श्रीमहाभारतम्
||२ सभापर्वम् ||
047-अध्यायः
दुर्योधन उवाच||
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत |
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ||१||
न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् |
फलतो भूमितो वापि प्रतिपद्यस्व भारत ||२||
ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् |
प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ||३||
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् |
उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ||४||
गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः |
प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः ||५||
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ||५||
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् |
एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः ||६||
शतं दासीसहस्राणां कार्पासिकनिवासिनाम् |
श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः ||७||
शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ||७||
बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः |
उपनिन्युर्महाराज हयान्गान्धारदेशजान् ||८||
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये |
समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः ||९||
ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह |
विविधं बलिमादाय रत्नानि विविधानि च ||१०||
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु |
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ||११||
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली |
यनवैः सहितो राजा भगदत्तो महारथः ||१२||
आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः |
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ||१३||
अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन् |
प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा ||१४||
द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान् |
औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् ||१५||
एकपादांश्च तत्राहमपश्यं द्वारि वारितान् |
बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ||१६||
इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् |
तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि ||१७||
अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् |
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ||१८||
चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः |
वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ||१९||
न पारयाम्यभिगतान्विविधान्द्वारि वारितान् |
बल्यर्थं ददतस्तस्य नानारूपाननेकशः ||२०||
कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः |
आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् ||२१||
प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् |
और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ||२२||
कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः |
श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ||२३||
निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान् |
अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् ||२४||
रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः |
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ||२५||
शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः |
महागमान्दूरगमान्गणितानर्बुदं हयान् ||२६||
कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् |
बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ||२७||
आसनानि महार्हाणि यानानि शयनानि च |
मणिकाञ्चनचित्राणि गजदन्तमयानि च ||२८||
रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् |
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारणान् ||२९||
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः |
नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च ||३०||
एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः |
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ||३१||
श्रीमहाभारतम्
||२ सभापर्वम् ||
048-अध्यायः
दुर्योधन उवाच||
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ |
यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम् ||१||
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् |
ये ते कीचकवेणूनां छायां रम्यामुपासते ||२||
खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः |
पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ||३||
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः |
जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ||४||
कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् |
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ||५||
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः |
उत्तरादपि कैलासादोषधीः सुमहाबलाः ||६||
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः |
अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ||७||
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः |
वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये ||८||
फलमूलाशना ये च किराताश्चर्मवाससः ||८||
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च |
चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ||९||
कैरातिकानामयुतं दासीनां च विशां पते |
आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ||१०||
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् |
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ||११||
कायव्या दरदा दार्वाः शूरा वैयमकास्तथा |
औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ||१२||
काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः |
शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ||१३||
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह |
वसातयः समौलेयाः सह क्षुद्रकमालवैः ||१४||
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते |
अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ||१५||
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः |
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ||१६||
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः |
दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ||१७||
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् |
कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ||१८||
ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् |
शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ||१९||
दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् |
क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ||२०||
एते चान्ये च बहवो गणा दिग्भ्यः समागताः |
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ||२१||
राजा चित्ररथो नाम गन्धर्वो वासवानुगः |
शतानि चत्वार्यददद्धयानां वातरंहसाम् ||२२||
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् |
आम्रपत्रसवर्णानामददद्धेममालिनाम् ||२३||
कृती तु राजा कौरव्य शूकराणां विशां पते |
अददद्गजरत्नानां शतानि सुबहून्यपि ||२४||
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् |
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ||२५||
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् |
अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ||२६||
जवसत्त्वोपपन्नानां वयःस्थानां नराधिप |
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ||२७||
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश |
दासानामयुतं चैव सदाराणां विशां पते ||२८||
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा |
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ||२९||
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च |
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ||३०||
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः |
तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ||३१||
प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः |
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च ||३२||
प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ||३२||
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा |
नानादेशसमुत्थैश्च नानाजातिभिरागतैः ||३३||
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ||३३||
उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् |
शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ||३४||
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत |
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ||३५||
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः |
रथानामर्बुदं चापि पादाता बहवस्तथा ||३६||
प्रमीयमाणमारब्धं पच्यमानं तथैव च |
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ||३७||
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथञ्चन |
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ||३८||
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः |
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ||३९||
सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ||३९||
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् |
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ||४०||
भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम् |
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते ||४१||
द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत |
वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ||४२||
श्रीमहाभारतम्
||२ सभापर्वम् ||
049-अध्यायः
दुर्योधन उवाच||
आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः |
पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः ||१||
धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः |
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ||२||
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः |
आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ||३||
आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत |
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ||४||
बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् |
सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः ||५||
सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः |
ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् ||६||
दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः |
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ||७||
मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ |
आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा ||८||
चेकितान उपासङ्गं धनुः काश्य उपाहरत् |
असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ||९||
अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः |
नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् ||१०||
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः |
जामदग्न्येन सहितास्तथान्ये वेदपारगाः ||११||
अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् |
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ||१२||
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः |
धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः ||१३||
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः |
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ||१४||
सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा |
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ||१५||
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् |
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ||१६||
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् |
प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् ||१७||
प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा |
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ||१८||
सत्त्वस्थाः शौर्यसम्पन्ना अन्योन्यप्रियकारिणः |
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ||१९||
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् |
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ||२०||
नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च |
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ||२१||
यथातिमात्रं कौन्तेयः श्रिया परमया युतः |
राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ||२२||
एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो |
कथं नु जीवितं श्रेयो मम पश्यसि भारत ||२३||
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप |
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत ||२४||
एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर |
तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च ||२५||
श्रीमहाभारतम्
||२ सभापर्वम् ||
050-अध्यायः
धृतराष्ट्र उवाच||
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः |
द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा ||१||
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् |
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ||२||
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप |
पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह ||३||
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ |
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ||४||
आहरिष्यन्ति राजानस्तवापि विपुलं धनम् |
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ||५||
अनर्थाचरितं तात परस्वस्पृहणं भृशम् |
स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते ||६||
अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु |
उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम् ||७||
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः |
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ||८||
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् |
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ||९||
दुर्योधन उवाच||
जानन्वै मोहयसि मां नावि नौरिव संयता |
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ||१०||
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता |
भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः ||११||
परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति |
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ||१२||
राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः |
प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् ||१३||
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः |
तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि ||१४||
क्षत्रियस्य महाराज जये वृत्तिः समाहिता |
स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ ||१५||
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः |
प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ ||१६||
प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबान्धनः |
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ||१७||
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् |
समुच्छ्रये यो यतते स राजन्परमो नयी ||१८||
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा |
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः ||१९||
अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः |
शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ||२०||
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव |
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ||२१||
नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते |
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ||२२||
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते |
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ||२३||
अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः |
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ||२४||
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत |
एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः ||२५||
जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते |
एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः ||२६||
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति |
अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि ||२७||
अतादृशस्य किं मेऽद्य जीवितेन विशां पते |
वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः ||२८||
श्रीमहाभारतम्
||२ सभापर्वम् ||
051-अध्यायः
शकुनिरुवाच||
यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे |
तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः ||१||
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे |
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये ||२||
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत |
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् ||३||
दुर्योधन उवाच||
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् |
द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् ||४||
धृतराष्ट्र उवाच||
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः |
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ||५||
दुर्योधन उवाच||
विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः |
पाण्डवानां हिते युक्तो न तथा मम कौरव ||६||
नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः |
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ||७||
भयं परिहरन्मन्द आत्मानं परिपालयन् |
वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति ||८||
न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते |
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ||९||
धृतराष्ट्र उवाच||
सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये |
वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ||१०||
अनर्थमर्थं मन्यसे राजपुत्र; सङ्ग्रन्थनं कलहस्यातिघोरम् |
तद्वै प्रवृत्तं तु यथा कथं चि; द्विमोक्षयेच्चाप्यसिसायकांश्च ||११||
दुर्योधन उवाच||
द्यूते पुराणैर्व्यवहारः प्रणीत; स्तत्रात्ययो नास्ति न सम्प्रहारः |
तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व ||१२||
स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम् |
भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व ||१३||
धृतराष्ट्र उवाच||
वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र |
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम् ||१४||
दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन |
तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति ||१५||
वैशम्पायन उवाच||
एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च |
शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः ||१६||
सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम् |
सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः ||१७||
श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु |
सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः ||१८||
कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम् |
चित्रैर्हैमैरासनैरभ्युपेता; माचख्युस्ते तस्य राज्ञः प्रतीताः ||१९||
ततो विद्वान्विदुरं मन्त्रिमुख्य; मुवाचेदं धृतराष्ट्रो नरेन्द्रः |
युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व ||२०||
सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः |
सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति ||२१||
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः |
मत्वा च दुस्तरं दैवमेतद्राजा चकार ह ||२२||
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः |
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ||२३||
नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि |
पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्या; देतच्छङ्के द्यूतकृते नरेन्द्र ||२४||
धृतराष्ट्र उवाच||
नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत् |
धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम् ||२५||
तदद्य विदुर प्राप्य राजानं मम शासनात् |
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ||२६||
श्रीमहाभारतम्
||२ सभापर्वम् ||
052-अध्यायः
वैशम्पायन उवाच||
ततः प्रायाद्विदुरोऽश्वैरुदारै; र्महाजवैर्बलिभिः साधुदान्तैः |
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् ||१||
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् |
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ||२||
स राजगृहमासाद्य कुबेरभवनोपमम् |
अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ||३||
तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत् |
पूजापूर्वं प्रतिगृह्याजमीढ; स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ||४||
युधिष्ठिर उवाच||
विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि |
कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित् ||५||
विदुर उवाच||
राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः |
प्रीतो राजन्पुत्रगणैर्विनीतै; र्विशोक एवात्मरतिर्दृढात्मा ||६||
इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च |
इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र ||७||
समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च |
प्रीयामहे भवतः सङ्गमेन; समागताः कुरवश्चैव सर्वे ||८||
दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा |
तान्द्रक्ष्यसे कितवान्संनिविष्टा; नित्यागतोऽहं नृपते तज्जुषस्व ||९||
युधिष्ठिर उवाच||
द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः |
किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म ||१०||
विदुर उवाच||
जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे |
राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व ||११||
युधिष्ठिर उवाच||
के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः |
पृच्छामि त्वां विदुर ब्रूहि नस्ता; न्यैर्दीव्यामः शतशः संनिपत्य ||१२||
विदुर उवाच||
गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः |
विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च ||१३||
युधिष्ठिर उवाच||
महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति |
धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे ||१४||
नाहं राज्ञो धृतराष्ट्रस्य शासना; न्न गन्तुमिच्छामि कवे दुरोदरम् |
इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा ||१५||
न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम् |
आहूतोऽहं न निवर्ते कदा चि; त्तदाहितं शाश्वतं वै व्रतं मे ||१६||
वैशम्पायन उवाच||
एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् |
प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा ||१७||
दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् |
धातुश्च वशमन्वेति पाशैरिव नरः सितः ||१८||
इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः |
अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः ||१९||
बाह्लिकेन रथं दत्तमास्थाय परवीरहा |
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः ||२०||
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः |
धृतराष्ट्रेण चाहूतः कालस्य समयेन च ||२१||
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ |
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ||२२||
तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च |
समियाय यथान्यायं द्रौणिना च विभुः सह ||२३||
समेत्य च महाबाहुः सोमदत्तेन चैव ह |
दुर्योधनेन शल्येन सौबलेन च वीर्यवान् ||२४||
ये चान्ये तत्र राजानः पूर्वमेव समागताः |
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः ||२५||
ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः |
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ||२६||
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् |
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ||२७||
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः |
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ||२८||
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः |
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ||२९||
ततो हर्षः समभवत्कौरवाणां विशां पते |
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ||३०||
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ |
ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः ||३१||
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव |
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ||३२||
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् |
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ||३३||
ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः |
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ||३४||
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ |
उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः ||३५||
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् |
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ||३६||
सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः |
सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् ||३७||
श्रीमहाभारतम्
||२ सभापर्वम् ||
053-अध्यायः
शकुनिरुवाच||
उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः |
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ||१||
युधिष्ठिर उवाच||
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः |
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ||२||
न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह |
शकुने मैव नो जैषीरमार्गेण नृशंसवत् ||३||
शकुनिरुवाच||
योऽन्वेति सङ्ख्यां निकृतौ विधिज्ञ; श्चेष्टास्वखिन्नः कितवोऽक्षजासु |
महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु ||४||
अक्षग्लहः सोऽभिभवेत्परं न; स्तेनैव कालो भवतीदमात्थ |
दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः ||५||
युधिष्ठिर उवाच||
एवमाहायमसितो देवलो मुनिसत्तमः |
इमानि लोकद्वाराणि यो वै सञ्चरते सदा ||६||
इदं वै देवनं पापं मायया कितवैः सह |
धर्मेण तु जयो युद्धे तत्परं साधु देवनम् ||७||
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत |
अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् ||८||
शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे |
तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् ||९||
नाहं निकृत्या कामये सुखान्युत धनानि वा |
कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते ||१०||
शकुनिरुवाच||
श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर |
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ||११||
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे |
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ||१२||
युधिष्ठिर उवाच||
आहूतो न निवर्तेयमिति मे व्रतमाहितम् |
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ||१३||
अस्मिन्समागमे केन देवनं मे भविष्यति |
प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् ||१४||
दुर्योधन उवाच||
अहं दातास्मि रत्नानां धनानां च विशां पते |
मदर्थे देविता चायं शकुनिर्मातुलो मम ||१५||
युधिष्ठिर उवाच||
अन्येनान्यस्य विषमं देवनं प्रतिभाति मे |
एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् ||१६||
वैशम्पायन उवाच||
उपोह्यमाने द्यूते तु राजानः सर्व एव ते |
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ||१७||
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः |
नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत ||१८||
ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः |
सिंहासनानि भूरीणि विचित्राणि च भेजिरे ||१९||
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः |
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ||२०||
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः |
प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् ||२१||
युधिष्ठिर उवाच||
अयं बहुधनो राजन्सागरावर्तसम्भवः |
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ||२२||
एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव |
भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् ||२३||
दुर्योधन उवाच||
सन्ति मे मणयश्चैव धनानि विविधानि च |
मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् ||२४||
वैशम्पायन उवाच||
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२५||
श्रीमहाभारतम्
||२ सभापर्वम् ||
054-अध्यायः
युधिष्ठिर उवाच||
मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम् |
शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः ||१||
इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् |
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः ||२||
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२||
वैशम्पायन उवाच||
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् |
युधिष्ठिर उवाच||
अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः |
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ||४||
संह्रादनो राजरथो य इहास्मानुपावहत् |
जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः ||५||
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः |
वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् ||६||
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||६||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||७||
युधिष्ठिर उवाच||
सहस्रसङ्ख्या नागा मे मत्तास्तिष्ठन्ति सौबल |
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ||८||
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि |
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ||९||
सर्वे च पुरभेत्तारो नगमेघनिभा गजाः |
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||१०||
वैशम्पायन उवाच||
तमेवंवादिनं पार्थं प्रहसन्निव सौबलः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||११||
युधिष्ठिर उवाच||
शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः |
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ||१२||
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः |
मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः ||१३||
अनुसेवां चरन्तीमाः कुशला नृत्यसामसु |
स्नातकानाममात्यानां राज्ञां च मम शासनात् ||१४||
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||१४||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१५||
युधिष्ठिर उवाच||
एतावन्त्येव दासानां सहस्राण्युत सन्ति मे |
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ||१६||
प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः |
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ||१७||
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||१७||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१८||
युधिष्ठिर उवाच||
रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः |
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः ||१९||
एकैको यत्र लभते सहस्रपरमां भृतिम् |
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् ||२०||
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२०||
वैशम्पायन उवाच||
इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२१||
युधिष्ठिर उवाच||
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः |
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ||२२||
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२२||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२३||
युधिष्ठिर उवाच||
रथानां शकटानां च हयानां चायुतानि मे |
युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः ||२४||
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः |
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् ||२५||
षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः |
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२६||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२७||
युधिष्ठिर उवाच||
ताम्रलोहैः परिवृता निधयो मे चतुःशताः |
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ||२८||
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२८||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२९||
श्रीमहाभारतम्
||२ सभापर्वम् ||
055-अध्यायः
विदुर उवाच||
महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु |
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ||१||
यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताः |
दुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः ||२||
गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे |
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ||३||
मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते |
आरुह्य तं मज्जति वा पतनं वाधिगच्छति ||४||
सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते |
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ||५||
विदितं ते महाराज राजस्वेवासमञ्जसम् |
अन्धका यादवा भोजाः समेताः कंसमत्यजन् ||६||
नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना |
एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः ||७||
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् |
निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् ||८||
काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च |
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ||९||
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् |
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||१०||
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः |
इति स्म भाषते काव्यो जम्भत्यागे महासुरान् ||११||
हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान् |
गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत् ||१२||
सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परन्तप |
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् ||१३||
तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ |
मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा ||१४||
जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत |
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः ||१५||
वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान् |
मा गमः ससुतामात्यः सबलश्च पराभवम् ||१६||
समवेतान्हि कः पार्थान्प्रतियुध्येत भारत |
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ||१७||
श्रीमहाभारतम्
||२ सभापर्वम् ||
056-अध्यायः
विदुर उवाच||
द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय |
यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम् ||१||
प्रातिपीयाः शान्तनवा भैमसेनाः सबाह्लिकाः |
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ||२||
दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति |
विषाणं गौरिव मदात्स्वयमारुजते बलात् ||३||
यश्चित्तमन्वेति परस्य राज; न्वीरः कविः स्वामतिपत्य दृष्टिम् |
नावं समुद्र इव बालनेत्रा; मारुह्य घोरे व्यसने निमज्जेत् ||४||
दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च |
अतिनर्माज्जायते सम्प्रहारो; यतो विनाशः समुपैति पुंसाम् ||५||
आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः |
युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा ||६||
प्रातिपीयाः शान्तनवाश्च राज; न्काव्यां वाचं शृणुत मात्यगाद्वः |
वैश्वानरं प्रज्वलितं सुघोर; मयुद्धेन प्रशमयतोत्पतन्तम् ||७||
यदा मन्युं पाण्डवोऽजातशत्रु; र्न संयच्छेदक्षमयाभिभूतः |
वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ||८||
महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः |
बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान् ||९||
जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः |
यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः ||१०||
श्रीमहाभारतम्
||२ सभापर्वम् ||
057-अध्यायः
दुर्योधन उवाच||
परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान् |
जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम् ||१||
सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति |
जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम् ||२||
उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि |
भर्तृघ्नत्वान्न हि पापीय आहु; स्तस्मात्क्षत्तः किं न बिभेषि पापात् ||३||
जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह वोचः |
द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः सम्प्रमोहात् ||४||
अमित्रतां याति नरोऽक्षमं ब्रुव; न्निगूहते गुह्यममित्रसंस्तवे |
तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे ||५||
मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात् |
यशो रक्षस्व विदुर सम्प्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम् ||६||
अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः |
न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम् ||७||
एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता |
तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि ||८||
भिनत्ति शिरसा शैलमहिं भोजयते च यः |
स एव तस्य कुरुते कार्याणामनुशासनम् ||९||
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति |
मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः ||१०||
प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति |
भस्मापि न स विन्देत शिष्टं क्वचन भारत ||११||
न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम् |
स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति ||१२||
विदुर उवाच||
एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन् |
राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति ||१३||
अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे |
यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः ||१४||
न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा |
ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ||१५||
अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु |
स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान् ||१६||
लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह |
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ||१७||
यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये |
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ||१८||
अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि |
सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ||१९||
वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत् |
यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः ||२०||
आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः |
एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ||२१||
श्रीमहाभारतम्
||२ सभापर्वम् ||
058-अध्यायः
शकुनिरुवाच||
बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर |
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ||१||
युधिष्ठिर उवाच||
मम वित्तमसङ्ख्येयं यदहं वेद सौबल |
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ||२||
अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् |
शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् ||३||
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ||३||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||४||
युधिष्ठिर उवाच||
गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम् |
यत्किञ्चिदनुवर्णानां प्राक्सिन्धोरपि सौबल ||५||
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ||५||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||६||
युधिष्ठिर उवाच||
पुरं जनपदो भूमिरब्राह्मणधनैः सह |
अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम ||७||
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||७||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||८||
युधिष्ठिर उवाच||
राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः |
कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् ||९||
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ||९||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१०||
युधिष्ठिर उवाच||
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः |
नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् ||११||
शकुनिरुवाच||
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर |
अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि ||१२||
वैशम्पायन उवाच||
एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१३||
युधिष्ठिर उवाच||
अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च |
अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण ||१४||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१५||
शकुनिरुवाच||
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया |
गरीयांसौ तु ते मन्ये भीमसेनधनञ्जयौ ||१६||
युधिष्ठिर उवाच||
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् |
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ||१७||
शकुनिरुवाच||
गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति |
ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ ||१८||
स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर |
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ||१९||
युधिष्ठिर उवाच||
यो नः सङ्ख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी |
अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन ||२०||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२१||
शकुनिरुवाच||
अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची |
भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् ||२२||
युधिष्ठिर उवाच||
यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः |
तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी ||२३||
बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः |
अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् ||२४||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२५||
शकुनिरुवाच||
बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् |
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ||२६||
युधिष्ठिर उवाच||
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा |
कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे ||२७||
वैशम्पायन उवाच||
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२८||
शकुनिरुवाच||
एतत्पापिष्ठमकरोर्यदात्मानं पराजितः |
शिष्टे सति धने राजन्पाप आत्मपराजयः ||२९||
वैशम्पायन उवाच||
एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् |
पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् ||३०||
शकुनिरुवाच||
अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः |
पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ||३१||
युधिष्ठिर उवाच||
नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी |
सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया ||३२||
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया |
शारदोत्पलसेविन्या रूपेण श्रीसमानया ||३३||
तथैव स्यादानृशंस्यात्तथा स्याद्रूपसम्पदा |
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम् ||३४||
चरमं संविशति या प्रथमं प्रतिबुध्यते |
आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ||३५||
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च |
वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा ||३६||
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया |
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ||३७||
वैशम्पायन उवाच||
एवमुक्ते तु वचने धर्मराजेन भारत |
धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः ||३८||
चुक्षुभे सा सभा राजन्राज्ञां सञ्जज्ञिरे कथाः |
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ||३९||
शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् |
आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा ||४०||
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः |
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ||४१||
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः |
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् ||४२||
सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः |
जितमित्येव तानक्षान्पुनरेवान्वपद्यत ||४३||
श्रीमहाभारतम्
||२ सभापर्वम् ||
059-अध्यायः
दुर्योधन उवाच||
एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम् |
संमार्जतां वेश्म परैतु शीघ्र; मानन्दो नः सह दासीभिरस्तु ||१||
विदुर उवाच||
दुर्विभाव्यं भवति त्वादृशेन; न मन्द सम्बुध्यसि पाशबद्धः |
प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् ||२||
आशीविषाः शिरसि ते पूर्णकोशा महाविषाः |
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ||३||
न हि दासीत्वमापन्ना कृष्णा भवति भारत |
अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ||४||
अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः |
द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले ||५||
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |
ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||६||
समुच्चरन्त्यतिवादा हि वक्त्रा; द्यैराहतः शोचति रात्र्यहानि |
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||७||
अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम् |
निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः ||८||
न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा |
तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव ||९||
द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र |
त्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन ||१०||
मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव |
मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति ||११||
अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः |
वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव ||१२||
श्रीमहाभारतम्
||२ सभापर्वम् ||
060-अध्यायः
वैशम्पायन उवाच||
धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः |
अवैक्षत प्रातिकामीं सभाया; मुवाच चैनं परमार्यमध्ये ||१||
त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः |
क्षत्ता ह्ययं विवदत्येव भीरु; र्न चास्माकं वृद्धिकामः सदैव ||२||
एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य |
प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम् ||३||
प्रातिकाम्युवाच||
युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत् |
सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि ||४||
द्रौपद्युवाच||
कथं त्वेवं वदसि प्रातिकामि; न्को वै दीव्येद्भार्यया राजपुत्रः |
मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किञ्चित् ||५||
प्रातिकाम्युवाच||
यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः |
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि ||६||
द्रौपद्युवाच||
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज |
किं नु पूर्वं पराजैषीरात्मानं मां नु भारत ||७||
एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज ||७||
वैशम्पायन उवाच||
सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा |
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी ||८||
किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् ||८||
युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत् |
न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ||९||
दुर्योधन उवाच||
इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम् |
इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः ||१०||
वैशम्पायन उवाच||
स गत्वा राजभवनं दुर्योधनवशानुगः |
उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ||११||
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः सङ्क्षयः कौरवाणाम् |
न वै समृद्धिं पालयते लघीया; न्यत्त्वं सभामेष्यसि राजपुत्रि ||१२||
द्रौपद्युवाच||
एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ |
धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः ||१३||
वैशम्पायन उवाच||
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् |
द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ||१४||
एकवस्त्रा अधोनीवी रोदमाना रजस्वला |
सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् ||१५||
ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः |
इहैवैतामानय प्रातिकामि; न्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु ||१६||
ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः |
विहाय मानं पुनरेव सभ्या; नुवाच कृष्णां किमहं ब्रवीमि ||१७||
दुर्योधन उवाच||
दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः |
स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः ||१८||
ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः |
प्रविश्य तद्वेश्म महारथाना; मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ||१९||
एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा |
कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि ||२०||
ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण |
आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुङ्गवस्य ||२१||
ततो जवेनाभिससार रोषा; द्दुःशासनस्तामभिगर्जमानः |
दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् ||२२||
ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः |
ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन ||२३||
स तां परामृश्य सभासमीप; मानीय कृष्णामतिकृष्णकेशीम् |
दुःशासनो नाथवतीमनाथव; च्चकर्ष वायुः कदलीमिवार्ताम् ||२४||
सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि |
एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य ||२५||
ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम् |
कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् ||२६||
रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा |
द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम् ||२७||
प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना |
ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा ||२८||
इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः |
गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम् ||२९||
नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः |
न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः ||३०||
धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यः |
वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य ||३१||
इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम् |
न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन् ||३२||
धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम् |
यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् ||३३||
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपि |
राज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः ||३४||
तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत् |
सा पाण्डवान्कोपपरीतदेहा; न्संदीपयामास कटाक्षपातैः ||३५||
हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूव |
यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् ||३६||
दुःशासनश्चापि समीक्ष्य कृष्णा; मवेक्षमाणां कृपणान्पतींस्तान् |
आधूय वेगेन विसञ्ज्ञकल्पा; मुवाच दासीति हसन्निवोग्रः ||३७||
कर्णस्तु तद्वाक्यमतीव हृष्टः; सम्पूजयामास हसन्सशब्दम् |
गान्धारराजः सुबलस्य पुत्र; स्तथैव दुःशासनमभ्यनन्दत् ||३८||
सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैव |
तेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् ||३९||
भीष्म उवाच||
न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत् |
अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य ||४०||
त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात् |
उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत् ||४१||
द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामः |
न मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि ||४२||
द्रौपद्युवाच||
आहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैः |
द्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः ||४३||
स शुद्धभावो निकृतिप्रवृत्ति; मबुध्यमानः कुरुपाण्डवाग्र्यः |
सम्भूय सर्वैश्च जितोऽपि यस्मा; त्पश्चाच्च यत्कैतवमभ्युपेतः ||४४||
तिष्ठन्ति चेमे कुरवः सभाया; मीशाः सुतानां च तथा स्नुषाणाम् |
समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत् ||४५||
वैशम्पायन उवाच||
तथा ब्रुवन्तीं करुणं रुदन्ती; मवेक्षमाणामसकृत्पतींस्तान् |
दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव ||४६||
तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम् |
वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः ||४७||
श्रीमहाभारतम्
||२ सभापर्वम् ||
061-अध्यायः
भीम उवाच||
भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर |
न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ||१||
काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् |
तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् ||२||
वाहनानि धनं चैव कवचान्यायुधानि च |
राज्यमात्मा वयं चैव कैतवेन हृतं परैः ||३||
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् |
इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते ||४||
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः |
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः ||५||
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते |
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय ||६||
अर्जुन उवाच||
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः |
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ||७||
न सकामाः परे कार्या धर्ममेवाचरोत्तमम् |
भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति ||८||
आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् |
दीव्यते परकामेन तन्नः कीर्तिकरं महत् ||९||
भीमसेन उवाच||
एवमस्मिकृतं विद्यां यद्यस्याहं धनञ्जय |
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ||१०||
वैशम्पायन उवाच||
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः |
क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् ||११||
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः |
अविवेकेन वाक्यस्य नरकः सद्य एव नः ||१२||
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ |
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः ||१३||
भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च |
अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ||१४||
ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः |
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ||१५||
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा |
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ||१६||
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः |
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ||१७||
उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् |
पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् ||१८||
विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन |
मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ||१९||
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् |
मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् ||२०||
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते |
तथायुक्तेन च कृतां क्रियां लोको न मन्यते ||२१||
तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् |
समाहूतेन कितवैरास्थितो द्रौपदीपणः ||२२||
साधारणी च सर्वेषां पाण्डवानामनिन्दिता |
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ||२३||
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना |
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ||२४||
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत |
विकर्णं शंसमानानां सौबलं च विनिन्दताम् ||२५||
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः |
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ||२६||
दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि |
तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः ||२७||
एते न किञ्चिदप्याहुश्चोद्यमानापि कृष्णया |
धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् ||२८||
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे |
यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् ||२९||
न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर |
यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः ||३०||
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज |
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ||३१||
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ |
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ||३२||
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः |
भवत्यविजिता केन हेतुनैषा मता तव ||३३||
मन्यसे वा सभामेतामानीतामेकवाससम् |
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् ||३४||
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन |
इयं त्वनेकवशगा बन्धकीति विनिश्चिता ||३५||
अस्याः सभामानयनं न चित्रमिति मे मतिः |
एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता ||३६||
यच्चैषां द्रविणं किञ्चिद्या चैषा ये च पाण्डवाः |
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ||३७||
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः |
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ||३८||
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत |
अवकीर्योत्तरीयाणि सभायां समुपाविशन् ||३९||
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् |
सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे ||४०||
आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते |
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ||४१||
ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः |
तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् ||४२||
शशाप तत्र भीमस्तु राजमध्ये महास्वनः |
क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् ||४३||
इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः |
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ||४४||
यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः |
पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् ||४५||
अस्य पापस्य दुर्जातेर्भारतापसदस्य च |
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ||४६||
तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् |
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ||४७||
यदा तु वाससां राशिः सभामध्ये समाचितः |
ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ||४८||
धिक्षब्दस्तु ततस्तत्र समभूल्लोमहर्षणः |
सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा ||४९||
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह |
स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ||५०||
ततो बाहू समुच्छ्रित्य निवार्य च सभासदः |
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ||५१||
विदुर उवाच||
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् |
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ||५२||
सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् |
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ||५३||
धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः |
विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ||५४||
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः |
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ||५५||
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः |
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ||५६||
यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः |
अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः ||५७||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ||५८||
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः |
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ||५९||
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा |
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ||६०||
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् |
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ||६१||
स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् |
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् ||६२||
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि |
शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ||६३||
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् |
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ||६४||
प्रह्लाद उवाच||
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च |
ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु ||६५||
यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् |
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ||६६||
कश्यप उवाच||
जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात् |
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ||६७||
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते |
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ||६८||
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते |
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ||६९||
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु |
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ||७०||
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः |
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ||७१||
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते |
इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् ||७२||
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् |
ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् ||७३||
स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् |
अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च ||७४||
एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः |
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ||७५||
समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् |
तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ||७६||
विदुर उवाच||
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् |
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ||७७||
माता सुधन्वनश्चापि श्रेयसी मातृतस्तव |
विरोचन सुधन्वायं प्राणानामीश्वरस्तव ||७८||
सुधन्वोवाच||
पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः |
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ||७९||
विदुर उवाच||
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः |
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ||८०||
वैशम्पायन उवाच||
विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः |
कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय ||८१||
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् |
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ||८२||
श्रीमहाभारतम्
||२ सभापर्वम् ||
062-अध्यायः
द्रौपद्युवाच||
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् |
विह्वलास्मि कृतानेन कर्षता बलिना बलात् ||१||
अभिवादं करोम्येषां गुरूणां कुरुसंसदि |
न मे स्यादपराधोऽयं यदिदं न कृतं मया ||२||
वैशम्पायन उवाच||
सा तेन च समुद्धूता दुःखेन च तपस्विनी |
पतिता विललापेदं सभायामतथोचिता ||३||
द्रौपद्युवाच||
स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः |
न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता ||४||
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे |
साहमद्य सभामध्ये दृश्यामि कुरुसंसदि ||५||
यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे |
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ||६||
मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् |
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ||७||
किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा |
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ||८||
धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् |
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ||९||
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती |
वासुदेवस्य च सखी पार्थिवानां सभामियाम् ||१०||
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् |
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ||११||
अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः |
क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ||१२||
जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः |
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ||१३||
भीष्म उवाच||
उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् |
लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः ||१४||
बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः |
स धर्मो धर्मवेलायां भवत्यभिहितः परैः ||१५||
न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् |
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ||१६||
नूनमन्तः कुलस्यास्य भविता नचिरादिव |
तथा हि कुरवः सर्वे लोभमोहपरायणाः ||१७||
कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् |
धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता ||१८||
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् |
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे ||१९||
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः |
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ||२०||
युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः |
अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति ||२१||
वैशम्पायन उवाच||
तथा तु दृष्ट्वा बहु तत्तदेवं; रोरूयमाणां कुररीमिवार्ताम् |
नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः ||२२||
दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रां; स्तूष्णीम्भूतान्धृतराष्ट्रस्य पुत्रः |
स्मयन्निवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम् ||२३||
तिष्ठत्वयं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव |
पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम् ||२४||
अनीश्वरं विब्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः |
कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात् ||२५||
धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्विन्द्रकल्पः |
ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व ||२६||
सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास्तवैव |
न विब्रुवन्त्यार्यसत्त्वा यथाव; त्पतींश्च ते समवेक्ष्याल्पभाग्यान् ||२७||
ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः |
चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः ||२८||
सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः ||२८||
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः |
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ||२९||
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः |
भीमसेनो यमौ चेति भृशं कौतूहलान्विताः ||३०||
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् |
प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् ||३१||
यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः |
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ||३२||
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः |
मन्यते जितमात्मानं यद्येष विजिता वयम् ||३३||
न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् |
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ||३४||
पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव |
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ||३५||
धर्मपाशसितस्त्वेवं नाधिगच्छामि सङ्कटम् |
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ||३६||
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव |
धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः ||३७||
तमुवाच तदा भीष्मो द्रोणो विदुर एव च |
क्षम्यतामेवमित्येवं सर्वं सम्भवति त्वयि ||३८||
श्रीमहाभारतम्
||२ सभापर्वम् ||
063-अध्यायः
कर्ण उवाच||
त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी |
दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी ||१||
प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म |
ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः ||२||
अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन |
अनवद्या वै पतिषु कामवृत्ति; र्नित्यं दास्ये विदितं वै तवास्तु ||३||
पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च |
दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति ||४||
प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः |
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु ||५||
वैशम्पायन उवाच||
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः |
राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः ||६||
भीम उवाच||
नाहं कुप्ये सूतपुत्रस्य राज; न्नेष सत्यं दासधर्मः प्रविष्टः |
किं विद्विषो वाद्य मां धारयेयु; र्नादेवीस्त्वं यद्यनया नरेन्द्र ||७||
वैशम्पायन उवाच||
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा |
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतसम् ||८||
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने |
प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे ||९||
एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् |
स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः ||१०||
कदलीदण्डसदृशं सर्वलक्षणपूजितम् |
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ||११||
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव |
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ||१२||
वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते |
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ||१३||
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः |
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ||१४||
क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः |
वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ||१५||
विदुर उवाच||
परं भयं पश्यत भीमसेना; द्बुध्यध्वं राज्ञो वरुणस्येव पाशात् |
दैवेरितो नूनमयं पुरस्ता; त्परोऽनयो भरतेषूदपादि ||१६||
अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम् |
योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति ||१७||
इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्सम्प्रदुष्येत् |
इमां चेत्पूर्वं कितवोऽग्लहीष्य; दीशोऽभविष्यदपराजितात्मा ||१८||
स्वप्ने यथैतद्धि धनं जितं स्या; त्तदेवं मन्ये यस्य दीव्यत्यनीशः |
गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात ||१९||
दुर्योधन उवाच||
भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव |
युधिष्ठिरं चेत्प्रवदन्त्यनीश; मथो दास्यान्मोक्ष्यसे याज्ञसेनि ||२०||
अर्जुन उवाच||
ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा |
ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव ||२१||
वैशम्पायन उवाच||
ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे |
तं रासभाः प्रत्यभाषन्त राज; न्समन्ततः पक्षिणश्चैव रौद्राः ||२२||
तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च |
भीष्मद्रोणौ गौतमश्चापि विद्वा; न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः ||२३||
ततो गान्धारी विदुरश्चैव विद्वां; स्तमुत्पातं घोरमालक्ष्य राज्ञे |
निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे ||२४||
हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुङ्गवानाम् |
स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् ||२५||
एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात् |
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ||२६||
धृतराष्ट्र उवाच||
वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि |
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ||२७||
द्रौपद्युवाच||
ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ |
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ||२८||
मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः |
एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ||२९||
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् |
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ||३०||
धृतराष्ट्र उवाच||
द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् |
मनो हि मे वितरति नैकं त्वं वरमर्हसि ||३१||
द्रौपद्युवाच||
सरथौ सधनुष्कौ च भीमसेनधनञ्जयौ |
नकुलं सहदेवं च द्वितीयं वरये वरम् ||३२||
धृतराष्ट्र उवाच||
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता |
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ||३३||
द्रौपद्युवाच||
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे |
अनर्हा वरमादातुं तृतीयं राजसत्तम ||३४||
एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ |
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ||३५||
पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम |
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ||३६||
श्रीमहाभारतम्
||२ सभापर्वम् ||
064-अध्यायः
कर्ण उवाच||
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः |
तासामेतादृशं कर्म न कस्याञ्चन शुश्रुमः ||१||
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति |
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ||२||
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् |
पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ||३||
वैशम्पायन उवाच||
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः |
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ||४||
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् |
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ||५||
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते |
देहे त्रितयमेवैतत्पुरुषस्योपजायते ||६||
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् |
धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम् ||७||
अर्जुन उवाच||
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः |
भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ||८||
स्मरन्ति सुकृतान्येव न वैराणि कृतानि च |
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ||९||
भीम उवाच||
इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् |
अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ||१०||
किं नो विवदितेनेह किं नः क्लेशेन भारत |
अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् ||११||
वैशम्पायन उवाच||
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः |
मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ||१२||
सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा |
स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् ||१३||
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप |
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ||१४||
भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् |
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः ||१५||
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् |
मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत ||१६||
निवार्य तं महाबाहुं कोपसंरक्तलोचनम् |
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ||१७||
श्रीमहाभारतम्
||२ सभापर्वम् ||
065-अध्यायः
युधिष्ठिर उवाच||
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः |
नित्यं हि स्थातुमिच्छामस्तव भारत शासने ||१||
धृतराष्ट्र उवाच||
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत |
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ||२||
इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् |
धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् ||३||
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर |
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ||४||
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत |
नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते ||५||
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् |
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ||६||
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः |
प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् ||७||
नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः |
प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः ||८||
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि |
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ||९||
तथाचरितमार्येण त्वयास्मिन्सत्समागमे |
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः ||१०||
मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् |
उपस्थितं वृद्धमन्धं पितरं पश्य भारत ||११||
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् |
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् ||१२||
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता |
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः ||१३||
त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः |
श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः ||१४||
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश |
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः ||१५||
वैशम्पायन उवाच||
इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः |
कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ||१६||
ते रथान्मेघसङ्काशानास्थाय सह कृष्णया |
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ||१७||
श्रीमहाभारतम्
||२ सभापर्वम् ||
001-अध्यायः-अनुद्यूतपर्व
जनमेजय उवाच||
अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्चयान् |
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ||१||
वैशम्पायन उवाच||
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता |
राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ||२||
दुर्योधनं समासाद्य सामात्यं भरतर्षभ |
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ||३||
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ |
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ||४||
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः |
मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ||५||
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् |
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ||६||
दुर्योधन उवाच||
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः |
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ||७||
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण |
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ||८||
ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान् |
यदि तान्योधयिष्यामः किं वा नः परिहास्यति ||९||
अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् |
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ||१०||
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः |
निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा ||११||
संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी |
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ||१२||
गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः |
स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् ||१३||
नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् |
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ||१४||
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् |
अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः ||१५||
न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते |
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ||१६||
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः |
एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ ||१७||
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः |
प्रविशेम महारण्यमजिनैः प्रतिवासिताः ||१८||
त्रयोदशं च सजने अज्ञाताः परिवत्सरम् |
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ||१९||
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् |
अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः ||२०||
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ |
अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् ||२१||
दृढमूला वयं राज्ये मित्राणि परिगृह्य च |
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ||२२||
ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम् |
जेष्यामस्तान्वयं राजन्रोचतां ते परन्तप ||२३||
धृतराष्ट्र उवाच||
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि |
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ||२४||
वैशम्पायन उवाच||
ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः |
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ||२५||
भूरिश्रवाः शान्तनवो विकर्णश्च महारथः |
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ||२६||
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् |
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ||२७||
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् |
पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता ||२८||
जाते दुर्योधने क्षत्ता महामतिरभाषत |
नीयतां परलोकाय साध्वयं कुलपांसनः ||२९||
व्यनदज्जातमात्रो हि गोमायुरिव भारत |
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ||३०||
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो |
मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ||३१||
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् |
शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत ||३२||
स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः |
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा ||३३||
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन |
त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ||३४||
शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा |
प्रध्वंसिनी क्रूरसमाहिता श्री; र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ||३५||
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् |
अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् ||३६||
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः |
पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह ||३७||
श्रीमहाभारतम्
||२ सभापर्वम् ||
067-अध्यायः
वैशम्पायन उवाच||
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् |
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ||१||
उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर |
एहि पाण्डव दीव्येति पिता त्वामाह भारत ||२||
युधिष्ठिर उवाच||
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् |
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि ||३||
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च |
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ||४||
वैशम्पायन उवाच||
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः |
जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ||५||
विविशुस्ते सभां तां तु पुनरेव महारथाः |
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ||६||
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये |
सर्वलोकविनाशाय दैवेनोपनिपीडिताः ||७||
शकुनिरुवाच||
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् |
महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ ||८||
वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः |
प्रविशेम महारण्यं रौरवाजिनवाससः ||९||
त्रयोदशं च सजने अज्ञाताः परिवत्सरम् |
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ||१०||
अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश |
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ||११||
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् |
स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः ||१२||
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर |
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ||१३||
सभासद ऊचुः||
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् |
बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः ||१४||
वैशम्पायन उवाच||
जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः |
ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः ||१५||
जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् |
अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् ||१६||
युधिष्ठिर उवाच||
कथं वै मद्विधो राजा स्वधर्ममनुपालयन् |
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ||१७||
शकुनिरुवाच||
गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् |
गजाः कोशो हिरण्यं च दासीदासं च सर्वशः ||१८||
एष नो ग्लह एवैको वनवासाय पाण्डवाः |
यूयं वयं वा विजिता वसेम वनमाश्रिताः ||१९||
अनेन व्यवसायेन दीव्याम भरतर्षभ |
समुत्क्षेपेण चैकेन वनवासाय भारत ||२०||
वैशम्पायन उवाच||
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः |
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२१||
श्रीमहाभारतम्
||२ सभापर्वम् ||
068-अध्यायः
वैशम्पायन उवाच||
वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः |
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ||१||
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान् |
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ||२||
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः |
पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः ||३||
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः |
गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः ||४||
नरकं पातिताः पार्था दीर्घकालमनन्तकम् |
सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ||५||
बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः |
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ||६||
चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति |
निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः ||७||
न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदा |
ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः ||८||
अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वः |
अदीक्षितानामजिनानि यद्व; द्बलीयसां पश्यत पाण्डवानाम् ||९||
महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय |
अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः ||१०||
सूक्ष्मान्प्रावारानजिनानि चोदिता; न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान् |
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि ||११||
एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः |
एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम् ||१२||
यथाफलाः षण्ढतिला यथा चर्ममया मृगाः |
तथैव पाण्डवाः सर्वे यथा काकयवा अपि ||१३||
किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य |
एवं नृशंसः परुषाणि पार्था; नश्रावयद्धृतराष्ट्रस्य पुत्रः ||१४||
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् |
उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् ||१५||
भीमसेन उवाच||
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे |
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ||१६||
यथा तुदसि मर्माणि वाक्षरैरिह नो भृशम् |
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ||१७||
ये च त्वामनुवर्तन्ते कामलोभवशानुगाः |
गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् ||१८||
वैशम्पायन उवाच||
एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म |
मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः ||१९||
भीमसेन उवाच||
नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया |
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ||२०||
मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः |
यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे ||२१||
धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् |
शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः ||२२||
वैशम्पायन उवाच||
तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात् |
गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः ||२३||
नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायः |
शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ ||२४||
एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानी |
राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः ||२५||
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः |
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ||२६||
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः |
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ||२७||
सुयोधनमिमं पापं हन्तास्मि गदया युधि |
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ||२८||
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः |
दुःशासनस्य रुधिरं पातास्मि मृगराडिव ||२९||
अर्जुन उवाच||
नैव वाचा व्यवसितं भीम विज्ञायते सताम् |
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ||३०||
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः |
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ||३१||
असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् |
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ||३२||
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया |
कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः ||३३||
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः |
तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् ||३४||
चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः |
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ||३५||
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे |
दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति ||३६||
वैशम्पायन उवाच||
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः |
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ||३७||
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् |
क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः ||३८||
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर |
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ||३९||
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् |
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ||४०||
हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् |
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ||४१||
सहदेववचः श्रुत्वा नकुलोऽपि विशां पते |
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ||४२||
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः |
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ||४३||
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् |
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ||४४||
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् |
निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ||४५||
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः |
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ||४६||
श्रीमहाभारतम्
||२ सभापर्वम् ||
069-अध्यायः
युधिष्ठिर उवाच||
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् |
राजानं सोमदत्तं च महाराजं च बाह्लिकम् ||१||
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च |
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ||२||
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः |
सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः ||३||
वैशम्पायन उवाच||
न च किञ्चित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम् |
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ||४||
विदुर उवाच||
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति |
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ||५||
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि |
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ||६||
युधिष्ठिर विजानीहि ममेदं भरतर्षभ |
नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् ||७||
त्वं वै धर्मान्विजानीषे युधां वेत्ता धनञ्जयः |
हन्तारीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ||८||
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः |
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ||९||
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः |
परैरभेद्याः सन्तुष्टाः को वो न स्पृहयेदिह ||१०||
एष वै सर्वकल्याणः समाधिस्तव भारत |
नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत ||११||
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा |
द्वैपायनेन कृष्णेन नगरे वारणावते ||१२||
भृगुतुङ्गे च रामेण दृषद्वत्यां च शम्भुना |
अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति ||१३||
द्रष्टा सदा नारदस्य धौम्यस्तेऽयं पुरोहितः |
मा हार्षीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् ||१४||
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव |
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया ||१५||
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे |
विसर्गे चैव कौबेरे वारुणे चैव संयमे ||१६||
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् |
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ||१७||
वायोर्बलं विद्धि स त्वं भूतेभ्यश्चात्मसम्भवम् |
अगदं वोऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् ||१८||
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः |
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ||१९||
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत |
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ||२०||
वैशम्पायन उवाच||
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः |
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ||२१||
श्रीमहाभारतम्
||२ सभापर्वम् ||
070-अध्यायः
वैशम्पायन उवाच||
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् |
आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ||१||
यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा |
ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् ||२||
कुन्ती च भृशसन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् |
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ||३||
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् |
स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा ||४||
न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते |
साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम् ||५||
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे |
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ||६||
भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते |
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि ||७||
सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् |
यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः ||८||
तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला |
शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ ||९||
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् |
अथापश्यत्सुतान्सर्वान्हृताभरणवाससः ||१०||
रुरुचर्मावृततनून्ह्रिया किञ्चिदवाङ्मुखान् |
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ||११||
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला |
सस्वजानावदच्छोकात्तत्तद्विलपती बहु ||१२||
कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् |
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ||१३||
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः |
कस्यापध्यानजं चेदमागः पश्यामि वो धिया ||१४||
स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम् |
दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ||१५||
कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः |
वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः ||१६||
यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम् |
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ||१७||
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा |
यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् ||१८||
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् |
मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि ||१९||
रत्या मत्या च गत्या च ययाहमभिसन्धिता |
जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् ||२०||
एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च |
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ||२१||
विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः |
प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः ||२२||
राजा च धृतराष्ट्रः स शोकाकुलितचेतनः |
क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति ||२३||
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् |
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः ||२४||
श्रीमहाभारतम्
||२ सभापर्वम् ||
071-अध्यायः
धृतराष्ट्र उवाच||
कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः |
भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ ||१||
धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी |
श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् ||२||
विदुर उवाच||
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः |
बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः ||३||
सिकता वपन्सव्यसाची राजानमनुगच्छति |
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ||४||
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः |
दर्शनीयतमो लोके राजानमनुगच्छति ||५||
कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना |
दर्शनीया प्ररुदती राजानमनुगच्छति ||६||
धौम्यो याम्यानि सामानि रौद्राणि च विशां पते |
गायन्गच्छति मार्गेषु कुशानादाय पाणिना ||७||
धृतराष्ट्र उवाच||
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः |
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ||८||
विदुर उवाच||
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च |
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ||९||
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत |
निकृत्या क्रोधसन्तप्तो नोन्मीलयति लोचने ||१०||
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा |
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ||११||
यथा च भीमो व्रजति तन्मे निगदतः शृणु |
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ||१२||
बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति |
बाहू दर्शयमानो हि बाहुद्रविणदर्पितः ||१३||
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ||१३||
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा |
सिकता वपन्सव्यसाची राजानमनुगच्छति ||१४||
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत |
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ||१५||
न मे कश्चिद्विजानीयान्मुखमद्येति भारत |
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ||१६||
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो |
पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति ||१७||
एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला |
शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् ||१८||
यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे |
हतपत्यो हतसुता हतबन्धुजनप्रियाः ||१९||
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः |
एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् ||२०||
कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः |
सामानि गायन्याम्यानि पुरतो याति भारत ||२१||
हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा |
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति ||२२||
हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् |
इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः ||२३||
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् |
कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः ||२४||
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् |
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ||२५||
राहुरग्रसदादित्यमपर्वणि विशां पते |
उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत ||२६||
प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः |
देवायतनचैत्येषु प्राकाराट्टालकेषु च ||२७||
एवमेते महोत्पाता वनं गच्छति पाण्डवे |
भारतानामभावाय राजन्दुर्मन्त्रिते तव ||२८||
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः |
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ||२९||
इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः |
दुर्योधनापराधेन भीमार्जुनबलेन च ||३०||
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत |
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ||३१||
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः |
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ||३२||
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् |
दुःशासनं च कर्णं च सर्वानेव च भारतान् ||३३||
अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः |
अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् ||३४||
गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् |
नोत्सहे समभित्यक्तुं दैवमूलमतः परम् ||३५||
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः |
ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः ||३६||
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः |
वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः ||३७||
मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे |
पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत ||३८||
याजोपयाजतपसा पुत्रं लेभे स पावकात् |
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ||३९||
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी |
मर्त्यधर्मतया तस्मादिति मां भयमाविशत् ||४०||
गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः |
सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः ||४१||
मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः |
नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः ||४२||
त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् |
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ||४३||
यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च |
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ||४४||
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि |
साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे ||४५||
वैशम्पायन उवाच||
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् |
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ||४६||
यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः |
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ||४७||
श्रीमहाभारतम्
||२ सभापर्वम् ||
072-अध्यायः
वैशम्पायन उवाच||
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे |
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ||१||
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् |
निःश्वसन्तमनेकाग्रमिति होवाच सञ्जयः ||२||
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप |
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ||३||
धृतराष्ट्र उवाच||
अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति |
पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः ||४||
सञ्जय उवाच||
तवेदं सुकृतं राजन्महद्वैरं भविष्यति |
विनाशः सर्वलोकस्य सानुबन्धो भविष्यति ||५||
वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च |
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् ||६||
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव |
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ||७||
धृतराष्ट्र उवाच||
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् |
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ||८||
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते |
अनयो नयसङ्काशो हृदयान्नापसर्पति ||९||
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः |
उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते ||१०||
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् |
कालस्य बलमेतावद्विपरीतार्थदर्शनम् ||११||
आसादितमिदं घोरं तुमुलं लोमहर्षणम् |
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ||१२||
अयोनिजां रूपवतीं कुले जातां विभावरीम् |
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ||१३||
पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम् |
स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् ||१४||
एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम् |
हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः ||१५||
विहीनान्सर्वकामेभ्यो दासभाववशं गतान् |
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ||१६||
क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि |
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ||१७||
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी |
अपि शेषं भवेदद्य पुत्राणां मम सञ्जय ||१८||
भारतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः |
प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ||१९||
अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः |
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ||२०||
आसीन्निष्टानको घोरो निर्घातश्च महानभूत् |
दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् ||२१||
अपर्वणि महाघोरं प्रजानां जनयन्भयम् ||२१||
तथैव रथशालासु प्रादुरासीद्धुताशनः |
ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये ||२२||
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः |
तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् ||२३||
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय |
कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः ||२४||
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः |
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ||२५||
अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः |
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ||२६||
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् |
एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता ||२७||
एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा |
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ||२८||
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः |
वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः ||२९||
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः |
आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः ||३०||
तेषां मध्ये महेष्वासो भीमसेनो महाबलः |
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ||३१||
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः |
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ||३२||
तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः |
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ||३३||
तथा हि बलवान्राजा जरासन्धो महाद्युतिः |
बाहुप्रहरणेनैव भीमेन निहतो युधि ||३४||
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ |
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ||३५||
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः |
उक्तवान्न गृहीतं च मया पुत्रहितेप्सया ||३६||
सभापर्व सम्पूर्णम्