श्रीः
श्रीमहाभारतम्
||२ सभापर्वम् ||
001-अध्यायः
वैशम्पायन उवाच||
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ |
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ||१||
अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः |
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ||२||
अर्जुन उवाच||
कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर |
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ||३||
मय उवाच||
युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ |
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि भारत ||४||
अहं हि विश्वकर्मा वै दानवानां महाकविः |
सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव ||५||
अर्जुन उवाच||
प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया |
एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया ||६||
न चापि तव सङ्कल्पं मोघमिच्छामि दानव |
कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि ||७||
वैशम्पायन उवाच||
चोदितो वासुदेवस्तु मयेन भरतर्षभ |
मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति ||८||
चोदयामास तं कृष्णः सभा वै क्रियतामिति |
धर्मराजस्य दैतेय यादृशीमिह मन्यसे ||९||
यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः |
मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् ||१०||
यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया |
आसुरान्मानुषांश्चैव तां सभां कुरु वै मय ||११||
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा |
विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा ||१२||
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे |
सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् ||१३||
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा |
स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः ||१४||
स पूर्वदेवचरितं तत्र तत्र विशां पते |
कथयामास दैतेयः पाण्डुपुत्रेषु भारत ||१५||
स कालं कञ्चिदाश्वस्य विश्वकर्मा प्रचिन्त्य च |
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ||१६||
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः |
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ||१७||
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः |
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ||१८||
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम् |
दशकिष्कुसहस्रां तां मापयामास सर्वतः ||१९||
श्रीमहाभारतम्
||२ सभापर्वम् ||
002-अध्यायः
वैशम्पायन उवाच||
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः |
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ||१||
गमनाय मतिं चक्रे पितुर्दर्शनलालसः |
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ||२||
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः |
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ||३||
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः |
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः ||४||
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम् |
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ||५||
तया स्वजनगामीनि श्रावितो वचनानि सः |
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः ||६||
तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् |
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ||७||
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः |
द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः ||८||
भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली |
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ||९||
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः |
माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि ||१०||
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः ||१०||
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः |
वसु प्रदाय च ततः प्रदक्षिणमवर्तत ||११||
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् |
गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम् ||१२||
तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते |
प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः ||१३||
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः |
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ||१४||
अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा ||१४||
उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् |
रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ||१५||
तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी |
पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः ||१६||
स तथा भ्रातृभिः सार्धं केशवः परवीरहा |
अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः ||१७||
पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम् |
युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा ||१८||
परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः |
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ||१९||
निवर्तयित्वा च तदा पाण्डवान्सपदानुगान् |
स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः ||२०||
लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा |
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् ||२१||
अतृप्तमनसामेव तेषां केशवदर्शने |
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः ||२२||
अकामा इव पार्थास्ते गोविन्दगतमानसाः |
निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः ||२३||
स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात् ||२३||
श्रीमहाभारतम्
||२ सभापर्वम् ||
003-अध्यायः
वैशम्पायन उवाच||
अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् |
आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् ||१||
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति |
यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया ||२||
कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति ||२||
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः |
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ||३||
ततः सभां करिष्यामि पाण्डवाय यशस्विने |
मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ||४||
अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह |
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ||५||
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ||५||
सा वै शतसहस्रस्य संमिता सर्वघातिनी |
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ||६||
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् |
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ||७||
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् ||७||
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति |
हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः ||८||
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः |
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ||९||
यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना |
आहृताः क्रतवो मुख्याः शतं भरतसत्तम ||१०||
यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः |
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ||११||
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः |
यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः ||१२||
उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः ||१२||
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः |
उपासते यत्र सत्रं सहस्रयुगपर्यये ||१३||
यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः |
श्रद्दधानेन सततं शिष्टसम्प्रतिपत्तये ||१४||
सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः |
ददौ यत्र सहस्राणि प्रयुतानि च केशवः ||१५||
तत्र गत्वा स जग्राह गदां शङ्खं च भारत |
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ||१६||
किङ्करैः सह रक्षोभिरगृह्णात्सर्वमेव तत् ||१६||
तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् |
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ||१७||
गदां च भीमसेनाय प्रवरां प्रददौ तदा |
देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् ||१८||
सभा तु सा महाराज शातकुम्भमयद्रुमा |
दश किष्कुसहस्राणि समन्तादायताभवत् ||१९||
यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा |
भ्राजमाना तथा दिव्या बभार परमं वपुः ||२०||
प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् |
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ||२१||
नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता |
आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा ||२२||
उत्तमद्रव्यसम्पन्ना मणिप्राकारमालिनी |
बहुरत्ना बहुधना सुकृता विश्वकर्मणा ||२३||
न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी |
आसीद्रूपेण सम्पन्ना यां चक्रेऽप्रतिमां मयः ||२४||
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च |
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ||२५||
अन्तरिक्षचरा घोरा महाकाया महाबलाः |
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ||२६||
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः |
वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् ||२७||
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् |
पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् ||२८||
सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् |
मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् ||२९||
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः |
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ||३०||
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः |
आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः ||३१||
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः |
हंसकारण्डवयुताश्चक्रवाकोपशोभिताः ||३२||
जलजानां च माल्यानां स्थलजानां च सर्वशः |
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ||३३||
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः |
निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् ||३४||
श्रीमहाभारतम्
||२ सभापर्वम् ||
004-अध्यायः
वैशम्पायन उवाच||
ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः |
अयुतं भोजयामास ब्राह्मणानां नराधिपः ||१||
घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा |
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ||२||
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः |
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ||३||
वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि |
पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च ||४||
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा |
उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् ||५||
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः |
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ||६||
सभायामृषयस्तस्यां पाण्डवैः सह आसते |
आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः ||७||
असितो देवलः सत्यः सर्पमाली महाशिराः |
अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः ||८||
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः |
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ||९||
तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः |
अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ ||१०||
दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः |
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ ||११||
बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः |
जातूकर्णः शिखावांश्च सुबलः पारिजातकः ||१२||
पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः |
पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा ||१३||
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः |
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ||१४||
कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः |
पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः ||१५||
कर्करो वेणुजङ्घश्च कलापः कठ एव च ||१५||
मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः |
एते चान्ये च बहवो वेदवेदाङ्गपारगाः ||१६||
उपासते महात्मानं सभायामृषिसत्तमाः |
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः ||१७||
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते |
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः ||१८||
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् |
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ||१९||
काम्बोजराजः कमलः कम्पनश्च महाबलः ||१९||
सततं कम्पयामास यवनानेक एव यः |
यथासुरान्कालकेयान्देवो वज्रधरस्तथा ||२०||
जटासुरो मद्रकान्तश्च राजा; कुन्तिः कुणिन्दश्च किरातराजः |
तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण ||२१||
किरातराजः सुमना यवनाधिपतिस्तथा |
चाणूरो देवरातश्च भोजो भीमरथश्च यः ||२२||
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः |
सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः ||२३||
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः |
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ||२४||
अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः |
शिशुपालः सहसुतः करूषाधिपतिस्तथा ||२५||
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः |
आहुको विपृथुश्चैव गदः सारण एव च ||२६||
अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः |
भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् ||२७||
केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः ||२७||
अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः |
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ||२८||
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः |
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः ||२९||
एते चान्ये च बहवो राजानः पृथिवीपते |
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ||३०||
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा |
गीतवादित्रकुशलाः शम्यातालविशारदाः ||३१||
प्रमाणेऽथ लयस्थाने किंनराः कृतनिश्रमाः |
सञ्चोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः ||३२||
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः |
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ||३३||
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः |
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ||३४||
श्रीमहाभारतम्
||२ सभापर्वम् ||
005-अध्यायः
वैशम्पायन उवाच||
तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु |
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ||१||
लोकाननुचरन्सर्वानागमत्तां सभामृषिः |
नारदः सुमहातेजा ऋषिभिः सहितस्तदा ||२||
पारिजातेन राजेन्द्र रैवतेन च धीमता |
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ||३||
सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ||३||
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् |
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ||४||
अभ्यवादयत प्रीत्या विनयावनतस्तदा ||४||
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि |
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ||५||
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः |
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ||६||
नारद उवाच||
कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः |
सुखानि चानुभूयन्ते मनश्च न विहन्यते ||७||
कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः |
वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु ||८||
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा |
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ||९||
कच्चिदर्थं च धर्मं च कामं च जयतां वर |
विभज्य काले कालज्ञ सदा वरद सेवसे ||१०||
कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ |
बलाबलं तथा सम्यक्चतुर्दश परीक्षसे ||११||
कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर |
तथा सन्धाय कर्माणि अष्टौ भारत सेवसे ||१२||
कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ |
आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः ||१३||
कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः |
त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् ||१४||
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे |
कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे ||१५||
कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः |
कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः ||१६||
विजयो मन्त्रमूलो हि राज्ञां भवति भारत |
सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः ||१७||
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे |
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ||१८||
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह |
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति ||१९||
कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् |
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ||२०||
कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः |
सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् ||२१||
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः |
विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ||२२||
कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः |
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ||२३||
कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् |
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् ||२४||
कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः |
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ||२५||
एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः |
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ||२६||
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च |
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ||२७||
कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा |
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ||२८||
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः |
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ||२९||
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः |
हुतं च होष्यमाणं च काले वेदयते सदा ||३०||
कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः |
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ||३१||
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः |
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ||३२||
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् |
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ||३३||
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः |
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ||३४||
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा |
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ||३५||
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः |
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव ||३६||
कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः |
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ||३७||
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् |
सम्प्राप्तकालं दातव्यं ददासि न विकर्षसि ||३८||
कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः |
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ||३९||
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः |
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि ||४०||
कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान् |
अनुशास्सि यथाकामं कामात्मा शासनातिगः ||४१||
कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् |
लभते मानमधिकं भूयो वा भक्तवेतनम् ||४२||
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् |
यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे ||४३||
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम् |
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ||४४||
कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम् |
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ||४५||
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते |
समश्च नाभिशङ्क्यश्च यथा माता यथा पिता ||४६||
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ |
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ||४७||
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् |
बलस्य च महाराज दत्त्वा वेतनमग्रतः ||४८||
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप |
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ||४९||
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः |
पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ||५०||
कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः |
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ||५१||
कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते |
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ||५२||
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः |
बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी ||५३||
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप |
अविहाय महाराज विहंसि समरे रिपून् ||५४||
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव |
अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् ||५५||
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च |
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ||५६||
कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् |
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ||५७||
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते |
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ||५८||
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च |
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ||५९||
कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः |
पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव ||६०||
कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् |
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् ||६१||
कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः |
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव ||६२||
कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान् |
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ||६३||
कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् |
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ||६४||
कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते |
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ||६५||
कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा |
त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः ||६६||
कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च |
भागशो विनिविष्टानि न कृषिर्देवमातृका ||६७||
कच्चिद्बीजं च भक्तं च कर्षकायावसीदते |
प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ||६८||
कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः |
वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते ||६९||
कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः |
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ||७०||
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः |
ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः ||७१||
कच्चिद्बलेनानुगताः समानि विषमाणि च |
पुराणचौराः साध्यक्षाश्चरन्ति विषये तव ||७२||
कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः |
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ||७३||
कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च |
प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् ||७४||
कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते |
सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ||७५||
कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतान् |
उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः ||७६||
कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः |
अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम ||७७||
कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते |
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ||७८||
कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा |
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ||७९||
कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः |
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ||८०||
कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते |
अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथञ्चन ||८१||
कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा |
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च ||८२||
कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः |
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन ||८३||
कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः |
मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर ||८४||
कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः |
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः ||८५||
कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते |
ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा ||८६||
कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः |
वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ||८७||
कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः |
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ||८८||
कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः |
पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ||८९||
कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि |
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ||९०||
कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ |
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ||९१||
एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति |
विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते ||९२||
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि |
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ||९३||
पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः |
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ||९४||
व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत |
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ||९५||
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् |
अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम् ||९६||
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् |
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ||९७||
मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च |
कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ||९८||
कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् |
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ||९९||
युधिष्ठिर उवाच||
कथं वै सफला वेदाः कथं वै सफलं धनम् |
कथं वै सफला दाराः कथं वै सफलं श्रुतम् ||१००||
नारद उवाच||
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् |
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ||१०१||
वैशम्पायन उवाच||
एतदाख्याय स मुनिर्नारदः सुमहातपाः |
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ||१०२||
नारद उवाच||
कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् |
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ||१०३||
कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः |
उपानयन्ति पण्यानि उपधाभिरवञ्चिताः ||१०४||
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः |
नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् ||१०५||
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च |
धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी ||१०६||
द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम् |
चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि ||१०७||
कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि |
सतां मध्ये महाराज सत्करोषि च पूजयन् ||१०८||
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ |
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो ||१०९||
कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ |
धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् ||११०||
कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ |
विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः ||१११||
कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा |
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि ||११२||
कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् |
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ||११३||
वैशम्पायन उवाच||
एताः कुरूणामृषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य |
प्रणम्य पादावभिवाद्य हृष्टो; राजाब्रवीन्नारदं देवरूपम् ||११४||
एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा |
उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च ||११५||
नारद उवाच||
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे |
स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् ||११६||
श्रीमहाभारतम्
||२ सभापर्वम् ||
006-अध्यायः
वैशम्पायन उवाच||
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् |
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ||१||
भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम् |
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया ||२||
राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः |
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ||३||
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो |
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ||४||
एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च |
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ||५||
नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः |
अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः ||६||
भवान्सञ्चरते लोकान्सदा नानाविधान्बहून् |
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः ||७||
ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित् |
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ||८||
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् |
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ||९||
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता |
सभा मणिमयी राजन्यथेयं तव भारत ||१०||
सभां तु पितृराजस्य वरुणस्य च धीमतः |
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ||११||
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् |
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ||१२||
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः |
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः ||१३||
नारदं प्रत्युवाचेदं धर्मराजो महामनाः |
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ||१४||
किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः |
पितामहं च के तस्यां सभायां पर्युपासते ||१५||
वासवं देवराजं च यमं वैवस्वतं च के |
वरुणं च कुबेरं च सभायां पर्युपासते ||१६||
एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव |
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ||१७||
एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम् |
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ||१८||
श्रीमहाभारतम्
||२ सभापर्वम् ||
007-अध्यायः
नारद उवाच||
शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता |
स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा ||१||
विस्तीर्णा योजनशतं शतमध्यर्धमायता |
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता ||२||
जराशोकक्लमापेता निरातङ्का शिवा शुभा |
वेश्मासनवती रम्या दिव्यपादपशोभिता ||३||
तस्यां देवेश्वरः पार्थ सभायां परमासने |
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत ||४||
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः |
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ||५||
तस्यामुपासते नित्यं महात्मानं शतक्रतुम् |
मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः ||६||
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा ||६||
एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः |
उपासते महात्मानं देवराजमरिंदमम् ||७||
तथा देवर्षयः सर्वे पार्थ शक्रमुपासते |
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः ||८||
तेजस्विनः सोमयुजो विपापा विगतक्लमाः ||८||
पराशरः पर्वतश्च तथा सावर्णिगालवौ |
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ||९||
दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः |
उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः ||१०||
हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः |
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ||११||
वातस्कन्धो विशाखश्च विधाता काल एव च |
अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ||१२||
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः |
ईशानं सर्वलोकस्य वज्रिणं समुपासते ||१३||
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः |
समीकः सत्यवांश्चैव प्रचेताः सत्यसङ्गरः ||१४||
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः |
मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः ||१५||
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः |
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः ||१६||
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ||१६||
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती |
अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव ||१७||
जलवाहास्तथा मेघा वायवः स्तनयित्नवः |
प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ||१८||
अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा |
भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत ||१९||
यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः |
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ||२०||
तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः |
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ||२१||
रमयन्ति स्म नृपते देवराजं शतक्रतुम् ||२१||
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा |
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् ||२२||
ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा |
विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः ||२३||
स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे |
बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह ||२४||
एते चान्ये च बहवो यतात्मानो यतव्रताः |
विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः ||२५||
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ||२५||
एषा सभा मया राजन्दृष्टा पुष्करमालिनी |
शतक्रतोर्महाराज याम्यां शृणु ममानघ ||२६||
श्रीमहाभारतम्
||२ सभापर्वम् ||
008-अध्यायः
नारद उवाच||
कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् |
वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ||१||
तैजसी सा सभा राजन्बभूव शतयोजना |
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव ||२||
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी |
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ||३||
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् |
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ||४||
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः |
रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम ||५||
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः |
रसवन्ति च तोयानि शीतान्युष्णानि चैव ह ||६||
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः |
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ||७||
ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः |
त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः ||८||
अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः |
प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः ||९||
ऐडो मरुत्तः कुशिकः साङ्काश्यः साङ्कृतिर्भवः |
चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ||१०||
भरतस्तथा सुरथः सुनीथो नैषधो नलः |
दिवोदासोऽथ सुमना अम्बरीषो भगीरथः ||११||
व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः |
रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः ||१२||
रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी |
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ||१३||
औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः |
अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः सञ्जयो जयः ||१४||
भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः |
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ||१५||
कपोतरोमा तृणकः सहदेवार्जुनौ तथा |
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ||१६||
अलर्कः कक्षसेनश्च गयो गौराश्व एव च |
जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ||१७||
भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा |
वैन्यो राजा वारिषेणः पुरुजो जनमेजयः ||१८||
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा |
इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः ||१९||
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् |
अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ||२०||
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः |
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ||२१||
शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् |
शन्तनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ||२२||
उशद्गवः शतरथो देवराजो जयद्रथः |
वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा ||२३||
अथापरे सहस्राणि ये गताः शशबिन्दवः |
इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ||२४||
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः |
तस्यां सभायां राजर्षे वैवस्वतमुपासते ||२५||
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च |
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ||२६||
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये |
स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे ||२७||
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः |
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ||२८||
कालस्य नयने युक्ता यमस्य पुरुषाश्च ये |
तस्यां शिंशपपालाशास्तथा काशकुशादयः ||२९||
उपासते धर्मराजं मूर्तिमन्तो निरामयाः ||२९||
एते चान्ये च बहवः पितृराजसभासदः |
अशक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा ||३०||
असम्बाधा हि सा पार्थ रम्या कामगमा सभा |
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ||३१||
प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत |
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ||३२||
शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा |
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ||३३||
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः |
सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः ||३४||
गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः |
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ||३५||
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः |
दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः ||३६||
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् |
उपासते महात्मानं रूपयुक्ता मनस्विनः ||३७||
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः |
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ||३८||
श्रीमहाभारतम्
||२ सभापर्वम् ||
009-अध्यायः
नारद उवाच||
युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा |
प्रमाणेन यथा याम्या शुभप्राकारतोरणा ||१||
अन्तःसलिलमास्थाय विहिता विश्वकर्मणा |
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता ||२||
नीलपीतासितश्यामैः सितैर्लोहितकैरपि |
अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः ||३||
तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः |
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ||४||
सा सभा सुखसंस्पर्शा न शीता न च घर्मदा |
वेश्मासनवती रम्या सिता वरुणपालिता ||५||
यस्यामास्ते स वरुणो वारुण्या सह भारत |
दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः ||६||
स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः |
आदित्यास्तत्र वरुणं जलेश्वरमुपासते ||७||
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा |
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ||८||
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ |
मणिमान्कुण्डलधरः कर्कोटकधनञ्जयौ ||९||
प्रह्लादो मूषिकादश्च तथैव जनमेजयः |
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः ||१०||
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर |
उपासते महात्मानं वरुणं विगतक्लमाः ||११||
बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः |
प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः ||१२||
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः |
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ||१३||
विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः |
दशग्रीवश्च वाली च मेघवासा दशावरः ||१४||
कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः |
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः ||१५||
स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः |
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ||१६||
ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा |
उपासते महात्मानं सर्वे सुचरितव्रताः ||१७||
तथा समुद्राश्चत्वारो नदी भागीरथी च या |
कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी ||१८||
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती |
इरावती वितस्ता च सिन्धुर्देवनदस्तथा ||१९||
गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा |
एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च ||२०||
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर |
पल्वलानि तडागानि देहवन्त्यथ भारत ||२१||
दिशस्तथा मही चैव तथा सर्वे महीधराः |
उपासते महात्मानं सर्वे जलचरास्तथा ||२२||
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः |
स्तुवन्तो वरुणं तस्यां सर्व एव समासते ||२३||
महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः |
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ||२४||
एषा मया सम्पतता वारुणी भरतर्षभ |
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ||२५||
श्रीमहाभारतम्
||२ सभापर्वम् ||
010-अध्यायः
नारद उवाच||
सभा वैश्रवणी राजञ्शतयोजनमायता |
विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा ||१||
तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा |
शशिप्रभा खेचरीणां कैलासशिखरोपमा ||२||
गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते |
दिव्या हेममयैरुच्चैः पादपैरुपशोभिता ||३||
रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा |
सिताभ्रशिखराकारा प्लवमानेव दृश्यते ||४||
तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः |
स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः ||५||
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते |
दिव्यपादोपधाने च निषण्णः परमासने ||६||
मन्दाराणामुदाराणां वनानि सुरभीणि च |
सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः ||७||
नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च |
मनोहृदयसंह्लादी वायुस्तमुपसेवते ||८||
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः |
दिव्यतानेन गीतानि गान्ति दिव्यानि भारत ||९||
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता |
चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला ||१०||
विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा |
वर्गा च सौरभेयी च समीची बुद्बुदा लता ||११||
एताः सहस्रशश्चान्या नृत्तगीतविशारदाः |
उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः ||१२||
अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा |
अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ||१३||
किंनरा नाम गन्धर्वा नरा नाम तथापरे |
मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः ||१४||
कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः |
कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः ||१५||
वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः |
अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः ||१६||
पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः |
वृक्षवास्यनिकेतश्च चीरवासाश्च भारत ||१७||
एते चान्ये च बहवो यक्षाः शतसहस्रशः |
सदा भगवती च श्रीस्तथैव नलकूबरः ||१८||
अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः |
आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे ||१९||
भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः |
उमापतिः पशुपतिः शूलधृग्भगनेत्रहा ||२०||
त्र्यम्बको राजशार्दूल देवी च विगतक्लमा |
वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः ||२१||
मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः |
नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः ||२२||
वृतः सखायमन्वास्ते सदैव धनदं नृप ||२२||
सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा |
पितामहसभां राजन्कथयिष्ये गतक्लमाम् ||२३||
श्रीमहाभारतम्
||२ सभापर्वम् ||
011-अध्यायः
नारद उवाच||
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः |
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ||१||
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः |
सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव ||२||
अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ |
अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् ||३||
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन |
दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् ||४||
भगवन्द्रष्टुमिच्छामि पितामहसभामहम् |
येन सा तपसा शक्या कर्मणा वापि गोपते ||५||
औषधैर्वा तथा युक्तैरुत वा मायया यया |
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् ||६||
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् |
अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम् ||७||
एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप |
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ||८||
न वेद परिमाणं वा संस्थानं वापि भारत |
न च रूपं मया तादृग्दृष्टपूर्वं कदाचन ||९||
सुसुखा सा सभा राजन्न शीता न च घर्मदा |
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत ||१०||
नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः |
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ||११||
अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा |
दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ||१२||
तस्यां स भगवानास्ते विदधद्देवमायया |
स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः ||१३||
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् |
दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा ||१४||
भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः |
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ||१५||
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत |
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ||१६||
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् |
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च ||१७||
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः |
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ||१८||
आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा |
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ||१९||
शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च |
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ||२०||
मन्त्रो रथन्तरश्चैव हरिमान्वसुमानपि |
आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः ||२१||
मरुतो विश्वकर्मा च वसवश्चैव भारत |
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ||२२||
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव |
अथर्ववेदश्च तथा पर्वाणि च विशां पते ||२३||
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः |
ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः ||२४||
सावित्री दुर्गतरणी वाणी सप्तविधा तथा |
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ||२५||
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा |
भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते ||२६||
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च |
अर्धमासाश्च मासाश्च ऋतवः षट्च भारत ||२७||
संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः |
कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम् ||२८||
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा |
कालका सुरभिर्देवी सरमा चाथ गौतमी ||२९||
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि |
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ||३०||
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा |
सुपर्णनागपशवः पितामहमुपासते ||३१||
देवो नारायणस्तस्यां तथा देवर्षयश्च ये |
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा ||३२||
यच्च किञ्चित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् |
सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप ||३३||
अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् |
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ||३४||
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः |
प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् ||३५||
अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा |
यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ||३६||
महाभागानमितधीर्ब्रह्मा लोकपितामहः |
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ||३७||
प्रतिगृह्य च विश्वात्मा स्वयम्भूरमितप्रभः |
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप ||३८||
तथा तैरुपयातैश्च प्रतियातैश्च भारत |
आकुला सा सभा तात भवति स्म सुखप्रदा ||३९||
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता |
ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा ||४०||
सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा |
सभेयं राजशार्दूल मनुष्येषु यथा तव ||४१||
एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव |
तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा ||४२||
युधिष्ठिर उवाच||
प्रायशो राजलोकस्ते कथितो वदतां वर |
वैवस्वतसभायां तु यथा वदसि वै प्रभो ||४३||
वरुणस्य सभायां तु नागास्ते कथिता विभो |
दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा ||४४||
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा |
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ||४५||
पितामहसभायां तु कथितास्ते महर्षयः |
सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि ||४६||
शतक्रतुसभायां तु देवाः सङ्कीर्तिता मुने |
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ||४७||
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने |
कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः ||४८||
किं कर्म तेनाचरितं तपो वा नियतव्रतम् |
येनासौ सह शक्रेण स्पर्धते स्म महायशाः ||४९||
पितृलोकगतश्चापि त्वया विप्र पिता मम |
दृष्टः पाण्डुर्महाभागः कथं चासि समागतः ||५०||
किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् |
त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे ||५१||
नारद उवाच||
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो |
तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः ||५२||
स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम् |
तस्य सर्वे महीपालाः शासनावनताः स्थिताः ||५३||
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् |
शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर ||५४||
स विजित्य महीं सर्वां सशैलवनकाननाम् |
आजहार महाराज राजसूयं महाक्रतुम् ||५५||
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया |
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ||५६||
प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः |
यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् ||५७||
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा |
प्रासर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान् ||५८||
भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः |
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् ||५९||
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ||५९||
एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते |
तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ ||६०||
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् |
अभिषिक्तः स शुशुभे साम्राज्येन नराधिप ||६१||
ये चान्येऽपि महीपाला राजसूयं महाक्रतुम् |
यजन्ते ते महेन्द्रेण मोदन्ते सह भारत ||६२||
ये चापि निधनं प्राप्ताः सङ्ग्रामेष्वपलायिनः |
ते तत्सदः समासाद्य मोदन्ते भरतर्षभ ||६३||
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् |
तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः ||६४||
पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः |
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ||६५||
समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः |
राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत ||६६||
तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव |
गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् ||६७||
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् |
छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ||६८||
युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् |
किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम् ||६९||
एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर |
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे ||७०||
भव एधस्व मोदस्व दानैस्तर्पय च द्विजान् ||७०||
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि |
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ||७१||
वैशम्पायन उवाच||
एवमाख्याय पार्थेभ्यो नारदो जनमेजय |
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ||७२||
गते तु नारदे पार्थो भ्रातृभिः सह कौरव |
राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत ||७३||
श्रीमहाभारतम्
||२ सभापर्वम् ||
012-अध्यायः-मन्त्रपर्व
वैशम्पायन उवाच||
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः |
चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत ||१||
राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् |
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ||२||
हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः |
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ||३||
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः |
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ||४||
स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् |
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य सोऽसकृत् ||५||
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् |
किं हितं सर्वलोकानां भवेदिति मनो दधे ||६||
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः |
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ||७||
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः |
न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ||८||
स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः |
राजसूयं प्रति तदा पुनः पुनरपृच्छत ||९||
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा |
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ||१०||
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति |
तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति ||११||
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन |
राजसूयस्य समयं मन्यन्ते सुहृदस्तव ||१२||
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा |
साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः ||१३||
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् |
अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ||१४||
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् |
अविचार्य महाराज राजसूये मनः कुरु ||१५||
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् |
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते ||१६||
धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा ||१६||
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् |
पुनः पुनर्मनो दध्रे राजसूयाय भारत ||१७||
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः |
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः ||१८||
युधिष्ठिर उवाच||
इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः |
श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् ||१९||
वैशम्पायन उवाच||
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन |
इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् ||२०||
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ||२०||
अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा |
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ||२१||
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् |
भूयो विममृशे पार्थो लोकानां हितकाम्यया ||२२||
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ |
विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति ||२३||
न हि यज्ञसमारम्भः केवलात्मविपत्तये |
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ||२४||
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् |
सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ||२५||
अप्रमेयं महाबाहुं कामाज्जातमजं नृषु |
पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः ||२६||
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम् |
न स किञ्चिन्न विषहेदिति कृष्णममन्यत ||२७||
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः |
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ||२८||
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् |
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ||२९||
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः |
इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा ||३०||
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः |
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ||३१||
स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः |
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ||३२||
प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा |
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः ||३३||
तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् |
धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् ||३४||
युधिष्ठिर उवाच||
प्रार्थितो राजसूयो मे न चासौ केवलेप्सया |
प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः ||३५||
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते |
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ||३६||
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे |
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ||३७||
केचिद्धि सौहृदादेव दोषं न परिचक्षते |
अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ||३८||
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् |
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ||३९||
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च |
परमं नः क्षमं लोके यथावद्वक्तुमर्हसि ||४०||
श्रीमहाभारतम्
||२ सभापर्वम् ||
013-अध्यायः
श्रीकृष्ण उवाच||
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि |
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत ||१||
जामदग्न्येन रामेण क्षत्रं यदवशेषितम् |
तस्मादवरजं लोके यदिदं क्षत्रसञ्ज्ञितम् ||२||
कृतोऽयं कुलसङ्कल्पः क्षत्रियैर्वसुधाधिप |
निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ ||३||
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते |
राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि ||४||
ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः |
तानि चैकशतं विद्धि कुलानि भरतर्षभ ||५||
ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् |
भजते च महाराज विस्तरः स चतुर्दिशम् ||६||
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते |
सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत ||७||
चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् |
स साम्राज्यं जरासन्धः प्राप्तो भवति योनितः ||८||
तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः |
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ||९||
तमेव च महाराज शिष्यवत्समुपस्थितः |
वक्रः करूषाधिपतिर्मायायोधी महाबलः ||१०||
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ |
जरासन्धं महावीर्यं तौ हंसडिभकावुभौ ||११||
दन्तवक्रः करूषश्च कलभो मेघवाहनः |
मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः ||१२||
मुरं च नरकं चैव शास्ति यो यवनाधिपौ |
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ||१३||
भगदत्तो महाराज वृद्धस्तव पितुः सखा |
स वाचा प्रणतस्तस्य कर्मणा चैव भारत ||१४||
स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि |
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः ||१५||
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः |
स ते संनतिमानेकः स्नेहतः शत्रुतापनः ||१६||
जरासन्धं गतस्त्वेवं पुरा यो न मया हतः |
पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः ||१७||
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् |
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ||१८||
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः |
पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः ||१९||
चतुर्युः स महाराज भोज इन्द्रसखो बली |
विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् ||२०||
भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि |
स भक्तो मागधं राजा भीष्मकः परवीरहा ||२१||
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनः सतः |
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ||२२||
न कुलं न बलं राजन्नभिजानंस्तथात्मनः |
पश्यमानो यशो दीप्तं जरासन्धमुपाश्रितः ||२३||
उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो |
जरासन्धभयादेव प्रतीचीं दिशमाश्रिताः ||२४||
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः |
सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह ||२५||
शाल्वेयानां च राजानः सोदर्यानुचरैः सह |
दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः ||२६||
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः |
मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ||२७||
तथैव सर्वपाञ्चाला जरासन्धभयार्दिताः |
स्वराष्ट्रं सम्परित्यज्य विद्रुताः सर्वतोदिशम् ||२८||
कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् |
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ||२९||
अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले |
बलेन तेन स ज्ञातीनभिभूय वृथामतिः ||३०||
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् |
भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना ||३१||
ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता |
दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा ||३२||
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् |
हतौ कंससुनामानौ मया रामेण चाप्युत ||३३||
भये तु समुपक्रान्ते जरासन्धे समुद्यते |
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ||३४||
अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः |
न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् ||३५||
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ |
नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ ||३६||
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान् |
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ||३७||
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः |
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ||३८||
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः |
स चान्यैः सहितो राजन्सङ्ग्रामेऽष्टादशावरैः ||३९||
हतो हंस इति प्रोक्तमथ केनापि भारत |
तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत ||४०||
विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे |
इत्येतां मतिमास्थाय डिभको निधनं गतः ||४१||
तथा तु डिभकं श्रुत्वा हंसः परपुरञ्जयः |
प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत ||४२||
तौ स राजा जरासन्धः श्रुत्वाप्सु निधनं गतौ |
स्वपुरं शूरसेनानां प्रययौ भरतर्षभ ||४३||
ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे |
पुनरानन्दिताः सर्वे मथुरायां वसामहे ||४४||
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना |
कंसभार्या जरासन्धं दुहिता मागधं नृपम् ||४५||
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता |
पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम ||४६||
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् |
संस्मरन्तो विमनसो व्यपयाता नराधिप ||४७||
पृथक्त्वेन द्रुता राजन्सङ्क्षिप्य महतीं श्रियम् |
प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः ||४८||
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः |
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ||४९||
पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप |
तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ||५०||
स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुङ्गवाः |
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ||५१||
आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च |
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ||५२||
एवं वयं जरासन्धादादितः कृतकिल्बिषाः |
सामर्थ्यवन्तः सम्बन्धाद्भवन्तं समुपाश्रिताः ||५३||
त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि |
योजनान्ते शतद्वारं विक्रमक्रमतोरणम् ||५४||
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ||५४||
अष्टादश सहस्राणि व्रातानां सन्ति नः कुले |
आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः ||५५||
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः |
अहं च रौहिणेयश्च साम्बः शौरिसमो युधि ||५६||
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे |
कृतवर्मा अनाधृष्टिः समीकः समितिञ्जयः ||५७||
कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः |
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ||५८||
लोकसंहनना वीरा वीर्यवन्तो महाबलाः |
स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः ||५९||
स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम |
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ||६०||
न तु शक्यं जरासन्धे जीवमाने महाबले |
राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम ||६१||
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे |
कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ||६२||
सोऽपि राजा जरासन्धो यियक्षुर्वसुधाधिपैः |
आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः ||६३||
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् |
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ||६४||
वयं चैव महाराज जरासन्धभयात्तदा |
मथुरां सम्परित्यज्य गता द्वारवतीं पुरीम् ||६५||
यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि |
यतस्व तेषां मोक्षाय जरासन्धवधाय च ||६६||
समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन |
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ||६७||
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ |
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ||६८||
श्रीमहाभारतम्
||२ सभापर्वम् ||
014-अध्यायः
युधिष्ठिर उवाच||
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति |
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ||१||
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः |
न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक् ||२||
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति |
परेण समवेतस्तु यः प्रशस्तः स पूज्यते ||३||
विशाला बहुला भूमिर्बहुरत्नसमाचिता |
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ||४||
शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः |
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ||५||
एवमेवाभिजानन्ति कुले जाता मनस्विनः |
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन ||६||
भीम उवाच||
अनारम्भपरो राजा वल्मीक इव सीदति |
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ||७||
अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम् |
जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान् ||८||
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये |
मागधं साधयिष्यामो वयं त्रय इवाग्नयः ||९||
कृष्ण उवाच||
आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते |
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ||१०||
हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः |
कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः ||११||
ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः ||११||
निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः |
बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ ||१२||
न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः |
तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः ||१३||
रत्नभाजो हि राजानो जरासन्धमुपासते |
न च तुष्यति तेनापि बाल्यादनयमास्थितः ||१४||
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात् |
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ||१५||
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् |
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ||१६||
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे |
पशूनामिव का प्रीतिर्जीविते भरतर्षभ ||१७||
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः |
ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम् ||१८||
षडशीतिः समानीताः शेषा राजंश्चतुर्दश |
जरासन्धेन राजानस्ततः क्रूरं प्रपत्स्यते ||१९||
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् |
जयेद्यश्च जरासन्धं स सम्राण्नियतं भवेत् ||२०||
श्रीमहाभारतम्
||२ सभापर्वम् ||
015-अध्यायः
युधिष्ठिर उवाच||
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः |
कथं प्रहिणुयां भीमं बलात्केवलसाहसात् ||१||
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् |
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ||२||
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम् |
श्रमो हि वः पराजय्यात्किमु तत्र विचेष्टितम् ||३||
अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते |
यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम ||४||
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन |
प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः ||५||
वैशम्पायन उवाच||
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी |
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ||६||
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् |
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ||७||
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः |
बलेन सदृशं नास्ति वीर्यं तु मम रोचते ||८||
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति |
क्षत्रियः सर्वशो राजन्यस्य वृत्तिः पराजये ||९||
सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून् |
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ||१०||
द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे |
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ||११||
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते |
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ||१२||
दैन्यं यथाबलवति तथा मोहो बलान्विते |
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना ||१३||
जरासन्धविनाशं च राज्ञां च परिमोक्षणम् |
यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् ||१४||
अनारम्भे तु नियतो भवेदगुणनिश्चयः |
गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ||१५||
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् |
साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः ||१६||
श्रीमहाभारतम्
||२ सभापर्वम् ||
016-अध्यायः
वासुदेव उवाच||
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च |
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ||१||
न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा |
न चापि कञ्चिदमरमयुद्धेनापि शुश्रुमः ||२||
एतावदेव पुरुषैः कार्यं हृदयतोषणम् |
नयेन विधिदृष्टेन यदुपक्रमते परान् ||३||
सुनयस्यानपायस्य संयुगे परमः क्रमः |
संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः ||४||
ते वयं नयमास्थाय शत्रुदेहसमीपगाः |
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ||५||
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ||५||
व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम् |
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ||६||
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत् |
शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे ||७||
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ |
अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः ||८||
अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः |
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ||९||
युधिष्ठिर उवाच||
कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः |
यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा ||१०||
कृष्ण उवाच||
शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः |
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ||११||
अक्षौहिणीनां तिसृणामासीत्समरदर्पितः |
राजा बृहद्रथो नाम मगधाधिपतिः पतिः ||१२||
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः |
नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः ||१३||
तेजसा सूर्यसदृशः क्षमया पृथिवीसमः |
यमान्तकसमः कोपे श्रिया वैश्रवणोपमः ||१४||
तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम |
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ||१५||
स काशिराजस्य सुते यमजे भरतर्षभ |
उपयेमे महावीर्यो रूपद्रविणसंमते ||१६||
तयोश्चकार समयं मिथः स पुरुषर्षभः |
नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा ||१७||
स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप |
प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः ||१८||
तयोर्मध्यगतश्चापि रराज वसुधाधिपः |
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ||१९||
विषयेषु निमग्नस्य तस्य यौवनमत्यगात् |
न च वंशकरः पुत्रस्तस्याजायत कश्चन ||२०||
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः |
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ||२१||
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः |
शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् ||२२||
यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् |
पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् ||२३||
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः |
परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत ||२४||
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः |
पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा ||२५||
बृहद्रथ उवाच||
भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् |
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ||२६||
कृष्ण उवाच||
एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः |
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् ||२७||
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह |
अवातमशुकादष्टमेकमाम्रफलं किल ||२८||
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च |
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारकम् ||२९||
उवाच च महाप्राज्ञस्तं राजानं महामुनिः |
गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप ||३०||
यथासमयमाज्ञाय तदा स नृपसत्तमः |
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ||३१||
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे |
भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः ||३२||
तयोः समभवद्गर्भः फलप्राशनसम्भवः |
ते च दृष्ट्वा नरपतिः परां मुदमवाप ह ||३३||
अथ काले महाप्राज्ञ यथासमयमागते |
प्रजायेतामुभे राजञ्शरीरशकले तदा ||३४||
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे |
दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् ||३५||
उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले |
सजीवे प्राणिशकले तत्यजाते सुदुःखिते ||३६||
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे |
निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः ||३७||
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी |
जग्राह मनुजव्याघ्र मांसशोणितभोजना ||३८||
कर्तुकामा सुखवहे शकले सा तु राक्षसी |
सङ्घट्टयामास तदा विधानबलचोदिता ||३९||
ते समानीतमात्रे तु शकले पुरुषर्षभ |
एकमूर्तिकृते वीरः कुमारः समपद्यत ||४०||
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना |
न शशाक समुद्वोढुं वज्रसारमयं शिशुम् ||४१||
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः |
प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः ||४२||
तेन शब्देन सम्भ्रान्तः सहसान्तःपुरे जनः |
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ||४३||
ते चाबले परिग्लाने पयःपूर्णपयोधरे |
निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् ||४४||
अथ दृष्ट्वा तथाभूते राजानं चेष्टसन्ततिम् |
तं च बालं सुबलिनं चिन्तयामास राक्षसी ||४५||
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः |
बालं पुत्रमुपादातुं मेघलेखेव भास्करम् ||४६||
सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् |
बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् ||४७||
तव पत्नीद्वये जातो द्विजातिवरशासनात् |
धात्रीजनपरित्यक्तो मयायं परिरक्षितः ||४८||
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे |
तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् ||४९||
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च |
अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् ||५०||
का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी |
कामया ब्रूहि कल्याणि देवता प्रतिभासि मे ||५१||
श्रीमहाभारतम्
||२ सभापर्वम् ||
017-अध्यायः
राक्षस्युवाच||
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी |
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ||१||
साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप |
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक ||२||
संश्लेषिते मया दैवात्कुमारः समपद्यत |
तव भाग्यैर्महाराज हेतुमात्रमहं त्विह ||३||
कृष्ण उवाच||
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत |
स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः ||४||
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा |
आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम् ||५||
तस्य नामाकरोत्तत्र प्रजापतिसमः पिता |
जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत् ||६||
सोऽवर्धत महातेजा मगधाधिपतेः सुतः |
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः ||७||
कस्यचित्त्वथ कालस्य पुनरेव महातपाः |
मगधानुपचक्राम भगवांश्चण्डकौशिकः ||८||
तस्यागमनसंहृष्टः सामात्यः सपुरःसरः |
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ||९||
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत |
स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् ||१०||
प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः |
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ||११||
सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा |
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ||१२||
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः |
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते ||१३||
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ||१३||
सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति |
सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः ||१४||
एनमासाद्य राजानः समृद्धबलवाहनाः |
विनाशमुपयास्यन्ति शलभा इव पावकम् ||१५||
एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति |
वर्षास्विवोद्धतजला नदीर्नदनदीपतिः ||१६||
एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः |
शुभाशुभमिव स्फीता सर्वसस्यधरा धरा ||१७||
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः |
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ||१८||
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् |
सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः ||१९||
एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन् |
विसर्जयामास नृपं बृहद्रथमथारिहन् ||२०||
प्रविश्य नगरं चैव ज्ञातिसम्बन्धिभिर्वृतः |
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा ||२१||
बृहद्रथो नरपतिः परां निर्वृतिमाययौ ||२१||
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः |
पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत् ||२२||
तपोवनस्थे पितरि मातृभ्यां सह भारत |
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे ||२३||
अथ दीर्घस्य कालस्य तपोवनगतो नृपः |
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ||२४||
तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ |
मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ ||२५||
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ |
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ||२६||
एवमेष तदा वीर बलिभिः कुकुरान्धकैः |
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ||२७||
श्रीमहाभारतम्
||२ सभापर्वम् ||
018-अध्यायः-जरासंधपर्व
वासुदेव उवाच||
पतितौ हंसडिभकौ कंसामात्यौ निपातितौ |
जरासन्धस्य निधने कालोऽयं समुपागतः ||१||
न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः |
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ||२||
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः |
साधयिष्याम तं राजन्वयं त्रय इवाग्नयः ||३||
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः |
न संदेहो यथा युद्धमेकेनाभ्युपयास्यति ||४||
अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः |
भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति ||५||
अलं तस्य महाबाहुर्भीमसेनो महाबलः |
लोकस्य समुदीर्णस्य निधनायान्तको यथा ||६||
यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि |
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ||७||
वैशम्पायन उवाच||
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः |
भीमपार्थौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ||८||
अच्युताच्युत मा मैवं व्याहरामित्रकर्षण |
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ||९||
यथा वदसि गोविन्द सर्वं तदुपपद्यते |
न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ||१०||
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः |
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः ||११||
क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते |
मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम ||१२||
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे |
धर्मकामार्थरहितो रोगार्त इव दुर्गतः ||१३||
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना |
नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः ||१४||
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः |
युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः ||१५||
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् |
अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः ||१६||
यतो हि निम्नं भवति नयन्तीह ततो जलम् |
यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् ||१७||
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् |
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ||१८||
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् |
पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये ||१९||
एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये |
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम् ||२०||
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ||२०||
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः |
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ||२१||
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् |
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ||२२||
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् |
रविसोमाग्निवपुषां भीममासीत्तदा वपुः ||२३||
हतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ |
एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ ||२४||
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने |
धर्मार्थकामकार्याणां कार्याणामिव निग्रहे ||२५||
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् |
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च ||२६||
गण्डकीयां तथा शोणं सदानीरां तथैव च |
एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते ||२७||
सन्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् |
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ||२८||
उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः |
कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः ||२९||
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् |
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ||३०||
श्रीमहाभारतम्
||२ सभापर्वम् ||
019-अध्यायः
वासुदेव उवाच||
एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान् |
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ||१||
वैहारो विपुलः शैलो वराहो वृषभस्तथा |
तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ||२||
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः |
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ||३||
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः |
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ||४||
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः |
औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः ||५||
गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि |
भजते मागधं वंशं स नृपाणामनुग्रहात् ||६||
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः |
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ||७||
वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः |
लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः ||८||
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ |
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ||९||
अपरिहार्या मेघानां मागधेयं मणेः कृते |
कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् ||१०||
अर्थसिद्धिं त्वनपगां जरासन्धोऽभिमन्यते |
वयमासादने तस्य दर्पमद्य निहन्म हि ||११||
वैशम्पायन उवाच||
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः |
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् ||१२||
तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् |
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् ||१३||
तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् |
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ||१४||
यत्र माषादमृषभमाससाद बृहद्रथः |
तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् ||१५||
आनह्य चर्मणा तेन स्थापयामास स्वे पुरे |
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ||१६||
मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् |
शिरसीव जिघांसन्तो जरासन्धजिघांसवः ||१७||
स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् |
अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् ||१८||
विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन् |
ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा ||१९||
एतस्मिन्नेव काले तु जरासन्धं समर्चयन् |
पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ||२०||
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः |
युयुत्सवः प्रविविशुर्जरासन्धेन भारत ||२१||
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् |
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् ||२२||
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः |
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः ||२३||
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः |
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ||२४||
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः |
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा ||२५||
शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः |
अशोभन्त महाराज बाहवो बाहुशालिनाम् ||२६||
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् |
व्यूढोरस्कान्मागधानां विस्मयः समजायत ||२७||
ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः |
अहङ्कारेण राजानमुपतस्थुर्महाबलाः ||२८||
तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान् |
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि ||२९||
उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः |
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ||३०||
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः |
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ||३१||
तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः |
उपतस्थे जरासन्धो विस्मितश्चाभवत्तदा ||३२||
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः |
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ||३३||
स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः |
तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् ||३४||
तानब्रवीज्जरासन्धस्तदा यादवपाण्डवान् |
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ||३५||
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः |
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ||३६||
तानुवाच जरासन्धः सत्यसन्धो नराधिपः |
विगर्हमाणः कौरव्य वेषग्रहणकारणात् ||३७||
न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः |
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः ||३८||
ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः |
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ ||३९||
एवं विरागवसना बहिर्माल्यानुलेपनाः |
सत्यं वदत के यूयं सत्यं राजसु शोभते ||४०||
चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः |
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् ||४१||
कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम् |
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः ||४२||
एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम् |
प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे ||४३||
एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः |
स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः ||४४||
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः |
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत ||४५||
विशेषवांश्च सततं क्षत्रियः श्रियमर्छति |
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् ||४६||
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् |
अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम् ||४७||
स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत् |
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः ||४८||
अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम् |
प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः ||४९||
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् |
प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् ||५०||
श्रीमहाभारतम्
||२ सभापर्वम् ||
020-अध्यायः
जरासन्ध उवाच||
न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत |
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ||१||
वैकृते चासति कथं मन्यध्वं मामनागसम् |
अरिं विब्रूत तद्विप्राः सतां समय एष हि ||२||
अथ धर्मोपघाताद्धि मनः समुपतप्यते |
योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः ||३||
अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः |
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ||४||
त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम् |
अनागसं प्रजानानाः प्रमादादिव जल्पथ ||५||
वासुदेव उवाच||
कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः |
वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः ||६||
त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः |
तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् ||७||
राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम |
तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि ||८||
अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम् |
वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः ||९||
मनुष्याणां समालम्भो न च दृष्टः कदाचन |
स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम् ||१०||
सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यति |
कोऽन्य एवं यथा हि त्वं जरासन्ध वृथामतिः ||११||
ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः |
ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः ||१२||
नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत् |
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ||१३||
को हि जानन्नभिजनमात्मनः क्षत्रियो नृप |
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ||१४||
स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः |
यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप ||१५||
स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः |
स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् ||१६||
एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः |
येनासुरान्पराजित्य जगत्पाति शतक्रतुः ||१७||
स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव |
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः ||१८||
मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे |
समं तेजस्त्वया चैव केवलं मनुजेश्वर ||१९||
यावदेव न सम्बुद्धं तावदेव भवेत्तव |
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ||२०||
जहि त्वं सदृशेष्वेव मानं दर्पं च मागध |
मा गमः ससुतामात्यः सबलश्च यमक्षयम् ||२१||
दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः |
श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः ||२२||
मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः |
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ ||२३||
त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध |
मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् ||२४||
जरासन्ध उवाच||
नाजितान्वै नरपतीनहमादद्मि कांश्चन |
जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः ||२५||
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् |
विक्रम्य वशमानीय कामतो यत्समाचरेत् ||२६||
देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात् |
अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन् ||२७||
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः |
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा ||२८||
वैशम्पायन उवाच||
एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम् |
आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः ||२९||
स तु सेनापती राजा सस्मार भरतर्षभ |
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ||३०||
ययोस्ते नामनी लोके हंसेति डिभकेति च |
पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते ||३१||
तं तु राजन्विभुः शौरी राजानं बलिनां वरम् |
स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् ||३२||
सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम् |
भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः ||३३||
नात्मनात्मवतां मुख्य इयेष मधुसूदनः |
ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ||३४||