श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
198-अध्यायः
मनुरुवाच||
ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः |
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते ||१||
यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते |
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना ||२||
सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते |
अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम् ||३||
यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् |
तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा ||४||
मनस्त्वपहृतं बुद्धिमिन्द्रियार्थनिदर्शनम् |
न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम् ||५||
सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः |
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते ||६||
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये |
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते ||७||
यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी |
व्यवसायगुणोपेता तदा सम्पद्यते मनः ||८||
गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः |
तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते ||९||
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् |
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ||१०||
तपसा चानुमानेन गुणैर्जात्या श्रुतेन च |
निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना ||११||
गुणहीनो हि तं मार्गं बहिः समनुवर्तते |
गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम् ||१२||
नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते |
गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने ||१३||
यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः |
तथा तत्परमं ब्रह्म विमुक्तं प्रकृतेः परम् ||१४||
एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः |
निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च ||१५||
पुरुषः प्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च |
अहङ्कारोऽभिमानश्च सम्भूतो भूतसञ्ज्ञकः ||१६||
एकस्याद्या प्रवृत्तिस्तु प्रधानात्सम्प्रवर्तते |
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति ||१७||
धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः |
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत् ||१८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
199-अध्यायः
मनुरुवाच||
यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह |
अथ तद्द्रक्ष्यसे ब्रह्म मणौ सूत्रमिवार्पितम् ||१||
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः |
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा ||२||
तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु |
तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः ||३||
येन येन शरीरेण यद्यत्कर्म करोत्ययम् |
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ||४||
यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी |
तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी ||५||
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता |
अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम् ||६||
फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा |
ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ||७||
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा |
क्षयान्ते तत्फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम् ||८||
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः |
अबुधास्तं न पश्यन्ति ह्यात्मस्था गुणबुद्धयः ||९||
पृथिवीरूपतो रूपमपामिह महत्तरम् |
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् ||१०||
पवनाच्च महद्व्योम तस्मात्परतरं मनः |
मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः ||११||
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् |
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ||१२||
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः |
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ||१३||
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम् |
तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः ||१४||
गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम् |
निवृत्तिलक्षणो धर्मस्तथानन्त्याय कल्पते ||१५||
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः |
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः ||१६||
न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम् |
न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् ||१७||
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते |
अन्तश्चादिमतां दृष्टो न चादिर्ब्रह्मणः स्मृतः ||१८||
अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् |
अव्ययत्वाच्च निर्द्वंद्वं द्वंद्वाभावात्ततः परम् ||१९||
अदृष्टतोऽनुपायाच्च अप्यभिसन्धेश्च कर्मणः |
न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम् ||२०||
विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात् |
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ||२१||
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः |
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ||२२||
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् |
अनुमानाद्धि गन्तव्यं गुणैरवयवैः सह ||२३||
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः |
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ||२४||
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः |
मनसा चेन्द्रियग्राममनन्तं प्रतिपद्यते ||२५||
बुद्धिप्रहीणो मनसासमृद्ध; स्तथा निराशीर्गुणतामुपैति |
परं त्यजन्तीह विलोभ्यमाना; हुताशनं वायुरिवेन्धनस्थम् ||२६||
गुणादाने विप्रयोगे च तेषां; मनः सदा बुद्धिपरावराभ्याम् |
अनेनैव विधिना सम्प्रवृत्तो; गुणादाने ब्रह्मशरीरमेति ||२७||
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा; सोऽव्यक्तत्वं गच्छति ह्यन्तकाले |
तैरेवायं चेन्द्रियैर्वर्धमानै; र्ग्लायद्भिर्वा वर्तते कर्मरूपः ||२८||
सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो; देहः प्राप्तः पञ्चभूताश्रयः स्यात् |
नासामर्थ्याद्गच्छति कर्मणेह; हीनस्तेन परमेणाव्ययेन ||२९||
पृथ्व्या नरः पश्यति नान्तमस्या; ह्यन्तश्चास्या भविता चेति विद्धि |
परं नयन्तीह विलोभ्यमानं; यथा प्लवं वायुरिवार्णवस्थम् ||३०||
दिवाकरो गुणमुपलभ्य निर्गुणो; यथा भवेद्व्यपगतरश्मिमण्डलः |
तथा ह्यसौ मुनिरिह निर्विशेषवा; न्स निर्गुणं प्रविशति ब्रह्म चाव्ययम् ||३१||
अनागतिं सुकृतिमतां परां गतिं; स्वयम्भुवं प्रभवनिधानमव्ययम् |
सनातनं यदमृतमव्ययं पदं; विचार्य तं शमममृतत्वमश्नुते ||३२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
200-अध्यायः
केशवमाहात्य्मम्
युधिष्ठिर उवाच||
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् |
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ||१||
नारायणं हृषीकेशं गोविन्दमपराजितम् |
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ||२||
भीष्म उवाच||
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः |
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ||३||
असितो देवलस्तात वाल्मीकिश्च महातपाः |
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ||४||
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः |
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ||५||
किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः |
माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर ||६||
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः |
अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम् ||७||
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः |
वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत् ||८||
स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः |
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः ||९||
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे |
सोऽग्रजं सर्वभूतानां सङ्कर्षणमचिन्तयत् ||१०||
आश्रयं सर्वभूतानां मनसेति विशुश्रुम |
स धारयति भूतात्मा उभे भूतभविष्यती ||११||
ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि |
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ||१२||
स तत्र भगवान्देवः पुष्करे भासयन्दिशः |
ब्रह्मा समभवत्तात सर्वभूतपितामहः ||१३||
तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि |
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः ||१४||
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् |
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ||१५||
तस्य तात वधात्सर्वे देवदानवमानवाः |
मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम् ||१६||
ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान् |
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ||१७||
मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम् |
मानसं जनयामास तैजसं ब्रह्मसत्तमम् ||१८||
अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम् |
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ||१९||
तस्य पूर्वमजायन्त दश तिस्रश्च भारत |
प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः ||२०||
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः |
मारीचः कश्यपस्तात सर्वासामभवत्पतिः ||२१||
उत्पाद्य तु महाभागस्तासामवरजा दश |
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः ||२२||
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः |
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत ||२३||
अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः |
सोमस्तासां महाभागः सर्वासामभवत्पतिः ||२४||
इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान् |
गाश्च किम्पुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन् ||२५||
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान् |
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ||२६||
तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत |
दानवाश्च पराभूता दैतेयी चासुरी प्रजा ||२७||
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः |
दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत ||२८||
अहोरात्रं च कालं च यथर्तु मधुसूदनः |
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् ||२९||
बुद्द्यापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान् |
पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा ||३०||
ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर |
ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः ||३१||
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् |
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ ||३२||
स एवं चतुरो वर्णान्समुत्पाद्य महायशाः |
अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः ||३३||
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम् |
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ||३४||
न चैषां मैथुनो धर्मो बभूव भरतर्षभ |
सङ्कल्पादेव चैतेषामपत्यमुदपद्यत ||३५||
तत्र त्रेतायुगे काले सङ्कल्पाज्जायते प्रजा |
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ||३६||
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप |
तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः ||३७||
एष भूतपतिस्तात स्वध्यक्षश्च प्रकीर्तितः |
निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि ||३८||
दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः |
उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह ||३९||
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि |
यौनकाम्बोजगान्धाराः किराता बर्बरैः सह ||४०||
एते पापकृतस्तात चरन्ति पृथिवीमिमाम् |
श्वकाकबलगृध्राणां सधर्माणो नराधिप ||४१||
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम् |
त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ ||४२||
ततस्तस्मिन्महाघोरे सन्ध्याकाले युगान्तिके |
राजानः समसज्जन्त समासाद्येतरेतरम् ||४३||
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः |
देवदेवर्षिराचष्ट नारदः सर्वलोकदृक् ||४४||
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप |
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ||४५||
एवमेष महाबाहुः केशवः सत्यविक्रमः |
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ||४६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
201-अध्यायः
दिक्पालकीर्तनम्
युधिष्ठिर उवाच||
के पूर्वमासन्पतयः प्रजानां भरतर्षभ |
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः ||१||
भीष्म उवाच||
श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि |
प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः ||२||
एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः |
ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयम्भुवः ||३||
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः |
वसिष्ठश्च महाभागः सदृशा वै स्वयम्भुवा ||४||
सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः |
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ||५||
अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः |
प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश ||६||
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः |
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ||७||
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते |
अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः ||८||
अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् |
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ||९||
अर्यमा चैव भगवान्ये चान्ये तनया विभो |
एते प्रदेशाः कथिता भुवनानां प्रभावनाः ||१०||
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत |
एकैकस्यां सहस्रं तु तनयानामभूत्तदा ||११||
एवं शतसहस्राणां शतं तस्य महात्मनः |
पुत्राणां न च ते कञ्चिदिच्छन्त्यन्यं प्रजापतिम् ||१२||
प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम् |
स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः ||१३||
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः |
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ||१४||
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा |
सविता चैव धाता च विवस्वांश्च महाबलः ||१५||
पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते |
त एते द्वादशादित्याः कश्यपस्यात्मसम्भवाः ||१६||
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि |
मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ||१७||
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः |
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ||१८||
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः |
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ||१९||
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ||१९||
एत एवंविधा देवा मनोरेव प्रजापतेः |
ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः ||२०||
शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः |
ऋभवो मरुतश्चैव देवानां चोदिता गणाः ||२१||
एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ |
आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा ||२२||
अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ |
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः ||२३||
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ||२३||
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् |
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ||२४||
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू |
औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः ||२५||
ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा |
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ||२६||
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् |
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ||२७||
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् |
एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम् ||२८||
रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् |
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ||२९||
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः |
एते नव महात्मानः पश्चिमामाश्रिता दिशम् ||३०||
आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः |
गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः ||३१||
तथैव पुत्रो भगवानृचीकस्य महात्मनः |
जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः ||३२||
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः |
साक्षिभूता महात्मानो भुवनानां प्रभावनाः ||३३||
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः |
एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते ||३४||
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः |
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् ||३५||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
202-अध्यायः
विष्णोः वराहरूपम्
युधिष्ठिर उवाच||
पितामह महाप्राज्ञ युधि सत्यपराक्रम |
श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम् ||१||
यच्चास्य तेजः सुमहद्यच्च कर्म पुरातनम् |
तन्मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ ||२||
तिर्यग्योनिगतं रूपं कथं धारितवान्हरिः |
केन कार्यविसर्गेण तन्मे ब्रूहि पितामह ||३||
भीष्म उवाच||
पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः |
तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः ||४||
ततस्ते मधुपर्केण पूजां चक्रुरथो मयि |
प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम् ||५||
कथैषा कथिता तत्र कश्यपेन महर्षिणा |
मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु ||६||
पुरा दानवमुख्या हि क्रोधलोभसमन्विताः |
बलेन मत्ताः शतशो नरकाद्या महासुराः ||७||
तथैव चान्ये बहवो दानवा युद्धदुर्मदाः |
न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम् ||८||
दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा |
न शर्म लेभिरे राजन्विशमानास्ततस्ततः ||९||
पृथिवीं चार्तरूपां ते समपश्यन्दिवौकसः |
दानवैरभिसङ्कीर्णां घोररूपैर्महाबलैः ||१०||
भारार्तामपकृष्टां च दुःखितां संनिमज्जतीम् ||१०||
अथादितेयाः सन्त्रस्ता ब्रह्माणमिदमब्रुवन् |
कथं शक्यामहे ब्रह्मन्दानवैरुपमर्दनम् ||११||
स्वयम्भूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया |
ते वरेणाभिसंमत्ता बलेन च मदेन च ||१२||
नावभोत्स्यन्ति संमूढा विष्णुमव्यक्तदर्शनम् |
वराहरूपिणं देवमधृष्यममरैरपि ||१३||
एष वेगेन गत्वा हि यत्र ते दानवाधमाः |
अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः ||१४||
शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः ||१४||
ततो विष्णुर्महातेजा वाराहं रूपमाश्रितः |
अन्तर्भूमिं सम्प्रविश्य जगाम दितिजान्प्रति ||१५||
दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम् |
प्रसह्य सहसा सर्वे सन्तस्थुः कालमोहिताः ||१६||
सर्वे च समभिद्रुत्य वराहं जगृहुः समम् |
सङ्क्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः ||१७||
दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः |
नाशक्नुवंश्च किञ्चित्ते तस्य कर्तुं तदा विभो ||१८||
ततोऽगमन्विस्मयं ते दानवेन्द्रा भयात्तदा |
संशयं गतमात्मानं मेनिरे च सहस्रशः ||१९||
ततो देवादिदेवः स योगात्मा योगसारथिः |
योगमास्थाय भगवांस्तदा भरतसत्तम ||२०||
विननाद महानादं क्षोभयन्दैत्यदानवान् |
संनादिता येन लोकाः सर्वाश्चैव दिशो दश ||२१||
तेन संनादशब्देन लोकाः सङ्क्षोभमागमन् |
सम्भ्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः ||२२||
निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा |
स्थावरं जङ्गमं चैव तेन नादेन मोहितम् ||२३||
ततस्ते दानवाः सर्वे तेन शब्देन भीषिताः |
पेतुर्गतासवश्चैव विष्णुतेजोविमोहिताः ||२४||
रसातलगतांश्चैव वराहस्त्रिदशद्विषः |
खुरैः संदारयामास मांसमेदोस्थिसञ्चयम् ||२५||
नादेन तेन महता सनातन इति स्मृतः |
पद्मनाभो महायोगी भूताचार्यः स भूतराट् ||२६||
ततो देवगणाः सर्वे पितामहमुपाब्रुवन् |
नादोऽयं कीदृशो देव नैनं विद्म वयं विभो ||२७||
कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत् ||२७||
एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः |
उदतिष्ठन्महादेवः स्तूयमानो महर्षिभिः ||२८||
पितामह उवाच||
निहत्य दानवपतीन्महावर्ष्मा महाबलः |
एष देवो महायोगी भूतात्मा भूतभावनः ||२९||
सर्वभूतेश्वरो योगी योनिरात्मा तथात्मनः |
स्थिरीभवत कृष्णोऽयं सर्वपापप्रणाशनः ||३०||
कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः |
समायातः स्वमात्मानं महाभागो महाद्युतिः ||३१||
पद्मनाभो महायोगी भूतात्मा भूतभावनः ||३१||
न सन्तापो न भीः कार्या शोको वा सुरसत्तमाः |
विधिरेष प्रभावश्च कालः सङ्क्षयकारकः ||३२||
लोकान्धारयतानेन नादो मुक्तो महात्मना ||३२||
स एव हि महाभागः सर्वलोकनमस्कृतः |
अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः ||३३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
203-अध्यायः
गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)
युधिष्ठिर उवाच||
योगं मे परमं तात मोक्षस्य वद भारत |
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ||२||
कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम् |
शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः ||३||
चरणावुपसङ्गृह्य स्थितः प्राञ्जलिरब्रवीत् ||३||
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम |
संशयो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि ||४||
कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् |
कथं च सर्वभूतेषु समेषु द्विजसत्तम ||५||
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः ||५||
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् |
एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि ||६||
गुरुरुवाच||
शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् |
अध्यात्मं सर्वभूतानामागमानां च यद्वसु ||७||
वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम् |
सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम् ||८||
पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः |
सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ||९||
तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे ||९||
ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा |
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ||१०||
अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम् ||१०||
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् |
त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते ||११||
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् |
वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् ||१२||
पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान् |
नागासुरमनुष्यांश्च सृजते परमोऽव्ययः ||१३||
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् |
प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः ||१४||
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये |
दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु ||१५||
अथ यद्यद्यदा भावि कालयोगाद्युगादिषु |
तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् ||१६||
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः |
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ||१७||
वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः |
भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् ||१८||
गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् |
देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ||१९||
न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः |
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते ||२०||
अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः |
एकस्तद्वेद भगवान्धाता नारायणः प्रभुः ||२१||
नारायणादृषिगणास्तथा मुख्याः सुरासुराः |
राजर्षयः पुराणाश्च परमं दुःखभेषजम् ||२२||
पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा |
हेतुयुक्तमतः सर्वं जगत्सम्परिवर्तते ||२३||
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः |
प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते ||२४||
अव्यक्तकर्मजा बुद्धिरहङ्कारं प्रसूयते |
आकाशं चाप्यहङ्काराद्वायुराकाशसम्भवः ||२५||
वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता |
मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम् ||२६||
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि |
विषयाः पञ्च चैकं च विकारे षोडशं मनः ||२७||
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि |
पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि ||२८||
शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च |
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः ||२९||
रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च |
इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा ||३०||
विद्यात्तु षोडशैतानि दैवतानि विभागशः |
देहेषु ज्ञानकर्तारमुपासीनमुपासते ||३१||
तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः |
श्रोत्रं शब्दगुणं चैव चक्षुरग्नेर्गुणस्तथा ||३२||
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा ||३२||
मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा |
सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान् ||३३||
एते भावा जगत्सर्वं वहन्ति सचराचरम् |
श्रिता विरजसं देवं यमाहुः परमं पदम् ||३४||
नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् |
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ||३५||
अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान् |
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः ||३६||
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् |
ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु ||३७||
सोऽत्र वेदयते वेद्यं स शृणोति स पश्यति |
कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् ||३८||
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते |
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ||३९||
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः |
सन्तन्वाना यथा यान्ति तथा देहाः शरीरिणाम् ||४०||
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः |
देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते ||४१||
कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते |
कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा ||४२||
स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते |
तथा तं सम्प्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ||४३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
204-अध्यायः
गुरुरुवाच||
चतुर्विधानि भूतानि स्थावराणि चराणि च |
अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च ||१||
अव्यक्तनिधनं विद्यादव्यक्तात्मात्मकं मनः ||१||
यथाश्वत्थकणीकायामन्तर्भूतो महाद्रुमः |
निष्पन्नो दृश्यते व्यक्तमव्यक्तात्सम्भवस्तथा ||२||
अभिद्रवत्ययस्कान्तमयो निश्चेतनावुभौ |
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ||३||
तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः |
अचेतनाश्चेतयितुः कारणादभिसंहिताः ||४||
न भूः खं द्यौर्न भूतानि नर्षयो न सुरासुराः |
नान्यदासीदृते जीवमासेदुर्न तु संहितम् ||५||
सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम् |
अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् ||६||
तत्कारणैर्हि संयुक्तं कार्यसङ्ग्रहकारकम् |
येनैतद्वर्तते चक्रमनादिनिधनं महत् ||७||
अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् |
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ||८||
स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् |
तिलपीडैरिवाक्रम्य भोगैरज्ञानसम्भवैः ||९||
कर्म तत्कुरुते तर्षादहङ्कारपरिग्रहम् |
कार्यकारणसंयोगे स हेतुरुपपादितः ||१०||
नात्येति कारणं कार्यं न कार्यं कारणं तथा |
कार्याणां तूपकरणे कालो भवति हेतुमान् ||११||
हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम् |
अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा ||१२||
सरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः |
क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा ||१३||
न च तैः स्पृश्यते भावो न ते तेन महात्मना ||१३||
सरजस्कोऽरजस्कश्च स वै वायुर्यथा भवेत् |
तथैतदन्तरं विद्यात्क्षेत्रक्षेत्रज्ञयोर्बुधः ||१४||
अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः ||१४||
संदेहमेतमुत्पन्नमच्छिनद्भगवानृषिः |
तथा वार्तां समीक्षेत कृतलक्षणसंमिताम् ||१५||
बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः |
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्बध्यते पुनः ||१६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
205-अध्यायः
गुरुरुवाच||
प्रवृत्तिलक्षणो धर्मो यथायमुपपद्यते |
तेषां विज्ञाननिष्ठानामन्यत्तत्त्वं न रोचते ||१||
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः |
प्रयोजनमतस्त्वत्र मार्गमिच्छन्ति संस्तुतम् ||२||
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम् |
इयं सा बुद्धिरन्येयं यया याति परां गतिम् ||३||
शरीरवानुपादत्ते मोहात्सर्वपरिग्रहान् |
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः ||४||
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम् |
कर्मणो विवरं कुर्वन्न लोकानाप्नुयाच्छुभान् ||५||
लोहयुक्तं यथा हेम विपक्वं न विराजते |
तथापक्वकषायाख्यं विज्ञानं न प्रकाशते ||६||
यश्चाधर्मं चरेन्मोहात्कामलोभावनु प्लवन् |
धर्म्यं पन्थानमाक्रम्य सानुबन्धो विनश्यति ||७||
शन्दादीन्विषयांस्तस्मादसंरागादनुप्लवेत् |
क्रोधहर्षौ विषादश्च जायन्ते हि परस्परम् ||८||
पञ्चभूतात्मके देहे सत्त्वराजसतामसे |
कमभिष्टुवते चायं कं वा क्रोशति किं वदेत् ||९||
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः |
नावगच्छन्त्यविज्ञानादात्मजं पार्थिवं गुणम् ||१०||
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते |
पार्थिवोऽयं तथा देहो मृद्विकारैर्विलिप्यते ||११||
मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः |
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा ||१२||
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत् |
श्रमादाहारमादद्यादस्वाद्वपि हि यापनम् ||१३||
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः |
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा ||१४||
सत्यशौचार्जवत्यागैर्यशसा विक्रमेण च |
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च ||१५||
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम् |
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च ||१६||
सत्त्वेन रजसा चैव तमसा चैव मोहिताः |
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् ||१७||
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसम्भवान् |
अज्ञानप्रभवं नित्यमहङ्कारं परित्यजेत् ||१८||
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः |
त्रैलोक्यं सेश्वरं सर्वमहङ्कारे प्रतिष्ठितम् ||१९||
यथेह नियतं कालो दर्शयत्यार्तवान्गुणान् |
तद्वद्भूतेष्वहङ्कारं विद्याद्भूतप्रवर्तकम् ||२०||
संमोहकं तमो विद्यात्कृष्णमज्ञानसम्भवम् |
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान् ||२१||
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान् ||२१||
प्रमोहो हर्षजः प्रीतिरसंदेहो धृतिः स्मृतिः |
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान् ||२२||
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः |
विषादशोकावरतिर्मानदर्पावनार्यता ||२३||
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम् |
विमृशेदात्मसंस्थानामेकैकमनुसन्ततम् ||२४||
शिष्य उवाच||
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः |
के पुनः पुनरायान्ति के मोहादफला इव ||२५||
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः |
एतत्सर्वं समाचक्ष्व यथा विद्यामहं प्रभो ||२६||
गुरुरुवाच||
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते |
विनाशयति सम्भूतमयस्मयमयो यथा ||२७||
तथाकृतात्मा सहजैर्दोषैर्नश्यति राजसैः ||२७||
राजसं तामसं चैव शुद्धात्माकर्मसम्भवम् |
तत्सर्वं देहिनां बीजं सर्वमात्मवतः समम् ||२८||
तस्मादात्मवता वर्ज्यं रजश्च तम एव च |
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात् ||२९||
अथ वा मन्त्रवद्ब्रूयुर्मांसादानां यजुष्कृतम् |
हेतुः स एवानादाने शुद्धधर्मानुपालने ||३०||
रजसा धर्मयुक्तानि कार्याण्यपि समाप्नुयात् |
अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते ||३१||
तमसा लोभयुक्तानि क्रोधजानि च सेवते |
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः ||३२||
सत्त्वस्थः सात्त्विकान्भावाञ्शुद्धान्पश्यति संश्रितः |
स देही विमलः श्रीमाञ्शुद्धो विद्यासमन्वितः ||३३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
206-अध्यायः
गुरुरुवाच||
रजसा साध्यते मोहस्तमसा च नरर्षभ |
क्रोधलोभौ भयं दर्प एतेषां साधनाच्छुचिः ||१||
परमं परमात्मानं देवमक्षयमव्ययम् |
विष्णुमव्यक्तसंस्थानं विशन्ते देवसत्तमम् ||२||
तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः |
मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै ||३||
कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः |
मानदर्पादहङ्कारमहङ्कारात्ततः क्रियाः ||४||
क्रियाभिः स्नेहसम्बन्धः स्नेहाच्छोकमनन्तरम् |
सुखदुःखसमारम्भाज्जन्माजन्मकृतक्षणाः ||५||
जन्मतो गर्भवासं तु शुक्रशोणितसम्भवम् |
पुरीषमूत्रविक्लेदशोणितप्रभवाविलम् ||६||
तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन् |
संसारतन्त्रवाहिन्यस्तत्र बुध्येत योषितः ||७||
प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः |
तस्मादेता विशेषेण नरोऽतीयुर्विपश्चितः ||८||
कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान् |
रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी ||९||
तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः |
स्वदेहजानस्वसञ्ज्ञान्यद्वदङ्गात्कृमींस्त्यजेत् ||१०||
स्वसञ्ज्ञानस्वजांस्तद्वत्सुतसञ्ज्ञान्कृमींस्त्यजेत् ||१०||
शुक्रतो रसतश्चैव स्नेहाज्जायन्ति जन्तवः |
स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान् ||११||
रजस्तमसि पर्यस्तं सत्त्वं तमसि संस्थितम् |
ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहङ्कारलक्षणम् ||१२||
तद्बीजं देहिनामाहुस्तद्बीजं जीवसञ्ज्ञितम् |
कर्मणा कालयुक्तेन संसारपरिवर्तकम् ||१३||
रमत्ययं यथा स्वप्ने मनसा देहवानिव |
कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते ||१४||
कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम् |
जायते तदहङ्काराद्रागयुक्तेन चेतसा ||१५||
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः |
रूपरागात्तथा चक्षुर्घ्राणं गन्धचिकीर्षया ||१६||
स्पर्शनेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः |
व्यानोदानौ समानश्च पञ्चधा देहयापना ||१७||
सञ्जातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः |
दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः ||१८||
दुःखं विद्यादुपादानादभिमानाच्च वर्धते |
त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते ||१९||
इन्द्रियाणां रजस्येव प्रभवप्रलयावुभौ |
परीक्ष्य सञ्चरेद्विद्वान्यथावच्छास्त्रचक्षुषा ||२०||
ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम् |
ज्ञातैश्च कारणैर्देही न देहं पुनरर्हति ||२१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
207-अध्यायः
गुरुरुवाच||
अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा |
तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुयात्परमां गतिम् ||१||
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते |
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः ||२||
सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः |
ब्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चयाः ||३||
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि |
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः ||४||
तांस्तानुपासते धर्मान्धर्मकामा यथागमम् |
न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् ||५||
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः |
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान् ||६||
यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम् |
परं तत्सर्वभूतेभ्यस्तेन यान्ति परां गतिम् ||७||
लिङ्गसंयोगहीनं यच्छरीरस्पर्शवर्जितम् |
श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् ||८||
जिह्वया रसनं यच्च तदेव परिवर्जितम् |
बुद्ध्या च व्यवसायेन ब्रह्मचर्यमकल्मषम् ||९||
सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् |
द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः ||१०||
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु |
सम्प्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः ||११||
योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः |
कदाचिद्दर्शनादासां दुर्बलानाविशेद्रजः ||१२||
रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः |
मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम् ||१३||
पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमयम् |
ज्ञानयुक्तेन मनसा सन्ततेन विचक्षणः ||१४||
कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् |
तद्वद्देहगतं विद्यादात्मानं देहबन्धनम् ||१५||
वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च |
मज्जां चैव सिराजालैस्तर्पयन्ति रसा नृणाम् ||१६||
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः |
याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः ||१७||
एवमेताः सिरानद्यो रसोदा देहसागरम् |
तर्पयन्ति यथाकालमापगा इव सागरम् ||१८||
मध्ये च हृदयस्यैका सिरा त्वत्र मनोवहा |
शुक्रं सङ्कल्पजं नॄणां सर्वगात्रैर्विमुञ्चति ||१९||
सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः |
नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् ||२०||
पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः |
शुक्रं निर्मथ्यते तद्वद्देहसङ्कल्पजैः खजैः ||२१||
स्वप्नेऽप्येवं यथाभ्येति मनःसङ्कल्पजं रजः |
शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा ||२२||
महर्षिर्भगवानत्रिर्वेद तच्छुक्रसम्भवम् |
त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते ||२३||
ये वै शुक्रगतिं विद्युर्भूतसङ्करकारिकाम् |
विरागा दग्धदोषास्ते नाप्नुयुर्देहसम्भवम् ||२४||
गुणानां साम्यमागम्य मनसैव मनोवहम् |
देहकर्म नुदन्प्राणानन्तकाले विमुच्यते ||२५||
भविता मनसो ज्ञानं मन एव प्रतायते |
ज्योतिष्मद्विरजो दिव्यमत्र सिद्धं महात्मनाम् ||२६||
तस्मात्तदविघाताय कर्म कुर्यादकल्मषम् |
रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात् ||२७||
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् |
परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम् ||२८||
सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम् |
यदा पश्येत्तदा दोषानतीत्यामृतमश्नुते ||२९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
208-अध्यायः
गुरुरुवाच||
दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः |
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम् ||१||
जन्ममृत्युजरादुःखैर्व्याधिभिर्मनसः क्लमैः |
दृष्ट्वेमं सन्ततं लोकं घटेन्मोक्षाय बुद्धिमान् ||२||
वाङ्मनोभ्यां शरीरेण शुचिः स्यादनहङ्कृतः |
प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम् ||३||
अथ वा मनसः सङ्गं पश्येद्भूतानुकम्पया |
अत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् ||४||
यत्कृतं प्राक्षुभं कर्म पापं वा तदुपाश्नुते |
तस्माच्छुभानि कर्माणि कुर्याद्वाग्बुद्धिकर्मभिः ||५||
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् |
क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ||६||
यश्चैनं परमं धर्मं सर्वभूतसुखावहम् |
दुःखान्निःसरणं वेद स तत्त्वज्ञः सुखी भवेत् ||७||
तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत् |
नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् ||८||
अवाग्योगप्रयोगेण मनोज्ञं सम्प्रवर्तते |
विवक्षता वा सद्वाक्यं धर्मं सूक्ष्ममवेक्षता ||९||
सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् ||९||
कल्कापेतामपरुषामनृशंसामपैशुनाम् |
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा ||१०||
वाक्प्रबुद्धो हि संरागाद्विरागाद्व्याहरेद्यदि |
बुद्ध्या ह्यनिगृहीतेन मनसा कर्म तामसम् ||११||
रजोभूतैर्हि करणैः कर्मणा प्रतिपद्यते ||११||
स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते |
तस्मान्मनोवाक्षरीरैराचरेद्धैर्यमात्मनः ||१२||
प्रकीर्णमेषभारो हि यद्वद्धार्येत दस्युभिः |
प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा ||१३||
तानेव च यथा दस्यून्क्षिप्त्वा गच्छेच्छिवां दिशम् |
तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयात्सुखम् ||१४||
निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः |
विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः ||१५||
ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान् |
निष्प्रचारेण मनसा परं तदधिगच्छति ||१६||
धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम् |
मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसात्मनः ||१७||
निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे |
देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम् ||१८||
ताभिः संसक्तमनसो ब्रह्मवत्सम्प्रकाशते |
एतैश्चापगतैः सर्वैर्ब्रह्मभूयाय कल्पते ||१९||
अथ वा न प्रवर्तेत योगतन्त्रैरुपक्रमेत् |
येन तन्त्रमयं तन्त्रं वृत्तिः स्यात्तत्तदाचरेत् ||२०||
कणपिण्याककुल्माषशाकयावकसक्तवः |
तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत् ||२१||
आहारं नियतं चैव देशे काले च सात्त्विकम् |
तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम् ||२२||
प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत् |
ज्ञानेन्धितं ततो ज्ञानमर्कवत्सम्प्रकाशते ||२३||
ज्ञानाधिष्ठानमज्ञानं त्रीँल्लोकानधितिष्ठति |
विज्ञानानुगतं ज्ञानमज्ञानादपकृष्यते ||२४||
पृथक्त्वात्सम्प्रयोगाच्च नासूयुर्वेद शाश्वतम् |
स तयोरपवर्गज्ञो वीतरागो विमुच्यते ||२५||
वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् |
अमृतं तदवाप्नोति यत्तदक्षरमव्ययम् ||२६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
209-अध्यायः
गुरुरुवाच||
निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा |
निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता ||१||
स्वप्ने हि रजसा देही तमसा चाभिभूयते |
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः ||२||
ज्ञानाभ्यासाज्जागरतो जिज्ञासार्थमनन्तरम् |
विज्ञानाभिनिवेशात्तु जागरत्यनिशं सदा ||३||
अत्राह को न्वयं भावः स्वप्ने विषयवानिव |
प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव ||४||
अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः |
तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः ||५||
इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं बुधाः |
मनसस्तु प्रलीनत्वात्तत्तदाहुर्निदर्शनम् ||६||
कार्यव्यासक्तमनसः सङ्कल्पो जाग्रतो ह्यपि |
यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम् ||७||
संसाराणामसङ्ख्यानां कामात्मा तदवाप्नुयात् |
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः ||८||
गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम् |
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा ||९||
ततस्तमुपवर्तन्ते गुणा राजसतामसाः |
सात्त्विको वा यथायोगमानन्तर्यफलोदयः ||१०||
ततः पश्यत्यसम्बद्धान्वातपित्तकफोत्तरान् |
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरन्वयम् ||११||
प्रसन्नैरिन्द्रियैर्यद्यत्सङ्कल्पयति मानसम् |
तत्तत्स्वप्नेऽप्युपरते मनोदृष्टिर्निरीक्षते ||१२||
व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः |
मनस्यन्तर्हितं द्वारं देहमास्थाय मानसम् ||१३||
यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् |
सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः ||१४||
लिप्सेत मनसा यश्च सङ्कल्पादैश्वरं गुणम् |
आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः ||१५||
एवं हि तपसा युक्तमर्कवत्तमसः परम् |
त्रैलोक्यप्रकृतिर्देही तपसा तं महेश्वरम् ||१६||
तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः |
एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् ||१७||
सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः |
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ ||१८||
ब्रह्म तत्परमं वेद्यममृतं ज्योतिरक्षरम् |
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् ||१९||
हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा |
प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम् ||२०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
210-अध्यायः
गुरुरुवाच||
न स वेद परं धर्मं यो न वेद चतुष्टयम् |
व्यक्ताव्यक्ते च यत्तत्त्वं सम्प्राप्तं परमर्षिणा ||१||
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् |
प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ||२||
अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् |
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् ||३||
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् |
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ||४||
तां गतिं परमामेति निवृत्तिपरमो मुनिः |
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः ||५||
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ |
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् ||६||
तं विशेषमवेक्षेत विशेषेण विचक्षणः |
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि ||७||
उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश्च महत्तरौ |
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् ||८||
प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया |
विपरीतमतो विद्यात्क्षेत्रज्ञस्य च लक्षणम् ||९||
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् |
अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहितौ ||१०||
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया |
करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते ||११||
कीर्त्यते शब्दसञ्ज्ञाभिः कोऽहमेषोऽप्यसाविति ||११||
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः |
संवृतोऽयं तथा देही सत्त्वराजसतामसैः ||१२||
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम् |
यथासञ्ज्ञो ह्ययं सम्यगन्तकाले न मुह्यति ||१३||
श्रियं दिव्यामभिप्रेप्सुर्ब्रह्म वाङ्मनसा शुचिः |
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः ||१४||
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता |
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि ||१५||
प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः |
रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् ||१६||
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते |
वाङ्मनोनियमः साम्यं मानसं तप उच्यते ||१७||
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते |
आहारनियमेनास्य पाप्मा नश्यति राजसः ||१८||
वैमनस्यं च विषये यान्त्यस्य करणानि च |
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् ||१९||
अन्तकाले वयोत्कर्षाच्छनैः कुर्यादनातुरः |
एवं युक्तेन मनसा ज्ञानं तदुपपद्यते ||२०||
रजसा चाप्ययं देही देहवाञ्शब्दवच्चरेत् |
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः ||२१||
आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते ||२१||
हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस्तथा |
परप्रत्ययसर्गे तु नियतं नातिवर्तते ||२२||
भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम् |
धृत्या देहान्धारयन्तो बुद्धिसङ्क्षिप्तमानसाः ||२३||
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तानुपासते ||२३||
यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुध्यते |
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः ||२४||
युक्तो धारणया कश्चित्सत्तां केचिदुपासते ||२४||
अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् |
अन्तकाले ह्युपासन्नास्तपसा दग्धकिल्बिषाः ||२५||
सर्व एते महात्मानो गच्छन्ति परमां गतिम् |
सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा ||२६||
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् |
अन्तरिक्षादन्यतरं धारणासक्तमानसम् ||२७||
मर्त्यलोकाद्विमुच्यन्ते विद्यासंयुक्तमानसाः |
ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् ||२८||
कषायवर्जितं ज्ञानं येषामुत्पद्यतेऽचलम् |
ते यान्ति परमाँल्लोकान्विशुध्यन्तो यथाबलम् ||२९||
भगवन्तमजं दिव्यं विष्णुमव्यक्तसञ्ज्ञितम् |
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ||३०||
ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न तेऽव्ययाः |
प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम् ||३१||
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च |
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते ||३२||
बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे |
तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा ||३३||
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः |
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबध्यते ||३४||
विकारं प्रकृतिं चैव पुरुषं च सनातनम् |
यो यथावद्विजानाति स वितृष्णो विमुच्यते ||३५||
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम् |
भूतानामनुकम्पार्थं जगाद जगतो हितम् ||३६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
211-अध्यायः
जनकपञ्चशिखसंवादः
युधिष्ठिर उवाच||
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः |
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य मानुषान् ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
येन वृत्तेन वृत्तज्ञः स जगाम महत्सुखम् ||२||
जनको जनदेवस्तु मिथिलायां जनाधिपः |
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ||३||
तस्य स्म शतमाचार्या वसन्ति सततं गृहे |
दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः ||४||
स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये |
आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति ||५||
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः |
परिधावन्महीं कृत्स्नां जगाम मिथिलामपि ||६||
सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये |
सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः ||७||
ऋषीणामाहुरेकं यं कामादवसितं नृषु |
शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम् ||८||
यमाहुः कपिलं साङ्ख्याः परमर्षिं प्रजापतिम् |
स मन्ये तेन रूपेण विस्मापयति हि स्वयम् ||९||
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् |
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् ||१०||
तं समासीनमागम्य मण्डलं कापिलं महत् |
पुरुषावस्थमव्यक्तं परमार्थं निबोधयत् ||११||
इष्टिसत्रेण संसिद्धो भूयश्च तपसा मुनिः |
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः ||१२||
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते |
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम् ||१३||
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः |
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी ||१४||
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ |
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् ||१५||
एतन्मे भगवानाह कापिलेयाय सम्भवम् |
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ||१६||
सामान्यं कपिलो ज्ञात्वा धर्मज्ञानामनुत्तमम् |
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ||१७||
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् |
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् ||१८||
तस्मै परमकल्पाय प्रणताय च धर्मतः |
अब्रवीत्परमं मोक्षं यत्तत्साङ्ख्यं विधीयते ||१९||
जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत् |
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ||२०||
यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः |
तदनाश्वासिकं मोघं विनाशि चलमध्रुवम् ||२१||
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके |
आगमात्परमस्तीति ब्रुवन्नपि पराजितः ||२२||
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः |
आत्मानं मन्यते मोहात्तदसम्यक्परं मतम् ||२३||
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते |
अजरोऽयममृत्युश्च राजासौ मन्यते तथा ||२४||
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे |
किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् ||२५||
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि |
प्रत्यक्षो ह्यागमोऽभिन्नः कृतान्तो वा न किञ्चन ||२६||
यत्र तत्रानुमानेऽस्ति कृतं भावयतेऽपि वा |
अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः ||२७||
रेतो वटकणीकायां घृतपाकाधिवासनम् |
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ||२८||
प्रेत्य भूतात्ययश्चैव देवताभ्युपयाचनम् |
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ||२९||
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः |
अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते ||३०||
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवम् |
कारणं लोभमोहौ तु दोषाणां च निषेवणम् ||३१||
अविद्यां क्षेत्रमाहुर्हि कर्म बीजं तथा कृतम् |
तृष्णासञ्जननं स्नेह एष तेषां पुनर्भवः ||३२||
तस्मिन्व्यूढे च दग्धे च चित्ते मरणधर्मिणि |
अन्योऽन्याज्जायते देहस्तमाहुः सत्त्वसङ्क्षयम् ||३३||
यदा स रूपतश्चान्यो जातितः श्रुतितोऽर्थतः |
कथमस्मिन्स इत्येव सम्बन्धः स्यादसंहितः ||३४||
एवं सति च का प्रीतिर्दानविद्यातपोबलैः |
यदन्याचरितं कर्म सर्वमन्यः प्रपद्यते ||३५||
यदा ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् |
सुखितैर्दुःखितैर्वापि दृश्योऽप्यस्य विनिर्णयः ||३६||
तथा हि मुसलैर्हन्युः शरीरं तत्पुनर्भवेत् |
पृथग्ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते ||३७||
ऋतुः संवत्सरस्तिथ्यः शीतोष्णे च प्रियाप्रिये |
यथातीतानि पश्यन्ति तादृशः सत्त्वसङ्क्षयः ||३८||
जरया हि परीतस्य मृत्युना वा विनाशिना |
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ||३९||
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च |
आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च ||४०||
लोकयात्राविधानं च दानधर्मफलागमः |
यदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ||४१||
इति सम्यङ्मनस्येते बहवः सन्ति हेतवः |
एतदस्तीदमस्तीति न किञ्चित्प्रतिपद्यते ||४२||
तेषां विमृशतामेवं तत्तत्समभिधावताम् |
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ||४३||
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः |
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा ||४४||
अर्थांस्तथात्यन्तसुखावहांश्च; लिप्सन्त एते बहवो विशुल्काः |
महत्तरं दुःखमभिप्रपन्ना; हित्वामिषं मृत्युवशं प्रयान्ति ||४५||
विनाशिनो ह्यध्रुवजीवितस्य; किं बन्धुभिर्मित्रपरिग्रहैश्च |
विहाय यो गच्छति सर्वमेव; क्षणेन गत्वा न निवर्तते च ||४६||
भूव्योमतोयानलवायवो हि; सदा शरीरं परिपालयन्ति |
इतीदमालक्ष्य कुतो रतिर्भवे; द्विनाशिनो ह्यस्य न शर्म विद्यते ||४७||
इदमनुपधि वाक्यमच्छलं; परमनिरामयमात्मसाक्षिकम् |
नरपतिरभिवीक्ष्य विस्मितः; पुनरनुयोक्तुमिदं प्रचक्रमे ||४८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
212-अध्यायः
भीष्म उवाच||
जनको जनदेवस्तु ज्ञापितः परमर्षिणा |
पुनरेवानुपप्रच्छ साम्पराये भवाभवौ ||१||
भगवन्यदिदं प्रेत्य सञ्ज्ञा भवति कस्यचित् |
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ||२||
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम |
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ||३||
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु |
कस्मै क्रियेत कल्पेन निश्चयः कोऽत्र तत्त्वतः ||४||
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् |
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ||५||
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते |
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् ||६||
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ||६||
धातवः पञ्चशाखोऽयं खं वायुर्ज्योतिरम्बु भूः |
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ||७||
आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम् |
एष पञ्चसमाहारः शरीरमिति नैकधा ||८||
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसङ्ग्रहः ||८||
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः |
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ||९||
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च |
इन्द्रियाणीति पञ्चैते चित्तपूर्वङ्गमा गुणाः ||१०||
तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा |
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ||११||
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्त्यथ |
एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये ||१२||
तेषु कर्मनिसर्गश्च सर्वतत्त्वार्थनिश्चयः |
तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत् ||१३||
इमं गुणसमाहारमात्मभावेन पश्यतः |
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ||१४||
अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि |
वर्तते किमधिष्ठाना प्रसक्ता दुःखसन्ततिः ||१५||
तत्र सम्यङ्मनो नाम त्यागशास्त्रमनुत्तमम् |
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ||१६||
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् |
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः ||१७||
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि |
सुखत्यागे तपोयोगः सर्वत्यागे समापना ||१८||
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः |
विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत् ||१९||
पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि |
मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु ||२०||
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् |
प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम् ||२१||
वाक्तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः |
एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः ||२२||
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसङ्ग्रहे |
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ||२३||
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये |
येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः ||२४||
सात्त्विको राजसश्चैव तामसश्चैव ते त्रयः |
त्रिविधा वेदना येषु प्रसूता सर्वसाधना ||२५||
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता |
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ||२६||
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा |
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ||२७||
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता |
कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः ||२८||
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् |
वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा ||२९||
यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः |
प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत् ||३०||
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् |
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ||३१||
तद्धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः |
नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा ||३२||
एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी |
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ||३३||
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति |
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ||३४||
तेषामयुगपद्भावे उच्छेदो नास्ति तामसः |
आस्थितो युगपद्भावे व्यवहारः स लौकिकः ||३५||
इन्द्रियाण्यवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम् |
चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः ||३६||
यत्तमोपहतं चित्तमाशु सञ्चारमध्रुवम् |
करोत्युपरमं काले तदाहुस्तामसं सुखम् ||३७||
यद्यदागमसंयुक्तं न कृत्स्नमुपशाम्यति |
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ||३८||
एवमेष प्रसङ्ख्यातः स्वकर्मप्रत्ययी गुणः |
कथञ्चिद्वर्तते सम्यक्केषाञ्चिद्वा न वर्तते ||३९||
एवमाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः |
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ||४०||
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् |
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः ||४१||
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च |
न च स्वतां नियच्छन्ति तादृशः सत्त्वसङ्क्षयः ||४२||
एवं सति कुतः सञ्ज्ञा प्रेत्यभावे पुनर्भवेत् |
प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः ||४३||
इमां तु यो वेद विमोक्षबुद्धि; मात्मानमन्विच्छति चाप्रमत्तः |
न लिप्यते कर्मफलैरनिष्टैः; पत्रं बिसस्येव जलेन सिक्तम् ||४४||
दृढैश्च पाशैर्बहुभिर्विमुक्तः; प्रजानिमित्तैरपि दैवतैश्च |
यदा ह्यसौ सुखदुःखे जहाति; मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ||४५||
श्रुतिप्रमाणागममङ्गलैश्च; शेते जरामृत्युभयादतीतः ||४५||
क्षीणे च पुण्ये विगते च पापे; ततोनिमित्ते च फले विनष्टे |
अलेपमाकाशमलिङ्गमेव; मास्थाय पश्यन्ति महद्ध्यसक्ताः ||४६||
यथोर्णनाभिः परिवर्तमान; स्तन्तुक्षये तिष्ठति पात्यमानः |
तथा विमुक्तः प्रजहाति दुःखं; विध्वंसते लोष्ट इवाद्रिमर्च्छन् ||४७||
यथा रुरुः शृङ्गमथो पुराणं; हित्वा त्वचं वाप्युरगो यथावत् |
विहाय गच्छत्यनवेक्षमाण; स्तथा विमुक्तो विजहाति दुःखम् ||४८||
द्रुमं यथा वाप्युदके पतन्त; मुत्सृज्य पक्षी प्रपतत्यसक्तः |
तथा ह्यसौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिमेत्यलिङ्गः ||४९||
अपि च भवति मैथिलेन गीतं; नगरमुपाहितमग्निनाभिवीक्ष्य |
न खलु मम तुषोऽपि दह्यतेऽत्र; स्वयमिदमाह किल स्म भूमिपालः ||५०||
इदममृतपदं विदेहराजः; स्वयमिह पञ्चशिखेन भाष्यमाणः |
निखिलमभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशोकः ||५१||
इमं हि यः पठति विमोक्षनिश्चयं; न हीयते सततमवेक्षते तथा |
उपद्रवान्नानुभवत्यदुःखितः; प्रमुच्यते कपिलमिवैत्य मैथिलः ||५२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
213-अध्यायः
युधिष्ठिर उवाच||
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुते |
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत ||१||
भीष्म उवाच||
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः |
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः ||२||
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते |
क्रिया तपश्च वेदाश्च दमे सर्वं प्रतिष्ठितम् ||३||
दमस्तेजो वर्धयति पवित्रं दम उच्यते |
विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत् ||४||
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते |
सुखं लोके विपर्येति मनश्चास्य प्रसीदति ||५||
तेजो दमेन ध्रियते न तत्तीक्ष्णोऽधिगच्छति |
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति ||६||
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् |
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा ||७||
आश्रमेषु च सर्वेषु दम एव विशिष्यते |
यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते ||८||
तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः |
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ||९||
अक्रोध आर्जवं नित्यं नातिवादो न मानिता |
गुरुपूजानसूया च दया भूतेष्वपैशुनम् ||१०||
जनवादमृषावादस्तुतिनिन्दाविवर्जनम् |
साधुकामश्चास्पृहयन्नायाति प्रत्ययं नृषु ||११||
अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः |
सुवृत्तः शीलसम्पन्नः प्रसन्नात्मात्मवान्बुधः ||१२||
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति ||१२||
सर्वभूतहिते युक्तो न स्मयाद्द्वेष्टि वै जनम् |
महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति ||१३||
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः |
नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान् ||१४||
न हृष्यति महत्यर्थे व्यसने च न शोचति |
स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते ||१५||
कर्मभिः श्रुतसम्पन्नः सद्भिराचरितैः शुभैः |
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महत्फलम् ||१६||
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता |
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम् ||१७||
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः |
विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः ||१८||
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान् ||१८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
214-अध्यायः
युधिष्ठिर उवाच||
द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः |
अन्नं ब्राह्मणकामाय कथमेतत्पितामह ||१||
भीष्म उवाच||
अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः |
वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर ||२||
युधिष्ठिर उवाच||
यदिदं तप इत्याहुरुपवासं पृथग्जनाः |
एतत्तपो महाराज उताहो किं तपो भवेत् ||३||
भीष्म उवाच||
मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः |
आत्मतन्त्रोपघातः स न तपस्तत्सतां मतम् ||४||
त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम् ||४||
सदोपवासी च भवेद्ब्रह्मचारी सदैव च |
मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भजेत् ||५||
कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत |
अमांसाशी सदा च स्यात्पवित्रं च सदा जपेत् ||६||
अमृताशी सदा च स्यान्न च स्याद्विषभोजनः |
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः ||७||
युधिष्ठिर उवाच||
कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत् |
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः ||८||
भीष्म उवाच||
अन्तरा प्रातराशं च सायमाशं तथैव च |
सदोपवासी च भवेद्यो न भुङ्क्ते कथञ्चन ||९||
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः |
ऋतवादी सदा च स्याज्ज्ञाननित्यश्च यो नरः ||१०||
अभक्षयन्वृथामांसममांसाशी भवत्युत |
दाननित्यः पवित्रश्च अस्वप्नश्च दिवास्वपन् ||११||
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा स ह |
अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर ||१२||
अभुक्तवत्सु नाश्नानः सततं यस्तु वै द्विजः |
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ||१३||
देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह |
अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम् ||१४||
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह |
उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः ||१५||
देवताभिश्च ये सार्धं पितृभिश्चोपभुञ्जते |
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ||१६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
215-अध्यायः
इन्द्रप्रह्रादसंवादः
युधिष्ठिर उवाच||
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम् |
पुरुषं योजयत्येव फलयोगेन भारत ||१||
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः |
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह ||२||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
प्रह्रादस्य च संवादमिन्द्रस्य च युधिष्ठिर ||३||
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् |
अस्तम्भमनहङ्कारं सत्त्वस्थं समये रतम् ||४||
तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम् |
चराचराणां भूतानां विदितप्रभवाप्ययम् ||५||
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च |
काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम् ||६||
आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम् |
परावरज्ञं भूतानां सर्वज्ञं समदर्शनम् ||७||
शक्रः प्रह्रादमासीनमेकान्ते संयतेन्द्रियम् |
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् ||८||
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु |
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे ||९||
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह |
आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे ||१०||
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः |
श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि ||११||
प्रज्ञालाभात्तु दैतेय उताहो धृतिमत्तया |
प्रह्राद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः ||१२||
इति सञ्चोदितस्तेन धीरो निश्चितनिश्चयः |
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् ||१३||
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते |
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ||१४||
स्वभावात्सम्प्रवर्तन्ते निवर्तन्ते तथैव च |
सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते ||१५||
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः |
स्वयं तु कुर्वतस्तस्य जातु मानो भवेदिह ||१६||
यस्तु कर्तारमात्मानं मन्यते साध्वसाधुनोः |
तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः ||१७||
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् |
आरम्भास्तस्य सिध्येरन्न च जातु पराभवेत् ||१८||
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च |
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः ||१९||
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च |
अप्रयत्नेन पश्यामः केषाञ्चित्तत्स्वभावतः ||२०||
प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिसत्तमाः |
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम् ||२१||
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा |
शुभाशुभास्तदा तत्र तस्य किं मानकारणम् ||२२||
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः |
आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततोऽन्यथा ||२३||
कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम् |
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु ||२४||
यथा वेदयते कश्चिदोदनं वायसो वदन् |
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ||२५||
विकारानेव यो वेद न वेद प्रकृतिं पराम् |
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ||२६||
स्वभावभाविनो भावान्सर्वानेवेह निश्चये |
बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति ||२७||
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् |
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ||२८||
निर्ममो निरहङ्कारो निरीहो मुक्तबन्धनः |
स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ ||२९||
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः |
नायासो विद्यते शक्र पश्यतो लोकविद्यया ||३०||
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे |
द्वेष्टारं न च पश्यामि यो ममाद्य ममायते ||३१||
नोर्ध्वं नावाङ्न तिर्यक्च न क्वचिच्छक्र कामये |
न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते ||३२||
शक्र उवाच||
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते |
प्रब्रूहि तमुपायं मे सम्यक्प्रह्राद पृच्छते ||३३||
प्रह्राद उवाच||
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया |
वृद्धशुश्रूषया शक्र पुरुषो लभते महत् ||३४||
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः |
स्वभावादेव तत्सर्वं यत्किञ्चिदनुपश्यसि ||३५||
भीष्म उवाच||
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् |
प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् ||३६||
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः |
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् ||३७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
216-अध्यायः
बलिवासवसंवादः
युधिष्ठिर उवाच||
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् |
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
वासवस्य च संवादं बलेर्वैरोचनस्य च ||२||
पितामहमुपागत्य प्रणिपत्य कृताञ्जलिः |
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः ||३||
यस्य स्म ददतो वित्तं न कदाचन हीयते |
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ||४||
स एव ह्यस्तमयते स स्म विद्योतते दिशः |
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः ||५||
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ||५||
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः |
सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत ||६||
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ||६||
ब्रह्मोवाच||
नैतत्ते साधु मघवन्यदेतदनुपृच्छसि |
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् ||७||
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः |
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ||८||
शक्र उवाच||
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान् |
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् ||९||
ब्रह्मोवाच||
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति |
न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया ||१०||
भीष्म उवाच||
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा |
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः ||११||
ततो ददर्श स बलिं खरवेषेण संवृतम् |
यथाख्यातं भगवता शून्यागारकृतालयम् ||१२||
शक्र उवाच||
खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव |
इयं ते योनिरधमा शोचस्याहो न शोचसि ||१३||
अदृष्टं बत पश्यामि द्विषतां वशमागतम् |
श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम् ||१४||
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः |
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ||१५||
त्वन्मुखाश्चैव दैतेया व्यतिष्ठंस्तव शासने |
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह ||१६||
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि ||१६||
यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन् |
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् ||१७||
यत्ते सहस्रसमिता ननृतुर्देवयोषितः |
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया ||१८||
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः |
कथमद्य तदा चैव मनस्ते दानवेश्वर ||१९||
छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम् |
ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा ||२०||
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः |
यत्राददः सहस्राणामयुतानि गवां दश ||२१||
यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः |
शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि ||२२||
न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च |
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ||२३||
बलिरुवाच||
न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च |
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव ||२४||
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि |
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ||२५||
न त्वेतदनुरूपं ते यशसो वा कुलस्य वा |
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि ||२६||
न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु |
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ||२७||
त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे |
यदाहमिव भावी त्वं तदा नैवं वदिष्यसि ||२८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
217-अध्यायः
भीष्म उवाच||
पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् |
निःश्वसन्तं यथा नागं प्रव्याहाराय भारत ||१||
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः |
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ||२||
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले |
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ||३||
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् |
विनिपातमिमं चाद्य शोचस्याहो न शोचसि ||४||
बलिरुवाच||
अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः |
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ||५||
अन्तवन्त इमे देहा भूतानाममराधिप |
तेन शक्र न शोचामि नापराधादिदं मम ||६||
जीवितं च शरीरं च प्रेत्य वै सह जायते |
उभे सह विवर्धेते उभे सह विनश्यतः ||७||
तदीदृशमिदं भावमवशः प्राप्य केवलम् |
यद्येवमभिजानामि का व्यथा मे विजानतः ||८||
भूतानां निधनं निष्ठा स्रोतसामिव सागरः |
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् ||९||
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः |
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ||१०||
बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् |
विपाप्मा लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति ||११||
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः |
कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः ||१२||
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा |
सुखदुःखफलं चैव न द्वेष्मि न च कामये ||१३||
हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन |
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ||१४||
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते |
अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् ||१५||
को हि लोकस्य कुरुते विनाशप्रभवावुभौ |
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ||१६||
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |
एतद्योनीनि भूतानि तत्र का परिदेवना ||१७||
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः |
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ||१८||
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा |
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ||१९||
दग्धमेवानुदहति हतमेवानुहन्ति च |
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ||२०||
नास्य द्वीपः कुतः पारं नावारः सम्प्रदृश्यते |
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ||२१||
यदि मे पश्यतः कालो भूतानि न विनाशयेत् |
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ||२२||
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे |
बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे ||२३||
इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः |
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ||२४||
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति |
कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् ||२५||
पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर |
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् ||२६||
त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः |
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन ||२७||
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा |
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ||२८||
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः |
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ||२९||
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः |
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ||३०||
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते |
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ||३१||
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् |
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ||३२||
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते |
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ||३३||
कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते |
अलक्षणा विरूपा च सुभगा शक्र दृश्यते ||३४||
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् |
यत्त्वमेवङ्गतो वज्रिन्यद्वाप्येवङ्गता वयम् ||३५||
न कर्म तव नान्येषां कुतो मम शतक्रतो |
ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत् ||३६||
पश्यामि त्वा विराजन्तं देवराजमवस्थितम् |
श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि ||३७||
एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् |
पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना ||३८||
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः |
कालः स्थापयते सर्वं कालः पचति वै तथा ||३९||
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् |
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ||४०||
द्वादशानां हि भवतामादित्यानां महात्मनाम् |
तेजांस्येकेन सर्वेषां देवराज हृतानि मे ||४१||
अहमेवोद्वहाम्यापो विसृजामि च वासव |
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ||४२||
संरक्षामि विलुम्पामि ददाम्यहमथाददे |
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ||४३||
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप |
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ||४४||
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते |
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ||४५||
मासार्धमासवेश्मानमहोरात्राभिसंवृतम् |
ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः ||४६||
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया |
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ||४७||
गन्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा |
अनादिनिधनं चाहुरक्षरं परमेव च ||४८||
सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम् |
मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः ||४९||
भूतानां तु विपर्यासं मन्यते गतवानिति |
न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः ||५०||
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि |
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ||५१||
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ||५१||
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् |
ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा ||५२||
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे |
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा ||५३||
तं कालमवजानीहि यस्य सर्वमिदं वशे ||५३||
बहूनीन्द्रसहस्राणि समतीतानि वासव |
बलवीर्योपपन्नानि यथैव त्वं शचीपते ||५४||
त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम् |
प्राप्ते काले महावीर्यः कालः संशमयिष्यति ||५५||
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव |
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ||५६||
यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम् |
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ||५७||
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् |
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ||५८||
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि |
त्वामप्येवङ्गतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति ||५९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
218-अध्यायः
भीष्म उवाच||
शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः |
स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रियम् ||१||
तां दीप्तां प्रभया दृष्ट्वा भगवान्पाकशासनः |
विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः ||२||
बले केयमपक्रान्ता रोचमाना शिखण्डिनी |
त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा ||३||
बलिरुवाच||
न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम् |
त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव ||४||
शक्र उवाच||
का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी |
अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते ||५||
का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा |
हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः ||६||
श्रीरुवाच||
न मा विरोचनो वेद न मा वैरोचनो बलिः |
आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः ||७||
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव |
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ||८||
शक्र उवाच||
किमिदं त्वं मम कृते उताहो बलिनः कृते |
दुःसहे विजहास्येनं चिरसंवासिनी सती ||९||
श्रीरुवाच||
न धाता न विधाता मां विदधाति कथञ्चन |
कालस्तु शक्र पर्यायान्मैनं शक्रावमन्यथाः ||१०||
शक्र उवाच||
कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि |
कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते ||११||
श्रीरुवाच||
सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि |
पराक्रमे च धर्मे च पराचीनस्ततो बलिः ||१२||
ब्रह्मण्योऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः |
अभ्यसूयद्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम् ||१३||
यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम् |
प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः ||१४||
अपाकृता ततः शक्र त्वयि वत्स्यामि वासव |
अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च ||१५||
शक्र उवाच||
अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् |
यस्त्वामेको विषहितुं शक्नुयात्कमलालये ||१६||
श्रीरुवाच||
नैव देवो न गन्धर्वो नासुरो न च राक्षसः |
यो मामेको विषहितुं शक्तः कश्चित्पुरंदर ||१७||
शक्र उवाच||
तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे |
तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि ||१८||
श्रीरुवाच||
स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् |
विधिना वेददृष्टेन चतुर्धा विभजस्व माम् ||१९||
शक्र उवाच||
अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम् |
न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके ||२०||
भूमिरेव मनुष्येषु धारणी भूतभाविनी |
सा ते पादं तितिक्षेत समर्था हीति मे मतिः ||२१||
श्रीरुवाच||
एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः |
द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ||२२||
शक्र उवाच||
आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः |
तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् ||२३||
श्रीरुवाच||
एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः |
तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ||२४||
शक्र उवाच||
यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः |
तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति ||२५||
श्रीरुवाच||
एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः |
चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु ||२६||
शक्र उवाच||
ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः |
ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् ||२७||
श्रीरुवाच||
एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः |
एवं विनिहितां शक्र भूतेषु परिधत्स्व माम् ||२८||
शक्र उवाच||
भूतानामिह वै यस्त्वा मया विनिहितां सतीम् |
उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः ||२९||
भीष्म उवाच||
ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् |
यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् ||३०||
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः |
तथा मध्यंदिने सूर्यो अस्तमेति यदा तदा ||३१||
पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा ||३१||
सर्वाँल्लोकान्यदादित्य एकस्थस्तापयिष्यति |
तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो ||३२||
शक्र उवाच||
ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवानिति |
तेन तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि ||३३||
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर |
आदित्यो नावतपिता कदाचिन्मध्यतः स्थितः ||३४||
स्थापितो ह्यस्य समयः पूर्वमेव स्वयम्भुवा |
अजस्रं परियात्येष सत्येनावतपन्प्रजाः ||३५||
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा |
येन संयाति लोकेषु शीतोष्णे विसृजन्रविः ||३६||
भीष्म उवाच||
एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत |
जगाम दक्षिणामाशामुदीचीं तु पुरंदरः ||३७||
इत्येतद्बलिना गीतमनहङ्कारसञ्ज्ञितम् |
वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा ||३८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
219-अध्यायः
शक्रनमुचिसंवादः
भीष्म उवाच||
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर ||१||
श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् |
भवाभवज्ञं भूतानामित्युवाच पुरंदरः ||२||
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः |
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि ||३||
नमुचिरुवाच||
अनवाप्यं च शोकेन शरीरं चोपतप्यते |
अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता ||४||
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् |
सन्तापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर ||५||
विनीय खलु तद्दुःखमागतं वैमनस्यजम् |
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता ||६||
यथा यथा हि पुरुषः कल्याणे कुरुते मनः |
तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः ||७||
एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता |
तेनानुशिष्टः प्रवणादिवोदकं; यथा नियुक्तोऽस्मि तथा वहामि ||८||
भावाभावावभिजानन्गरीयो; जानामि श्रेयो न तु तत्करोमि |
आशाः सुशर्म्याः सुहृदां सुकुर्व; न्यथा नियुक्तोऽस्मि तथा वहामि ||९||
यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा |
भवितव्यं यथा यच्च भवत्येव तथा तथा ||१०||
यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः |
तत्र तत्रैव वसति न यत्र स्वयमिच्छति ||११||
भावो योऽयमनुप्राप्तो भवितव्यमिदं मम |
इति यस्य सदा भावो न स मुह्येत्कदाचन ||१२||
पर्यायैर्हन्यमानानामभियोक्ता न विद्यते |
दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते ||१३||
ऋषींश्च देवांश्च महासुरांश्च; त्रैविद्यवृद्धांश्च वने मुनींश्च |
कान्नापदो नोपनमन्ति लोके; परावरज्ञास्तु न सम्भ्रमन्ति ||१४||
न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति |
न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवानिवाचलः ||१५||
यमर्थसिद्धिः परमा न हर्षये; त्तथैव काले व्यसनं न मोहयेत् |
सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरन्धरो नरः ||१६||
यां यामवस्थां पुरुषोऽधिगच्छे; त्तस्यां रमेतापरितप्यमानः |
एवं प्रवृद्धं प्रणुदेन्मनोजं; सन्तापमायासकरं शरीरात् ||१७||
तत्सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम् |
धर्मतत्त्वमवगाह्य बुद्धिमा; न्योऽभ्युपैति स पुमान्धुरन्धरः ||१८||
प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले |
स्थानाच्च्युतश्चेन्न मुमोह गौतम; स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः ||१९||
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा |
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ||२०||
यदेवमनुजातस्य धातारो विदधुः पुरा |
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति ||२१||
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति |
प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च ||२२||
एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः |
कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः ||२३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
220-अध्यायः
बलिवासवसंवादः
युधिष्ठिर उवाच||
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि |
बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः ||१||
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ |
एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि ||२||
भीष्म उवाच||
पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च |
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ||३||
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते |
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम् ||४||
यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः |
तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु ||५||
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
बलिवासवसंवादं पुनरेव युधिष्ठिर ||६||
वृत्ते देवासुरे युद्धे दैत्यदानवसङ्क्षये |
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ ||७||
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते |
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयम्भुवि ||८||
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः |
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः ||९||
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् |
आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ ||१०||
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे |
बलिं वैरोचनिं वज्री ददर्शोपससर्प च ||११||
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् |
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे ||१२||
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् |
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः ||१३||
दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया |
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम् ||१४||
शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात् |
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि ||१५||
श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान् |
हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि ||१६||
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे |
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि ||१७||
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः |
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि ||१८||
भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम् |
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत् ||१९||
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् |
श्रुत्वा सुखमसम्भ्रान्तो बलिर्वैरोचनोऽब्रवीत् ||२०||
निगृहीते मयि भृशं शक्र किं कत्थितेन ते |
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर ||२१||
अशक्तः पूर्वमासीस्त्वं कथञ्चिच्छक्ततां गतः |
कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति ||२२||
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् |
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः ||२३||
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः |
एकः प्राप्नोति विजयमेकश्चैव पराभवम् ||२४||
मा च ते भूत्स्वभावोऽयं मया दैवतपुङ्गव |
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् ||२५||
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् |
यत्त्वमेवङ्गतो वज्रिन्यद्वाप्येवङ्गता वयम् ||२६||
अहमासं यथाद्य त्वं भविता त्वं यथा वयम् |
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत ||२७||
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति |
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा ||२८||
कालः काले नयति मां त्वां च कालो नयत्ययम् |
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् ||२९||
न मातृपितृशुश्रूषा न च दैवतपूजनम् |
नान्यो गुणसमाचारः पुरुषस्य सुखावहः ||३०||
न विद्या न तपो दानं न मित्राणि न बान्धवाः |
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ||३१||
नागामिनमनर्थं हि प्रतिघातशतैरपि |
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः ||३२||
पर्यायैर्हन्यमानानां परित्राता न विद्यते |
इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यते ||३३||
यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन |
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः ||३४||
कालेन त्वाहमजयं कालेनाहं जितस्त्वया |
गन्ता गतिमतां कालः कालः कलयति प्रजाः ||३५||
इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुध्यसे |
केचित्त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा ||३६||
कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः |
कालेनाभ्याहतः शोचेन्मुह्येद्वाप्यर्थसम्भ्रमे ||३७||
नित्यं कालपरीतस्य मम वा मद्विधस्य वा |
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति ||३८||
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः |
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम् ||३९||
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया |
काले परिणते कालः कालयिष्यति मामिव ||४०||
बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे |
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः ||४१||
इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे |
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् ||४२||
न चेदमचलं स्थानमनन्तं वापि कस्यचित् |
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे ||४३||
अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम् |
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि ||४४||
नेयं तव न चास्माकं न चान्येषां स्थिरा मता |
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं स्थिता ||४५||
कञ्चित्कालमियं स्थित्वा त्वयि वासव चञ्चला |
गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति ||४६||
राजलोका ह्यतिक्रान्ता यान्न सङ्ख्यातुमुत्सहे |
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर ||४७||
सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा |
तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही ||४८||
पृथुरैलो मयो भौमो नरकः शम्बरस्तथा |
अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः ||४९||
प्रह्रादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः |
ह्रीनिषेधः सुहोत्रश्च भूरिहा पुष्पवान्वृषः ||५०||
सत्येषुरृषभो राहुः कपिलाश्वो विरूपकः |
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतः ||५१||
रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः |
विश्वजित्प्रतिशौरिश्च वृषाण्डो विष्करो मधुः ||५२||
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः |
दैत्याश्च कालखञ्जाश्च सर्वे ते नैरृतैः सह ||५३||
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये |
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम ||५४||
बहवः पूर्वदैत्येन्द्राः सन्त्यज्य पृथिवीं गताः |
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः ||५५||
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः |
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः ||५६||
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः |
सर्वे संहननोपेताः सर्वे परिघबाहवः ||५७||
सर्वे मायाशतधराः सर्वे ते कामचारिणः |
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ||५८||
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः |
सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः ||५९||
सर्वे संहतमैश्वर्यमीश्वराः प्रतिपेदिरे |
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम् ||६०||
सर्वे यथार्थदातारः सर्वे विगतमत्सराः |
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे ||६१||
सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः |
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः ||६२||
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः |
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः ||६३||
मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् |
एवं स्वराज्यनाशे त्वं शोकं सम्प्रसहिष्यसि ||६४||
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः |
अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय ||६५||
मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम् |
क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति ||६६||
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह |
संयते मयि नूनं त्वमात्मानं बहु मन्यसे ||६७||
कालः प्रथममायान्मां पश्चात्त्वामनुधावति |
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि ||६८||
को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे |
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव ||६९||
यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति |
यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः ||७०||
अहमैन्द्रच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि |
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात् ||७१||
किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम् |
कालः कर्ता विकर्ता च सर्वमन्यदकारणम् ||७२||
नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ |
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत् ||७३||
त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव |
विकत्थसे मां किं बद्धं कालेन निरपत्रप ||७४||
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम |
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् ||७५||
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह |
मया विनिर्जिताः सर्वे मरुतश्च शचीपते ||७६||
त्वमेव शक्र जानासि देवासुरसमागमे |
समेता विबुधा भग्नास्तरसा समरे मया ||७७||
पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः |
सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया ||७८||
किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः |
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना ||७९||
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः |
तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया ||८०||
त्वं मा परिणते काले परीतं कालवह्निना |
नियतं कालपाशेन बद्धं शक्र विकत्थसे ||८१||
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः |
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा ||८२||
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ |
वधो बन्धः प्रमोक्षश्च सर्वं कालेन लभ्यते ||८३||
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः |
सोऽयं पचति कालो मां वृक्षे फलमिवागतम् ||८४||
यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते |
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते ||८५||
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति |
तेन शक्र न शोचामि नास्ति शोके सहायता ||८६||
यदा हि शोचतां शोको व्यसनं नापकर्षति |
सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्यहं ततः ||८७||
एवमुक्तः सहस्राक्षो भगवान्पाकशासनः |
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः ||८८||
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् |
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः ||८९||
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी |
ब्रुवन्न व्यथसे स त्वं वाक्यं सत्यपराक्रम ||९०||
हो हि विश्वासमर्थेषु शरीरे वा शरीरभृत् |
कर्तुमुत्सहते लोके दृष्ट्वा सम्प्रस्थितं जगत् ||९१||
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् |
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे ||९२||
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् |
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् ||९३||
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा |
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ||९४||
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु |
प्रयत्नेनाप्यतिक्रान्तो दृष्टपूर्वो न केनचित् ||९५||
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः |
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः ||९६||
अहोरात्रांश्च मासांश्च क्षणान्काष्ठाः कला लवान् |
सम्पिण्डयति नः कालो वृद्धिं वार्धुषिको यथा ||९७||
इदमद्य करिष्यामि श्वः कर्तास्मीति वादिनम् |
कालो हरति सम्प्राप्तो नदीवेग इवोडुपम् ||९८||
इदानीं तावदेवासौ मया दृष्टः कथं मृतः |
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् ||९९||
नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च |
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः ||१००||
उच्छ्राया विनिपातान्ता भावोऽभावस्थ एव च ||१००||
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी |
अहमासं पुरा चेति मनसापि न बुध्यसे ||१०१||
कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा |
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुध्यसे ||१०२||
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च |
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति ||१०३||
भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः |
कालं पश्यति सुव्यक्तं पाणावामलकं यथा ||१०४||
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः |
वैरोचने कृतात्मासि स्पृहणीयो विजानताम् ||१०५||
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया |
विहरन्सर्वतोमुक्तो न क्वचित्परिषज्जसे ||१०६||
रजश्च हि तमश्च त्वा स्पृशतो न जितेन्द्रियम् |
निष्प्रीतिं नष्टसन्तापं त्वमात्मानमुपाससे ||१०७||
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् |
दृष्ट्वा त्वां मम सञ्जाता त्वय्यनुक्रोशिनी मतिः ||१०८||
नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने |
आनृशंस्यं परो धर्मो अनुक्रोशस्तथा त्वयि ||१०९||
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् |
प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर ||११०||
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते |
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु ||१११||
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् |
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः ||११२||
वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा |
सङ्करं कांस्यभाण्डैश्च बलिं चापि कुपात्रकैः ||११३||
चातुर्वर्ण्यं यदा कृत्स्नमुन्मर्यादं भविष्यति |
एकैकस्ते तदा पाशः क्रमशः प्रतिमोक्ष्यते ||११४||
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय |
सुखी भव निराबाधः स्वस्थचेता निरामयः ||११५||
तमेवमुक्त्वा भगवाञ्शतक्रतुः; प्रतिप्रयातो गजराजवाहनः |
विजित्य सर्वानसुरान्सुराधिपो; ननन्द हर्षेण बभूव चैकराट् ||११६||
महर्षयस्तुष्टुवुरञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम् |
हिमापहो हव्यमुदावहंस्त्वरं; स्तथामृतं चार्पितमीश्वराय ह ||११७||
द्विजोत्तमैः सर्वगतैरभिष्टुतो; विदीप्ततेजा गतमन्युरीश्वरः |
प्रशान्तचेता मुदितः स्वमालयं; त्रिविष्टपं प्राप्य मुमोद वासवः ||११८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
221-अध्यायः
श्रीवासवसंवादः
युधिष्ठिर उवाच||
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः |
पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह ||१||
भीष्म उवाच||
मन एव मनुष्यस्य पूर्वरूपाणि शंसति |
भविष्यतश्च भद्रं ते तथैव नभविष्यतः ||२||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर ||३||
महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ |
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः ||४||
ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः |
विचचार यथाकामं त्रिषु लोकेषु नारदः ||५||
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि |
ध्रुवद्वारभवां गङ्गां जगामावततार च ||६||
सहस्रनयनश्चापि वज्री शम्बरपाकहा |
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह ||७||
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः |
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् ||८||
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः |
चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ ||९||
पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ ||९||
अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् |
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः ||१०||
अभितस्तूदयन्तं तमर्कमर्कमिवापरम् |
आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम् ||११||
तयोः समीपं सम्प्राप्तं प्रत्यदृश्यत भारत |
तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम् ||१२||
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् ||१२||
दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम् |
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम् ||१३||
नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम् |
श्रियं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम् ||१४||
सावरुह्य विमानाग्रादङ्गनानामनुत्तमा |
अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम् ||१५||
नारदानुगतः साक्षान्मघवांस्तामुपागमत् |
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना ||१६||
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित् |
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह ||१७||
का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि |
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ||१८||
श्रीरुवाच||
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः |
ममात्मभावमिच्छन्तो यतन्ते परमात्मना ||१९||
साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते |
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ||२०||
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन |
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः ||२१||
अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च |
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः ||२२||
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च |
निवासे धर्मशीलानां विषयेषु पुरेषु च ||२३||
जितकाशिनि शूरे च सङ्ग्रामेष्वनिवर्तिनि |
निवसामि मनुष्येन्द्रे सदैव बलसूदन ||२४||
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि |
प्रश्रिते दानशीले च सदैव निवसाम्यहम् ||२५||
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना |
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम् ||२६||
शक्र उवाच||
कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने |
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् ||२७||
श्रीरुवाच||
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च |
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम् ||२८||
दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम् |
विप्राणामतिथीनां च तेषां नित्यमवर्तत ||२९||
सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः |
गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः ||३०||
श्रद्दधाना जितक्रोधा दानशीलानसूयकाः |
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ||३१||
अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन |
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ||३२||
दातारः सङ्गृहीतार आर्याः करुणवेदिनः |
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः ||३३||
सन्तुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः |
यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः ||३४||
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः |
उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः ||३५||
नैनानभ्युदियात्सूर्यो न चाप्यासन्प्रगेनिशाः |
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् ||३६||
काल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मचारिणः |
मङ्गलानपि चापश्यन्ब्राह्मणांश्चाप्यपूजयन् ||३७||
सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् |
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ||३८||
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् |
दायं च संविभागं च नित्यमेवानुमोदताम् ||३९||
विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम् |
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते ||४०||
धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम् |
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ||४१||
पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन् |
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः ||४२||
नैकेऽश्नन्ति सुसम्पन्नं न गच्छन्ति परस्त्रियम् |
सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति ||४३||
नैवाकाशे न पशुषु नायोनौ न च पर्वसु |
इन्द्रियस्य विसर्गं तेऽरोचयन्त कदाचन ||४४||
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा |
उत्साहश्चानहङ्कारः परमं सौहृदं क्षमा ||४५||
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा |
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो ||४६||
निद्रा तन्द्रीरसम्प्रीतिरसूया चानवेक्षिता |
अरतिश्च विषादश्च न स्पृहा चाविशन्त तान् ||४७||
साहमेवङ्गुणेष्वेव दानवेष्ववसं पुरा |
प्रजासर्गमुपादाय नैकं युगविपर्ययम् ||४८||
ततः कालविपर्यासे तेषां गुणविपर्ययात् |
अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् ||४९||
सभासदां ते वृद्धानां सत्याः कथयतां कथाः |
प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः ||५०||
यूनः सहसमासीनान्वृद्धानभिगतान्सतः |
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् ||५१||
वर्तयन्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः |
अमित्रभृत्यतां प्राप्य ख्यापयन्तोऽनपत्रपाः ||५२||
तथा धर्मादपेतेन कर्मणा गर्हितेन ये |
महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा ||५३||
उच्छैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् |
पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन् ||५४||
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् |
गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन् ||५५||
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते |
अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून् ||५६||
न शौचमनुरुध्यन्त तेषां सूदजनास्तथा |
मनसा कर्मणा वाचा भक्तमासीदनावृतम् ||५७||
विप्रकीर्णानि धान्यानि काकमूषकभोजनम् |
अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम् ||५८||
कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् |
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी ||५९||
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते |
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च ||६०||
बालानां प्रेक्षमाणानां स्वयं भक्षानभक्षयन् |
तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः ||६१||
पायसं कृसरं मांसमपूपानथ शष्कुलीः |
अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन् ||६२||
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेनिशाः |
अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे ||६३||
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह |
आश्रमस्थान्विकर्मस्थाः प्रद्विषन्ति परस्परम् ||६४||
सङ्कराश्चाप्यवर्तन्त न च शौचमवर्तत ||६४||
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये |
निरन्तरविशेषास्ते बहुमानावमानयोः ||६५||
हावमाभरणं वेषं गतिं स्थितिमवेक्षितुम् |
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् ||६६||
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः |
क्रीडारतिविहारेषु परां मुदमवाप्नुवन् ||६७||
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान् |
नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः सम्भवेष्वपि ||६८||
मित्रेणाभ्यर्थितं मित्रमर्थे संशयिते क्वचित् |
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु ||६९||
परस्वादानरुचयो विपण्यव्यवहारिणः |
अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः ||७०||
अधीयन्तेऽव्रताः केचिद्वृथाव्रतमथापरे |
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः ||७१||
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव |
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् ||७२||
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः |
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत ||७३||
प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः |
शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह ||७४||
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत |
अन्वशासच्च भर्तारं समाहूयाभिजल्पती ||७५||
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता |
व्यभजंश्चापि संरम्भाद्दुःखवासं तथावसन् ||७६||
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् |
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्सम्भाविता ह्यपि ||७७||
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः |
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः ||७८||
तेष्वेवमादीनाचारानाचरत्सु विपर्यये |
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः ||७९||
तां मां स्वयमनुप्राप्तामभिनन्द शचीपते |
त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः ||८०||
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः |
सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मेऽष्टधा ||८१||
आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा |
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन ||८२||
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता |
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु ||८३||
भीष्म उवाच||
इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः |
नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः ||८४||
ततोऽनलसखो वायुः प्रववौ देववेश्मसु |
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः ||८५||
शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः |
लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः ||८६||
ततो दिवं प्राप्य सहस्रलोचनः; श्रियोपपन्नः सुहृदा सुरर्षिणा |
रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणामभिसत्कृतो ययौ ||८७||
अथेङ्गितं वज्रधरस्य नारदः; श्रियाश्च देव्या मनसा विचारयन् |
श्रियै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत् ||८८||
ततोऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्यायतने स्वयम्भुवः |
अनाहता दुन्दुभयश्च नेदिरे; तथा प्रसन्नाश्च दिशश्चकाशिरे ||८९||
यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद्विचचाल कश्चन |
अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जये ||९०||
क्रियाभिरामा मनुजा यशस्विनो; बभुः शुभे पुण्यकृतां पथि स्थिताः |
नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः ||९१||
न जात्वकाले कुसुमं कुतः फलं; पपात वृक्षात्पवनेरितादपि |
रसप्रदाः कामदुघाश्च धेनवो; न दारुणा वाग्विचचार कस्यचित् ||९२||
इमां सपर्यां सह सर्वकामदैः; श्रियाश्च शक्रप्रमुखैश्च दैवतैः |
पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रियमाप्नुवन्ति ते ||९३||
त्वया कुरूणां वर यत्प्रचोदितं; भवाभवस्येह परं निदर्शनम् |
तदद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुमर्हसि ||९४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
222-अध्यायः
जैगीषव्यासितसंवादः
युधिष्ठिर उवाच||
किंशीलः किंसमाचारः किंविद्यः किम्परायणः |
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ||१||
भीष्म उवाच||
मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः |
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ||२||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
जैगीषव्यस्य संवादमसितस्य च भारत ||३||
जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम् |
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् ||४||
न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि |
का ते प्रज्ञा कुतश्चैषा किं चैतस्याः परायणम् ||५||
इति तेनानुयुक्तः स तमुवाच महातपाः |
महद्वाक्यमसंदिग्धं पुष्कलार्थपदं शुचि ||६||
या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम् |
तां तेऽहं सम्प्रवक्ष्यामि यन्मां पृच्छसि वै द्विज ||७||
निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल |
निह्नुवन्ति च ये तेषां समयं सुकृतं च ये ||८||
उक्ताश्च न विवक्षन्ति वक्तारमहिते रतम् |
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः ||९||
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते |
न चातीतानि शोचन्ति न चैनान्प्रतिजानते ||१०||
सम्प्राप्तानां च पूज्यानां कामादर्थेषु देवल |
यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः ||११||
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः |
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् ||१२||
अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन |
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ||१३||
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये |
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन ||१४||
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः |
न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित् ||१५||
विमुच्य हृदयग्रन्थींश्चङ्कम्यन्ते यथासुखम् ||१५||
न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः |
अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् ||१६||
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा |
धर्ममेवानुवर्तन्ते धर्मज्ञा द्विजसत्तम ||१७||
ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च ||१७||
आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् |
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना ||१८||
यद्यदिच्छन्ति तन्मार्गमभिगच्छन्ति मानवाः |
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः ||१९||
अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् |
विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः ||२०||
अवज्ञातः सुखं शेते इह चामुत्र चोभयोः |
विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बध्यते ||२१||
परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः |
एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः ||२२||
सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः |
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ||२३||
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः |
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् ||२४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
223-अध्यायः
वासुदेवोग्रसेनसंवादः
युधिष्ठिर उवाच||
प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता |
गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः ||१||
भीष्म उवाच||
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ |
उग्रसेनस्य संवादं नारदे केशवस्य च ||२||
उग्रसेन उवाच||
पश्य सङ्कल्पते लोको नारदस्य प्रकीर्तने |
मन्ये स गुणसम्पन्नो ब्रूहि तन्मम पृच्छतः ||३||
वासुदेव उवाच||
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः |
नारदस्य गुणान्साधून्सङ्क्षेपेण नराधिप ||४||
न चारित्रनिमित्तोऽस्याहङ्कारो देहपातनः |
अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः ||५||
तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः |
कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः ||६||
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः |
ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः ||७||
तेजसा यशसा बुद्ध्या नयेन विनयेन च |
जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः ||८||
सुखशीलः सुसम्भोगः सुभोज्यः स्वादरः शुचिः |
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः ||९||
कल्यानं कुरुते बाढं पापमस्मिन्न विद्यते |
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः ||१०||
वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते |
तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः ||११||
समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथञ्चन |
मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः ||१२||
बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः |
अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः ||१३||
नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः |
दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः ||१४||
दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् |
वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः ||१५||
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते |
अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः ||१६||
समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित् |
अनीर्ष्युर्दृढसम्भाषस्तस्मात्सर्वत्र पूजितः ||१७||
लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन् |
संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः ||१८||
नासूयत्यागमं कञ्चित्स्वं तपो नोपजीवति |
अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः ||१९||
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः |
नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः ||२०||
सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः |
अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः ||२१||
न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि |
स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः ||२२||
तं सर्वगुणसम्पन्नं दक्षं शुचिमकातरम् |
कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति ||२३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
224-अध्यायः
शुकानुप्रश्नः
युधिष्ठिर उवाच||
आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव |
ध्यानं कर्म च कालं च तथैवायुर्युगे युगे ||१||
लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम् |
सर्गश्च निधनं चैव कुत एतत्प्रवर्तते ||२||
यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर |
एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे ||३||
पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् |
भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा ||४||
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता |
ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति ||५||
भीष्म उवाच||
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् |
जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते ||६||
अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा |
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात् ||७||
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः |
पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम् ||८||
भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम् |
ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति ||९||
तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते |
अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित् ||१०||
अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम् |
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत ||११||
काष्ठा निमेषा दश पञ्च चैव; त्रिंशत्तु काष्ठा गणयेत्कलां ताम् |
त्रिंशत्कलाश्चापि भवेन्मुहूर्तो; भागः कलाया दशमश्च यः स्यात् ||१२||
त्रिंशन्मुहूर्तश्च भवेदहश्च; रात्रिश्च सङ्ख्या मुनिभिः प्रणीता |
मासः स्मृतो रात्र्यहनी च त्रिंश; त्संवत्सरो द्वादशमास उक्तः ||१३||
संवत्सरं द्वे अयने वदन्ति; सङ्ख्याविदो दक्षिणमुत्तरं च ||१३||
अहोरात्रे विभजते सूर्यो मानुषलौकिके |
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ||१४||
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः |
कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी ||१५||
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः |
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ||१६||
ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके |
तयोः सङ्ख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे ||१७||
तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः |
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा ||१८||
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् |
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ||१९||
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु |
एकापायेन संयान्ति सहस्राणि शतानि च ||२०||
एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान् |
एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् ||२१||
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे |
नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते ||२२||
इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते |
चौरिकानृतमायाभिरधर्मश्चोपचीयते ||२३||
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः |
कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः ||२४||
वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम् |
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम् ||२५||
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे |
अन्ये कलियुगे धर्मा यथाशक्तिकृता इव ||२६||
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् |
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ||२७||
एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः |
सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते ||२८||
रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः |
प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते ||२९||
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः |
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ||३०||
प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये |
सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः ||३१||
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत् |
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ||३२||
अहर्मुखे विबुद्धः सन्सृजते विद्यया जगत् |
अग्र एव महाभूतमाशु व्यक्तात्मकं मनः ||३३||
अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान् |
दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ||३४||
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया |
आकाशं जायते तस्मात्तस्य शब्दो गुणो मतः ||३५||
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः |
बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः ||३६||
वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम् |
रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते ||३७||
ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः |
अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिरुच्यते ||३८||
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् |
तेषां यावत्तिथं यद्यत्तत्तत्तावद्गुणं स्मृतम् ||३९||
उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात् |
पृथिव्यामेव तं विद्यादापो वायुं च संश्रितम् ||४०||
एते तु सप्त पुरुषा नानाविर्याः पृथक्पृथक् |
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सर्वतः ||४१||
ते समेत्य महात्मानमन्योन्यमभिसंश्रिताः |
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते ||४२||
श्रयणाच्छरीरं भवति मूर्तिमत्षोडशात्मकम् |
तदाविशन्ति भूतानि महान्ति सह कर्मणा ||४३||
सर्वभूतानि चादाय तपसश्चरणाय च |
आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम् ||४४||
स वै सृजति भूतानि स एव पुरुषः परः |
अजो जनयते ब्रह्मा देवर्षिपितृमानवान् ||४५||
लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन् |
नरकिंनररक्षांसि वयःपशुमृगोरगान् ||४६||
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ||४६||
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे |
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ||४७||
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते |
अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते ||४८||
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु |
विनियोगं च भूतानां धातैव विदधात्युत ||४९||
केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः |
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ||५०||
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः |
त्रय एतेऽपृथग्भूता नविवेकं तु केचन ||५१||
एवमेतच्च नैवं च यद्भूतं सृजते जगत् |
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः ||५२||
तपो निःश्रेयसं जन्तोस्तस्य मूलं दमः शमः |
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति ||५३||
तपसा तदवाप्नोति यद्भूतं सृजते जगत् |
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः ||५४||
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् |
अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ||५५||
ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः |
शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददाति सः ||५६||
नामभेदस्तपःकर्मयज्ञाख्या लोकसिद्धयः |
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः ||५७||
यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः |
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते ||५८||
कर्मजोऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः |
आत्मसिद्धिस्तु विज्ञाता जहाति प्रायशो बलम् ||५९||
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् |
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ||६०||
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस्तथा |
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः ||६१||
त्रेतायुगे विधिस्त्वेषां यज्ञानां न कृते युगे |
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा ||६२||
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च |
काम्यां पुष्टिं पृथग्दृष्ट्वा तपोभिस्तप एव च ||६३||
त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः |
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः ||६४||
त्रेतायां संहता ह्येते यज्ञा वर्णास्तथैव च |
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ||६५||
दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगेऽखिलाः |
उत्सीदन्ते सयज्ञाश्च केवला धर्मसेतवः ||६६||
कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते |
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः ||६७||
अधर्मव्रतसंयोगं यथाधर्मं युगे युगे |
विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम् ||६८||
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि |
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे ||६९||
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये |
दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु ||७०||
विहितं कालनानात्वमनादिनिधनं तथा |
कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः ||७१||
दधाति प्रभवे स्थानं भूतानां संयमो यमः |
स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः ||७२||
सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम् |
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि ||७३||
प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि |
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ||७४||
दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा |
सर्वमेतत्तदार्चिर्भिः पूर्णं जाज्वल्यते जगत् ||७५||