२७||
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः |
आत्मप्रत्ययकोशस्य वसुधैव वसुन्धरा ||२८||
व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः |
गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित् ||२९||
नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोत्पतन् |
चारांश्च नचरान्विद्यात्तथा बुद्ध्या न सञ्ज्वरेत् ||३०||
कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् |
अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान् ||३१||
यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः |
तथा द्रव्यमुपादाय राजा कुर्वीत सञ्चयम् ||३२||
यद्धि गुप्तावशिष्टं स्यात्तद्धितं धर्मकामयोः |
सञ्चयानुविसर्गी स्याद्राजा शास्त्रविदात्मवान् ||३३||
नाल्पमर्थं परिभवेन्नावमन्येत शात्रवान् |
बुद्ध्यावबुध्येदात्मानं न चाबुद्धिषु विश्वसेत् ||३४||
धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या; धैर्यं शौर्यं देशकालोऽप्रमादः |
स्वल्पस्य वा महतो वापि वृद्धौ; धनस्यैतान्यष्ट समिन्धनानि ||३५||
अग्निस्तोको वर्धते ह्याज्यसिक्तो; बीजं चैकं बहुसाहस्रमेति |
क्षयोदयौ विपुलौ संनिशाम्य; तस्मादल्पं नावमन्येत विद्वान् ||३६||
बालोऽबालः स्थविरो वा रिपुर्यः; सदा प्रमत्तं पुरुषं निहन्यात् |
कालेनान्यस्तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः ||३७||
हरेत्कीर्तिं धर्ममस्योपरुन्ध्या; दर्थे दीर्घं वीर्यमस्योपहन्यात् |
रिपुर्द्वेष्टा दुर्बलो वा बली वा; तस्माच्छत्रौ नैव हेडेद्यतात्मा ||३८||
क्षयं शत्रोः सञ्चयं पालनं चा; प्युभौ चार्थौ सहितौ धर्मकामौ |
अतश्चान्यन्मतिमान्संदधीत; तस्माद्राजा बुद्धिमन्तं श्रयेत ||३९||
बुद्धिर्दीप्ता बलवन्तं हिनस्ति; बलं बुद्ध्या वर्धते पाल्यमानम् |
शत्रुर्बुद्ध्या सीदते वर्धमानो; बुद्धेः पश्चात्कर्म यत्तत्प्रशस्तम् ||४०||
सर्वान्कामान्कामयानो हि धीरः; सत्त्वेनाल्पेनाप्लुते हीनदेहः |
यथात्मानं प्रार्थयतेऽर्थमानैः; श्रेयःपात्रं पूरयते ह्यनल्पम् ||४१||
तस्माद्राजा प्रगृहीतः परेषु; मूलं लक्ष्म्याः सर्वतोऽभ्याददीत |
दीर्घं कालमपि सम्पीड्यमानो; विद्युत्सम्पातमिव मानोर्जितः स्यात् ||४२||
विद्या तपो वा विपुलं धनं वा; सर्वमेतद्व्यवसायेन शक्यम् |
ब्रह्म यत्तं निवसति देहवत्सु; तस्माद्विद्याद्व्यवसायं प्रभूतम् ||४३||
यत्रासते मतिमन्तो मनस्विनः; शक्रो विष्णुर्यत्र सरस्वती च |
वसन्ति भूतानि च यत्र नित्यं; तस्माद्विद्वान्नावमन्येत देहम् ||४४||
लुब्धं हन्यात्सम्प्रदानेन नित्यं; लुब्धस्तृप्तिं परवित्तस्य नैति |
सर्वो लुब्धः कर्मगुणोपभोगे; योऽर्थैर्हीनो धर्मकामौ जहाति ||४५||
धनं भोज्यं पुत्रदारं समृद्धिं; सर्वो लुब्धः प्रार्थयते परेषाम् |
लुब्धे दोषाः सम्भवन्तीह सर्वे; तस्माद्राजा न प्रगृह्णीत लुब्धान् ||४६||
संदर्शने सत्पुरुषं जघन्यमपि चोदयेत् |
आरम्भान्द्विषतां प्राज्ञः सर्वानर्थांस्तु सूदयेत् ||४७||
धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश्च पाण्डव |
आप्तो राजन्कुलीनश्च पर्याप्तो राज्यसङ्ग्रहे ||४८||
विधिप्रवृत्तान्नरदेवधर्मा; नुक्तान्समासेन निबोध बुद्ध्या |
इमान्विदध्याद्व्यनुसृत्य यो वै; राजा महीं पालयितुं स शक्तः ||४९||
अनीतिजं यद्यविधानजं सुखं; हठप्रणीतं विविधं प्रदृश्यते |
न विद्यते तस्य गतिर्महीपते; र्न विद्यते राष्ट्रजमुत्तमं सुखम् ||५०||
धनैर्विशिष्टान्मतिशीलपूजिता; न्गुणोपपन्नान्युधि दृष्टविक्रमान् |
गुणेषु दृष्टानचिरादिहात्मवा; न्सतोऽभिसन्धाय निहन्ति शात्रवान् ||५१||
पश्येदुपायान्विविधैः क्रियापथै; र्न चानुपायेन मतिं निवेशयेत् |
श्रियं विशिष्टां विपुलं यशो धनं; न दोषदर्शी पुरुषः समश्नुते ||५२||
प्रीतिप्रवृत्तौ विनिवर्तने तथा; सुहृत्सु विज्ञाय निवृत्य चोभयोः |
यदेव मित्रं गुरुभारमावहे; त्तदेव सुस्निग्धमुदाहरेद्बुधः ||५३||
एतान्मयोक्तांस्तव राजधर्मा; न्नृणां च गुप्तौ मतिमादधत्स्व |
अवाप्स्यसे पुण्यफलं सुखेन; सर्वो हि लोकोत्तमधर्ममूलः ||५४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
121-अध्यायः
युधिष्ठिर उवाच||
अयं पितामहेनोक्तो राजधर्मः सनातनः |
ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् ||१||
देवतानामृषीणां च पितॄणां च महात्मनाम् |
यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः ||२||
सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् |
सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो ||३||
इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम् |
दृश्यते लोकमासक्तं ससुरासुरमानुषम् ||४||
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ |
को दण्डः कीदृशो दण्डः किंरूपः किम्परायणः ||५||
किमात्मकः कथम्भूतः कतिमूर्तिः कथम्प्रभुः |
जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः ||६||
कश्च पूर्वापरमिदं जागर्ति परिपालयन् |
कश्च विज्ञायते पूर्वं कोऽपरो दण्डसञ्ज्ञितः ||७||
किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते ||७||
भीष्म उवाच||
शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः |
यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः ||८||
धर्मस्याख्या महाराज व्यवहार इतीष्यते |
तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः ||९||
इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते ||९||
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः |
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ||१०||
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ||१०||
अथोक्तमेतद्वचनं प्रागेव मनुना पुरा |
जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् ||११||
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः |
व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ||१२||
दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते |
दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः ||१३||
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः |
अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ||१४||
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः |
एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः ||१५||
असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः |
मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः ||१६||
सर्वप्रहरणीयानि सन्ति यानीह कानिचित् |
दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् ||१७||
भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा |
घातयन्नभिधावंश्च दण्ड एव चरत्युत ||१८||
असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः |
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः ||१९||
शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः |
धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः ||२०||
असङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः |
नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर ||२१||
दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः |
शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते ||२२||
यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती |
दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः ||२३||
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले |
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ||२४||
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः |
अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः ||२५||
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये |
हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम् ||२६||
अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम् |
मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ ||२७||
अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ |
विनयश्च विसर्गश्च कालाकालौ च भारत ||२८||
अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च |
क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ ||२९||
तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा |
विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले ||३०||
असूया चानसूया च धर्माधर्मौ तथैव च |
अपत्रपानपत्रपे ह्रीश्च सम्पद्विपच्च ह ||३१||
तेजः कर्मणि पाण्डित्यं वाक्षक्तिस्तत्त्वबुद्धिता |
एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता ||३२||
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् |
भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर ||३३||
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः |
राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् ||३४||
व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर |
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते ||३५||
धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च |
बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः ||३६||
प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत |
अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः ||३७||
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः |
तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च ||३८||
एवम्प्रयोजनश्चैव दण्डः क्षत्रियतां गतः |
रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः ||३९||
ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः |
भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः ||४०||
अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च |
बले नयश्च संयुक्तः सदा पञ्चविधात्मकः ||४१||
कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च |
आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर ||४२||
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च |
दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम् ||४३||
अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः |
अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये ||४४||
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः |
कोशो मित्राणि धान्यं च सर्वोपकरणानि च ||४५||
सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः |
राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च ||४६||
ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि |
दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् ||४७||
राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः ||४७||
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च |
भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः ||४८||
तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः ||४८||
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते |
मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः ||४९||
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः |
ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च ||५०||
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः |
व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ||५१||
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः |
धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः ||५२||
व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर |
त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः ||५३||
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः |
व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः ||५४||
यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः ||५४||
ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः |
लोकानां स हि सर्वेषां ससुरासुररक्षसाम् ||५५||
समनुष्योरगवतां कर्ता चैव स भूतकृत् ||५५||
ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः |
तस्मादिदमवोचाम व्यवहारनिदर्शनम् ||५६||
माता पिता च भ्राता च भार्या चाथ पुरोहितः |
नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति ||५७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
122-अध्यायः
वसुहोममान्धातृसंवादः
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः ||१||
स राजा धर्मनित्यः सन्सह पत्न्या महातपाः |
मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम् ||२||
तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते |
यत्र मुञ्जवटे रामो जटाहरणमादिशत् ||३||
तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः |
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ||४||
स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः |
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ||५||
तं कदाचिददीनात्मा सखा शक्रस्य मानितः |
अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः ||६||
सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम् |
दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत ||७||
वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत् |
अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा ||८||
सद्भिराचरितं पूर्वं यथावदनुयायिनम् |
अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते ||९||
सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम् |
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ||१०||
बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया |
तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप ||११||
तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् |
किं वापि पूर्वं जागर्ति किं वा परममुच्यते ||१२||
कथं क्षत्रियसंस्थश्च दण्डः सम्प्रत्यवस्थितः |
ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम् ||१३||
वसुहोम उवाच||
शृणु राजन्यथा दण्डः सम्भूतो लोकसङ्ग्रहः |
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः ||१४||
ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः |
ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम् ||१५||
स गर्भं शिरसा देवो वर्षपूगानधारयत् |
पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत् ||१६||
स क्षुपो नाम सम्भूतः प्रजापतिररिंदम |
ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः ||१७||
तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ |
हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ||१८||
तस्मिन्नन्तर्हिते चाथ प्रजानां सङ्करोऽभवत् |
नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते ||१९||
पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम् |
गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम् ||२०||
परस्परं विलुम्पन्ते सारमेया इवामिषम् |
अबलं बलिनो जघ्नुर्निर्मर्यादमवर्तत ||२१||
ततः पितामहो विष्णुं भगवन्तं सनातनम् |
सम्पूज्य वरदं देवं महादेवमथाब्रवीत् ||२२||
अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम् |
सङ्करो न भवेदत्र यथा वै तद्विधीयताम् ||२३||
ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः |
आत्मानमात्मना दण्डमसृजद्देवसत्तमः ||२४||
तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम् |
असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता ||२५||
भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः |
तस्य तस्य निकायस्य चकारैकैकमीशरम् ||२६||
देवानामीश्वरं चक्रे देवं दशशतेक्षणम् |
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् ||२७||
धनानां रक्षसां चापि कुबेरमपि चेश्वरम् |
पर्वतानां पतिं मेरुं सरितां च महोदधिम् ||२८||
अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् |
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ||२९||
रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः |
महात्मानं महादेवं विशालाक्षं सनातनम् ||३०||
वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् |
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् ||३१||
वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम् |
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ||३२||
कालं सर्वेशमकरोत्संहारविनयात्मकम् |
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ||३३||
ईश्वरः सर्वदेहस्तु राजराजो धनाधिपः |
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः ||३४||
तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ |
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ||३५||
महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि |
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ ||३६||
विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः |
प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ ||३७||
भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम् |
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ||३८||
क्षुपस्तु मनवे प्रादादादित्यतनयाय च |
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ||३९||
तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम् ||३९||
विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया |
दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया ||४०||
व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात् |
शरीरपीडास्तास्तास्तु देहत्यागो विवासनम् ||४१||
आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन् |
इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः ||४२||
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः |
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः ||४३||
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः |
व्यवसायात्ततस्तेजो जागर्ति परिपालयन् ||४४||
ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः |
पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा ||४५||
जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि |
वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः ||४६||
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः |
पितामहान्महादेवो जागर्ति भगवाञ्शिवः ||४७||
विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः |
ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः ||४८||
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय |
ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः ||४९||
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ||४९||
प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च |
सर्वसङ्क्षेपको दण्डः पितामहसमः प्रभुः ||५०||
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत |
ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः ||५१||
देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः |
कपर्दी शङ्करो रुद्रो भवः स्थाणुरुमापतिः ||५२||
इत्येष दण्डो विख्यात आदौ मध्ये तथावरे |
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् ||५३||
भीष्म उवाच||
इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः |
श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः ||५४||
इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ |
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ||५५||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
123-अध्यायः
कामन्दाङ्गारिष्टसंवादः
युधिष्ठिर उवाच||
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम् |
लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता ||१||
धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः |
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् ||२||
भीष्म उवाच||
यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये |
कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा ||३||
धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते |
सङ्कल्पमूलास्ते सर्वे सङ्कल्पो विषयात्मकः ||४||
विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये |
मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते ||५||
धर्मः शरीरसङ्गुप्तिर्धर्मार्थं चार्थ इष्यते |
कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः ||६||
संनिकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत् |
विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान् ||७||
श्रेष्ठबुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयात्क्षणात् |
बुद्ध्या बुध्येदिहार्थे न तदह्ना तु निकृष्टया ||८||
अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् |
सम्प्रमोदमलः कामो भूयः स्वगुणवर्तितः ||९||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
कामन्दस्य च संवादमङ्गारिष्ठस्य चोभयोः ||१०||
कामन्दमृषिमासीनमभिवाद्य नराधिपः |
अङ्गारिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम् ||११||
यः पापं कुरुते राजा काममोहबलात्कृतः |
प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् ||१२||
अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह |
तं चापि प्रथितं लोके कथं राजा निवर्तयेत् ||१३||
कामन्द उवाच||
यो धर्मार्थौ समुत्सृज्य काममेवानुवर्तते |
स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति ||१४||
प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः |
तस्मान्नास्तिकता चैव दुराचारश्च जायते ||१५||
दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति |
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ||१६||
तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः |
ततः सङ्क्षयमाप्नोति तथा वध्यत्वमेति च ||१७||
अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् |
जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत् ||१८||
अत्रैतदाहुराचार्याः पापस्य च निबर्हणम् |
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च ||१९||
महामना भवेद्धर्मे विवहेच्च महाकुले |
ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः ||२०||
जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः |
धर्मान्वितान्सम्प्रविशेद्बहिः कृत्वैव दुष्कृतीन् ||२१||
प्रसादयेन्मधुरय वाचाप्यथ च कर्मणा |
इत्यस्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान् ||२२||
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् |
पापान्यपि च कृच्छ्राणि शमयेन्नात्र संशयः ||२३||
गुरवोऽपि परं धर्मं यद्ब्रूयुस्तत्तथा कुरु |
गुरूणां हि प्रसादाद्धि श्रेयः परमवाप्स्यसि ||२४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
124-अध्यायः
युधिष्ठिर उवाच||
इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि |
धर्मस्य शीलमेवादौ ततो मे संशयो महान् ||१||
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर |
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ||२||
कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत |
किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ||३||
भीष्म उवाच||
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद |
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ||४||
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह |
सभायां चावहसनं तत्सर्वं शृणु भारत ||५||
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् |
दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् ||६||
श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा |
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ||७||
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः |
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि ||८||
यथा त्वं महदैश्वर्यं प्राप्तः परपुरञ्जय |
किङ्करा भ्रातरः सर्वे मित्राः सम्बन्धिनस्तथा ||९||
आच्छादयसि प्रावारानश्नासि पिशितोदनम् |
आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक ||१०||
दुर्योधन उवाच||
दश तानि सहस्राणि स्नातकानां महात्मनाम् |
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ||११||
दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् |
अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च ||१२||
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् |
अमित्राणां सुमहतीमनुशोचामि मानद ||१३||
धृतराष्ट्र उवाच||
यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे |
विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक ||१४||
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः |
न हि किञ्चिदसाध्यं वै लोके शीलवतां भवेत् ||१५||
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः |
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ||१६||
एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः |
अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् ||१७||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत ||१८||
प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः |
शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् ||१९||
ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः |
उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् ||२०||
ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् |
कथयामास भगवान्देवेन्द्राय कुरूद्वह ||२१||
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत |
इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति ||२२||
बृहस्पतिरुवाच||
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः |
तत्रागमय भद्रं ते भूय एव पुरंदर ||२३||
धृतराष्ट्र उवाच||
आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः |
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ||२४||
तेनापि समनुज्ञातो भार्गवेण महात्मना |
श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः ||२५||
भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः |
ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत् ||२६||
स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः |
सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ||२७||
प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ |
त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते ||२८||
ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् |
ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् ||२९||
ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने |
तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा ||३०||
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् |
चकार सर्वभावेन यद्वत्स मनसेच्छति ||३१||
पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम |
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे ||३२||
प्रह्राद उवाच||
नासूयामि द्विजश्रेष्ठ राजास्मीति कदाचन |
कव्यानि वदतां तात संयच्छामि वहामि च ||३३||
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा |
ते मा कव्यपदे सक्तं शुश्रूषुमनसूयकम् ||३४||
धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् |
समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ||३५||
सोऽहं वागग्रपिष्टानां रसानामवलेहिता |
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ||३६||
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् |
यद्ब्राह्मणमुखे कव्यमेतच्छ्रुत्वा प्रवर्तते ||३७||
धृतराष्ट्र उवाच||
एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् |
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ||३८||
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम |
वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ||३९||
कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः |
प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ||४०||
ब्राह्मण उवाच||
यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् |
भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ||४१||
धृतराष्ट्र उवाच||
ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् |
वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ||४२||
एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा |
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ||४३||
दत्ते वरे गते विप्रे चिन्तासीन्महती ततः |
प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् ||४४||
तस्य चिन्तयतस्तात छायाभूतं महाद्युते |
तेजो विग्रहवत्तात शरीरमजहात्तदा ||४५||
तमपृच्छन्महाकायं प्रह्रादः को भवानिति |
प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ||४६||
तस्मिन्द्विजवरे राजन्वत्स्याम्यहमनिन्दितम् |
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः ||४७||
इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो ||४७||
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः |
शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् ||४८||
धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः |
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ||४९||
ततोऽपरो महाराज प्रज्वलन्निव तेजसा |
शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः ||५०||
को भवानिति पृष्टश्च तमाह स महाद्युतिः |
सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह ||५१||
तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः |
निश्चक्राम ततस्तस्मात्पृष्टश्चाह महात्मना ||५२||
वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् ||५२||
तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ |
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ||५३||
इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप ||५३||
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ |
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ||५४||
उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे |
त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् ||५५||
ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः |
अपृच्छत च तां भूयः क्व यासि कमलालये ||५६||
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी |
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ||५७||
श्रीरुवाच||
स शक्रो ब्रह्मचारी च यस्त्वया चोपशिक्षितः |
त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ||५८||
शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः |
तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो ||५९||
धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् |
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ||६०||
भीष्म उवाच||
एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर |
दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् ||६१||
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन |
प्राप्यते च यथा शीलं तमुपायं वदस्व मे ||६२||
धृतराष्ट्र उवाच||
सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना |
सङ्क्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप ||६३||
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा |
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ||६४||
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् |
अपत्रपेत वा येन न तत्कुर्यात्कथञ्चन ||६५||
तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि |
एतच्छीलं समासेन कथितं कुरुसत्तम ||६६||
यद्यप्यशीला नृपते प्राप्नुवन्ति क्वचिच्छ्रियम् |
न भुञ्जते चिरं तात समूलाश्च पतन्ति ते ||६७||
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक |
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ||६८||
भीष्म उवाच||
एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप |
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ||६९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
125-अध्यायः
ऋषभसुमित्रसंवादः
युधिष्ठिर उवाच||
शीलं प्रधानं पुरुषे कथितं ते पितामह |
कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ||१||
संशयो मे महानेष समुत्पन्नः पितामह |
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ||२||
पितामहाशा महती ममासीद्धि सुयोधने |
प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ||३||
सर्वस्याशा सुमहती पुरुषस्योपजायते |
तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ||४||
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना |
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ||५||
आशां महत्तरां मन्ये पर्वतादपि सद्रुमात् |
आकाशादपि वा राजन्नप्रमेयैव वा पुनः ||६||
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा |
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ||७||
भीष्म उवाच||
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् |
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ||८||
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः |
ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ||९||
स मृगो बाणमादाय ययावमितविक्रमः |
स च राजा बली तूर्णं ससार मृगमन्तिकात् ||१०||
ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः |
मुहूर्तमेव राजेन्द्र समेन स पथागमत् ||११||
ततः स राजा तारुण्यादौरसेन बलेन च |
ससार बाणासनभृत्सखड्गो हंसवत्तदा ||१२||
तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च |
अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् ||१३||
स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् |
पुनरभ्येति जवनो जवेन महता ततः ||१४||
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः |
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ||१५||
पुनश्च जवमास्थाय जवनो मृगयूथपः |
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ||१६||
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः |
समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ||१७||
ततो गव्यूतिमात्रेण मृगयूथपयूथपः |
तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव ||१८||
तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः |
प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ||१९||
प्रविश्य तु महारण्यं तापसानामथाश्रमम् |
आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ||२०||
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा |
समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ||२१||
ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् |
केन भद्रमुखार्थेन सम्प्राप्तोऽसि तपोवनम् ||२२||
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर |
एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ||२३||
कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ||२३||
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ |
आचख्यौ तद्यथान्यायं परिचर्यां च भारत ||२४||
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः |
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ||२५||
बलेन महता गुप्तः सामात्यः सावरोधनः ||२५||
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् |
तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ||२६||
भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ||२६||
किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः |
भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ||२७||
न राजलक्षणत्यागो न पुरस्य तपोधनाः |
दुःखं करोति तत्तीव्रं यथाशा विहता मम ||२८||
हिमवान्वा महाशैलः समुद्रो वा महोदधिः |
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ||२९||
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ||२९||
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः |
भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ||३०||
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा |
किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ||३१||
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ||३१||
यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् |
न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुङ्गवाः ||३२||
भवत्तपोविघातो वा येन स्याद्विरमे ततः |
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ||३३||
एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः |
भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ||३४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
126-अध्यायः
भीष्म उवाच||
ततस्तेषां समस्तानामृषीणामृषिसत्तमः |
ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् ||१||
पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो |
समासादितवान्दिव्यं नरनारायणाश्रमम् ||२||
यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा |
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ||३||
तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा |
पितॄणां देवतानां च ततोऽऽश्रममियां तदा ||४||
रेमाते यत्र तौ नित्यं नरनारायणावृषी |
अदूरादाश्रमं कञ्चिद्वासार्थमगमं ततः ||५||
ततश्चीराजिनधरं कृशमुच्चमतीव च |
अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् ||६||
अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम् |
कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित् ||७||
शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम् |
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ||८||
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च |
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ||९||
दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः |
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ||१०||
निवेद्य नाम गोत्रं च पितरं च नरर्षभ |
प्रदिष्टे चासने तेन शनैरहमुपाविशम् ||११||
ततः स कथयामास कथा धर्मार्थसंहिताः |
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ||१२||
तस्मिंस्तु कथयत्येव राजा राजीवलोचनः |
उपायाज्जवनैरश्वैः सबलः सावरोधनः ||१३||
स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः |
भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः ||१४||
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः |
एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ||१५||
दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः |
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ||१६||
दुर्लभः स मया द्रष्टुमाशा च महती मम |
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ||१७||
एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः |
अवाक्षिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ||१८||
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः |
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ||१९||
दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् |
ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि ||२०||
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः |
बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ||२१||
अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च |
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ||२२||
एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् |
श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम ||२३||
अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः |
आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् ||२४||
ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् |
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ||२५||
अपृच्छंश्चैव ते तत्र राजानमपराजितम् |
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् ||२६||
राजोवाच||
वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः |
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ||२७||
एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ |
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ||२८||
ऋषभ उवाच||
एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः |
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ||२९||
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः |
आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः ||३०||
प्रतिग्रहमहं राज्ञां न करिष्ये कथञ्चन |
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ||३१||
आशा हि पुरुषं बालं लालापयति तस्थुषी |
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ||३२||
राजोवाच||
आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् |
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ||३३||
ऋषभ उवाच||
ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् |
राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः ||३४||
कृशत्वे न समं राजन्नाशाया विद्यते नृप |
तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया ||३५||
राजोवाच||
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव |
दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज ||३६||
संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम |
तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ||३७||
त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् |
यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ||३८||
कृशतनुरुवाच||
दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् |
सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ||३९||
संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः |
सक्ता या सर्वभूतेषु साशा कृशतरी मया ||४०||
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा |
प्रवृत्तिं यो न जानाति साशा कृशतरी मया ||४१||
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता |
तथा नरेन्द्र धनिनामाशा कृशतरी मया ||४२||
ऋषभ उवाच||
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः |
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ||४३||
राजोवाच||
प्रसादये त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम् |
वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ||४४||
ऋषभ उवाच||
अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः |
सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा ||४५||
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः |
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ||४६||
तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् |
आत्मानं दर्शयामास धर्मं धर्मभृतां वरः ||४७||
संदर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् |
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ||४८||
एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् |
आशामपनयस्वाशु ततः कृशतरीमिमाम् ||४९||
भीष्म उवाच||
स तत्रोक्तो महाराज ऋषभेण महात्मना |
सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा ||५०||
एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम |
स्थिरो भव यथा राजन्हिमवानचलोत्तमः ||५१||
त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह |
श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि ||५२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
127-अध्यायः
यमगौतमसंवादः
युधिष्ठिर उवाच||
नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि |
तस्मात्कथय भूयस्त्वं धर्ममेव पितामह ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
गौतमस्य च संवादं यमस्य च महात्मनः ||२||
पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान् |
उवास गौतमो यत्र कालं तदपि मे शृणु ||३||
षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः |
तमुग्रतपसं युक्तं तपसा भावितं मुनिम् ||४||
उपयातो नरव्याघ्र लोकपालो यमस्तदा |
तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम् ||५||
स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा |
प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस्तपोधनः ||६||
तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम् |
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन् ||७||
गौतम उवाच||
मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात् |
कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान् ||८||
यम उवाच||
तपःशौचवता नित्यं सत्यधर्मरतेन च |
मातापित्रोरहरहः पूजनं कार्यमञ्जसा ||९||
अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः |
तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान् ||१०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
128-अध्यायः
युधिष्ठिर उवाच||
मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः |
राज्ञः सङ्क्षीणकोशस्य बलहीनस्य भारत ||१||
दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः |
राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः ||२||
परचक्राभियातस्य दुर्बलस्य बलीयसा |
असंविहितराष्ट्रस्य देशकालावजानतः ||३||
अप्राप्यं च भवेत्सान्त्वं भेदो वाप्यतिपीडनात् |
जीवितं चार्थहेतोर्वा तत्र किं सुकृतं भवेत् ||४||
भीष्म उवाच||
गुह्यं मा धर्ममप्राक्षीरतीव भरतर्षभ |
अपृष्टो नोत्सहे वक्तुं धर्ममेनं युधिष्ठिर ||५||
धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ |
श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित् ||६||
कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः |
तादृशोऽयमनुप्रश्नः स व्यवस्यस्त्वया धिया ||७||
उपायं धर्मबहुलं यात्रार्थं शृणु भारत |
नाहमेतादृशं धर्मं बुभूषे धर्मकारणात् ||८||
दुःखादान इहाढ्येषु स्यात्तु पश्चात्क्षमो मतः ||८||
अनुगम्य गतीनां च सर्वासामेव निश्चयम् |
यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते ||९||
तथा तथा विजानाति विज्ञानं चास्य रोचते ||९||
अविज्ञानादयोगश्च पुरुषस्योपजायते |
अविज्ञानादयोगो हि योगो भूतिकरः पुनः ||१०||
अशङ्कमानो वचनमनसूयुरिदं शृणु |
राज्ञः कोशक्षयादेव जायते बलसङ्क्षयः ||११||
कोशं सञ्जनयेद्राजा निर्जलेभ्यो यथा जलम् |
कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र साम्प्रतम् ||१२||
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः |
अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत ||१३||
प्राक्कोशः प्रोच्यते धर्मो बुद्धिर्धर्माद्गरीयसी |
धर्मं प्राप्य न्यायवृत्तिमबलीयान्न विन्दति ||१४||
यस्माद्धनस्योपपत्तिरेकान्तेन न विद्यते |
तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः ||१५||
अधर्मो जायते यस्मिन्निति वै कवयो विदुः |
अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे ||१६||
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा |
तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् ||१७||
सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः |
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः ||१८||
तत्र धर्मविदां तात निश्चयो धर्मनैपुणे |
उद्यमो जीवनं क्षत्रे बाहुवीर्यादिति श्रुतिः ||१९||
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति |
अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत ||२०||
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत् |
अभोज्यान्नानि चाश्नीयात्तथेदं नात्र संशयः ||२१||
पीडितस्य किमद्वारमुत्पथो निधृतस्य वा |
अद्वारतः प्रद्रवति यदा भवति पीडितः ||२२||
तस्य कोशबलज्यान्या सर्वलोकपराभवः |
भैक्षचर्या न विहिता न च विट्शूद्रजीविका ||२३||
स्वधर्मानन्तरा वृत्तिर्यान्याननुपजीवतः |
वहतः प्रथमं कल्पमनुकल्पेन जीवनम् ||२४||
आपद्गतेन धर्माणामन्यायेनोपजीवनम् |
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये ||२५||
क्षत्रिये संशयः कः स्यादित्येतन्निश्चितं सदा |
आददीत विशिष्टेभ्यो नावसीदेत्कथञ्चन ||२६||
हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः |
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना ||२७||
अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित् |
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ||२८||
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम् |
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता ||२९||
परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि |
नित्यमेवेह कर्तव्या एष धर्मः सनातनः ||३०||
राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति |
राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत् ||३१||
कोशं दण्डं बलं मित्रं यदन्यदपि सञ्चितम् |
न कुर्वीतान्तरं राष्ट्रे राजा परिगते क्षुधा ||३२||
बीजं भक्तेन सम्पाद्यमिति धर्मविदो विदुः |
अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् ||३३||
धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति |
अवृत्त्यान्त्यमनुष्योऽपि यो वै वेद शिबेर्वचः ||३४||
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम् |
तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः ||३५||
नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम् |
तदर्थं पीडयित्वा च दोषं न प्राप्तुमर्हति ||३६||
अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु |
एतस्मात्कारणाद्राजा न दोषं प्राप्तुमर्हति ||३७||
अर्थार्थमन्यद्भवति विपरीतमथापरम् |
अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थलक्षणम् ||३८||
एवं बुद्ध्या सम्प्रपश्येन्मेधावी कार्यनिश्चयम् ||३८||
यज्ञार्थमन्यद्भवति यज्ञे नार्थस्तथापरः |
यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधनम् ||३९||
उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् |
यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः ||४०||
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि |
ते चापि निपतन्तोऽन्यान्निघ्नन्ति च वनस्पतीन् ||४१||
एवं कोशस्य महतो ये नराः परिपन्थिनः |
तानहत्वा न पश्यामि सिद्धिमत्र परन्तप ||४२||
धनेन जयते लोकावुभौ परमिमं तथा |
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा ||४३||
सर्वोपायैराददीत धनं यज्ञप्रयोजनम् |
न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत ||४४||
नैतौ सम्भवतो राजन्कथञ्चिदपि भारत |
न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् ||४५||
यदिदं दृश्यते वित्तं पृथिव्यामिह किञ्चन |
ममेदं स्यान्ममेदं स्यादित्ययं काङ्क्षते जनः ||४६||
न च राज्यसमो धर्मः कश्चिदस्ति परन्तप |
धर्मं शंसन्ति ते राज्ञामापदर्थमितोऽन्यथा ||४७||
दानेन कर्मणा चान्ये तपसान्ये तपस्विनः |
बुद्ध्या दाक्ष्येण चाप्यन्ये चिन्वन्ति धनसञ्चयान् ||४८||
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् |
सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान् ||४९||
कोशाद्धर्मश्च कामश्च परो लोकस्तथाप्ययम् ||४९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
129-अध्यायः-आपद्धर्मपर्व
युधिष्ठिर उवाच||
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु |
विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च ||१||
परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत |
असम्भावितमित्रस्य भिन्नामात्यस्य सर्वशः ||२||
परचक्राभियातस्य दुर्बलस्य बलीयसा |
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ||३||
भीष्म उवाच||
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः |
जवेन सन्धिं कुर्वीत पूर्वान्पूर्वान्विमोक्षयन् ||४||
अधर्मविजिगीषुश्चेद्बलवान्पापनिश्चयः |
आत्मनः संनिरोधेन सन्धिं तेनाभियोजयेत् ||५||
अपास्य राजधानीं वा तरेदन्येन वापदम् |
तद्भावभावे द्रव्याणि जीवन्पुनरुपार्जयेत् ||६||
यास्तु स्युः केवलत्यागाच्छक्यास्तरितुमापदः |
कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ||७||
अवरोधाज्जुगुप्सेत का सपत्नधने दया |
न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन ||८||
युधिष्ठिर उवाच||
आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते |
क्षीणे कोशे स्रुते मन्त्रे किं कार्यमवशिष्यते ||९||
भीष्म उवाच||
क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रमः |
पदापनयनं क्षिप्रमेतावत्साम्परायिकम् ||१०||
अनुरक्तेन पुष्टेन हृष्टेन जगतीपते |
अल्पेनापि हि सैन्येन महीं जयति पार्थिवः ||११||
हतो वा दिवमारोहेद्विजयी क्षितिमावसेत् |
युद्धे तु सन्त्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ||१२||
सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च |
विश्वासाद्विनयं कुर्याद्व्यवस्येद्वाप्युपानहौ ||१३||
अपक्रमितुमिच्छेद्वा यथाकामं तु सान्त्वयेत् |
विलिङ्गमित्वा मित्रेण ततः स्वयमुपक्रमेत् ||१४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
130-अध्यायः
युधिष्ठिर उवाच||
हीने परमके धर्मे सर्वलोकातिलङ्घिनि |
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ||१||
केनास्मिन्ब्राह्मणो जीवेज्जघन्ये काल आगते |
असन्त्यजन्पुत्रपौत्राननुक्रोशात्पितामह ||२||
भीष्म उवाच||
विज्ञानबलमास्थाय जीवितव्यं तथागते |
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किञ्चन ||३||
असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति |
आत्मानं सङ्क्रमं कृत्वा कृत्स्नधर्मविदेव सः ||४||
सुरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् |
अदत्तमप्याददीत दातुर्वित्तं ममेति वा ||५||
विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि |
वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हति ||६||
येषां बलकृता वृत्तिर्नैषामन्याभिरोचते |
तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर ||७||
यदेव प्रकृतं शास्त्रमविशेषेण विन्दति |
तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम् ||८||
ऋत्विक्पुरोहिताचार्यान्सत्कृतैरभिपूजितान् |
न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन् ||९||
एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम् |
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा ||१०||
बहूनि ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम् |
न तेषां वचनाद्राजा सत्कुर्याद्यातयेत वा ||११||
न वाच्यः परिवादो वै न श्रोतव्यः कथञ्चन |
कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः ||१२||
न वै सतां वृत्तमेतत्परिवादो न पैशुनम् |
गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर ||१३||
यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ |
धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः ||१४||
यथा यथास्य वहतः सहायाः स्युस्तथापरे ||१४||
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् |
अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः ||१५||
मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम् ||१५||
आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम् |
न चार्षात्सदृशं किञ्चित्प्रमाणं विद्यते क्वचित् ||१६||
देवा अपि विकर्मस्थं यातयन्ति नराधमम् |
व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते ||१७||
सर्वतः सत्कृतः सद्भिर्भूतिप्रभवकारणैः |
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ||१८||
यश्चतुर्गुणसम्पन्नं धर्मं वेद स धर्मवित् |
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ||१९||
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् |
कक्षे रुधिरपातेन तथा धर्मपदं नयेत् ||२०||
एवं सद्भिर्विनीतेन पथा गन्तव्यमच्युत |
राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर ||२१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
131-अध्यायः
भीष्म उवाच||
स्वराष्ट्रात्परराष्ट्राच्च कोशं सञ्जनयेन्नृपः |
कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते ||१||
तस्मात्सञ्जनयेत्कोशं संहृत्य परिपालयेत् |
परिपाल्यानुगृह्णीयादेष धर्मः सनातनः ||२||
न कोशः शुद्धशौचेन न नृशंसेन जायते |
पदं मध्यममास्थाय कोशसङ्ग्रहणं चरेत् ||३||
अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् |
अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत् ||४||
उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा |
तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत् ||५||
हीनकोशं हि राजानमवजानन्ति मानवाः |
न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च ||६||
श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम् |
सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः ||७||
ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः |
शालावृका इवाजस्रं जिघांसूनिव विन्दति ||८||
ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम ||८||
उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् |
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ||९||
अप्यरण्यं समाश्रित्य चरेद्दस्युगणैः सह |
न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत् ||१०||
दस्यूनां सुलभा सेना रौद्रकर्मसु भारत ||१०||
एकान्तेन ह्यमर्यादात्सर्वोऽप्युद्विजते जनः |
दस्यवोऽप्युपशङ्कन्ते निरनुक्रोशकारिणः ||११||
स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् |
अल्पाप्यथेह मर्यादा लोके भवति पूजिता ||१२||
नायं लोकोऽस्ति न पर इति व्यवसितो जनः |
नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि ||१३||
यथा सद्भिः परादानमहिंसा दस्युभिस्तथा |
अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु ||१४||
अयुध्यमानस्य वधो दारामर्शः कृतघ्नता |
ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा ||१५||
स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम् ||१५||
स एष एव भवति दस्युरेतानि वर्जयन् |
अभिसंदधते ये न विनाशायास्य भारत ||१६||
नशेषमेवोपालभ्य न कुर्वन्तीति निश्चयः ||१६||
तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः |
न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् ||१७||
सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः |
निःशेषकारिणो नित्यमशेषकरणाद्भयम् ||१८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
132-अध्यायः
भीष्म उवाच||
अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः |
प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः ||१||
तत्र न व्यवधातव्यं परोक्षा धर्मयापना ||१||
अधर्मो धर्म इत्येतद्यथा वृकपदं तथा |
धर्माधर्मफले जातु न ददर्शेह कश्चन ||२||
बुभूषेद्बलवानेव सर्वं बलवतो वशे |
श्रियं बलममात्यांश्च बलवानिह विन्दति ||३||
यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् |
बह्वपथ्यं बलवति न किञ्चित्त्रायते भयात् ||४||
उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् |
अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते ||५||
बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमः |
धूमो वायोरिव वशं बलं धर्मोऽनुवर्तते ||६||
अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता |
वश्यो बलवतां धर्मः सुखं भोगवतामिव ||७||
नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि ||७||
दुराचारः क्षीणबलः परिमाणं नियच्छति |
अथ तस्मादुद्विजते सर्वो लोको वृकादिव ||८||
अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् |
जीवितं यदवक्षिप्तं यथैव मरणं तथा ||९||
यदेनमाहुः पापेन चारित्रेण विनिक्षतम् |
स भृशं तप्यतेऽनेन वाक्षल्येन परिक्षतः ||१०||
अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे |
त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान् ||११||
प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा |
महामनाश्चैव भवेद्विवहेच्च महाकुले ||१२||
इत्यस्मीति वदेदेवं परेषां कीर्तयन्गुणान् |
जपेदुदकशीलः स्यात्पेशलो नातिजल्पनः ||१३||
ब्रह्मक्षत्रं सम्प्रविशेद्बहु कृत्वा सुदुष्करम् |
उच्यमानोऽपि लोकेन बहु तत्तदचिन्तयन् ||१४||
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् |
सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत् ||१५||
लोके च लभते पूजां परत्र च महत्फलम् ||१५||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
133-अध्यायः
कापव्यानुशासनम्
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ||१||
प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान् |
रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः ||२||
निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः |
कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ||३||
अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता |
विधिज्ञो मृगजातीनां निपानानां च कोविदः ||४||
सर्वकाननदेशज्ञः पारियात्रचरः सदा |
धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः ||५||
अप्यनेकशताः सेना एक एव जिगाय सः |
स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत् ||६||
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि |
सत्कृत्य भोजयामास सम्यक्परिचचार च ||७||
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् |
अपि तेभ्यो मृगान्हत्वा निनाय च महावने ||८||
ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया |
तेषामासज्य गेहेषु काल्य एव स गच्छति ||९||
तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे |
निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् ||१०||
दस्यव ऊचुः||
मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध |
ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः ||११||
यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा |
पालयास्मान्यथान्यायं यथा माता यथा पिता ||१२||
कापव्य उवाच||
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् |
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ||१३||
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता |
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ||१४||
सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः |
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा ||१५||
सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति |
कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् ||१६||
यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम् |
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ||१७||
यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत् |
सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः ||१८||
इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः |
ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति ||१९||
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः |
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ||२०||
ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन |
तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा ||२१||
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः |
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ||२२||
भीष्म उवाच||
तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् |
वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ||२३||
कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् |
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ||२४||
इदं कापव्यचरितं यो नित्यमनुकीर्तयेत् |
नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन ||२५||
भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथञ्चन |
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ||२६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
134-अध्यायः
भीष्म उवाच||
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः |
येन मार्गेण राजानः कोशं सञ्जनयन्ति च ||१||
न धनं यज्ञशीलानां हार्यं देवस्वमेव तत् |
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति ||२||
इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत |
धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते ||३||
तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा |
अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत ||४||
यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति |
आनन्तिकां तां धनितामाहुर्वेदविदो जनाः ||५||
हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः |
न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृपः ||६||
असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति |
आत्मानं सङ्क्रमं कृत्वा मन्ये धर्मविदेव सः ||७||
औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा |
अनिष्टतः सम्भवन्ति तथायज्ञः प्रतायते ||८||
यथैव दंशमशकं यथा चाण्डपिपीलिकम् |
सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते ||९||
यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम् |
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च ||१०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
135-अध्यायः
शकुलाख्यानम्
भीष्म उवाच||
अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम् |
दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये ||१||
नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः |
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ||२||
अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः |
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ||३||
कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः |
निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः ||४||
प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे |
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ||५||
इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् |
शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति ||६||
अनागतमनर्थं हि सुनयैर्यः प्रबाधते |
न स संशयमाप्नोति रोचतां वां व्रजामहे ||७||
दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते |
न तु कार्या त्वरा यावदिति मे निश्चिता मतिः ||८||
अथ सम्प्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम् |
प्राप्ते काले न मे किञ्चिन्न्यायतः परिहास्यते ||९||
एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः |
जगाम स्रोतसैकेन गम्भीरसलिलाशयम् ||१०||
ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् |
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ||११||
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये |
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः ||१२||
उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः |
प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान् ||१३||
ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः |
सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति ||१४||
ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले |
त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं सम्प्रतिपत्तिमान् ||१५||
दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः |
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ||१६||
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते |
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ||१७||
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् |
स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान् ||१८||
अनागतविधानं तु यो नरः कुरुते क्षमम् |
श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ ||१९||
कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः |
पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च ||२०||
पृथिवी देश इत्युक्तः कालः स च न दृश्यते |
अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा ||२१||
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः |
प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम् ||२२||
परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत् |
देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात् ||२३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
136-अध्यायः
मार्जारमूषकसंवादः
युधिष्ठिर उवाच||
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ |
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ||१||
तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम |
यथा राजन्न मुह्येत शत्रुभिः परिवारितः ||२||
धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद |
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि ||३||
शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः |
एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि ||४||
विषमस्थं हि राजानं शत्रवः परिपन्थिनः |
बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ||५||
सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः |
एकेनैवासहायेन शक्यं स्थातुं कथं भवेत् ||६||
कथं मित्रमरिं चैव विन्देत भरतर्षभ |
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ||७||
प्रज्ञातलक्षणे राजन्नमित्रे मित्रतां गते |
कथं नु पुरुषः कुर्यात्किं वा कृत्वा सुखी भवेत् ||८||
विग्रहं केन वा कुर्यात्सन्धिं वा केन योजयेत् |
कथं वा शत्रुमध्यस्थो वर्तेताबलवानिति ||९||
एतद्वै सर्वकृत्यानां परं कृत्यं परन्तप |
नैतस्य कश्चिद्वक्तास्ति श्रोता चापि सुदुर्लभः ||१०||
ऋते शान्तनवाद्भीष्मात्सत्यसन्धाज्जितेन्द्रियात् |
तदन्विष्य महाबाहो सर्वमेतद्वदस्व मे ||११||
भीष्म उवाच||
त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः |
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ||१२||
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति |
सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ||१३||
तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् |
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ||१४||
सन्धातव्यं बुधैर्नित्यं व्यवस्यं च हितार्थिभिः |
अमित्रैरपि सन्धेयं प्राणा रक्ष्याश्च भारत ||१५||
यो ह्यमित्रैर्नरो नित्यं न संदध्यादपण्डितः |
न सोऽर्थमाप्नुयात्किञ्चित्फलान्यपि च भारत ||१६||
यस्त्वमित्रेण सन्धत्ते मित्रेण च विरुध्यते |
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ||१७||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च ||१८||
वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत् |
लताजालपरिच्छन्नो नानाद्विजगणायुतः ||१९||
स्कन्धवान्मेघसङ्काशः शीतच्छायो मनोरमः |
वैरन्त्यमभितो जातस्तरुर्व्यालमृगाकुलः ||२०||
तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् |
वसति स्म महाप्राज्ञः पलितो नाम मूषकः ||२१||
शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः |
लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः ||२२||
तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः |
अयोजयत्तमुन्माथं नित्यमस्तं गते रवौ ||२३||
तत्र स्नायुमयान्पाशान्यथावत्संनिधाय सः |
गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ||२४||
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः |
कदाचित्तत्र मार्जारस्त्वप्रमत्तोऽप्यबध्यत ||२५||
तस्मिन्बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि |
तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः ||२६||
तेनानुचरता तस्मिन्वने विश्वस्तचारिणा |
भक्षं विचरमाणेन नचिराद्दृष्टमामिषम् ||२७||
स तमुन्माथमारुह्य तदामिषमभक्षयत् |
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् ||२८||
आमिषे तु प्रसक्तः स कदाचिदवलोकयन् |
अपश्यदपरं घोरमात्मनः शत्रुमागतम् ||२९||
शरप्रसूनसङ्काशं महीविवरशायिनम् |
नकुलं हरिकं नाम चपलं ताम्रलोचनम् ||३०||
तेन मूषकगन्धेन त्वरमाणमुपागतम् |
भक्षार्थं लेलिहद्वक्त्रं भूमावूर्ध्वमुखं स्थितम् ||३१||
शाखागतमरिं चान्यदपश्यत्कोटरालयम् |
उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् ||३२||
गतस्य विषयं तस्य नकुलोलूकयोस्तदा |
अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम् ||३३||
आपद्यस्यां सुकष्टायां मरणे समुपस्थिते |
समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा ||३४||
स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः |
अभवद्भयसन्तप्तश्चक्रे चेमां परां गतिम् ||३५||
आपद्विनाशभूयिष्ठा शतैकीयं च जीवितम् |
समन्तसंशया चेयमस्मानापदुपस्थिता ||३६||
गतं हि सहसा भूमिं नकुलो मां समाप्नुयात् |
उलूकश्चेह तिष्ठन्तं मार्जारः पाशसङ्क्षयात् ||३७||
न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति |
करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहम् ||३८||
न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः |
सम्भ्रमन्त्यापदं प्राप्य महतोऽर्थानवाप्य च ||३९||
न त्वन्यामिह मार्जाराद्गतिं पश्यामि साम्प्रतम् |
विषमस्थो ह्ययं जन्तुः कृत्यं चास्य महन्मया ||४०||
जीवितार्थी कथं त्वद्य प्रार्थितः शत्रुभिस्त्रिभिः |
तस्मादिममहं शत्रुं मार्जारं संश्रयामि वै ||४१||
क्षत्रविद्यां समाश्रित्य हितमस्योपधारये |
येनेमं शत्रुसङ्घातं मतिपूर्वेण वञ्चये ||४२||
अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः |
मूढो ग्राहयितुं स्वार्थं सङ्गत्या यदि शक्यते ||४३||
कदाचिद्व्यसनं प्राप्य सन्धिं कुर्यान्मया सह |
बलिना संनिविष्टस्य शत्रोरपि परिग्रहः ||४४||
कार्य इत्याहुराचार्या विषमे जीवितार्थिना ||४४||
श्रेयान्हि पण्डितः शत्रुर्न च मित्रमपण्डितम् |
मम ह्यमित्रे मार्जारे जीवितं सम्प्रतिष्ठितम् ||४५||
हन्तैनं सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे |
अपीदानीमयं शत्रुः सङ्गत्या पण्डितो भवेत् ||४६||
ततोऽर्थगतितत्त्वज्ञः सन्धिविग्रहकालवित् |
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषकोऽब्रवीत् ||४७||
सौहृदेनाभिभाषे त्वा कच्चिन्मार्जार जीवसि |
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ||४८||
न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा |
अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते ||४९||
अस्ति कश्चिदुपायोऽत्र पुष्कलः प्रतिभाति माम् |
येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयो यथा मया ||५०||
मया ह्युपायो दृष्टोऽयं विचार्य मतिमात्मनः |
आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ ||५१||
इदं हि नकुलोलूकं पापबुद्ध्यभितः स्थितम् |
न धर्षयति मार्जार तेन मे स्वस्ति साम्प्रतम् ||५२||
कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते |
नगशाखाग्रहस्तिष्ठंस्तस्याहं भृशमुद्विजे ||५३||
सतां साप्तपदं सख्यं सवासो मेऽसि पण्डितः |
सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् ||५४||
न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया |
अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि ||५५||
त्वमाश्रितो नगस्याग्रं मूलं त्वहमुपाश्रितः |
चिरोषिताविहावां वै वृक्षेऽस्मिन्विदितं हि ते ||५६||
यस्मिन्नाश्वसते कश्चिद्यश्च नाश्वसते क्वचित् |
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नचेतसौ ||५७||
तस्माद्विवर्धतां प्रीतिः सत्या सङ्गतिरस्तु नौ |
कालातीतमपार्थं हि न प्रशंसन्ति पण्डिताः ||५८||
अर्थयुक्तिमिमां तावद्यथाभूतां निशामय |
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् ||५९||
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् |
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ||६०||
ईदृशो नौ समायोगो भविष्यति सुनिस्तरः |
अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि ||६१||
एवमुक्त्वा तु पलितस्तदर्थमुभयोर्हितम् |
हेतुमद्ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत ||६२||
अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर्विचक्षणः |
हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् ||६३||
बुद्धिमान्वाक्यसम्पन्नस्तद्वाक्यमनुवर्णयन् |
तामवस्थामवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् ||६४||
ततस्तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः |
मूषकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रवीत् ||६५||
नन्दामि सौम्य भद्रं ते यो मां जीवन्तमिच्छसि |
श्रेयश्च यदि जानीषे क्रियतां मा विचारय ||६६||
अहं हि दृढमापन्नस्त्वमापन्नतरो मया |
द्वयोरापन्नयोः सन्धिः क्रियतां मा विचारय ||६७||
विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः |
मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् ||६८||
न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा |
निदेशवशवर्ती च भवन्तं शरणं गतः ||६९||
इत्येवमुक्तः पलितो मार्जारं वशमागतम् |
वाक्यं हितमुवाचेदमभिनीतार्थमर्थवत् ||७०||
उदारं यद्भवानाह नैतच्चित्रं भवद्विधे |
विदितो यस्तु मार्गो मे हितार्थं शृणु तं मम ||७१||
अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद्भयम् |
त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव मोक्षणे ||७२||
उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् |
अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे ||७३||
तद्वचः सङ्गतं श्रुत्वा लोमशो युक्तमर्थवत् |
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ||७४||
स तं सम्पूज्य पलितं मार्जारः सौहृदे स्थितः |
सुविचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव हि ||७५||
क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा |
तव प्राज्ञ प्रसादाद्धि क्षिप्रं प्राप्स्यामि जीवितम् ||७६||
यद्यदेवङ्गतेनाद्य शक्यं कर्तुं मया तव |
तदाज्ञापय कर्ताहं सन्धिरेवास्तु नौ सखे ||७७||
अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः |
सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च ||७८||
मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते |
प्रीतिमुत्पादयेयं च प्रतिकर्तुं च शक्नुयाम् ||७९||
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस्तदा |
प्रविवेश सुविस्रब्धः सम्यगर्थांश्चचार ह ||८०||
एवमाश्वासितो विद्वान्मार्जारेण स मूषकः |
मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् ||८१||
लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम् |
तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर्गृहान् ||८२||
लीनस्तु तस्य गात्रेषु पलितो देशकालवित् |
चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः ||८३||
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम् |
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः ||८४||
तमत्वरन्तं पलितं पाशानां छेदने तदा |
सञ्चोदयितुमारेभे मार्जारो मूषकं तदा ||८५||
किं सौम्य नाभित्वरसे किं कृतार्थोऽवमन्यसे |
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः ||८६||
इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत् |
मार्जारमकृतप्रज्ञं वश्यमात्महितं वचः ||८७||
तूष्णीं भव न ते सौम्य त्वरा कार्या न सम्भ्रमः |
वयमेवात्र कालज्ञा न कालः परिहास्यते ||८८||
अकाले कृत्यमारब्धं कर्तुं नार्थाय कल्पते |
तदेव काल आरब्धं महतेऽर्थाय कल्पते ||८९||
अकालविप्रमुक्तान्मे त्वत्त एव भयं भवेत् |
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ||९०||
यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम् |
ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये ||९१||
तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोहसि |
न हि ते जीवितादन्यत्किञ्चित्कृत्यं भविष्यति ||९२||
ततो भवत्यतिक्रान्ते त्रस्ते भीते च लोमश |
अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति ||९३||
एवमुक्तस्तु मार्जारो मूषकेणात्मनो हितम् |
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ||९४||
अथात्मकृत्यत्वरितः सम्यक्प्रश्रयमाचरन् |
उवाच लोमशो वाक्यं मूषकं चिरकारिणम् ||९५||
न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः |
यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया ||९६||
तथैव त्वरमाणेन त्वया कार्यं हितं मम |
यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् ||९७||
अथ वा पूर्ववैरं त्वं स्मरन्कालं विकर्षसि |
पश्य दुष्कृतकर्मत्वं व्यक्तमायुःक्षयो मम ||९८||
यच्च किञ्चिन्मयाज्ञानात्पुरस्ताद्विप्रियं कृतम् |
न तन्मनसि कर्तव्यं क्षमये त्वां प्रसीद मे ||९९||
तमेवंवादिनं प्राज्ञः शास्त्रविद्बुद्धिसंमतः |
उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस्तदा ||१००||
श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः |
ममापि त्वं विजानीहि स्वमर्थं परिगृह्णतः ||१०१||
यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम् |
सुरक्षितं ततः कार्यं पाणिः सर्पमुखादिव ||१०२||
कृत्वा बलवता सन्धिमात्मानं यो न रक्षति |
अपथ्यमिव तद्भुक्तं तस्यानर्थाय कल्पते ||१०३||
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत् |
अर्थैरर्था निबध्यन्ते गजैर्वनगजा इव ||१०४||
न हि कश्चित्कृते कार्ये कर्तारं समवेक्षते |
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ||१०५||
तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयान्वितः |
मम न ग्रहणे शक्तः पलायनपरायणः ||१०६||
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः |
छेत्स्याम्यहं तदप्याशु निर्वृतो भव लोमश ||१०७||
तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः |
क्षयं जगाम सा रात्रिर्लोमशं चाविशद्भयम् ||१०८||
ततः प्रभातसमये विकृतः कृष्णपिङ्गलः |
स्थूलस्फिग्विकचो रूक्षः श्वचक्रपरिवारितः ||१०९||
शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः |
परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ||११०||
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः |
उवाच पलितं भीतः किमिदानीं करिष्यसि ||१११||
अथ चापि सुसन्त्रस्तौ तं दृष्ट्वा घोरदर्शनम् |
क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस्तदा ||११२||
बलिनौ मतिमन्तौ च सङ्घातं चाप्युपागतौ |
अशक्यौ सुनयात्तस्मात्सम्प्रधर्षयितुं बलात् ||११३||
कार्यार्थं कृतसन्धी तौ दृष्ट्वा मार्जारमूषकौ |
उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वमालयम् ||११४||
ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषकः |
विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम् ||११५||
स च तस्माद्भयान्मुक्तो मुक्तो घोरेण शत्रुणा |
बिलं विवेश पलितः शाखां भेजे च लोमशः ||११६||
उन्माथमप्यथादाय चण्डालो वीक्ष्य सर्वशः |
विहताशः क्षणेनाथ तस्माद्देशादपाक्रमत् ||११७||
जगाम च स्वभवनं चण्डालो भरतर्षभ ||११७||
ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम् |
बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ||११८||
अकृत्वा संविदं काञ्चित्सहसाहमुपप्लुतः |
कृतज्ञं कृतकल्याणं कच्चिन्मां नाभिशङ्कसे ||११९||
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् |
मित्रोपभोगसमये किं त्वं नैवोपसर्पसि ||१२०||
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति |
न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः ||१२१||
तत्कृतोऽहं त्वया मित्रं सामर्थ्यादात्मनः सखे |
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ||१२२||
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः |
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ||१२३||
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् |
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ||१२४||
ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च |
अर्थानां चैव सर्वेषामनुशास्ता च मे भव ||१२५||
अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम् |
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे ||१२६||
बुद्ध्या त्वमुशनाः साक्षाद्बले त्वधिकृता वयम् |
त्वन्मन्त्रबलयुक्तो हि विन्देत जयमेव ह ||१२७||
एवमुक्तः परं सान्त्वं मार्जारेण स मूषकः |
उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः ||१२८||
यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् |
ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति माम् ||१२९||
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः |
एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतम् ||१३०||
शत्रुरूपाश्च सुहृदो मित्ररूपाश्च शत्रवः |
सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः ||१३१||
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते |
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ||१३२||
यो यस्मिञ्जीवति स्वार्थं पश्येत्तावत्स जीवति |
स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ||१३३||
नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् |
अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस्तथा ||१३४||
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये |
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ||१३५||
यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु |
अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् ||१३६||
अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम् |
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ||१३७||
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् |
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ||१३८||
अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास्तथा |
मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः ||१३९||
पुत्रं हि मातापितरु त्यजतः पतितं प्रियम् |
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ||१४०||
तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम् |
कृत्यं मृगयसे कर्तुं सुखोपायमसंशयम् ||१४१||
अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः |
पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान् ||१४२||
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति |
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ||१४३||
ब्रवीति मधुरं कञ्चित्प्रियो मे ह भवानिति |
तन्मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु ||१४४||
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् |
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ||१४५||
सख्यं सोदरयोर्भ्रात्रोर्दम्पत्योर्वा परस्परम् |
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह ||१४६||
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे |
स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः ||१४७||
प्रियो भवति दानेन प्रियवादेन चापरः |
मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः ||१४८||
उत्पन्ने कारणे प्रीतिर्नास्ति नौ कारणान्तरे |
प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते ||१४९||
किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः |
अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् ||१५०||
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते |
स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ||१५१||
न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते |
अकालेऽविषमस्थस्य स्वार्थहेतुरयं तव ||१५२||
तस्मान्नाहं चले स्वार्थात्सुस्थितः सन्धिविग्रहे |
अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे ||१५३||
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव सौहृदम् |
पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् ||१५४||
आसीत्तावत्तु मैत्री नौ यावद्धेतुरभूत्पुरा |
सा गता सह तेनैव कालयुक्तेन हेतुना ||१५५||
त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः |
तत्कृत्यमभिनिर्वृत्तं प्रकृतिः शत्रुतां गता ||१५६||
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः |
प्रविशेयं कथं पाशं त्वत्कृतं तद्वदस्व मे ||१५७||
त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान् |
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ||१५८||
त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम् |
न तेऽस्त्यन्यन्मया कृत्यं किञ्चिदन्यत्र भक्षणात् ||१५९||
अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली |
नावयोर्विद्यते सन्धिर्नियुक्ते विषमे बले ||१६०||
संमन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् |
भक्ष्यं मृगयसे नूनं सुखोपायमसंशयम् ||१६१||
भक्ष्यार्थमेव बद्धस्त्वं स मुक्तः प्रसृतः क्षुधा |
शास्त्रज्ञमभिसन्धाय नूनं भक्षयिताद्य माम् ||१६२||
जानामि क्षुधितं हि त्वामाहारसमयश्च ते |
स त्वं मामभिसन्धाय भक्ष्यं मृगयसे पुनः ||१६३||
यच्चापि पुत्रदारं स्वं तत्संनिसृजसे मयि |
शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् ||१६४||
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये |
कस्मान्मां ते न खादेयुर्हृष्टाः प्रणयिनस्त्वयि ||१६५||
नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे |
शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मर्यते यदि ||१६६||
शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च |
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ||१६७||
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे |
नाहं त्वया समेष्यामि निर्वृतो भव लोमश ||१६८||
बलवत्संनिकर्षो हि न कदाचित्प्रशस्यते |
प्रशान्तादपि मे प्राज्ञ भेतव्यं बलिनः सदा ||१६९||
यदि त्वर्थेन मे कार्यं ब्रूहि किं करवाणि ते |
कामं सर्वं प्रदास्यामि न त्वात्मानं कदाचन ||१७०||
आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनं तथा |
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ||१७१||
ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम् |
दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ||१७२||
न त्वात्मनः सम्प्रदानं धनरत्नवदिष्यते |
आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि ||१७३||
आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् |
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ||१७४||
शत्रून्सम्यग्विजानन्ति दुर्बला ये बलीयसः |
तेषां न चाल्यते बुद्धिरात्मार्थं कृतनिश्चया ||१७५||
इत्यभिव्यक्तमेवासौ पलितेनावभर्त्सितः |
मार्जारो व्रीडितो भूत्वा मूषकं वाक्यमब्रवीत् ||१७६||
संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः |
उक्तवानर्थतत्त्वेन मया सम्भिन्नदर्शनः ||१७७||
न तु मामन्यथा साधो त्वं विज्ञातुमिहार्हसि |
प्राणप्रदानजं त्वत्तो मम सौहृदमागतम् ||१७८||
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः |
मित्रेषु वत्सलश्चास्मि त्वद्विधेषु विशेषतः ||१७९||
तन्मामेवङ्गते साधो न यावयितुमर्हसि |
त्वया हि याव्यमानोऽहं प्राणाञ्जह्यां सबान्धवः ||१८०||
धिक्षब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु |
मरणं धर्मतत्त्वज्ञ न मां शङ्कितुमर्हसि ||१८१||
इति संस्तूयमानो हि मार्जारेण स मूषकः |
मनसा भावगम्भीरं मार्जारं वाक्यमब्रवीत् ||१८२||
साधुर्भवाञ्श्रुतार्थोऽस्मि प्रीयते न च विश्वसे |
संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया ||१८३||
न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे |
अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते ||१८४||
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा |
समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत् ||१८५||
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः |
द्रव्याणि सन्ततिश्चैव सर्वं भवति जीवतः ||१८६||
सङ्क्षेपो नीतिशास्त्राणामविश्वासः परो मतः |
नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः ||१८७||
वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि |
विश्वस्तास्त्वाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः ||१८८||
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा |
रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् ||१८९||
स तस्य ब्रुवतस्त्वेवं सन्त्रासाज्जातसाध्वसः |
स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः ||१९०||
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः |
विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह ||१९१||
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः |
एकेन बहवोऽमित्राः पलितेनाभिसन्धिताः ||१९२||
अरिणापि समर्थेन सन्धिं कुर्वीत पण्डितः |
मूषकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ||१९३||
इत्येष क्षत्रधर्मस्य मया मार्गोऽनुदर्शितः |
विस्तरेण महीपाल सङ्क्षेपेण पुनः शृणु ||१९४||
अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम् |
अन्योन्यमभिसन्धातुमभूच्चैव तयोर्मतिः ||१९५||
तत्र प्राज्ञोऽभिसन्धत्ते सम्यग्बुद्धिबलाश्रयात् |
अभिसन्धीयते प्राज्ञः प्रमादादपि चाबुधैः ||१९६||
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् |
न ह्यप्रमत्तश्चलति चलितो वा विनश्यति ||१९७||
कालेन रिपुणा सन्धिः काले मित्रेण विग्रहः |
कार्य इत्येव तत्त्वज्ञाः प्राहुर्नित्यं युधिष्ठिर ||१९८||
एवं मत्वा महाराज शास्त्रार्थमभिगम्य च |
अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् ||१९९||
भीतवत्संविधिः कार्यः प्रतिसन्धिस्तथैव च |
भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा ||२००||
न भयं विद्यते राजन्भीतस्यानागते भये |
अभीतस्य तु विस्रम्भात्सुमहज्जायते भयम् ||२०१||
न भीरुरिति चात्यन्तं मन्त्रोऽदेयः कथञ्चन |
अविज्ञानाद्धि विज्ञाते गच्छेदास्पददर्शिषु ||२०२||
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् |
कार्याणां गुरुतां बुद्ध्वा नानृतं किञ्चिदाचरेत् ||२०३||
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर |
श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर ||२०४||
उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा |
सन्धिविग्रहकालं च मोक्षोपायं तथापदि ||२०५||
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा |
समागमं चरेद्युक्त्या कृतार्थो न च विश्वसेत् ||२०६||
अविरुद्धां त्रिवर्गेण नीतिमेतां युधिष्ठिर |
अभ्युत्तिष्ठ श्रुतादस्माद्भूयस्त्वं रञ्जयन्प्रजाः ||२०७||
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव |
ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत ||२०८||
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो |
पूजिताः शुभकर्माणः पूर्वजित्या नराधिप ||२०९||
राज्यं श्रेयः परं राजन्यशः कीर्तिं च लप्स्यसे |
कुलस्य सन्ततिं चैव यथान्यायं यथाक्रमम् ||२१०||
द्वयोरिमं भारत सन्धिविग्रहं; सुभाषितं बुद्धिविशेषकारितम् |
तथान्ववेक्ष्य क्षितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले ||२११||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
137-अध्यायः
ब्रह्मदत्तपूजनीसंवादः
युधिष्ठिर उवाच||
उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु |
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ||१||
विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम् |
कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव ||२||
एतन्मे संशयं छिन्धि मनो मे सम्प्रमुह्यति |
अविश्वासकथामेतामुपश्रुत्य पितामह ||३||
भीष्म उवाच||
शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने |
पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव ||४||
काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी |
पूजनी नाम शकुनी दीर्घकालं सहोषिता ||५||
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः |
सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा ||६||
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् |
समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत ||७||
समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम् |
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ||८||
फलमेकं सुतायादाद्राजपुत्राय चापरम् |
अमृतास्वादसदृशं बलतेजोविवर्धनम् ||९||
तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ||९||
धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा |
शून्ये तु तमुपादाय पक्षिणं समजातकम् ||१०||
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत् ||१०||
अथ सा शकुनी राजन्नागमत्फलहारिका |
अपश्यन्निहतं पुत्रं तेन बालेन भूतले ||११||
बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम् |
पूजनी दुःखसन्तप्ता रुदती वाक्यमब्रवीत् ||१२||
क्षत्रिये सङ्गतं नास्ति न प्रीतिर्न च सौहृदम् |
कारणे सम्भजन्तीह कृतार्थाः सन्त्यजन्ति च ||१३||
क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु |
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ||१४||
अहमस्य करोम्यद्य सदृशीं वैरयातनाम् |
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ||१५||
सहसञ्जातवृद्धस्य तथैव सहभोजिनः |
शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम् ||१६||
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा |
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ||१७||
इच्छयैव कृतं पापं सद्य एवोपसर्पति |
कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् ||१८||
पापं कर्म कृतं किञ्चिन्न तस्मिन्यदि विद्यते |
निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु ||१९||
ब्रह्मदत्त उवाच||
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया |
उभयं तत्समीभूतं वस पूजनि मा गमः ||२०||
पूजन्युवाच||
सकृत्कृतापराधस्य तत्रैव परिलम्बतः |
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ||२१||
सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत् |
क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति ||२२||
अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति |
पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ||२३||
सर्वेषां कृतवैराणामविश्वासः सुखावहः |
एकान्ततो न विश्वासः कार्यो विश्वासघातकः ||२४||
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् |
कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ||२५||
माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः |
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य; आत्मा ह्येकः सुखदुःखस्य वेत्ता ||२६||
अन्योन्यकृतवैराणां न सन्धिरुपपद्यते |
स च हेतुरतिक्रान्तो यदर्थमहमावसम् ||२७||
पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः |
चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात् ||२८||
पूर्वं संमानना यत्र पश्चाच्चैव विमानना |
जह्यात्तं सत्त्ववान्वासं संमानितविमानितः ||२९||
उषितास्मि तवागारे दीर्घकालमहिंसिता |
तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् ||३०||
ब्रह्मदत्त उवाच||
यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् |
अनृणस्तेन भवति वस पूजनि मा गमः ||३१||
पूजन्युवाच||
न कृतस्य न कर्तुश्च सख्यं सन्धीयते पुनः |
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ||३२||
ब्रह्मदत्त उवाच||
कृतस्य चैव कर्तुश्च सख्यं सन्धीयते पुनः |
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ||३३||
पूजन्युवाच||
नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् |
विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम् ||३४||
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि |
साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः ||३५||
ब्रह्मदत्त उवाच||
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि |
अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा ||३६||
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् |
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ||३७||
पूजन्युवाच||
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः |
स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् ||३८||
तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः |
प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् ||३९||
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि |
छन्नं सन्तिष्ठते वैरं गूढोऽग्निरिव दारुषु ||४०||
न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः |
वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे ||४१||
न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम् |
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ||४२||
सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः |
नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात् ||४३||
नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् |
विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् ||४४||
ब्रह्मदत्त उवाच||
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः |
कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति ||४५||
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह |
कार्यते चैव कालेन तन्निमित्तं हि जीवति ||४६||
बध्यन्ते युगपत्केचिदेकैकस्य न चापरे |
कालो दहति भूतानि सम्प्राप्याग्निरिवेन्धनम् ||४७||
नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे |
कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् ||४८||
एवं वसेह सस्नेहा यथाकालमहिंसिता |
यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि ||४९||
पूजन्युवाच||
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् |
कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते ||५०||
कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे |
यदि कालेन निर्याणं सुखदुःखे भवाभवौ ||५१||
भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे |
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ||५२||
प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः |
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ||५३||
तव पुत्रो ममापत्यं हतवान्हिंसितो मया |
अनन्तरं त्वया चाहं बन्धनीया महीपते ||५४||
अहं हि पुत्रशोकेन कृतपापा तवात्मजे |
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु ||५५||
भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः |
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ||५६||
वधबन्धभयादेके मोक्षतन्त्रमुपागताः |
मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः ||५७||
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः |
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ||५८||
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः |
दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम् ||५९||
वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा |
दुःखं सुखेन सततं जनाद्विपरिवर्तते ||६०||
न दुःखं परदुःखे वै केचिदाहुरबुद्धयः |
यो दुःखं नाभिजानाति स जल्पति महाजने ||६१||
यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् |
रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे ||६२||
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् |
न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम ||६३||
आवयोः कृतमन्योन्यं तत्र सन्धिर्न विद्यते |
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ||६४||
वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति |
मृन्मयस्येव भग्नस्य तस्य सन्धिर्न विद्यते ||६५||
निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः |
उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा ||६६||
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा |
ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा ||६७||
न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात् |
आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् ||६८||
उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः |
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि ||६९||
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् |
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ||७०||
ब्रह्मदत्त उवाच||
नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किञ्चन |
भयादेकतरान्नित्यं मृतकल्पा भवन्ति च ||७१||
पूजन्युवाच||
यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति |
क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः ||७२||
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते |
तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम् ||७३||
दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते |
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ||७४||
यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः |
हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः ||७५||
यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम् |
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ||७६||
पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम् |
परिणाममविज्ञाय तदन्तं तस्य जीवितम् ||७७||
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् |
उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते ||७८||
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु |
ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिञ्चनः ||७९||
तस्मात्संशयितेऽप्यर्थे कार्य एव पराक्रमः |
सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः ||८०||
विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् |
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ||८१||
निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः |
एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ||८२||
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते |
न विभीषयते कञ्चिद्भीषितो न बिभेति च ||८३||
नित्यं बुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते |
दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति ||८४||
गृहस्नेहावबद्धानां नराणामल्पमेधसाम् |
कुस्त्री खादति मांसानि माघमा सेगवामिव ||८५||
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे |
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ||८६||
उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् |
अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ||८७||
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे |
कृतमेतदनाहार्यं तव पुत्रेण पार्थिव ||८८||
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् |
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ||८९||
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः |
कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते ||९०||
कुमित्रे सङ्गतं नास्ति नित्यमस्थिरसौहृदे |
अवमानः कुसम्बन्धे भवत्यर्थविपर्यये ||९१||
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः |
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ||९२||
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः |
न चैव ह्यभिसम्बन्धो दरिद्रं यो बुभूषति ||९३||
भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः |
एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ ||९४||
अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात् |
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ||९५||
बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत् |
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ||९६||
दत्त्वाभयं यः स्वयमेव राजा; न तत्प्रमाणं कुरुते यथावत् |
स सर्वलोकादुपलभ्य पाप; मधर्मबुद्धिर्निरयं प्रयाति ||९७||
दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा |
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ||९८||
पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः |
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ||९९||
पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः |
तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः ||१००||
सम्भावयति मातेव दीनमभ्यवपद्यते |
दहत्यग्निरिवानिष्टान्यमयन्भवते यमः ||१०१||
इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः |
गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात् ||१०२||
यस्तु रञ्जयते राजा पौरजानपदान्गुणैः |
न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् ||१०३||
स्वयं समुपजानन्हि पौरजानपदक्रियाः |
स सुखं मोदते भूप इह लोके परत्र च ||१०४||
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः |
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ||१०५||
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् |
स सर्वयज्ञफलभाग्राजा लोके महीयते ||१०६||
बलिना विग्रहो राजन्न कथञ्चित्प्रशस्यते |
बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् ||१०७||
भीष्म उवाच||
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् |
राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् ||१०८||
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् |
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ||१०९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
138-अध्यायः
क्वणिक्वशत्रुंतपसंवादः
युधिष्ठिर उवाच||
युगक्षयात्परिक्षीणे धर्मे लोके च भारत |
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ||१||
भीष्म उवाच||
हन्त ते कथयिष्यामि नीतिमापत्सु भारत |
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ||२||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
भरद्वाजस्य संवादं राज्ञः शत्रुन्तपस्य च ||३||
राजा शत्रुन्तपो नाम सौवीराणां महारथः |
कणिङ्कमुपसङ्गम्य पप्रच्छार्थविनिश्चयम् ||४||
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते |
वर्धितं पालयेत्केन पालितं प्रणयेत्कथम् ||५||
तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः |
उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम् ||६||
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः |
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ||७||
नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः |
तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् ||८||
एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः |
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ||९||
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः |
कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ||१०||
मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः |
ततः सहायान्पक्षं च सर्वमेवानुसारयेत् ||११||
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् |
आपदां पदकालेषु कुर्वीत न विचारयेत् ||१२||
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः |
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ||१३||
सपत्नसहिते कार्ये कृत्वा सन्धिं न विश्वसेत् |
अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः ||१४||
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् |
नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ||१५||
यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् |
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ||१६||
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् |
अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ||१७||
वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः |
अथैनमागते काले भिन्द्याद्घटमिवाश्मनि ||१८||
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् |
न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम् ||१९||
नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् |
अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते ||२०||
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ||२०||
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः |
व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत् ||२१||
उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान् |
कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत् ||२२||
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः |
न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः ||२३||
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु |
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ||२४||
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् |
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ||२५||
पानमक्षास्तथा नार्यो मृगया गीतवादितम् |
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ||२६||
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् |
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ||२७||
देशं कालं समासाद्य विक्रमेत विचक्षणः |
देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् ||२८||
कालाकालौ सम्प्रधार्य बलाबलमथात्मनः |
परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् ||२९||
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति |
स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा ||३०||
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः |
आमः स्यात्पक्वसङ्काशो न च शीर्येत कस्यचित् ||३१||
आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् |
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ||३२||
भीतवत्संविधातव्यं यावद्भयमनागतम् |
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ||३३||
न संशयमनारुह्य नरो भद्राणि पश्यति |
संशयं पुनरारुह्य यदि जीवति पश्यति ||३४||
अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम् |
पुनर्वृद्धिक्षयात्किञ्चिदभिवृत्तं निशामयेत् ||३५||
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् |
अनागतसुखाशा च नैष बुद्धिमतां नयः ||३६||
योऽरिणा सह सन्धाय सुखं स्वपिति विश्वसन् |
स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते ||३७||
कर्मणा येन तेनेह मृदुना दारुणेन वा |
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ||३८||
ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत् |
आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः ||३९||
चारः सुविहितः कार्य आत्मनोऽथ परस्य च |
पाषण्डांस्तापसादींश्च परराष्ट्रं प्रवेशयेत् ||४०||
उद्यानेषु विहारेषु प्रपास्वावसथेषु च |
पानागारेषु वेशेषु तीर्थेषु च सभासु च ||४१||
धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः |
समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि ||४२||
न विश्वसेदविश्वस्ते विश्वस्ते नापि विश्वसेत् |
विश्वस्तं भयमन्वेति नापरीक्ष्य च विश्वसेत् ||४३||
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना |
अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे ||४४||
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् |
भयं हि शङ्किताज्जातं समूलमपि कृन्तति ||४५||
अवधानेन मौनेन काषायेण जटाजिनैः |
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ||४६||
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् |
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः ||४७||
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः |
उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् ||४८||
प्रत्युत्थानाभिवादाभ्यां सम्प्रदानेन कस्यचित् |
प्रतिपुष्कलघाती स्यात्तीक्ष्णतुण्ड इव द्विजः ||४९||
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् |
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् ||५०||
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते |
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ||५१||
अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि |
दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ||५२||
सङ्ग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता |
निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ||५३||
प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् |
अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा ||५४||
निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया |
आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता ||५५||
न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् |
अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् ||५६||
दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ||५६||
त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च |
अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत् ||५७||
ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च |
पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः ||५८||
वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः |
आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ||५९||
नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत् |
कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् ||६०||
वधेन च मनुष्याणां मार्गाणां दूषणेन च |
आकराणां विनाशैश्च परराष्ट्रं विनाशयेत् ||६१||
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः |
अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत् ||६२||
श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च |
अमात्यान्परिरक्षेत भेदसङ्घातयोरपि ||६३||
मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च |
तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत् ||६४||
मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् |
नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरं मृदु ||६५||
काले मृदुर्यो भवति काले भवति दारुणः |
स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ||६६||
पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत् |
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ||६७||
न तत्तरेद्यस्य न पारमुत्तरे; न्न तद्धरेद्यत्पुनराहरेत्परः |
न तत्खनेद्यस्य न मूलमुत्खने; न्न तं हन्याद्यस्य शिरो न पातयेत् ||६८||
इतीदमुक्तं वृजिनाभिसंहितं; न चैतदेवं पुरुषः समाचरेत् |
परप्रयुक्तं तु कथं निशामये; दतो मयोक्तं भवतो हितार्थिना ||६९||
यथावदुक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीरराष्ट्रियः |
तथाकरोद्वाक्यमदीनचेतनः; श्रियं च दीप्तां बुभुजे सबान्धवः ||७०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
139-अध्यायः
विश्वामित्रश्वपचसंवादः
युधिष्ठिर उवाच||
हीने परमके धर्मे सर्वलोकातिलङ्घिनि |
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ||१||
मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये |
राजभिः पीडिते लोके चोरैर्वापि विशां पते ||२||
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च |
कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत ||३||
अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव |
निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् ||४||
सम्प्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते |
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ||५||
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने |
केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ||६||
अतित्यक्षुः पुत्रपौत्राननुक्रोशान्नराधिप |
कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह ||७||
कथं च राजा वर्तेत लोके कलुषतां गते |
कथमर्थाच्च धर्माच्च न हीयेत परन्तप ||८||
भीष्म उवाच||
राजमूला महाराज योगक्षेमसुवृष्टयः |
प्रजासु व्याधयश्चैव मरणं च भयानि च ||९||
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ |
राजमूलानि सर्वाणि मम नास्त्यत्र संशयः ||१०||
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके |
विज्ञानबलमास्थाय जीवितव्यं तदा भवेत् ||११||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ||१२||
त्रेताद्वापरयोः सन्धौ पुरा दैवविधिक्रमात् |
अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी ||१३||
प्रजानामभिवृद्धानां युगान्ते पर्युपस्थिते |
त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने ||१४||
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः |
जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः ||१५||
नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः |
नद्यः सङ्क्षिप्ततोयौघाः क्वचिदन्तर्गताभवन् ||१६||
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च |
हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात् ||१७||
उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा |
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ||१८||
उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा |
निवृत्तपूगसमया सम्प्रनष्टमहोत्सवा ||१९||
अस्थिकङ्कालसङ्कीर्णा हाहाभूतजनाकुला |
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ||२०||
क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः |
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ||२१||
गतदैवतसङ्कल्पा वृद्धबालविनाकृता |
गोजाविमहिषैर्हीना परस्परहराहरा ||२२||
हतविप्रा हतारक्षा प्रनष्टौषधिसञ्चया |
श्यावभूतनरप्राया बभूव वसुधा तदा ||२३||
तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर |
बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् ||२४||
ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदैवताः |
आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः ||२५||
विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः |
क्षुधा परिगतो धीमान्समन्तात्पर्यधावत ||२६||
स कदाचित्परिपतञ्श्वपचानां निवेशनम् |
हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित् ||२७||
विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम् |
वराहखरभग्नास्थिकपालघटसङ्कुलम् ||२८||
मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् |
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् ||२९||
उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम् |
लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ||३०||
तत्प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महानृषिः |
आहारान्वेषणे युक्तः परं यत्नं समास्थितः ||३१||
न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः |
मांसमन्नं मूलफलमन्यद्वा तत्र किञ्चन ||३२||
अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः |
पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ||३३||
चिन्तयामास स मुनिः किं नु मे सुकृतं भवेत् |
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ||३४||
स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः |
चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च ||३५||
स चिन्तयामास तदा स्तेयं कार्यमितो मया |
न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे ||३६||
आपत्सु विहितं स्तेयं विशिष्टसमहीनतः |
परं परं भवेत्पूर्वमस्तेयमिति निश्चयः ||३७||
हीनादादेयमादौ स्यात्समानात्तदनन्तरम् |
असम्भवादाददीत विशिष्टादपि धार्मिकात् ||३८||
सोऽहमन्तावसानानां हरमाणः परिग्रहात् |
न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ||३९||
एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः |
तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत ||४०||
स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे |
शनैरुत्थाय भगवान्प्रविवेश कुटीमठम् ||४१||
स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः |
परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः ||४२||
कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे |
जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः ||४३||
विश्वामित्रोऽहमित्येव सहसा तमुवाच सः |
सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा ||४४||
चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः |
शयनादुपसम्भ्रान्त इयेषोत्पतितुं ततः ||४५||
स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः |
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ||४६||
विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् |
क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् ||४७||
अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा |
स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ||४८||
अटन्भैक्षं न विन्दामि यदा युष्माकमालये |
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ||४९||
तृषितः कलुषं पाता नास्ति ह्रीरशनार्थिनः |
क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम् ||५०||
अग्निर्मुखं पुरोधाश्च देवानां शुचिपाद्विभुः |
यथा स सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ||५१||
तमुवाच स चण्डालो महर्षे शृणु मे वचः |
श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे ||५२||
मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः |
तस्याप्यधम उद्देशः शरीरस्योरुजाघनी ||५३||
नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम् |
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ||५४||
साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे |
न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ||५५||
जानतोऽविहितो मार्गो न कार्यो धर्मसङ्करः |
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ||५६||
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ |
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ||५७||
निराहारस्य सुमहान्मम कालोऽभिधावतः |
न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे ||५८||
येन तेन विशेषेण कर्मणा येन केनचित् |
अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् ||५९||
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः |
ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा ||६०||
यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडया |
जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ||६१||
सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम् |
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ||६२||
जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि च |
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ||६३||
श्वपच उवाच||
नैतत्खादन्प्राप्स्यसे प्राणमन्यं; नायुर्दीर्घं नामृतस्येव तृप्तिम् |
भिक्षामन्यां भिक्ष मा ते मनोऽस्तु; श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् ||६४||
विश्वामित्र उवाच||
न दुर्भिक्षे सुलभं मांसमन्य; च्छ्वपाक नान्नं न च मेऽस्ति वित्तम् |
क्षुधार्तश्चाहमगतिर्निराशः; श्वमांसे चास्मिन्षड्रसान्साधु मन्ये ||६५||
श्वपच उवाच||
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज |
यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः ||६६||
विश्वामित्र उवाच||
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै |
अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ||६७||
श्वपच उवाच||
भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि |
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ||६८||
विश्वामित्र उवाच||
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये |
परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् ||६९||
श्वपच उवाच||
असता यत्समाचीर्णं न स धर्मः सनातनः |
नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः ||७०||
विश्वामित्र उवाच||
न पातकं नावमतमृषिः सन्कर्तुमर्हसि |
समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी ||७१||
श्वपच उवाच||
यद्ब्राह्मणार्थे कृतमर्थितेन; तेनर्षिणा तच्च भक्ष्याधिकारम् |
स वै धर्मो यत्र न पापमस्ति; सर्वैरुपायैर्हि स रक्षितव्यः ||७२||
विश्वामित्र उवाच||
मित्रं च मे ब्राह्मणश्चायमात्मा; प्रियश्च मे पूज्यतमश्च लोके |
तं भर्तुकामोऽहमिमां हरिष्ये; नृशंसानामीदृशानां न बिभ्ये ||७३||
श्वपच उवाच||
कामं नरा जीवितं सन्त्यजन्ति; न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र |
सर्वान्कामान्प्राप्नुवन्तीह विद्व; न्प्रियस्व कामं सहितः क्षुधा वै ||७४||
विश्वामित्र उवाच||
स्थाने तावत्संशयः प्रेत्यभावे; निःसंशयं कर्मणां वा विनाशः |
अहं पुनर्वर्त इत्याशयात्मा; मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम् ||७५||
बुद्ध्यात्मके व्यस्तमस्तीति तुष्टो; मोहादेकत्वं यथा चर्म चक्षुः |
यद्यप्येनः संशयादाचरामि; नाहं भविष्यामि यथा त्वमेव ||७६||
श्वपच उवाच||
पतनीयमिदं दुःखमिति मे वर्तते मतिः |
दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे ||७७||
विश्वामित्र उवाच||
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि |
न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ||७८||
श्वपच उवाच||
सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज |
तदेवं श्रेय आधत्स्व मा लोभाच्छ्वानमादिथाः ||७९||
विश्वामित्र उवाच||
सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर |
जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् ||८०||
श्वपच उवाच||
नैवोत्सहे भवते दातुमेतां; नोपेक्षितुं ह्रियमाणं स्वमन्नम् |
उभौ स्यावः स्वमलेनावलिप्तौ; दाताहं च त्वं च विप्र प्रतीच्छन् ||८१||
विश्वामित्र उवाच||
अद्याहमेतद्वृजिनं कर्म कृत्वा; जीवंश्चरिष्यामि महापवित्रम् |
प्रपूतात्मा धर्ममेवाभिपत्स्ये; यदेतयोर्गुरु तद्वै ब्रवीहि ||८२||
श्वपच उवाच||
आत्मैव साक्षी किल लोककृत्ये; त्वमेव जानासि यदत्र दुष्टम् |
यो ह्याद्रियेद्भक्ष्यमिति श्वमांसं; मन्ये न तस्यास्ति विवर्जनीयम् ||८३||
विश्वामित्र उवाच||
उपादाने खादने वास्य दोषः; कार्यो न्यायैर्नित्यमत्रापवादः |
यस्मिन्न हिंसा नानृते वाक्यलेशो; भक्ष्यक्रिया तत्र न तद्गरीयः ||८४||
श्वपच उवाच||
यद्येष हेतुस्तव खादनस्य; न ते वेदः कारणं नान्यधर्मः |
तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र; दोषं न पश्यामि यथेदमात्थ ||८५||
विश्वामित्र उवाच||
न पातकं भक्षणमस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः |
अन्योन्यकर्माणि तथा तथैव; न लेशमात्रेण कृत्यं हिनस्ति ||८६||
श्वपच उवाच||
अस्थानतो हीनतः कुत्सिताद्वा; तं विद्वांसं बाधते साधुवृत्तम् |
स्थानं पुनर्यो लभते निषङ्गा; त्तेनापि दण्डः सहितव्य एव ||८७||
भीष्म उवाच||
एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा |
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ||८८||
ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः |
सदारस्तामुपाकृत्य वने यातो महामुनिः ||८९||
एतस्मिन्नेव काले तु प्रववर्षाथ वासवः |
सञ्जीवयन्प्रजाः सर्वा जनयामास चौषधीः ||९०||
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः |
कालेन महता सिद्धिमवाप परमाद्भुताम् ||९१||
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः |
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ||९२||
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् |
जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति ||९३||
तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये |
बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना ||९४||