[highlight_content]

शान्तिपर्वम् अध्यायः 168-197

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

168-अध्यायः-मोक्षधर्मपर्व

सेनजित्पिङ्गलागीते

युधिष्ठिर उवाच||

धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः |

धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव ||१||

भीष्म उवाच||

सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः |

बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ||२||

यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् |

स तमेवाभिजानाति नान्यं भरतसत्तम ||३||

यथा यथा च पर्येति लोकतन्त्रमसारवत् |

तथा तथा विरागोऽत्र जायते नात्र संशयः ||४||

एवं व्यवसिते लोके बहुदोषे युधिष्ठिर |

आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः ||५||

युधिष्ठिर उवाच||

नष्टे धने वा दारे वा पुत्रे पितरि वा मृते |

यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह ||६||

भीष्म उवाच||

नष्टे धने वा दारे वा पुत्रे पितरि वा मृते |

अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् ||७||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः ||८||

पुत्रशोकाभिसन्तप्तं राजानं शोकविह्वलम् |

विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत् ||९||

किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि |

यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् ||१०||

त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते |

सर्वे तत्र गमिष्यामो यत एवागता वयम् ||११||

सेनजिदुवाच||

का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन |

किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि ||१२||

ब्राह्मण उवाच||

पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः |

आत्मापि चायं न मम सर्वा वा पृथिवी मम ||१३||

यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा |

एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे ||१४||

यथा काष्ठं च काष्ठं च समेयातां महोदधौ |

समेत्य च व्यपेयातां तद्वद्भूतसमागमः ||१५||

एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा |

तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ||१६||

अदर्शनादापतितः पुनश्चादर्शनं गतः |

न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि ||१७||

तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् |

सुखात्सञ्जायते दुःखमेवमेतत्पुनः पुनः ||१८||

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ||१८||

सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् |

न नित्यं लभते दुःखं न नित्यं लभते सुखम् ||१९||

नालं सुखाय सुहृदो नालं दुःखाय शत्रवः |

न च प्रज्ञालमर्थानां न सुखानामलं धनम् ||२०||

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये |

लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ||२१||

बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् |

दुर्बलं बलवन्तं च भागिनं भजते सुखम् ||२२||

धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च |

पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ||२३||

ये च मूढतमा लोके ये च बुद्धेः परं गताः |

ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ||२४||

अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे |

अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ||२५||

ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः |

तान्नैवार्था न चानर्था व्यथयन्ति कदाचन ||२६||

अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् |

तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च ||२७||

नित्यप्रमुदिता मूढा दिवि देवगणा इव |

अवलेपेन महता परिदृब्धा विचेतसः ||२८||

सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् |

भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे ||२९||

सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् |

प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ||३०||

शोकस्थानसहस्राणि हर्षस्थानशतानि च |

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||३१||

बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम् |

दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ||३२||

एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः |

उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति ||३३||

यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा |

आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् ||३४||

यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते |

कामानुसारी पुरुषः कामाननु विनश्यति ||३५||

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् |

तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ||३६||

पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् |

प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् ||३७||

एवमेव किलैतानि प्रियाण्येवाप्रियाणि च |

जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ||३८||

तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः |

सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः ||३९||

वृत्त एष हृदि प्रौढो मृत्युरेष मनोमयः ||३९||

यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः |

तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति ||४०||

किञ्चिदेव ममत्वेन यदा भवति कल्पितम् |

तदेव परितापार्थं सर्वं सम्पद्यते तदा ||४१||

न बिभेति यदा चायं यदा चास्मान्न बिभ्यति |

यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ||४२||

उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये |

प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि ||४३||

यदा न कुरुते धीरः सर्वभूतेषु पापकम् |

कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ||४४||

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः |

योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||४५||

अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव |

यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् ||४६||

सङ्केते पिङ्गला वेश्या कान्तेनासीद्विनाकृता |

अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा ||४७||

पिङ्गलोवाच||

उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम् |

अन्तिके रमणं सन्तं नैनमध्यगमं पुरा ||४८||

एकस्थूणं नवद्वारमपिधास्याम्यगारकम् |

का हि कान्तमिहायान्तमयं कान्तेति मंस्यते ||४९||

अकामाः कामरूपेण धूर्ता नरकरूपिणः |

न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि ||५०||

अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा |

सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया ||५१||

सुखं निराशः स्वपिति नैराश्यं परमं सुखम् |

आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला ||५२||

भीष्म उवाच||

एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः |

पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् ||५३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

169-अध्यायः

पितापुत्रसंवादः

युधिष्ठिर उवाच||

अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे |

किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर ||२||

द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै |

बभूव पुत्रो मेधावी मेधावी नाम नामतः ||३||

सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् |

मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः ||४||

धीरः किं स्वित्तात कुर्यात्प्रजान; न्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् |

पितस्तदाचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम् ||५||

पितोवाच||

वेदानधीत्य ब्रह्मचर्येण पुत्र; पुत्रानिच्छेत्पावनार्थं पितॄणाम् |

अग्नीनाधाय विधिवच्चेष्टयज्ञो; वनं प्रविश्याथ मुनिर्बुभूषेत् ||६||

पुत्र उवाच||

एवमभ्याहते लोके समन्तात्परिवारिते |

अमोघासु पतन्तीषु किं धीर इव भाषसे ||७||

पितोवाच||

कथमभ्याहतो लोकः केन वा परिवारितः |

अमोघाः काः पतन्तीह किं नु भीषयसीव माम् ||८||

पुत्र उवाच||

मृत्युनाभ्याहतो लोको जरया परिवारितः |

अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे ||९||

यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह |

सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन् ||१०||

रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा |

गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ||११||

तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः ||११||

अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् |

शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम् ||१२||

वृकीवोरणमासाद्य मृत्युरादाय गच्छति ||१२||

अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् |

अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ||१३||

श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् |

न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ||१४||

को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते ||१४||

युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् |

कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ||१५||

मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः |

कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ||१६||

तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् |

सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति ||१७||

सञ्चिन्वानकमेवैकं कामानामवितृप्तकम् |

व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ||१८||

इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् |

एवमीहासुखासक्तं कृतान्तः कुरुते वशे ||१९||

कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम् |

क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ||२०||

मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् |

अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ||२१||

जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् |

अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ||२२||

मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः |

देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ||२३||

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः |

छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ||२४||

न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः |

जीवितार्थापनयनैः कर्मभिर्न स बध्यते ||२५||

न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते |

ऋते सत्यमसन्त्याज्यं सत्ये ह्यमृतमाश्रितम् ||२६||

तस्मात्सत्यव्रताचारः सत्ययोगपरायणः |

सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत् ||२७||

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् |

मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् ||२८||

सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः |

समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत् ||२९||

शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः |

वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने ||३०||

पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति |

अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् ||३१||

यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा |

तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात् ||३२||

नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं बलम् |

नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ||३३||

आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा |

आत्मन्येव भविष्यामि न मां तारयति प्रजा ||३४||

नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च |

शीले स्थितिर्दण्डनिधानमार्जवं; ततस्ततश्चोपरमः क्रियाभ्यः ||३५||

किं ते धनैर्बान्धवैर्वापि किं ते; किं ते दारैर्ब्राह्मण यो मरिष्यसि |

आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहस्ते क्व गतः पिता च ||३६||

भीष्म उवाच||

पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप |

तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ||३७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

170-अध्यायः

शम्याकगीता

युधिष्ठिर उवाच||

धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः |

सुखदुःखागमस्तेषां कः कथं वा पितामह ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह ||२||

अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः |

क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया ||३||

उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् |

विविधान्युपवर्तन्ते दुःखानि च सुखानि च ||४||

तयोरेकतरे मार्गे यद्येनमभिसंनयेत् |

न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य सञ्ज्वरेत् ||५||

न वै चरसि यच्छ्रेय आत्मनो वा यदीहसे |

अकामात्मापि हि सदा धुरमुद्यम्य चैव हि ||६||

अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि |

अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव हि ||७||

आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् |

अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम् ||८||

अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वशः |

अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमुपलक्षये ||९||

आकिञ्चन्यं च राज्यं च तुलया समतोलयम् |

अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ||१०||

आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् |

नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ||११||

नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः |

प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः ||१२||

तं वै सदा कामचरमनुपस्तीर्णशायिनम् |

बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः ||१३||

धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः |

तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः ||१४||

निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता |

कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ||१५||

श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् |

सा तस्य चित्तं हरति शारदाभ्रमिवानिलः ||१६||

अथैनं रूपमानश्च धनमानश्च विन्दति |

अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ||१७||

इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते ||१७||

स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान् |

परिक्षीणः परस्वानामादानं साधु मन्यते ||१८||

तमतिक्रान्तमर्यादमाददानं ततस्ततः |

प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ||१९||

एवमेतानि दुःखानि तानि तानीह मानवम् |

विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च ||२०||

तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् |

लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह ||२१||

नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् |

नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ||२२||

इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् |

शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

171-अध्यायः

मङ्किगीता

युधिष्ठिर उवाच||

ईहमानः समारम्भान्यदि नासादयेद्धनम् |

धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ||१||

भीष्म उवाच||

सर्वसाम्यमनायासः सत्यवाक्यं च भारत |

निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः ||२||

एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये |

एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ||३||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ||४||

ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः |

केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम् ||५||

सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ |

आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ||६||

तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः |

उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः ||७||

ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना |

म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ||८||

न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् |

युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ||९||

कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः |

इमं पश्यत सङ्गत्या मम दैवमुपप्लवम् ||१०||

उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति |

उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ||११||

मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम |

शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् ||१२||

यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् |

अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ||१३||

तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता |

सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ||१४||

अहो सम्यक्षुकेनोक्तं सर्वतः परिमुच्यता |

प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ||१५||

यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् |

प्रापणात्सर्वकामानां परित्यागो विशिष्यते ||१६||

नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन |

शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते ||१७||

निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक |

असकृच्चासि निकृतो न च निर्विद्यसे तनो ||१८||

यदि नाहं विनाश्यस्ते यद्येवं रमसे मया |

मा मां योजय लोभेन वृथा त्वं वित्तकामुक ||१९||

सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः |

कदा विमोक्ष्यसे मूढ धनेहां धनकामुक ||२०||

अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव |

किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् ||२१||

न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् |

त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ||२२||

नूनं ते हृदयं काम वज्रसारमयं दृधम् |

यदनर्थशताविष्टं शतधा न विदीर्यते ||२३||

त्यजामि काम त्वां चैव यच्च किञ्चित्प्रियं तव |

तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् ||२४||

काम जानामि ते मूलं सङ्कल्पात्किल जायसे |

न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यसि ||२५||

ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी |

लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा ||२६||

परेत्य यो न लभते ततो दुःखतरं नु किम् |

न च तुष्यति लब्धेन भूय एव च मार्गति ||२७||

अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् |

मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज ||२८||

य इमं मामकं देहं भूतग्रामः समाश्रितः |

स यात्वितो यथाकामं वसतां वा यथासुखम् ||२९||

न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु |

तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् ||३०||

सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः |

योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् ||३१||

विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः |

यथा मा त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि ||३२||

त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते |

तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा ||३३||

धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् |

ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् ||३४||

अवज्ञानसहस्रैस्तु दोषाः कष्टतराधने |

धने सुखकला या च सापि दुःखैर्विधीयते ||३५||

धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः |

क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च ||३६||

मन्दलोलुपता दुःखमिति बुद्धं चिरान्मया |

यद्यदालम्बसे काम तत्तदेवानुरुध्यसे ||३७||

अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः |

नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ||३८||

पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि |

नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया ||३९||

निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया |

निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये ||४०||

अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् |

निकृतो धननाशेन शये सर्वाङ्गविज्वरः ||४१||

परित्यजामि काम त्वां हित्वा सर्वमनोगतीः |

न त्वं मया पुनः काम नस्योतेनेव रंस्यसे ||४२||

क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः |

द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ||४३||

तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् |

न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ||४४||

निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् |

सर्वभूतदयां चैव विद्धि मां शरणागतम् ||४५||

तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च |

त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम् ||४६||

प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च |

नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ||४७||

यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते |

कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ||४८||

कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः |

कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ||४९||

एष ब्रह्मप्रविष्टोऽहं ग्रीष्मे शीतमिव ह्रदम् |

शाम्यामि परिनिर्वामि सुखमासे च केवलम् ||५०||

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् |

तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ||५१||

आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् |

प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी ||५२||

एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः |

सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ||५३||

दम्यनाशकृते मङ्किरमरत्वं किलागमत् |

अच्छिनत्काममूलं स तेन प्राप महत्सुखम् ||५४||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

गीतं विदेहराजेन जनकेन प्रशाम्यता ||५५||

अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन |

मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ||५६||

अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् |

निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर ||५७||

बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत |

निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञानतर्पितम् ||५८||

उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे |

कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः ||५९||

बोध्य उवाच||

उपदेशेन वर्तामि नानुशास्मीह कञ्चन |

लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम् ||६०||

पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने |

इषुकारः कुमारी च षडेते गुरवो मम ||६१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

172-अध्यायः

प्रह्रादाजगरसंवादः

युधिष्ठिर उवाच||

केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् |

किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम् ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

प्रह्रादस्य च संवादं मुनेराजगरस्य च ||२||

चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम् |

पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसंमतः ||३||

स्वस्थः शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः |

सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ||४||

नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि |

नित्यतृप्त इव ब्रह्मन्न किञ्चिदवमन्यसे ||५||

स्रोतसा ह्रियमाणासु प्रजास्वविमना इव |

धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ||६||

नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे |

इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ||७||

का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने |

क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ||८||

अनुयुक्तः स मेधावी लोकधर्मविधानवित् |

उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया ||९||

पश्यन्प्रह्राद भूतानामुत्पत्तिमनिमित्ततः |

ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ||१०||

स्वभावादेव संदृश्य वर्तमानाः प्रवृत्तयः |

स्वभावनिरताः सर्वाः परितप्ये न केनचित् ||११||

पश्यन्प्रह्राद संयोगान्विप्रयोगपरायणान् |

सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ||१२||

अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः |

उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते ||१३||

जलजानामपि ह्यन्तं पर्यायेणोपलक्षये |

महतामपि कायानां सूक्ष्माणां च महोदधौ ||१४||

जङ्गमस्थावराणां च भूतानामसुराधिप |

पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ||१५||

अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम् |

उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि ||१६||

दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च |

ज्योतींषि च यथाकालं पतमानानि लक्षये ||१७||

इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना |

सर्वसामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ||१८||

सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया |

शये पुनरभुञ्जानो दिवसानि बहून्यपि ||१९||

आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु |

पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते ||२०||

कणान्कदाचित्खादामि पिण्याकमपि च ग्रसे |

भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ||२१||

शये कदाचित्पर्यङ्के भूमावपि पुनः शये |

प्रासादेऽपि च मे शय्या कदाचिदुपपद्यते ||२२||

धारयामि च चीराणि शाणीं क्षौमाजिनानि च |

महार्हाणि च वासांसि धारयाम्यहमेकदा ||२३||

न संनिपतितं धर्म्यमुपभोगं यदृच्छया |

प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ||२४||

अचलमनिधनं शिवं विशोकं; शुचिमतुलं विदुषां मते निविष्टम् |

अनभिमतमसेवितं च मूढै; र्व्रतमिदमाजगरं शुचिश्चरामि ||२५||

अचलितमतिरच्युतः स्वधर्मा; त्परिमितसंसरणः परावरज्ञः |

विगतभयकषायलोभमोहो; व्रतमिदमाजगरं शुचिश्चरामि ||२६||

अनियतफलभक्ष्यभोज्यपेयं; विधिपरिणामविभक्तदेशकालम् |

हृदयसुखमसेवितं कदर्यै; र्व्रतमिदमाजगरं शुचिश्चरामि ||२७||

इदमिदमिति तृष्णयाभिभूतं; जनमनवाप्तधनं विषीदमानम् |

निपुणमनुनिशाम्य तत्त्वबुद्ध्या; व्रतमिदमाजगरं शुचिश्चरामि ||२८||

बहुविधमनुदृश्य चार्थहेतोः; कृपणमिहार्यमनार्यमाश्रयन्तम् |

उपशमरुचिरात्मवान्प्रशान्तो; व्रतमिदमाजगरं शुचिश्चरामि ||२९||

सुखमसुखमनर्थमर्थलाभं; रतिमरतिं मरणं च जीवितं च |

विधिनियतमवेक्ष्य तत्त्वतोऽहं; व्रतमिदमाजगरं शुचिश्चरामि ||३०||

अपगतभयरागमोहदर्पो; धृतिमतिबुद्धिसमन्वितः प्रशान्तः |

उपगतफलभोगिनो निशाम्य; व्रतमिदमाजगरं शुचिश्चरामि ||३१||

अनियतशयनासनः प्रकृत्या; दमनियमव्रतसत्यशौचयुक्तः |

अपगतफलसञ्चयः प्रहृष्टो; व्रतमिदमाजगरं शुचिश्चरामि ||३२||

अभिगतमसुखार्थमीहनार्थै; रुपगतबुद्धिरवेक्ष्य चात्मसंस्थः |

तृषितमनियतं मनो नियन्तुं; व्रतमिदमाजगरं शुचिश्चरामि ||३३||

न हृदयमनुरुध्यते मनो वा; प्रियसुखदुर्लभतामनित्यतां च |

तदुभयमुपलक्षयन्निवाहं; व्रतमिदमाजगरं शुचिश्चरामि ||३४||

बहु कथितमिदं हि बुद्धिमद्भिः; कविभिरभिप्रथयद्भिरात्मकीर्तिम् |

इदमिदमिति तत्र तत्र तत्त; त्स्वपरमतैर्गहनं प्रतर्कयद्भिः ||३५||

तदहमनुनिशाम्य विप्रयातं; पृथगभिपन्नमिहाबुधैर्मनुष्यैः |

अनवसितमनन्तदोषपारं; नृषु विहरामि विनीतरोषतृष्णः ||३६||

भीष्म उवाच||

अजगरचरितं व्रतं महात्मा; य इह नरोऽनुचरेद्विनीतरागः |

अपगतभयमन्युलोभमोहः; स खलु सुखी विहरेदिमं विहारम् ||३७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

173-अध्यायः

कश्यपसृगालसंवादः

युधिष्ठिर उवाच||

बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह |

नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ||१||

भीष्म उवाच||

प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः |

प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ||२||

प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये |

प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ||३||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ||४||

वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम् |

रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ||५||

आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत् |

मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ||६||

तथा मुमूर्षुमासीनमकूजन्तमचेतसम् |

इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम् ||७||

मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः |

मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ||८||

मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप |

सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि ||९||

सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः |

सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ||१०||

अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः |

पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै ||११||

न पाणिलाभादधिको लाभः कश्चन विद्यते |

अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे ||१२||

अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली |

उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च ||१३||

हिमवर्षातपानां च परित्राणानि कुर्वते |

चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ||१४||

अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च |

उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ||१५||

ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः |

सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ||१६||

दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः |

न सर्पो न च मण्डूको न चान्यः पापयोनिजः ||१७||

एतावतापि लाभेन तोष्टुमर्हसि काश्यप |

किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः ||१८||

इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे |

नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ||१९||

अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम् |

नेतः पापीयसीं योनिं पतेयमपरामिति ||२०||

मध्ये वै पापयोनीनां सार्गाली यामहं गतः |

पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ||२१||

जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः |

नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित् ||२२||

मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् |

राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ||२३||

भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् |

देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ||२४||

न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति |

सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः ||२५||

अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि |

सुखदुःखे तथा चोभे तत्र का परिदेवना ||२६||

परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् |

मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ||२७||

न खल्वप्यरसज्ञस्य कामः क्वचन जायते |

संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ||२८||

न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् |

ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ||२९||

यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप |

येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च ||३०||

अप्राशनमसंस्पर्शमसंदर्शनमेव च |

पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ||३१||

पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः |

मनुष्या मानुषैरेव दासत्वमुपपादिताः ||३२||

वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः |

ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ||३३||

अपरे बाहुबलिनः कृतविद्या मनस्विनः |

जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते ||३४||

उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् |

स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ||३५||

न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति |

असन्तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ||३६||

दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः |

सुसम्पूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप ||३७||

यदि ब्राह्मण देहस्ते निरातङ्को निरामयः |

अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ||३८||

न केनचित्प्रवादेन सत्येनैवापहारिणा |

धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ||३९||

यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः |

वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि ||४०||

स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय |

सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ||४१||

ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् |

कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम् ||४२||

इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः |

उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः ||४३||

नक्षत्रेष्वासुरेष्वन्ये दुस्तीर्था दुर्मुहूर्तजाः |

सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम् ||४४||

अहमासं पण्डितको हैतुको वेदनिन्दकः |

आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ||४५||

हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् |

आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् ||४६||

नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः |

तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ||४७||

अपि जातु तथा तत्स्यादहोरात्रशतैरपि |

यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ||४८||

सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः |

ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा ||४९||

ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह |

अहो बतासि कुशलो बुद्धिमानिति विस्मितः ||५०||

समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा |

ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम् ||५१||

ततः सम्पूजयामास काश्यपो हरिवाहनम् |

अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम् ||५२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

174-अध्यायः

युधिष्ठिर उवाच||

यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च |

गुरूणां चापि शुश्रूषा तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

आत्मनानर्थयुक्तेन पापे निविशते मनः |

स कर्म कलुषं कृत्वा क्लेशे महति धीयते ||२||

दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् |

मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः ||३||

उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् |

श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः ||४||

व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च |

हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ||५||

प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः |

क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् ||६||

पुलाका इव धान्येषु पुत्तिका इव पक्षिषु |

तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ||७||

सुशीघ्रमपि धावन्तं विधानमनुधावति |

शेते सह शयानेन येन येन यथा कृतम् ||८||

उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति |

करोति कुर्वतः कर्म छायेवानुविधीयते ||९||

येन येन यथा यद्यत्पुरा कर्म समाचितम् |

तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ||१०||

स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम् |

भूतग्राममिमं कालः समन्तात्परिकर्षति ||११||

अचोद्यमानानि यथा पुष्पाणि च फलानि च |

स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ||१२||

संमानश्चावमानश्च लाभालाभौ क्षयोदयौ |

प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः ||१३||

आत्मना विहितं दुःखमात्मना विहितं सुखम् |

गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ||१४||

बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् |

तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ||१५||

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् |

तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ||१६||

समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा |

उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् ||१७||

दीर्घकालेन तपसा सेवितेन तपोवने |

धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः ||१८||

शकुनीनामिवाकाशे मत्स्यानामिव चोदके |

पदं यथा न दृश्येत तथा ज्ञानविदां गतिः ||१९||

अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः |

पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

175-अध्यायः

भृगुभरद्वाजसंवादः

युधिष्ठिर उवाच||

कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम् |

प्रलये च कमभ्येति तन्मे ब्रूहि पितामह ||१||

ससागरः सगगनः सशैलः सबलाहकः |

सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ||२||

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः |

शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ||३||

कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः |

अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ||४||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते ||५||

कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा |

भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ||६||

ससागरः सगगनः सशैलः सबलाहकः |

सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ||७||

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः |

शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ||८||

कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः |

परलोकमिमं चापि सर्वं शंसतु नो भवान् ||९||

एवं स भगवान्पृष्टो भरद्वाजेन संशयम् |

महर्षिर्ब्रह्मसङ्काशः सर्वं तस्मै ततोऽब्रवीत् ||१०||

मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः |

अनादिनिधनो देवस्तथाभेद्योऽजरामरः ||११||

अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः |

यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ||१२||

सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः |

आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ||१३||

आकाशादभवद्वारि सलिलादग्निमारुतौ |

अग्निमारुतसंयोगात्ततः समभवन्मही ||१४||

ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा |

तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ||१५||

अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् |

ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः ||१६||

शैलास्तस्यास्थिसञ्ज्ञास्तु मेदो मांसं च मेदिनी |

समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ||१७||

पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः |

अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते ||१८||

नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ |

दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः ||१९||

स एव भगवान्विष्णुरनन्त इति विश्रुतः |

सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः ||२०||

अहङ्कारस्य यः स्रष्टा सर्वभूतभवाय वै |

यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ||२१||

भरद्वाज उवाच||

गगनस्य दिशां चैव भूतलस्यानिलस्य च |

कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः ||२२||

भृगुरुवाच||

अनन्तमेतदाकाशं सिद्धचारणसेवितम् |

रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते ||२३||

ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः |

तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः ||२४||

ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः |

दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद ||२५||

उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयम्प्रभैः |

निरुद्धमेतदाकाशमप्रमेयं सुरैरपि ||२६||

पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् |

तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ||२७||

रसातलान्ते सलिलं जलान्ते पन्नगाधिपः |

तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ||२८||

एवमन्तं भगवतः प्रमाणं सलिलस्य च |

अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ||२९||

अग्निमारुततोयानां वर्णाः क्षितितलस्य च |

आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात् ||३०||

पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च |

त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ||३१||

अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत् ||३१||

सिद्धानां देवतानां च यदा परिमिता गतिः |

तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् ||३२||

नामधेयानुरूपस्य मानसस्य महात्मनः ||३२||

यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः |

कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः ||३३||

ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः |

ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ||३४||

भरद्वाज उवाच||

पुष्कराद्यदि सम्भूतो ज्येष्ठं भवति पुष्करम् |

ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ||३५||

भृगुरुवाच||

मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता |

तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ||३६||

कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः |

तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः ||३७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

176-अध्यायः

भरद्वाज उवाच||

प्रजाविसर्गं विविधं कथं स सृजते प्रभुः |

मेरुमध्ये स्थितो ब्रह्मा तद्ब्रूहि द्विजसत्तम ||१||

भृगुरुवाच||

प्रजाविसर्गं विविधं मानसो मनसासृजत् |

सन्धुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ||२||

यत्प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः |

परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् ||३||

पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे |

सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे पुनः ||४||

भरद्वाज उवाच||

कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ |

कथं च मेदिनी सृष्टेत्यत्र मे संशयो महान् ||५||

भृगुरुवाच||

ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे |

लोकसम्भवसंदेहः समुत्पन्नो महात्मनाम् ||६||

तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः |

त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः ||७||

तेषां धर्ममयी वाणी सर्वेषां श्रोत्रमागमत् |

दिव्या सरस्वती तत्र सम्बभूव नभस्तलात् ||८||

पुरा स्तिमितनिःशब्दमाकाशमचलोपमम् |

नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ ||९||

ततः सलिलमुत्पन्नं तमसीवापरं तमः |

तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः ||१०||

यथा भाजनमच्छिद्रं निःशब्दमिव लक्ष्यते |

तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ||११||

तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे |

भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् ||१२||

स एष चरते वायुरर्णवोत्पीडसम्भवः |

आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ||१३||

तस्मिन्वाय्वम्बुसङ्घर्षे दीप्ततेजा महाबलः |

प्रादुर्भवत्यूर्ध्वशिखः कृत्वा वितिमिरं नभः ||१४||

अग्निः पवनसंयुक्तः खात्समुत्पतते जलम् |

सोऽग्निर्मारुतसंयोगाद्घनत्वमुपपद्यते ||१५||

तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः |

स सङ्घातत्वमापन्नो भूमित्वमुपगच्छति ||१६||

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा |

भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते ||१७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

177-अध्यायः

भरद्वाज उवाच||

एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा |

आवृता यैरिमे लोका महाभूताभिसञ्ज्ञितैः ||१||

यदासृजत्सहस्राणि भूतानां स महामतिः |

पञ्चानामेव भूतत्वं कथं समुपपद्यते ||२||

भृगुरुवाच||

अमितानां महाशब्दो यान्ति भूतानि सम्भवम् |

ततस्तेषां महाभूतशब्दोऽयमुपपद्यते ||३||

चेष्टा वयूः खमाकाशमूष्माग्निः सलिलं द्रवः |

पृथिवी चात्र सङ्घातः शरीरं पाञ्चभौतिकम् ||४||

इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् |

श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसञ्ज्ञिताः ||५||

भरद्वाज उवाच||

पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः |

स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ||६||

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः |

वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः ||७||

न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः |

न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः ||८||

अद्रवत्वादनग्नित्वादभौमत्वादवायुतः |

आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ||९||

भृगुरुवाच||

घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः |

तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते ||१०||

ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च |

म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते ||११||

वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते |

श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ||१२||

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति |

न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ||१३||

पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि |

अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ||१४||

पादैः सलिलपानं च व्याधीनामपि दर्शनम् |

व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ||१५||

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् |

तथा पवनसंयुक्तः पादैः पिबति पादपः ||१६||

ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात् |

जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ||१७||

तेन तज्जलमादत्तं जरयत्यग्निमारुतौ |

आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ||१८||

जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः |

प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ||१९||

त्वक्च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम् |

इत्येतदिह सङ्ख्यातं शरीरे पृथिवीमयम् ||२०||

तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च |

अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः ||२१||

श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च |

आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ||२२||

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च |

इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ||२३||

प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा |

गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः ||२४||

उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते |

इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ||२५||

भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् |

ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना ||२६||

तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् |

इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च ||२७||

निर्हारी संहतः स्निग्धो रूक्षो विशद एव च |

एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ||२८||

शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः |

रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ||२९||

रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः |

मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ||३०||

एष षड्विधविस्तारो रसो वारिमयः स्मृतः ||३०||

शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते |

ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ||३१||

ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणु वृत्तवान् |

शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ||३२||

एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः ||३२||

शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुरुच्यते |

वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ||३३||

कठिनश्चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः |

उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ||३४||

एवं द्वादशविस्तारो वायव्यो गुण उच्यते ||३४||

तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् |

तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ||३५||

षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा |

धैवतश्चापि विज्ञेयस्तथा चापि निषादकः ||३६||

एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः |

त्रैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु ||३७||

आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह |

अव्याहतैश्चेतयते न वेत्ति विषमागतैः ||३८||

आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः |

आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु ||३९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

178-अध्यायः

भरद्वाज उवाच||

पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत् |

अवकाशविशेषेण कथं वर्तयतेऽनिलः ||१||

भृगुरुवाच||

वायोर्गतिमहं ब्रह्मन्कीर्तयिष्यामि तेऽनघ |

प्राणिनामनिलो देहान्यथा चेष्टयते बली ||२||

श्रितो मूर्धानमग्निस्तु शरीरं परिपालयन् |

प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ||३||

स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः |

मनो बुद्धिरहङ्कारो भूतानि विषयाश्च सः ||४||

एवं त्विह स सर्वत्र प्राणेन परिपाल्यते |

पृष्ठतश्च समानेन स्वां स्वां गतिमुपाश्रितः ||५||

वस्तिमूलं गुदं चैव पावकं च समाश्रितः |

वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ||६||

प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते |

उदान इति तं प्राहुरध्यात्मविदुषो जनाः ||७||

सन्धिष्वपि च सर्वेषु संनिविष्टस्तथानिलः |

शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ||८||

धातुष्वग्निस्तु विततः समानेन समीरितः |

रसान्धातूंश्च दोषांश्च वर्तयन्नवतिष्ठति ||९||

अपानप्राणयोर्मध्ये प्राणापानसमाहितः |

समन्वितः स्वधिष्ठानः सम्यक्पचति पावकः ||१०||

आस्यं हि पायुसंयुक्तमन्ते स्याद्गुदसञ्ज्ञितम् |

स्रोतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् ||११||

प्राणानां संनिपाताच्च संनिपातः प्रजायते |

ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ||१२||

अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते |

स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ||१३||

पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयः स्थितः |

नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः ||१४||

प्रसृता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा |

वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ||१५||

एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम् |

जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ||१६||

एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् |

तस्मिन्स्थितो नित्यमग्निः स्थाल्यामिव समाहितः ||१७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

179-अध्यायः

भरद्वाज उवाच||

यदि प्राणायते वायुर्वायुरेव विचेष्टते |

श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः ||१||

यद्यूष्मभाव आग्नेयो वह्निना पच्यते यदि |

अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः ||२||

जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते |

वायुरेव जहात्येनमूष्मभावश्च नश्यति ||३||

यदि वातोपमो जीवः संश्लेषो यदि वायुना |

वायुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः ||४||

श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति |

महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् ||५||

कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने |

प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा ||६||

पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः |

येषामन्यतरत्यागाच्चतुर्णां नास्ति सङ्ग्रहः ||७||

नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् |

नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् ||८||

व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते |

पीडितेऽन्यतरे ह्येषां सङ्घातो याति पञ्चधा ||९||

तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति |

किं वेदयति वा जीवः किं शृणोति ब्रवीति वा ||१०||

एषा गौः परलोकस्थं तारयिष्यति मामिति |

यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ||११||

गौश्च प्रतिग्रहीता च दाता चैव समं यदा |

इहैव विलयं यान्ति कुतस्तेषां समागमः ||१२||

विहगैरुपयुक्तस्य शैलाग्रात्पतितस्य वा |

अग्निना चोपयुक्तस्य कुतः सञ्जीवनं पुनः ||१३||

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति |

बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति ||१४||

बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते |

मृता मृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते ||१५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

180-अध्यायः

भृगुरुवाच||

न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च |

याति देहान्तरं प्राणी शरीरं तु विशीर्यते ||१||

न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति |

यथा समित्सु दग्धासु न प्रणश्यति पावकः ||२||

भरद्वाज उवाच||

अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते |

इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते ||३||

नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् |

गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते ||४||

भृगुरुवाच||

समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते |

आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः ||५||

तथा शरीरसन्त्यागे जीवो ह्याकाशवत्स्थितः |

न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः ||६||

प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् |

वायुसन्धारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ||७||

तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम् |

पतितं याति भूमित्वमयनं तस्य हि क्षितिः ||८||

जङ्गमानां हि सर्वेषां स्थावराणां तथैव च |

आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति ||९||

तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम् ||९||

यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः |

अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः ||१०||

भरद्वाज उवाच||

यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु |

जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ||११||

पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते |

शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम् ||१२||

मांसशोणितसङ्घाते मेदःस्नाय्वस्थिसञ्चये |

भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ||१३||

यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् |

शारीरे मानसे दुःखे कस्तां वेदयते रुजम् ||१४||

शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् |

महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ||१५||

सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा |

मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति ||१६||

न पश्यति न च ब्रूते न शृणोति न जिघ्रति |

न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः ||१७||

हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः |

इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः ||१८||

भृगुरुवाच||

न पञ्चसाधारणमत्र किं चि; च्छरीरमेको वहतेऽन्तरात्मा |

स वेत्ति गन्धांश्च रसाञ्श्रुतिं च; स्पर्शं च रूपं च गुणाश्च येऽन्ये ||१९||

पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतोऽन्तरात्मा |

स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात्तु न वेत्ति देहः ||२०||

यदा न रूपं न स्पर्शो नोष्मभावश्च पावके |

तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति ||२१||

अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम् |

तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् ||२२||

आत्मानं तं विजानीहि सर्वलोकहितात्मकम् |

तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे ||२३||

क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् |

तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् ||२४||

सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् |

ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद्यो भुवनानि सप्त ||२५||

न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्मृत इत्यबुद्धाः |

जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः ||२६||

एवं सर्वेषु भूतेषु गूढश्चरति संवृतः |

दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ||२७||

तं पूर्वापररात्रेषु युञ्जानः सततं बुधः |

लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ||२८||

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् |

प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ||२९||

मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते |

सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ||३०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

181-अध्यायः

भृगुरुवाच||

असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः |

आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान् ||१||

ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् |

आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः ||२||

देवदानवगन्धर्वदैत्यासुरमहोरगाः |

यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ||३||

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम |

ये चान्ये भूतसङ्घानां सङ्घास्तांश्चापि निर्ममे ||४||

ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः |

वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा ||५||

भरद्वाज उवाच||

चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते |

सर्वेषां खलु वर्णानां दृश्यते वर्णसङ्करः ||६||

कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः |

सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते ||७||

स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् |

तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ||८||

जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः |

तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ||९||

भृगुरुवाच||

न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् |

ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् ||१०||

कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः |

त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ||११||

गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः |

स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ||१२||

हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः |

कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः ||१३||

इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः |

धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते ||१४||

वर्णाश्चत्वार एते हि येषां ब्राह्मी सरस्वती |

विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः ||१५||

ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति |

ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ||१६||

ब्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः |

तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः ||१७||

पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः |

प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः ||१८||

प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः |

ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः ||१९||

आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया |

सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

182-अध्यायः

भरद्वाज उवाच||

ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम |

वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ||१||

भृगुरुवाच||

जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः |

वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः ||२||

शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः |

नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ||३||

सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा |

तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ||४||

क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः |

दानादानरतिर्यश्च स वै क्षत्रिय उच्यते ||५||

कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः |

वेदाध्ययनसम्पन्नः स वैश्य इति सञ्ज्ञितः ||६||

सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः |

त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ||७||

शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते |

न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ||८||

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः |

एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः ||९||

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् |

विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ||१०||

यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह |

त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ||११||

अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत् |

अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः ||१२||

परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः |

अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम् ||१३||

तपोनित्येन दान्तेन मुनिना संयतात्मना |

अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ||१४||

इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः |

अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ||१५||

मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत् |

निर्वाणादेव निर्वाणो न च किञ्चिद्विचिन्तयेत् ||१६||

सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति ||१६||

शौचेन सततं युक्तस्तथाचारसमन्वितः |

सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ||१७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

183-अध्यायः

भृगुरुवाच||

सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः |

सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति ||१||

अनृतं तमसो रूपं तमसा नीयते ह्यधः |

तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम् ||२||

स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च |

सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः ||३||

तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत् |

धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा ||४||

तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति |

तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति ||५||

अत्रोच्यते

शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः |

लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः ||६||

तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः |

सुखं ह्यनित्यं भूतानामिह लोके परत्र च ||७||

राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते |

तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् ||८||

तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च

इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते |

न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति

स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः

सुखप्रयोजना भरद्वाज उवाच ||९||

यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः

न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो

न चैनमभिलषन्ति श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा

प्रभुरेकाकी तिष्ठति ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति

अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन

शममनयत् तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष

तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि भगवता तूक्तं

सुखानां परमाः स्त्रिय इति लोकप्रवादोऽपि च भवति द्विविधः

फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति अत्रोच्यताम्

भृगुरुवाच ||१०||

अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते

न धर्मम् क्रोधलोभमोहमानानृतादिभिरवच्छन्ना

न खल्वस्मिँल्लोके न चामुत्र सुखमाप्नुवन्ति

विविधव्याधिगणोपतापैरवकीर्यन्ते वधबन्धरोगपरिक्लेशादिभिश्च

क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते |

चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः

शारीरैर्दुःखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च

मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति ||११||

यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद |

न चैते दोषाः स्वर्गे प्रादुर्भवन्ति तत्र भवति खलु ||१२||

सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा |

क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् ||१३||

नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् |

नरके दुःखमेवाहुः समं तु परमं पदम् ||१४||

पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः |

पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः ||१५||

इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा |

प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः ||१६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

184-अध्यायः

भरद्वाज उवाच||

दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च |

तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च ||१||

भृगुरुवाच||

हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा |

दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात् ||२||

दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च |

सद्भ्यो यद्दीयते किञ्चित्तत्परत्रोपतिष्ठति ||३||

असत्सु दीयते यत्तु तद्दानमिह भुज्यते |

यादृशं दीयते दानं तादृशं फलमाप्यते ||४||

भरद्वाज उवाच||

किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् |

धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ||५||

भृगुरुवाच||

स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः |

तेषां धर्मफलावाप्तिर्योऽन्यथा स विमुह्यति ||६||

भरद्वाज उवाच||

यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा |

तेषां स्वे स्वे य आचारास्तान्मे वक्तुमिहार्हसि ||७||

भृगुरुवाच||

पूर्वमेव भगवता लोकहितमनुतिष्ठता

धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः

तत्र गुरुकुलवासमेव तावत्प्रथममाश्रममुदाहरन्ति

सम्यगत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे

सन्ध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तन्द्रालस्ये

गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा

त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यो

भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो

गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ||८||

भवति चात्र श्लोकः गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात् |

तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम् ||९||

गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति तस्य

समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः समावृत्तानां

सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते

धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्गसाधनमवेक्ष्यागर्हितेन कर्मणा

धनान्यादाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा

अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन

वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत् तद्धि

सर्वाश्रमाणां मूलमुदाहरन्ति गुरुकुलवासिनः परिव्राजका ये

चान्ये सङ्कल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव

भिक्षाबलिसंविभागाः प्रवर्तन्ते ||||१०||

वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्वेते साधवः

साधुपथ्यदर्शनाः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं

पृथिवीं पर्यटन्ति तेषां

प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्यवहारसत्क्रियाश्चेति

||११||

भवति चात्र श्लोकः अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते |

स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ||१२||

अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो

वेदाभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति ||१३||

श्लोकौ चात्र भवतः

वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः |

परिवादोपघातौ च पारुष्यं चात्र गर्हितम् ||१४||

अवज्ञानमहङ्कारो दम्भश्चैव विगर्हितः |

अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः ||१५||

अपि चात्र

माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिसुख-

नयनाभिरामसंदर्शनानां

प्राप्तिर्भक्ष्यभोज्यपेयलेह्यचोष्याणामभ्यवहार्याणां विविधानामुपभोगः

स्वदारविहारसन्तोषः कामसुखावाप्तिरिति ||१६||

त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे |

स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ||१७||

उञ्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः |

त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः ||१८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

185-अध्यायः

भृगुरुवाच||

वानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि

तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु

मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसञ्चरन्ति |

त्यक्तग्राम्यवस्त्राहारोपभोगा

वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो

भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः

काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो

नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः

समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः

शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो

विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूता

धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति ||१||

यस्त्वेतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत् |

स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ||२||

परिव्राजकानां पुनराचारस्तद्यथा |

विमुच्याग्निधनकलत्रपरिबर्हसङ्गानात्मनः स्नेहपाशानवधूय परिव्रजन्ति

समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनेषु

तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां

वाङ्मनःकर्मभिरनभिद्रोहिणोऽनिकेताः

पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं

ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः |

प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां

भवनान्यसङ्कीर्णकर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्षाः

कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति ||३||

भवति चात्र श्लोकः

अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः |

न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ||४||

कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरमग्निं स्वमुखे जुहोति |

यो भैक्षचर्योपगतैर्हविर्भि; श्चिताग्निनां स व्यतियाति लोकान् ||५||

मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसङ्कल्पितबुद्धियुक्तः |

अनिन्धनं ज्योतिरिव प्रशान्तं; स ब्रह्मलोकं श्रयते द्विजातिः ||६||

भरद्वाज उवाच||

अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते |

तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ||७||

भृगुरुवाच||

उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते |

पुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते ||८||

तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः |

लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ||९||

स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाः |

काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ||१०||

न लोभः परदारेषु स्वदारनिरतो जनः |

न चान्योन्यवधस्तत्र द्रव्येषु न च विस्मयः ||११||

परोक्षधर्मो नैवास्ति संदेहो नापि जायते ||११||

कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते |

शय्यायानासनोपेताः प्रासादभवनाश्रयाः ||१२||

सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ||१२||

प्राणधारणमात्रं तु केषाञ्चिदुपपद्यते |

श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ||१३||

इह धर्मपराः केचित्केचिन्नैकृतिका नराः |

सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे ||१४||

इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते |

लोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः ||१५||

इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः |

यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते ||१६||

सोपधं निकृतिः स्तेयं परिवादोऽभ्यसूयता |

परोपघातो हिंसा च पैशुन्यमनृतं तथा ||१७||

एतानासेवते यस्तु तपस्तस्य प्रहीयते |

यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते ||१८||

कर्मभूमिरियं लोक इह कृत्वा शुभाशुभम् |

शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा ||१९||

इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा |

इष्ट्वेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ||२०||

उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः |

इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ||२१||

असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरे |

क्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले ||२२||

अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः |

इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम् ||२३||

ये गुरूनुपसेवन्ते नियता ब्रह्मचारिणः |

पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ||२४||

इत्युक्तोऽयं मया धर्मः सङ्क्षेपाद्ब्रह्मनिर्मितः |

धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ||२५||

भीष्म उवाच||

इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् |

भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ||२६||

एष ते प्रभवो राजञ्जगतः सम्प्रकीर्तितः |

निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ||२७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

186-अध्यायः

युधिष्ठिर उवाच||

आचारस्य विधिं तात प्रोच्यमानं त्वयानघ |

श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ||१||

भीष्म उवाच||

दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः |

असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः ||२||

पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः |

राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः ||३||

शौचमावश्यकं कृत्वा देवतानां च तर्पणम् |

धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् ||४||

सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदये |

सायं प्रातर्जपन्सन्ध्यां तिष्ठेत्पूर्वां तथापराम् ||५||

पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः |

न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत् ||६||

नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि |

देवर्षिनारदप्रोक्तमेतदाचारलक्षणम् ||७||

शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम् |

ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् ||८||

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च |

सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते ||९||

सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् |

नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् ||१०||

होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन् |

अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् ||११||

अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् |

उपासीत जनः सत्यं सत्यं सन्त उपासते ||१२||

यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् |

न भक्षयेद्वृथामांसं पृष्ठमांसं च वर्जयेत् ||१३||

स्वदेशे परदेशे वा अतिथिं नोपवासयेत् |

काम्यं कर्मफलं लब्ध्वा गुरूणामुपपादयेत् ||१४||

गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम् |

गुरूनभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया ||१५||

नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् |

मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत् ||१६||

तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः |

सर्वमार्यकृतं शौचं वालसंस्पर्शनानि च ||१७||

दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत् |

सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ||१८||

देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे |

स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ||१९||

पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः |

बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम् ||२०||

सम्पन्नं भोजने नित्यं पानीये तर्पणं तथा |

सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा ||२१||

श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नानेऽथ भोजने |

व्याधितानां च सर्वेषामायुष्यमभिनन्दनम् ||२२||

प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् |

सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत् ||२३||

त्वङ्कारं नामधेयं च ज्येष्ठानां परिवर्जयेत् |

अवराणां समानानामुभयेषां न दुष्यति ||२४||

हृदयं पापवृत्तानां पापमाख्याति वैकृतम् |

ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ||२५||

ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः |

नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः ||२६||

पापेन हि कृतं पापं पापमेवानुवर्तते |

धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते ||२७||

पापं कृतं न स्मरतीह मूढो; विवर्तमानस्य तदेति कर्तुः |

राहुर्यथा चन्द्रमुपैति चापि; तथाबुधं पापमुपैति कर्म ||२८||

आशया सञ्चितं द्रव्यं यत्काले नेह भुज्यते |

तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते ||२९||

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः |

तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् ||३०||

एक एव चरेद्धर्मं नास्ति धर्मे सहायता |

केवलं विधिमासाद्य सहायः किं करिष्यति ||३१||

देवा योनिर्मनुष्याणां देवानाममृतं दिवि |

प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते ||३२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

187-अध्यायः

अध्यात्मकथनम्

युधिष्ठिर उवाच||

अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते |

यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि |

तद्व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम् ||२||

यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति |

फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत् ||३||

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |

महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ||४||

ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः |

महाभूतानि भूतेषु सागरस्योर्मयो यथा ||५||

प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः |

तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः ||६||

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् |

अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति ||७||

शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् |

वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम् ||८||

रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते |

रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः ||९||

घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः |

महाभूतानि पञ्चैव षष्ठं तु मन उच्यते ||१०||

इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत |

सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ||११||

चक्षुरालोकनायैव संशयं कुरुते मनः |

बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः ||१२||

ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति |

एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम् ||१३||

पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः |

तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान् ||१४||

एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम् |

समवेक्ष्य शनैश्चैव लभते शममुत्तमम् ||१५||

गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि |

मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ||१६||

इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् |

प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा ||१७||

येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते |

जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया ||१८||

त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् |

येन सङ्कल्पयत्यर्थं किञ्चिद्भवति तन्मनः ||१९||

अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा |

पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति ||२०||

पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते |

कदाचिल्लभते प्रीतिं कदाचिदनुशोचति ||२१||

न सुखेन न दुःखेन कदाचिदपि वर्तते |

एवं नराणां मनसि त्रिषु भावेष्ववस्थिता ||२२||

सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते |

सरितां सागरो भर्ता महावेलामिवोर्मिमान् ||२३||

अतिभावगता बुद्धिर्भावे मनसि वर्तते |

प्रवर्तमानं हि रजस्तद्भावमनुवर्तते ||२४||

इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा |

प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः ||२५||

ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु |

इति बुद्धिगतिः सर्वा व्याख्याता तव भारत ||२६||

इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता |

सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा ||२७||

त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते |

सात्त्विकी राजसी चैव तामसी चेति भारत ||२८||

सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः |

तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ ||२९||

तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् |

वर्तते सात्त्विको भाव इत्यवेक्षेत तत्तदा ||३०||

अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः |

प्रवृत्तं रज इत्येव तन्नसंरभ्य चिन्तयेत् ||३१||

अथ यन्मोहसंयुक्तमव्यक्तमिव यद्भवेत् |

अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ||३२||

प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता |

कथञ्चिदभिवर्तन्त इत्येते सात्त्विका गुणाः ||३३||

अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा |

लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ||३४||

अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता |

कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः ||३५||

दूरगं बहुधागामि प्रार्थनासंशयात्मकम् |

मनः सुनियतं यस्य स सुखी प्रेत्य चेह च ||३६||

सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः |

सृजते तु गुणानेक एको न सृजते गुणान् ||३७||

मशकोदुम्बरौ चापि सम्प्रयुक्तौ यथा सदा |

अन्योन्यमन्यौ च यथा सम्प्रयोगस्तथा तयोः ||३८||

पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा |

यथा मत्स्यो जलं चैव सम्प्रयुक्तौ तथैव तौ ||३९||

न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः |

परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा ||४०||

इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः |

निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत् ||४१||

सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति |

सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः ||४२||

आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन |

सत्त्वं मनः संसृजति न गुणान्वै कदाचन ||४३||

रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति |

तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव ||४४||

त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः |

सर्वभूतात्मभूतः स्यात्स गच्छेत्परमां गतिम् ||४५||

यथा वारिचरः पक्षी लिप्यमानो न लिप्यते |

एवमेव कृतप्रज्ञो भूतेषु परिवर्तते ||४६||

एवंस्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः |

अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः ||४७||

स्वभावसिद्ध्या संसिद्धान्स नित्यं सृजते गुणान् |

ऊर्णनाभिर्यथा स्रष्टा विज्ञेयास्तन्तुवद्गुणाः ||४८||

प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते |

प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति ||४९||

एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे |

उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति ||५०||

इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम् |

विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः ||५१||

मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः |

अवगाह्य सुविद्वंसो विद्धि ज्ञानमिदं तथा ||५२||

महानदीं हि पारज्ञस्तप्यते न तरन्यथा |

एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् ||५३||

एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् |

अवेक्ष्य च शनैर्बुद्ध्या लभते शं परं ततः ||५४||

त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते |

अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ||५५||

न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः |

तत्र तत्र विसृष्टेषु दुर्जयेष्वकृतात्मभिः ||५६||

एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् |

विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ||५७||

न भवति विदुषां ततो भयं; यदविदुषां सुमहद्भयं भवेत् |

न हि गतिरधिकास्ति कस्य चि; त्सति हि गुणे प्रवदन्त्यतुल्यताम् ||५८||

यत्करोत्यनभिसन्धिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम् |

नाप्रियं तदुभयं कुतः प्रियं; तस्य तज्जनयतीह कुर्वतः ||५९||

लोक आतुरजनान्विराविण; स्तत्तदेव बहु पश्य शोचतः |

तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं पदं सदा ||६०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

188-अध्यायः

ध्यानयोगः

भीष्म उवाच||

हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् |

यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः ||१||

यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः |

महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ||२||

नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः |

जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः ||३||

निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यमाश्रिताः |

असङ्गीन्यविवादीनि मनःशान्तिकराणि च ||४||

तत्र स्वाध्यायसंश्लिष्टमेकाग्रं धारयेन्मनः |

पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः ||५||

शब्दं न विन्देच्छ्रोत्रेण स्पर्शं त्वचा न वेदयेत् |

रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा ||६||

घ्रेयाण्यपि च सर्वाणि जह्याद्ध्यानेन योगवित् |

पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् ||७||

ततो मनसि संसज्य पञ्चवर्गं विचक्षणः |

समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः ||८||

विसञ्चारि निरालम्बं पञ्चद्वारं चलाचलम् |

पूर्वे ध्यानपथे धीरः समादध्यान्मनोऽन्तरम् ||९||

इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् |

एष ध्यानपथः पूर्वो मया समनुवर्णितः ||१०||

तस्य तत्पूर्वसंरुद्धं मनःषष्ठमनन्तरम् |

स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा ||११||

जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः |

एवमेवास्य तच्चित्तं भवति ध्यानवर्त्मनि ||१२||

समाहितं क्षणं किञ्चिद्ध्यानवर्त्मनि तिष्ठति |

पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत् ||१३||

अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः |

समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ||१४||

विचारश्च वितर्कश्च विवेकश्चोपजायते |

मुनेः समादधानस्य प्रथमं ध्यानमादितः ||१५||

मनसा क्लिश्यमानस्तु समाधानं च कारयेत् |

न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ||१६||

पांसुभस्मकरीषाणां यथा वै राशयश्चिताः |

सहसा वारिणा सिक्ता न यान्ति परिभावनाम् ||१७||

किञ्चित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् |

क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् ||१८||

एवमेवेन्द्रियग्रामं शनैः सम्परिभावयेत् |

संहरेत्क्रमशश्चैव स सम्यक्प्रशमिष्यति ||१९||

स्वयमेव मनश्चैव पञ्चवर्गश्च भारत |

पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति ||२०||

न तत्पुरुषकारेण न च दैवेन केनचित् |

सुखमेष्यति तत्तस्य यदेवं संयतात्मनः ||२१||

सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि |

गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम् ||२२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

189-अध्यायः

जापकोपाख्यानम्

युधिष्ठिर उवाच||

चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च |

नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः ||१||

श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते |

संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति ||२||

जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत |

किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः ||३||

जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ |

जापका इति किं चैतत्साङ्ख्ययोगक्रियाविधिः ||४||

किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते |

एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः ||५||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च ||६||

संन्यास एव वेदान्ते वर्तते जपनं प्रति |

वेदवादाभिनिर्वृत्ता शान्तिर्ब्रह्मण्यवस्थितौ ||७||

मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ ||७||

यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते |

मनःसमाधिरत्रापि तथेन्द्रियजयः स्मृतः ||८||

सत्यमग्निपरीचारो विविक्तानां च सेवनम् |

ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम् ||९||

विषयप्रतिसंहारो मितजल्पस्तथा शमः |

एष प्रवृत्तको धर्मो निवृत्तकमथो शृणु ||१०||

यथा निवर्तते कर्म जपतो ब्रह्मचारिणः |

एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत् ||११||

त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम् ||११||

कुशोच्चयनिषण्णः सन्कुशहस्तः कुशैः शिखी |

चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा ||१२||

विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत् |

साम्यमुत्पाद्य मनसो मनस्येव मनो दधत् ||१३||

तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम् |

संन्यस्यत्यथ वा तां वै समाधौ पर्यवस्थितः ||१४||

ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात् |

शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् ||१५||

अरागमोहो निर्द्वंद्वो न शोचति न सज्जते |

न कर्ताकरणीयानां न कार्याणामिति स्थितिः ||१६||

न चाहङ्कारयोगेन मनः प्रस्थापयेत्क्वचित् |

न चात्मग्रहणे युक्तो नावमानी न चाक्रियः ||१७||

ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः |

ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात् ||१८||

स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी |

निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम् ||१९||

अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम् |

उत्क्रामति च मार्गस्थो नैव क्वचन जायते ||२०||

आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः |

अमृतं विरजःशुद्धमात्मानं प्रतिपद्यते ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

190-अध्यायः

युधिष्ठिर उवाच||

गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह |

एकैवैषा गतिस्तेषामुत यान्त्यपरामपि ||१||

भीष्म उवाच||

शृणुष्वावहितो राजञ्जापकानां गतिं विभो |

यथा गच्छन्ति निरयमनेकं पुरुषर्षभ ||२||

यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः |

एकदेशक्रियश्चात्र निरयं स निगच्छति ||३||

अवज्ञानेन कुरुते न तुष्यति न शोचति |

ईदृशो जापको याति निरयं नात्र संशयः ||४||

अहङ्कारकृतश्चैव सर्वे निरयगामिनः |

परावमानी पुरुषो भविता निरयोपगः ||५||

अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः |

यत्राभिध्यां स कुरुते तं वै निरयमृच्छति ||६||

अथैश्वर्यप्रवृत्तः सञ्जापकस्तत्र रज्यते |

स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते ||७||

रागेण जापको जप्यं कुरुते तत्र मोहितः |

यत्रास्य रागः पतति तत्र तत्रोपजायते ||८||

दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति |

चलामेव गतिं याति निरयं वाधिगच्छति ||९||

अकृतप्रज्ञको बालो मोहं गच्छति जापकः |

स मोहान्निरयं याति तत्र गत्वानुशोचति ||१०||

दृढग्राही करोमीति जप्यं जपति जापकः |

न सम्पूर्णो न वा युक्तो निरयं सोऽधिगच्छति ||११||

युधिष्ठिर उवाच||

अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम् |

सद्भूतो जापकः कस्मात्स शरीरमथाविशेत् ||१२||

भीष्म उवाच||

दुष्प्रज्ञानेन निरया बहवः समुदाहृताः |

प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः ||१३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

191-अध्यायः

युधिष्ठिर उवाच||

कीदृशो जापको याति निरयं वर्णयस्व मे |

कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति ||१||

भीष्म उवाच||

धर्मस्यांशः प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः |

धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ ||२||

अमूनि यानि स्थानानि देवानां परमात्मनाम् |

नानासंस्थानवर्णानि नानारूपफलानि च ||३||

दिव्यानि कामचारीणि विमानानि सभास्तथा |

आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः ||४||

चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः |

मरुतां विश्वदेवानां साध्यानामश्विनोरपि ||५||

रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम् |

एते वै निरयास्तात स्थानस्य परमात्मनः ||६||

अभयं चानिमित्तं च न च क्लेशभयावृतम् |

द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च ||७||

चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् |

अप्रहर्षमनानन्दमशोकं विगतक्लमम् ||८||

कालः सम्पच्यते तत्र न कालस्तत्र वै प्रभुः |

स कालस्य प्रभू राजन्स्वर्गस्यापि तथेश्वरः ||९||

आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति |

ईदृशं परमं स्थानं निरयास्ते च तादृशाः ||१०||

एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् |

तस्य स्थानवरस्येह सर्वे निरयसञ्ज्ञिताः ||११||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

192-अध्यायः

युधिष्ठिर उवाच||

कालमृत्युयमानां च ब्राह्मणस्य च सत्तम |

विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ||२||

कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे |

यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ||३||

ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः |

षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ||४||

तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च |

वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ||५||

सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन् |

तस्य वर्षसहस्रं तु नियमेन तथा गतम् ||६||

स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल |

जप्यमावर्तयंस्तूष्णीं न च तां किञ्चिदब्रवीत् ||७||

तस्यानुकम्पया देवी प्रीता समभवत्तदा |

वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ||८||

समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा |

पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ||९||

दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम |

यदि वापि प्रसन्नासि जप्ये मे रमतां मनः ||१०||

सावित्र्युवाच||

किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते |

प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ||११||

भीष्म उवाच||

इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् |

जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ||१२||

मनसश्च समाधिर्मे वर्धेताहरहः शुभे |

तत्तथेति ततो देवी मधुरं प्रत्यभाषत ||१३||

इदं चैवापरं प्राह देवी तत्प्रियकाम्यया |

निरयं नैव यातासि यत्र याता द्विजर्षभाः ||१४||

यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम् |

साधये भविता चैतद्यत्त्वयाहमिहार्थिता ||१५||

नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति |

कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् ||१६||

भविता च विवादोऽत्र तव तेषां च धर्मतः ||१६||

एवमुक्त्वा भगवती जगाम भवनं स्वकम् |

ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा ||१७||

समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः |

साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ||१८||

धर्म उवाच||

द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः |

जप्यस्य च फलं यत्ते सम्प्राप्तं तच्च मे शृणु ||१९||

जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः |

देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि ||२०||

प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् |

त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि ||२१||

ब्राह्मण उवाच||

कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम् |

बहुदुःखसुखं देहं नोत्सृजेयमहं विभो ||२२||

धर्म उवाच||

अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव |

स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ ||२३||

ब्राह्मण उवाच||

न रोचये स्वर्गवासं विना देहादहं विभो |

गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना ||२४||

धर्म उवाच||

अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव |

गच्छ लोकानरजसो यत्र गत्वा न शोचसि ||२५||

ब्राह्मण उवाच||

रमे जपन्महाभाग कृतं लोकैः सनातनैः |

सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो ||२६||

धर्म उवाच||

यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज |

एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ||२७||

भीष्म उवाच||

अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो |

ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन् ||२८||

तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च |

फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ||२९||

यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् |

कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः ||३०||

मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयमागतम् |

कालेन चोदितं विप्र त्वामितो नेतुमद्य वै ||३१||

ब्राह्मण उवाच||

स्वागतं सूर्यपुत्राय कालाय च महात्मने |

मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ||३२||

भीष्म उवाच||

अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे |

अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ||३३||

तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः |

इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ||३४||

सर्वानेव तु राजर्षिः सम्पूज्याभिप्रणम्य च |

कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ||३५||

तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च |

अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ||३६||

स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि |

स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे ||३७||

राजोवाच||

राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः |

ददामि वसु किञ्चित्ते प्रार्थितं तद्वदस्व मे ||३८||

ब्राह्मण उवाच||

द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः |

प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात् ||३९||

तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप |

अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते ||४०||

ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ||४०||

राजोवाच||

क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् |

प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम ||४१||

ब्राह्मण उवाच||

तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप |

अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ||४२||

राजोवाच||

स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम् |

याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ||४३||

ब्राह्मण उवाच||

युद्धं मम सदा वाणी याचतीति विकत्थसे |

न च युद्धं मया सार्धं किमर्थं याचसे पुनः ||४४||

राजोवाच||

वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः |

वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ||४५||

ब्राह्मण उवाच||

सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् |

ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ||४६||

राजोवाच||

यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया |

फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि ||४७||

ब्राह्मण उवाच||

परमं गृह्यतां तस्य फलं यज्जपितं मया |

अर्धं त्वमविचारेण फलं तस्य समाप्नुहि ||४८||

अथ वा सर्वमेवेह जप्यकं मामकं फलम् |

राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ||४९||

राजोवाच||

कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया |

स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद ||५०||

ब्राह्मण उवाच||

फलप्राप्तिं न जानामि दत्तं यज्जपितं मया |

अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ||५१||

राजोवाच||

अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति |

प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ||५२||

ब्राह्मण उवाच||

नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया |

वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि ||५३||

नाभिसन्धिर्मया जप्ये कृतपूर्वः कथञ्चन |

जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम् ||५४||

ददस्वेति त्वया चोक्तं ददामीति तथा मया |

न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ||५५||

अथैवं वदतो मेऽद्य वचनं न करिष्यसि |

महानधर्मो भविता तव राजन्मृषाकृतः ||५६||

न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम |

तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते ||५७||

संश्रुतं च मया पूर्वं ददानीत्यविचारितम् |

तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ||५८||

इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः |

तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च ||५९||

नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् |

कुत एवावरान्राजन्मृषावादपरायणः ||६०||

न यज्ञाध्ययने दानं नियमास्तारयन्ति हि |

तथा सत्यं परे लोके यथा वै पुरुषर्षभ ||६१||

तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः |

समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ||६२||

सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः |

सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् ||६३||

सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् |

सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ||६४||

सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः |

व्रतचर्यास्तथा सत्यमोङ्कारः सत्यमेव च ||६५||

प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च |

सत्येन वायुरभ्येति सत्येन तपते रविः ||६६||

सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः |

सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ||६७||

तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् |

समां कक्षां धारयतो यतः सत्यं ततोऽधिकम् ||६८||

यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते |

किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ||६९||

सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः |

कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ||७०||

यदि जप्यफलं दत्तं मया नेषिष्यसे नृप |

स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि ||७१||

संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति |

उभावानृतिकावेतौ न मृषा कर्तुमर्हसि ||७२||

राजोवाच||

योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज |

दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ||७३||

ब्राह्मण उवाच||

न छन्दयामि ते राजन्नापि ते गृहमाव्रजम् |

इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ||७४||

धर्म उवाच||

अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् |

द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ||७५||

स्वर्ग उवाच||

स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् |

अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् ||७६||

राजोवाच||

कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् |

विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् ||७७||

ब्राह्मण उवाच||

बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः |

निवृत्तिलक्षणं धर्ममुपासे संहितां जपन् ||७८||

निवृत्तं मां चिरं राजन्विप्रं लोभयसे कथम् |

स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप ||७९||

तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ||७९||

राजोवाच||

यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम् |

आवयोर्यत्फलं किञ्चित्सहितं नौ तदस्त्विह ||८०||

द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः |

यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ ||८१||

मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि |

प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ||८२||

भीष्म उवाच||

ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ |

गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः ||८३||

न मे धारयसीत्येको धारयामीति चापरः |

इहास्ति नौ विवादोऽयमयं राजानुशासकः ||८४||

सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् |

अनृतं वदसीह त्वमृणं ते धारयाम्यहम् ||८५||

तावुभौ भृशसन्तप्तौ राजानमिदमूचतुः |

परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ ||८६||

विरूप उवाच||

धारयामि नरव्याघ्र विकृतस्येह गोः फलम् |

ददतश्च न गृह्णाति विकृतो मे महीपते ||८७||

विकृत उवाच||

न मे धारयते किञ्चिद्विरूपोऽयं नराधिप |

मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप ||८८||

राजोवाच||

विरूप किं धारयते भवानस्य वदस्व मे |

श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः ||८९||

विरूप उवाच||

शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् |

विकृतस्यास्य राजर्षे निखिलेन नरर्षभ ||९०||

अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ |

धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ||९१||

तस्याश्चायं मया राजन्फलमभ्येत्य याचितः |

विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना ||९२||

ततो मे सुकृतं कर्म कृतमात्मविशुद्धये |

गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने ||९३||

ते चोञ्छवृत्तये राजन्मया समपवर्जिते |

यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ||९४||

इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम् |

एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान् ||९५||

एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप |

कुरु धर्ममधर्मं वा विनये नौ समाधय ||९६||

यदि नेच्छति मे दानं यथा दत्तमनेन वै |

भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः ||९७||

राजोवाच||

दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै |

यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् ||९८||

विकृत उवाच||

दीयतामित्यनेनोक्तं ददानीति तथा मया |

नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति ||९९||

राजोवाच||

ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे |

दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ||१००||

विकृत उवाच||

मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः |

काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो ||१०१||

विरूप उवाच||

दीयमानं यदि मया नेषिष्यसि कथञ्चन |

नियंस्यति त्वा नृपतिरयं धर्मानुशासकः ||१०२||

विकृत उवाच||

स्वं मया याचितेनेह दत्तं कथमिहाद्य तत् |

गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ||१०३||

ब्राह्मण उवाच||

श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः |

प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ||१०४||

राजोवाच||

प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा |

जापकस्य दृढीकारः कथमेतद्भविष्यति ||१०५||

यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम् |

कथं न लिप्येयमहं दोषेण महताद्य वै ||१०६||

भीष्म उवाच||

तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः |

नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ||१०७||

स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः |

विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत् ||१०८||

ब्राह्मण उवाच||

गृहाण धारयेऽहं ते याचितं ते श्रुतं मया |

न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः ||१०९||

राजोवाच||

धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः |

इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ||११०||

एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः |

यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ||१११||

ब्राह्मण उवाच||

संहितां जपता यावान्मया कश्चिद्गुणः कृतः |

तत्सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे ||११२||

राजोवाच||

जलमेतन्निपतितं मम पाणौ द्विजोत्तम |

सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ||११३||

विरूप उवाच||

कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् |

समेति च यदुक्तं ते समा लोकास्तवास्य च ||११४||

नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता |

कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ||११५||

सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव |

गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ||११६||

भीष्म उवाच||

जापकानां फलावाप्तिर्मया ते सम्प्रकीर्तिता |

गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ||११७||

प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् |

अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा ||११८||

स तैजसेन भावेन यदि तत्राश्नुते रतिम् |

गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः ||११९||

एवं सोमे तथा वायौ भूम्याकाशशरीरगः |

सरागस्तत्र वसति गुणांस्तेषां समाचरन् ||१२०||

अथ तत्र विरागी स गच्छति त्वथ संशयम् |

परमव्ययमिच्छन्स तमेवाविशते पुनः ||१२१||

अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान् |

ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः ||१२२||

ब्रह्मस्थानमनावर्तमेकमक्षरसञ्ज्ञकम् |

अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ||१२३||

चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः |

पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते ||१२४||

अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति |

यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ||१२५||

अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान् |

निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी ||१२६||

एवमेषा महाराज जापकस्य गतिर्यथा |

एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ||१२७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

193-अध्यायः

युधिष्ठिर उवाच||

किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते |

ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह ||१||

अथ वा तौ गतौ तत्र यदेतत्कीर्तितं त्वया |

संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः ||२||

भीष्म उवाच||

तथेत्येवं प्रतिश्रुत्य धर्मं सम्पूज्य चाभिभो |

यमं कालं च मृत्युं च स्वर्गं सम्पूज्य चार्हतः ||३||

पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः |

सर्वान्सम्पूज्य शिरसा राजानं सोऽब्रवीद्वचः ||४||

फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम् |

भवता चाभ्यनुज्ञातो जपेयं भूय एव हि ||५||

वरश्च मम पूर्वं हि देव्या दत्तो महाबल |

श्रद्धा ते जपतो नित्यं भवितेति विशां पते ||६||

राजोवाच||

यद्येवमफला सिद्धिः श्रद्धा च जपितुं तव |

गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि ||७||

ब्राह्मण उवाच||

कृतः प्रयत्नः सुमहान्सर्वेषां संनिधाविह |

सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः ||८||

भीष्म उवाच||

व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः |

सह देवैरुपययौ लोकपालैस्तथैव च ||९||

साध्या विश्वेऽथ मरुतो ज्योतींषि सुमहान्ति च |

नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च ||१०||

तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती |

नारदः पर्वतश्चैव विश्वावसुर्हहा हुहूः ||११||

गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः |

नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः ||१२||

विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत् ||१२||

अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि चाभिभो |

पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् ||१३||

ननृतुश्चाप्सरःसङ्घास्तत्र तत्र समन्ततः ||१३||

अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत् |

संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप ||१४||

अथ तौ सहितौ राजन्नन्योन्येन विधानतः |

विषयप्रतिसंहारमुभावेव प्रचक्रतुः ||१५||

प्राणापानौ तथोदानं समानं व्यानमेव च |

एवं तान्मनसि स्थाप्य दधतुः प्राणयोर्मनः ||१६||

उपस्थितकृतौ तत्र नासिकाग्रमधो भ्रुवौ |

कुङ्कुण्यां चैव मनसा शनैर्धारयतः स्म तौ ||१७||

निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ |

जितासनौ तथाधाय मूर्धन्यात्मानमेव च ||१८||

तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः |

ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा ||१९||

हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत् |

तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा ||२०||

ततः स्वागतमित्याह तत्तेजः स पितामहः |

प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते ||२१||

भूयश्चैवापरं प्राह वचनं मधुरं स्म सः |

जापकैस्तुल्यफलता योगानां नात्र संशयः ||२२||

योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम् |

जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम् ||२३||

उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः |

अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः ||२४||

राजाप्येतेन विधिना भगवन्तं पितामहम् |

यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा ||२५||

स्वयम्भुवमथो देवा अभिवाद्य ततोऽब्रुवन् |

जापकार्थमयं यत्नस्तदर्थं वयमागताः ||२६||

कृतपूजाविमौ तुल्यं त्वया तुल्यफलाविमौ |

योगजापकयोर्दृष्टं फलं सुमहदद्य वै ||२७||

सर्वाँल्लोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम् ||२७||

ब्रह्मोवाच||

महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् |

तावप्येतेन विधिना गच्छेतां मत्सलोकताम् ||२८||

यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः |

विधिनानेन देहान्ते मम लोकानवाप्नुयात् ||२९||

गम्यतां साधयिष्यामि यथास्थानानि सिद्धये ||२९||

भीष्म उवाच||

इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत |

आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम् ||३०||

ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै |

पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतमानसाः ||३१||

एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता |

यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि ||३२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

194-अध्यायः

मनुबृहस्पतिसंवादः

युधिष्ठिर उवाच||

किं फलं ज्ञानयोगस्य वेदानां नियमस्य च |

भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः ||२||

प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसङ्घप्रवरो महर्षिः |

बृहस्पतिः प्रश्नमिमं पुराणं; पप्रच्छ शिष्योऽथ गुरुं प्रणम्य ||३||

यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत्प्रवदन्ति विप्राः |

यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यतां मे भगवन्यथावत् ||४||

यदर्थशास्त्रागममन्त्रविद्भि; र्यज्ञैरनेकैर्वरगोप्रदानैः |

फलं महद्भिर्यदुपास्यते च; तत्किं कथं वा भविता क्व वा तत् ||५||

मही महीजाः पवनोऽन्तरिक्षं; जलौकसश्चैव जलं दिवं च |

दिवौकसश्चैव यतः प्रसूता; स्तदुच्यतां मे भगवन्पुराणम् ||६||

ज्ञानं यतः प्रार्थयते नरो वै; ततस्तदर्था भवति प्रवृत्तिः |

न चाप्यहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ||७||

ऋक्सामसङ्घांश्च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम् |

अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि ||८||

स मे भवाञ्शंसतु सर्वमेत; ज्ज्ञाने फलं कर्मणि वा यदस्ति |

यथा च देहाच्च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति ||९||

मनुरुवाच||

यद्यत्प्रियं यस्य सुखं तदाहु; स्तदेव दुःखं प्रवदन्त्यनिष्टम् |

इष्टं च मे स्यादितरच्च न स्या; देतत्कृते कर्मविधिः प्रवृत्तः ||१०||

इष्टं त्वनिष्टं च न मां भजेते; त्येतत्कृते ज्ञानविधिः प्रवृत्तः ||१०||

कामात्मकाश्छन्दसि कर्मयोगा; एभिर्विमुक्तः परमश्नुवीत |

नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रयाति ||११||

परं हि तत्कर्मपथादपेतं; निराशिषं ब्रह्मपरं ह्यवश्यम् ||११||

प्रजाः सृष्टा मनसा कर्मणा च; द्वावप्येतौ सत्पथौ लोकजुष्टौ |

दृष्ट्वा कर्म शाश्वतं चान्तवच्च; मनस्त्यागः कारणं नान्यदस्ति ||१२||

स्वेनात्मना चक्षुरिव प्रणेता; निशात्यये तमसा संवृतात्मा |

ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम् ||१३||

सर्पान्कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति |

अज्ञानतस्तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम् ||१४||

कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो; यज्ञा यथोक्तास्त्वथ दक्षिणाश्च |

अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति ||१५||

गुणात्मकं कर्म वदन्ति वेदा; स्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म |

विधिर्विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी ||१६||

शब्दाश्च रूपाणि रसाश्च पुण्याः; स्पर्शाश्च गन्धाश्च शुभास्तथैव |

नरो नसंस्थानगतः प्रभुः स्या; देतत्फलं सिध्यति कर्मलोके ||१७||

यद्यच्छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत् |

शरीरमेवायतनं सुखस्य; दुःखस्य चाप्यायतनं शरीरम् ||१८||

वाचा तु यत्कर्म करोति किं चि; द्वाचैव सर्वं समुपाश्नुते तत् |

मनस्तु यत्कर्म करोति किं चि; न्मनःस्थ एवायमुपाश्नुते तत् ||१९||

यथागुणं कर्मगणं फलार्थी; करोत्ययं कर्मफले निविष्टः |

तथा तथायं गुणसम्प्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति ||२०||

मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वमुपैति कर्म |

शुभे त्वसौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी ||२१||

यतो जगत्सर्वमिदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत् |

यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यमानं शृणु मे परं यत् ||२२||

रसैर्वियुक्तं विविधैश्च गन्धै; रशब्दमस्पर्शमरूपवच्च |

अग्राह्यमव्यक्तमवर्णमेकं; पञ्चप्रकारं ससृजे प्रजानाम् ||२३||

न स्त्री पुमान्वापि नपुंसकं च; न सन्न चासत्सदसच्च तन्न |

पश्यन्ति यद्ब्रह्मविदो मनुष्या; स्तदक्षरं न क्षरतीति विद्धि ||२४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

195-अध्यायः

मनुरुवाच||

अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम् |

जलात्प्रसूता जगती जगत्यां जायते जगत् ||१||

इमे शरीरैर्जलमेव गत्वा; जलाच्च तेजः पवनोऽन्तरिक्षम् |

खाद्वै निवर्तन्ति नभाविनस्ते; ये भाविनस्ते परमाप्नुवन्ति ||२||

नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषायं मधुरं न तिक्तम् |

न शब्दवन्नापि च गन्धवत्त; न्न रूपवत्तत्परमस्वभावम् ||३||

स्पर्शं तनुर्वेद रसं तु जिह्वा; घ्राणं च गन्धाञ्श्रवणे च शब्दान् |

रूपाणि चक्षुर्न च तत्परं य; द्गृह्णन्त्यनध्यात्मविदो मनुष्याः ||४||

निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच्छ्रवणे च शब्दात् |

स्पर्शात्तनुं रूपगुणात्तु चक्षु; स्ततः परं पश्यति स्वं स्वभावम् ||५||

यतो गृहीत्वा हि करोति यच्च; यस्मिंश्च तामारभते प्रवृत्तिम् |

यस्मिंश्च यद्येन च यश्च कर्ता; तत्कारणं तं समुपायमाहुः ||६||

यच्चाभिभूः साधकं व्यापकं च; यन्मन्त्रवच्छंस्यते चैव लोके |

यः सर्वहेतुः परमार्थकारी; तत्कारणं कार्यमतो यदन्यत् ||७||

यथा च कश्चित्सुकृतैर्मनुष्यः; शुभाशुभं प्राप्नुतेऽथाविरोधात् |

एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर्ज्ञानमिदं निबद्धम् ||८||

यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशमन्यस्य करोति दीप्यन् |

तथेह पञ्चेन्द्रियदीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव ||९||

यथा हि राज्ञो बहवो ह्यमात्याः; पृथक्प्रमानं प्रवदन्ति युक्ताः |

तद्वच्छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः ||१०||

यथार्चिषोऽग्नेः पवनस्य वेगा; मरीचयोऽर्कस्य नदीषु चापः |

गच्छन्ति चायान्ति च तन्यमाना; स्तद्वच्छरीराणि शरीरिणां तु ||११||

यथा च कश्चित्परशुं गृहीत्वा; धूमं न पश्येज्ज्वलनं च काष्ठे |

तद्वच्छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यदन्यत् ||१२||

तान्येव काष्ठानि यथा विमथ्य; धूमं च पश्येज्ज्वलनं च योगात् |

तद्वत्सुबुद्धिः सममिन्द्रियत्वा; द्बुधः परं पश्यति स्वं स्वभावम् ||१३||

यथात्मनोऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनोऽन्यत् |

श्रोत्रादियुक्तः सुमनाः सुबुद्धि; र्लिङ्गात्तथा गच्छति लिङ्गमन्यत् ||१४||

उत्पत्तिवृद्धिक्षयसंनिपातै; र्न युज्यतेऽसौ परमः शरीरी |

अनेन लिङ्गेन तु लिङ्गमन्य; द्गच्छत्यदृष्टः प्रतिसन्धियोगात् ||१५||

न चक्षुषा पश्यति रूपमात्मनो; न चापि संस्पर्शमुपैति किञ्चित् |

न चापि तैः साधयतेऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान् ||१६||

यथा प्रदीपे ज्वलतोऽनलस्य; सन्तापजं रूपमुपैति किञ्चित् |

न चान्तरं रूपगुणं बिभर्ति; तथैव तद्दृश्यते रूपमस्य ||१७||

यथा मनुष्यः परिमुच्य काय; मदृश्यमन्यद्विशते शरीरम् |

विसृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम् ||१८||

खं वायुमग्निं सलिलं तथोर्वीं; समन्ततोऽभ्याविशते शरीरी |

नानाश्रयाः कर्मसु वर्तमानाः; श्रोत्रादयः पञ्च गुणाञ्श्रयन्ते ||१९||

श्रोत्रं खतो घ्राणमथो पृथिव्या; स्तेजोमयं रूपमथो विपाकः |

जलाश्रयः स्वेद उक्तो रसश्च; वाय्वात्मकः स्पर्शकृतो गुणश्च ||२०||

महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश्च तथेन्द्रियेषु |

सर्वाणि चैतानि मनोनुगानि; बुद्धिं मनोऽन्वेति मनः स्वभावम् ||२१||

शुभाशुभं कर्म कृतं यदस्य; तदेव प्रत्याददते स्वदेहे |

मनोऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम् ||२२||

चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद्रूपमिवाभिपाति |

स्वरूपमालोचयते च रूपं; परं तथा बुद्धिपथं परैति ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

196-अध्यायः

मनुरुवाच||

यदिन्द्रियैस्तूपकृतान्पुरस्ता; त्प्राप्तान्गुणान्संस्मरते चिराय |

तेष्विन्द्रियेषूपहतेषु पश्चा; त्स बुद्धिरूपः परमः स्वभावः ||१||

यथेन्द्रियार्थान्युगपत्समस्ता; न्नावेक्षते कृत्स्नमतुल्यकालम् |

यथाबलं सञ्चरते स विद्वां; स्तस्मात्स एकः परमः शरीरी ||२||

रजस्तमः सत्त्वमथो तृतीयं; गच्छत्यसौ ज्ञानगुणान्विरूपान् |

तथेन्द्रियाण्याविशते शरीरी; हुताशनं वायुरिवेन्धनस्थम् ||३||

न चक्षुषा पश्यति रूपमात्मनो; न पश्यति स्पर्शमिन्द्रियेन्द्रियम् |

न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद्विनश्यति ||४||

श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना |

सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ||५||

यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा |

न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता ||६||

तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ |

अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता ||७||

पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति |

एवमस्ति न वेत्येतन्न च तन्न परायणम् ||८||

रूपवन्तमरूपत्वादुदयास्तमये बुधाः |

धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम् ||९||

तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः |

प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम् ||१०||

न हि खल्वनुपायेन कश्चिदर्थोऽभिसिध्यति |

सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः ||११||

मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा |

गजानां च गजैरेवं ज्ञेयं ज्ञानेन गृह्यते ||१२||

अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् |

तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति ||१३||

नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि |

तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति ||१४||

यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते |

न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् ||१५||

क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते |

तद्वन्मूर्तिवियुक्तः सञ्शरीरी नोपलभ्यते ||१६||

यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः |

तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः ||१७||

जन्मवृद्धिक्षयश्चास्य प्रत्यक्षेणोपलभ्यते |

सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः ||१८||

उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते |

चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् ||१९||

नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः |

विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् ||२०||

यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते |

तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते ||२१||

यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते |

तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते ||२२||

यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः |

तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

197-अध्यायः

मनुरुवाच||

यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् |

ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ ||१||

यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा |

तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति ||२||

स एव लुलिते तस्मिन्यथा रूपं न पश्यति |

तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति ||३||

अबुद्धिरज्ञानकृता अबुद्ध्या दुष्यते मनः |

दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः ||४||

अज्ञानतृप्तो विषयेष्ववगाढो न दृश्यते |

अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते ||५||

तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् |

निवर्तते तथा तर्षः पापमन्तं गतं यथा ||६||

विषयेषु च संसर्गाच्छाश्वतस्य नसंश्रयात् |

मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ||७||

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः |

अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ||८||

प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी |

तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना ||९||

इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः |

बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् ||१०||

अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः |

मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति ||११||

यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा |

विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते ||१२||

उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् |

स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति ||१३||

अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः |

प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्य गच्छति ||१४||

प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः |

प्राप्नोत्ययं कर्मफलं प्रवृद्धं धर्ममात्मवान् ||१५||

विषया विनिवर्तन्ते निराहारस्य देहिनः |

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||१६||

बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते |

तदा सम्पद्यते ब्रह्म तत्रैव प्रलयं गतम् ||१७||

अस्पर्शनमशृण्वानमनास्वादमदर्शनम् |

अघ्राणमवितर्कं च सत्त्वं प्रविशते परम् ||१८||

मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम् |

मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम् ||१९||

इन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः |

न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति ||२०||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.