श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
284-अध्यायः
पराशर उवाच||
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः |
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ||१||
प्रायेण हि गृहस्थस्य ममत्वं नाम जायते |
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ||२||
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च |
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ||३||
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः |
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ||४||
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् |
मोहजाता रतिर्नाम समुपैति नराधिप ||५||
कृतार्थो भोगतो भूत्वा स वै रतिपरायणः |
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ||६||
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् |
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ||७||
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः |
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ||८||
ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् |
करोति येन भोगी स्यामिति तस्माद्विनश्यति ||९||
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् |
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ||१०||
स्नेहायतननाशाच्च धननाशाच्च पार्थिव |
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ||११||
निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्रदर्शनम् |
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ||१२||
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् |
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ||१३||
तपः सर्वगतं तात हीनस्यापि विधीयते |
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ||१४||
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः |
क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव ||१५||
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः |
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ||१६||
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः |
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ||१७||
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा |
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ||१८||
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः |
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ||१९||
कौशिकानि च वस्त्राणि शुभान्याभरणानि च |
वाहनासनयानानि सर्वं तत्तपसः फलम् ||२०||
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः |
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ||२१||
शयनानि च मुख्यानि भोज्यानि विविधानि च |
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ||२२||
नाप्राप्यं तपसा किञ्चित्त्रैलोक्येऽस्मिन्परन्तप |
उपभोगपरित्यागः फलान्यकृतकर्मणाम् ||२३||
सुखितो दुःखितो वापि नरो लोभं परित्यजेत् |
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ||२४||
असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः |
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ||२५||
नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति |
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत् ||२६||
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते |
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ||२७||
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते |
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ||२८||
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् |
फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् ||२९||
धर्मे तपसि दाने च विचिकित्सास्य जायते |
स कृत्वा पापकान्येव निरयं प्रतिपद्यते ||३०||
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम |
स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः ||३१||
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता |
रसने दर्शने घ्राणे श्रवणे च विशां पते ||३२||
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः |
बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ||३३||
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः |
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ||३४||
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा |
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ||३५||
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् |
धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् ||३६||
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् |
तेषां नान्यदृते लोके तपसः कर्म विद्यते ||३७||
सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् |
दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ||३८||
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् |
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ||३९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
285-अध्यायः
जनक उवाच||
वर्णो विशेषवर्णानां महर्षे केन जायते |
एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर ||१||
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः |
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ||२||
पराशर उवाच||
एवमेतन्महाराज येन जातः स एव सः |
तपसस्त्वपकर्षेण जातिग्रहणतां गतः ||३||
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः |
अतोऽन्यतरतो हीनादवरो नाम जायते ||४||
वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे |
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ||५||
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः |
ऊरुजा धनिनो राजन्पादजाः परिचारकाः ||६||
चतुर्णामेव वर्णानामागमः पुरुषर्षभ |
अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः ||७||
क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा |
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ||८||
आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप |
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् ||९||
जनक उवाच||
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् |
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ||१०||
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः |
शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे ||११||
पराशर उवाच||
राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना |
महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ||१२||
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह |
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ||१३||
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः |
वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः ||१४||
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः |
आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च ||१५||
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् |
प्रतिष्ठिता वेदविदो दमे तपसि चैव हि ||१६||
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव |
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ||१७||
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव |
नामधेयानि तपसा तानि च ग्रहणं सताम् ||१८||
जनक उवाच||
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम |
तथा सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि ||१९||
पराशर उवाच||
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप |
विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना ||२०||
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि |
द्विजानां परिचर्या च शूद्रकर्म नराधिप ||२१||
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः |
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ||२२||
आनृशंस्यमहिंसा चाप्रमादः संविभागिता |
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ||२३||
स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता |
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ||२४||
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः |
अत्र तेषामधीकारो धर्मेषु द्विपदां वर ||२५||
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः |
उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु ||२६||
न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारमिहार्हतीति वा |
श्रुतिप्रवृत्तं न च धर्ममाप्नुते; न चास्य धर्मे प्रतिषेधन
कृतम् ||२७||
वैदेहकं शूद्रमुदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः |
अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम् ||२८||
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः |
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ||२९||
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः |
तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते ||३०||
जनक उवाच||
किं कर्म दूषयत्येनमथ जातिर्महामुने |
संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ||३१||
पराशर उवाच||
असंशयं महाराज उभयं दोषकारकम् |
कर्म चैव हि जातिश्च विशेषं तु निशामय ||३२||
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते |
जात्या दुष्टश्च यः पापं न करोति स पूरुषः ||३३||
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् |
कर्म तद्दूषयत्येनं तस्मात्कर्म नशोभनम् ||३४||
जनक उवाच||
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम |
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ||३५||
पराशर उवाच||
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि |
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ||३६||
संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः |
नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् ||३७||
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः |
प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ||३८||
सर्वे वर्णा धर्मकार्याणि सम्य; क्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा |
त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः ||३९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
286-अध्यायः
पराशर उवाच||
पिता सखायो गुरवः स्त्रियश्च; न निर्गुणा नाम भवन्ति लोके |
अनन्यभक्ताः प्रियवादिनश्च; हिताश्च वश्याश्च तथैव राजन् ||१||
पिता परं दैवतं मानवानां; मातुर्विशिष्टं पितरं वदन्ति |
ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परमाप्नुवन्ति ||२||
रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातमवाप्य दह्यते |
प्रयाति लोकानमरैः सुदुर्लभा; न्निषेवते स्वर्गफलं यथासुखम् ||३||
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश्च हीनम् |
अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद्बालवृद्धौ च राजन् ||४||
परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम् |
अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम् ||५||
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः |
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः ||६||
पापात्पापसमाचारान्निहीनाच्च नराधिप |
पाप एव वधः प्रोक्तो नरकायेति निश्चयः ||७||
न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम् |
सावशेषायुषं चापि कश्चिदेवापकर्षति ||८||
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् |
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा ||९||
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् |
निधनं शोभनं तात पुलिनेषु क्रियावताम् ||१०||
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति |
नाकारणात्तद्भवति कारणैरुपपादितम् ||११||
तथा शरीरं भवति देहाद्येनोपपादितम् |
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ||१२||
द्वितीयं कारणं तत्र नान्यत्किञ्चन विद्यते |
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ||१३||
सिरास्नाय्वस्थिसङ्घातं बीभत्सामेध्यसङ्कुलम् |
भूतानामिन्द्रियाणां च गुणानां च समागमम् ||१४||
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः |
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ||१५||
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् |
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ||१६||
भावितं कर्मयोगेन जायते तत्र तत्र ह |
इदं शरीरं वैदेह म्रियते यत्र तत्र ह ||१७||
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा ||१७||
न जायते तु नृपते कञ्चित्कालमयं पुनः |
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ||१८||
स पुनर्जायते राजन्प्राप्येहायतनं नृप |
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ||१९||
द्विविधानां च भूतानां जङ्गमाः परमा नृप |
जङ्गमानामपि तथा द्विपदाः परमा मताः ||२०||
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ||२०||
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः |
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः ||२१||
जातमन्वेति मरणं नृणामिति विनिश्चयः |
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ||२२||
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् |
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ||२३||
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् |
मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः ||२४||
विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः |
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ||२५||
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः |
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ||२६||
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप |
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ||२७||
एकः शत्रुर्न द्वितीयोऽस्ति शत्रु; रज्ञानतुल्यः पुरुषस्य राजन् |
येनावृतः कुरुते सम्प्रयुक्तो; घोराणि कर्माणि सुदारुणानि ||२८||
प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धानुपास्यं च भवेत यस्य |
प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति ||२९||
अधीत्य वेदांस्तपसा ब्रह्मचारी; यज्ञाञ्शक्त्या संनिसृज्येह पञ्च |
वनं गच्छेत्पुरुषो धर्मकामः; श्रेयश्चित्वा स्थापयित्वा स्ववंशम् ||३०||
उपभोगैरपि त्यक्तं नात्मानमवसादयेत् |
चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ||३१||
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते |
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ||३२||
कथं न विप्रणश्येम योनितोऽस्या इति प्रभो |
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ||३३||
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः |
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ||३४||
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति |
दीपोपमानि भूतानि यावदर्चिर्न नश्यति ||३५||
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत |
समदुःखसुखो भूत्वा स परत्र महीयते ||३६||
दानं त्यागः शोभना मूर्तिरद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम् |
सरस्वतीनैमिषपुष्करेषु; ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ||३७||
गृहेषु येषामसवः पतन्ति; तेषामथो निर्हरणं प्रशस्तम् |
यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः ||३८||
इष्टिः पुष्टिर्यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः |
शक्त्या पित्र्यं यच्च किञ्चित्प्रशस्तं; सर्वाण्यात्मार्थे मानवो यः करोति ||३९||
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप |
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ||४०||
भीष्म उवाच||
एवद्वै सर्वमाख्यातं मुनिना सुमहात्मना |
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप ||४१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
287-अध्यायः
भीष्म उवाच||
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः |
पराशरं महात्मानं धर्मे परमनिश्चयम् ||१||
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति |
क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने ||२||
पराशर उवाच||
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा |
चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति ||३||
छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते |
दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुयात् ||४||
यो ददाति सहस्राणि गवामश्वशतानि च |
अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते ||५||
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् |
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ||६||
नाधर्मः श्लिष्यते प्राज्ञमापः पुष्करपर्णवत् |
अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् ||७||
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति |
कर्ता खलु यथाकालं तत्सर्वमभिपद्यते ||८||
न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः ||८||
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते |
शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् ||९||
वीतरागो जितक्रोधः सम्यग्भवति यः सदा |
विषये वर्तमानोऽपि न स पापेन युज्यते ||१०||
मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति |
पुष्टस्रोत इवायत्तः स्फीतो भवति सञ्चयः ||११||
यथा भानुगतं तेजो मणिः शुद्धः समाधिना |
आदत्ते राजशार्दूल तथा योगः प्रवर्तते ||१२||
यथा तिलानामिह पुष्पसंश्रया; त्पृथक्पृथग्याति गुणोऽतिसौम्यताम् |
तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते ||१३||
जहाति दारानिहते न सम्पदः; सदश्वयानं विविधाश्च याः क्रियाः |
त्रिविष्टपे जातमतिर्यदा नर; स्तदास्य बुद्धिर्विषयेषु भिद्यते ||१४||
प्रसक्तबुद्धिर्विषयेषु यो नरो; यो बुध्यते ह्यात्महितं कदा च न |
स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते ||१५||
सङ्घातवान्मर्त्यलोकः परस्परमपाश्रितः |
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति ||१६||
न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते |
क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखेऽभिवर्तते ||१७||
यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति |
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ||१८||
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् |
अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् ||१९||
यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् |
तथात्मा पुरुषस्येह मनसा परिमुच्यते ||२०||
मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति ||२०||
परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते |
इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते ||२१||
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् |
प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च ||२२||
मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः |
तथा शरीरं तपसा तप्तं विषयमश्नुते ||२३||
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् |
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ||२४||
नीहारेण हि संवीतः शिश्नोदरपरायणः |
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ||२५||
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् |
तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः ||२६||
अहोरात्रमये लोके जरारूपेण सञ्चरन् |
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ||२७||
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते |
नाकृतं लभते कश्चित्किञ्चिदत्र प्रियाप्रियम् ||२८||
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च |
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ||२९||
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति |
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ||३०||
यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना |
तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति ||३१||
यथा समुद्रमभितः संस्यूताः सरितोऽपराः |
तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा ||३२||
स्नेहपाशैर्बहुविधैरासक्तमनसो नराः |
प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् ||३३||
शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः |
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ||३४||
विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः |
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ||३५||
सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः |
भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते ||३६||
न माता न पिता किञ्चित्कस्यचित्प्रतिपद्यते |
दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते ||३७||
माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा |
अष्टापदपदस्थाने त्वक्षमुद्रेव न्यस्यते ||३८||
सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्यात्मनो यान्ति जन्तोः |
उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चोदयतेऽन्तरात्मा ||३९||
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति |
न तस्य कश्चिदारम्भः कदाचिदवसीदति ||४०||
अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् |
न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः ||४१||
आस्तिक्यव्यवसायाभ्यामुपायाद्विस्मयाद्धिया |
यमारभत्यनिन्द्यात्मा न सोऽर्थः परिसीदति ||४२||
सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं;
गर्भात्सम्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् |
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता;
दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ||४३||
स्वरूपतामात्मकृतं च विस्तरं; कुलान्वयं द्रव्यसमृद्धिसञ्चयम् |
नरो हि सर्वो लभते यथाकृतं; शुभाशुभेनात्मकृतेन कर्मणा ||४४||
भीष्म उवाच||
इत्युक्तो जनको राजन्यथातथ्यं मनीषिणा |
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ||४५||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
288-अध्यायः
हंससाध्यसंवादः
युधिष्ठिर उवाच||
सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह |
विद्वांसो मनुजा लोके कथमेतन्मतं तव ||१||
भीष्म उवाच||
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् |
साध्यानामिह संवादं हंसस्य च युधिष्ठिर ||२||
हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः |
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ||३||
साध्या ऊचुः||
शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे |
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ||४||
श्रुतोऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन् |
किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन्मनस्ते रमते महात्मन् ||५||
तन्नः कार्यं पक्षिवर प्रशाधि; यत्कार्याणां मन्यसे श्रेष्ठमेकम् |
यत्कृत्वा वै पुरुषः सर्वबन्धै; र्विमुच्यते विहगेन्द्रेह शीघ्रम् ||६||
हंस उवाच||
इदं कार्यममृताशाः शृणोमि; तपो दमः सत्यमात्माभिगुप्तिः |
ग्रन्थीन्विमुच्य हृदयस्य सर्वा; न्प्रियाप्रिये स्वं वशमानयीत ||७||
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |
ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||८||
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि |
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||९||
परश्चेदेनमतिवादबाणै; र्भृशं विध्येच्छम एवेह कार्यः |
संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य ||१०||
क्षेपाभिमानादभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश्च मन्युम् |
अदुष्टचेता मुदितोऽनसूयुः; स आदत्ते सुकृतं वै परेषाम् ||११||
आक्रुश्यमानो न वदामि किं चि; त्क्षमाम्यहं ताड्यमानश्च नित्यम् |
श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः; सत्यं तथैवार्जवमानृशंस्यम् ||१२||
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः |
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ||१३||
वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम् |
एतान्वेगान्यो विषहत्युदीर्णां; स्तं मन्येऽहं ब्राह्मणं वै मुनिं च ||१४||
अक्रोधनः क्रुध्यतां वै विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः |
अमानुषान्मानुषो वै विशिष्ट; स्तथाज्ञानाज्ज्ञानवान्वै प्रधानः ||१५||
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः |
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ||१६||
यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात् |
पापं च यो नेच्छति तस्य हन्तु; स्तस्मै देवाः स्पृहयन्ते सदैव ||१७||
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च |
विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति ||१८||
सदाहमार्यान्निभृतोऽप्युपासे; न मे विवित्सा न च मेऽस्ति रोषः |
न चाप्यहं लिप्समानः परैमि; न चैव किञ्चिद्विषमेण यामि ||१९||
नाहं शप्तः प्रतिशपामि किं चि; द्दमं द्वारं ह्यमृतस्येह वेद्मि |
गुह्यं ब्रह्म तदिदं वो ब्रवीमि; न मानुषाच्छ्रेष्ठतरं हि किञ्चित् ||२०||
विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः |
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ||२१||
यः सर्वेषां भवति ह्यर्चनीय; उत्सेचने स्तम्भ इवाभिजातः |
यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान्गच्छति संयतात्मा ||२२||
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् |
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ||२३||
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा |
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ||२४||
आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः |
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ||२५||
अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः |
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ||२६||
यत्क्रोधनो यजते यद्ददाति; यद्वा तपस्तप्यति यज्जुहोति |
वैवस्वतस्तद्धरतेऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य ||२७||
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः |
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ||२८||
सत्यं दमं ह्यार्जवमानृशंस्यं; धृतिं तितिक्षामभिसेवमानः |
स्वाध्यायनित्योऽस्पृहयन्परेषा; मेकान्तशील्यूर्ध्वगतिर्भवेत्सः ||२९||
सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान् |
न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित् ||३०||
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् |
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ||३१||
यादृशैः संनिवसति यादृशांश्चोपसेवते |
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ||३२||
यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव |
वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति ||३३||
सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम् |
नेन्दुः समः स्यादसमो हि वायु; रुच्चावचं विषयं यः स वेद ||३४||
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे |
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ||३५||
शिश्नोदरे येऽभिरताः सदैव; स्तेना नरा वाक्परुषाश्च नित्यम् |
अपेतदोषानिति तान्विदित्वा; दूराद्देवाः सम्परिवर्जयन्ति ||३६||
न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा |
सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास्तैः सह सम्भजन्ते ||३७||
अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम् |
धर्मं वदेद्व्याहृतं तत्तृतीयं; प्रियं वदेद्व्याहृतं तच्चतुर्थम् ||३८||
साध्या ऊचुः||
केनायमावृतो लोकः केन वा न प्रकाशते |
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ||३९||
हंस उवाच||
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते |
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ||४०||
साध्या ऊचुः||
कः स्विदेको रमते ब्राह्मणानां; कः स्विदेको बहुभिर्जोषमास्ते |
कः स्विदेको बलवान्दुर्बलोऽपि; कः स्विदेषां कलहं नान्ववैति ||४१||
हंस उवाच||
प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर्जोषमास्ते |
प्राज्ञ एको बलवान्दुर्बलोऽपि; प्राज्ञ एषां कलहं नान्ववैति ||४२||
साध्या ऊचुः||
किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते |
असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ||४३||
हंस उवाच||
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते |
असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते ||४४||
भीष्म उवाच||
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः |
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ||४५||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
289-अध्यायः
योगकथनम्
युधिष्ठिर उवाच||
साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि |
तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम ||१||
भीष्म उवाच||
साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगा योगं द्विजातयः |
वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै ||२||
अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन |
वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः ||३||
वदन्ति कारणं चेदं साङ्ख्याः सम्यग्द्विजातयः |
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ||४||
ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा |
एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ||५||
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् |
शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः ||६||
प्रत्यक्षहेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः |
उभे चैते मते तत्त्वे मम तात युधिष्ठिर ||७||
उभे चैते मते ज्ञाने नृपते शिष्टसंमते |
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ||८||
तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघ |
व्रतानां धारणं तुल्यं दर्शनं न समं तयोः ||९||
युधिष्ठिर उवाच||
यदि तुल्यं व्रतं शौचं दया चात्र पितामह |
तुल्यं न दर्शनं कस्मात्तन्मे ब्रूहि पितामह ||१०||
भीष्म उवाच||
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् |
योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत् ||११||
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् |
प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ||१२||
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः |
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ||१३||
लोभजानि तथा राजन्बन्धनानि बलान्विताः |
छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम् ||१४||
अबलाश्च मृगा राजन्वागुरासु तथापरे |
विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ||१५||
बलहीनाश्च कौन्तेय यथा जालगता झषाः |
अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः ||१६||
यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिंदम |
तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ||१७||
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परन्तप |
अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ||१८||
अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः |
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो ||१९||
स एव च यदा राजन्वह्निर्जातबलः पुनः |
समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि ||२०||
तद्वज्जातबलो योगी दीप्ततेजा महाबलः |
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ||२१||
दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः |
बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः ||२२||
तदेव च यथा स्रोतो विष्टम्भयति वारणः |
तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् ||२३||
विशन्ति चावशाः पार्थ योगा योगबलान्विताः |
प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः ||२४||
न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः |
ईशते नृपते सर्वे योगस्यामिततेजसः ||२५||
आत्मनां च सहस्राणि बहूनि भरतर्षभ |
योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ||२६||
प्राप्नुयाद्विषयांश्चैव पुनश्चोग्रं तपश्चरेत् |
सङ्क्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव ||२७||
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव |
विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम् ||२८||
बलानि योगे प्रोक्तानि मयैतानि विशां पते |
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ||२९||
आत्मनश्च समाधाने धारणां प्रति चाभिभो |
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ||३०||
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः |
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ||३१||
स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् |
पुरुषो यत्त आरोहेत्सोपानं युक्तमानसः ||३२||
युक्त्वा तथायमात्मानं योगः पार्थिव निश्चलम् |
करोत्यमलमात्मानं भास्करोपमदर्शनम् ||३३||
यथा च नावं कौन्तेय कर्णधारः समाहितः |
महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम् ||३४||
तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित् |
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ||३५||
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः |
देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ ||३६||
तथैव नृपते योगी धारणासु समाहितः |
प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ||३७||
आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः |
पापं हन्तेव मीनानां पदमाप्नोति सोऽजरम् ||३८||
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः |
दर्शने स्पर्शने चापि घ्राणे चामितविक्रम ||३९||
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः |
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशां पते ||४०||
स शीघ्रममलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् |
उत्तमं योगमास्थाय यदीच्छति विमुच्यते ||४१||
युधिष्ठिर उवाच||
आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत |
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ||४२||
भीष्म उवाच||
कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे |
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ||४३||
भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम |
एकारामो विशुद्धात्मा योगी बलमवाप्नुयात् ||४४||
पक्षान्मासानृतूंश्चित्रान्सञ्चरंश्च गुहास्तथा |
अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ||४५||
अखण्डमपि वा मासं सततं मनुजेश्वर |
उपोष्य सम्यक्षुद्धात्मा योगी बलमवाप्नुयात् ||४६||
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च |
भयं निद्रां तथा श्वासं पौरुषं विषयांस्तथा ||४७||
अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव |
स्पर्शान्सर्वांस्तथा तन्द्रीं दुर्जयां नृपसत्तम ||४८||
दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना |
वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ||४९||
दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् |
न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ||५०||
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् |
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ||५१||
अभक्तमटवीप्रायं दावदग्धमहीरुहम् |
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा ||५२||
योगमार्गं तथासाद्य यः कश्चिद्भजते द्विजः |
क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः ||५३||
सुस्थेयं क्षुरधारासु निशितासु महीपते |
धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः ||५४||
विपन्ना धारणास्तात नयन्ति नशुभां गतिम् |
नेतृहीना यथा नावः पुरुषानर्णवे नृप ||५५||
यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि |
मरणं जन्म दुःखं च सुखं च स विमुञ्चति ||५६||
नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम् |
परं योगं तु यत्कृत्स्नं निश्चितं तद्द्विजातिषु ||५७||
परं हि तद्ब्रह्म महन्महात्म; न्ब्रह्माणमीशं वरदं च विष्णुम् |
भवं च धर्मं च षडाननं च; षड्ब्रह्मपुत्रांश्च महानुभावान् ||५८||
तमश्च कष्टं सुमहद्रजश्च; सत्त्वं च शुद्धं प्रकृतिं परां च |
सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश्च कृत्स्नं सुमहच्च धैर्यम् ||५९||
ताराधिपं वै विमलं सतारं; विश्वांश्च देवानुरगान्पितॄंश्च |
शैलांश्च कृत्स्नानुदधींश्च घोरा; न्नदीश्च सर्वाः
सवनान्घनांश्च ||६०||
नागान्नगान्यक्षगणान्दिशश्च; गन्धर्वसङ्घान्पुरुषान्स्त्रियश्च |
परस्परं प्राप्य महान्महात्मा; विशेत योगी नचिराद्विमुक्तः ||६१||
कथा च येयं नृपते प्रसक्ता; देवे महावीर्यमतौ शुभेयम् |
योगान्स सर्वानभिभूय मर्त्या; न्नारायणात्मा कुरुते महात्मा ||६२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
290-अध्यायः
सांख्यवर्णनम्
युधिष्ठिर उवाच||
सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः |
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ||१||
साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते |
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ||२||
भीष्म उवाच||
शृणु मे त्वमिदं शुद्धं साङ्ख्यानां विदितात्मनाम् |
विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः ||३||
यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ |
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ||४||
ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप |
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ||५||
राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा |
विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ||६||
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप |
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ||७||
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा |
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ||८||
देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् |
विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा ||९||
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः |
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ||१०||
प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम् |
तिर्यक्च पततां दुःखं पततां नरके च यत् ||११||
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत |
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ||१२||
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप |
साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ||१३||
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा |
तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ||१४||
षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा |
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत् ||१५||
द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः |
मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा ||१६||
ज्ञानविज्ञानसम्पन्नाः कारणैर्भाविताः शुभैः |
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इह नभः परम् ||१७||
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च |
शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च ||१८||
तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् |
मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम् ||१९||
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् |
अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः ||२०||
तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् |
नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् ||२१||
बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् |
रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि ||२२||
सक्तमात्मानमीशे च देवे नारायणे तथा |
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ||२३||
ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः |
स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते ||२४||
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते |
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ||२५||
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् |
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ||२६||
अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः |
सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः ||२७||
प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान् |
सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परन्तप ||२८||
सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान् |
ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप ||२९||
महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव |
गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम् ||३०||
वैतरण्यां च यद्दुःखं पतितानां यमक्षये |
योनीषु च विचित्रासु संसारानशुभांस्तथा ||३१||
जठरे चाशुभे वासं शोणितोदकभाजने |
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ||३२||
शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे |
सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ ||३३||
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप |
तामसानां च जन्तूनां रमणीयावृतात्मनाम् ||३४||
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ |
गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम् ||३५||
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा |
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ||३६||
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप |
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ||३७||
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् |
रागे मोहे च सम्प्राप्ते क्वचित्सत्त्वं समाश्रितम् ||३८||
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः |
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ||३९||
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः |
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ||४०||
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाशुभान् |
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ||४१||
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् |
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ||४२||
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ||४२||
जननीषु च वर्तन्ते ये न सम्यग्युधिष्ठिर |
सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः ||४३||
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् |
तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् ||४४||
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा |
क्षयं संवत्सराणां च मासानां प्रक्षयं तथा ||४५||
पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम् |
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ||४६||
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः |
क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च ||४७||
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः |
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ||४८||
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः |
जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह ||४९||
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः |
देहविक्लवतां चैव सम्यग्विज्ञाय भारत ||५०||
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् |
स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् ||५१||
युधिष्ठिर उवाच||
कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम |
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ||५२||
भीष्म उवाच||
पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः |
मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन ||५३||
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते |
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ||५४||
छिन्दन्ति क्षमया क्रोधं कामं सङ्कल्पवर्जनात् |
सत्त्वसंशीलनान्निद्रामप्रमादाद्भयं तथा ||५५||
छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप ||५५||
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि |
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ||५६||
अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम् |
चित्तभित्तिप्रतीकाशं नलसारमनर्थकम् ||५७||
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् |
नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम् ||५८||
रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ||५८||
साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम् |
ज्ञानज्ञेयेन साङ्ख्येन व्यापिना महता नृप ||५९||
राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् |
पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ||६०||
छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत ||६०||
ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम् |
व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ||६१||
तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत |
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपमरिंदम ||६२||
कर्मागाधं सत्यतीरं स्थितव्रतमिदं नृप |
हिंसाशीघ्रमहावेगं नानारसमहाकरम् ||६३||
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् |
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ||६४||
अस्थिसङ्घातसङ्घाटं श्लेष्मफेनमरिंदम |
दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम् ||६५||
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् |
रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् ||६६||
पुनराजन्मलोकौघं पुत्रबान्धवपत्तनम् |
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् ||६७||
वेदान्तगमनद्वीपं सर्वभूतदयोदधिम् |
मोक्षदुष्प्रापविषयं वडवामुखसागरम् ||६८||
तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत |
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ||६९||
ततस्तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः |
पद्मतन्तुवदाविश्य प्रवहन्विषयान्नृप ||७०||
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत |
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ||७१||
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत |
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ||७२||
स तान्वहति कौन्तेय नभसः परमां गतिम् ||७२||
नभो वहति लोकेश रजसः परमां गतिम् |
रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् ||७३||
सत्त्वं वहति शुद्धात्मन्परं नारायणं प्रभुम् |
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ||७४||
परमात्मानमासाद्य तद्भूतायतनामलाः |
अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो ||७५||
परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम् ||७५||
युधिष्ठिर उवाच||
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः |
आजन्ममरणं वा ते स्मरन्त्युत न वानघ ||७६||
यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि |
त्वदृते मानवं नान्यं प्रष्टुमर्हामि कौरव ||७७||
मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् |
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ||७८||
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप |
मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत् ||७९||
भीष्म उवाच||
यथान्यायं त्वया तात प्रश्नः पृष्टः सुसङ्कटः |
बुद्धानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ ||८०||
अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम् ||८०||
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् |
इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनो नृप ||८१||
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ||८१||
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु |
विनश्यन्ति न संदेहः फेना इव महार्णवे ||८२||
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन |
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ||८३||
स पश्यति यथान्यायं स्पर्शान्स्पृशति चाभिभो |
बुध्यमानो यथापूर्वमखिलेनेह भारत ||८४||
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि |
अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव ||८५||
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः |
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ||८६||
सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः |
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत ||८७||
गुणांश्च मनसस्तद्वन्नभसश्च गुणांस्तथा |
गुणान्वायोश्च धर्मात्मंस्तेजसश्च गुणान्पुनः ||८८||
अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि |
सर्वात्मना गुणैर्व्याप्य क्षेत्रज्ञः स युधिष्ठिर ||८९||
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे |
शिष्या इव महात्मानमिन्द्रियाणि च तं विभो ||९०||
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् |
परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम् ||९१||
विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम् |
परमात्मानमगुणं न निवर्तति भारत ||९२||
शिष्टं त्वत्र मनस्तात इन्द्रियाणि च भारत |
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ||९३||
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना |
एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ||९४||
साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् |
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ||९५||
अत्र ते संशयो मा भूज्ज्ञानं साङ्ख्यं परं मतम् |
अक्षरं ध्रुवमव्यक्तं पूर्वं ब्रह्म सनातनम् ||९६||
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् |
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ||९७||
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः |
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ||९८||
सर्वे विप्राश्च देवाश्च तथागमविदो जनाः |
ब्रह्मण्यं परमं देवमनन्तं परतोऽच्युतम् ||९९||
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः |
सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ||१००||
अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः |
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ||१०१||
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते |
जङ्गमागमसञ्ज्ञानि जङ्गमं तु विशिष्यते ||१०२||
ज्ञानं महद्यद्धि महत्सु राज; न्वेदेषु साङ्ख्येषु तथैव योगे |
यच्चापि दृष्टं विविधं पुराणं; साङ्ख्यागतं तन्निखिलं नरेन्द्र ||१०३||
यच्चेतिहासेषु महत्सु दृष्टं; यच्चार्थशास्त्रे नृप शिष्टजुष्टे |
ज्ञानं च लोके यदिहास्ति किं चि; त्साङ्ख्यागतं तच्च महन्महात्मन् ||१०४||
शमश्च दृष्टः परमं बलं च; ज्ञानं च सूक्ष्मं च यथावदुक्तम् |
तपांसि सूक्ष्माणि सुखानि चैव; साङ्ख्ये यथावद्विहितानि राजन् ||१०५||
विपर्यये तस्य हि पार्थ देवा; न्गच्छन्ति साङ्ख्याः सततं सुखेन |
तांश्चानुसञ्चार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः ||१०६||
हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्यामिव पार्थ साङ्ख्याः |
ततोऽधिकं तेऽभिरता महार्हे; साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे ||१०७||
तेषां न तिर्यग्गमनं हि दृष्टं; नावाग्गतिः पापकृतां निवासः |
न चाबुधानामपि ते द्विजातयो; ये ज्ञानमेतन्नृपतेऽनुरक्ताः ||१०८||
साङ्क्यं विशालं परमं पुराणं; महार्णवं विमलमुदारकान्तम् |
कृत्स्नं च साङ्ख्यं नृपते महात्मा; नारायणो धारयतेऽप्रमेयम् ||१०९||
एतन्मयोक्तं नरदेव तत्त्वं; नारायणो विश्वमिदं पुराणम् |
स सर्गकाले च करोति सर्गं; संहारकाले च तदत्ति भूयः ||११०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
291-अध्यायः
वसिष्ठकरालजनकसंवादः
युधिष्ठिर उवाच||
किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः |
किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ||१||
अक्षरक्षरयोर्व्यक्तिमिच्छाम्यरिनिषूदन |
उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन ||२||
त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः |
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ||३||
शेषमल्पं दिनानां ते दक्षिणायनभास्करे |
आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् ||४||
त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् |
कुरुवंशप्रदीपस्त्वं ज्ञानद्रव्येण दीप्यसे ||५||
तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह |
न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् ||६||
भीष्म उवाच||
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् |
वसिष्ठस्य च संवादं करालजनकस्य च ||७||
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् |
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ||८||
परमध्यात्मकुशलमध्यात्मगतिनिश्चयम् |
मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ||९||
स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम् |
पप्रच्छर्षिवरं राजा करालजनकः पुरा ||१०||
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् |
यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः ||११||
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् |
यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् ||१२||
वसिष्ठ उवाच||
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् |
यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ ||१३||
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम् |
दशकल्पशतावृत्तं तदहर्ब्राह्ममुच्यते ||१४||
रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते ||१४||
सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम् |
मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः ||१५||
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ||१५||
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् |
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१६||
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः |
महानिति च योगेषु विरिञ्च इति चाप्युत ||१७||
साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः |
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ||१८||
वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना |
तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः ||१९||
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना |
अहङ्कारं महातेजाः प्रजापतिमहङ्कृतम् ||२०||
अव्यक्ताद्व्यक्तमुत्पन्नं विद्यासर्गं वदन्ति तम् |
महान्तं चाप्यहङ्कारमविद्यासर्गमेव च ||२१||
अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः |
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ||२२||
भूतसर्गमहङ्कारात्तृतीयं विद्धि पार्थिव |
अहङ्कारेषु भूतेषु चतुर्थं विद्धि वैकृतम् ||२३||
वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा |
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ||२४||
एवं युगपदुत्पन्नं दशवर्गमसंशयम् |
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत् ||२५||
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् |
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ||२६||
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च |
सम्भूतानीह युगपन्मनसा सह पार्थिव ||२७||
एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते |
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ||२८||
एतद्देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु |
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे ||२९||
सयक्षभूतगन्धर्वे सकिंनरमहोरगे |
सचारणपिशाचे वै सदेवर्षिनिशाचरे ||३०||
सदंशकीटमशके सपूतिकृमिमूषके |
शुनि श्वपाके वैणेये सचण्डाले सपुल्कसे ||३१||
हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह |
यच्च मूर्तिमयं किञ्चित्सर्वत्रैतन्निदर्शनम् ||३२||
जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः |
स्थानं देहवतामस्ति इत्येवमनुशुश्रुम ||३३||
कृत्स्नमेतावतस्तात क्षरते व्यक्तसञ्ज्ञकम् |
अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ||३४||
एतदक्षरमित्युक्तं क्षरतीदं यथा जगत् |
जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसञ्ज्ञकम् ||३५||
महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम् |
कथितं ते महाराज यस्मान्नावर्तते पुनः ||३६||
पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसञ्ज्ञकः |
तत्त्वसंश्रयणादेतत्तत्त्वमाहुर्मनीषिणः ||३७||
यदमूर्त्यसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति |
चतुर्विंशतिमो व्यक्तो ह्यमूर्तः पञ्चविंशकः ||३८||
स एव हृदि सर्वासु मूर्तिष्वातिष्ठतेऽऽत्मवान् |
चेतयंश्चेतनो नित्यः सर्वमूर्तिरमूर्तिमान् ||३९||
सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः |
गोचरे वर्तते नित्यं निर्गुणो गुणसञ्ज्ञकः ||४०||
एवमेष महानात्मा सर्गप्रलयकोविदः |
विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान् ||४१||
तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु |
लीयतेऽप्रतिबुद्धत्वादबुद्धजनसेवनात् ||४२||
सहवासो निवासात्मा नान्योऽहमिति मन्यते |
योऽहं सोऽहमिति ह्युक्त्वा गुणाननु निवर्तते ||४३||
तमसा तामसान्भावान्विविधान्प्रतिपद्यते |
रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात् ||४४||
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु |
सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि वै ||४५||
तामसा निरयं यान्ति राजसा मानुषांस्तथा |
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ||४६||
निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात् |
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ||४७||
एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः |
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ||४८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
292-अध्यायः
वसिष्ठ उवाच||
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते |
देहाद्देहसहस्राणि तथा समभिपद्यते ||१||
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि |
उपपद्यति संयोगाद्गुणैः सह गुणक्षयात् ||२||
मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च |
मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते ||३||
कोशकारो यथात्मानं कीटः समनुरुन्धति |
सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ||४||
द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु |
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ||५||
जलोदरेऽर्शसां रोगे ज्वरगण्डविषूचिके |
श्वित्रे कुष्ठेऽग्निदाहे च सिध्मापस्मारयोरपि ||६||
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु |
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते ||७||
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि ||७||
एकवासाश्च दुर्वासाः शायी नित्यमधस्तथा |
मण्डूकशायी च तथा वीरासनगतस्तथा ||८||
चीरधारणमाकाशे शयनं स्थानमेव च |
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ||९||
भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः |
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च ||१०||
विविधासु च शय्यासु फलगृद्ध्यान्वितोऽफलः |
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ||११||
शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः |
सिंहचर्मपरीधानः पट्टवासास्तथैव च ||१२||
कीटकावसनश्चैव चीरवासास्तथैव च |
वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् ||१३||
भोजनानि विचित्राणि रत्नानि विविधानि च |
एकवस्त्रान्तराशित्वमेककालिकभोजनम् ||१४||
चतुर्थाष्टमकालश्च षष्ठकालिक एव च |
षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः ||१५||
सप्तरात्रदशाहारो द्वादशाहार एव च |
मासोपवासी मूलाशी फलाहारस्तथैव च ||१६||
वायुभक्षोऽम्बुपिण्याकगोमयादन एव च |
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च ||१७||
शैवालभोजनश्चैव तथाचामेन वर्तयन् |
वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः ||१८||
विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया |
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ||१९||
चातुराश्रम्यपन्थानमाश्रयत्याश्रमानपि |
उपासीनश्च पाषण्डान्गुहाः शैलांस्तथैव च ||२०||
विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च |
विविधानि च जप्यानि विविधानि व्रतानि च ||२१||
नियमान्सुविचित्रांश्च विविधानि तपांसि च |
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा ||२२||
वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च |
दानं च विविधाकारं दीनान्धकृपणेष्वपि ||२३||
अभिमन्यत्यसम्बोधात्तथैव त्रिविधान्गुणान् |
सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ||२४||
प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत ||२४||
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः |
याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् ||२५||
यजनाध्ययने चैव यच्चान्यदपि किञ्चन ||२५||
जन्ममृत्युविवादे च तथा विशसनेऽपि च |
शुभाशुभमयं सर्वमेतदाहुः क्रियापथम् ||२६||
प्रकृतिः कुरुते देवी महाप्रलयमेव च |
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठति ||२७||
रश्मिजालमिवादित्यस्तत्कालेन नियच्छति |
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते ||२८||
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् |
एवमेव विकुर्वाणः सर्गप्रलयकर्मणी ||२९||
क्रियाक्रिया पथे रक्तस्त्रिगुणस्त्रिगुणातिगः |
क्रियाक्रियापथोपेतस्तथा तदिति मन्यते ||३०||
एवं द्वंद्वान्यथैतानि वर्तन्ते मम नित्यशः |
ममैवैतानि जायन्ते बाधन्ते तानि मामिति ||३१||
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप |
मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि ||३२||
भोक्तव्यानि मयैतानि देवलोकगतेन वै |
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ||३३||
सुखमेव च कर्तव्यं सकृत्कृत्वा सुखं मम |
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ||३४||
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम् |
महद्दुःखं हि मानुष्यं निरये चापि मज्जनम् ||३५||
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः |
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ||३६||
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ||३६||
य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर्वृतः |
तेन देवमनुष्येषु निरये चोपपद्यते ||३७||
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते |
सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ||३८||
य एवं कुरुते कर्म शुभाशुभफलात्मकम् |
स एव फलमश्नाति त्रिषु लोकेषु मूर्तिमान् ||३९||
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् |
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा ||४०||
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च |
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह ||४१||
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे |
तथैव पौरुषं लिङ्गमनुमानाद्धि पश्यति ||४२||
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् |
व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ||४३||
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च |
वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह ||४४||
अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि च ||४४||
निरिन्द्रियोऽभिमन्येत व्रणवानस्मि निर्व्रणः |
अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः ||४५||
असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः |
अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः ||४६||
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः |
अतपास्तप आत्मानमगतिर्गतिमात्मनः ||४७||
अभवो भवमात्मानमभयो भयमात्मनः |
अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते ||४८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
293-अध्यायः
वसिष्ठ उवाच||
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् |
सर्गकोटिसहस्राणि पतनान्तानि गच्छति ||१||
धाम्ना धामसहस्राणि मरणान्तानि गच्छति |
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ||२||
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः |
लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ||३||
कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते |
नित्यमेतद्विजानीहि सोमः षोडशमी कला ||४||
कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान् |
धाम तस्योपयुञ्जन्ति भूय एव तु जायते ||५||
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् |
न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ||६||
एवं तां क्षपयित्वा हि जायते नृपसत्तम |
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ||७||
तदेवं षोडशकलं देहमव्यक्तसञ्ज्ञकम् |
ममायमिति मन्वानस्तत्रैव परिवर्तते ||८||
पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात् |
विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात् ||९||
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव |
अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत् ||१०||
तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम |
प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ||११||
करालजनक उवाच||
अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते |
स्त्रीपुंसोर्वापि भगवन्सम्बन्धस्तद्वदुच्यते ||१२||
ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युत |
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा ||१३||
अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात् |
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु ||१४||
रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात् |
ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ||१५||
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा |
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ||१६||
त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम |
एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ||१७||
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते |
वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ||१८||
एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषौ |
पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ||१९||
अथ वानन्तरकृतं किञ्चिदेव निदर्शनम् |
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ||२०||
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् |
अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम् ||२१||
वसिष्ठ उवाच||
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् |
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ||२२||
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः |
न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर ||२३||
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः |
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ||२४||
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः |
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ||२५||
ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति |
यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति ||२६||
यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान् |
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ||२७||
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः |
सोपहासात्मतामेति यस्माच्चैवात्मवानपि ||२८||
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते |
याथातथ्येन साङ्ख्येषु योगेषु च महात्मसु ||२९||
यदेव योगाः पश्यन्ति साङ्ख्यैस्तदनुगम्यते |
एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ||३०||
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च |
एतदैन्द्रियकं तात यद्भवानिदमाह वै ||३१||
द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रियादिन्द्रियं तथा |
देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ||३२||
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः |
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ||३३||
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च |
एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च ||३४||
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च |
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ||३५||
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् |
नैव पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते ||३६||
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः |
यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा ||३७||
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते |
पञ्चविंशतिमस्तात लिङ्गेष्वनियतात्मकः ||३८||
अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः |
केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते ||३९||
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः |
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ||४०||
यदा त्वेष गुणान्सर्वान्प्राकृतानभिमन्यते |
तदा स गुणवानेव परमेणानुपश्यति ||४१||
यत्तद्बुद्धेः परं प्राहुः साङ्ख्या योगाश्च सर्वशः |
बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् ||४२||
अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम् |
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ||४३||
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः |
साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ||४४||
यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः |
बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा ||४५||
एतन्निदर्शनं सम्यगसम्यगनुदर्शनम् |
बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथगरिंदम ||४६||
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् |
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ||४७||
पञ्चविंशतिनिष्ठोऽयं यदासम्यक्प्रवर्तते |
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ||४८||
तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम् |
पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः ||४९||
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् |
वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ||५०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
294-अध्यायः
करालजनक उवाच||
नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम |
पश्यामि चाभिसंदिग्धमेतयोर्वै निदर्शनम् ||१||
तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ |
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ||२||
अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् |
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ||३||
तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् |
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ||४||
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च |
साङ्ख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह ||५||
वसिष्ठ उवाच||
हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि |
योगकृत्यं महाराज पृथगेव शृणुष्व मे ||६||
योगकृत्यं तु योगानां ध्यानमेव परं बलम् |
तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः ||७||
एकाग्रता च मनसः प्राणायामस्तथैव च |
प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा ||८||
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप |
त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः ||९||
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः |
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ||१०||
तं चोदनाभिर्मतिमानात्मानं चोदयेदथ |
तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ||११||
तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम |
द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ||१२||
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः |
पूर्वरात्रे परे चैव धारयेत मनोऽऽत्मनि ||१३||
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर |
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ||१४||
स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः |
बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते ||१५||
न शृणोति न चाघ्राति न रस्यति न पश्यति |
न च स्पर्शं विजानाति न सङ्कल्पयते मनः ||१६||
न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् |
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ||१७||
निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते |
निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात् ||१८||
तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते |
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ||१९||
विधूम इव सप्तार्चिरादित्य इव रश्मिमान् |
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि ||२०||
यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः |
ब्राह्मणा ब्रह्मयोनिष्ठा ह्ययोनिममृतात्मकम् ||२१||
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् |
तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ||२२||
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् |
महतस्तमसस्तात पारे तिष्ठन्नतामसः ||२३||
स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः |
विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसञ्ज्ञितः ||२४||
योगमेतद्धि योगानां मन्ये योगस्य लक्षणम् |
एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम् ||२५||
योगदर्शनमेतावदुक्तं ते तत्त्वतो मया |
साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानिदर्शनम् ||२६||
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः |
तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ||२७||
अहङ्कारस्तु महतस्तृतीयमिति नः श्रुतम् |
पञ्च भूतान्यहङ्कारादाहुः साङ्ख्यानुदर्शिनः ||२८||
एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश |
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च ||२९||
एतावदेव तत्त्वानां साङ्ख्यमाहुर्मनीषिणः |
साङ्ख्ये विधिविधानज्ञा नित्यं साङ्ख्यपथे रताः ||३०||
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते |
लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना ||३१||
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः |
गुणा गुणेषु सततं सागरस्योर्मयो यथा ||३२||
सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम |
एकत्वं प्रलये चास्य बहुत्वं च यदासृजत् ||३३||
एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः ||३३||
अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् |
एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् ||३४||
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ||३४||
बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् |
तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति ||३५||
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः |
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ||३६||
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते |
अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ||३७||
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते |
क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः ||३८||
अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते |
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ||३९||
अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् |
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ||४०||
साङ्ख्यदर्शनमेतावत्परिसङ्ख्यानदर्शनम् |
साङ्ख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते ||४१||
तत्त्वानि च चतुर्विंशत्परिसङ्ख्याय तत्त्वतः |
साङ्ख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ||४२||
पञ्चविंशोऽप्रबुद्धात्मा बुध्यमान इति स्मृतः |
यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः ||४३||
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः |
एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ||४४||
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा |
गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत् ||४५||
न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः |
विद्यतेऽक्षरभावत्वादपरस्परमव्ययम् ||४६||
पश्येरन्नेकमतयो न सम्यक्तेषु दर्शनम् |
तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम ||४७||
सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् |
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः ||४८||
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः |
य एनमभिजानन्ति न भयं तेषु विद्यते ||४९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
295-अध्यायः
वसिष्ठ उवाच||
साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम |
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ||१||
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै |
सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम् ||२||
परस्परमविद्यां वै तन्निबोधानुपूर्वशः |
यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम् ||३||
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् |
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ||४||
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः |
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ||५||
अहङ्कारस्तु भूतानां पञ्चानां नात्र संशयः |
अहङ्कारस्य च तथा बुद्धिर्विद्या नरेश्वर ||६||
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम् |
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ||७||
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् |
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव ||८||
ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् |
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ||९||
विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः |
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ||१०||
उभावेतौ क्षरावुक्तावुभावेतौ च नक्षरौ |
कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः ||११||
अनादिनिधनावेतावुभावेवेश्वरौ मतौ |
तत्त्वसञ्ज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः ||१२||
सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरक्षरम् |
तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ||१३||
गुणानां महदादीनामुत्पद्यति परस्परम् |
अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ||१४||
यदा तु गुणजालं तदव्यक्तात्मनि सङ्क्षिपेत् |
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते ||१५||
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत् |
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे सम्प्रलीयते ||१६||
तदाक्षरत्वं प्रकृतिर्गच्छते गुणसञ्ज्ञिता |
निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात् ||१७||
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये |
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ||१८||
क्षरो भवत्येष यदा तदा गुणवतीमथ |
प्रकृतिं त्वभिजानाति निर्गुणत्वं तथात्मनः ||१९||
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् |
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ||२०||
तदैषोऽन्यत्वतामेति न च मिश्रत्वमाव्रजेत् |
प्रकृत्या चैव राजेन्द्र नमिश्रोऽन्यश्च दृश्यते ||२१||
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते |
पश्यते चापरं पश्यं तदा पश्यन्न सञ्ज्वरेत् ||२२||
किं मया कृतमेतावद्योऽहं कालमिमं जनम् |
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा ||२३||
अहमेव हि संमोहादन्यमन्यं जनाज्जनम् |
मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ||२४||
मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते |
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम् ||२५||
ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः |
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ||२६||
अयमत्र भवेद्बन्धुरनेन सह मोक्षणम् |
साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम् ||२७||
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै |
अयं हि विमलो व्यक्तमहमीदृशकस्तथा ||२८||
योऽहमज्ञानसंमोहादज्ञया सम्प्रवृत्तवान् |
ससङ्गयाहं निःसङ्गः स्थितः कालमिमं त्वहम् ||२९||
अनयाहं वशीभूतः कालमेतं न बुद्धवान् |
उच्चमध्यमनीचानां तामहं कथमावसे ||३०||
समानयानया चेह सहवासमहं कथम् |
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे ||३१||
सहवासं न यास्यामि कालमेतद्धि वञ्चनात् |
वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया ||३२||
न चायमपराधोऽस्या अपराधो ह्ययं मम |
योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ||३३||
ततोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान् |
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः ||३४||
प्रकृतेरनयत्वेन तासु तास्विह योनिषु |
निर्ममस्य ममत्वेन किं कृतं तासु तासु च ||३५||
योनीषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा ||३५||
न ममात्रानया कार्यमहङ्कारकृतात्मया |
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् ||३६||
इदानीमेष बुद्धोऽस्मि निर्ममो निरहङ्कृतः ||३६||
ममत्वमनया नित्यमहङ्कारकृतात्मकम् |
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् ||३७||
अनेन साम्यं यास्यामि नानयाहमचेतसा |
क्षमं मम सहानेन नैकत्वमनया सह ||३८||
एवं परमसम्बोधात्पञ्चविंशोऽनुबुद्धवान् ||३८||
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम् |
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा ||३९||
निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ||३९||
अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् |
मयेह ज्ञानसम्पन्नं यथाश्रुतिनिदर्शनात् ||४०||
निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा |
प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ||४१||
साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् |
यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत् ||४२||
प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते |
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ||४३||
बृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः |
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ||४४||
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप |
साङ्ख्यानां तु परं तत्र यथावदनुवर्णितम् ||४५||
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः |
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् ||४६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
296-अध्यायः
वसिष्ठ उवाच||
अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु |
गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ||१||
अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिप |
आत्मानं बहुधा कृत्वा तान्येव च विचक्षते ||२||
एतदेवं विकुर्वाणां बुध्यमानो न बुध्यते |
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ||३||
न त्वेव बुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम् |
कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ||४||
बुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम् |
बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः ||५||
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् |
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ||६||
पञ्चविंशं महात्मानं न चासावपि बुध्यते |
षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् ||७||
सततं पञ्चविंशं च चतुर्विंशं च बुध्यते |
दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती ||८||
अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम् |
केवलं पञ्चविंशं च चतुर्विंशं न पश्यति ||९||
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते |
तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ||१०||
बुध्यते च परां बुद्धिं विशुद्धाममलां यदा |
षड्विंशो राजशार्दूल तदा बुद्धत्वमाव्रजेत् ||११||
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम् |
निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् ||१२||
ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् |
केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् ||१३||
एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् |
तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानद ||१४||
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ||१४||
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् |
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् ||१५||
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः |
केवलेन बलेनैव समतां यात्यसंशयम् ||१६||
षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् |
एतन्नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ||१७||
चेतनेन समेतस्य पञ्चविंशतिकस्य च |
एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ||१८||
बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल |
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ||१९||
निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः |
विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ||२०||
चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् ||२०||
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ |
प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ||२१||
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ||२१||
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः |
मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते ||२२||
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः |
एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम् ||२३||
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते |
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ||२४||
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः |
परेण परधर्मा च भवत्येष समेत्य वै ||२५||
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् |
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ||२६||
नियोगधर्मिणा चैव नियोगात्मा भवत्यपि |
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ||२७||
शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान् |
विमलात्मा च भवति समेत्य विमलात्मना ||२८||
केवलात्मा तथा चैव केवलेन समेत्य वै |
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ||२९||
एतावदेतत्कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम् |
अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धमाद्यम् ||३०||
न वेदनिष्ठस्य जनस्य राज; न्प्रदेयमेतत्परमं त्वया भवेत् |
विवित्समानाय विबोधकारकं; प्रबोधहेतोः प्रणतस्य शासनम् ||३१||
न देयमेतच्च तथानृतात्मने; शठाय क्लीबाय न जिह्मबुद्धये |
न पण्डितज्ञानपरोपतापिने; देयं त्वयेदं विनिबोध यादृशे ||३२||
श्रद्धान्वितायाथ गुणान्विताय; परापवादाद्विरताय नित्यम् |
विशुद्धयोगाय बुधाय चैव; क्रियावतेऽथ क्षमिणे हिताय ||३३||
विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय |
विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम् ||३४||
एतैर्गुणैर्हीनतमे न देय; मेतत्परं ब्रह्म विशुद्धमाहुः |
न श्रेयसा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारमपात्रदानात् ||३५||
पृथ्वीमिमां यद्यपि रत्नपूर्णां; दद्यान्नदेयं त्विदमव्रताय |
जितेन्द्रियायैतदसंशयं ते; भवेत्प्रदेयं परमं नरेन्द्र ||३६||
कराल मा ते भयमस्तु किं चि; देतच्छ्रुतं ब्रह्म परं त्वयाद्य |
यथावदुक्तं परमं पवित्रं; निःशोकमत्यन्तमनादिमध्यम् ||३७||
अगाधजन्मामरणं च राज; न्निरामयं वीतभयं शिवं च |
समीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थमिदं विदित्वा ||३८||
अवाप्तमेतद्धि पुरा सनातना; द्धिरण्यगर्भाद्गदतो नराधिप |
प्रसाद्य यत्नेन तमुग्रतेजसं; सनातनं ब्रह्म यथाद्य वै त्वया ||३९||
पृष्टस्त्वया चास्मि यथा नरेन्द्र; तथा मयेदं त्वयि चोक्तमद्य |
तथावाप्तं ब्रह्मणो मे नरेन्द्र; महज्ज्ञानं मोक्षविदां पुराणम् ||४०||
भीष्म उवाच||
एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः |
पञ्चविंशो महाराज परमर्षिनिदर्शनात् ||४१||
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च |
नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरः ||४२||
एतन्निःश्रेयसकरं ज्ञानानां ते परं मया |
कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ||४३||
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना |
वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ||४४||
नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् |
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ||४५||
येन क्षराक्षरे वित्ते न भयं तस्य विद्यते |
विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ||४६||
अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन् |
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ||४७||
देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते |
यदि शुध्यति कालेन तस्मादज्ञानसागरात् ||४८||
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते |
अहन्यहनि मज्जन्ति यत्र भूतानि भारत ||४९||
यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् |
तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ||५०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
297-अध्यायः
भृगुजनकसंवादः
भीष्म उवाच||
मृगयां विचरन्कश्चिद्विजने जनकात्मजः |
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ||१||
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् |
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ||२||
भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत् |
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ||३||
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः |
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः ||४||
मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि |
भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः ||५||
धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम् |
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ||६||
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि |
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि ||७||
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना |
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना ||८||
असता धर्मकामेन विशुद्धं कर्म दुष्करम् |
सता तु धर्मकामेन सुकरं कर्म दुष्करम् ||९||
वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः |
ग्रामे वनसुखाचारो यथा वनचरस्तथा ||१०||
मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः |
निवृत्तौ वा प्रवृत्तौ वा सम्प्रधार्य गुणागुणान् ||११||
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता |
प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः ||१२||
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् |
क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत् ||१३||
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः |
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ||१४||
सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते |
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते ||१५||
स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत् |
पात्रकर्मविशेषेण देशकालाववेक्ष्य च ||१६||
लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान् |
बहुयत्नेन महता पापनिर्हरणं तथा ||१७||
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् |
तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः ||१८||
मानसं सर्वभूतेषु वर्तते वै शुभाशुभे |
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत् ||१९||
सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय |
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ||२०||
अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव |
अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर ||२१||
तेजसा शक्यते प्राप्तुमुपायसहचारिणा |
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ||२२||
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः |
ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान् ||२३||
तपस्विनां धर्मवतां विदुषां चोपसेवनात् |
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ||२४||
स तु स्वभावसम्पन्नस्तच्छ्रुत्वा मुनिभाषितम् |
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह ||२५||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
298-अध्यायः
याज्ञवल्क्यजनकसंवादः
युधिष्ठिर उवाच||
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् |
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ||१||
यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् |
शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ||२||
भीष्म उवाच||
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् |
याज्ञवल्क्यस्य संवादं जनकस्य च भारत ||३||
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः |
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ||४||
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः |
किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ||५||
प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च |
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ||६||
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः |
तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ||७||
याज्ञवल्क्य उवाच||
श्रूयतामवनीपाल यदेतदनुपृच्छसि |
योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ||८||
न तवाविदितं किञ्चिन्मां तु जिज्ञासते भवान् |
पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ||९||
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश |
अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः ||१०||
अव्यक्तं च महांश्चैव तथाहङ्कार एव च |
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ||११||
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु |
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ||१२||
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च |
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ||१३||
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु |
बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ||१४||
मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः |
त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ||१५||
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव |
प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ||१६||
महतश्चाप्यहङ्कार उत्पद्यति नराधिप |
द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ||१७||
अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् |
तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते ||१८||
मनसस्तु समुद्भूता महाभूता नराधिप |
चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ||१९||
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च |
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ||२०||
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् |
सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् ||२१||
अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप |
सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ||२२||
ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप |
अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः ||२३||
तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप |
नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ||२४||
एतानि नव सर्गाणि तत्त्वानि च नराधिप |
चतुर्विंशतिरुक्तानि यथाश्रुति निदर्शनात् ||२५||
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः |
महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ||२६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
299-अध्यायः
याज्ञवल्क्य उवाच||
अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे |
पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ||१||
रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप |
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ||२||
ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् |
सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ||३||
संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः |
संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ||४||
द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते |
तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ||५||
एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः |
दश कल्पसहस्राणि पादोनान्यहरुच्यते ||६||
रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ||६||
सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा |
चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ||७||
ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ||७||
देवाः पितॄणां च सुता देवैर्लोकाः समावृताः |
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ||८||
परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा |
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ||९||
एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः |
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ||१०||
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ||११||
यैराविष्टानि भूतानि अहन्यहनि पार्थिव ||११||
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः |
अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ||१२||
ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः |
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ||१३||
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते |
रत्रिरेतावती चैव मनसश्च नराधिप ||१४||
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः |
न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ||१५||
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा |
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ||१६||
तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ||१६||
मनस्युपरते राजन्निन्द्रियोपरमो भवेत् |
न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् ||१७||
एवं मनःप्रधानानि इन्द्रियाणि विभावयेत् ||१७||
इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते |
एतद्विशन्ति भूतानि सर्वाणीह महायशाः ||१८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
300-अध्यायः
याज्ञवल्क्य उवाच||
तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च |
मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ||१||
यथा संहरते जन्तून्ससर्ज च पुनः पुनः |
अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ||२||
अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा |
चोदयामास भगवानव्यक्तोऽहङ्कृतं नरम् ||३||
ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः |
कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ||४||
चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा |
जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप ||५||
एतदुन्मेषमात्रेण विनिष्टं स्थाणुजङ्गमम् |
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ||६||
जगद्दग्ध्वामितबलः केवलं जगतीं ततः |
अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ||७||
ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम् |
विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान् ||८||
तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् |
ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा ||९||
भक्षयामास बलवान्वायुरष्टात्मको बली |
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ||१०||
तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना |
आकाशमप्यतिनदन्मनो ग्रसति चारिकम् ||११||
मनो ग्रसति सर्वात्मा सोऽहङ्कारः प्रजापतिः |
अहङ्कारं महानात्मा भूतभव्यभविष्यवित् ||१२||
तमप्यनुपमात्मानं विश्वं शम्भुः प्रजापतिः |
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ||१३||
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः |
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ||१४||
हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः |
अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ||१५||
ततः समभवत्सर्वमक्षयाव्ययमव्रणम् |
भूतभव्यमनुष्याणां स्रष्टारमनघं तथा ||१६||
एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः |
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ||१७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
301-अध्यायः
याज्ञवल्क्य उवाच||
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः |
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ||१||
पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः |
विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ||२||
उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् |
अधिभूतं तथानन्दो दैवतं च प्रजापतिः ||३||
हस्तावध्यात्ममित्याहुर्यथासाङ्ख्यनिदर्शनम् |
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ||४||
वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् |
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ||५||
चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् |
रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ||६||
श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् |
शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ||७||
जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् |
रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ||८||
घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् |
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ||९||
त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः |
स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ||१०||
मनोऽध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् |
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ||११||
अहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् |
अभिमानोऽधिभूतं तु भवस्तत्राधिदैवतम् ||१२||
बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शनम् |
बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ||१३||
एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता |
आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ||१४||
प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया |
क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः ||१५||
यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते |
प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ||१६||
सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च |
सुखं शुद्धित्वमारोग्यं सन्तोषः श्रद्दधानता ||१७||
अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता |
समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ||१८||
शौचमार्जवमाचारमलौल्यं हृद्यसम्भ्रमः |
इष्टानिष्टवियोगानां कृतानामविकत्थनम् ||१९||
दानेन चानुग्रहणमस्पृहार्थे परार्थता |
सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ||२०||
रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहे |
अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ||२१||
परापवादेषु रतिर्विवादानां च सेवनम् |
अहङ्कारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ||२२||
परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा |
भेदः परुषता चैव कामक्रोधौ मदस्तथा ||२३||
दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ||२३||
तामसानां तु सङ्घातं प्रवक्ष्याम्युपधार्यताम् |
मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसञ्ज्ञितम् ||२४||
मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते |
तमसो लक्षणानीह भक्षाणामभिरोचनम् ||२५||
भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता |
गन्धवासो विहारेषु शयनेष्वासनेषु च ||२६||
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः |
नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ||२७||
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ||२७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
302-अध्यायः
याज्ञवल्क्य उवाच||
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम |
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ||१||
शतधा सहस्रधा चैव तथा शतसहस्रधा |
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ||२||
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् |
तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ||३||
केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् |
पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् ||४||
द्वंद्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः |
सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे ||५||
सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा |
तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ||६||
अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् |
रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते ||७||
रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते |
रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् ||८||
पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम् |
शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ||९||
ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् |
अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् ||१०||
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप |
स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते ||११||
अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव |
एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ||१२||
जनक उवाच||
अनादिनिधनावेतावुभावेव महामुने |
अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ ||१३||
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः |
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ||१४||
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे |
साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ||१५||
अस्तित्वं केवलत्वं च विनाभावं तथैव च |
तथैवोत्क्रमणस्थानं देहिनोऽपि वियुज्यतः ||१६||
कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज |
साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च ||१७||
अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम |
विदितं सर्वमेतत्ते पाणावामलकं यथा ||१८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
303-अध्यायः
याज्ञवल्क्य उवाच||
न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते |
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ||१||
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा |
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ||२||
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते |
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ||३||
अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः |
न मत्तः परमस्तीति नित्यमेवाभिमन्यते ||४||
अनेन कारणेनैतदव्यक्तं स्यादचेतनम् |
नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा ||५||
यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः |
यदात्मानं न जानीते तदाव्यक्तमिहोच्यते ||६||
कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते |
कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते ||७||
कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता |
कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते ||८||
गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान् |
कर्तृत्वात्प्रलयानां च तथा प्रलयधर्मिता ||९||
बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च |
उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् ||१०||
मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः |
अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम ||११||
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा |
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ||१२||
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञकः |
यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते ||१३||
अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा |
न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते ||१४||
अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् |
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ||१५||
अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः |
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै ||१६||
पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् |
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ||१७||
एतेषां सह संवासं विवासं चैव नित्यशः |
यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः ||१८||
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् |
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ||१९||
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम् |
एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः ||२०||
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् |
अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् ||२१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
304-अध्यायः
याज्ञवल्क्य उवाच||
साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे |
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ||१||
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् |
तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ||२||
पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः |
वयं तु राजन्पश्याम एकमेव तु निश्चयात् ||३||
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते |
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ||४||
रुद्रप्रधानानपरान्विद्धि योगान्परन्तप |
तेनैव चाथ देहेन विचरन्ति दिशो दश ||५||
यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै |
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ||६||
वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः |
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ||७||
द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् |
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ||८||
धारणा चैव मनसः प्राणायामश्च पार्थिव |
प्राणायामो हि सगुणो निर्गुणं धारणं मनः ||९||
यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम |
वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् ||१०||
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः |
मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ||११||
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना |
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ||१२||
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा |
शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च ||१३||
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल |
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ||१४||
मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप |
अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ||१५||
एवं हि परिसङ्ख्याय ततो ध्यायेत केवलम् |
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ||१६||
तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् |
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ||१७||
युक्तस्य तु महाराज लक्षणान्युपधारयेत् |
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ||१८||
निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः |
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः ||१९||
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः |
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् ||२०||
शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः |
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ||२१||
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः |
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः ||२२||
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् |
तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ||२३||
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च |
एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् ||२४||
स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् |
महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् ||२५||
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् |
कालेन महता राजञ्श्रुतिरेषा सनातनी ||२६||
एतद्धि योगं योगानां किमन्यद्योगलक्षणम् |
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ||२७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
305-अध्यायः
याज्ञवल्क्य उवाच||
तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप |
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते ||१||
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् |
जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् ||२||
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् |
पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् ||३||
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च |
बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ||४||
ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् |
विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ||५||
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च |
भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ ||६||
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा |
एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर ||७||
अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः |
संवत्सरवियोगस्य सम्भवेयुः शरीरिणः ||८||
योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन |
तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ||९||
खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ||९||
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव |
आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः ||१०||
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा |
प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् ||११||
दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते |
कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् ||१२||
शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति |
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ||१३||
शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः |
देवतायतनस्थस्तु षड्रात्रेण स मृत्युभाक् ||१४||
कर्णनासावनमनं दन्तदृष्टिविरागिता |
सञ्ज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् ||१५||
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप |
मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् ||१६||
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् |
निशि चाहनि चात्मानं योजयेत्परमात्मनि ||१७||
प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् |
अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ||१८||
सर्वगन्धान्रसांश्चैव धारयेत समाहितः |
तथा हि मृत्युं जयति तत्परेणान्तरात्मना ||१९||
ससाङ्ख्यधारणं चैव विदित्वा मनुजर्षभ |
जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ||२०||
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् |
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ||२१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
306-अध्यायः
याज्ञवल्क्य उवाच||
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप |
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ||१||
यथार्षेणेह विधिना चरतावमतेन ह |
मयादित्यादवाप्तानि यजूंषि मिथिलाधिप ||२||
महता तपसा देवस्तपिष्ठः सेवितो मया |
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ||३||
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् |
तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ||४||
ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः |
यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ||५||
ततो मां भगवानाह वितरिष्यामि ते द्विज |
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ||६||
ततो मामाह भगवानास्यं स्वं विवृतं कुरु |
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ||७||
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ |
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ||८||
ततो विदह्यमानं मामुवाच भगवान्रविः |
मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि ||९||
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः |
प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ||१०||
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ |
तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ||११||
प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् |
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ||१२||
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ |
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ||१३||
ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता |
ओङ्कारमादितः कृत्वा मम देवी सरस्वती ||१४||
ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् |
तपतां च वरिष्ठाय निषण्णस्तत्परायणः ||१५||
ततः शतपथं कृत्स्नं सरहस्यं ससङ्ग्रहम् |
चक्रे सपरिशेषं च हर्षेण परमेण ह ||१६||
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् |
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ||१७||
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः |
व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ||१८||
मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् |
स्ववेददक्षिणायाथ विमर्दे मातुलेन ह ||१९||
सुमन्तुनाथ पैलेन तथा जैमिनिना च वै |
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ||२०||
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ |
तथैव लोमहर्षाच्च पुराणमवधारितम् ||२१||
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् |
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ||२२||
कर्तुं शतपथं वेदमपूर्वं कारितं च मे |
यथाभिलषितं मार्गं तथा तच्चोपपादितम् ||२३||
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् |
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ||२४||
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः |
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् ||२५||
किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् |
चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत ||२६||
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः |
चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव ||२७||
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा ||२७||
विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च |
ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा ||२८||
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ||२८||
वेद्यावेद्यं तथा राजन्नचलं चलमेव च |
अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् ||२९||
अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः |
पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् ||३०||
मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये |
बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः ||३१||
ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् |
मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ||३२||
तत्रोपनिषदं चैव परिशेषं च पार्थिव |
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ||३३||
चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी |
उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता ||३४||
अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा |
श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह ||३५||
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि |
विश्वाव्यक्तं परं विद्याद्भूतभव्यभयङ्करम् ||३६||
त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा |
अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ||३७||
अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् |
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ||३८||
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च |
अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ||३९||
कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते |
तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ||४०||
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते |
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ||४१||
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः |
अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः ||४२||
अजावुभावप्रजौ च अक्षयौ चाप्युभावपि |
अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ||४३||
अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् |
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ||४४||
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः |
एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी ||४५||
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि |
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ||४६||
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः |
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ||४७||
साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते |
वेदवेद्यं न जानीते वेदभारवहो हि सः ||४८||
यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम |
विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् ||४९||
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति |
स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः ||५०||
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना |
यथास्य जन्मनिधने न भवेतां पुनः पुनः ||५१||
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् |
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ||५२||
यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप |
तदा स केवलीभूतः षड्विंशमनुपश्यति ||५३||
अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः |
तस्य द्वावनुपश्येत तमेकमिति साधवः ||५४||
तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् |
जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः ||५५||
विश्वावसुरुवाच||
पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम |
तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ||५६||
जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् |
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ||५७||
भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च |
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ||५८||
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः |
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ||५९||
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् |
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ||६०||
दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः |
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ||६१||
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण |
भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ||६२||
न तवाविदितं किञ्चिद्भवाञ्श्रुतिनिधिः स्मृतः |
कथ्यते देवलोके च पितृलोके च ब्राह्मण ||६३||
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः |
पतिश्च तपतां शश्वदादित्यस्तव भाषते ||६४||
साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च |
तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ||६५||
निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् |
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ||६६||
याज्ञवल्क्य उवाच||
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम |
जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम् ||६७||
अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः |
न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ||६८||
अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् |
साङ्ख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् ||६९||
पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ |
षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति ||७०||
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ||७०||
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम |
न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ||७१||
मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् |
यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ||७२||
सस्नेहः सहवासाच्च साभिमानश्च नित्यशः ||७२||
स निमज्जति कालस्य यदैकत्वं न बुध्यते |
उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ||७३||
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः |
तदा स केवलीभूतः षड्विंशमनुपश्यति ||७४||
अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः |
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ||७५||
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् |
जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप ||७६||
षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः ||७६||
यदा स केवलीभूतः षड्विंशमनुपश्यति |
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ||७७||
एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ |
बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् ||७८||
पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप |
केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ||७९||
विश्वावसुरुवाच||
तथ्यं शुभं चैतदुक्तं त्वया भोः; सम्यक्क्षेम्यं देवताद्यं यथावत् |
स्वस्त्यक्षयं भवतश्चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस्ते ||८०||
याज्ञवल्क्य उवाच||
एवमुक्त्वा सम्प्रयातो दिवं स; विभ्राजन्वै श्रीमता दर्शनेन |
तुष्टश्च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा ||८१||
ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात्संवसन्ते नरेन्द्र |
तत्रैव तद्दर्शनं दर्शयन्वै; सम्यक्क्षेम्यं ये पथं संश्रिता वै ||८२||
साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च; तद्वद्योगा योगधर्मे रताश्च |
ये चाप्यन्ये मोक्षकामा मनुष्या; स्तेषामेतद्दर्शनं ज्ञानदृष्टम् ||८३||
ज्ञानान्मोक्षो जायते पूरुषाणां; नास्त्यज्ञानादेवमाहुर्नरेन्द्र |
तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं; येनात्मानं मोक्षयेज्जन्ममृत्योः ||८४||
प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा; वैश्याच्छूद्रादपि नीचादभीक्ष्णम् |
श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम् ||८५||
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च; सर्वे नित्यं व्याहरन्ते च ब्रह्म |
तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत्समस्तम् ||८६||
ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता; बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः |
नाभ्यां वैश्याः पादतश्चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः ||८७||
अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस्ते यथा यान्त्यभावम् |
तथा वर्णा ज्ञानहीनाः पतन्ते; घोरादज्ञानात्प्राकृतं योनिजालम् ||८८||
तस्माज्ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतदुक्तं मया ते |
तस्थौ ब्रह्मा तस्थिवांश्चापरो य; स्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ||८९||
यत्ते पृष्टं तन्मया चोपदिष्टं; याथातथ्यं तद्विशोको भवस्व |
राजन्गच्छस्वैतदर्थस्य पारं; सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ||९०||
भीष्म उवाच||
स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता |
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ||९१||
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे |
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ||९२||
गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च |
रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा ||९३||
विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै |
यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः ||९४||
साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः |
धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् ||९५||
अनन्तमिति कृत्वा स नित्यं केवलमेव च |
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ||९६||
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् |
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ||९७||
पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः |
इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् ||९८||
नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव ||९८||
दीयते यच्च लभते दत्तं यच्चानुमन्यते |
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ||९९||
ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै ||९९||
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् |
एवं मन्यस्व सततमन्यथा मा विचिन्तय ||१००||
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः |
तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता ||१०१||
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन |
लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते ||१०२||
तथैव महतः स्थानमाहङ्कारिकमेव च |
अहङ्कारात्परं चापि स्थानानि समवाप्नुयात् ||१०३||
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः |
जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् ||१०४||
एतन्मयाप्तं जनकात्पुरस्ता; त्तेनापि चाप्तं नृप याज्ञवल्क्यात् |
ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः ||१०५||
दुर्गं जन्म निधनं चापि राज; न्न भूतिकं ज्ञानविदो वदन्ति |
यज्ञैस्तपोभिर्नियमैर्व्रतैश्च; दिवं समासाद्य पतन्ति भूमौ ||१०६||
तस्मादुपासस्व परं महच्छुचि; शिवं विमोक्षं विमलं पवित्रम् |
क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञ; मुपास्य वै तत्त्वमृषिर्भविष्यसि ||१०७||
उपनिषदमुपाकरोत्तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः |
यदुपगणितशाश्वताव्ययं त; च्छुभममृतत्वमशोकमृच्छतीति ||१०८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
307-अध्यायः
पञ्चशिखजनकसंवादः
युधिष्ठिर उवाच||
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ |
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् ||१||
तपसा वा सुमहता कर्मणा वा श्रुतेन वा |
रसायनप्रयोगैर्वा कैर्नोपैति जरान्तकौ ||२||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च ||३||
वैदेहो जनको राजा महर्षिं वेदवित्तमम् |
पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम् ||४||
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ |
तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा ||५||
एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित् |
निवृत्तिर्नैतयोरस्ति नानिवृत्तिः कथञ्चन ||६||
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः |
सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः ||७||
सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा |
उह्यमानं निमज्जन्तमप्लवे कालसागरे ||८||
जरामृत्युमहाग्राहे न कश्चिदभिपद्यते ||८||
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् |
पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः ||९||
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् ||९||
क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः |
कालेन जाता जाता हि वायुनेवाभ्रसञ्चयाः ||१०||
जरामृत्यू हि भूतानां खादितारौ वृकाविव |
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ||११||
एवम्भूतेषु भूतेषु नित्यभूताध्रुवेषु च |
कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् ||१२||
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा |
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि ||१३||
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च |
आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च ||१४||