श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
060-अध्यायः
वैशम्पायन उवाच||
ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् |
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ||१||
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् |
चतुर्णामाश्रमाणां च राजधर्माश्च के मताः ||२||
केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते |
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ||३||
कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा |
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ||४||
केषु विश्वसितव्यं स्याद्राज्ञां कस्याञ्चिदापदि |
कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह ||५||
भीष्म उवाच||
नमो धर्माय महते नमः कृष्णाय वेधसे |
ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् ||६||
अक्रोधः सत्यवचनं संविभागः क्षमा तथा |
प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ||७||
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः |
ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ||८||
दममेव महाराज धर्ममाहुः पुरातनम् |
स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते ||९||
तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि |
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ||१०||
कुर्वीतापत्यसन्तानमथो दद्याद्यजेत च |
संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते ||११||
परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः |
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ||१२||
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत |
दद्याद्राजा न याचेत यजेत न तु याजयेत् ||१३||
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् |
नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् ||१४||
ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः |
य एवाहवजेतारस्त एषां लोकजित्तमाः ||१५||
अविक्षतेन देहेन समराद्यो निवर्तते |
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ||१६||
वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः |
नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिबर्हणात् ||१७||
दानमध्ययनं यज्ञो योगः क्षेमो विधीयते |
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता ||१८||
स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः |
धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् ||१९||
परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात् |
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ||२०||
वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत |
दानमध्ययनं यज्ञः शौचेन धनसञ्चयः ||२१||
पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह |
विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् ||२२||
रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् ||२२||
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् |
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ||२३||
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् |
षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् ||२४||
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे |
सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः ||२५||
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति |
वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन ||२६||
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत |
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ||२७||
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते |
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ||२८||
शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः |
सञ्चयांश्च न कुर्वीत जातु शूद्रः कथञ्चन ||२९||
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः |
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ||३०||
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् |
अवश्यभरणीयो हि वर्णानां शूद्र उच्यते ||३१||
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च |
यातयामानि देयानि शूद्राय परिचारिणे ||३२||
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः |
शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् ||३३||
यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् |
कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः ||३४||
देयः पिण्डोऽनपेताय भर्तव्यौ वृद्धदुर्बलौ ||३४||
शूद्रेण च न हातव्यो भर्ता कस्याञ्चिदापदि |
अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये ||३५||
न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ ||३५||
उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्यैव भारत |
स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते ||३६||
ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम् |
पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ||३७||
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ |
ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ||३८||
अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते |
दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् ||३९||
दैवतं परमं विप्राः स्वेन स्वेन परस्परम् |
अयजन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः ||४०||
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः |
देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत् ||४१||
तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ||४१||
ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः |
अनृग्यजुरसामा तु प्राजापत्य उपद्रवः ||४२||
यज्ञो मनीषया तात सर्ववर्णेषु भारत |
नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः ||४३||
तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ||४३||
स्वं दैवतं ब्राह्मणाः स्वेन नित्यं; परान्वर्णानयजन्नेवमासीत् |
आरोचिता नः सुमहान्स धर्मः; सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः ||४४||
तस्माद्वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः |
एकं साम यजुरेकमृगेका; विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः ||४५||
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः |
वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ||४६||
उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः |
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ||४७||
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् |
बहूनि यज्ञरूपाणि नानाकर्मफलानि च ||४८||
तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः |
द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति ||४९||
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः |
यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् ||५०||
ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् |
सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः ||५१||
न हि यज्ञसमं किञ्चित्त्रिषु लोकेषु विद्यते ||५१||
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता |
श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता ||५२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
061-अध्यायः
भीष्म उवाच||
आश्रमाणां महाबाहो शृणु सत्यपराक्रम |
चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर ||१||
वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् |
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् ||२||
जटाकरणसंस्कारं द्विजातित्वमवाप्य च |
आधानादीनि कर्माणि प्राप्य वेदमधीत्य च ||३||
सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः |
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ||४||
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् |
ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम् ||५||
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् |
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ||६||
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते |
भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः ||७||
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः |
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ||८||
निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान् |
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ||९||
अधीत्य वेदान्कृतसर्वकृत्यः; सन्तानमुत्पाद्य सुखानि भुक्त्वा |
समाहितः प्रचरेद्दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् ||१०||
स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः |
मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश्चानृशंसः क्षमावान् ||११||
दान्तो विधेयो हव्यकव्येऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः |
अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश्च गृहाश्रमी स्यात् ||१२||
अथात्र नारायणगीतमाहु; र्महर्षयस्तात महानुभावाः |
महार्थमत्यर्थतपःप्रयुक्तं; तदुच्यमानं हि मया निबोध ||१३||
सत्यार्जवं चातिथिपूजनं च; धर्मस्तथार्थश्च रतिश्च दारे |
निषेवितव्यानि सुखानि लोके; ह्यस्मिन्परे चैव मतं ममैतत् ||१४||
भरणं पुत्रदाराणां वेदानां पारणं तथा |
सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः ||१५||
एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यमध्यावसते यथावत् |
गृहस्थवृत्तिं प्रविशोध्य सम्य; क्स्वर्गे विषुद्धं फलमाप्नुते सः ||१६||
तस्य देहपरित्यागादिष्टाः कामाक्षया मताः |
आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः ||१७||
खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर |
एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान् ||१८||
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी |
अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा ||१९||
शुश्रूषां सततं कुर्वन्गुरोः सम्प्रणमेत च |
षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः ||२०||
न चरत्यधिकारेण सेवितं द्विषतो न च |
एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते ||२१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
062-अध्यायः
युधिष्ठिर उवाच||
शिवान्सुखान्महोदर्कानहिंस्राँल्लोकसंमतान् |
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् ||१||
भीष्म उवाच||
ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो |
वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम ||२||
उक्तानि कर्माणि बहूनि राज; न्स्वर्ग्याणि राजन्यपरायणानि |
नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत् ||३||
क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन् |
अस्मिँल्लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति ||४||
या सञ्ज्ञा विहिता लोके दासे शुनि वृके पशौ |
विकर्मणि स्थिते विप्रे तां सञ्ज्ञां कुरु पाण्डव ||५||
षट्कर्मसम्प्रवृत्तस्य आश्रमेषु चतुर्ष्वपि |
सर्वधर्मोपपन्नस्य सम्भूतस्य कृतात्मनः ||६||
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च |
निराशिषो वदान्यस्य लोका ह्यक्षरसञ्ज्ञिताः ||७||
यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च |
तादृशं तादृशेनैव स गुणं प्रतिपद्यते ||८||
वृद्ध्या कृषिवणिक्त्वेन जीवसञ्जीवनेन च |
वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् ||९||
कालसञ्चोदितः कालः कालपर्यायनिश्चितः |
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः ||१०||
अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च |
स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः ||११||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
063-अध्यायः
भीष्म उवाच||
ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर्वणिज्या पशुपालनं च |
शुश्रूषणं चापि तथार्थहेतो; रकार्यमेतत्परमं द्विजस्य ||१||
सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा |
कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते ||२||
राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया |
कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् ||३||
शूद्रो राजन्भवति ब्रह्मबन्धु; र्दुश्चारित्र्यो यश्च धर्मादपेतः |
वृषलीपतिः पिशुनो नर्तकश्च; ग्रामप्रैष्यो यश्च भवेद्विकर्मा ||४||
जपन्वेदानजपंश्चापि राज; न्समः शूद्रैर्दासवच्चापि भोज्यः |
एते सर्वे शूद्रसमा भवन्ति; राजन्नेतान्वर्जयेद्देवकृत्ये ||५||
निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते |
हव्यं कव्यं यानि चान्यानि राज; न्देयान्यदेयानि भवन्ति तस्मिन् ||६||
तस्माद्धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन् |
तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन्ब्रह्मणा वै निसृष्टाः ||७||
यः स्याद्दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः |
ऋजुर्मृदुरनृशंसः क्षमावा; न्स वै विप्रो नेतरः पापकर्मा ||८||
शूद्रं वैश्यं राजपुत्रं च राजँ; ल्लोकाः सर्वे संश्रिता धर्मकामाः |
तस्माद्वर्णाञ्जातिधर्मेषु सक्ता; न्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र ||९||
लोके चेदं सर्वलोकस्य न स्या; च्चातुर्वर्ण्यं वेदवादाश्च न स्युः |
सर्वाश्चेज्याः सर्वलोकक्रियाश्च; सद्यः सर्वे चाश्रमस्था न वै स्युः ||१०||
यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् |
कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव ||११||
शुश्रूषाकृतकृत्यस्य कृतसन्तानकर्मणः |
अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ||१२||
अल्पान्तरगतस्यापि दशधर्मगतस्य वा |
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् ||१३||
भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः |
तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि ||१४||
कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः |
वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम् ||१५||
वेदानधीत्य धर्मेण राजशास्त्राणि चानघ |
सन्तानादीनि कर्माणि कृत्वा सोमं निषेव्य च ||१६||
पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर |
राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च ||१७||
समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः |
सङ्ग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु ||१८||
स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव |
अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ ||१९||
अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि |
देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः ||२०||
अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम् |
आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् ||२१||
राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया |
अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया ||२२||
न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ |
चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् ||२३||
बह्वायत्तं क्षत्रियैर्मानवानां; लोकश्रेष्ठं धर्ममासेवमानैः |
सर्वे धर्माः सोपधर्मास्त्रयाणां; राज्ञो धर्मादिति वेदाच्छृणोमि ||२४||
यथा राजन्हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि |
एवं धर्मान्राजधर्मेषु सर्वा; न्सर्वावस्थं सम्प्रलीनान्निबोध ||२५||
अल्पाश्रयानल्पफलान्वदन्ति; धर्मानन्यान्धर्मविदो मनुष्याः |
महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुरार्याः ||२६||
सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति |
सर्वत्यागो राजधर्मेषु राजं; स्त्यागे चाहुर्धर्ममग्र्यं पुराणम् ||२७||
मज्जेत्त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर्विरुद्धाः |
सर्वे धर्माश्चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे ||२८||
सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः |
सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान्प्रविष्टाः ||२९||
यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानामुपपीडनाय |
एवं धर्मा राजधर्मैर्वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम् ||३०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
064-अध्यायः
इन्द्रमान्धातृसंवादः
भीष्म उवाच||
चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव |
लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः ||१||
सर्वाण्येतानि धर्माणि क्षात्रे भरतसत्तम |
निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः ||२||
अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम् |
प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ||३||
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम् |
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ||४||
प्रत्यक्षसुखभूयिष्ठमात्मसाक्षिकमच्छलम् |
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् ||५||
धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर |
यथा त्रयाणां वर्णानां सङ्ख्यातोपश्रुतिः पुरा ||६||
राजधर्मेष्वनुपमा लोक्या सुचरितैरिह ||६||
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् |
सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा ||७||
जग्मुः सुबहवः शूरा राजानो दण्डनीतये ||७||
एकैकमात्मनः कर्म तुलयित्वाश्रमे पुरा |
राजानः पर्युपातिष्ठन्दृष्टान्तवचने स्थिताः ||८||
साध्या देवा वसवश्चाश्विनौ च; रुद्राश्च विश्वे मरुतां गणाश्च |
सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ||९||
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम् |
निर्मर्यादे वर्तमाने दानवैकायने कृते ||१०||
बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ||१०||
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया |
अनादिमध्यनिधनं देवं नारायणं प्रति ||११||
स राजा राजशार्दूल मान्धाता परमेष्ठिनः |
जग्राह शिरसा पादौ यज्ञे विष्णोर्महात्मनः ||१२||
दर्शयामास तं विष्णू रूपमास्थाय वासवम् |
स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् ||१३||
तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः |
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युते ||१४||
इन्द्र उवाच||
किमिष्यते धर्मभृतां वरिष्ठ; यद्द्रष्टुकामोऽसि तमप्रमेयम् |
अनन्तमायामितसत्त्ववीर्यं; नारायणं ह्यादिदेवं पुराणम् ||१५||
नासौ देवो विश्वरूपो मयापि; शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात् |
येऽन्ये कामास्तव राजन्हृदिस्था; दास्यामि तांस्त्वं हि मर्त्येषु राजा ||१६||
सत्ये स्थितो धर्मपरो जितेन्द्रियः; शूरो दृढं प्रीतिरतः सुराणाम् |
बुद्ध्या भक्त्या चोत्तमश्रद्धया च; ततस्तेऽहं दद्मि वरं यथेष्टम् ||१७||
मान्धातोवाच||
असंशयं भगवन्नादिदेवं; द्रक्ष्याम्यहं शिरसाहं प्रसाद्य |
त्यक्त्वा भोगान्धर्मकामो ह्यरण्य; मिच्छे गन्तुं सत्पथं लोकजुष्टम् ||१८||
क्षात्राद्धर्माद्विपुलादप्रमेया; ल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च |
धर्मो योऽसावादिदेवात्प्रवृत्तो; लोकज्येष्ठस्तं न जानामि कर्तुम् ||१९||
इन्द्र उवाच||
असैनिकोऽधर्मपरश्चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः |
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः; पश्चादन्ये शेषभूताश्च धर्माः ||२०||
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः |
अस्मिन्धर्मे सर्वधर्माः प्रविष्टा; स्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति ||२१||
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः |
त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना ||२२||
यदि ह्यसौ भगवान्नाहनिष्य; द्रिपून्सर्वान्वसुमानप्रमेयः |
न ब्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेयुः ||२३||
इमामुर्वीं न जयेद्विक्रमेण; देवश्रेष्ठोऽसौ पुरा चेदमेयः |
चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर्ब्रह्मणो वै विनाशात् ||२४||
दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः |
युगे युगे ह्यादिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति ||२५||
आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च |
विषण्णानां मोक्षणं पीडितानां; क्षात्रे धर्मे विद्यते पार्थिवानाम् ||२६||
निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम् |
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति ||२७||
पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः |
लोके भूतानि सर्वाणि विचरन्ति न संशयः ||२८||
सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् |
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ||२९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
065-अध्यायः
इन्द्र उवाच||
एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः |
पाल्यो युष्माभिर्लोकसिंहैरुदारै; र्विपर्यये स्यादभावः प्रजानाम् ||१||
भुवः संस्कारं राजसंस्कारयोग; मभैक्षचर्यां पालनं च प्रजानाम् |
विद्याद्राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्ममग्र्यम् ||२||
त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत |
नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते ||३||
बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद्वदन्ति |
नित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेदेको ह्याश्रमं धर्मकामः ||४||
सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्नेव यत्नात् |
चातुर्वर्ण्यस्थापनात्पालनाच्च; तैस्तैर्योगैर्नियमैरौरसैश्च ||५||
सर्वोद्योगैराश्रमं धर्ममाहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् |
स्वं स्वं धर्मं ये न चरन्ति वर्णा; स्तांस्तान्धर्मानयथावद्वदन्ति ||६||
निर्मर्यादे नित्यमर्थे विनष्टा; नाहुस्तान्वै पशुभूतान्मनुष्यान् |
यथा नीतिं गमयत्यर्थलोभा; च्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः ||७||
त्रैविद्यानां या गतिर्ब्राह्मणानां; यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम् |
एतत्कर्म ब्राह्मणस्याहुरग्र्य; मन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः ||८||
चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव |
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथञ्चन ||९||
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते |
कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः ||१०||
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति |
कर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः ||११||
एते धर्माः सर्ववर्णाश्च वीरै; रुत्क्रष्टव्याः क्षत्रियैरेष धर्मः |
तस्माज्ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे ||१२||
मान्धातोवाच||
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः |
शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः ||१३||
ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः |
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ||१४||
कथं धर्मं चरेयुस्ते सर्वे विषयवासिनः |
मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः ||१५||
एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मे |
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ||१६||
इन्द्र उवाच||
मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः |
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ||१७||
भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः |
वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते ||१८||
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च |
दानानि च यथाकालं द्विजेषु दद्युरेव ते ||१९||
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् |
भरणं पुत्रदाराणां शौचमद्रोह एव च ||२०||
दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता |
पाकयज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः ||२१||
एतान्येवम्प्रकाराणि विहितानि पुरानघ |
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ||२२||
मान्धातोवाच||
दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः |
लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि ||२३||
इन्द्र उवाच||
विनष्टायां दण्डनीतौ राजधर्मे निराकृते |
सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप ||२४||
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा |
आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे ||२५||
अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः |
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ||२६||
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः |
तदा धर्मो न चलते सद्भूतः शाश्वतः परः ||२७||
परलोकगुरुं चैव राजानं योऽवमन्यते |
न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् ||२८||
मानुषाणामधिपतिं देवभूतं सनातनम् |
देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम् ||२९||
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् |
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ||३०||
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् |
स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् ||३१||
भीष्म उवाच||
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः |
जगाम भवनं विष्णुरक्षरं परमं पदम् ||३२||
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ |
कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः ||३३||
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च |
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः ||३४||
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे |
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ||३५||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
066-अध्यायः
युधिष्ठिर उवाच||
श्रुता मे कथिताः पूर्वैश्चत्वारो मानवाश्रमाः |
व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह ||१||
भीष्म उवाच||
विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर |
यथा मम महाबाहो विदिताः साधुसंमताः ||२||
यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर |
धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप ||३||
सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ |
साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् ||४||
अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर |
समेक्षिणश्च भूतेषु भैक्षाश्रमपदं भवेत् ||५||
वेत्त्यादानविसर्गं यो निग्रहानुग्रहौ तथा |
यथोक्तवृत्तेर्वीरस्य क्षेमाश्रमपदं भवेत् ||६||
ज्ञातिसम्बन्धिमित्राणि व्यापन्नानि युधिष्ठिर |
समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् ||७||
आह्निकं भूतयज्ञांश्च पितृयज्ञांश्च मानुषान् |
कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् ||८||
पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात् |
दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत् ||९||
वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम् |
तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् ||१०||
अजिह्ममशठं मार्गं सेवमानस्य भारत |
सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् ||११||
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत |
प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् ||१२||
सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत |
आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् ||१३||
बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर |
अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् ||१४||
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह |
शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत् ||१५||
चराचराणां भूतानां रक्षामपि च सर्वशः |
यथार्हपूजां च सदा कुर्वन्गार्हस्थ्यमावसेत् ||१६||
ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् |
निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः ||१७||
साधूनामर्चनीयानां प्रजासु विदितात्मनाम् |
पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् ||१८||
आश्रमस्थानि सर्वाणि यस्तु वेश्मनि भारत |
आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर ||१९||
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् |
आश्रमाणां स सर्वेषां फलं प्राप्नोत्यनुत्तमम् ||२०||
यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा |
आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर ||२१||
स्थानमानं वयोमानं कुलमानं तथैव च |
कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर ||२२||
देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च |
पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् ||२३||
काले विभूतिं भूतानामुपहारांस्तथैव च |
अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् ||२४||
दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते |
सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी ||२५||
ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः |
पालिता यस्य विषये पादोंऽशस्तस्य भूपतेः ||२६||
धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् |
पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ||२७||
ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर |
ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ ||२८||
सर्वाश्रमपदे ह्याहुर्गार्हस्थ्यं दीप्तनिर्णयम् |
पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे ||२९||
आत्मोपमस्तु भूतेषु यो वै भवति मानवः |
न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् ||३०||
धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा |
त्यागवाताध्वगा शीघ्रा नौस्त्वा सन्तारयिष्यति ||३१||
यदा निवृत्तः सर्वस्मात्कामो योऽस्य हृदि स्थितः |
तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते ||३२||
सुप्रसन्नस्तु भावेन योगेन च नराधिप |
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ||३३||
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् |
पालने यत्नमातिष्ठ सर्वलोकस्य चानघ ||३४||
वने चरति यो धर्ममाश्रमेषु च भारत |
रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः ||३५||
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः |
अनुतिष्ठ त्वमेनं वै पूर्वैर्दृष्टं सनातनम् ||३६||
चातुराश्रम्यमेकाग्रः चातुर्वर्ण्यं च पाण्डव |
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ||३७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
067-अध्यायः
मनुराजकरणोपन्यासः
युधिष्ठिर उवाच||
चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च |
राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम् |
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च ||२||
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते |
परस्परं च खादन्ति सर्वथा धिगराजकम् ||३||
इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः |
यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ||४||
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् |
नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि ||५||
अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः |
अराजकानि राष्ट्राणि हतराजानि वा पुनः ||६||
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् |
न हि पापात्पापतरमस्ति किञ्चिदराजकात् ||७||
स चेत्समनुपश्येत समग्रं कुशलं भवेत् |
बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि ||८||
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा |
सुदुहा या तु भवति नैव तां क्लेशयन्त्युत ||९||
यदतप्तं प्रणमति न तत्सन्तापयन्त्युत |
यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ||१०||
एतयोपमया धीरः संनमेत बलीयसे |
इन्द्राय स प्रणमते नमते यो बलीयसे ||११||
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता |
न धनार्थो न दारार्थस्तेषां येषामराजकम् ||१२||
प्रीयते हि हरन्पापः परवित्तमराजके |
यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति ||१३||
पापा अपि तदा क्षेमं न लभन्ते कदाचन |
एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे ||१४||
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः |
एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे ||१५||
राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः |
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ||१६||
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् |
परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ||१७||
ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम् |
वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः ||१८||
यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति ||१८||
विश्वासनार्थं वर्णानां सर्वेषामविशेषतः |
तास्तथा समयं कृत्वा समये नावतस्थिरे ||१९||
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् |
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ||२०||
यं पूजयेम सम्भूय यश्च नः परिपालयेत् |
ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ||२१||
मनुरुवाच||
बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम् |
विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा ||२२||
भीष्म उवाच||
तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति |
पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च ||२३||
धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् ||२३||
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः |
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ||२४||
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् |
सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान् ||२५||
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः |
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ||२६||
तेन धर्मेण महता सुखलब्धेन भावितः |
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ||२७||
विजयायाशु निर्याहि प्रतपन्रश्मिमानिव |
मानं विधम शत्रूणां धर्मो जयतु नः सदा ||२८||
स निर्ययौ महातेजा बलेन महता वृतः |
महाभिजनसम्पन्नस्तेजसा प्रज्वलन्निव ||२९||
तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः |
अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः ||३०||
ततो महीं परिययौ पर्जन्य इव वृष्टिमान् |
शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ||३१||
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् |
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ||३२||
नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा |
देवा इव सहस्राक्षं प्रजा राजानमन्तिके ||३३||
सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते |
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत ||३४||
राज्ञः परैः परिभवः सर्वेषामसुखावहः |
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ||३५||
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च |
आसनानि च शय्याश्च सर्वोपकरणानि च ||३६||
गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता |
आभाषितश्च मधुरं प्रतिभाषेत मानवान् ||३७||
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः |
ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च ||३८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
068-अध्यायः
बृहस्पतिकौसल्यसंवादः
युधिष्ठिर उवाच||
किमाहुर्दैवतं विप्रा राजानं भरतर्षभ |
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
बृहस्पतिं वसुमना यथा पप्रच्छ भारत ||२||
राजा वसुमना नाम कौसल्यो धीमतां वरः |
महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् ||३||
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः |
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ||४||
विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः |
प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते ||५||
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च |
कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः ||६||
इति पृष्टो महाराज्ञा कौसल्येनामितौजसा |
राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः ||७||
राजमूलो महाराज धर्मो लोकस्य लक्ष्यते |
प्रजा राजभयादेव न खादन्ति परस्परम् ||८||
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् |
प्रसादयति धर्मेण प्रसाद्य च विराजते ||९||
यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः |
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ||१०||
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः |
विहरेयुर्यथाकाममभिसृत्य पुनः पुनः ||११||
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् |
अभावमचिरेणैव गच्छेयुर्नात्र संशयः ||१२||
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः |
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ||१३||
हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान् |
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ||१४||
यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च |
हरेयुः सहसा पापा यदि राजा न पालयेत् ||१५||
ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः |
विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् ||१६||
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् |
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ||१७||
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु |
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ||१८||
वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् |
ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ||१९||
अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत् |
पतेच्च नरकं घोरं यदि राजा न पालयेत् ||२०||
न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः |
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ||२१||
न यज्ञाः सम्प्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः |
न विवाहाः समाजा वा यदि राजा न पालयेत् ||२२||
न वृषाः सम्प्रवर्तेरन्न मथ्येरंश्च गर्गराः |
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ||२३||
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् |
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ||२४||
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः |
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ||२५||
ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः |
विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत् ||२६||
हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः |
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ||२७||
न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः |
कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ||२८||
अनयाः सम्प्रवर्तेरन्भवेद्वै वर्णसङ्करः |
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ||२९||
विवृत्य हि यथाकामं गृहद्वाराणि शेरते |
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ||३०||
नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम् |
यदि राजा मनुष्येषु त्राता भवति धार्मिकः ||३१||
स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः |
निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः ||३२||
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् |
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ||३३||
यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः |
युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः ||३४||
वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा |
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ||३५||
यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः |
महता बलयोगेन तदा लोकः प्रसीदति ||३६||
यस्याभावे च भूतानामभावः स्यात्समन्ततः |
भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत् ||३७||
तस्य यो वहते भारं सर्वलोकसुखावहम् |
तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् ||३८||
यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत् |
असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत् ||३९||
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः |
महती देवता ह्येषा नररूपेण तिष्ठति ||४०||
कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा |
भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः ||४१||
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा |
मिथ्योपचरितो राजा तदा भवति पावकः ||४२||
यदा पश्यति चारेण सर्वभूतानि भूमिपः |
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ||४३||
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् |
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः ||४४||
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति |
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ||४५||
यदा तु धनधाराभिस्तर्पयत्युपकारिणः |
आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् ||४६||
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति |
तदा वैश्रवणो राजँल्लोके भवति भूमिपः ||४७||
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा |
धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता ||४८||
न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् |
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ||४९||
कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः |
न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते ||५०||
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् |
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ||५१||
नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन् |
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ||५२||
महान्तं नरकं घोरमप्रतिष्ठमचेतसः |
पतन्ति चिररात्राय राजवित्तापहारिणः ||५३||
राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः |
य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति ||५४||
तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः |
मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम् ||५५||
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् |
धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः ||५६||
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् |
शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत् ||५७||
राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम् |
राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति ||५८||
राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखमुत्तमं च |
यमाश्रिता लोकमिमं परं च; जयन्ति सम्यक्पुरुषा नरेन्द्रम् ||५९||
नराधिपश्चाप्यनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन |
महद्भिरिष्ट्वा क्रतुभिर्महायशा; स्त्रिविष्टपे स्थानमुपैति सत्कृतम् ||६०||
स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः |
प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम् ||६१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
069-अध्यायः
युधिष्ठिर उवाच||
पार्थिवेन विशेषेण किं कार्यमवशिष्यते |
कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ||१||
कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् |
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ||२||
भीष्म उवाच||
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् |
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ||३||
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः |
अजितात्मा नरपतिर्विजयेत कथं रिपून् ||४||
एतावानात्मविजयः पञ्चवर्गविनिग्रहः |
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् ||५||
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन |
नगरोपवने चैव पुरोद्यानेषु चैव ह ||६||
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च |
मध्ये च नरशार्दूल तथा राजनिवेशने ||७||
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् |
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् ||८||
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च |
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ||९||
पुरे जनपदे चैव तथा सामन्तराजसु |
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ||१०||
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ |
आपणेषु विहारेषु समवायेषु भिक्षुषु ||११||
आरामेषु तथोद्याने पण्डितानां समागमे |
वेशेषु चत्वरे चैव सभास्वावसथेषु च ||१२||
एवं विहन्याच्चारेण परचारं विचक्षणः |
चारेण विहतं सर्वं हतं भवति पाण्डव ||१३||
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना |
अमात्यैः सह संमन्त्र्य कुर्यात्सन्धिं बलीयसा ||१४||
अज्ञायमानो हीनत्वे कुर्यात्सन्धिं परेण वै |
लिप्सुर्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः ||१५||
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये |
संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ||१६||
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः |
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ||१७||
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः |
अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ||१८||
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् |
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ||१९||
यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी |
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ||२०||
न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान् |
हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् ||२१||
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः |
अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ||२२||
वर्जनीयं सदा युद्धं राज्यकामेन धीमता ||२२||
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः |
सान्त्वेनानुप्रदानेन भेदेन च नराधिप ||२३||
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः ||२३||
आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन |
षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये ||२४||
दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च |
तन्नाददीत सहसा पौराणां रक्षणाय वै ||२५||
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः |
भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ||२६||
सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम् |
व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ||२७||
आकरे लवणे शुल्के तरे नागवने तथा |
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ||२८||
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् |
नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते ||२९||
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् |
दानशीलश्च सततं यज्ञशीलश्च भारत ||३०||
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः |
क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ||३१||
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा |
त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् ||३२||
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि |
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ||३३||
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् |
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ||३४||
सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः |
असम्भवे प्रवेशस्य दाहयेदग्निना भृशम् ||३५||
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् |
विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै ||३६||
नदीषु मार्गेषु सदा सङ्क्रमानवसादयेत् |
जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् ||३७||
तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम् |
प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते ||३८||
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् |
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ||३९||
प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा |
चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् ||४०||
प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा |
आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः ||४१||
कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह |
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ||४२||
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा |
आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ||४३||
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् |
संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः ||४४||
तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् |
निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः ||४५||
नक्तमेव च भक्तानि पाचयेत नराधिपः |
न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् ||४६||
कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः |
गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः ||४७||
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् |
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै ||४८||
भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान् |
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा ||४९||
चत्वरेषु च तीर्थेषु सभास्वावसथेषु च |
यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ||५०||
विशालान्राजमार्गांश्च कारयेत नराधिपः |
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ||५१||
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः |
अश्वागारान्गजागारान्बलाधिकरणानि च ||५२||
परिखाश्चैव कौरव्य प्रतोलीः सङ्कटानि च |
न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर ||५३||
अथ संनिचयं कुर्याद्राजा परबलार्दितः |
तैलं मधु घृतं सस्यमौषधानि च सर्वशः ||५४||
अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् |
यवसेन्धनदिग्धानां कारयेत च सञ्चयान् ||५५||
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् |
सञ्चयानेवमादीनां कारयेत नराधिपः ||५६||
औषधानि च सर्वाणि मूलानि च फलानि च |
चतुर्विधांश्च वैद्यान्वै सङ्गृह्णीयाद्विशेषतः ||५७||
नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा |
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ||५८||
यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः |
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ||५९||
कृते कर्मणि राजेन्द्र पूजयेद्धनसञ्चयैः |
मानेन च यथार्हेण सान्त्वेन विविधेन च ||६०||
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन |
गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् ||६१||
राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे |
आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि ||६२||
तथा जनपदश्चैव पुरं च कुरुनन्दन |
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ||६३||
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा |
यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् ||६४||
षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर |
सन्धायासनमित्येव यात्रासन्धानमेव च ||६५||
विगृह्यासनमित्येव यात्रां सम्परिगृह्य च |
द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च ||६६||
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु |
क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा ||६७||
धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः |
धर्मेण हि महीपालश्चिरं पालयते महीम् ||६८||
अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम् |
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ||६९||
कृत्वा सर्वाणि कार्याणि सम्यक्सम्पाल्य मेदिनीम् |
पालयित्वा तथा पौरान्परत्र सुखमेधते ||७०||
किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि |
अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः ||७१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
070-अध्यायः
युधिष्ठिर उवाच||
दण्डनीतिश्च राजा च समस्तौ तावुभावपि |
कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः |
शृणु मे शंसतो राजन्यथावदिह भारत ||२||
दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति |
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ||३||
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसङ्करे |
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये ||४||
सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि |
तस्माद्देवमनुष्याणां सुखं विद्धि समाहितम् ||५||
कालो वा कारणं राज्ञो राजा वा कालकारणम् |
इति ते संशयो मा भूद्राजा कालस्य कारणम् ||६||
दण्डनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते |
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ||७||
भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् |
सर्वेषामेव वर्णानां नाधर्मे रमते मनः ||८||
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः |
वैदिकानि च कर्माणि भवन्त्यविगुणान्युत ||९||
ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः |
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च ||१०||
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः |
विधवा न भवन्त्यत्र नृशंसो नाभिजायते ||११||
अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा |
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च ||१२||
नाधर्मो विद्यते तत्र धर्म एव तु केवलः |
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर ||१३||
दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते |
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते ||१४||
अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते |
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा ||१५||
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते |
ततस्तु द्वापरं नाम स कालः सम्प्रवर्तते ||१६||
अशुभस्य तदा अर्धं द्वावंशावनुवर्तते |
कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा ||१७||
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः |
प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः ||१८||
कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित् |
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः ||१९||
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया |
योगक्षेमस्य नाशश्च वर्तते वर्णसङ्करः ||२०||
वैदिकानि च कर्माणि भवन्ति विगुणान्युत |
ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा ||२१||
ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत |
व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः ||२२||
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा |
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति ||२३||
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः |
प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः ||२४||
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च |
युगस्य च चतुर्थस्य राजा भवति कारणम् ||२५||
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते |
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ||२६||
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते |
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ||२७||
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः |
प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति ||२८||
दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा |
अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् ||२९||
लोकस्य सीमन्तकरी मर्यादा लोकभावनी |
सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता ||३०||
यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ |
एष एव परो धर्मो यद्राजा दण्डनीतिमान् ||३१||
तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् |
एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् ||३२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
071-अध्यायः
युधिष्ठिर उवाच||
केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः |
सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाप्नुयात् ||१||
भीष्म उवाच||
इयं गुणानां षट्त्रिंशत्षट्त्रिंशद्गुणसंयुता |
यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् ||२||
चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न नास्तिकः |
अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ||३||
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः |
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ||४||
संदधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः |
नानाप्तैः कारयेच्चारं कुर्यात्कार्यमपीडया ||५||
अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः |
आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ||६||
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् |
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ||७||
अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः |
स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ||८||
अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया |
अर्चेद्देवान्न दम्भेन श्रियमिच्छेदकुत्सिताम् ||९||
सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् |
सान्त्वयेन्न च भोगार्थमनुगृह्णन्न चाक्षिपेत् ||१०||
प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शेषयेत् |
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ||११||
एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि |
अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ||१२||
इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते |
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ||१३||
वैशम्पायन उवाच||
इदं वचः शान्तनवस्य शुश्रुवा; न्युधिष्ठिरः पाण्डवमुख्यसंवृतः |
तदा ववन्दे च पितामहं नृपो; यथोक्तमेतच्च चकार बुद्धिमान् ||१४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
072-अध्यायः
युधिष्ठिर उवाच||
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते |
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् |
विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ||२||
धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान् |
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ||३||
प्रत्युत्थायोपसङ्गृह्य चरणावभिवाद्य च |
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ||४||
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च |
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ||५||
आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत |
अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ||६||
कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति |
न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ||७||
मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः |
अलुब्धान्बुद्धिसम्पन्नान्सर्वकर्मसु योजयेत् ||८||
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः |
प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ||९||
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् |
शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ||१०||
दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि |
अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ||११||
गोपायितारं दातारं धर्मनित्यमतन्द्रितम् |
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ||१२||
मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम् |
धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ||१३||
अपशास्त्रपरो राजा सञ्चयान्नाधिगच्छति |
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ||१४||
अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः |
करैरशास्त्रदृष्टैर्हि मोहात्सम्पीडयन्प्रजाः ||१५||
ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः |
एवं राष्ट्रमयोगेन पीडितं न विवर्धते ||१६||
यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः |
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ||१७||
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् |
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ||१८||
दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता |
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ||१९||
मालाकारोपमो राजन्भव माङ्गारिकोपमः |
तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् ||२०||
परचक्राभियानेन यदि ते स्याद्धनक्षयः |
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ||२१||
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः |
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ||२२||
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः |
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ||२३||
एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन् |
स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ||२४||
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव |
युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ||२५||
एष एव परो धर्मो यद्राजा रक्षते प्रजाः |
भूतानां हि यथा धर्मे रक्षणं च परा दया ||२६||
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः |
यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ||२७||
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः |
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ||२८||
यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् |
दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ||२९||
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः |
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ||३०||
एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् |
इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे ||३१||
स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव |
असम्भवश्च धर्माणामीदृशानामराजसु ||३२||
तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ||३२||
स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन् |
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ||३३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
073-अध्यायः
पुरुरवःपवनसंवादः
भीष्म उवाच||
य एव तु सतो रक्षेदसतश्च निबर्हयेत् |
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ||१||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
पुरूरवस ऐलस्य संवादं मातरिश्वनः ||२||
ऐल उवाच||
कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः |
कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे ||३||
वायुरुवाच||
ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम |
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते ||४||
वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ |
वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः ||५||
ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत |
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ||६||
ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् |
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ||७||
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् |
शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम् ||८||
ऐल उवाच||
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् |
धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ||९||
वायुरुवाच||
विप्रस्य सर्वमेवैतद्यत्किञ्चिज्जगतीगतम् |
ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ||१०||
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च |
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ||११||
पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् |
आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् ||१२||
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः |
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ||१३||
यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत् |
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने ||१४||
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् |
यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया ||१५||
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् |
श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् ||१६||
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् |
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ||१७||
तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति |
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ||१८||
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः |
सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ||१९||
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः |
चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति ||२०||
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः |
यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके ||२१||
इतो दत्तेन जीवन्ति देवताः पितरस्तथा |
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ||२२||
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति |
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति ||२३||
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः |
तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् ||२४||
अभयस्यैव यो दाता तस्यैव सुमहत्फलम् |
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ||२५||
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च |
राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम् ||२६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
074-अध्यायः
ऐलकश्यपसंवादः
भीष्म उवाच||
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः |
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ||१||
धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः |
राजा चैवं गुणो येषां कुशलं तेषु सर्वशः ||२||
उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन् |
यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ||३||
परस्परस्य सुहृदौ संमतौ समचेतसौ |
ब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः ||४||
विमाननात्तयोरेव प्रजा नश्येयुरेव ह |
ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते ||५||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ||६||
ऐल उवाच||
यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म |
अन्वग्बलं कतमेऽस्मिन्भजन्ते; तथाबल्यं कतमेऽस्मिन्वियन्ति ||७||
कश्यप उवाच||
व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते ह |
अन्वग्बलं दस्यवस्तद्भजन्ते; ऽबल्यं तथा तत्र वियन्ति सन्तः ||८||
नैषामुक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते |
नैषां पुत्रा वेदमधीयते च; यदा ब्रह्म क्षत्रियाः सन्त्यजन्ति ||९||
नैषामुक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते |
अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान्सन्त्यजन्ति ||१०||
एतौ हि नित्यसंयुक्तावितरेतरधारणे |
क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः ||११||
उभावेतौ नित्यमभिप्रपन्नौ; सम्प्रापतुर्महतीं श्रीप्रतिष्ठाम् |
तयोः सन्धिर्भिद्यते चेत्पुराण; स्ततः सर्वं भवति हि सम्प्रमूढम् ||१२||
नात्र प्लवं लभते पारगामी; महागाधे नौरिव सम्प्रणुन्ना |
चातुर्वर्ण्यं भवति च सम्प्रमूढं; ततः प्रजाः क्षयसंस्था भवन्ति ||१३||
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति |
अरक्ष्यमाणः सततमश्रु पापं च वर्षति ||१४||
अब्रह्मचारी चरणादपेतो; यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत् |
आश्चर्यशो वर्षति तत्र देव; स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति ||१५||
स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभतेऽनुवादम् |
राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य ||१६||
पापैः पापे क्रियमाणेऽतिवेलं; ततो रुद्रो जायते देव एषः |
पापैः पापाः सञ्जनयन्ति रुद्रं; ततः सर्वान्साध्वसाधून्हिनस्ति ||१७||
ऐल उवाच||
कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम् |
एतद्विद्वन्कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः ||१८||
कश्यप उवाच||
आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति |
वातोत्पातैः सदृशं रुद्रमाहु; र्दावैर्जीमूतैः सदृशं रूपमस्य ||१९||
ऐल उवाच||
न वै वातं परिवृनोति कश्चि; न्न जीमूतो वर्षति नैव दावः |
तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद्बध्यते मुच्यते च ||२०||
कश्यप उवाच||
यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत्स त्वरावान् |
विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः ||२१||
ऐल उवाच||
यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणेऽविशेषात् |
कस्य हेतोः सुकृतं नाम कुर्या; द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ||२२||
कश्यप उवाच||
असन्त्यागात्पापकृतामपापां; स्तुल्यो दण्डः स्पृशते मिश्रभावात् |
शुष्केणार्द्रं दह्यते मिश्रभावा; न्न मिश्रः स्यात्पापकृद्भिः कथञ्चित् ||२३||
ऐल उवाच||
साध्वसाधून्धारयतीह भूमिः; साध्वसाधूंस्तापयतीह सूर्यः |
साध्वसाधून्वातयतीह वायु; रापस्तथा साध्वसाधून्वहन्ति ||२४||
कश्यप उवाच||
एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र |
प्रेत्यैतयोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम् ||२५||
पुण्यस्य लोको मधुमान्घृतार्चि; र्हिरण्यज्योतिरमृतस्य नाभिः |
तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम् ||२६||
पापस्य लोको निरयोऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव |
तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्नप्रतिष्ठः ||२७||
मिथो भेदाद्ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति |
एवं ज्ञात्वा कार्य एवेह विद्वा; न्पुरोहितो नैकविद्यो नृपेण ||२८||
तं चैवान्वभिषिच्येत तथा धर्मो विधीयते |
अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः ||२९||
पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः |
ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् ||३०||
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् |
सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः ||३१||
अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि |
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते ||३२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
075-अध्यायः
मुचकुन्दोपाख्यानम्
भीष्म उवाच||
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते |
योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते ||१||
यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत |
दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते ||२||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ||३||
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः |
जिज्ञासमानः स्वबलमभ्ययादलकाधिपम् ||४||
ततो वैश्रवणो राजा रक्षांसि समवासृजत् |
ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः ||५||
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः |
गर्हयामास विद्वांसं पुरोहितमरिंदमः ||६||
तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः |
रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत ||७||
ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत् |
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ||८||
त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः |
न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे ||९||
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः |
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ||१०||
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि |
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ||११||
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् |
न्यायपूर्वमसंरब्धमसम्भ्रान्तमिदं वचः ||१२||
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा |
पृथग्बलविधानं च तल्लोकं परिरक्षति ||१३||
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् |
अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ||१४||
ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम् |
तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप ||१५||
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् |
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ||१६||
नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिव |
प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम् ||१७||
मुचुकुन्द उवाच||
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव |
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ||१८||
भीष्म उवाच||
ततो वैश्रवणो राजा विस्मयं परमं ययौ |
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसम्भ्रमम् ||१९||
ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुन्धराम् |
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ||२०||
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते |
जयत्यविजितामुर्वीं यशश्च महदश्नुते ||२१||
नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः |
तयोर्हि सर्वमायत्तं यत्किञ्चिज्जगतीगतम् ||२२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
076-अध्यायः
युधिष्ठिर उवाच||
यया वृत्त्या महीपालो विवर्धयति मानवान् |
पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
दानशीलो भवेद्राजा यज्ञशीलश्च भारत |
उपवासतपःशीलः प्रजानां पालने रतः ||२||
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत् |
उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान् ||३||
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते |
यद्यदाचरते राजा तत्प्रजानां हि रोचते ||४||
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु |
निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत् ||५||
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः |
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ||६||
यदधीते यद्यजते यद्ददाति यदर्चति |
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् ||७||
यद्राष्ट्रेऽकुशलं किञ्चिद्राज्ञोऽरक्षयतः प्रजाः |
चतुर्थं तस्य पापस्य राजा भारत विन्दति ||८||
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः |
कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि ||९||
तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते ||९||
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि |
स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता ||१०||
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा |
न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु ||११||
ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् |
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः ||१२||
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः |
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् ||१३||
न हि कामात्मना राज्ञा सततं शठबुद्धिना |
नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः ||१४||
युधिष्ठिर उवाच||
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् |
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते ||१५||
तदलं मम राज्येन यत्र धर्मो न विद्यते |
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया ||१६||
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः |
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः ||१७||
भीष्म उवाच||
वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा |
न च शुद्धानृशंस्येन शक्यं महदुपासितुम् ||१८||
अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम् |
क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते ||१९||
राजधर्मानवेक्षस्व पितृपैतामहोचितान् |
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि ||२०||
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः |
प्रजापालनसम्भूतं प्राप्ता धर्मफलं ह्यसि ||२१||
न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत |
न चैतां प्राज्ञतां तात यया चरसि मेधया ||२२||
शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत् |
माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत ||२३||
नित्यं स्वाहा स्वधा नित्यमुभे मानुषदैवते |
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ||२४||
दानमध्ययनं यज्ञः प्रजानां परिपालनम् |
धर्ममेतमधर्मं वा जन्मनैवाभ्यजायिथाः ||२५||
काले धुरि नियुक्तानां वहतां भार आहिते |
सीदतामपि कौन्तेय न कीर्तिरवसीदति ||२६||
समन्ततो विनियतो वहत्यस्खलितो हि यः |
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा ||२७||
नैकान्तविनिपातेन विचचारेह कश्चन |
धर्मी गृही वा राजा वा ब्रह्मचार्यथ वा पुनः ||२८||
अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत् |
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः ||२९||
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् |
योगक्षेमस्तदा राजन्कुशलायैव कल्पते ||३०||
दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा |
सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ||३१||
यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः |
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः ||३२||
युधिष्ठिर उवाच||
किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा |
किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे ||३३||
भीष्म उवाच||
यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम् |
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते ||३४||
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम |
भव राजा जय स्वर्गं सतो रक्षासतो जहि ||३५||
अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह |
पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ||३६||
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् |
वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः ||३७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
077-अध्यायः
युधिष्ठिर उवाच||
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि |
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ||१||
भीष्म उवाच||
विद्यालक्षणसम्पन्नाः सर्वत्राम्नायदर्शिनः |
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः ||२||
ऋत्विगाचार्यसम्पन्नाः स्वेषु कर्मस्ववस्थिताः |
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत ||३||
ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकः |
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत ||४||
अश्वारोहा गजारोहा रथिनोऽथ पदातयः |
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत ||५||
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः |
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत ||६||
अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः |
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् ||७||
आह्वायका देवलका नक्षत्रग्रामयाजकाः |
एते ब्राह्मणचण्डाला महापथिकपञ्चमाः ||८||
एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः |
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च ||९||
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् |
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ||१०||
विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथञ्चन |
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया ||११||
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः |
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः ||१२||
अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा |
राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः ||१३||
स चेन्नो परिवर्तेत कृतवृत्तिः परन्तप |
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः ||१४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
078-अध्यायः
केकयराजराक्षससंवादः
युधिष्ठिर उवाच||
केषां राजा प्रभवति वित्तस्य भरतर्षभ |
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् |
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ||२||
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन |
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ||३||
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः |
राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप ||४||
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा |
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ||५||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
गीतं केकयराजेन ह्रियमाणेन रक्षसा ||६||
केकयानामधिपतिं रक्षो जग्राह दारुणम् |
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ||७||
राजोवाच||
न मे स्तेनो जनपदे न कदर्यो न मद्यपः |
नानाहिताग्निर्नायज्वा मामकान्तरमाविशः ||८||
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः |
नानाहिताग्निर्विषये मामकान्तरमाविशः ||९||
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम |
अधीते नाव्रती कश्चिन्मामकान्तरमाविशः ||१०||
अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च |
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ||११||
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः |
ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः ||१२||
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः |
नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः ||१३||
ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः |
क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः ||१४||
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया |
अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः ||१५||
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः |
मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः ||१६||
त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः |
मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः ||१७||
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् |
संविभक्तास्मि सर्वेषां मामकान्तरमाविशः ||१८||
कुलदेशादिधर्माणां प्रथितानां यथाविधि |
अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः ||१९||
तपस्विनो मे विषये पूजिताः परिपालिताः |
संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः ||२०||
नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् |
स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः ||२१||
नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः |
अनृत्विजं हुतं नास्ति मामकान्तरमाविशः ||२२||
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः |
राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः ||२३||
वेदाध्ययनसम्पन्नस्तपस्वी सर्वधर्मवित् |
स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः ||२४||
दानेन दिव्यानभिवाञ्छामि लोका; न्सत्येनाथो ब्राह्मणानां च गुप्त्या |
शुश्रूषया चापि गुरूनुपैमि; न मे भयं विद्यते राक्षसेभ्यः ||२५||
न मे राष्ट्रे विधवा ब्रह्मबन्धु; र्न ब्राह्मणः कृपणो नोत चोरः |
न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः ||२६||
न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम् |
धर्मार्थं युध्यमानस्य मामकान्तरमाविशः ||२७||
गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम |
आशासते जना राष्ट्रे मामकान्तरमाविशः ||२८||
राक्षस उवाच||
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे |
तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् ||२९||
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय |
न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् ||३०||
येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् |
प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः ||३१||
भीष्म उवाच||
तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः |
आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते ||३२||
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः |
नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ||३३||
य एवं वर्तते राजा पौरजानपदेष्विह |
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ||३४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
079-अध्यायः
युधिष्ठिर उवाच||
व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत |
कथञ्चिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा ||१||
भीष्म उवाच||
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् |
कृषिगोरक्षमास्थाय व्यसने वृत्तिसङ्क्षये ||२||
युधिष्ठिर उवाच||
कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते |
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ ||३||
भीष्म उवाच||
सुरा लवणमित्येव तिलान्केसरिणः पशून् |
ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर ||४||
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् |
एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत् ||५||
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् |
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथञ्चन ||६||
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः |
निमयेत्पक्वमामेन भोजनार्थाय भारत ||७||
वयं सिद्धमशिष्यामो भवान्साधयतामिदम् |
एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन ||८||
अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः |
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर ||९||
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु |
रुचिते वर्तते धर्मो न बलात्सम्प्रवर्तते ||१०||
इत्येवं सम्प्रवर्तन्त व्यवहाराः पुरातनाः |
ऋषीणामितरेषां च साधु चेदमसंशयम् ||११||
युधिष्ठिर उवाच||
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः |
व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् ||१२||
राजा त्राता न लोके स्यात्किं तदा स्यात्परायणम् |
एतन्मे संशयं ब्रूहि विस्तरेण पितामह ||१३||
भीष्म उवाच||
दानेन तपसा यज्ञैरद्रोहेण दमेन च |
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः ||१४||
तेषां ये वेदबलिनस्त उत्थाय समन्ततः |
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः ||१५||
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् |
तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता ||१६||
यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत् |
तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु ||१७||
उन्मर्यादे प्रवृत्ते तु दस्युभिः सङ्करे कृते |
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर ||१८||
युधिष्ठिर उवाच||
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति |
कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम् ||१९||
भीष्म उवाच||
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च |
अमायया मायया च नियन्तव्यं तदा भवेत् ||२०||
क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः |
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसम्भवम् ||२१||
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||२२||
यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते |
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः ||२३||
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर |
समुदीर्णान्यजेयानि तेजांसि च बलानि च ||२४||
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले |
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः ||२५||
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः |
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च ||२६||
मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते |
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते ||२७||
अति स्विष्टस्वधीतानां लोकानति तपस्विनाम् |
अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम् ||२८||
एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः ||२८||
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति |
ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता ||२९||
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत् ||२९||
यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत |
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे ||३०||
भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि |
कारणाद्देशकालस्य देशकालः स तादृशः ||३१||
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् |
धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम् ||३२||
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति |
आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च ||३३||
युधिष्ठिर उवाच||
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसङ्करे |
सम्प्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली ||३४||
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम |
दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन् ||३५||
कार्यं कुर्यान्न वा कुर्यात्संवार्यो वा भवेन्न वा |
न स्म शस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः ||३६||
भीष्म उवाच||
अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत् |
शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति ||३७||
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम् |
अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः ||३८||
तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम् |
महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति ||३९||
किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया |
वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता ||४०||
यथा दारुमयो हस्ती यथा चर्ममयो मृगः |
यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम् ||४१||
एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता |
न वर्षति च यो मेघः सर्व एते निरर्थकाः ||४२||
नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत् |
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम् ||४३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
080-अध्यायः
युधिष्ठिर उवाच||
क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह |
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ||१||
भीष्म उवाच||
प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते |
आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च ||२||
ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः |
परस्परस्य सुहृदः संमताः समदर्शिनः ||३||
येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम् |
अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः ||४||
ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः |
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ||५||
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति |
एते महर्त्विजस्तात सर्वे मान्या यथातथम् ||६||
युधिष्ठिर उवाच||
यदिदं वेदवचनं दक्षिणासु विधीयते |
इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते ||७||
नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः |
आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते ||८||
श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः |
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ||९||
भीष्म उवाच||
न वेदानां परिभवान्न शाठ्येन न मायया |
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ||१०||
यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम् |
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथञ्चन ||११||
शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत् |
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि ||१२||
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः |
तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते ||१३||
तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ||१३||
इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः |
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत् ||१४||
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ||१४||
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः |
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ||१५||
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः |
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ||१६||
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा |
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ||१७||
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् |
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ||१८||
निबोध दशहोतॄणां विधानं पार्थ यादृशम् |
चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ||१९||
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् |
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ||२०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
081-अध्यायः
युधिष्ठिर उवाच||
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् |
पुरुषेणासहायेन किमु राज्यं पितामह ||१||
किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत् |
कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् ||२||
भीष्म उवाच||
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत |
सहार्थो भजमानश्च सहजः कृत्रिमस्तथा ||३||
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः |
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ||४||
यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् |
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ||५||
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ |
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ||६||
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे |
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ||७||
असाधुः साधुतामेति साधुर्भवति दारुणः |
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ||८||
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् |
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ||९||
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः |
अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते ||१०||
अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते |
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ||११||
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् |
एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी ||१२||
यं मन्येत ममाभावादिममर्थागमः स्पृशेत् |
नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ||१३||
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति |
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ||१४||
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति |
यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् ||१५||
यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् |
एतदुत्तममित्रस्य निमित्तमभिचक्षते ||१६||
यं मन्येत ममाभावादस्याभावो भवेदिति |
तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ||१७||
तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत् |
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ||१८||
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् |
ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः ||१९||
व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते |
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ||२०||
रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः |
कुलीनः शीलसम्पन्नः स ते स्यात्प्रत्यनन्तरः ||२१||
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान् |
यो मानितोऽमानितो वा न संदूष्येत्कदाचन ||२२||
ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः |
गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः ||२३||
स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः |
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ||२४||
नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् |
एकार्थादेव भूतानां भेदो भवति सर्वदा ||२५||
कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः |
समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः ||२६||
यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् |
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ||२७||
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः |
कुलीनः शीलसम्पन्नस्तितिक्षुरनसूयकः ||२८||
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः |
पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः ||२९||
कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु |
युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च ||३०||
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा |
अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् ||३१||
ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा |
उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ||३२||
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः |
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ||३३||
अज्ञातिता नातिसुखा नावज्ञेयास्त्वतः परम् |
अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत ||३४||
निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् |
नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन ||३५||
आत्मानमेव जानाति निकृतं बान्धवैरपि |
तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते ||३६||
नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति |
उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च ||३७||
तान्मानयेत्पूजयेच्च नित्यं वाचा च कर्मणा |
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किञ्चिदाचरेत् ||३८||
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा |
न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते ||३९||
तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः |
अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि ||४०||
य एवं वर्तते नित्यं ज्ञातिसम्बन्धिमण्डले |
मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति ||४१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
082-अध्यायः
वासुदेवनारदसंवादः
युधिष्ठिर उवाच||
एवमग्राह्यके तस्मिञ्ज्ञातिसम्बन्धिमण्डले |
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
वासुदेवस्य संवादं सुरर्षेर्नारदस्य च ||२||
वासुदेव उवाच||
नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम् |
अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान् ||३||
स ते सौहृदमास्थाय किञ्चिद्वक्ष्यामि नारद |
कृत्स्नां च बुद्धिं सम्प्रेक्ष्य सम्पृच्छे त्रिदिवङ्गम ||४||
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् |
अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे ||५||
अरणीमग्निकामो वा मथ्नाति हृदयं मम |
वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा ||६||
बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे |
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ||७||
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः |
नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः ||८||
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत् |
द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च ||९||
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः |
यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः ||१०||
सोऽहं कितवमातेव द्वयोरपि महामुने |
एकस्य जयमाशंसे द्वितीयस्यापराजयम् ||११||
ममैवं क्लिश्यमानस्य नारदोभयतः सदा |
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ||१२||
नारद उवाच||
आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह |
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः ||१३||
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा |
अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः ||१४||
अर्थहेतोर्हि कामाद्वाद्वारा बीभत्सयापि वा |
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ||१५||
कृतमूलमिदानीं तज्जातशब्दं सहायवत् |
न शक्यं पुनरादातुं वान्तमन्नमिव त्वया ||१६||
बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथञ्चन |
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ||१७||
तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् |
महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत् ||१८||
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा |
जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च ||१९||
वासुदेव उवाच||
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् |
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ||२०||
नारद उवाच||
शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम् |
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् ||२१||
ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च |
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च ||२२||
नामहापुरुषः कश्चिन्नानात्मा नासहायवान् |
महतीं धुरमादत्ते तामुद्यम्योरसा वह ||२३||
सर्व एव गुरुं भारमनड्वान्वहते समे |
दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् ||२४||
भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव |
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु ||२५||
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् |
नान्यत्र धनसन्त्यागाद्गणः प्राज्ञेऽवतिष्ठते ||२६||
धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम् |
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ||२७||
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो |
षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा ||२८||
माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः |
त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये ||२९||
उपासते हि त्वद्बुद्धिमृषयश्चापि माधव |
त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् ||३०||
त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम् ||३०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
083-अध्यायः
कालकवृक्षीयोपाख्यानम्
भीष्म उवाच||
एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत |
यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः ||१||
ह्रियमाणममात्येन भृतो वा यदि वाभृतः |
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ||२||
श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् |
अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत ||३||
राजकोशस्य गोप्तारं राजकोशविलोपकाः |
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ||४||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ||५||
कोसलानामाधिपत्यं सम्प्राप्ते क्षेमदर्शिनि |
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ||६||
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः |
पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ||७||
अधीये वायसीं विद्यां शंसन्ति मम वायसाः |
अनागतमतीतं च यच्च सम्प्रति वर्तते ||८||
इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह |
सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् ||९||
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः |
राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ||१०||
तमेव काकमादाय राजानं द्रष्टुमागमत् |
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ||११||
स स्म कौसल्यमागम्य राजामात्यमलङ्कृतम् |
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ||१२||
असौ चासौ च जानीते राजकोशस्त्वया हृतः |
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ||१३||
तथान्यानपि स प्राह राजकोशहरान्सदा |
न चास्य वचनं किञ्चिदकृतं श्रूयते क्वचित् ||१४||
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह |
तमतिक्रम्य सुप्तस्य निशि काकमपोथयन् ||१५||
वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे |
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ||१६||
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् |
अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम् ||१७||
मित्रार्थमभिसन्तप्तो भक्त्या सर्वात्मना गतः |
अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः ||१८||
सम्बुबोधयिषुर्मित्रं सदश्वमिव सारथिः |
अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् ||१९||
तथाविधस्य सुहृदः क्षन्तव्यं संविजानता |
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ||२०||
तं राजा प्रत्युवाचेदं यन्मा किञ्चिद्भवान्वदेत् |
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ||२१||
ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि |
करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि ||२२||
मुनिरुवाच||
ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च |
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् ||२३||
प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम् |
अगतीकगतिर्ह्येषा या राज्ञा सह जीविका ||२४||
आशीविषैश्च तस्याहुः सङ्गतं यस्य राजभिः |
बहुमित्राश्च राजानो बह्वमित्रास्तथैव च ||२५||
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम् |
अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् ||२६||
नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ |
न तु प्रमादः कर्तव्यः कथञ्चिद्भूतिमिच्छता ||२७||
प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम् |
अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः ||२८||
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् |
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ||२९||
दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात् |
दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात् ||३०||
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः |
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ||३१||
इति राजन्मयः प्राह वर्तते च तथैव तत् ||३१||
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः |
ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि ||३२||
वायसश्चैव मे राजन्नन्तकायाभिसंहितः |
न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः ||३३||
हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव ||३३||
ये त्वादानपरा एव वसन्ति भवतो गृहे |
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ||३४||
ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम् |
अन्तरैरभिसन्धाय राजन्सिध्यन्ति नान्यथा ||३५||
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् |
तैर्हि मे सन्धितो बाणः काके निपतितः प्रभो ||३६||
छद्मना मम काकश्च गमितो यमसादनम् |
दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा ||३७||
बहुनक्रझषग्राहां तिमिङ्गिलगणायुताम् |
काकेन बडिशेनेमामतार्षं त्वामहं नदीम् ||३८||
स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् |
दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव ||३९||
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते |
राजदुर्गावतरणे नोपायं पण्डिता विदुः ||४०||
गहनं भवतो राज्यमन्धकारतमोवृतम् |
नेह विश्वसितुं शक्यं भवतापि कुतो मया ||४१||
अतो नायं शुभो वासस्तुल्ये सदसती इह |
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ||४२||
न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः |
नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः ||४३||
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति |
तथोपमामिमां मन्ये वागुरां सर्वघातिनीम् ||४४||
मधुप्रपातो हि भवान्भोजनं विषसंयुतम् |
असतामिव ते भावो वर्तते न सतामिव ||४५||
आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव ||४५||
दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता |
नदी मधुरपानीया यथा राजंस्तथा भवान् ||४६||
श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ||४६||
यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् |
ततस्तं संवृणोत्येव तमतीत्य च वर्धते ||४७||
तेनैवोपेन्धनो नूनं दावो दहति दारुणः |
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ||४८||
भवतैव कृता राजन्भवता परिपालिताः |
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ||४९||
उषितं शङ्कमानेन प्रमादं परिरक्षता |
अन्तःसर्प इवागारे वीरपत्न्या इवालये ||५०||
शीलं जिज्ञासमानेन राज्ञश्च सहजीविना ||५०||
कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः |
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ||५१||
जिज्ञासुरिह सम्प्राप्तस्तवाहं राजसत्तम |
तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् ||५२||
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् |
भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः ||५३||
विद्यते कारणं नान्यदिति मे नात्र संशयः ||५३||
न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम् |
अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात् ||५४||
राजोवाच||
भूयसा परिबर्हेण सत्कारेण च भूयसा |
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ||५५||
ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे |
भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम् ||५६||
यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम् |
तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ||५७||
मुनिरुवाच||
अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु |
ततः कारणमाज्ञाय पुरुषं पुरुषं जहि ||५८||
एकदोषा हि बहवो मृद्नीयुरपि कण्टकान् |
मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ||५९||
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः |
स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः ||६०||
राजन्नात्मानमाचक्षे सम्बन्धी भवतो ह्यहम् |
मुनिः कालकवृक्षीय इत्येवमभिसञ्ज्ञितः ||६१||
पितुः सखा च भवतः संमतः सत्यसङ्गरः |
व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ||६२||
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया |
स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति ||६३||
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया |
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ||६४||
भीष्म उवाच||
ततो राजकुले नान्दी सञ्जज्ञे भूयसी पुनः |
पुरोहितकुले चैव सम्प्राप्ते ब्राह्मणर्षभे ||६५||
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने |
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ||६६||
हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम् |
तथा च कृतवान्राजा यथोक्तं तेन भारत ||६७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
084-अध्यायः
भीष्म उवाच||
ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः |
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ||१||
अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान् |
सुसन्तुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु ||२||
एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत |
कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति ||३||
प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा |
आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः ||४||
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः |
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ||५||
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः |
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ||६||
अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान् |
यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः ||७||
अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः |
न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ||८||
अनार्या ये न जानन्ति समयं मन्दचेतसः |
तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् ||९||
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः |
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ||१०||
श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते |
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ||११||
समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः |
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ||१२||
अमानी सत्यवाक्षक्तो जितात्मा मान्यमानिता |
स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः ||१३||
कुलीनः सत्यसम्पन्नस्तितिक्षुर्दक्ष आत्मवान् |
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ||१४||
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः |
अमित्राः सम्प्रसीदन्ति ततो मित्रीभवन्त्यपि ||१५||
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान् |
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ||१६||
सम्बद्धाः पुरुषैराप्तैरभिजातैः स्वदेशजैः |
अहार्यैरव्यभीचारैः सर्वतः सुपरीक्षितैः ||१७||
योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः |
कर्तव्या भूतिकामेन पुरुषेण बुभूषता ||१८||
येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना |
तेजो धैर्यं क्षमा शौचमनुराग स्थितिर्धृतिः ||१९||
परीक्षितगुणान्नित्यं प्रौढभावान्धुरन्धरान् |
पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः ||२०||
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् |
कुलीनान्सत्यसम्पन्नानिङ्गितज्ञाननिष्ठुरान् ||२१||
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः |
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ||२२||
हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति |
अवश्यं जनयत्येव सर्वकर्मसु संशयान् ||२३||
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत |
धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम् ||२४||
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः |
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ||२५||
यो वा ह्यस्थिरसङ्कल्पो बुद्धिमानागतागमः |
उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम् ||२६||
केवलात्पुनराचारात्कर्मणो नोपपद्यते |
परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः ||२७||
मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते |
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ||२८||
व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः |
मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ||२९||
सङ्क्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति |
वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति ||३०||
तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम् |
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ||३१||
यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया |
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ||३२||
अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः |
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ||३३||
योऽमित्रैः सह सम्बद्धो न पौरान्बहु मन्यते |
स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति ||३४||
अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः |
स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ||३५||
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः |
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ||३६||
यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत् |
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ||३७||
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः |
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ||३८||
ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः |
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ||३९||
सत्यवाक्षीलसम्पन्नो गम्भीरः सत्रपो मृदुः |
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ||४०||
सन्तुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः |
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ||४१||
सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे |
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप ||४२||
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः |
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ||४३||
तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः |
मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः ||४४||
स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च |
मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ||४५||
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् |
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ||४६||
मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः |
मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः ||४७||
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते |
स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः ||४८||
स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः |
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ||४९||
तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र |
स्वनिश्चयं तं परनिश्चयं च; निवेदयेदुत्तरमन्त्रकाले ||५०||
धर्मार्थकामज्ञमुपेत्य पृच्छे; द्युक्तो गुरुं ब्राह्मणमुत्तमार्थम् |
निष्ठा कृता तेन यदा सह स्या; त्तं तत्र मार्गं प्रणयेदसक्तम् ||५१||
एवं सदा मन्त्रयितव्यमाहु; र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः |
तस्मात्त्वमेवं प्रणयेः सदैव; मन्त्रं प्रजासङ्ग्रहणे समर्थम् ||५२||
न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च |
न चात्र तिर्यङ्न पुरो न पश्चा; न्नोर्ध्वं न चाधः प्रचरेत कश्चित् ||५३||
आरुह्य वातायनमेव शून्यं; स्थलं प्रकाशं कुशकाशहीनम् |
वागङ्गदोषान्परिहृत्य मन्त्रं; संमन्त्रयेत्कार्यमहीनकालम् ||५४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
085-अध्यायः
शक्रबृहस्पतिसंवादः
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर ||१||
शक्र उवाच||
किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन् |
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ||२||
बृहस्पतिरुवाच||
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् |
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ||३||
एतदेकपदं शक्र सर्वलोकसुखावहम् |
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा ||४||
यो हि नाभाषते किञ्चित्सततं भ्रुकुटीमुखः |
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ||५||
यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते |
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ||६||
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् |
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् ||७||
अदाता ह्यपि भूतानां मधुरामीरयन्गिरम् |
सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे ||८||
तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह |
फलं च जनयत्येवं न चास्योद्विजते जनः ||९||
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च |
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ||१०||
भीष्म उवाच||
इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा |
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर ||११||