श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
086-अध्यायः
युधिष्ठिर उवाच||
कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः |
प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ||१||
भीष्म उवाच||
व्यवहारेण शुद्धेन प्रजापालनतत्परः |
प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ||२||
युधिष्ठिर उवाच||
कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः |
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ||३||
ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति |
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ||४||
भीष्म उवाच||
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान् |
दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः ||५||
किं तु सङ्क्षेपतः शीलं प्रयत्ने नेह दुर्लभम् |
वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि ||६||
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन् |
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ||७||
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत् |
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ||८||
मतिस्मृतिसमायुक्तं विनीतं समदर्शनम् |
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् ||९||
विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम् |
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ||१०||
ततः सम्प्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत् |
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ||११||
न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम् |
कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत् ||१२||
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव |
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे ||१३||
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः |
हार्दं भयं सम्भवति स्वर्गश्चास्य विरुध्यते ||१४||
अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः |
धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ ||१५||
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः |
आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः ||१६||
बलात्कृतानां बलिभिः कृपणं बहु जल्पताम् |
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ||१७||
ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत् |
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ||१८||
अपराधानुरूपं च दण्डं पापेषु पातयेत् |
उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः ||१९||
विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः |
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ||२०||
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् |
आजीवकस्य स्तेनस्य वर्णसङ्करकस्य च ||२१||
सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते |
युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः ||२२||
कामकारेण दण्डं तु यः कुर्यादविचक्षणः |
स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात् ||२३||
न परस्य श्रवादेव परेषां दण्डमर्पयेत् |
आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा ||२४||
न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि |
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह ||२५||
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः |
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ||२६||
कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः |
यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ||२७||
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता |
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः ||२८||
धर्मार्थशास्त्रतत्त्वज्ञः सन्धिविग्रहको भवेत् |
मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता ||२९||
कुलीनः सत्यसम्पन्नः शक्तोऽमात्यः प्रशंसितः |
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ||३०||
व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः |
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ||३१||
विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित् |
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ||३२||
एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ |
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ||३३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
087-अध्यायः
युधिष्ठिर उवाच||
कथंविधं पुरं राजा स्वयमावस्तुमर्हति |
कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना |
न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत ||२||
तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः |
श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः ||३||
षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत् |
सर्वसम्पत्प्रधानं यद्बाहुल्यं वापि सम्भवेत् ||४||
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च |
मनुष्यदुर्गमब्दुर्गं वनदुर्गं च तानि षट् ||५||
यत्पुरं दुर्गसम्पन्नं धान्यायुधसमन्वितम् |
दृढप्राकारपरिखं हस्त्यश्वरथसङ्कुलम् ||६||
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसञ्चिताः |
धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः ||७||
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् |
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् ||८||
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् |
शूराढ्यजनसम्पन्नं ब्रह्मघोषानुनादितम् ||९||
समाजोत्सवसम्पन्नं सदापूजितदैवतम् |
वश्यामात्यबलो राजा तत्पुरं स्वयमावसेत् ||१०||
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् |
पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् ||११||
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् |
निचयान्वर्धयेत्सर्वांस्तथा यन्त्रगदागदान् ||१२||
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् |
मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ||१३||
शणं सर्जरसं धान्यमायुधानि शरांस्तथा |
चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् ||१४||
आशयाश्चोदपानाश्च प्रभूतसलिला वराः |
निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः ||१५||
सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः |
महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः ||१६||
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः |
कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु ||१७||
पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान् |
नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु ||१८||
बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम् |
चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् ||१९||
चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतः |
अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् ||२०||
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् |
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा ||२१||
ततस्तथा विधातव्यं सर्वमेवाप्रमादतः |
भक्तान्पुजयता नित्यं द्विषतश्च निगृह्णता ||२२||
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया |
प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् ||२३||
कृपणानाथवृद्धानां विधवानां च योषिताम् |
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् ||२४||
आश्रमेषु यथाकालं चेलभाजनभोजनम् |
सदैवोपहरेद्राजा सत्कृत्यानवमन्य च ||२५||
आत्मानं सर्वकार्याणि तापसे राज्यमेव च |
निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा ||२६||
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् |
पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः ||२७||
तस्मिन्कुर्वीत विश्वासं राजा कस्याञ्चिदापदि |
तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ||२८||
तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च |
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् ||२९||
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः |
अटवीष्वपरः कार्यः सामन्तनगरेषु च ||३०||
तेषु सत्कारसंस्कारान्संविभागांश्च कारयेत् |
परराष्ट्राटवीस्थेषु यथा स्वविषये तथा ||३१||
ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने |
राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः ||३२||
एष ते लक्षणोद्देशः सङ्क्षेपेण प्रकीर्तितः |
यादृशं नगरं राजा स्वयमावस्तुमर्हति ||३३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
088-अध्यायः
युधिष्ठिर उवाच||
राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव च सङ्ग्रहम् |
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ||१||
भीष्म उवाच||
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च सङ्ग्रहम् |
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ||२||
ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः |
द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत् ||३||
ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालयेत् |
तान्ब्रूयाद्दशपायासौ स तु विंशतिपाय वै ||४||
सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने |
ग्रामाणां शतपालाय सर्वमेव निवेदयेत् ||५||
यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुयात् |
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः ||६||
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः |
महान्तं भरतश्रेष्ठ सुस्फीतजनसङ्कुलम् ||७||
तत्र ह्यनेकमायत्तं राज्ञो भवति भारत ||७||
शाखानगरमर्हस्तु सहस्रपतिरुत्तमम् |
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः ||८||
तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वयम् |
धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः ||९||
नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः |
उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः ||१०||
भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वयम् ||१०||
विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम् |
योगक्षेमं च सम्प्रेक्ष्य वणिजः कारयेत्करान् ||११||
उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत् |
शिल्पप्रतिकरानेव शिल्पिनः प्रति कारयेत् ||१२||
उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर |
यथा यथा न हीयेरंस्तथा कुर्यान्महीपतिः ||१३||
फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत् |
फलं कर्म च निर्हेतु न कश्चित्सम्प्रवर्तयेत् ||१४||
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ |
समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः ||१५||
नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णया |
ईहाद्वाराणि संरुध्य राजा सम्प्रीतिदर्शनः ||१६||
प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् |
प्रद्विष्टस्य कुतः श्रेयः सम्प्रियो लभते प्रियम् ||१७||
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना |
भृतो वत्सो जातबलः पीडां सहति भारत ||१८||
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर |
राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत् ||१९||
यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृपः |
सञ्जातमुपजीवन्स लभते सुमहत्फलम् ||२०||
आपदर्थं हि निचयान्राजान इह चिन्वते |
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा ||२१||
पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा |
यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि ||२२||
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् |
एवं न सम्प्रकुप्यन्ते जनाः सुखितदुःखिताः ||२३||
प्रागेव तु करादानमनुभाष्य पुनः पुनः |
संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् ||२४||
इयमापत्समुत्पन्ना परचक्रभयं महत् |
अपि नान्ताय कल्पेत वेणोरिव फलागमः ||२५||
अरयो मे समुत्थाय बहुभिर्दस्युभिः सह |
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम् ||२६||
अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये |
परित्राणाय भवतां प्रार्थयिष्ये धनानि वः ||२७||
प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये |
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः ||२८||
कलत्रमादितः कृत्वा नश्येत्स्वं स्वयमेव हि |
अपि चेत्पुत्रदारार्थमर्थसञ्चय इष्यते ||२९||
नन्दामि वः प्रभावेन पुत्राणामिव चोदये |
यथाशक्त्यनुगृह्णामि राष्ट्रस्यापीडया च वः ||३०||
आपत्स्वेव च वोढव्यं भवद्भिः सद्गवैरिव |
न वः प्रियतरं कार्यं धनं कस्याञ्चिदापदि ||३१||
इति वाचा मधुरया श्लक्ष्णया सोपचारया |
स्वरश्मीनभ्यवसृजेद्युगमादाय कालवित् ||३२||
प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम् |
योगक्षेमं च सम्प्रेक्ष्य गोमिनः कारयेत्करान् ||३३||
उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः |
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् ||३४||
सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः |
गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च ||३५||
अजस्रमुपयोक्तव्यं फलं गोमिषु सर्वतः |
प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा ||३६||
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः |
दयावानप्रमत्तश्च करान्सम्प्रणयन्मृदून् ||३७||
सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः |
न ह्यतः सदृशं किञ्चिद्धनमस्ति युधिष्ठिर ||३८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
089-अध्यायः
युधिष्ठिर उवाच||
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते |
कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
यथादेशं यथाकालमपि चैव यथाबलम् |
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ||२||
यथा तासां च मन्येत श्रेय आत्मन एव च |
तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् ||३||
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत् |
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ||४||
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप |
व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति ||५||
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् |
ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत् ||६||
दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत् |
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ||७||
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः |
उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः ||८||
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः |
यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः ||९||
ततस्तान्भेदयित्वाथ परस्परविवक्षितान् |
भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः ||१०||
न चास्थाने न चाकाले करानेभ्योऽनुपातयेत् |
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ||११||
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता |
अनुपायेन दमयन्प्रकोपयति वाजिनः ||१२||
पानागाराणि वेशाश्च वेशप्रापणिकास्तथा |
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ||१३||
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः |
एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ||१४||
न केनचिद्याचितव्यः कश्चित्किञ्चिदनापदि |
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ||१५||
सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह |
सर्व एव त्रयो लोका न भवेयुरसंशयम् ||१६||
प्रभुर्नियमने राजा य एतान्न नियच्छति |
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ||१७||
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ||१७||
स्थानान्येतानि सङ्गम्य प्रसङ्गे भूतिनाशनः |
कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ||१८||
आपद्येव तु याचेरन्येषां नास्ति परिग्रहः |
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना ||१९||
मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः |
इष्टादातार एवैते नैते भूतस्य भावकाः ||२०||
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः |
ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः ||२१||
दण्ड्यास्ते च महाराज धनादानप्रयोजनाः |
प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा ||२२||
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किञ्चिदीदृशम् |
पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः ||२३||
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः |
संशयं लभते किञ्चित्तेन राजा विगर्ह्यते ||२४||
धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैः |
वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह ||२५||
अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत |
ककुदं सर्वभूतानां धनस्थो नात्र संशयः ||२६||
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च |
तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति ||२७||
तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव |
सत्यमार्जवमक्रोधमानृशंस्यं च पालय ||२८||
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे |
सत्यार्जवपरो राजन्मित्रकोशसमन्वितः ||२९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
090-अध्यायः
भीष्म उवाच||
वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव |
ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः ||१||
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः |
न ब्राह्मणोपरोधेन हरेदन्यः कथञ्चन ||२||
विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः |
परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप ||३||
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि |
कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति ||४||
असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम् |
पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम् ||५||
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् |
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत् ||६||
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् |
ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत ||७||
तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः |
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् ||८||
शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप |
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन ||९||
संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः |
ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन ||१०||
सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर |
तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः ||११||
अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान् |
परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा ||१२||
आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम् |
आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः ||१३||
किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम् |
कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत् ||१४||
गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत् |
सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः ||१५||
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः ||१५||
धर्मज्ञानां धृतिमतां सङ्ग्रामेष्वपलायिनाम् |
राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः ||१६||
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः |
ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः ||१७||
सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर ||१७||
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् |
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ||१८||
तुल्यबाहुबलानां च गुणैरपि निषेविनाम् |
कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान् ||१९||
ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा |
आशीविषा इव क्रुद्धा भुजगा भुजगानिव ||२०||
एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर |
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ||२१||
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः |
क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः ||२२||
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः |
ये वहन्ति धुरं राज्ञां सम्भरन्तीतरानपि ||२३||
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा |
मनुष्योरगरक्षांसि वयांसि पशवस्तथा ||२४||
एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत |
एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव ||२५||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
091-अध्यायः
उतथ्यगीता
भीष्म उवाच||
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः |
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ||१||
स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः |
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ||२||
उतथ्य उवाच||
धर्माय राजा भवति न कामकरणाय तु |
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ||३||
राजा चरति वै धर्मं देवत्वायैव गच्छति |
न चेद्धर्मं स चरति नरकायैव गच्छति ||४||
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति |
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ||५||
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते |
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ||६||
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते |
तदेव मङ्गलं सर्वं लोकः समनुवर्तते ||७||
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् |
भयमाहुर्दिवारात्रं यदा पापो न वार्यते ||८||
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः |
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ||९||
वध्यानामिव सर्वेषां मनो भवति विह्वलम् |
मनुष्याणां महाराज यदा पापो न वार्यते ||१०||
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् |
असृजन्सुमहद्भूतमयं धर्मो भविष्यति ||११||
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते |
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः ||१२||
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् |
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ||१३||
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा |
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ||१४||
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः |
अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः ||१५||
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा |
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ||१६||
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः |
स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः ||१७||
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् |
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ||१८||
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा |
ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ||१९||
तेषां ह्यकामकरणाद्राज्ञः सञ्जायते भयम् |
मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि ||२०||
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः |
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ||२१||
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् |
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे ||२२||
एतत्फलमसूयाया अभिमानस्य चाभिभो |
तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ||२३||
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः |
तेन देवासुरा राजन्नीताः सुबहुशो वशम् ||२४||
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव |
राजा भवति तं जित्वा दासस्तेन पराजितः ||२५||
स यथा दर्पसहितमधर्मं नानुसेवसे |
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ||२६||
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः |
तदभ्यासादुपावर्तादहितानां च सेवनात् ||२७||
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः |
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ||२८||
एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् |
अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् ||२९||
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च |
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ||३०||
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् |
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ||३१||
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति |
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ||३२||
क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् |
अधर्माः सम्प्रवर्तन्ते प्रजासङ्करकारकाः ||३३||
अशीते विद्यते शीतं शीते शीतं न विद्यते |
अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः ||३४||
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे |
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ||३५||
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति |
प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ||३६||
द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे |
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृपदूषणम् ||३७||
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते |
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ||३८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
092-अध्यायः
उतथ्य उवाच||
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः |
सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ||१||
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् |
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ||२||
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि |
शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः ||३||
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि |
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ||४||
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् |
शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ||५||
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ |
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ||६||
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च |
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ||७||
राजैव कर्ता भूतानां राजैव च विनाशकः |
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ||८||
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा |
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ||९||
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः |
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ||१०||
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते |
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ||११||
यच्च भूतं स भजते भूता ये च तदन्वयाः |
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ||१२||
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च |
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ||१३||
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् |
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ||१४||
न हि दुर्बलदग्धस्य कुले किञ्चित्प्ररोहति |
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ||१५||
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् |
बलस्याबलदग्धस्य न किञ्चिदवशिष्यते ||१६||
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति |
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ||१७||
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् |
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ||१८||
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् |
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ||१९||
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु |
न हि पापं कृतं कर्म सद्यः फलति गौरिव ||२०||
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति |
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ||२१||
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव |
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ||२२||
राज्ञो यदा जनपदे बहवो राजपूरुषाः |
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ||२३||
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा |
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ||२४||
महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति |
यदा वृक्षश्छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति ||२५||
यदा राष्ट्रे धर्ममग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः |
तैरेवाधर्मश्चरितो धर्ममोहा; त्तूर्णं जह्यात्सुकृतं दुष्कृतं च ||२६||
यत्र पापा ज्ञायमानाश्चरन्ति; सतां कलिर्विन्दति तत्र राज्ञः |
यदा राजा शास्ति नरान्नशिष्या; न्न तद्राज्यं वर्धते भूमिपाल ||२७||
यश्चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् |
प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्यखिलां चिराय ||२८||
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् |
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ||२९||
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते |
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ||३०||
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा |
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ||३१||
यदा शारणिकान्राजा पुत्रवत्परिरक्षति |
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ||३२||
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः |
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ||३३||
कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै |
हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ||३४||
विवर्धयति मित्राणि तथारींश्चापकर्षति |
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ||३५||
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति |
पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ||३६||
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ |
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ||३७||
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः |
संयच्छन्भवति प्राणान्नसंयच्छंस्तु पापकः ||३८||
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च |
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ||३९||
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः |
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ||४०||
सहस्राक्षेण राजा हि सर्व एवोपमीयते |
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ||४१||
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् |
भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ||४२||
सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् |
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ||४३||
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् |
भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ||४४||
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् |
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ||४५||
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः |
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि ||४६||
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् |
स्वदेशे परदेशे वा न ते धर्मो विनश्यति ||४७||
धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत् |
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ||४८||
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः |
सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ||४९||
अप्रमादश्च शौचं च तात भूतिकरं महत् |
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ||५०||
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः |
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ||५१||
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च |
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ||५२||
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् |
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ||५३||
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत |
देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ||५४||
भीष्म उवाच||
स एवमुक्तो मान्धाता तेनोतथ्येन भारत |
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ||५५||
भवानपि तथा सम्यङ्मान्धातेव महीपतिः |
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ||५६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
093-अध्यायः
वामदेवगीता
युधिष्ठिर उवाच||
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः |
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ||२||
राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः |
महर्षिं परिपप्रच्छ वामदेवं यशस्विनम् ||३||
धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् |
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ||४||
तमब्रवीद्वामदेवस्तपस्वी जपतां वरः |
हेमवर्णमुपासीनं ययातिमिव नाहुषम् ||५||
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् |
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् ||६||
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः |
ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते ||७||
अधर्मदर्शी यो राजा बलादेव प्रवर्तते |
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ||८||
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा |
सहैव परिवारेण क्षिप्रमेवावसीदति ||९||
अर्थानामननुष्ठाता कामचारी विकत्थनः |
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ||१०||
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः |
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ||११||
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः |
बुद्धितो मित्रतश्चापि सततं वसुधाधिपः ||१२||
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता |
एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः ||१३||
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः |
अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते ||१४||
अदाता ह्यनतिस्नेहो दण्डेनावर्तयन्प्रजाः |
साहसप्रकृती राजा क्षिप्रमेव विनश्यति ||१५||
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान् |
अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते ||१६||
अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः |
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ||१७||
यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति |
सुखतन्त्रोऽर्थलाभेषु न चिरं महदश्नुते ||१८||
गुरुप्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता |
धर्मप्रधानो लोकेषु सुचिरं महदश्नुते ||१९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
094-अध्यायः
वामदेव उवाच||
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः |
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ||१||
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् |
अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ||२||
यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः |
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ||३||
साहसप्रकृतिर्यत्र कुरुते किञ्चिदुल्बणम् |
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ||४||
योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते |
जितानामजितानां च क्षत्रधर्मादपैति सः ||५||
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे |
यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ||६||
शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि |
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ||७||
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् |
नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ||८||
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः |
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ||९||
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् |
न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः ||१०||
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् |
न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ||११||
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः |
तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया ||१२||
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये |
भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह ||१३||
अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् |
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ||१४||
एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् |
भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि ||१५||
मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम् |
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ||१६||
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् |
कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः ||१७||
रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति |
प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते ||१८||
ये केचिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् |
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ||१९||
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् |
श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ||२०||
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः |
अबलानभियुञ्जीत न तु ये बलवत्तराः ||२१||
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् |
आहवे निधनं कुर्याद्राजा धर्मपरायणः ||२२||
मरणान्तमिदं सर्वं नेह किञ्चिदनामयम् |
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् ||२३||
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् |
मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ||२४||
एतानि यस्य गुप्तानि स राजा राजसत्तम |
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ||२५||
नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् |
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ||२६||
दातारं संविभक्तारं मार्दवोपगतं शुचिम् |
असन्त्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम् ||२७||
यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते |
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ||२८||
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते |
शृणोति प्रतिकूलानि विमना नचिरादिव ||२९||
अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते |
जितानामजितानां च क्षत्रधर्मादपैति सः ||३०||
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् |
स वै व्यसनमासाद्य गाधमार्तो न विन्दति ||३१||
यः कल्याणगुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते |
अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ||३२||
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि |
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ||३३||
नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत् |
प्रिये नातिभृशं हृष्येद्युज्येतारोग्यकर्मणि ||३४||
के मानुरक्ता राजानः के भयात्समुपाश्रिताः |
मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत् ||३५||
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित् |
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ||३६||
अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् |
अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ||३७||
एतां राजोपनिषदं ययातिः स्माह नाहुषः |
मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् ||३८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
095-अध्यायः
वामदेव उवाच||
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः |
जघन्यमाहुर्विजयं यो युद्धेन नराधिप ||१||
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति |
न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते ||२||
यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः |
सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः ||३||
यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः |
अल्पेनापि स दण्डेन महीं जयति भूमिपः ||४||
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः |
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ||५||
प्रभावकालावधिकौ यदा मन्येत चात्मनः |
तदा लिप्सेत मेधावी परभूमिं धनान्युत ||६||
भोगेष्वदयमानस्य भूतेषु च दयावतः |
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ||७||
तक्षत्यात्मानमेवैष वनं परशुना यथा |
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ||८||
न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः |
क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ||९||
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः |
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ||१०||
नैनमन्येऽवजानन्ति नात्मना परितप्यते |
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ||११||
इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः |
उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते ||१२||
भीष्म उवाच||
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः |
तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ||१३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
096-अध्यायः
युधिष्ठिर उवाच||
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि |
कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे ||१||
भीष्म उवाच||
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः |
ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा ||२||
मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ |
ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत् ||३||
ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथञ्चन |
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप ||४||
अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः |
त्राणायाप्यसमर्थं तं मन्यमानमतीव च ||५||
युधिष्ठिर उवाच||
अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् |
कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह ||६||
भीष्म उवाच||
नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे |
एक एकेन वाच्यश्च विसृजस्व क्षिपामि च ||७||
स चेत्संनद्ध आगच्छेत्संनद्धव्यं ततो भवेत् |
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् ||८||
स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत् |
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् ||९||
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी |
व्यसने न प्रहर्तव्यं न भीताय जिताय च ||१०||
नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् |
जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः ||११||
साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत् |
सव्रणो नाभिहन्तव्यो नानपत्यः कथञ्चन ||१२||
भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः |
चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत् ||१३||
निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः ||१३||
तस्माद्धर्मेण योद्धव्यं मनुः स्वायम्भुवोऽब्रवीत् |
सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत् ||१४||
यो वै जयत्यधर्मेण क्षत्रियो वर्धमानकः |
आत्मानमात्मना हन्ति पापो निकृतिजीवनः ||१५||
कर्म चैतदसाधूनामसाधुं साधुना जयेत् |
धर्मेण निधनं श्रेयो न जयः पापकर्मणा ||१६||
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव |
मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति ||१७||
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति |
स वर्धमानः स्तेयेन पापः पापे प्रसज्जति ||१८||
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव |
अश्रद्दधानभावाच्च विनाशमुपगच्छति ||१९||
स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते |
महादृतिरिवाध्मातः स्वकृतेन विवर्धते ||२०||
ततः समूलो ह्रियते नदीकूलादिव द्रुमः |
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि ||२१||
तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः ||२१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
097-अध्यायः
भीष्म उवाच||
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः |
अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः ||१||
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च |
सादयत्येष राजानं महीं च भरतर्षभ ||२||
विशीर्णकवचं चैव तवास्मीति च वादिनम् |
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ||३||
बलेनावजितो यश्च न तं युध्येत भूमिपः |
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ||४||
नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता |
एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम् ||५||
न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः |
युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत् ||६||
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते |
नान्यो राजानमभ्यसेदराजन्यः कथञ्चन ||७||
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा |
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् ||८||
मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् ||८||
अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः |
अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि ||९||
या तु धर्मविलोपेन मर्यादाभेदनेन च |
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः ||१०||
धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत् ||१०||
सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत् |
सान्त्वेन भोगदानेन स राज्ञां परमो नयः ||११||
भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः |
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ||१२||
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि |
संदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ||१३||
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथञ्चन |
जीवितं ह्यप्यतिच्छिन्नः सन्त्यजत्येकदा नरः ||१४||
अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः |
शुद्धं जीवितमेवापि तादृशो बहु मन्यते ||१५||
यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः |
सन्तुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ||१६||
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः |
पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते ||१७||
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः |
अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः ||१८||
भूमिवर्जं पुरं राजा जित्वा राजानमाहवे |
अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः ||१९||
अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च |
आजहार दिवोदासस्ततो विप्रकृतोऽभवत् ||२०||
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ |
अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत ||२१||
उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर |
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते ||२२||
सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः |
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः ||२३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
098-अध्यायः
युधिष्ठिर उवाच||
क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ |
अभियाने च युद्धे च राजा हन्ति महाजनम् ||१||
अथ स्म कर्मणा येन लोकाञ्जयति पार्थिवः |
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ||२||
भीष्म उवाच||
निग्रहेण च पापानां साधूनां प्रग्रहेण च |
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ||३||
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः |
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ||४||
अपविध्यन्ति पापानि दानयज्ञतपोबलैः |
अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते ||५||
यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा |
हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति ||६||
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यानथैकदा |
तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः ||७||
यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति |
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ||८||
स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः |
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ||९||
ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते |
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ||१०||
अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा |
न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किञ्चन ||११||
तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे |
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ||१२||
न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते |
स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते ||१३||
यानि दुःखानि सहते व्रणानामभितापने |
न ततोऽस्ति तपो भूय इति धर्मविदो विदुः ||१४||
पृष्ठतो भीरवः सङ्ख्ये वर्तन्तेऽधमपूरुषाः |
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ||१५||
यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये |
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ||१६||
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् |
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ||१७||
पुरुषाणां समानानां दृश्यते महदन्तरम् |
सङ्ग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च ||१८||
पतत्यभिमुखः शूरः परान्भीरुः पलायते |
आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ||१९||
मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान् |
ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ||२०||
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः |
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति ||२१||
तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना |
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ||२२||
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् |
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ||२३||
अविक्षतेन देहेन प्रलयं योऽधिगच्छति |
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ||२४||
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते |
शौटीराणामशौटीरमधर्म्यं कृपणं च तत् ||२५||
इदं दुःखमहो कष्टं पापीय इति निष्टनन् |
प्रतिध्वस्तमुखः पूतिरमात्यान्बहु शोचयन् ||२६||
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति |
वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति ||२७||
रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः |
तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति ||२८||
शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम् |
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ||२९||
स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् |
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ||३०||
सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः |
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ||३१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
099-अध्यायः
इन्द्राम्बरीषसंवादः
युधिष्ठिर उवाच||
के लोका युध्यमानानां शूराणामनिवर्तिनाम् |
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर ||२||
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् |
ददर्श सुरलोकस्थं शक्रेण सचिवं सह ||३||
सर्वतेजोमयं दिव्यं विमानवरमास्थितम् |
उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् ||४||
स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः |
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ||५||
सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि |
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ||६||
ब्रह्मचर्येण घोरेण आचार्यकुलसेवया |
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ||७||
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा |
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ||८||
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि |
उदीक्षमाणः पृतनां जयामि युधि वासव ||९||
देवराज सुदेवोऽयं मम सेनापतिः पुरा |
आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् ||१०||
नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः |
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम् ||११||
इन्द्र उवाच||
एतस्य विततस्तात सुदेवस्य बभूव ह |
सङ्ग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ||१२||
संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् |
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ||१३||
अम्बरीष उवाच||
कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा |
ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो ||१४||
इन्द्र उवाच||
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा |
हवींषि परमांसानि रुधिरं त्वाज्यमेव च ||१५||
सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः |
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ||१६||
प्रासतोमरसङ्घाताः खड्गशक्तिपरश्वधाः |
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ||१७||
चापवेगायतस्तीक्ष्णः परकायावदारणः |
ऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान् ||१८||
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः |
हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे ||१९||
ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः |
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ||२०||
आवेगाद्यत्तु रुधिरं सङ्ग्रामे स्यन्दते भुवि |
सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक् ||२१||
छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखे |
सामानि सामगास्तस्य गायन्ति यमसादने ||२२||
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् |
कुञ्जराणां हयानां च वर्मिणां च समुच्चयः ||२३||
अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते ||२३||
उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यः |
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ||२४||
इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः |
व्याघुष्टतलनादेन वषट्कारेण पार्थिव ||२५||
उद्गाता तत्र सङ्ग्रामे त्रिसामा दुन्दुभिः स्मृतः ||२५||
ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत् |
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ||२६||
भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे |
भयान्न च निवर्तेत तस्य लोका यथा मम ||२७||
नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैः |
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ||२८||
यस्तु नावेक्षते कञ्चित्सहायं विजये स्थितः |
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ||२९||
यस्य तोमरसङ्घाटा भेरीमण्डूककच्छपा |
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ||३०||
असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला |
अश्वनागरथैश्चैव सम्भिन्नैः कृतसङ्क्रमा ||३१||
पताकाध्वजवानीरा हतवाहनवाहिनी |
शोणितोदा सुसम्पूर्णा दुस्तरा पारगैर्नरैः ||३२||
हतनागमहानक्रा परलोकवहाशिवा |
ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा ||३३||
पुरुषादानुचरिता भीरूणां कश्मलावहा |
नदी योधमहायज्ञे तदस्यावभृथं स्मृतम् ||३४||
वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यते |
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ||३५||
पत्नीशाला कृता यस्य परेषां वाहिनीमुखम् |
हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः ||३६||
सदश्चान्तरयोधाग्निराग्नीध्रश्चोत्तरां दिशम् |
शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः ||३७||
यदा तूभयतो व्यूहो भवत्याकाशमग्रतः |
सास्य वेदी तथा यज्ञे नित्यं वेदास्त्रयोऽग्नयः ||३८||
यस्तु योधः परावृत्तः सन्त्रस्तो हन्यते परैः |
अप्रतिष्ठं स नरकं याति नास्त्यत्र संशयः ||३९||
यस्य शोणितवेगेन नदी स्यात्समभिप्लुता |
केशमांसास्थिसङ्कीर्णा स गच्छेत्परमां गतिम् ||४०||
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति |
स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः ||४१||
नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः |
जीवग्राहं निगृह्णाति तस्य लोका यथा मम ||४२||
आहवे निहतं शूरं न शोचेत कदाचन |
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ||४३||
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् |
हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ||४४||
वराप्सरःसहस्राणि शूरमायोधने हतम् |
त्वरमाणा हि धावन्ति मम भर्ता भवेदिति ||४५||
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः |
चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ||४६||
वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः |
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ||४७||
अहं वृत्रं बलं पाकं शतमायं विरोचनम् |
दुरावार्यं च नमुचिं नैकमायं च शम्बरम् ||४८||
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः |
प्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम् ||४९||
भीष्म उवाच||
इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च |
योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ||५०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
100-अध्यायः
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
प्रतर्दनो मैथिलश्च सङ्ग्रामं यत्र चक्रतुः ||१||
यज्ञोपवीती सङ्ग्रामे जनको मैथिलो यथा |
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर ||२||
जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् |
योधान्स्वान्दर्शयामास स्वर्गं नरकमेव च ||३||
अभीतानामिमे लोका भास्वन्तो हन्त पश्यत |
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः ||४||
इमे पलायमानानां नरकाः प्रत्युपस्थिताः |
अकीर्तिः शाश्वती चैव पतितव्यमनन्तरम् ||५||
तान्दृष्ट्वारीन्विजयतो भूत्वा सन्त्यागबुद्धयः |
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः ||६||
त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम् |
इत्युक्तास्ते नृपतिना योधाः परपुरञ्जय ||७||
व्यजयन्त रणे शत्रून्हर्षयन्तो जनेश्वरम् |
तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि ||८||
गजानां रथिनो मध्ये रथानामनु सादिनः |
सादिनामन्तरा स्थाप्यं पादातमिह दंशितम् ||९||
य एवं व्यूहते राजा स नित्यं जयते द्विषः |
तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर ||१०||
सर्वे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः |
क्षोभयेयुरनीकानि सागरं मकरा इव ||११||
हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम् |
जितां च भूमिं रक्षेत भग्नान्नात्यनुसारयेत् ||१२||
पुनरावर्तमानानां निराशानां च जीविते |
न वेगः सुसहो राजंस्तस्मान्नात्यनुसारयेत् ||१३||
न हि प्रहर्तुमिच्छन्ति शूराः प्राद्रवतां भयात् |
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् ||१४||
चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि |
अपाणयः पाणिमतामन्नं शूरस्य कातराः ||१५||
समानपृष्ठोदरपाणिपादाः; पश्चाच्छूरं भीरवोऽनुव्रजन्ति |
अतो भयार्ताः प्रणिपत्य भूयः; कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् ||१६||
शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदा |
तस्मात्सर्वास्ववस्थासु शूरः संमानमर्हति ||१७||
न हि शौर्यात्परं किञ्चित्त्रिषु लोकेषु विद्यते |
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ||१८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
101-अध्यायः
युधिष्ठिर उवाच||
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ |
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे |
साध्वाचारतया केचित्तथैवौपयिका अपि ||२||
उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः ||२||
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः |
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ||३||
कार्याणां सम्प्रसिद्ध्यर्थं तानुपायान्निबोध मे ||३||
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत |
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ||४||
अमित्रा एव राजानं भेदेनोपचरन्त्युत |
तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते ||५||
गजानां पार्श्वचर्माणि गोवृषाजगराणि च |
शल्यकङ्कटलोहानि तनुत्राणि मतानि च ||६||
शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः |
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते ||७||
ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः |
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ||८||
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः ||८||
चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते |
पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा ||९||
नैवातिशीतो नात्युष्णः कालो भवति भारत |
तस्मात्तदा योजयेत परेषां व्यसनेषु वा ||१०||
एतेषु योगाः सेनायाः प्रशस्ताः परबाधने ||१०||
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते |
चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः ||११||
नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव |
तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः ||१२||
आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते |
परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् ||१३||
आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् |
बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः ||१४||
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् |
अथ शत्रुप्रतीघातमापदर्थं परायणम् ||१५||
सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव |
अनेन विधिना राजञ्जिगीषेतापि दुर्जयान् ||१६||
यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः |
पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर ||१७||
अकर्दमामनुदकाममर्यादामलोष्टकाम् |
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ||१८||
समा निरुदकाकाशा रथभूमिः प्रशस्यते |
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् ||१९||
बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता |
पदातीनां क्षमा भूमिः पर्वतोपवनानि च ||२०||
पदातिबहुला सेना दृढा भवति भारत |
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ||२१||
पदातिनागबहुला प्रावृट्काले प्रशस्यते |
गुणानेतान्प्रसङ्ख्याय देशकालौ प्रयोजयेत् ||२२||
एवं सञ्चिन्त्य यो याति तिथिनक्षत्रपूजितः |
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ||२३||
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् |
मोक्षे प्रयाणे चलने पानभोजनकालयोः ||२४||
अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान् |
सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् ||२५||
बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः ||२५||
पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः |
परिचर्यावरोद्धारो ये च केचन वल्गिनः ||२६||
अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च |
समानाशनपानास्ते कार्या द्विगुणवेतनाः ||२७||
दशाधिपतयः कार्याः शताधिपतयस्तथा |
तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ||२८||
यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे |
यथा जयार्थं सङ्ग्रामे न जह्याम परस्परम् ||२९||
इहैव ते निवर्तन्तां ये नः केचन भीरवः |
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति ||३०||
आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे |
द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने ||३१||
अमनोज्ञासुखा वाचः पुरुषस्य पलायतः |
प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च ||३२||
हित्वा पलायमानस्य सहायान्प्राणसंशये |
अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा ||३३||
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः |
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ||३४||
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् |
जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च ||३५||
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः |
तदसह्यतरं दुःखमहं मन्ये वधादपि ||३६||
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च |
सा भीरूणां परान्याति शूरस्तामधिगच्छति ||३७||
ते वयं स्वर्गमिच्छन्तः सङ्ग्रामे त्यक्तजीविताः |
जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् ||३८||
एवं संशप्तशपथाः समभित्यक्तजीविताः |
अमित्रवाहिनीं वीराः सम्प्रगाहन्त्यभीरवः ||३९||
अग्रतः पुरुषानीकमसिचर्मवतां भवेत् |
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ||४०||
परेषां प्रतिघातार्थं पदातीनां च गूहनम् |
अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः ||४१||
ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः |
ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः ||४२||
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः |
स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः ||४३||
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् |
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ||४४||
सम्प्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् |
प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति ||४५||
आगतं नो मित्रबलं प्रहरध्वमभीतवत् |
शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम् ||४६||
क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् |
भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान् ||४७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
102-अध्यायः
युधिष्ठिर उवाच||
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत |
किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप ||१||
भीष्म उवाच||
यथाचरितमेवात्र शस्त्रपत्रं विधीयते |
आचारादेव पुरुषस्तथा कर्मसु वर्तते ||२||
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः |
आभीरवः सुबलिनस्तद्बलं सर्वपारगम् ||३||
सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्युशीनराः |
प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः ||४||
तथा यवनकाम्बोजा मथुरामभितश्च ये |
एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः ||५||
सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः |
प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु ||६||
सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः |
पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः ||७||
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे |
प्रवादिनः सुचण्डाश्च क्रोधिनः किंनरीस्वनाः ||८||
मेघस्वनाः क्रुद्धमुखाः केचित्करभनिस्वनाः |
जिह्मनासानुजङ्घाश्च दूरगा दूरपातिनः ||९||
बिडालकुब्जास्तनवस्तनुकेशास्तनुत्वचः |
शूराश्चपलचित्ताश्च ते भवन्ति दुरासदाः ||१०||
गोधानिमीलिताः केचिन्मृदुप्रकृतयोऽपि च |
तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः ||११||
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः |
प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च ||१२||
गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः |
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः ||१३||
जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च |
वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसन्तताः ||१४||
प्रविशन्त्यतिवेगेन सम्परायेऽभ्युपस्थिते |
वारणा इव संमत्तास्ते भवन्ति दुरासदाः ||१५||
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः |
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः ||१६||
उद्वृत्ताश्चैव सुग्रीवा विनता विहगा इव |
पिण्डशीर्षाहिवक्त्राश्च वृषदंशमुखा इव ||१७||
उग्रस्वना मन्युमन्तो युद्धेष्वारावसारिणः |
अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः ||१८||
त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः |
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते ||१९||
अधार्मिका भिन्नवृत्ताः साध्वेवैषां पराभवः |
एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः ||२०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
103-अध्यायः
युधिष्ठिर उवाच||
जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ |
पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम् ||१||
भीष्म उवाच||
जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ |
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः ||२||
दैवं पूर्वं विकुरुते मानुषे कालचोदिते |
तद्विद्वांसोऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा ||३||
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः |
मङ्गलानि च कुर्वन्तः शमयन्त्यहितान्यपि ||४||
उदीर्णमनसो योधा वाहनानि च भारत |
यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत् ||५||
अन्वेनां वायवो वान्ति तथैवेन्द्रधनूंषि च |
अनुप्लवन्ते मेघाश्च तथादित्यस्य रश्मयः ||६||
गोमायवश्चानुलोमा वडा गृध्राश्च सर्वशः |
आचरेयुर्यदा सेनां तदा सिद्धिरनुत्तमा ||७||
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः |
पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः ||८||
गम्भीरशब्दाश्च महास्वनाश्च; शङ्खाश्च भेर्यश्च नदन्ति यत्र |
युयुत्सवश्चाप्रतीपा भवन्ति; जयस्यैतद्भाविनो रूपमाहुः ||९||
इष्टा मृगाः पृष्ठतो वामतश्च; सम्प्रस्थितानां च गमिष्यतां च |
जिघांसतां दक्षिणाः सिद्धिमाहु; र्ये त्वग्रतस्ते प्रतिषेधयन्ति ||१०||
मङ्गल्यशब्दाः शकुना वदन्ति; हंसाः क्रौञ्चाः शतपत्राश्च चाषाः |
हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद्भाविनो रूपमाहुः ||११||
शस्त्रैः पत्रैः कवचैः केतुभिश्च; सुभानुभिर्मुखवर्णैश्च यूनाम् |
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्तेऽभिभवन्ति शत्रून् ||१२||
शुश्रूषवश्चानभिमानिनश्च; परस्परं सौहृदमास्थिताश्च |
येषां योधाः शौचमनुष्ठिताश्च; जयस्यैतद्भाविनो रूपमाहुः ||१३||
शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः |
धैर्यं चाविशते योधान्विजयस्य मुखं तु तत् ||१४||
इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः |
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति ||१५||
सम्भृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर |
साम्नैवावर्तने पूर्वं प्रयतेथास्तथो युधि ||१६||
जघन्य एष विजयो यद्युद्धं नाम भारत |
यादृच्छिको युधि जयो दैवो वेति विचारणम् ||१७||
अपामिव महावेगस्त्रस्ता मृगगणा इव |
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः ||१८||
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि नकारणम् |
उदारसारा महती रुरुसङ्घोपमा चमूः ||१९||
परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः |
अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम् ||२०||
अथ वा पञ्च षट्सप्त सहिताः कृतनिश्चयाः |
कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् ||२१||
संनिपातो न गन्तव्यः शक्ये सति कथञ्चन |
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते ||२२||
संसर्पणाद्धि सेनाया भयं भीरून्प्रबाधते |
वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति ||२३||
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ |
तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च ||२४||
विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः |
शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम् ||२५||
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः |
सम्पीड्यमाना हि परे योगमायान्ति सर्वशः ||२६||
अन्तराणां च भेदार्थं चारानभ्यवचारयेत् |
यश्च तस्मात्परो राजा तेन सन्धिः प्रशस्यते ||२७||
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा |
यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् ||२८||
क्षमा वै साधुमाया हि न हि साध्वक्षमा सदा |
क्षमायाश्चाक्षमायाश्च विद्धि पार्थ प्रयोजनम् ||२९||
विजित्य क्षममाणस्य यशो राज्ञोऽभिवर्धते |
महापराधा ह्यप्यस्मिन्विश्वसन्ति हि शत्रवः ||३०||
मन्यते कर्शयित्वा तु क्षमा साध्विति शम्बरः |
असन्तप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः ||३१||
नैतत्प्रशंसन्त्याचार्या न च साधु निदर्शनम् |
अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत् ||३२||
द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर |
मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् ||३३||
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत |
प्रहृत्य च कृपायेत शोचन्निव रुदन्निव ||३४||
न मे प्रियं यत्स हतः सम्प्राहैवं पुरो वचः |
न चकर्थ च मे वाक्यमुच्यमानः पुनः पुनः ||३५||
अहो जीवितमाकाङ्क्षे नेदृशो वधमर्हति |
सुदुर्लभाः सुपुरुषाः सङ्ग्रामेष्वपलायिनः ||३६||
कृतं ममाप्रियं तेन येनायं निहतो मृधे |
इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः ||३७||
हन्तॄणां चाहतानां च यत्कुर्युरपराधिनः |
क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसङ्ग्रहम् ||३८||
एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरन् |
प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः ||३९||
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत |
विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः ||४०||
तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया |
सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति ||४१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
104-अध्यायः
इन्द्रबृहस्पतिसंवादः
युधिष्ठिर उवाच||
कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव |
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ||२||
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः |
उपसङ्गम्य पप्रच्छ वासवः परवीरहा ||३||
अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः |
असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः ||४||
सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत् |
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी ||५||
ततो धर्मार्थकामानां कुशलः प्रतिभानवान् |
राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् ||६||
न जातु कलहेनेच्छेन्नियन्तुमपकारिणः |
बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा ||७||
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता ||७||
क्रोधं बलममर्षं च नियम्यात्मजमात्मनि |
अमित्रमुपसेवेत विश्वस्तवदविश्वसन् ||८||
प्रियमेव वदेन्नित्यं नाप्रियं किञ्चिदाचरेत् |
विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् ||९||
यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः |
तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः ||१०||
वशं चोपनयेच्छत्रून्निहन्याच्च पुरंदर ||१०||
न नित्यं परिभूयारीन्सुखं स्वपिति वासव |
जागर्त्येव च दुष्टात्मा सङ्करेऽग्निरिवोत्थितः ||११||
न संनिपातः कर्तव्यः सामान्ये विजये सति |
विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो ||१२||
सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः |
उपेक्षमाणोऽवज्ञाते हृदयेनापराजितः ||१३||
अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे |
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः ||१४||
आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत् |
बलानि दूषयेदस्य जानंश्चैव प्रमाणतः ||१५||
भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा |
न त्वेव चेलसंसर्गं रचयेदरिभिः सह ||१६||
दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान् |
कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः ||१७||
न सद्योऽरीन्विनिर्हन्याद्दृष्टस्य विजयोऽज्वरः |
न यः शल्यं घट्टयति नवं च कुरुते व्रणम् ||१८||
प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः |
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति ||१९||
यः कालो हि व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् |
दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा ||२०||
और्जस्थ्यं विजयेदेवं सङ्गृह्णन्साधुसंमतान् |
कालेन साधयेन्नित्यं नाप्राप्तेऽभिनिपीडयेत् ||२१||
विहाय कामं क्रोधं च तथाहङ्कारमेव च |
युक्तो विवरमन्विच्छेदहितानां पुरंदर ||२२||
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम |
मायाश्च विविधाः शक्र साधयन्त्यविचक्षणम् ||२३||
निहत्यैतानि चत्वारि मायां प्रतिविधाय च |
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् ||२४||
यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत् |
यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्यपि ||२५||
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत् |
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् ||२६||
भेदं च प्रथमं युञ्ज्यात्तूष्णींदण्डं तथैव च |
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा ||२७||
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः |
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः ||२८||
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् |
अमित्रमुपसेवेत न तु जातु विशङ्कयेत् ||२९||
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत् |
न च तेष्वाश्वसेद्द्रुग्ध्वा जाग्रतीह निराकृताः ||३०||
न ह्यतो दुष्करं कर्म किञ्चिदस्ति सुरोत्तम |
यथा विविधवृत्तानामैश्वर्यममराधिप ||३१||
तथा विविधशीलानामपि सम्भव उच्यते |
यतेत योगमास्थाय मित्रामित्रानवारयन् ||३२||
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः |
मातीक्ष्णो मामृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ||३३||
यथा वप्रे वेगवति सर्वतःसम्प्लुतोदके |
नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः ||३४||
न बनूनभियुञ्जीत यौगपद्येन शात्रवान् |
साम्ना दानेन भेदेन दण्डेन च पुरंदर ||३५||
एकैकमेषां निष्पिंषञ्शिष्टेषु निपुणं चरेत् |
न च शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः ||३६||
यदा स्यान्महती सेना हयनागरथाकुला |
पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी ||३७||
यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः |
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् ||३८||
न साम दण्डोपनिषत्प्रशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा |
न सस्यघातो न च सङ्करक्रिया; न चापि भूयः प्रकृतेर्विचारणा ||३९||
मायाविभेदानुपसर्जनानि; पापं तथैव स्पशसम्प्रयोगात् |
आप्तैर्मनुष्यैरुपचारयेत; पुरेषु राष्ट्रेषु च सम्प्रयुक्तः ||४०||
पुराणि चैषामनुसृत्य भूमिपाः; पुरेषु भोगान्निखिलानिहाजयन् |
पुरेषु नीतिं विहितां यथाविधि; प्रयोजयन्तो बलवृत्रसूदन ||४१||
प्रदाय गूढानि वसूनि नाम; प्रच्छिद्य भोगानवधाय च स्वान् |
दुष्टाः स्वदोषैरिति कीर्तयित्वा; पुरेषु राष्ट्रेषु च योजयन्ति ||४२||
तथैव चान्यै रतिशास्त्रवेदिभिः; स्वलङ्कृतैः शास्त्रविधानदृष्टिभिः |
सुशिक्षितैर्भाष्यकथाविशारदैः; परेषु कृत्यानुपधारयस्व ||४३||
इन्द्र उवाच||
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम |
कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे ||४४||
बृहस्पतिरुवाच||
परोक्षमगुणानाह सद्गुणानभ्यसूयति |
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः ||४५||
तूष्णीम्भावेऽपि हि ज्ञानं न चेद्भवति कारणम् |
विश्वासमोष्ठसंदंशं शिरसश्च प्रकम्पनम् ||४६||
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते |
अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते ||४७||
पृथगेत्य समश्नाति नेदमद्य यथाविधि |
आसने शयने याने भावा लक्ष्या विशेषतः ||४८||
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् |
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् ||४९||
एतान्येवं यथोक्तानि बुध्येथास्त्रिदशाधिप |
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः ||५०||
इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम |
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर ||५१||
भीष्म उवाच||
स तद्वचः शत्रुनिबर्हणे रत; स्तथा चकारावितथं बृहस्पतेः |
चचार काले विजयाय चारिहा; वशं च शत्रूननयत्पुरंदरः ||५२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
105-अध्यायः
कालकवृक्षीयम्
युधिष्ठिर उवाच||
धार्मिकोऽर्थानसम्प्राप्य राजामात्यैः प्रबाधितः |
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् ||१||
भीष्म उवाच||
अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते |
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर ||२||
क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा |
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ||३||
तं पप्रच्छोपसङ्गृह्य कृच्छ्रामापदमास्थितः ||३||
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः |
अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति ||४||
अन्यत्र मरणात्स्तेयादन्यत्र परसंश्रयात् |
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम ||५||
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा |
बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् ||६||
निर्विद्य हि नरः कामान्नियम्य सुखमेधते |
त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु ||७||
सुखमर्थाश्रयं येषामनुशोचामि तानहम् |
मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः ||८||
दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये |
वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः ||९||
इमामवस्थां सम्प्राप्तं दीनमार्तं श्रियश्च्युतम् |
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् ||१०||
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता |
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः ||११||
पुरस्तादेव ते बुद्धिरियं कार्या विजानतः |
अनित्यं सर्वमेवेदमहं च मम चास्ति यत् ||१२||
यत्किञ्चिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् |
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः ||१३||
यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति |
एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे ||१४||
यच्च पूर्वे समाहारे यच्च पूर्वतरे परे |
सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसञ्ज्वरेत् ||१५||
भूत्वा च न भवत्येतदभूत्वा च भवत्यपि |
शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः ||१६||
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः |
न त्वं पश्यसि तानद्य न त्वा पश्यन्ति तेऽपि च ||१७||
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि |
बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि ||१८||
अहं च त्वं च नृपते शत्रवः सुहृदश्च ते |
अवश्यं न भविष्यामः सर्वं च न भविष्यति ||१९||
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः |
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् ||२०||
अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः |
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः ||२१||
अनागतं यन्न ममेति विद्या; दतिक्रान्तं यन्न ममेति विद्यात् |
दिष्टं बलीय इति मन्यमाना; स्ते पण्डितास्तत्सतां स्थानमाहुः ||२२||
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते |
बुद्धिपौरुषसम्पन्नास्त्वया तुल्याधिका जनाः ||२३||
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः |
किं नु त्वं तैर्न वै श्रेयांस्तुल्यो वा बुद्धिपौरुषैः ||२४||
राजपुत्र उवाच||
यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तये |
ह्रियते सर्वमेवेदं कालेन महता द्विज ||२५||
तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन |
फलमेतत्प्रपश्यामि यथालब्धेन वर्तये ||२६||
मुनिरुवाच||
अनागतमतीतं च यथा तथ्यविनिश्चयात् |
नानुशोचसि कौसल्य सर्वार्थेषु तथा भव ||२७||
अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन |
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ||२८||
यथा लब्धोपपन्नार्थस्तथा कौसल्य रंस्यसे |
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि ||२९||
पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः |
धातारं गर्हते नित्यं लब्धार्थांश्च न मृष्यते ||३०||
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान् |
एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते ||३१||
ईर्ष्यातिच्छेदसम्पन्ना राजन्पुरुषमानिनः |
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप ||३२||
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा |
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः ||३३||
अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात् ||३३||
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः |
त्यागधर्मविदो वीराः स्वयमेव त्यजन्त्युत ||३४||
बहु सङ्कसुकं दृष्ट्वा विवित्सासाधनेन च |
तथान्ये सन्त्यजन्त्येनं मत्वा परमदुर्लभम् ||३५||
त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे |
अकाम्यान्कामयानोऽर्थान्पराचीनानुपद्रुतान् ||३६||
तां बुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज |
अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः ||३७||
अर्थायैव हि केषाञ्चिद्धननाशो भवत्युत |
अनन्त्यं तं सुखं मत्वा श्रियमन्यः परीक्षते ||३८||
रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते |
तथा तस्येहमानस्य समारम्भो विनश्यति ||३९||
कृच्छ्राल्लब्धमभिप्रेतं यदा कौसल्य नश्यति |
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः ||४०||
धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः |
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् ||४१||
जीवितं सन्त्यजन्त्येके धनलोभपरा नराः |
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते ||४२||
पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम् |
अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः ||४३||
सञ्चये च विनाशान्ते मरणान्ते च जीविते |
संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः ||४४||
धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम् |
अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसञ्ज्वरेत् ||४५||
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च |
पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः ||४६||
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम् ||४६||
प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च |
प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसम्भवे ||४७||
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति ||४७||
अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः |
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति ||४८||
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि |
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् ||४९||
अपि मूलफलाजीवो रमस्वैको महावने |
वाग्यतः सङ्गृहीतात्मा सर्वभूतदयान्वितः ||५०||
सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना |
यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति ||५१||
महाह्रदः सङ्क्षुभित आत्मनैव प्रसीदति |
एतदेवङ्गतस्याहं सुखं पश्यामि केवलम् ||५२||
असम्भवे श्रियो राजन्हीनस्य सचिवादिभिः |
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् ||५३||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
106-अध्यायः
मुनिरुवाच||
अथ चेत्पौरुषं किञ्चित्क्षत्रियात्मनि पश्यसि |
ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये ||१||
तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि |
शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः ||२||
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि |
राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम् ||३||
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते ||३||
राजपुत्र उवाच||
ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो |
अमोघमिदमद्यास्तु त्वया सह समागतम् ||४||
मुनिरुवाच||
हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा |
प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः ||५||
तमुत्तमेन शौचेन कर्मणा चाभिराधय |
दातुमर्हति ते वृत्तिं वैदेहः सत्यसङ्गरः ||६||
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि |
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन् ||७||
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः |
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः ||८||
तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः |
प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् ||९||
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् |
अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय ||१०||
परैर्वा संविदं कृत्वा बलमप्यस्य घातय ||१०||
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च |
शय्यासनानि यानानि महार्हाणि गृहाणि च ||११||
पक्षिणो मृगजातानि रसा गन्धाः फलानि च |
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः ||१२||
यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति |
न जातु विवृतः कार्यः शत्रुर्विनयमिच्छता ||१३||
वसस्व परमामित्रविषये प्राज्ञसंमते |
भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः ||१४||
आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रयोजय |
नदीबन्धविरोधांश्च बलवद्भिर्विरुध्यताम् ||१५||
उद्यानानि महार्हाणि शयनान्यासनानि च |
प्रतिभोगसुखेनैव कोशमस्य विरेचय ||१६||
यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम् |
ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव ||१७||
असंशयं पुण्यशीलः प्राप्नोति परमां गतिम् |
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः ||१८||
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति ||१८||
उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च |
बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः ||१९||
निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय |
असंशयं दैवपरः क्षिप्रमेव विनश्यति ||२०||
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् |
ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम् ||२१||
त्यागधर्मविदं मुण्डं कञ्चिदस्योपवर्णय |
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् ||२२||
सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना |
नागानश्वान्मनुष्यांश्च कृतकैरुपघातय ||२३||
एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः |
शक्या विषहता कर्तुं नक्लीबेन नृपात्मज ||२४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
107-अध्यायः
राजपुत्र उवाच||
न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् |
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् ||१||
पुरस्तादेव भगवन्मयैतदपवर्जितम् |
येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत् ||२||
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः |
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते ||३||
मुनिरुवाच||
उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे |
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन ||४||
उभयोरेव वामर्थे यतिष्ये तव तस्य च |
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् ||५||
त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम् |
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् ||६||
यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः |
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् ||७||
आगन्ता मद्गृहं तात वैदेहः सत्यसङ्गरः |
यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम् ||८||
भीष्म उवाच||
तत आहूय वैदेहं मुनिर्वचनमब्रवीत् |
अयं राजकुले जातो विदिताभ्यन्तरो मम ||९||
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव |
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः ||१०||
तेन ते सन्धिरेवास्तु विश्वसास्मिन्यथा मयि |
न राज्यमनमात्येन शक्यं शास्तुममित्रहन् ||११||
अमात्यः शूर एव स्याद्बुद्धिसम्पन्न एव च |
ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् ||१२||
धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी ||१२||
कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः |
सुसङ्गृहीतस्त्वेवैष त्वया धर्मपुरोगमः ||१३||
संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् ||१३||
यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत् |
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ||१४||
त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः |
अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः ||१५||
स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसाम्प्रतम् |
न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि ||१६||
नैव नित्यं जयस्तात नैव नित्यं पराजयः |
तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः ||१७||
आत्मन्येव हि संदृश्यावुभौ जयपराजयौ |
निःशेषकारिणां तात निःशेषकरणाद्भयम् ||१८||
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् |
अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च ||१९||
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः |
श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत् ||२०||
तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा |
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा ||२१||
ततः कौशल्यमाहूय वैदेहो वाक्यमब्रवीत् |
धर्मतो नीतितश्चैव बलेन च जितो मया ||२२||
सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम |
आत्मानमनवज्ञाय जितवद्वर्ततां भवान् ||२३||
नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् |
नावमन्ये जयामीति जितवद्वर्ततां भवान् ||२४||
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् |
ततः सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् ||२५||
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा |
पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् ||२६||
ददौ दुहितरं चास्मै रत्नानि विविधानि च |
एष राज्ञां परो धर्मः सह्यौ जयपराजयौ ||२७||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
108-अध्यायः
युधिष्ठिर उवाच||
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप |
धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च ||१||
राज्ञां वृत्तं च कोशश्च कोशसञ्जननं महत् |
अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम् ||२||
षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च |
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ||३||
समहीनाधिकानां च यथावल्लक्षणोच्चयः |
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता ||४||
क्षीणसङ्ग्रहवृत्तिश्च यथावत्सम्प्रकीर्तिता |
लघुनादेशरूपेण ग्रन्थयोगेन भारत ||५||
विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते |
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ||६||
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत |
अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ||७||
भेदमूलो विनाशो हि गणानामुपलभ्यते |
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ||८||
एतदिच्छाम्यहं श्रोतुं निखिलेन परन्तप |
यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव ||९||
भीष्म उवाच||
गणानां च कुलानां च राज्ञां च भरतर्षभ |
वैरसंदीपनावेतौ लोभामर्षौ जनाधिप ||१०||
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् |
तौ क्षयव्ययसंयुक्तावन्योन्यजनिताश्रयौ ||११||
चारमन्त्रबलादानैः सामदानविभेदनैः |
क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम् ||१२||
तत्र दानेन भिद्यन्ते गणाः सङ्घातवृत्तयः |
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ||१३||
भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः |
तस्मात्सङ्घातयोगेषु प्रयतेरन्गणाः सदा ||१४||
अर्था ह्येवाधिगम्यन्ते सङ्घातबलपौरुषात् |
बाह्याश्च मैत्रीं कुर्वन्ति तेषु सङ्घातवृत्तिषु ||१५||
ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम् |
विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः ||१६||
धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः |
यथावत्सम्प्रवर्तन्तो विवर्धन्ते गणोत्तमाः ||१७||
पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः |
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ||१८||
चारमन्त्रविधानेषु कोशसंनिचयेषु च |
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ||१९||
प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान् |
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ||२०||
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः |
कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारयन्ति ते ||२१||
क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः |
नयन्त्यरिवशं सद्यो गणान्भरतसत्तम ||२२||
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः |
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ||२३||
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन |
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ||२४||
गणमुख्यैस्तु सम्भूय कार्यं गणहितं मिथः |
पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा ||२५||
अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च ||२५||
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् |
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ||२६||
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः |
गोत्रस्य राजन्कुर्वन्ति गणसम्भेदकारिकाम् ||२७||
आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम् |
अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति ||२८||
अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात् |
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ||२९||
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा |
न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः ||३०||
भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः |
तस्मात्सङ्घातमेवाहुर्गणानां शरणं महत् ||३१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
109-अध्यायः
युधिष्ठिर उवाच||
महानयं धर्मपथो बहुशाखश्च भारत |
किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् ||१||
किं कार्यं सर्वधर्माणां गरीयो भवतो मतम् |
यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात् ||२||
भीष्म उवाच||
मातापित्रोर्गुरूणां च पूजा बहुमता मम |
अत्र युक्तो नरो लोकान्यशश्च महदश्नुते ||३||
यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः |
धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर ||४||
न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत् |
यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः ||५||
एत एव त्रयो लोका एत एवाश्रमास्त्रयः |
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः ||६||
पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः |
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ||७||
त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्लोकानवजेष्यसि |
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम् ||८||
ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि ||८||
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत |
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् ||९||
नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत् |
नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम् ||१०||
कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप ||१०||
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः |
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ||११||
नैवायं न परो लोकस्तस्य चैव परन्तप |
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः ||१२||
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते |
न चान्यदपि कल्याणं पारत्रं समुदाहृतम् ||१३||
तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम् |
तदासीन्मे शतगुणं सहस्रगुणमेव च ||१४||
तस्मान्मे सम्प्रकाशन्ते त्रयो लोका युधिष्ठिर ||१४||
दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते |
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ||१५||
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि |
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ||१६||
गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः ||१६||
उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः |
शरीरमेतौ सृजतः पिता माता च भारत ||१७||
आचार्यशिष्टा या जातिः सा दिव्या साजरामरा ||१७||
अवध्या हि सदा माता पिता चाप्यपकारिणौ |
न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम् ||१८||
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः ||१८||
य आवृणोत्यवितथेन कर्णा; वृतं ब्रुवन्नमृतं सम्प्रयच्छन् |
तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन् ||१९||
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा |
यथैव ते गुरुभिर्भावनीया; स्तथा तेषां गुरवोऽप्यर्चनीयाः ||२०||
तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः |
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता ||२१||
येन प्रीताश्च पितरस्तेन प्रीतः पितामहः |
प्रीणाति मातरं येन पृथिवी तेन पूजिता ||२२||
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् |
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः ||२३||
ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह ||२३||
न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् |
न च माता न च पिता तादृशो यादृशो गुरुः ||२४||
न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम् |
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः ||२५||
उपाध्यायं पितरं मातरं च; येऽभिद्रुह्यन्ति मनसा कर्मणा वा |
तेषां पापं भ्रूणहत्याविशिष्टं; तस्मान्नान्यः पापकृदस्ति लोके ||२६||
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च |
चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुमः ||२७||
एतत्सर्वमतिदेशेन सृष्टं; यत्कर्तव्यं पुरुषेणेह लोके |
एतच्छ्रेयो नान्यदस्माद्विशिष्टं; सर्वान्धर्माननुसृत्यैतदुक्तम् ||२८||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
110-अध्यायः
युधिष्ठिर उवाच||
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत |
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ||१||
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः |
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ||२||
किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम् |
कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत् ||३||
भीष्म उवाच||
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् |
यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत ||४||
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् |
यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत् ||५||
तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम् |
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ||६||
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः |
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ||७||
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् |
सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः ||८||
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः |
दुष्करः प्रतिसङ्ख्यातुं तर्केणात्र व्यवस्यति ||९||
प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम् |
यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः ||१०||
धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः |
यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः ||११||
श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः |
न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते ||१२||
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् |
तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः ||१३||
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन |
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात् ||१४||
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् |
यः पापैः सह सम्बन्धान्मुच्यते शपथादिति ||१५||
न च तेभ्यो धनं देयं शक्ये सति कथञ्चन |
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ||१६||
स्वशरीरोपरोधेन वरमादातुमिच्छतः |
सत्यसम्प्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित् ||१७||
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ||१७||
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् |
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् ||१८||
परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः ||१८||
प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः |
यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः ||१९||
शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् |
सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः ||२०||
धनमित्येव पापानां सर्वेषामिह निश्चयः |
येऽविषह्या ह्यसम्भोज्या निकृत्या पतनं गताः ||२१||
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते |
धनादानाद्दुःखतरं जीविताद्विप्रयोजनम् ||२२||
अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः |
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः ||२३||
तथागतं च यो हन्यान्नासौ पापेन लिप्यते |
स्वकर्मणा हतं हन्ति हत एव स हन्यते ||२४||
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ||२४||
यथा काकश्च गृध्रश्च तथैवोपधिजीविनः |
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ||२५||
यस्मिन्यथा वर्तते यो मनुष्य; स्तस्मिंस्तथा वर्तितव्यं स धर्मः |
मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः ||२६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
111-अध्यायः
युधिष्ठिर उवाच||
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः |
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः |
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ||२||
ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता |
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ||३||
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः |
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ||४||
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः |
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते ||५||
स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्वृतावृतौ |
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते ||६||
ये न लोभान्नयन्त्यर्थान्राजानो रजसावृताः |
विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते ||७||
आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् |
धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते ||८||
ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा |
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते ||९||
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते |
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते ||१०||
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते |
तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते ||११||
कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः |
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते ||१२||
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः |
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ||१३||
ये च संशान्तरजसः संशान्ततमसश्च ये |
सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते ||१४||
येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित् |
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ||१५||
परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः |
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते ||१६||
सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते |
ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते ||१७||
ये न मानितमिच्छन्ति मानयन्ति च ये परम् |
मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते ||१८||
ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः |
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ||१९||
ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च |
न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते ||२०||
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः |
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ||२१||
यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम् |
वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ||२२||
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् |
भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते ||२३||
य एष रक्तपद्माक्षः पीतवासा महाभुजः |
सुहृद्भ्राता च मित्रं च सम्बन्धी च तवाच्युतः ||२४||
य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत् |
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः ||२५||
स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ |
राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः ||२६||
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् |
ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा ||२७||
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च |
पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ||२८||
इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ |
सन्तरेद्येन दुर्गाणि परत्रेह च मानवः ||२९||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
112-अध्यायः
व्याघ्रगोमायुसंवादः
युधिष्ठिर उवाच||
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः |
ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम् ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर ||२||
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः |
परहिंसारुचिः क्रूरो बभूव पुरुषाधमः ||३||
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् |
गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा ||४||
संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः |
न भक्षयति मांसानि परैरुपहृतान्यपि ||५||
अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः |
चकार च यथाकाममाहारं पतितैः फलैः ||६||
श्मशाने तस्य चावासो गोमायोः संमतोऽभवत् |
जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् ||७||
तस्य शौचममृष्यन्तः सर्वे ते सहजातयः |
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः ||८||
वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि |
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः ||९||
तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम् |
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते ||१०||
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः |
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ||११||
अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम् |
प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः ||१२||
श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम् |
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् ||१३||
आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे |
किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् ||१४||
भवन्तः सर्वलोभेन केवलं भक्षणे रताः |
अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः ||१५||
अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् |
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये ||१६||
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः |
कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् ||१७||
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह |
व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः ||१८||
तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे |
मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति ||१९||
अथ सम्पूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः |
गोमायुः प्रश्रितं वाक्यं बभाषे किञ्चिदानतः ||२०||
सदृशं मृगराजैतत्तव वाक्यं मदन्तरे |
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् ||२१||
न शक्यमनमात्येन महत्त्वमनुशासितुम् |
दुष्टामात्येन वा वीर शरीरपरिपन्थिना ||२२||
सहायाननुरक्तांस्तु यतेतानुपसंहितान् |
परस्परमसङ्घुष्टान्विजिगीषूनलोलुपान् ||२३||
तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः |
पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन् ||२४||
न त्वेवं मम सन्तोषाद्रोचतेऽन्यन्मृगाधिप |
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् ||२५||
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः |
ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे ||२६||
संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् |
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः ||२७||
दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः |
कृती चामोघकर्तासि भाव्यैश्च समलङ्कृतः ||२८||
किं तु स्वेनास्मि सन्तुष्टो दुःखा वृत्तिरनुष्ठिता |
सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः ||२९||
राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् |
वनचर्या च निःसङ्गा निर्भया निरवग्रहा ||३०||
नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि |
न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् ||३१||
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् |
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ||३२||
अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः |
उपघातैर्यथा भृत्या दूषिता निधनं गताः ||३३||
यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते |
समयं कृतमिच्छामि वर्तितव्यं यथा मयि ||३४||
मदीया माननीयास्ते श्रोतव्यं च हितं वचः |
कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा ||३५||
न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित् |
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि ||३६||
एक एकेन सङ्गम्य रहो ब्रूयां हितं तव |
न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते ||३७||
मया संमन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया |
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः ||३८||
एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः |
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः ||३९||
तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि |
प्राद्विषन्कृतसङ्घाताः पूर्वभृत्या मुहुर्मुहुः ||४०||
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च |
दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः ||४१||
अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः |
अशक्ताः किञ्चिदादातुं द्रव्यं गोमायुयन्त्रिताः ||४२||
व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते |
धनेन महता चैव बुद्धिरस्य विलोभ्यते ||४३||
न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह |
अथास्य समयं कृत्वा विनाशाय स्थिताः परे ||४४||
ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् |
अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि ||४५||
यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम् |
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् ||४६||
समयोऽयं कृतस्तेन साचिव्यमुपगच्छता |
नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता ||४७||
भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते |
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत ||४८||
कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम् |
सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना ||४९||
सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम् |
बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् ||५०||
छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः |
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते ||५१||
इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते |
श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः ||५२||
वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः |
धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः ||५३||
कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम् ||५३||
मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः |
आज्ञापयामास तदा गोमायुर्वध्यतामिति ||५४||
शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः |
मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत् ||५५||
पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम् |
कर्मसङ्घर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः ||५६||
नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका |
शुचेरपि हि युक्तस्य दोष एव निपात्यते ||५७||
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः |
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः ||५८||
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः ||५८||
बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः |
कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि ||५९||
शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव |
नेच्छते दीयमानं च साधु तावद्विमृश्यताम् ||६०||
असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शिनः |
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ||६१||
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव |
न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ||६२||
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् |
परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते ||६३||
न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम् |
श्लाघनीया च वर्या च लोके प्रभवतां क्षमा ||६४||
स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः |
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् ||६५||
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् |
स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति ||६६||
तस्मादथारिसङ्घाताद्गोमायोः कश्चिदागतः |
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ||६७||
ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः |
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ||६८||
अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् |
तेनामर्षेण सन्तप्तः प्रायमासितुमैच्छत ||६९||
शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः |
अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् ||७०||
तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमम् |
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा ||७१||
पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः |
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि ||७२||
स्वसन्तुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः |
स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः ||७३||
परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः |
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः ||७४||
सन्तापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः |
अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः ||७५||
अवमानेन युक्तस्य स्थापितस्य च मे पुनः |
कथं यास्यसि विश्वासमहमेष्यामि वा पुनः ||७६||
समर्थ इति सङ्गृह्य स्थापयित्वा परीक्ष्य च |
कृतं च समयं भित्त्वा त्वयाहमवमानितः ||७७||
प्रथमं यः समाख्यातः शीलवानिति संसदि |
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ||७८||
एवं चावमतस्येह विश्वासं किं प्रयास्यसि |
त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति ||७९||
शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः |
अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् ||८०||
दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते |
भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते ||८१||
कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः |
कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः ||८२||
सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् |
समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते ||८३||
अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् |
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ||८४||
एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत् |
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् ||८५||
अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् |
गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ ||८६||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
113-अध्यायः
उष्ट्रशिरोग्रीवकथनम्
युधिष्ठिर उवाच||
किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत् |
तन्ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर ||१||
भीष्म उवाच||
हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् |
यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् ||२||
न त्वेवं वर्तितव्यं स्म यथेदमनुशुश्रुमः |
उष्ट्रस्य सुमहद्वृत्तं तन्निबोध युधिष्ठिर ||३||
जातिस्मरो महानुष्ट्रः प्राजापत्ययुगोद्भवः |
तपः सुमहदातिष्ठदरण्ये संशितव्रतः ||४||
तपसस्तस्य चान्ते वै प्रीतिमानभवत्प्रभुः |
वरेण छन्दयामास ततश्चैनं पितामहः ||५||
उष्ट्र उवाच||
भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् |
योजनानां शतं साग्रं या गच्छेच्चरितुं विभो ||६||
भीष्म उवाच||
एवमस्त्विति चोक्तः स वरदेन महात्मना |
प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् ||७||
स चकार तदालस्यं वरदानात्स दुर्मतिः |
न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः ||८||
स कदाचित्प्रसार्यैवं तां ग्रीवां शतयोजनाम् |
चचाराश्रान्तहृदयो वातश्चागात्ततो महान् ||९||
स गुहायां शिरोग्रीवं निधाय पशुरात्मनः |
आस्ताथ वर्षमभ्यागात्सुमहत्प्लावयज्जगत् ||१०||
अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः |
सदारस्तां गुहामाशु प्रविवेश जलार्दितः ||११||
स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः |
अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ ||१२||
यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशुः |
तदा सङ्कोचने यत्नमकरोद्भृशदुःखितः ||१३||
यावदूर्ध्वमधश्चैव ग्रीवां सङ्क्षिपते पशुः |
तावत्तेन सदारेण जम्बुकेन स भक्षितः ||१४||
स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस्तदा |
विगते वातवर्षे च निश्चक्राम गुहामुखात् ||१५||
एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा |
आलस्यस्य क्रमात्पश्य महद्दोषमुपागतम् ||१६||
त्वमप्येतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः |
वर्तस्व बुद्धिमूलं हि विजयं मनुरब्रवीत् ||१७||
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत |
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ||१८||
राज्यं तिष्ठति दक्षस्य सङ्गृहीतेन्द्रियस्य च |
गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ ||१९||
परीक्ष्यकारिणोऽर्थाश्च तिष्ठन्तीह युधिष्ठिर |
सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् ||२०||
इदं हि सद्भिः कथितं विधिज्ञैः; पुरा महेन्द्रप्रतिमप्रभाव |
मयापि चोक्तं तव शास्त्रदृष्ट्या; त्वमत्र युक्तः प्रचरस्व राजन् ||२१||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
114-अध्यायः
सरित्सागरसंवादः
युधिष्ठिर उवाच||
राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ |
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
सरितां चैव संवादं सागरस्य च भारत ||२||
सुरारिनिलयः शश्वत्सागरः सरितां पतिः |
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः ||३||
समूलशाखान्पश्यामि निहतांश्छायिनो द्रुमान् |
युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसम् ||४||
अकायश्चाल्पसारश्च वेतसः कूलजश्च वः |
अवज्ञाय नशक्यो वा किञ्चिद्वा तेन वः कृतम् ||५||
तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम् |
यथा कूलानि चेमानि भित्त्वा नानीयते वशम् ||६||
ततः प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत् |
हेतुमद्ग्राहकं चैव सागरं सरितां पतिम् ||७||
तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः |
ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यादचेतसः ||८||
वेतसो वेगमायान्तं दृष्ट्वा नमति नेतरः |
स च वेगेऽभ्यतिक्रान्ते स्थानमासाद्य तिष्ठति ||९||
कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्रुमः |
अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः ||१०||
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च |
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ||११||
यो हि शत्रोर्विवृद्धस्य प्रभोर्वधविनाशने |
पूर्वं न सहते वेगं क्षिप्रमेव स नश्यति ||१२||
सारासारं बलं वीर्यमात्मनो द्विषतश्च यः |
जानन्विचरति प्राज्ञो न स याति पराभवम् ||१३||
एवमेव यदा विद्वान्मन्येतातिबलं रिपुम् |
संश्रयेद्वैतसीं वृत्तिमेवं प्रज्ञानलक्षणम् ||१४||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
115-अध्यायः
युधिष्ठिर उवाच||
विद्वान्मूर्खप्रगल्भेन मृदुस्तीक्ष्णेन भारत |
आक्रुश्यमानः सदसि कथं कुर्यादरिंदम ||१||
भीष्म उवाच||
श्रूयतां पृथिवीपाल यथैषोऽर्थोऽनुगीयते |
सदा सुचेताः सहते नरस्येहाल्पचेतसः ||२||
अरुष्यन्क्रुश्यमानस्य सुकृतं नाम विन्दति |
दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै ||३||
टिट्टिभं तमुपेक्षेत वाशमानमिवातुरम् |
लोकविद्वेषमापन्नो निष्फलं प्रतिपद्यते ||४||
इति स श्लाघते नित्यं तेन पापेन कर्मणा |
इदमुक्तो मया कश्चित्संमतो जनसंसदि ||५||
स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठति ||५||
श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः |
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः ||६||
यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्सदा |
प्राकृतो हि प्रशंसन्वा निन्दन्वा किं करिष्यति ||७||
वने काक इवाबुद्धिर्वाशमानो निरर्थकम् ||७||
यदि वाग्भिः प्रयोगः स्यात्प्रयोगे पापकर्मणः |
वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः ||८||
निषेकं विपरीतं स आचष्टे वृत्तचेष्टया |
मयूर इव कौपीनं नृत्यन्संदर्शयन्निव ||९||
यस्यावाच्यं न लोकेऽस्ति नाकार्यं वापि किञ्चन |
वाचं तेन न संदध्याच्छुचिः सङ्क्लिष्टकर्मणा ||१०||
प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः |
स मानवः श्ववल्लोके नष्टलोकपरायणः ||११||
तादृग्जनशतस्यापि यद्ददाति जुहोति च |
परोक्षेणापवादेन तन्नाशयति स क्षणात् ||१२||
तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम् |
वर्जयेत्साधुभिर्वर्ज्यं सारमेयामिषं यथा ||१३||
परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने |
प्रकाशयति दोषान्स्वान्सर्पः फणमिवोच्छ्रितम् ||१४||
तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति |
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति ||१५||
मनुष्यशालावृकमप्रशान्तं; जनापवादे सततं निविष्टम् |
मातङ्गमुन्मत्तमिवोन्नदन्तं; त्यजेत तं श्वानमिवातिरौद्रम् ||१६||
अधीरजुष्टे पथि वर्तमानं; दमादपेतं विनयाच्च पापम् |
अरिव्रतं नित्यमभूतिकामं; धिगस्तु तं पापमतिं मनुष्यम् ||१७||
प्रत्युच्यमानस्तु हि भूय एभि; र्निशाम्य मा भूस्त्वमथार्तरूपः |
उच्चस्य नीचेन हि सम्प्रयोगं; विगर्हयन्ति स्थिरबुद्धयो ये ||१८||
क्रुद्धो दशार्धेन हि ताडयेद्वा; स पांसुभिर्वापकिरेत्तुषैर्वा |
विवृत्य दन्तांश्च विभीषयेद्वा; सिद्धं हि मूर्खे कुपिते नृशंसे ||१९||
विगर्हणां परमदुरात्मना कृतां; सहेत यः संसदि दुर्जनान्नरः |
पठेदिदं चापि निदर्शनं सदा; न वाङ्मयं स लभति किञ्चिदप्रियम् ||२०||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
116-अध्यायः
युधिष्ठिर उवाच||
पितामह महाप्राज्ञ संशयो मे महानयम् |
स च्छेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः ||१||
पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम् |
कथितो वाक्यसञ्चारस्ततो विज्ञापयामि ते ||२||
यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् |
आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत् ||३||
पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् |
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे ||४||
अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः |
असुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः ||५||
यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः |
इन्द्रियाणामनीशत्वादसज्जनबुभूषकः ||६||
तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः |
न च भृत्यफलैरर्थैः स राजा सम्प्रयुज्यते ||७||
एतान्मे संशयस्थस्य राजधर्मान्सुदुर्लभान् |
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति ||८||
शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः |
क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा ||९||
त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् |
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् ||१०||
कीदृषाः संनिकर्षस्था भृत्याः स्युर्वा गुणान्विताः |
कीदृशैः किङ्कुलीनैर्वा सह यात्रा विधीयते ||११||
न ह्येको भृत्यरहितो राजा भवति रक्षिता |
राज्यं चेदं जनः सर्वस्तत्कुलीनोऽभिशंसति ||१२||
न हि प्रशास्तुं राज्यं हि शक्यमेकेन भारत |
असहायवता तात नैवार्थाः केचिदप्युत ||१३||
लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ ||१३||
भीष्म उवाच||
यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः |
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते ||१४||
मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः |
नृपतेर्मतिदाः सन्ति सम्बन्धज्ञानकोविदाः ||१५||
अनागतविधातारः कालज्ञानविशारदाः |
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते ||१६||
समदुःखसुखा यस्य सहायाः सत्यकारिणः |
अर्थचिन्तापरा यस्य स राज्यफलमश्नुते ||१७||
यस्य नार्तो जनपदः संनिकर्षगतः सदा |
अक्षुद्रः सत्पथालम्बी स राज्यफलभाग्भवेत् ||१८||
कोशाक्षपटलं यस्य कोशवृद्धिकरैर्जनैः |
आप्तैस्तुष्टैश्च सततं धार्यते स नृपोत्तमः ||१९||
कोष्ठागारमसंहार्यैराप्तैः सञ्चयतत्परैः |
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणीभवेत् ||२०||
व्यवहारश्च नगरे यस्य कर्मफलोदयः |
दृश्यते शङ्खलिखितः स धर्मफलभाग्भवेत् ||२१||
सङ्गृहीतमनुष्यश्च यो राजा राजधर्मवित् |
षड्वर्गं प्रतिगृह्णन्स धर्मात्फलमुपाश्नुते ||२२||
श्रीमहाभारतम्
||१२ शान्तिपर्वम् ||
117-अध्यायः
श्वर्षिसंवादः
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
निदर्शनकरं लोके सज्जनाचरितं सदा ||१||
अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने |
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः ||२||
वने महति कस्मिंश्चिदमनुष्यनिषेविते |
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः ||३||
दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः |
उपवासविशुद्धात्मा सततं सत्पथे स्थितः ||४||
तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः |
सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः ||५||
सिंहव्याघ्राः सशरभा मत्ताश्चैव महागजाः |
द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः ||६||
ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः |
तस्यर्षेः शिष्यवच्चैव न्यग्भूताः प्रियकारिणः ||७||
दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम् |
ग्राम्यस्त्वेकः पशुस्तत्र नाजहाच्छ्वा महामुनिम् ||८||
भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः |
फलमूलोत्कराहारः शान्तः शिष्टाकृतिर्यथा ||९||
तस्यर्षेरुपविष्टस्य पादमूले महामुनेः |
मनुष्यवद्गतो भावः स्नेहबद्धोऽभवद्भृशम् ||१०||
ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः |
श्वार्थमत्यन्तसंदुष्टः क्रूरः काल इवान्तकः ||११||
लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः |
व्यादितास्यः क्षुधाभग्नः प्रार्थयानस्तदामिषम् ||१२||
तं दृष्ट्वा क्रूरमायान्तं जीवितार्थी नराधिप |
प्रोवाच श्वा मुनिं तत्र यत्तच्छृणु महामते ||१३||
श्वशत्रुर्भगवन्नत्र द्वीपी मां हन्तुमिच्छति |
त्वत्प्रसादाद्भयं न स्यात्तस्मान्मम महामुने ||१४||
मुनिरुवाच||
न भयं द्वीपिनः कार्यं मृत्युतस्ते कथञ्चन |
एष श्वरूपरहितो द्वीपी भवसि पुत्रक ||१५||
भीष्म उवाच||
ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः |
चित्राङ्गो विस्फुरन्हृष्टो वने वसति निर्भयः ||१६||
ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः |
द्वीपिनं लेलिहद्वक्त्रो व्याघ्रो रुधिरलालसः ||१७||
व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम् |
द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान् ||१८||
ततः संवासजं स्नेहमृषिणा कुर्वता सदा |
स द्वीपी व्याघ्रतां नीतो रिपुभिर्बलवत्तरः ||१९||
ततो दृष्ट्वा स शार्दूलो नाभ्यहंस्तं विशां पते ||१९||
स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः |
न मूलफलभोगेषु स्पृहामप्यकरोत्तदा ||२०||
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः |
तथैव स महाराज व्याघ्रः समभवत्तदा ||२१||
व्याघ्रस्तूटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः |
नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः ||२२||
प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः |
सुविषाणो महाकायो मेघगम्भीरनिस्वनः ||२३||
तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगर्वितम् |
व्याघ्रो हस्तिभयात्त्रस्तस्तमृषिं शरणं ययौ ||२४||
ततोऽनयत्कुञ्जरतां तं व्याघ्रमृषिसत्तमः |
महामेघोपमं दृष्ट्वा तं स भीतोऽभवद्गजः ||२५||
ततः कमलषण्डानि शल्लकीगहनानि च |
व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः ||२६||
कदाचिद्रममाणस्य हस्तिनः सुमुखं तदा |
ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम् ||२७||
अथाजगाम तं देशं केसरी केसरारुणः |
गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः ||२८||
तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयाकुलः |
ऋषिं शरणमापेदे वेपमानो भयातुरः ||२९||
ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा |
वन्यं नागणयत्सिंहं तुल्यजातिसमन्वयात् ||३०||
दृष्ट्वा च सोऽनशत्सिंहो वन्यो भीसन्नवाग्बलः |
स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी ||३१||
न त्वन्ये क्षुद्रपशवस्तपोवननिवासिनः |
व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा ||३२||
कदाचित्कालयोगेन सर्वप्राणिविहिंसकः |
बलवान्क्षतजाहारो नानासत्त्वभयङ्करः ||३३||
अष्टपादूर्ध्वचरणः शरभो वनगोचरः |
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् ||३४||
तं मुनिः शरभं चक्रे बलोत्कटमरिंदम |
ततः स शरभो वन्यो मुनेः शरभमग्रतः ||३५||
दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्भयात् ||३५||
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा |
मुनेः पार्श्वगतो नित्यं शारभ्यं सुखमाप्तवान् ||३६||
ततः शरभसन्त्रस्ताः सर्वे मृगगणा वनात् |
दिशः सम्प्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः ||३७||
शरभोऽप्यतिसंदुष्टो नित्यं प्राणिवधे रतः |
फलमूलाशनं शान्तं नैच्छत्स पिशिताशनः ||३८||
ततो रुधिरतर्षेण बलिना शरभोऽन्वितः |
इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः ||३९||
ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा |
विज्ञाय च महाप्राज्ञो मुनिः श्वानं तमुक्तवान् ||४०||
श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः |
व्याघ्रो नागो मदपटुर्नागः सिंहत्वमाप्तवान् ||४१||
सिंहोऽतिबलसंयुक्तो भूयः शरभतां गतः |
मया स्नेहपरीतेन न विमृष्टः कुलान्वयः ||४२||
यस्मादेवमपापं मां पाप हिंसितुमिच्छसि |
तस्मात्स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि ||४३||
ततो मुनिजनद्वेषाद्दुष्टात्मा श्वाकृतोऽबुधः |
ऋषिणा शरभः शप्तः स्वं रूपं पुनराप्तवान् ||४४||