[highlight_content]

शान्तिपर्वम् अध्यायः 31-59

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

031-अध्यायः

सुवर्णष्टीव्युपाख्यानम्

वैशम्पायन उवाच||

ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत |

भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् ||१||

एवमुक्तः स च मुनिर्धर्मराजेन नारदः |

आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति ||२||

एवमेतन्महाराज यथायं केशवोऽब्रवीत् |

कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ||३||

अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः |

वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ||४||

तत्र सम्पूजितौ तेन विधिदृष्टेन कर्मणा |

सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ||५||

व्यतिक्रान्तासु वर्षासु समये गमनस्य च |

पर्वतो मामुवाचेदं काले वचनमर्थवत् ||६||

आवामस्य नरेन्द्रस्य गृहे परमपूजितौ |

उषितौ समये ब्रह्मंश्चिन्त्यतामत्र साम्प्रतम् ||७||

ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम् |

सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते ||८||

वरेण छन्द्यतां राजा लभतां यद्यदिच्छति |

आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ||९||

तत आहूय राजानं सृञ्जयं शुभदर्शनम् |

पर्वतोऽनुमतं वाक्यमुवाच मुनिपुङ्गवः ||१०||

प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसम्भृतैः |

आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय ||११||

देवानामविहिंसायां यद्भवेन्मानुषक्षमम् |

तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ||१२||

सृञ्जय उवाच||

प्रीतौ भवन्तौ यदि मे कृतमेतावता मम |

एष एव परो लाभो निर्वृत्तो मे महाफलः ||१३||

नारद उवाच||

तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत |

वृणीष्व राजन्सङ्कल्पो यस्ते हृदि चिरं स्थितः ||१४||

सृञ्जय उवाच||

अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् |

आयुष्मन्तं महाभागं देवराजसमद्युतिम् ||१५||

पर्वत उवाच||

भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति |

देवराजाभिभूत्यर्थं सङ्कल्पो ह्येष ते हृदि ||१६||

सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति |

रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ||१७||

नारद उवाच||

तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः |

प्रसादयामास तदा नैतदेवं भवेदिति ||१८||

आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने |

न च तं पर्वतः किञ्चिदुवाचेन्द्रव्यपेक्षया ||१९||

तमहं नृपतिं दीनमब्रुवं पुनरेव तु |

स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः ||२०||

अहं ते दयितं पुत्रं प्रेतराजवशं गतम् |

पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ||२१||

एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् |

सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् ||२२||

सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये |

जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ||२३||

ववृधे स यथाकालं सरसीव महोत्पलम् |

बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ||२४||

तदद्भुततमं लोके पप्रथे कुरुसत्तम |

बुबुधे तच्च देवेन्द्रो वरदानं महात्मनोः ||२५||

ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः |

कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा ||२६||

चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् |

व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो ||२७||

विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति |

सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ ||२८||

एवमुक्तस्तु शक्रेण वज्रः परपुरञ्जयः |

कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत ||२९||

सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम् |

हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा ||३०||

ततो भागीरथीतीरे कदाचिद्वननिर्झरे |

धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत ||३१||

पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः |

सहसोत्पतितं व्याघ्रमाससाद महाबलः ||३२||

तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः |

व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे ||३३||

हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत |

शार्दूलो देवराजस्य माययान्तर्हितस्तदा ||३४||

धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् |

अभ्यधावत तं देशं स्वयमेव महीपतिः ||३५||

स ददर्श गतासुं तं शयानं पीतशोणितम् |

कुमारं विगतानन्दं निशाकरमिव च्युतम् ||३६||

स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् |

पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः ||३७||

ततस्ता मातरस्तस्य रुदन्त्यः शोककर्शिताः |

अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः ||३८||

ततः स राजा सस्मार मामन्तर्गतमानसः |

तच्चाहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम् ||३९||

स मयैतानि वाक्यानि श्रावितः शोकलालसः |

यानि ते यदुवीरेण कथितानि महीपते ||४०||

सञ्जीवितश्चापि मया वासवानुमते तदा |

भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा ||४१||

अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः |

चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान् ||४२||

कारयामास राज्यं स पितरि स्वर्गते विभुः |

वर्षाणामेकशतवत्सहस्रं भीमविक्रमः ||४३||

तत इष्ट्वा महायज्ञैर्बहुभिर्भूरिदक्षिणैः |

तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः ||४४||

उत्पाद्य च बहून्पुत्रान्कुलसन्तानकारिणः |

कालेन महता राजन्कालधर्ममुपेयिवान् ||४५||

स त्वं राजेन्द्र सञ्जातं शोकमेतन्निवर्तय |

यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः ||४६||

पितृपैतामहं राज्यमास्थाय दुरमुद्वह |

इष्ट्वा पुण्यैर्महायज्ञैरिष्टाँल्लोकानवाप्स्यसि ||४७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

032-अध्यायः

वैशम्पायन उवाच||

तूष्णीम्भूतं तु राजानं शोचमानं युधिष्ठिरम् |

तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ||१||

प्रजानां पालनं धर्मो राज्ञां राजीवलोचन |

धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् ||२||

अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम् |

ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः ||३||

तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ |

तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ||४||

तथा यः प्रतिहन्त्यस्य शासनं विषये नरः |

स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ||५||

प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः |

भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन ||६||

पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा ||६||

अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् |

धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ||७||

ते त्वया धर्महन्तारो निहताः सपदानुगाः |

स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव ||८||

राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ||८||

युधिष्ठिर उवाच||

न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन |

अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर ||९||

मया ह्यवध्या बहवो घातिता राज्यकारणात् |

तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च ||१०||

व्यास उवाच||

ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत |

हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ||११||

ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव |

कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् ||१२||

यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने |

छेत्तुरेव भवेत्पापं परशोर्न कथञ्चन ||१३||

अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम् |

दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ||१४||

न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम् |

प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ||१५||

अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः |

न परं विद्यते तस्मादेवमन्यच्छुभं कुरु ||१६||

न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते |

दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ||१७||

यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम् |

एवमप्यशुभं कर्म न भूतं न भविष्यति ||१८||

अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः |

अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् ||१९||

अथापि लोके कर्माणि समावर्तन्त भारत |

शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः ||२०||

एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम् |

त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः ||२१||

स्वधर्मे वर्तमानस्य सापवादेऽपि भारत |

एवमात्मपरित्यागस्तव राजन्न शोभनः ||२२||

विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम् |

शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ||२३||

तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि |

प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत ||२४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

033-अध्यायः

युधिष्ठिर उवाच||

हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा |

श्वशुरा गुरवश्चैव मातुलाः सपितामहाः ||१||

क्षत्रियाश्च महात्मानः सम्बन्धिसुहृदस्तथा |

वयस्या ज्ञातयश्चैव भ्रातरश्च पितामह ||२||

बहवश्च मनुष्येन्द्रा नानादेशसमागताः |

घातिता राज्यलुब्धेन मयैकेन पितामह ||३||

तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः |

असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन ||४||

दह्याम्यनिशमद्याहं चिन्तयानः पुनः पुनः |

हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ||५||

दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान् |

कोटिशश्च नरानन्यान्परितप्ये पितामह ||६||

का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति |

विहीनानां स्वतनयैः पतिभिर्भ्रातृभिस्तथा ||७||

अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहितान् |

आक्रोशन्त्यः कृशा दीना निपतन्त्यश्च भूतले ||८||

अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः |

त्यक्त्वा प्राणान्प्रियान्सर्वा गमिष्यन्ति यमक्षयम् ||९||

वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः |

व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् ||१०||

ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम् |

नरके निपतिष्यामो ह्यधःशिरस एव च ||११||

शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम |

आश्रमांश्च विशेषांस्त्वं ममाचक्ष्व पितामह ||१२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

034-अध्यायः

वैशम्पायन उवाच||

युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा |

समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् ||१||

मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मर |

स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ ||२||

काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः |

कृतान्तविधिसंयुक्ताः कालेन निधनं गताः ||३||

न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि |

कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् ||४||

न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन |

कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ||५||

हेतुमात्रमिदं तस्य कालस्य पुरुषर्षभ |

यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् ||६||

कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः |

सुखदुःखगुणोदर्कं कालं कालफलप्रदम् ||७||

तेषामपि महाबाहो कर्माणि परिचिन्तय |

विनाशहेतुकारित्वे यैस्ते कालवशं गताः ||८||

आत्मनश्च विजानीहि नियमव्रतशीलताम् |

यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः ||९||

त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर्वशे |

कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् ||१०||

पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः |

यदृच्छया विनाशं च शोकहर्षावनर्थकौ ||११||

व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव |

तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर ||१२||

इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा |

असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः ||१३||

तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः |

युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल ||१४||

एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् |

जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे ||१५||

तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः |

संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः ||१६||

शालावृका इति ख्यातास्त्रिषु लोकेषु भारत |

अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः ||१७||

धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः |

हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः ||१८||

एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् |

कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम् ||१९||

अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप |

धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता ||२०||

तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव |

देवैः पूर्वगतं मार्गमनुयातोऽसि भारत ||२१||

न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ |

भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परन्तप ||२२||

यो हि पापसमारम्भे कार्ये तद्भावभावितः |

कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः ||२३||

तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम् |

प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः ||२४||

त्वं तु शुक्लाभिजातीयः परदोषेण कारितः |

अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे ||२५||

अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् |

तमाहर महाराज विपाप्मैवं भविष्यसि ||२६||

मरुद्भिः सह जित्वारीन्मघवान्पाकशासनः |

एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः ||२७||

पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान् |

मरुद्गणवृतः शक्रः शुशुभे भासयन्दिशः ||२८||

स्वर्गलोके महीयन्तमप्सरोभिः शचीपतिम् |

ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम् ||२९||

सोऽयं त्वमिह सङ्क्रान्तो विक्रमेण वसुन्धराम् |

निर्जिताश्च महीपाला विक्रमेण त्वयानघ ||३०||

तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः |

भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय ||३१||

बालानपि च गर्भस्थान्सान्त्वानि समुदाचरन् |

रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुन्धराम् ||३२||

कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय |

कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यति ||३३||

एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत |

यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा ||३४||

अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ |

स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः ||३५||

अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकल्मषम् |

चरस्व धर्मं कौन्तेय श्रेयान्यः प्रेत्य भाविकः ||३६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

035-अध्यायः

युधिष्ठिर उवाच||

कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः |

किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह ||१||

व्यास उवाच||

अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् |

प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन् ||२||

सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत |

तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ||३||

परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः |

दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ||४||

अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा |

अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः ||५||

ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी |

शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ||६||

वृथापशुसमालम्भी वनदाहस्य कारकः |

अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा ||७||

यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी |

एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ||८||

अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे |

लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ||९||

स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया |

अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् ||१०||

शरणागतसन्त्यागो भृत्यस्याभरणं तथा |

रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ||११||

आधानादीनि कर्माणि शक्तिमान्न करोति यः |

अप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत ||१२||

दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् |

सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ||१३||

पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः |

अप्रजायन्नधर्मेण भवत्याधर्मिको जनः ||१४||

उक्तान्येतानि कर्माणि विस्तरेणेतरेण च |

यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः ||१५||

एतान्येव तु कर्माणि क्रियमाणानि मानवान् |

येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु ||१६||

प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे |

जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् ||१७||

अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते |

वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते ||१८||

अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् |

न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति ||१९||

प्राणात्यये तथाज्ञानादाचरन्मदिरामपि |

अचोदितो धर्मपरः पुनः संस्कारमर्हति ||२०||

एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् |

प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति ||२१||

गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् |

उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ||२२||

स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते |

बहुशः कामकारेण न चेद्यः सम्प्रवर्तते ||२३||

अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति |

स्वयमप्राशिता यश्च न स पापेन लिप्यते ||२४||

प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा |

गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ||२५||

नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथञ्चन |

आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ||२६||

पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा |

भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम् ||२७||

वृथापशुसमालम्भं नैव कुर्यान्न कारयेत् |

अनुग्रहः पशूणां हि संस्कारो विधिचोदितः ||२८||

अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् |

सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम् ||२९||

स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिका |

अपि सा पूयते तेन न तु भर्ता प्रदुष्यते ||३०||

तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकः |

असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् ||३१||

वनदाहो गवामर्थे क्रियमाणो न दूषकः ||३१||

उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति |

प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ||३२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

036-अध्यायः

व्यास उवाच||

तपसा कर्मभिश्चैव प्रदानेन च भारत |

पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ||१||

एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् |

कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ||२||

अनसूयुरधःशायी कर्म लोके प्रकाशयन् |

पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते ||३||

षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः |

मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ||४||

संवत्सरेण मासाशी पूयते नात्र संशयः |

तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते ||५||

क्रतुना चाश्वमेधेन पूयते नात्र संशयः |

य चास्यावभृथे स्नान्ति केचिदेवंविधा नराः ||६||

ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः |

ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ||७||

गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन् |

ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ||८||

कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् |

दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ||९||

गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये |

साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् ||१०||

शतं तै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति |

नियतेभ्यो महीपाल स च पापात्प्रमुच्यते ||११||

मनोरथं तु यो दद्यादेकस्मा अपि भारत |

न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ||१२||

सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः |

स पावयत्यथात्मानमिह लोके परत्र च ||१३||

मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् |

महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः ||१४||

बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः |

समितिं ब्राह्मणैर्गच्छेदिति वै ब्राह्मणी श्रुतिः ||१५||

भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः |

पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः ||१६||

गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत् |

पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः ||१७||

शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् |

कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः ||१८||

महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु |

गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ||१९||

अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा |

उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ||२०||

अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् |

खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात् ||२१||

परदारापहारी च परस्यापहरन्वसु |

संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ||२२||

स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु |

विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात् ||२३||

कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम् |

परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत ||२४||

निवेश्यं तु भवेत्तेन सदा तारयिता पितॄन् |

न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते ||२५||

भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते |

स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः ||२६||

स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता |

रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ||२७||

चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते |

पादावकृष्टो राजन्ये तथा धर्मो विधीयते ||२८||

तथा वैश्ये च शूद्रे च पादः पादो विधीयते |

विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम् ||२९||

तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून् |

त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः ||३०||

अगम्यागमने राजन्प्रायश्चित्तं विधीयते |

आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना ||३१||

एष एव तु सर्वेषामकार्याणां विधिर्भवेत् |

ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ||३२||

सावित्रीमप्यधीयानः शुचौ देशे मिताशनः |

अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्बिषैः ||३३||

अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत् |

त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत् ||३४||

स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः |

पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ||३५||

शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः |

अतिरिच्येत्तयोर्यत्तु तत्कर्ता लभते फलम् ||३६||

तस्माद्दानेन तपसा कर्मणा च शुभं फलम् |

वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ||३७||

कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् |

दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ||३८||

अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् |

महापातकवर्जं तु प्रायश्चित्तं विधीयते ||३९||

भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च |

अज्ञानज्ञानयो राजन्विहितान्यनुजानते ||४०||

जानता तु कृतं पापं गुरु सर्वं भवत्युत |

अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते ||४१||

शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् |

आस्तिके श्रद्दधाने तु विधिरेष विधीयते ||४२||

नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन |

दम्भदोषप्रधानेषु विधिरेष न दृश्यते ||४३||

शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर |

सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना ||४४||

स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना |

त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा ||४५||

अथ वा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि |

मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः ||४६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

037-अध्यायः

वैशम्पायन उवाच||

एवमुक्तो भगवता धर्मराजो युधिष्ठिरः |

चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् ||१||

किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते |

किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह ||२||

व्यास उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ||३||

सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् |

धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ||४||

कथमन्नं कथं दानं कथमध्ययनं तपः |

कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते ||५||

तैरेवमुक्तो भगवान्मनुः स्वायम्भुवोऽब्रवीत् |

शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ||६||

अदत्तस्यानुपादानं दानमध्ययनं तपः |

अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम् ||७||

य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः |

आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः ||८||

द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् |

अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ||९||

अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् |

अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च ||१०||

एतयोश्चोभयोः स्यातां शुभाशुभतया तथा |

दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह ||११||

अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् |

ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा ||१२||

अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ||१२||

क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः |

शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये ||१३||

तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ||१३||

जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः |

वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते ||१४||

दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः |

यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ||१५||

अरुणा मृत्तिका चैव तथा चैव पिपीलकाः |

श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ||१६||

अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः |

चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ||१७||

भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः |

कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च ||१८||

क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः |

येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ||१९||

एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि |

मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः ||२०||

प्रेतान्नं सूतिकान्नं च यच्च किञ्चिदनिर्दशम् |

अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम् ||२१||

तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च |

चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ||२२||

गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये |

परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा ||२३||

वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् |

सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् ||२४||

पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा |

सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः ||२५||

पायसं कृसरं मांसमपूपाश्च वृथा कृताः |

अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः ||२६||

देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः |

पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ||२७||

यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत् |

एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात् ||२८||

न दद्याद्यशसे दानं न भयान्नोपकारिणे |

न नृत्तगीतशीलेषु हासकेषु च धार्मिकः ||२९||

न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके |

न वाग्घीने विवर्णे वा नाङ्गहीने न वामने ||३०||

न दुर्जने दौष्कुले वा व्रतैर्वा यो न संस्कृतः |

अश्रोत्रिये मृतं दानं ब्राह्मणेऽब्रह्मवादिनि ||३१||

असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः |

उभयोः स्यादनर्थाय दातुरादातुरेव च ||३२||

यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् |

मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः ||३३||

काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते |

तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही ||३४||

कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः |

आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ||३५||

निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूयकः |

अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि ||३६||

न वै देयमनुक्रोशाद्दीनायाप्यपकारिणे |

आप्ताचरितमित्येव धर्म इत्येव वा पुनः ||३७||

निष्कारणं स्म तद्दत्तं ब्राह्मणे धर्मवर्जिते |

भवेदपात्रदोषेण न मेऽत्रास्ति विचारणा ||३८||

यथा दारुमयो हस्ती यथा चर्ममयो मृगः |

ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ||३९||

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला |

शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ||४०||

ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः |

यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ||४१||

देवतानां पितॄणां च हव्यकव्यविनाशनः |

शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ||४२||

एतत्ते कथितं सर्वं यथा वृत्तं युधिष्ठिर |

समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ ||४३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

038-अध्यायः

युधिष्ठिर उवाच||

श्रोतुमिच्छामि भगवन्विस्तरेण महामुने |

राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ||१||

आपत्सु च यथा नीतिर्विधातव्या महीक्षिता |

धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ||२||

प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता |

कौतूहलानुप्रवणा हर्षं जनयतीव मे ||३||

धर्मचर्या च राज्यं च नित्यमेव विरुध्यते |

येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ||४||

वैशम्पायन उवाच||

तमुवाच महातेजा व्यासो वेदविदां वरः |

नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ||५||

श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर |

प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ||६||

स ते सर्वरहस्येषु संशयान्मनसि स्थितान् |

छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ||७||

जनयामास यं देवी दिव्या त्रिपथगा नदी |

साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान् ||८||

बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः |

तोषयित्वोपचारेण राजनीतिमधीतवान् ||९||

उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः |

तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ||१०||

भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् |

प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात् ||११||

पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् |

अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ||१२||

मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् |

रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ ||१३||

मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि |

तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः ||१४||

यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः |

यस्य नाविदितं किञ्चिज्ज्ञानज्ञेयेषु विद्यते ||१५||

स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् |

तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ||१६||

एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः |

उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ||१७||

वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम् |

आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ||१८||

घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम् |

उपसम्प्रष्टुमर्हामि तमहं केन हेतुना ||१९||

ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया |

पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः ||२०||

नेदानीमतिनिर्बन्धं शोके कर्तुमिहार्हसि |

यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ||२१||

ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः |

पर्जन्यमिव घर्मार्ता आशंसाना उपासते ||२२||

हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् |

चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ||२३||

प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् |

नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ||२४||

सुहृदां चास्मदादीनां द्रौपद्याश्च परन्तप |

कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ||२५||

एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः |

हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः ||२६||

सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम् |

द्वैपायनेन च तथा देवस्थानेन जिष्णुना ||२७||

एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः |

व्यजहान्मानसं दुःखं सन्तापं च महामनाः ||२८||

श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः |

व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः ||२९||

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः |

धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ||३०||

प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः |

अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ||३१||

ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम् |

युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः ||३२||

मन्त्रैरभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः |

आरुरोह यथा देवः सोमोऽमृतमयं रथम् ||३३||

जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः |

अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ||३४||

ध्रियमाणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि |

शुशुभे तारकाराजसितमभ्रमिवाम्बरे ||३५||

चामरव्यजने चास्य वीरौ जगृहतुस्तदा |

चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलङ्कृते ||३६||

ते पञ्च रथमास्थाय भ्रातरः समलङ्कृताः |

भूतानीव समस्तानि राजन्ददृशिरे तदा ||३७||

आस्थाय तु रथं शुभ्रं युक्तमश्वैर्महाजवैः |

अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ||३८||

रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम् |

सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ||३९||

नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत |

अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ||४०||

कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी |

यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ||४१||

ततो रथाश्च बहुला नागाश्च समलङ्कृताः |

पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ||४२||

ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः |

स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ||४३||

तत्प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि |

आकुलाकुलमुत्सृष्टं हृष्टपुष्टजनान्वितम् ||४४||

अभियाने तु पार्थस्य नरैर्नगरवासिभिः |

नगरं राजमार्गश्च यथावत्समलङ्कृतम् ||४५||

पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः |

संवृतो राजमार्गश्च धूपनैश्च सुधूपितः ||४६||

अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः |

माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ||४७||

कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः |

कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह ||४८||

तथा स्वलङ्कृतद्वारं नगरं पाण्डुनन्दनः |

स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ||४९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

039-अध्यायः

चार्वाकचरितकथनम्

वैशम्पायन उवाच||

प्रवेशने तु पार्थानां जनस्य पुरवासिनः |

दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ ||१||

स राजमार्गः शुशुभे समलङ्कृतचत्वरः |

यथा चन्द्रोदये राजन्वर्धमानो महोदधिः ||२||

गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च |

प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत ||३||

ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् |

भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ||४||

धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान् |

उपतिष्ठसि कल्याणि महर्षीनिव गौतमी ||५||

तव कर्माण्यमोघानि व्रतचर्या च भामिनि |

इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः ||६||

प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत |

प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् ||७||

तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः |

अलङ्कृतं शोभमानमुपायाद्राजवेश्म ह ||८||

ततः प्रकृतयः सर्वाः पौरजानपदास्तथा |

ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः ||९||

दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन |

दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च ||१०||

भव नस्त्वं महाराज राजेह शरदां शतम् |

प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप ||११||

एवं राजकुलद्वारि मङ्गलैरभिपूजितः |

आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः ||१२||

प्रविश्य भवनं राजा देवराजगृहोपमम् |

श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् ||१३||

प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च |

पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः ||१४||

निश्चक्राम ततः श्रीमान्पुनरेव महायशाः |

ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान् ||१५||

स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः |

शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ||१६||

तान्स सम्पूजयामास कौन्तेयो विधिवद्द्विजान् |

धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च ||१७||

सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा |

गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ||१८||

ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत |

सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः ||१९||

हंसवन्नेदुषां राजन्द्विजानां तत्र भारती |

शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा ||२०||

ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः |

जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ||२१||

निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः |

राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत् ||२२||

तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः |

साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ||२३||

वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः |

परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः ||२४||

स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम् |

अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् ||२५||

इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि |

धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ||२६||

किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसङ्क्षयम् |

घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् ||२७||

इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः |

विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ||२८||

ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः |

व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते ||२९||

युधिष्ठिर उवाच||

प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः |

प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ ||३०||

                                   वैशम्पायन उवाच||

ततो राजन्ब्राह्मणास्ते सर्व एव विशां पते |

ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव ||३१||

जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा |

ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ||३२||

ब्राह्मणा ऊचुः||

एष दुर्योधनसखा चार्वाको नाम राक्षसः |

परिव्राजकरूपेण हितं तस्य चिकीर्षति ||३३||

न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम् |

उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ||३४||

वैशम्पायन उवाच||

ततस्ते ब्राह्मणाः सर्वे हुङ्कारैः क्रोधमूर्छिताः |

निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् ||३५||

स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम् |

महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ||३६||

पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम् |

राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ||३७||

वासुदेव उवाच||

ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम |

एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः ||३८||

पुरा कृतयुगे तात चार्वाको नाम राक्षसः |

तपस्तेपे महाबाहो बदर्यां बहुवत्सरम् ||३९||

छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः |

अभयं सर्वभूतेभ्यो वरयामास भारत ||४०||

द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् |

अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः ||४१||

स तु लब्धवरः पापो देवानमितविक्रमः |

राक्षसस्तापयामास तीव्रकर्मा महाबलः ||४२||

ततो देवाः समेत्याथ ब्रह्माणमिदमब्रुवन् |

वधाय रक्षसस्तस्य बलविप्रकृतास्तदा ||४३||

तानुवाचाव्ययो देवो विहितं तत्र वै मया |

यथास्य भविता मृत्युरचिरेणैव भारत ||४४||

राजा दुर्योधनो नाम सखास्य भविता नृप |

तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते ||४५||

तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः |

धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति ||४६||

स एष निहतः शेते ब्रह्मदण्डेन राक्षसः |

चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ ||४७||

हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव |

स्वर्गताश्च महात्मानो वीराः क्षत्रियपुङ्गवाः ||४८||

स त्वमातिष्ठ कल्याणं मा ते भूद्ग्लानिरच्युत |

शत्रूञ्जहि प्रजा रक्ष द्विजांश्च प्रतिपालय ||४९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

040-अध्यायः

वैशम्पायन उवाच||

ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः |

काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने ||१||

तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृते |

सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ ||२||

मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ |

निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः ||३||

दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते |

पृथापि सहदेवेन सहास्ते नकुलेन च ||४||

सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः |

निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् ||५||

युयुत्सुः सञ्जयश्चैव गान्धारी च यशस्विनी |

धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन् ||६||

तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत् |

स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् ||७||

ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् |

ददृशुर्धर्मराजानमादाय बहु मङ्गलम् ||८||

पृथिवीं च सुवर्णं च रत्नानि विविधानि च |

आभिषेचनिकं भाण्डं सर्वसम्भारसम्भृतम् ||९||

काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः |

पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः ||१०||

शमीपलाशपुंनागाः समिधो मधुसर्पिषी |

स्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः ||११||

दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः |

प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह ||१२||

व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने |

दृढपादप्रतिष्ठाने हुताशनसमत्विषि ||१३||

उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् |

जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम् ||१४||

अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् |

धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा ||१५||

ततोऽनुवादयामासुः पणवानकदुन्दुभीः |

धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः ||१६||

पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः |

ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत् ||१७||

वेदाध्ययनसम्पन्नाञ्शीलवृत्तसमन्वितान् ||१७||

ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च |

हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् ||१८||

युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव |

दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते ||१९||

दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः |

त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ||२०||

मुक्ता वीरक्षयादस्मात्सङ्ग्रामान्निहतद्विषः |

क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव ||२१||

ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः |

प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत ||२२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

041-अध्यायः

वैशम्पायन उवाच||

प्रकृतीनां तु तद्वाक्यं देशकालोपसंहितम् |

श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत ||१||

धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुङ्गवाः |

तथ्यान्वाप्यथ वातथ्यान्गुणानाहुः समागताः ||२||

अनुग्राह्या वयं नूनं भवतामिति मे मतिः |

यत्रैवं गुणसम्पन्नानस्मान्ब्रूथ विमत्सराः ||३||

धृतराष्ट्रो महाराजः पिता नो दैवतं परम् |

साशनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः ||४||

एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् |

अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा ||५||

यदि चाहमनुग्राह्यो भवतां सुहृदां ततः |

धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ ||६||

एष नाथो हि जगतो भवतां च मया सह |

अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च ||७||

एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम ||७||

अनुगम्य च राजानं यथेष्टं गम्यतामिति |

पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः ||८||

यौवराज्येन कौरव्यो भीमसेनमयोजयत् ||८||

मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने |

विदुरं बुद्धिसम्पन्नं प्रीतिमान्वै समादिशत् ||९||

कृताकृतपरिज्ञाने तथायव्ययचिन्तने |

सञ्जयं योजयामास ऋद्धमृद्धैर्गुणैर्युतम् ||१०||

बलस्य परिमाणे च भक्तवेतनयोस्तथा |

नकुलं व्यादिशद्राजा कर्मिणामन्ववेक्षणे ||११||

परचक्रोपरोधे च दृप्तानां चावमर्दने |

युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह ||१२||

द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि |

धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परन्तपः ||१३||

सहदेवं समीपस्थं नित्यमेव समादिशत् |

तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते ||१४||

यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु |

तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः ||१५||

विदुरं सञ्जयं चैव युयुत्सुं च महामतिम् |

अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः ||१६||

उत्थायोत्थाय यत्कार्यमस्य राज्ञः पितुर्मम |

सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथातथम् ||१७||

पौरजानपदानां च यानि कार्याणि नित्यशः |

राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः ||१८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

042-अध्यायः

वैशम्पायन उवाच||

ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे |

श्राद्धानि कारयामास तेषां पृथगुदारधीः ||१||

धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् |

सर्वकामगुणोपेतमन्नं गाश्च धनानि च ||२||

रत्नानि च विचित्राणि महार्हाणि महायशाः ||२||

युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः |

धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः ||३||

विराटप्रभृतीनां च सुहृदामुपकारिणाम् |

द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ ||४||

ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् |

धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत् ||५||

ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः |

उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् ||६||

सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः |

सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम् ||७||

स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् |

कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् ||८||

धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा |

सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत् ||९||

याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः |

सर्वास्ताः कौरवो राजा सम्पूज्यापालयद्घृणी ||१०||

दीनान्धकृपणानां च गृहाच्छादनभोजनैः |

आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ||११||

स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु |

निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ||१२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

043-अध्यायः

कृष्णनामशतस्तुतिः

वैशम्पायन उवाच||

अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः |

दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः ||१||

तव कृष्ण प्रसादेन नयेन च बलेन च |

बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च ||२||

पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया |

नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम ||३||

त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् |

नामभिस्त्वां बहुविधैः स्तुवन्ति परमर्षयः ||४||

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |

विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ||५||

अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः |

पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि ||६||

शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यसे |

त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च ||७||

वराहोऽग्निर्बृहद्भानुर्वृषणस्तार्क्ष्यलक्षणः |

अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः ||८||

वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर्गुहः |

अच्युतश्च्यावनोऽरीणां सङ्कृतिर्विकृतिर्वृषः ||९||

कृतवर्त्मा त्वमेवाद्रिर्वृषगर्भो वृषाकपिः |

सिन्धुक्षिदूर्मिस्त्रिककुत्त्रिधामा त्रिवृदच्युतः ||१०||

सम्राड्विराट्स्वराट्चैव सुरराड्धर्मदो भवः |

विभुर्भूरभिभूः कृष्णः कृष्णवर्त्मा त्वमेव च ||११||

स्विष्टकृद्भिषगावर्तः कपिलस्त्वं च वामनः |

यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे ||१२||

शिखण्डी नहुषो बभ्रुर्दिवस्पृक्त्वं पुनर्वसुः |

सुबभ्रुरुक्षो रुक्मस्त्वं सुषेणो दुन्दुभिस्तथा ||१३||

गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः |

ऋभुर्विभुः सर्वसूक्ष्मस्त्वं सावित्रं च पठ्यसे ||१४||

अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च |

हिरण्यगर्भं त्वामाहुः स्वधा स्वाहा च केशव ||१५||

योनिस्त्वमस्य प्रलयश्च कृष्ण; त्वमेवेदं सृजसि विश्वमग्रे |

विश्वं चेदं त्वद्वशे विश्वयोने; नमोऽस्तु ते शार्ङ्गचक्रासिपाणे ||१६||

एवं स्तुतो धर्मराजेन कृष्णः; सभामध्ये प्रीतिमान्पुष्कराक्षः |

तमभ्यनन्दद्भारतं पुष्कलाभि; र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः ||१७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

044-अध्यायः

वैशम्पायन उवाच||

ततो विसर्जयामास सर्वाः प्रकृतयो नृपः |

विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च ||१||

ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम् |

सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा ||२||

शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणे |

श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः ||३||

अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाः |

भवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा ||४||

यथासुखं यथाजोषं जयोऽयमनुभूयताम् |

विश्रान्ताँल्लब्धविज्ञानाञ्श्वः समेतास्मि वः पुनः ||५||

ततो दुर्योधनगृहं प्रासादैरुपशोभितम् |

बहुरत्नसमाकीर्णं दासीदाससमाकुलम् ||६||

धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः |

प्रतिपेदे महाबाहुर्मन्दरं मघवानिव ||७||

यथा दुर्योधनगृहं तथा दुःशासनस्य च |

प्रासादमालासंयुक्तं हेमतोरणभूषितम् ||८||

दासीदाससुसम्पूर्णं प्रभूतधनधान्यवत् |

प्रतिपेदे महाबाहुरर्जुनो राजशासनात् ||९||

दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम् |

कुबेरभवनप्रख्यं मणिहेमविभूषितम् ||१०||

नकुलाय वरार्हाय कर्शिताय महावने |

ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः ||११||

दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम् |

पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् ||१२||

प्रददौ सहदेवाय सततं प्रियकारिणे |

मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा ||१३||

युयुत्सुर्विदुरश्चैव सञ्जयश्च महाद्युतिः |

सुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान् ||१४||

सह सात्यकिना शौरिरर्जुनस्य निवेशनम् |

विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव ||१५||

तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताः |

सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम् ||१६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

045-अध्यायः

जनमेजय उवाच||

प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः |

यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ||१||

भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः |

ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ||२||

वैशम्पायन उवाच||

शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ |

वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ||३||

प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः |

चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् ||४||

ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् |

सहस्रनिष्कमेकैकं वाचयामास पाण्डवः ||५||

तथानुजीविनो भृत्यान्संश्रितानतिथीनपि |

कामैः सन्तर्पयामास कृपणांस्तर्ककानपि ||६||

पुरोहिताय धौम्याय प्रादादयुतशः स गाः |

धनं सुवर्णं रजतं वासांसि विविधानि च ||७||

कृपाय च महाराज गुरुवृत्तिमवर्तत |

विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः ||८||

भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः |

सर्वान्सन्तोषयामास संश्रितान्ददतां वरः ||९||

लब्धप्रशमनं कृत्वा स राजा राजसत्तम |

युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः ||१०||

धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च |

निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः ||११||

तथा सर्वं स नगरं प्रसाद्य जनमेजय |

वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ||१२||

ततो महति पर्यङ्के मणिकाञ्चनभूषिते |

ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ||१३||

जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् |

पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् ||१४||

कौस्तुभेन उरःस्थेन मणिनाभिविराजितम् |

उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् ||१५||

नौपम्यं विद्यते यस्य त्रिषु लोकेषु किञ्चन ||१५||

सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम् |

उवाच मधुराभाषः स्मितपूर्वमिदं तदा ||१६||

सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर |

कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ||१७||

तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर |

वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ||१८||

भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम |

जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम् ||१९||

तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम् |

नोवाच भगवान्किञ्चिद्ध्यानमेवान्वपद्यत ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

046-अध्यायः

युधिष्ठिर उवाच||

किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम |

कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण ||१||

चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तम |

अपक्रान्तो यतो देव तेन मे विस्मितं मनः ||२||

निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः |

इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते ||३||

इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते |

सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः ||४||

नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः |

स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव ||५||

यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत |

तथासि भगवन्देव निश्चलो दृढनिश्चयः ||६||

यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि |

छिन्धि मे संशयं देव प्रपन्नायाभियाचते ||७||

त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि |

अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम ||८||

त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च |

ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर ||९||

वैशम्पायन उवाच||

ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च |

स्मितपूर्वमुवाचेदं भगवान्वासवानुजः ||१०||

शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः |

मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः ||११||

यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |

न सहेद्देवराजोऽपि तमस्मि मनसा गतः ||१२||

येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् |

ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः ||१३||

त्रयोविंशतिरात्रं यो योधयामास भार्गवम् |

न च रामेण निस्तीर्णस्तमस्मि मनसा गतः ||१४||

यं गङ्गा गर्भविधिना धारयामास पार्थिवम् |

वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप ||१५||

दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् |

साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः ||१६||

रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव |

आधारं सर्वविद्यानां तमस्मि मनसा गतः ||१७||

एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया |

शरणं मामुपागच्छत्ततो मे तद्गतं मनः ||१८||

स हि भूतं च भव्यं च भवच्च पुरुषर्षभ |

वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः ||१९||

तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते |

भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ||२०||

तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् |

अभिगम्योपसङ्गृह्य पृच्छ यत्ते मनोगतम् ||२१||

चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च |

चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते ||२२||

तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरन्धरे |

ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम् ||२३||

तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् |

साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह ||२४||

यद्भवानाह भीष्मस्य प्रभावं प्रति माधव |

तथा तन्नात्र संदेहो विद्यते मम मानद ||२५||

महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनः |

श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् ||२६||

भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन |

तथा तदनभिध्येयं वाक्यं यादवनन्दन ||२७||

यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधव |

त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम् ||२८||

आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति |

त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः ||२९||

तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च |

दर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः ||३०||

श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनः |

पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति ||३१||

सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतः |

दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत ||३२||

स सात्यकेराशु वचो निशम्य; रथोत्तमं काञ्चनभूषिताङ्गम् |

मसारगल्वर्कमयैर्विभङ्गै; र्विभूषितं हेमपिनद्धचक्रम् ||३३||

दिवाकरांशुप्रभमाशुगामिनं; विचित्रनानामणिरत्नभूषितम् |

नवोदितं सूर्यमिव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम् ||३४||

सुग्रीवसैन्यप्रमुखैर्वराश्वै; र्मनोजवैः काञ्चनभूषिताङ्गैः |

सुयुक्तमावेदयदच्युताय; कृताञ्जलिर्दारुको राजसिंह ||३५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

047-अध्यायः

भीष्मस्तवराजः

जनमेजय उवाच||

शरतल्पे शयानस्तु भरतानां पितामहः |

कथमुत्सृष्टवान्देहं कं च योगमधारयत् ||१||

वैशम्पायन उवाच||

शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः |

भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ||२||

निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे |

समावेशयदात्मानमात्मन्येव समाहितः ||३||

विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः |

शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ||४||

व्यासेन वेदश्रवसा नारदेन सुरर्षिणा |

देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना ||५||

एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः |

श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः ||६||

भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा |

शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः ||७||

स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् |

योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ||८||

कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् |

भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ||९||

आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् |

तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ||१०||

शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् |

युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ||११||

यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च |

गुणभूतानि भूतेशे सूत्रे मणिगणा इव ||१२||

यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति |

सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ||१३||

हरिं सहस्रशिरसं सहस्रचरणेक्षणम् |

प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ||१४||

अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् |

गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ||१५||

यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च |

गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ||१६||

चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् |

यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ||१७||

यं देवं देवकी देवी वसुदेवादजीजनत् |

भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ||१८||

यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् |

इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ||१९||

पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु |

क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ||२०||

अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् |

अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ||२१||

यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् |

वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ||२२||

हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् |

एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ||२३||

शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः |

यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ||२४||

महतस्तमसः पारे पुरुषं ज्वलनद्युतिम् |

यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ||२५||

यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे |

यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ||२६||

ऋग्यजुःसामधामानं दशार्धहविराकृतिम् |

यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ||२७||

यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः |

रथन्तरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः ||२८||

यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः |

हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः ||२९||

पदाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनलक्षणम् |

यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः ||३०||

यश्चिनोति सतां सेतुमृतेनामृतयोनिना |

धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ||३१||

यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः |

पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ||३२||

यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः |

क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ||३३||

यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः |

प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ||३४||

यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः |

ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ||३५||

अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः |

शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ||३६||

योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः |

सम्भक्षयति भूतानि तस्मै घोरात्मने नमः ||३७||

सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् |

बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ||३८||

सहस्रशिरसे तस्मै पुरुषायामितात्मने |

चतुःसमुद्रपर्याययोगनिद्रात्मने नमः ||३९||

अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् |

पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ||४०||

यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु |

कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ||४१||

युगेष्वावर्तते योंऽशैर्दिनर्त्वनयहायनैः |

सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ||४२||

ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः |

पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ||४३||

यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः |

सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ||४४||

विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः |

प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ||४५||

अन्नपानेन्धनमयो रसप्राणविवर्धनः |

यो धारयति भूतानि तस्मै प्राणात्मने नमः ||४६||

परः कालात्परो यज्ञात्परः सदसतोश्च यः |

अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ||४७||

यो मोहयति भूतानि स्नेहरागानुबन्धनैः |

सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ||४८||

आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् |

यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः ||४९||

अप्रमेयशरीराय सर्वतोऽनन्तचक्षुषे |

अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः ||५०||

जटिने दण्डिने नित्यं लम्बोदरशरीरिणे |

कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ||५१||

शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने |

भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ||५२||

पञ्चभूतात्मभूताय भूतादिनिधनात्मने |

अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ||५३||

यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः |

यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ||५४||

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |

अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ||५५||

नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु |

नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् ||५६||

नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय |

त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ||५७||

तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु |

तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ||५८||

दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा |

विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ||५९||

अतसीपुष्पसङ्काशं पीतवाससमच्युतम् |

ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ||६०||

यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः |

यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ||६१||

त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे |

यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ||६२||

इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः |

वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ||६३||

एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः |

नम इत्येव कृष्णाय प्रणाममकरोत्तदा ||६४||

अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः |

त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः ||६५||

तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः |

भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् ||६६||

ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम् |

भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ||६७||

विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः |

सहसोत्थाय संहृष्टो यानमेवान्वपद्यत ||६८||

केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः |

अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ||६९||

भीमसेनो यमौ चोभौ रथमेकं समास्थितौ |

कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ||७०||

ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः |

नेमिघोषेण महता कम्पयन्तो वसुन्धराम् ||७१||

ततो गिरः पुरुषवरस्तवान्विता; द्विजेरिताः पथि सुमनाः स शुश्रुवे |

कृताञ्जलिं प्रणतमथापरं जनं; स केशिहा मुदितमनाभ्यनन्दत ||७२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

048-अध्यायः

वैशम्पायन उवाच||

ततः स च हृषीकेशः स च राजा युधिष्ठिरः |

कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह ||१||

रथैस्ते नगराकारैः पताकाध्वजशोभितैः |

ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ||२||

तेऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसङ्कुलम् |

देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः ||३||

गजाश्वदेहास्थिचयैः पर्वतैरिव सञ्चितम् |

नरशीर्षकपालैश्च शङ्खैरिव समाचितम् ||४||

चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम् |

आपानभूमिं कालस्य तदा भुक्तोज्झितामिव ||५||

भूतसङ्घानुचरितं रक्षोगणनिषेवितम् |

पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः ||६||

गच्छन्नेव महाबाहुः सर्वयादवनन्दनः |

युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् ||७||

अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः |

येषु सन्तर्पयामास पूर्वान्क्षत्रियशोणितैः ||८||

त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः |

इहेदानीं ततो रामः कर्मणो विरराम ह ||९||

युधिष्ठिर उवाच||

त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा |

रामेणेति यदात्थ त्वमत्र मे संशयो महान् ||१०||

क्षत्रबीजं यदा दग्धं रामेण यदुपुङ्गव |

कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम ||११||

महात्मना भगवता रामेण यदुपुङ्गव |

कथमुत्सादितं क्षत्रं कथं वृद्धिं पुनर्गतम् ||१२||

महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः |

तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर ||१३||

एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन |

आगमो हि परः कृष्ण त्वत्तो नो वासवानुज ||१४||

वैशम्पायन उवाच||

ततो व्रजन्नेव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वतः |

युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत्क्षत्रियसङ्कुला मही ||१५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

049-अध्यायः

जामदग्न्योपाख्यानम्

वासुदेव उवाच||

शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम् |

महर्षीणां कथयतां कारणं तस्य जन्म च ||१||

यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः |

उद्भूता राजवंशेषु ये भूयो भारते हताः ||२||

जह्नोरजह्नुस्तनयो बल्लवस्तस्य चात्मजः |

कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः ||३||

उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि |

पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ||४||

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः |

समर्थः पुत्रजनने स्वयमेवैत्य भारत ||५||

पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः |

गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ||६||

तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो |

तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः ||७||

ततः प्रीतस्तु कौन्तेय भार्गवः कुरुनन्दन |

पुत्रार्थे श्रपयामास चरुं गाधेस्तथैव च ||८||

आहूय चाह तां भार्यामृचीको भार्गवस्तदा |

उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव ||९||

तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः |

अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ||१०||

तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम् |

शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ||११||

इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः |

तपस्यभिरतो धीमाञ्जगामारण्यमेव ह ||१२||

एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः |

गाधिः सदारः सम्प्राप्त ऋचीकस्याश्रमं प्रति ||१३||

चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा |

भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदयत् ||१४||

माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ |

तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह ||१५||

अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा |

धारयामास दीप्तेन वपुषा घोरदर्शनम् ||१६||

तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन वै ततः |

अब्रवीद्राजशार्दूल स्वां भार्यां वरवर्णिनीम् ||१७||

मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना |

जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः ||१८||

जनिष्यते हि ते भ्राता ब्रह्मभूतस्तपोधनः |

विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ||१९||

सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा |

पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम् ||२०||

नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः |

ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने ||२१||

ऋचीक उवाच||

नैष सङ्कल्पितः कामो मया भद्रे तथा त्वयि |

उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम् ||२२||

सत्यवत्युवाच||

इच्छँल्लोकानपि मुने सृजेथाः किं पुनर्मम |

शमात्मकमृजुं पुत्रं लभेयं जपतां वर ||२३||

ऋचीक उवाच||

नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः |

किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ||२४||

सत्यवत्युवाच||

काममेवं भवेत्पौत्रो ममेह तव चैव ह |

शमात्मकमृजुं पुत्रं लभेयं जपतां वर ||२५||

ऋचीक उवाच||

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि |

यथा त्वयोक्तं तु वचस्तथा भद्रे भविष्यति ||२६||

वासुदेव उवाच||

ततः सत्यवती पुत्रं जनयामास भार्गवम् |

तपस्यभिरतं शान्तं जमदग्निं शमात्मकम् ||२७||

विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः |

प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् ||२८||

आर्चीको जनयामास जमदग्निः सुदारुणम् |

सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम् ||२९||

रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ||२९||

एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली |

अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः ||३०||

ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् |

स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च ||३१||

तृषितेन स कौरव्य भिक्षितश्चित्रभानुना |

सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये ||३२||

ग्रामान्पुराणि घोषांश्च पत्तनानि च वीर्यवान् |

जज्वाल तस्य बाणैस्तु चित्रभानुर्दिधक्षया ||३३||

स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः |

ददाह कार्तवीर्यस्य शैलानथ वनानि च ||३४||

स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत् |

ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ||३५||

आपवस्तं ततो रोषाच्छशापार्जुनमच्युत |

दग्धेऽऽश्रमे महाराज कार्तवीर्येण वीर्यवान् ||३६||

त्वया न वर्जितं मोहाद्यस्माद्वनमिदं मम |

दग्धं तस्माद्रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन ||३७||

अर्जुनस्तु महाराज बली नित्यं शमात्मकः |

ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत ||३८||

तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे |

निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा ||३९||

जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ |

अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः ||४०||

ततोऽर्जुनस्य बाहूंस्तु छित्त्वा वै पौरुषान्वितः |

तं रुवन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् ||४१||

प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः ||४१||

अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा |

गत्वाश्रममसम्बुद्धं जमदग्नेर्महात्मनः ||४२||

अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप |

समित्कुशार्थं रामस्य निर्गतस्य महात्मनः ||४३||

ततः पितृवधामर्षाद्रामः परममन्युमान् |

निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत ||४४||

ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् |

विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः ||४५||

स हैहयसहस्राणि हत्वा परममन्युमान् |

चकार भार्गवो राजन्महीं शोणितकर्दमाम् ||४६||

स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् |

कृपया परयाविष्टो वनमेव जगाम ह ||४७||

ततो वर्षसहस्रेषु समतीतेषु केषुचित् |

क्षोभं सम्प्राप्तवांस्तीव्रं प्रकृत्या कोपनः प्रभुः ||४८||

विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः |

परावसुर्महाराज क्षिप्त्वाह जनसंसदि ||४९||

ये ते ययातिपतने यज्ञे सन्तः समागताः |

प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते ||५०||

मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि |

भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः ||५१||

स पुनः क्षत्रियशतैः पृथिवीमनुसन्तताम् |

परावसोस्तदा श्रुत्वा शस्त्रं जग्राह भार्गवः ||५२||

ततो ये क्षत्रिया राजञ्शतशस्तेन जीविताः |

ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् ||५३||

स पुनस्ताञ्जघानाशु बालानपि नराधिप |

गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा ||५४||

जातं जातं स गर्भं तु पुनरेव जघान ह |

अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः ||५५||

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः |

दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः ||५६||

क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः |

स्रुक्प्रग्रहवता राजञ्श्रीमान्वाक्यमथाब्रवीत् ||५७||

गच्छ पारं समुद्रस्य दक्षिणस्य महामुने |

न ते मद्विषये राम वस्तव्यमिह कर्हिचित् ||५८||

ततः शूर्पारकं देशं सागरस्तस्य निर्ममे |

सन्त्रासाज्जामदग्न्यस्य सोऽपरान्तं महीतलम् ||५९||

कश्यपस्तु महाराज प्रतिगृह्य महीमिमाम् |

कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम् ||६०||

ततः शूद्राश्च वैश्याश्च यथास्वैरप्रचारिणः |

अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ ||६१||

अराजके जीवलोके दुर्बला बलवत्तरैः |

बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् ||६२||

ततः कालेन पृथिवी प्रविवेश रसातलम् |

अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः ||६३||

ऊरुणा धारयामास कश्यपः पृथिवीं ततः |

निमज्जन्तीं तदा राजंस्तेनोर्वीति मही स्मृता ||६४||

रक्षिणश्च समुद्दिश्य प्रायाचत्पृथिवी तदा |

प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः ||६५||

सन्ति ब्रह्मन्मया गुप्ता नृषु क्षत्रियपुङ्गवाः |

हैहयानां कुले जातास्ते संरक्षन्तु मां मुने ||६६||

अस्ति पौरवदायादो विडूरथसुतः प्रभो |

ऋक्षैः संवर्धितो विप्र ऋक्षवत्येव पर्वते ||६७||

तथानुकम्पमानेन यज्वनाथामितौजसा |

पराशरेण दायादः सौदासस्याभिरक्षितः ||६८||

सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद्धि सः |

सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः ||६९||

शिबेः पुत्रो महातेजा गोपतिर्नाम नामतः |

वने संरक्षितो गोभिः सोऽभिरक्षतु मां मुने ||७०||

प्रतर्दनस्य पुत्रस्तु वत्सो नाम महायशाः |

वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः ||७१||

दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य ह |

अङ्गः स गौतमेनापि गङ्गाकूलेऽभिरक्षितः ||७२||

बृहद्रथो महाबाहुर्भुवि भूतिपुरस्कृतः |

गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः ||७३||

मरुत्तस्यान्ववाये तु क्षत्रियास्तुर्वसोस्त्रयः |

मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ||७४||

एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः |

सम्यङ्मामभिरक्षन्तु ततः स्थास्यामि निश्चला ||७५||

एतेषां पितरश्चैव तथैव च पितामहाः |

मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ||७६||

तेषामपचितिश्चैव मया कार्या न संशयः |

न ह्यहं कामये नित्यमविक्रान्तेन रक्षणम् ||७७||

ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः |

अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान् ||७८||

तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः |

एवमेतत्पुरा वृत्तं यन्मां पृच्छसि पाण्डव ||७९||

वैशम्पायन उवाच||

एवं ब्रुवन्नेव यदुप्रवीरो; युधिष्ठिरं धर्मभृतां वरिष्ठम् |

रथेन तेनाशु ययौ यथार्को; विशन्प्रभाभिर्भगवांस्त्रिलोकम् ||८०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

050-अध्यायः

वैशम्पायन उवाच||

ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः |

विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ||१||

अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः |

विक्रमो येन वसुधा क्रोधान्निःक्षत्रिया कृता ||२||

गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः |

गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ||३||

अहो धन्यो हि लोकोऽयं सभाग्याश्च नरा भुवि |

यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमच्युत ||४||

तथा यान्तौ तदा तात तावच्युतयुधिष्ठिरौ |

जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ||५||

ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् |

स्वरश्मिजालसंवीतं सायंसूर्यमिवानलम् ||६||

उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् |

देशे परमधर्मिष्ठे नदीमोघवतीमनु ||७||

दूरादेव तमालोक्य कृष्णो राजा च धर्मराट् |

चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ||८||

अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः |

एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीन् ||९||

अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः |

व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे ||१०||

तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः |

परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः ||११||

ततो निशम्य गाङ्गेयं शाम्यमानमिवानलम् |

किञ्चिद्दीनमना भीष्ममिति होवाच केशवः ||१२||

कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा |

कच्चिदव्याकुला चैव बुद्धिस्ते वदतां वर ||१३||

शराभिघातदुःखात्ते कच्चिद्गात्रं न दूयते |

मानसादपि दुःखाद्धि शारीरं बलवत्तरम् ||१४||

वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो |

शन्तनोर्धर्मशीलस्य न त्वेतच्छमकारणम् ||१५||

सुसूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम् |

किं पुनः शरसङ्घातैश्चितस्य तव भारत ||१६||

कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ |

भवान्ह्युपदिशेच्छ्रेयो देवानामपि भारत ||१७||

यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ |

सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ||१८||

संसारश्चैव भूतानां धर्मस्य च फलोदयः |

विदितस्ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः ||१९||

त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् |

स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् ||२०||

ऋते शान्तनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव |

सत्यसन्धान्महावीर्याच्छूराद्धर्मैकतत्परात् ||२१||

मृत्युमावार्य तरसा शरप्रस्तरशायिनः |

निसर्गप्रभवं किञ्चिन्न च तातानुशुश्रुम ||२२||

सत्ये तपसि दाने च यज्ञाधिकरणे तथा |

धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ||२३||

अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् |

महारथं त्वत्सदृशं न कञ्चिदनुशुश्रुम ||२४||

त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान् |

शक्त एकरथेनैव विजेतुं नात्र संशयः ||२५||

त्वं हि भीष्म महाबाहो वसूनां वासवोपमः |

नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ||२६||

अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम |

त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहाबलः ||२७||

मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः |

भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ||२८||

त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे |

तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ||२९||

तदस्य तप्यमानस्य ज्ञातीनां सङ्क्षयेण वै |

ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ||३०||

ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत |

चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव ||३१||

चातुर्वेद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत |

साङ्ख्ये योगे च नियता ये च धर्माः सनातनाः ||३२||

चातुर्वर्ण्येन यश्चैको धर्मो न स्म विरुध्यते |

सेव्यमानः स चैवाद्यो गाङ्गेय विदितस्तव ||३३||

इतिहासपुराणं च कार्त्स्न्येन विदितं तव |

धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ||३४||

ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः |

तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ ||३५||

स पाण्डवेयस्य मनःसमुत्थितं; नरेन्द्र शोकं व्यपकर्ष मेधया |

भवद्विधा ह्युत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये ||३६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

051-अध्यायः

वैशम्पायन उवाच||

श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः |

किञ्चिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत् ||१||

नमस्ते भगवन्विष्णो लोकानां निधनोद्भव |

त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ||२||

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |

अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ||३||

नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु |

योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणम् ||४||

मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम |

तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु ||५||

तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् |

सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः ||६||

दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा |

दिशो भुजौ रविश्चक्षुर्वीर्ये शक्रः प्रतिष्ठितः ||७||

अतसीपुष्पसङ्काशं पीतवाससमच्युतम् |

वपुर्ह्यनुमिमीमस्ते मेघस्येव सविद्युतः ||८||

त्वत्प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे |

यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ||९||

वासुदेव उवाच||

यतः खलु परा भक्तिर्मयि ते पुरुषर्षभ |

ततो वपुर्मया दिव्यं तव राजन्प्रदर्शितम् ||१०||

न ह्यभक्ताय राजेन्द्र भक्तायानृजवे न च |

दर्शयाम्यहमात्मानं न चादान्ताय भारत ||११||

भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः |

दमे तपसि सत्ये च दाने च निरतः शुचिः ||१२||

अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव |

तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः ||१३||

पञ्चाशतं षट्च कुरुप्रवीर; शेषं दिनानां तव जीवितस्य |

ततः शुभैः कर्मफलोदयैस्त्वं; समेष्यसे भीष्म विमुच्य देहम् ||१४||

एते हि देवा वसवो विमाना; न्यास्थाय सर्वे ज्वलिताग्निकल्पाः |

अन्तर्हितास्त्वां प्रतिपालयन्ति; काष्ठां प्रपद्यन्तमुदक्पतङ्गम् ||१५||

व्यावृत्तमात्रे भगवत्युदीचीं; सूर्ये दिशं कालवशात्प्रपन्ने |

गन्तासि लोकान्पुरुषप्रवीर; नावर्तते यानुपलभ्य विद्वान् ||१६||

अमुं च लोकं त्वयि भीष्म याते; ज्ञानानि नङ्क्ष्यन्त्यखिलेन वीर |

अतः स्म सर्वे त्वयि संनिकर्षं; समागता धर्मविवेचनाय ||१७||

तज्ज्ञातिशोकोपहतश्रुताय; सत्याभिसन्धाय युधिष्ठिराय |

प्रब्रूहि धर्मार्थसमाधियुक्त; मर्थ्यं वचोऽस्यापनुदास्य शोकम् ||१८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

052-अध्यायः

वैशम्पायन उवाच||

ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् |

श्रुत्वा शान्तनवो भीष्मः प्रत्युवाच कृताञ्जलिः ||१||

लोकनाथ महाबाहो शिव नारायणाच्युत |

तव वाक्यमभिश्रुत्य हर्षेणास्मि परिप्लुतः ||२||

किं चाहमभिधास्यामि वाक्पते तव संनिधौ |

यदा वाचोगतं सर्वं तव वाचि समाहितम् ||३||

यद्धि किञ्चित्कृतं लोके कर्तव्यं क्रियते च यत् |

त्वत्तस्तन्निःसृतं देव लोका बुद्धिमया हि ते ||४||

कथयेद्देवलोकं यो देवराजसमीपतः |

धर्मकामार्थशास्त्राणां सोऽर्थान्ब्रूयात्तवाग्रतः ||५||

शराभिघाताद्व्यथितं मनो मे मधुसूदन |

गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति ||६||

न च मे प्रतिभा काचिदस्ति किञ्चित्प्रभाषितुम् |

पीड्यमानस्य गोविन्द विषानलसमैः शरैः ||७||

बलं मेधाः प्रजरति प्राणाः सन्त्वरयन्ति च |

मर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च ||८||

दौर्बल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहे |

साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन ||९||

तत्क्षमस्व महाबाहो न ब्रूयां किञ्चिदच्युत |

त्वत्संनिधौ च सीदेत वाचस्पतिरपि ब्रुवन् ||१०||

न दिशः सम्प्रजानामि नाकाशं न च मेदिनीम् |

केवलं तव वीर्येण तिष्ठामि मधुसूदन ||११||

स्वयमेव प्रभो तस्माद्धर्मराजस्य यद्धितम् |

तद्ब्रवीह्याशु सर्वेषामागमानां त्वमागमः ||१२||

कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि |

प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ||१३||

वासुदेव उवाच||

उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे |

महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि ||१४||

यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति |

गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो ||१५||

न ते ग्लानिर्न ते मूर्छा न दाहो न च ते रुजा |

प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत ||१६||

ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ |

न च ते क्वचिदासक्तिर्बुद्धेः प्रादुर्भविष्यति ||१७||

सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति |

रजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट् ||१८||

यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि वा |

चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति ||१९||

इमं च राजशार्दूल भूतग्रामं चतुर्विधम् |

चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ||२०||

चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा |

भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ||२१||

वैशम्पायन उवाच||

ततस्ते व्याससहिताः सर्व एव महर्षयः |

ऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन् ||२२||

ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् |

पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः ||२३||

वादित्राणि च दिव्यानि जगुश्चाप्सरसां गणाः |

न चाहितमनिष्टं वा किञ्चित्तत्र व्यदृश्यत ||२४||

ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः |

शान्तायां दिशि शान्ताश्च प्रावदन्मृगपक्षिणः ||२५||

ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः |

दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ||२६||

ततो महर्षयः सर्वे समुत्थाय जनार्दनम् |

भीष्ममामन्त्रयां चक्रू राजानं च युधिष्ठिरम् ||२७||

ततः प्रणाममकरोत्केशवः पाण्डवस्तथा |

सात्यकिः सञ्जयश्चैव स च शारद्वतः कृपः ||२८||

ततस्ते धर्मनिरताः सम्यक्तैरभिपूजिताः |

श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः ||२९||

तथैवामन्त्र्य गाङ्गेयं केशवस्ते च पाण्डवाः |

प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ||३०||

ततो रथैः काञ्चनदन्तकूबरै; र्महीधराभैः समदैश्च दन्तिभिः |

हयैः सुपर्णैरिव चाशुगामिभिः; पदातिभिश्चात्तशरासनादिभिः ||३१||

ययौ रथानां पुरतो हि सा चमू; स्तथैव पश्चादतिमात्रसारिणी |

पुरश्च पश्चाच्च यथा महानदी; पुरर्क्षवन्तं गिरिमेत्य नर्मदा ||३२||

ततः पुरस्ताद्भगवान्निशाकरः; समुत्थितस्तामभिहर्षयंश्चमूम् |

दिवाकरापीतरसास्तथौषधीः; पुनः स्वकेनैव गुणेन योजयन् ||३३||

ततः पुरं सुरपुरसंनिभद्युति; प्रविश्य ते यदुवृषपाण्डवास्तदा |

यथोचितान्भवनवरान्समाविश; ञ्श्रमान्विता मृगपतयो गुहा इव ||३४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

053-अध्यायः

वैशम्पायन उवाच||

ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः |

याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ||१||

स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः |

अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ||२||

ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः |

अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ||३||

पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः |

शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः ||४||

वीणापणववेणूनां स्वनश्चातिमनोरमः |

प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ||५||

तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः |

उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः ||६||

तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः |

जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ||७||

ततः सहस्रं विप्राणां चतुर्वेदविदां तथा |

गवां सहस्रेणैकैकं वाचयामास माधवः ||८||

मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च |

आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ||९||

गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् |

अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः ||१०||

ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ |

उपगम्य च राजानं युधिष्ठिरमुवाच ह ||११||

युक्तो रथवरो राजन्वासुदेवस्य धीमतः |

समीपमापगेयस्य प्रयास्यति जनार्दनः ||१२||

भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते |

यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ||१३||

युधिष्ठिर उवाच||

युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते |

न सैनिकैश्च यातव्यं यास्यामो वयमेव हि ||१४||

न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः |

अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय ||१५||

अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति |

ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् ||१६||

वैशम्पायन उवाच||

तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनञ्जयः |

युक्तं रथवरं तस्मा आचचक्षे नरर्षभ ||१७||

ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि |

भूतानीव समस्तानि ययुः कृष्णनिवेशनम् ||१८||

आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु |

शैनेयसहितो धीमान्रथमेवान्वपद्यत ||१९||

रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् |

मेघघोषै रथवरैः प्रययुस्ते महारथाः ||२०||

मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च |

दारुकश्चोदयामास वासुदेवस्य वाजिनः ||२१||

ते हया वासुदेवस्य दारुकेण प्रचोदिताः |

गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा ||२२||

ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः |

क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ||२३||

ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः |

आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा ||२४||

ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः |

भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च ||२५||

ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ||२५||

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः |

अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ||२६||

शरतल्पे शयानं तमादित्यं पतितं यथा |

ददर्श स महाबाहुर्भयादागतसाध्वसः ||२७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

054-अध्यायः

जनमेजय उवाच||

धर्मात्मनि महासत्त्वे सत्यसन्धे जितात्मनि |

देवव्रते महाभागे शरतल्पगतेऽच्युते ||१||

शयाने वीरशयने भीष्मे शन्तनुनन्दने |

गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते ||२||

काः कथाः समवर्तन्त तस्मिन्वीरसमागमे |

हतेषु सर्वसैन्येषु तन्मे शंस महामुने ||३||

वैशम्पायन उवाच||

शरतल्पगते भीष्मे कौरवाणां धुरन्धरे |

आजग्मुरृषयः सिद्धा नारदप्रमुखा नृप ||४||

हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः |

धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा ||५||

तेऽभिगम्य महात्मानो भरतानां पितामहम् |

अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा ||६||

मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः |

उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान् ||७||

प्राप्तकालं च आचक्षे भीष्मोऽयमनुयुज्यताम् |

अस्तमेति हि गाङ्गेयो भानुमानिव भारत ||८||

अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्येत्य पृच्छत |

कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम् ||९||

एष वृद्धः पुरा लोकान्सम्प्राप्नोति तनुत्यजाम् |

तं शीघ्रमनुयुञ्जध्वं संशयान्मनसि स्थितान् ||१०||

एवमुक्ता नारदेन भीष्ममीयुर्नराधिपाः |

प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम् ||११||

अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः |

नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम् ||१२||

प्रव्याहारय दुर्धर्ष त्वमग्रे मधुसूदन |

त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः ||१३||

एवमुक्तः पाण्डवेन भगवान्केशवस्तदा |

अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः ||१४||

वासुदेव उवाच||

कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम |

विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव ||१५||

कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ |

न ग्लायते च हृदयं न च ते व्याकुलं मनः ||१६||

भीष्म उवाच||

दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा |

तव प्रसादाद्गोविन्द सद्यो व्यपगतानघ ||१७||

यच्च भूतं भविष्यच्च भवच्च परमद्युते |

तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम् ||१८||

वेदोक्ताश्चैव ये धर्मा वेदान्तनिहिताश्च ये |

तान्सर्वान्सम्प्रपश्यामि वरदानात्तवाच्युत ||१९||

शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते |

देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन ||२०||

चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः |

राजधर्मांश्च सकलानवगच्छामि केशव ||२१||

यत्र यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन |

तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत् ||२२||

युवेव चास्मि संवृत्तस्त्वदनुध्यानबृंहितः |

वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन ||२३||

स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम् |

किं ते विवक्षितं चात्र तदाशु वद माधव ||२४||

वासुदेव उवाच||

यशसः श्रेयसश्चैव मूलं मां विद्धि कौरव |

मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः ||२५||

शीतांशुश्चन्द्र इत्युक्ते को लोके विस्मयिष्यति |

तथैव यशसा पूर्णे मयि को विस्मयिष्यति ||२६||

आधेयं तु मया भूयो यशस्तव महाद्युते |

ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता ||२७||

यावद्धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा |

तावत्तवाक्षया कीर्तिर्लोकाननु चरिष्यति ||२८||

यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते |

वेदप्रवादा इव ते स्थास्यन्ति वसुधातले ||२९||

यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना |

स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति ||३०||

एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते |

दत्ता यशो विप्रथेत कथं भूयस्तवेति ह ||३१||

यावद्धि प्रथते लोके पुरुषस्य यशो भुवि |

तावत्तस्याक्षयं स्थानं भवतीति विनिश्चितम् ||३२||

राजानो हतशिष्टास्त्वां राजन्नभित आसते |

धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत ||३३||

भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः |

कुशलो राजधर्माणां पूर्वेषामपराश्च ये ||३४||

जन्मप्रभृति ते कश्चिद्वृजिनं न ददर्श ह |

ज्ञातारमनुधर्माणां त्वां विदुः सर्वपार्थिवाः ||३५||

तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम् |

ऋषयश्च हि देवाश्च त्वया नित्यमुपासिताः ||३६||

तस्माद्वक्तव्यमेवेह त्वया पश्याम्यशेषतः |

धर्माञ्शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः ||३७||

वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः |

अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो ||३८||

तस्मात्पुत्रैश्च पौत्रैश्च धर्मान्पृष्टः सनातनान् |

विद्वाञ्जिज्ञासमानैस्त्वं प्रब्रूहि भरतर्षभ ||३९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

055-अध्यायः

वैशम्पायन उवाच||

अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः |

हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम ||१||

तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः ||१||

युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु |

एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चानघ ||२||

यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि |

अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः ||३||

सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् |

यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः ||४||

धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा |

यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः ||५||

सत्यं दानं तपः शौचं शान्तिर्दाक्ष्यमसम्भ्रमः |

यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः ||६||

यो न कामान्न संरम्भान्न भयान्नार्थकारणात् |

कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः ||७||

सम्बन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः |

संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः ||८||

सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः |

यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः ||९||

इज्याध्ययननित्यश्च धर्मे च निरतः सदा |

शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः ||१०||

वासुदेव उवाच||

लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः |

अभिशापभयाद्भीतो भवन्तं नोपसर्पति ||११||

लोकस्य कदनं कृत्वा लोकनाथो विशां पते |

अभिशापभयाद्भीतो भवन्तं नोपसर्पति ||१२||

पूज्यान्मान्यांश्च भक्तांश्च गुरून्सम्बन्धिबान्धवान् |

अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति ||१३||

भीष्म उवाच||

ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः |

क्षत्रियाणां तथा कृष्ण समरे देहपातनम् ||१४||

पितॄन्पितामहान्पुत्रान्गुरून्सम्बन्धिबान्धवान् |

मिथ्याप्रवृत्तान्यः सङ्ख्ये निहन्याद्धर्म एव सः ||१५||

समयत्यागिनो लुब्धान्गुरूनपि च केशव |

निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित् ||१६||

आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना |

धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत् ||१७||

वैशम्पायन उवाच||

एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः |

विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः ||१८||

अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम् |

मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा ||१९||

तमुवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम् |

पृच्छ मां तात विस्रब्धं मा भैस्त्वं कुरुसत्तम ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

056-अध्यायः

वैशम्पायन उवाच||

प्रणिपत्य हृषीकेशमभिवाद्य पितामहम् |

अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः ||१||

राज्यं वै परमो धर्म इति धर्मविदो विदुः |

महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव ||२||

राजधर्मान्विशेषेण कथयस्व पितामह |

सर्वस्य जीवलोकस्य राजधर्माः परायणम् ||३||

त्रिवर्गोऽत्र समासक्तो राजधर्मेषु कौरव |

मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः ||४||

यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा |

नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् ||५||

अत्र वै सम्प्रमूढे तु धर्मे राजर्षिसेविते |

लोकस्य संस्था न भवेत्सर्वं च व्याकुलं भवेत् ||६||

उदयन्हि यथा सूर्यो नाशयत्यासुरं तमः |

राजधर्मास्तथालोक्यामाक्षिपन्त्यशुभां गतिम् ||७||

तदग्रे राजधर्माणामर्थतत्त्वं पितामह |

प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः ||८||

आगमश्च परस्त्वत्तः सर्वेषां नः परन्तप |

भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते ||९||

भीष्म उवाच||

नमो धर्माय महते नमः कृष्णाय वेधसे |

ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ||१०||

शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर |

निरुच्यमानान्नियतो यच्चान्यदभिवाञ्छसि ||११||

आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया |

देवतानां द्विजानां च वर्तितव्यं यथाविधि ||१२||

दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह |

आनृण्यं याति धर्मस्य लोकेन च स मान्यते ||१३||

उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर |

न ह्युत्थानमृते दैवं राज्ञामर्थप्रसिद्धये ||१४||

साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च |

पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते ||१५||

विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः |

घटते विनयस्तात राज्ञामेष नयः परः ||१६||

न हि सत्यादृते किञ्चिद्राज्ञां वै सिद्धिकारणम् |

सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति ||१७||

ऋषीणामपि राजेन्द्र सत्यमेव परं धनम् |

तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम् ||१८||

गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः |

सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः ||१९||

आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन |

पुनर्नयविचारेण त्रयीसंवरणेन च ||२०||

मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः |

तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचर ||२१||

अदण्ड्याश्चैव ते नित्यं विप्राः स्युर्ददतां वर |

भूतमेतत्परं लोके ब्राह्मणा नाम भारत ||२२||

मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना |

धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि ||२३||

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||२४||

अयो हन्ति यदाश्मानमग्निश्चापोऽभिपद्यते |

ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ||२५||

एतज्ज्ञात्वा महाराज नमस्या एव ते द्विजाः |

भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः ||२६||

एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः |

निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः ||२७||

श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा |

तौ निबोध महाप्राज्ञ त्वमेकाग्रमना नृप ||२८||

उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे |

निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नरेश्वरः ||२९||

विनश्यमानं धर्मं हि यो रक्षति स धर्मवित् |

न तेन भ्रूणहा स स्यान्मन्युस्तं मनुमृच्छति ||३०||

एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः |

स्वपराद्धानपि हि तान्विषयान्ते समुत्सृजेत् ||३१||

अभिशस्तमपि ह्येषां कृपायीत विशां पते |

ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च ||३२||

राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम् |

विधीयते न शारीरं भयमेषां कदाचन ||३३||

दयिताश्च नरास्ते स्युर्नित्यं पुरुषसत्तम |

न कोशः परमो ह्यन्यो राज्ञां पुरुषसञ्चयात् ||३४||

दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः |

सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम् ||३५||

तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता |

धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः ||३६||

न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम |

अधर्म्यो हि मृदू राजा क्षमावानिव कुञ्जरः ||३७||

बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा |

अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु ||३८||

क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः |

हस्तियन्ता गजस्येव शिर एवारुरुक्षति ||३९||

तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वापि भवेन्नृपः |

वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः ||४०||

प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः |

परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा ||४१||

व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण |

न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत् ||४२||

नित्यं हि व्यसनी लोके परिभूतो भवत्युत |

उद्वेजयति लोकं चाप्यतिद्वेषी महीपतिः ||४३||

भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा |

कारणं च महाराज शृणु येनेदमिष्यते ||४४||

यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम् |

गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम् ||४५||

वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना |

स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत् ||४६||

न सन्त्याज्यं च ते धैर्यं कदाचिदपि पाण्डव |

धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते ||४७||

परिहासश्च भृत्यैस्ते न नित्यं वदतां वर |

कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु ||४८||

अवमन्यन्ति भर्तारं संहर्षादुपजीविनः |

स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद्वचः ||४९||

प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते |

अयाच्यं चैव याचन्तेऽभोज्यान्याहारयन्ति च ||५०||

क्रुध्यन्ति परिदीप्यन्ति भूमिमध्यासतेऽस्य च |

उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च ||५१||

जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः |

स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च ||५२||

वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ |

निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः ||५३||

हयं वा दन्तिनं वापि रथं नृपतिसंमतम् |

अधिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ ||५४||

इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम् |

इत्येवं सुहृदो नाम ब्रुवन्ति परिषद्गताः ||५५||

क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः |

सङ्घर्षशीलाश्च सदा भवन्त्यन्योन्यकारणात् ||५६||

विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् |

लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् ||५७||

अलङ्करणभोज्यं च तथा स्नानानुलेपनम् ||५७||

हेलमाना नरव्याघ्र स्वस्थास्तस्योपशृण्वते |

निन्दन्ति स्वानधीकारान्सन्त्यजन्ति च भारत ||५८||

न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च |

क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा ||५९||

अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत ||५९||

एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत |

नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ||६०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

057-अध्यायः

भीष्म उवाच||

नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर |

प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः ||१||

भगवानुशना चाह श्लोकमत्र विशां पते |

तमिहैकमना राजन्गदतस्त्वं निबोध मे ||२||

द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव |

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ||३||

तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि |

सन्धेयानपि सन्धत्स्व विरोध्यांश्च विरोधय ||४||

सप्ताङ्गे यश्च ते राज्ये वैपरीत्यं समाचरेत् |

गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः ||५||

मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः |

राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा ||६||

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः |

उत्पथप्रतिपन्नस्य परित्यागो विधीयते ||७||

बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता |

असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा ||८||

असमञ्जाः सरय्वां प्राक्पौराणां बालकान्नृप |

न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः ||९||

ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः |

मिथ्या विप्रानुपचरन्सन्त्यक्तो दयितः सुतः ||१०||

लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः |

सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् ||११||

न हिंस्यात्परवित्तानि देयं काले च दापयेत् |

विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः ||१२||

गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः |

धर्मे चार्थे च कामे च मोक्षे च सततं रतः ||१३||

त्रय्या संवृतरन्ध्रश्च राजा भवितुमर्हति |

वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम् ||१४||

चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता |

धर्मसङ्कररक्षा हि राज्ञां धर्मः सनातनः ||१५||

न विश्वसेच्च नृपतिर्न चात्यर्थं न विश्वसेत् |

षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत् ||१६||

द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते |

त्रिवर्गविदितार्थश्च युक्तचारोपधिश्च यः ||१७||

कोशस्योपार्जनरतिर्यमवैश्रवणोपमः |

वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः ||१८||

अभृतानां भवेद्भर्ता भृतानां चान्ववेक्षकः |

नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता ||१९||

उपासिता च वृद्धानां जिततन्द्रीरलोलुपः |

सतां वृत्ते स्थितमतिः सन्तो ह्याचारदर्शिनः ||२०||

न चाददीत वित्तानि सतां हस्तात्कदाचन |

असद्भ्यस्तु समादद्यात्सद्भ्यः सम्प्रतिपादयेत् ||२१||

स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः |

काले दाता च भोक्ता च शुद्धाचारस्तथैव च ||२२||

शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः |

शिष्टाञ्शिष्टाभिसम्बन्धान्मानिनो नावमानिनः ||२३||

विद्याविदो लोकविदः परलोकान्ववेक्षकान् |

धर्मेषु निरतान्साधूनचलानचलानिव ||२४||

सहायान्सततं कुर्याद्राजा भूतिपुरस्कृतः |

तैस्तुल्यश्च भवेद्भोगैश्छत्रमात्राज्ञयाधिकः ||२५||

प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्सदा |

एवं कृत्वा नरेन्द्रो हि न खेदमिह विन्दति ||२६||

सर्वातिशङ्की नृपतिर्यश्च सर्वहरो भवेत् |

स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बाध्यते ||२७||

शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः |

न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते ||२८||

अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः |

राजा भवति भूतानां विश्वास्यो हिमवानिव ||२९||

प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः |

सुदर्शः सर्ववर्णानां नयापनयवित्तथा ||३०||

क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः |

अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः ||३१||

आरब्धान्येव कार्याणि न पर्यवसितानि च |

यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः ||३२||

पुत्रा इव पितुर्गेहे विषये यस्य मानवाः |

निर्भया विचरिष्यन्ति स राजा राजसत्तमः ||३३||

अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः |

नयापनयवेत्तारः स राजा राजसत्तमः ||३४||

स्वकर्मनिरता यस्य जना विषयवासिनः |

असङ्घातरता दान्ताः पाल्यमाना यथाविधि ||३५||

वश्या नेया विनीताश्च न च सङ्घर्षशीलिनः |

विषये दानरुचयो नरा यस्य स पार्थिवः ||३६||

न यस्य कूटकपटं न माया न च मत्सरः |

विषये भूमिपालस्य तस्य धर्मः सनातनः ||३७||

यः सत्करोति ज्ञानानि नेयः पौरहिते रतः |

सतां धर्मानुगस्त्यागी स राजा राज्यमर्हति ||३८||

यस्य चारश्च मन्त्रश्च नित्यं चैव कृताकृते |

न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति ||३९||

श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना |

आख्याते रामचरिते नृपतिं प्रति भारत ||४०||

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् |

राजन्यसति लोकस्य कुतो भार्या कुतो धनम् ||४१||

तद्राजन्राजसिंहानां नान्यो धर्मः सनातनः |

ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम् ||४२||

प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ |

राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु ||४३||

षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे |

अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ||४४||

अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् |

ग्रामकामं च गोपालं वनकामं च नापितम् ||४५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

058-अध्यायः

भीष्म उवाच||

एतत्ते राजधर्माणां नवनीतं युधिष्ठिर |

बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति ||१||

विशालाक्षश्च भगवान्काव्यश्चैव महातपाः |

सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः ||२||

भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः |

राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः ||३||

रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर |

राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु ||४||

चारश्च प्रणिधिश्चैव काले दानममत्सरः |

युक्त्यादानं न चादानमयोगेन युधिष्ठिर ||५||

सतां सङ्ग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् |

अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम् ||६||

साधूनामपरित्यागः कुलीनानां च धारणम् |

निचयश्च निचेयानां सेवा बुद्धिमतामपि ||७||

बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम् |

कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् ||८||

पुरगुप्तिरविश्वासः पौरसङ्घातभेदनम् |

केतनानां च जीर्णानामवेक्षा चैव सीदताम् ||९||

द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः |

अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् ||१०||

उपजापश्च भृत्यानामात्मनः परदर्शनात् |

अविश्वासः स्वयं चैव परस्याश्वासनं तथा ||११||

नीतिधर्मानुसरणं नित्यमुत्थानमेव च |

रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् ||१२||

उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत |

राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे ||१३||

उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः |

उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ||१४||

उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति |

उत्थानधीरं वाग्धीरा रमयन्त उपासते ||१५||

उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः |

धर्षणीयो रिपूणां स्याद्भुजङ्ग इव निर्विषः ||१६||

न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा |

अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ||१७||

एकाश्वेनापि सम्भूतः शत्रुर्दुर्गसमाश्रितः |

तं तं तापयते देशमपि राज्ञः समृद्धिनः ||१८||

राज्ञो रहस्यं यद्वाक्यं जयार्थं लोकसङ्ग्रहः |

हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत् ||१९||

यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते |

दम्भनार्थाय लोकस्य धर्मिष्ठामाचरेत्क्रियाम् ||२०||

राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः |

न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम् ||२१||

राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते |

तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर ||२२||

यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः |

सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः ||२३||

एष ते राजधर्माणां लेशः समनुवर्णितः |

भूयस्ते यत्र संदेहस्तद्ब्रूहि वदतां वर ||२४||

वैशम्पायन उवाच||

ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह |

वासुदेवः कृपश्चैव सात्यकिः सञ्जयस्तथा ||२५||

साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः |

अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् ||२६||

ततो दीनमना भीष्ममुवाच कुरुसत्तमः |

नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् ||२७||

श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वं पितामह |

उपैति सविताप्यस्तं रसमापीय पार्थिवम् ||२८||

ततो द्विजातीनभिवाद्य केशवः; कृपश्च ते चैव युधिष्ठिरादयः |

प्रदक्षिणीकृत्य महानदीसुतं; ततो रथानारुरुहुर्मुदा युताः ||२९||

दृषद्वतीं चाप्यवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः |

उपास्य सन्ध्यां विधिवत्परन्तपा; स्ततः पुरं ते विविशुर्गजाह्वयम् ||३०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

059-अध्यायः

वैशम्पायन उवाच||

ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः |

ययुस्ते नगराकारै रथैः पाण्डवयादवाः ||१||

प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम् |

सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् ||२||

व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः |

निषेदुरभितो भीष्मं परिवार्य समन्ततः ||३||

ततो राजा महातेजा धर्मराजो युधिष्ठिरः |

अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च ||४||

य एष राजा-राजेति शब्दश्चरति भारत |

कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह ||५||

तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः |

तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः ||६||

तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च |

निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् ||७||

समानजन्ममरणः समः सर्वगुणैर्नृणाम् |

विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति ||८||

कथमेको महीं कृत्स्नां वीरशूरार्यसङ्कुलाम् |

रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति ||९||

एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति |

व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः ||१०||

एतदिच्छाम्यहं सर्वं तत्त्वेन भरतर्षभ |

श्रोतुं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर ||११||

नैतत्कारणमल्पं हि भविष्यति विशां पते |

यदेकस्मिञ्जगत्सर्वं देववद्याति संनतिम् ||१२||

भीष्म उवाच||

नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः |

यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ||१३||

नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः |

धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम् ||१४||

पालयानास्तथान्योन्यं नरा धर्मेण भारत |

खेदं परममाजग्मुस्ततस्तान्मोह आविशत् ||१५||

ते मोहवशमापन्ना मानवा मनुजर्षभ |

प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् ||१६||

नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा |

लोभस्य वशमापन्नाः सर्वे भारतसत्तम ||१७||

अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः |

कामो नामापरस्तत्र समपद्यत वै प्रभो ||१८||

तांस्तु कामवशं प्राप्तान्रागो नाम समस्पृशत् |

रक्ताश्च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर ||१९||

अगम्यागमनं चैव वाच्यावाच्यं तथैव च |

भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् ||२०||

विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह |

नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत् ||२१||

नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् |

ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः ||२२||

प्रपद्य भगवन्तं ते देवा लोकपितामहम् |

ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः ||२३||

भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम् |

लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् ||२४||

ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर |

ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर ||२५||

अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः |

क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् ||२६||

अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह |

त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति ||२७||

तानुवाच सुरान्सर्वान्स्वयम्भूर्भगवांस्ततः |

श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः ||२८||

ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् |

यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः ||२९||

त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा |

चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः ||३०||

मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः |

स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ||३१||

आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च |

सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ||३२||

त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ |

दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ||३३||

अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् |

चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः ||३४||

साम चोपप्रदानं च भेदो दण्डश्च पाण्डव |

उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ||३५||

मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च |

विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् ||३६||

सन्धिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः |

भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः ||३७||

यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः |

विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ||३८||

आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः |

लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ||३९||

प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः |

प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः ||४०||

रथा नागा हयाश्चैव पादाताश्चैव पाण्डव |

विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम् ||४१||

अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु |

जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ||४२||

स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः |

अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः ||४३||

कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह |

आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम् ||४४||

कल्पना विविधाश्चापि नृनागरथवाजिनाम् |

व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् ||४५||

उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम् |

शस्त्राणां पायनज्ञानं तथैव भरतर्षभ ||४६||

बलव्यसनमुक्तं च तथैव बलहर्षणम् |

पीडनास्कन्दकालश्च भयकालश्च पाण्डव ||४७||

तथा खातविधानं च योगसञ्चार एव च |

चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम् ||४८||

अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः |

श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ||४९||

दूषणेन च नागानामाशङ्काजननेन च |

आरोधनेन भक्तस्य पथश्चोपार्जनेन च ||५०||

सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् |

दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् ||५१||

अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् |

अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ||५२||

व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् |

शमो व्यायामयोगश्च योगो द्रव्यस्य सञ्चयः ||५३||

अभृतानां च भरणं भृतानां चान्ववेक्षणम् |

अर्थकाले प्रदानं च व्यसनेष्वप्रसङ्गिता ||५४||

तथा राजगुणाश्चैव सेनापतिगुणाश्च ये |

कारणस्य च कर्तुश्च गुणदोषास्तथैव च ||५५||

दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम् |

शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ||५६||

अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् |

प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा ||५७||

विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना |

चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः ||५८||

क्रोधजानि तथोग्राणि कामजानि तथैव च |

दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ||५९||

मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ |

कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा ||६०||

वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च |

आत्मनो निग्रहस्त्यागोऽथार्थदूषणमेव च ||६१||

यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः |

अवमर्दः प्रतीघातः केतनानां च भञ्जनम् ||६२||

चैत्यद्रुमाणामामर्दो रोधःकर्मान्तनाशनम् |

अपस्करोऽथ गमनं तथोपास्या च वर्णिता ||६३||

पणवानकशङ्खानां भेरीणां च युधां वर |

उपार्जनं च द्रव्याणां परमर्म च तानि षट् ||६४||

लब्धस्य च प्रशमनं सतां चैव हि पूजनम् |

विद्वद्भिरेकीभावश्च प्रातर्होमविधिज्ञता ||६५||

मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया |

आहारयोजनं चैव नित्यमास्तिक्यमेव च ||६६||

एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः |

उत्सवानां समाजानां क्रियाः केतनजास्तथा ||६७||

प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च |

वृत्तिर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ||६८||

अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् |

अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम् ||६९||

रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम् |

मण्डलस्था च या चिन्ता राजन्द्वादशराजिका ||७०||

द्वासप्ततिमतिश्चैव प्रोक्ता या च स्वयम्भुवा |

देशजातिकुलानां च धर्माः समनुवर्णिताः ||७१||

धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः |

उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणाः ||७२||

मूलकर्मक्रिया चात्र माया योगश्च वर्णितः |

दूषणं स्रोतसामत्र वर्णितं च स्थिराम्भसाम् ||७३||

यैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः |

तत्सर्वं राजशार्दूल नीतिशास्त्रेऽनुवर्णितम् ||७४||

एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः |

देवानुवाच संहृष्टः सर्वाञ्शक्रपुरोगमान् ||७५||

उपकाराय लोकस्य त्रिवर्गस्थापनाय च |

नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ||७६||

दण्डेन सहिता ह्येषा लोकरक्षणकारिका |

निग्रहानुग्रहरता लोकाननु चरिष्यति ||७७||

दण्डेन नीयते चेयं दण्डं नयति चाप्युत |

दण्डनीतिरिति प्रोक्ता त्रीँल्लोकाननुवर्तते ||७८||

षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु |

महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा ||७९||

नयचारश्च विपुलो येन सर्वमिदं ततम् |

आगमश्च पुराणानां महर्षीणां च सम्भवः ||८०||

तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर |

सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च ||८१||

चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम् |

इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः ||८२||

तपो ज्ञानमहिंसा च सत्यासत्ये नयः परः |

वृद्धोपसेवा दानं च शौचमुत्थानमेव च ||८३||

सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् |

भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् ||८४||

तस्मिन्पैतामहे शास्त्रे पाण्डवैतदसंशयम् |

धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः ||८५||

ततस्तां भगवान्नीतिं पूर्वं जग्राह शङ्करः |

बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ||८६||

युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः |

सञ्चिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् ||८७||

वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत |

दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ||८८||

भगवानपि तच्छास्त्रं सञ्चिक्षेप पुरंदरः |

सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् ||८९||

अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः |

सञ्चिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते ||९०||

अध्यायानां सहस्रेण काव्यः सङ्क्षेपमब्रवीत् |

तच्छास्त्रममितप्रज्ञो योगाचार्यो महातपाः ||९१||

एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः |

सङ्क्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासि पाण्डव ||९२||

अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् |

एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश ||९३||

ततः सञ्चिन्त्य भगवान्देवो नारायणः प्रभुः |

तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् ||९४||

विरजास्तु महाभाग विभुत्वं भुवि नैच्छत |

न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव ||९५||

कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि पञ्चातिगोऽभवत् |

कर्दमस्तस्य च सुतः सोऽप्यतप्यन्महत्तपः ||९६||

प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः |

प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः ||९७||

अनङ्गपुत्रोऽतिबलो नीतिमानधिगम्य वै |

अभिपेदे महीराज्यमथेन्द्रियवशोऽभवत् ||९८||

मृत्योस्तु दुहिता राजन्सुनीथा नाम मानसी |

प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत् ||९९||

तं प्रजासु विधर्माणं रागद्वेषवशानुगम् |

मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः ||१००||

ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः |

ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि ||१०१||

दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः |

निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः ||१०२||

तस्मान्निषादाः सम्भूताः क्रूराः शैलवनाश्रयाः |

ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः ||१०३||

भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः |

ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः ||१०४||

कवची बद्धनिस्त्रिंशः सशरः सशरासनः |

वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः ||१०५||

तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् |

ततः स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह ||१०६||

सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी |

अनया किं मया कार्यं तन्मे तत्त्वेन शंसत ||१०७||

यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् |

तदहं वै करिष्यामि नात्र कार्या विचारणा ||१०८||

तमूचुरथ देवास्ते ते चैव परमर्षयः |

नियतो यत्र धर्मो वै तमशङ्कः समाचर ||१०९||

प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु |

कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः ||११०||

यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः |

निग्राह्यस्ते स बाहुभ्यां शश्वद्धर्ममवेक्षतः ||१११||

प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा |

पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ||११२||

यश्चात्र धर्मनीत्युक्तो दण्डनीतिव्यपाश्रयः |

तमशङ्कः करिष्यामि स्ववशो न कदाचन ||११३||

अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो |

लोकं च सङ्करात्कृत्स्नात्त्रातास्मीति परन्तप ||११४||

वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् |

ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः ||११५||

एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः |

पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः ||११६||

मन्त्रिणो वालखिल्यास्तु सारस्वत्यो गणो ह्यभूत् |

महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् ||११७||

आत्मनाष्टम इत्येव श्रुतिरेषा परा नृषु |

उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ||११८||

समतां वसुधायाश्च स सम्यगुपपादयत् |

वैषम्यं हि परं भूमेरासीदिति ह नः श्रुतम् ||११९||

स विष्णुना च देवेन शक्रेण विबुधैः सह |

ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः ||१२०||

तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव |

सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः ||१२१||

शक्रश्च धनमक्षय्यं प्रादात्तस्य युधिष्ठिर |

रुक्मं चापि महामेरुः स्वयं कनकपर्वतः ||१२२||

यक्षराक्षसभर्ता च भगवान्नरवाहनः |

धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् ||१२३||

हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा |

प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव ||१२४||

न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा ||१२४||

सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन |

भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात् ||१२५||

तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च |

यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत् ||१२६||

तेन धर्मोत्तरश्चायं कृतो लोको महात्मना |

रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते ||१२७||

ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते |

प्रथिता धनतश्चेयं पृथिवी साधुभिः स्मृता ||१२८||

स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः |

नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति पार्थिव ||१२९||

तपसा भगवान्विष्णुराविवेश च भूमिपम् |

देववन्नरदेवानां नमते यज्जगन्नृप ||१३०||

दण्डनीत्या च सततं रक्षितं तं नरेश्वर |

नाधर्षयत्ततः कश्चिच्चारनित्याच्च दर्शनात् ||१३१||

आत्मना करणैश्चैव समस्येह महीक्षितः |

को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् ||१३२||

विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा |

श्रीः सम्भूता यतो देवी पत्नी धर्मस्य धीमतः ||१३३||

श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव |

अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता ||१३४||

सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् |

पार्थिवो जायते तात दण्डनीतिवशानुगः ||१३५||

महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि |

बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति ||१३६||

स्थापनामथ देवानां न कश्चिदतिवर्तते |

तिष्ठत्येकस्य च वशे तं चेदनुविधीयते ||१३७||

शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते |

तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति ||१३८||

यो ह्यस्य मुखमद्राक्षीत्सोम्य सोऽस्य वशानुगः |

सुभगं चार्थवन्तं च रूपवन्तं च पश्यति ||१३९||

ततो जगति राजेन्द्र सततं शब्दितं बुधैः |

देवाश्च नरदेवाश्च तुल्या इति विशां पते ||१४०||

एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु |

कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम् ||१४१||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.