श्रीः
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
001-अध्यायः
कौशिकदर्शनम्
सञ्जय उवाच||
ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः |
उपास्तमयवेलायां शिबिराभ्याशमागताः ||१||
विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा |
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ||२||
सेनानिवेशमभितो नातिदूरमवस्थिताः |
निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ||३||
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् |
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ||४||
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः |
ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः ||५||
नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः |
राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ||६||
धृतराष्ट्र उवाच||
अश्रद्धेयमिदं कर्म कृतं भीमेन सञ्जय |
यत्स नागायुतप्राणः पुत्रो मम निपातितः ||७||
अवध्यः सर्वभूतानां वज्रसंहननो युवा |
पाण्डवैः समरे पुत्रो निहतो मम सञ्जय ||८||
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः |
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ||९||
अद्रिसारमयं नूनं हृदयं मम सञ्जय |
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ||१०||
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति |
न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे ||११||
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय |
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ||१२||
आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च सञ्जय |
कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् ||१३||
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय |
येन पुत्रशतं पूर्णमेकेन निहतं मम ||१४||
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः |
अकुर्वता वचस्तेन मम पुत्रेण सञ्जय ||१५||
अधर्मेण हते तात पुत्रे दुर्योधने मम |
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ||१६||
सञ्जय उवाच||
गत्वा तु तावका राजन्नातिदूरमवस्थिताः |
अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् ||१७||
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः |
सूर्यास्तमयवेलायामासेदुः सुमहद्वनम् ||१८||
नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम् |
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ||१९||
नानातोयसमाकीर्णं तडागैरुपशोभितम् |
पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ||२०||
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः |
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ||२१||
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः |
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ||२२||
तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः |
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ||२३||
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे |
सर्वस्य जगतो धात्री शर्वरी समपद्यत ||२४||
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् |
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ||२५||
ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः |
दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः ||२६||
रात्रिञ्चराणां सत्त्वानां निनादोऽभूत्सुदारुणः |
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ||२७||
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः |
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ||२८||
तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः |
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ||२९||
निद्रया च परीताङ्गा निषेदुर्धरणीतले |
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ||३०||
ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ |
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ||३१||
तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ ||३१||
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत |
नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् ||३२||
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना |
वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ||३३||
वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम् |
अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम् ||३४||
तत्र काकसहस्राणि तां निशां पर्यणामयन् |
सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः ||३५||
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः |
सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम् ||३६||
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् |
सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् ||३७||
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः |
न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत ||३८||
संनिपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः |
सुप्ताञ्जघान सुबहून्वायसान्वायसान्तकः ||३९||
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह |
चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ||४०||
क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः |
तेषां शरीरावयवैः शरीरैश्च विशां पते ||४१||
न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत् ||४१||
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् |
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ||४२||
तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि |
तद्भावकृतसङ्कल्पो द्रौणिरेको व्यचिन्तयत् ||४३||
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे |
शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः ||४४||
नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः |
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ||४५||
राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ||४५||
पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम् |
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ||४६||
छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् ||४६||
तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत् |
तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः ||४७||
यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम् |
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ||४८||
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे |
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ||४९||
अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः |
श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः ||५०||
परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः |
प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम् ||५१||
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् |
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ||५२||
इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे |
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ||५३||
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः |
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ||५४||
नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः |
स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत् ||५५||
हतो दुर्योधनो राजा एकवीरो महाबलः |
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ||५६||
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः |
पातितो भीमसेनेन एकादशचमूपतिः ||५७||
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् |
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ||५८||
विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च |
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ||५९||
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः |
अनिलेनेरितो घोरो दिशः पूरयतीव हि ||६०||
अश्वानां हेषमाणानां गजानां चैव बृंहताम् |
सिंहनादश्च शूराणां श्रूयते सुमहानयम् ||६१||
दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् |
रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः ||६२||
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् |
वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे ||६३||
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः |
निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् ||६४||
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः |
यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे ||६५||
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते |
व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ||६६||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
002-अध्यायः
कृप उवाच||
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो |
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज ||१||
आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः |
दैवे पुरुषकारे च परं ताभ्यां न विद्यते ||२||
न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम |
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ||३||
ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः |
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ||४||
पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम् |
कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम् ||५||
उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम् |
व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः ||६||
प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते |
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ||७||
तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते |
प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः ||८||
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ |
विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि ||९||
कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति |
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ||१०||
उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् |
अफलं दृश्यते लोके सम्यगप्युपपादितम् ||११||
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः |
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ||१२||
प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि |
अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् ||१३||
चेष्टामकुर्वँल्लभते यदि किञ्चिद्यदृच्छया |
यो वा न लभते कृत्वा दुर्दशौ तावुभावपि ||१४||
शक्नोति जीवितुं दक्षो नालसः सुखमेधते |
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ||१५||
यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम् |
नास्य वाच्यं भवेत्किञ्चित्तत्त्वं चाप्यधिगच्छति ||१६||
अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः |
स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ||१७||
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा |
स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः ||१८||
हीनं पुरुषकारेण यदा दैवेन वा पुनः |
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ||१९||
हीनं पुरुषकारेण कर्म त्विह न सिध्यति ||१९||
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते |
दक्षो दाक्षिण्यसम्पन्नो न स मोघं विहन्यते ||२०||
सम्यगीहा पुनरियं यो वृद्धानुपसेवते |
आपृच्छति च यच्छ्रेयः करोति च हितं वचः ||२१||
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः |
तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते ||२२||
वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत् |
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ||२३||
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः |
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ||२४||
सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना |
असमर्थ्य समारब्धो मूढत्वादविचिन्तितः ||२५||
हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सह |
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ||२६||
पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति |
तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः ||२७||
अन्वावर्तामहि वयं यत्तु तं पापपूरुषम् |
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ||२८||
अनेन तु ममाद्यापि व्यसनेनोपतापिता |
बुद्धिश्चिन्तयतः किञ्चित्स्वं श्रेयो नावबुध्यते ||२९||
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः |
ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ||३०||
ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह |
उपपृच्छामहे गत्वा विदुरं च महामतिम् ||३१||
ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम् |
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ||३२||
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित् |
कृते पुरुषकारे च येषां कार्यं न सिध्यति ||३३||
दैवेनोपहतास्ते तु नात्र कार्या विचारणा ||३३||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
003-अध्यायः
सञ्जय उवाच||
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् |
अश्वत्थामा महाराज दुःखशोकसमन्वितः ||१||
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा |
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ||२||
पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना |
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया ||३||
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् |
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति ||४||
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता |
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ||५||
कारणान्तरयोगेन योगे येषां समा मतिः |
तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् ||६||
तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा |
कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते ||७||
अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः |
चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते ||८||
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि |
भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो ||९||
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः |
प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः ||१०||
अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः |
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् ||११||
व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम् |
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ||१२||
एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा |
भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते ||१३||
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति |
तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका ||१४||
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः |
कर्तुमारभते प्रीतो मरणादिषु कर्मसु ||१५||
सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः |
चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते ||१६||
उपजाता व्यसनजा येयमद्य मतिर्मम |
युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् ||१७||
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च |
वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् ||१८||
ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम् |
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ||१९||
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः |
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ||२०||
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते |
मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः ||२१||
क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम् |
प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम् ||२२||
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे |
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ||२३||
सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम् |
गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः ||२४||
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः |
विमुक्तयुग्यकवचा हर्षेण च समन्विताः ||२५||
वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च ||२५||
तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके |
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ||२६||
तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः |
सूदयिष्यामि विक्रम्य मघवानिव दानवान् ||२७||
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् |
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ||२८||
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम ||२८||
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे |
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव ||२९||
अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च |
अर्दयिष्यामि सङ्क्रुद्धो रणे पाण्डुसुतांस्तथा ||३०||
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् |
प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः ||३१||
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि |
गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् ||३२||
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि |
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ||३३||
अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि |
खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम ||३४||
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके |
कृतकृत्यः सुखी चैव भविष्यामि महामते ||३५||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
004-अध्यायः
कृप उवाच||
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत |
न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम् ||१||
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ |
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ||२||
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः |
परानभिमुखं यान्तं रथावास्थाय दंशितौ ||३||
आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे |
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ||४||
शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम् |
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ||५||
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद |
समेत्य समरे शत्रून्वधिष्यसि न संशयः ||६||
न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम् |
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ||७||
कृपेण सहितं यान्तं युक्तं च कृतवर्मणा |
को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ||८||
ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः |
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ||९||
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः |
सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः ||१०||
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् |
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ||११||
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ||११||
अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम |
अनुयास्याव सहितौ धन्विनौ परतापिनौ ||१२||
रथिनं त्वरया यान्तं रथावास्थाय दंशितौ ||१२||
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे |
ततः कर्तासि शत्रूणां युध्यतां कदनं महत् ||१३||
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि |
विहरस्व यथा शक्रः सूदयित्वा महासुरान् ||१४||
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् |
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ||१५||
मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा |
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ||१६||
न चाहं समरे तात कृतवर्मा तथैव च |
अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित् ||१७||
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह |
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ||१८||
सर्वोपायैः सहायास्ते प्रभाते वयमेव हि |
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ||१९||
एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः |
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ||२०||
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च |
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ||२१||
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् |
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् ||२२||
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् |
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ||२३||
यथा च निहतः पापैः पिता मम विशेषतः |
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ||२४||
कथं हि मादृशो लोके मुहूर्तमपि जीवति |
द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम् ||२५||
दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे |
स मे पितृवधाद्वध्यः पाञ्चाला ये च सङ्गताः ||२६||
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः |
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ||२७||
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् |
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ||२८||
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः |
शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ||२९||
एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ||२९||
वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान् |
अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल ||३०||
न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथञ्चन |
न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत् ||३१||
इति मे निश्चिता बुद्धिरेषा साधुमता च मे ||३१||
वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः |
पाण्डवानां च विजयो हृदयं दहतीव मे ||३२||
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके |
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ||३३||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
005-अध्यायः
कृप उवाच||
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः |
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ||१||
तथैव तावन्मेधावी विनयं यो न शिक्षति |
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम् ||२||
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः |
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ||३||
अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः |
दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम् ||४||
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् |
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ||५||
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते |
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ||६||
तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम् |
प्राज्ञाः सम्प्रतिषेधन्ते यथाशक्ति पुनः पुनः ||७||
स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मना |
कुरु मे वचनं तात येन पश्चान्न तप्यसे ||८||
न वधः पूज्यते लोके सुप्तानामिह धर्मतः |
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ||९||
ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः |
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ||१०||
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो |
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ||११||
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः |
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे ||१२||
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः |
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ||१३||
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ |
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ||१४||
असम्भावितरूपं हि त्वयि कर्म विगर्हितम् |
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ||१५||
अश्वत्थामोवाच||
एवमेतद्यथात्थ त्वमनुशास्मीह मातुल |
तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः ||१६||
प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ |
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ||१७||
कर्णश्च पतिते चक्रे रथस्य रथिनां वरः |
उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना ||१८||
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः |
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ||१९||
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे |
क्रोशतां भूमिपालानां युयुधानेन पातितः ||२०||
दुर्योधनश्च भीमेन समेत्य गदया मृधे |
पश्यतां भूमिपालानामधर्मेण निपातितः ||२१||
एकाकी बहुभिस्तत्र परिवार्य महारथैः |
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ||२२||
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः |
वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति ||२३||
एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः |
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ||२४||
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके |
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै ||२५||
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् |
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ||२६||
न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति |
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ||२७||
सञ्जय उवाच||
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् |
एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान् ||२८||
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ |
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ||२९||
एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ |
समदुःखसुखौ चैव नावां शङ्कितुमर्हसि ||३०||
अश्वत्थामा तु सङ्क्रुद्धः पितुर्वधमनुस्मरन् |
ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् ||३१||
हत्वा शतसहस्राणि योधानां निशितैः शरैः |
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ||३२||
तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वै |
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ||३३||
कथं च निहतः पापः पाञ्चालः पशुवन्मया |
शस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः ||३४||
क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौ |
समास्थाय प्रतीक्षेतां रथवर्यौ परन्तपौ ||३५||
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् |
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ||३६||
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः |
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ||३७||
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो |
द्वारदेशं तु सम्प्राप्य द्रौणिस्तस्थौ रथोत्तमे ||३८||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
006-अध्यायः
धृतराष्ट्र उवाच||
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ |
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे ||१||
सञ्जय उवाच||
कृतवर्माणमामन्त्र्य कृपं च स महारथम् |
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ||२||
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् |
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् ||३||
वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् |
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ||४||
बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः |
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ||५||
दंष्ट्राकरालवदनं व्यादितास्यं भयावहम् |
नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ||६||
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा |
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ||७||
तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः |
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ||८||
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः |
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ||९||
तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम् |
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ||१०||
द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् |
उदधेरिव वार्योघान्पावको वडवामुखः ||११||
अश्वत्थामा तु सम्प्रेक्ष्य ताञ्शरौघान्निरर्थकान् |
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ||१२||
सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत |
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ||१३||
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् |
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ||१४||
ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा |
स तदासाद्य भूतं वै विलयं तूलवद्ययौ ||१५||
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् |
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ||१६||
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः |
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ||१७||
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः |
अब्रवीदभिसन्तप्तः कृपवाक्यमनुस्मरन् ||१८||
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः |
स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ ||१९||
शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति |
स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते ||२०||
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा |
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ||२१||
मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत् |
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ||२२||
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् |
अमार्गेणैवमारभ्य घोरामापदमागतः ||२३||
तां चापदं घोरतरां प्रवदन्ति मनीषिणः |
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ||२४||
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह |
न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते ||२५||
मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति |
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ||२६||
प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः |
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते ||२७||
तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम् |
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन ||२८||
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् |
न चैतदभिजानामि चिन्तयन्नपि सर्वथा ||२९||
ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः |
तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते ||३०||
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम् |
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन ||३१||
सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम् |
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ||३२||
कपर्दिनं प्रपद्याथ देवदेवमुमापतिम् |
कपालमालिनं रुद्रं भगनेत्रहरं हरम् ||३३||
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च |
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ||३४||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
007-अध्यायः
शिवस्तुतिः
सञ्जय उवाच||
स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते |
अवतीर्य रथोपस्थाद्दध्यौ सम्प्रयतः स्थितः ||१||
द्रौणिरुवाच||
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् |
गिरिशं वरदं देवं भवं भावनमव्ययम् ||२||
शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम् |
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ||३||
श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् |
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ||४||
मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा |
सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ||५||
स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम् |
विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम् ||६||
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च |
व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् ||७||
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् |
गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् ||८||
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् |
तनुवाससमत्युग्रमुमाभूषणतत्परम् ||९||
परं परेभ्यः परमं परं यस्मान्न विद्यते |
इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् ||१०||
हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् |
प्रपद्ये शरणं देवं परमेण समाधिना ||११||
इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम् |
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ||१२||
इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः |
पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः ||१३||
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत |
द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन् ||१४||
दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः |
द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः ||१५||
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः |
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ||१६||
काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च |
महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः ||१७||
दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत |
कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा ||१८||
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च |
हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा ||१९||
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च |
पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः ||२०||
निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत |
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ||२१||
प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च |
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ||२२||
शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च |
शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ||२३||
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः |
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ||२४||
मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः |
उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलङ्कृताः ||२५||
पद्मोत्पलापीडधरास्तथा कुमुदधारिणः |
माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ||२६||
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः |
भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत ||२७||
पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः |
सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः ||२८||
महापाशोद्यतकरास्तथा लगुडपाणयः |
स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः ||२९||
महासर्पाङ्गदधराश्चित्राभरणधारिणः ||२९||
रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः |
नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च ||३०||
भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् |
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ||३१||
गायमानास्तथैवान्ये नृत्यमानास्तथापरे |
लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः ||३२||
धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः |
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ||३३||
सुभीमा घोररूपाश्च शूलपट्टिशपाणयः |
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ||३४||
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा |
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ||३५||
पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः |
चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः ||३६||
अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः |
विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः ||३७||
महार्हनानामुकुटा मुण्डाश्च जटिलाः परे |
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले ||३८||
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् |
ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः ||३९||
कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः |
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ||४०||
प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम् |
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः ||४१||
मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः |
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ||४२||
पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा |
चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा ||४३||
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च |
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ||४४||
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः |
सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः ||४५||
नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः |
संनादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः ||४६||
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः |
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः ||४७||
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः |
भीमोग्रपरिघालातशूलपट्टिशपाणयः ||४८||
घोररूपाः समाजग्मुर्भूतसङ्घाः समन्ततः ||४८||
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् |
तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः ||४९||
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् |
स्वयमेवात्मनात्मानमुपहारमुपाहरत् ||५०||
धनूंषि समिधस्तत्र पवित्राणि शिताः शराः |
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ||५१||
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् |
उपहारं महामन्युरथात्मानमुपाहरत् ||५२||
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् |
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ||५३||
इममात्मानमद्याहं जातमाङ्गिरसे कुले |
अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् ||५४||
भवद्भक्त्या महादेव परमेण समाधिना |
अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः ||५५||
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै |
गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति ||५६||
सर्वभूताशय विभो हविर्भूतमुपस्थितम् |
प्रतिगृहाण मां देव यद्यशक्याः परे मया ||५७||
इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम् |
सन्त्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् ||५८||
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् |
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव ||५९||
सत्यशौचार्जवत्यागैस्तपसा नियमेन च |
क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा ||६०||
यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा |
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ||६१||
कुर्वता तस्य संमानं त्वां च जिज्ञासता मया |
पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः ||६२||
कृतस्तस्यैष संमानः पाञ्चालान्रक्षता मया |
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ||६३||
एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम् |
आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् ||६४||
अथाविष्टो भगवता भूयो जज्वाल तेजसा |
वर्ष्मवांश्चाभवद्युद्धे देवसृष्टेन तेजसा ||६५||
तमदृश्यानि भूतानि रक्षांसि च समाद्रवन् |
अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम् ||६६||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
008-अध्यायः
धृतराष्ट्र उवाच||
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे |
कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् ||१||
कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ |
असह्यमिति वा मत्वा न निवृत्तौ महारथौ ||२||
कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् |
दुर्योधनस्य पदवीं गतौ परमिकां रणे ||३||
पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ |
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय ||४||
सञ्जय उवाच||
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि |
कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् ||५||
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ |
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ||६||
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने |
किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ||७||
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् |
यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ||८||
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् |
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ||९||
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह |
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ||१०||
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे |
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ||११||
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत |
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ||१२||
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते |
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ||१३||
तं शयानं महात्मानं विस्रब्धमकुतोभयम् |
प्राबोधयत पादेन शयनस्थं महीपते ||१४||
स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः |
अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् ||१५||
तमुत्पतन्तं शयनादश्वत्थामा महाबलः |
केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले ||१६||
स बलात्तेन निष्पिष्टः साध्वसेन च भारत |
निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ||१७||
तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः |
नदन्तं विस्फुरन्तं च पशुमारममारयत् ||१८||
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् |
आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः ||१९||
त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर ||१९||
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् |
आचार्यघातिनां लोका न सन्ति कुलपांसन ||२०||
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ||२०||
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् |
मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ||२१||
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि |
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ||२२||
ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् |
भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् ||२३||
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् |
अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ||२४||
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः |
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ||२५||
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे |
सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ||२६||
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः |
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ||२७||
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः |
क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् ||२८||
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम् |
अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ||२९||
राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् |
हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ||३०||
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् |
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ||३१||
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् |
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ||३२||
तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा |
तथैव मारयामास विनर्दन्तमरिंदमम् ||३३||
युधामन्युस्तु सम्प्राप्तो मत्त्वा तं रक्षसा हतम् |
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ||३४||
तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत् |
विस्फुरन्तं च पशुवत्तथैवैनममारयत् ||३५||
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् |
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ||३६||
स्फुरतो वेपमानांश्च शमितेव पशून्मखे ||३६||
ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान् |
भागशो विचरन्मार्गानसियुद्धविशारदः ||३७||
तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान् |
श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत् ||३८||
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना |
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ||३९||
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च |
आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् ||४०||
तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः |
अमानुष इवाकारो बभौ परमभीषणः ||४१||
ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः |
निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ||४२||
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः |
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ||४३||
स घोररूपो व्यचरत्कालवच्छिबिरे ततः |
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ||४४||
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः |
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते ||४५||
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ||४५||
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः |
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ||४६||
भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः |
ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् ||४७||
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन् |
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ||४८||
सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे |
खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् ||४९||
द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली ||४९||
ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे |
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ||५०||
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् |
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ||५१||
सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः |
पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत् ||५२||
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् |
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ||५३||
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः |
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ||५४||
श्रुतकर्मा तु परिघं गृहीत्वा समताडयत् |
अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् ||५५||
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना |
स हतो न्यपतद्भूमौ विमूढो विकृताननः ||५६||
तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः |
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ||५७||
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः |
सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् ||५८||
ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः |
अहनत्सर्वतो वीरं नानाप्रहरणैर्बली ||५९||
शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत् ||५९||
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः |
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना ||६०||
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः |
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ||६१||
यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत् ||६१||
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि |
चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः ||६२||
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च |
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ||६३||
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् |
रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम् ||६४||
ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम् |
नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् ||६५||
हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् ||६५||
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष |
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ||६६||
यतः प्रवृत्तः सङ्ग्रामः कुरुपाण्डवसेनयोः |
ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च ||६७||
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत् |
त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ||६८||
तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम् |
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ||६९||
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः |
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ||७०||
सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित् |
कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः ||७१||
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः |
गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो ||७२||
क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम् |
एवं तेषां तदा द्रौणिरन्तकः समपद्यत ||७३||
अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान् |
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ||७४||
ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः |
निद्रान्धा नष्टसञ्ज्ञाश्च तत्र तत्र निलिल्यिरे ||७५||
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः |
विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम् ||७६||
ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम् |
धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम् ||७७||
पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान् |
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत् ||७८||
तथैव स्यन्दनाग्रेण प्रमथन्स विधावति |
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ||७९||
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा |
तेन चाकाशवर्णेन तदाचरत सोऽसिना ||८०||
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः |
व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः ||८१||
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः |
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ||८२||
विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन् |
न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च ||८३||
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् |
उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् ||८४||
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ||८४||
बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः |
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ||८५||
तत्र केचिन्नरा भीता व्यलीयन्त महीतले |
तथैव तान्निपतितानपिंषन्गजवाजिनः ||८६||
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ |
तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम ||८७||
स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः |
अपूरयद्दिशः सर्वा दिवं चापि महास्वनः ||८८||
तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः |
मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् ||८९||
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः |
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ||९०||
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः |
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ||९१||
गजा गजानतिक्रम्य निर्मनुष्या हया हयान् |
अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत ||९२||
ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम् |
न्यपातयन्त च परान्पातयित्वा तथापिषन् ||९३||
विचेतसः सनिद्राश्च तमसा चावृता नराः |
जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः ||९४||
त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः |
प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः ||९५||
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो |
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ||९६||
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् |
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ||९७||
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे |
तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत् ||९८||
तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः |
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ||९९||
तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः |
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ||१००||
विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् |
वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् ||१०१||
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः |
कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः ||१०२||
भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् |
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ||१०३||
ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः |
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ||१०४||
कांश्चिदापततो वीरानपरांश्च प्रधावतः |
व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान् ||१०५||
कांश्चिद्योधान्स खड्गेन मध्ये सञ्छिद्य वीर्यवान् |
अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत् ||१०६||
विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः |
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ||१०७||
मानुषाणां सहस्रेषु हतेषु पतितेषु च |
उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् ||१०८||
सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च |
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ||१०९||
पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान् |
समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ||११०||
मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः |
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः ||१११||
एवं विचरतस्तस्य निघ्नतः सुबहून्नरान् |
तमसा रजनी घोरा बभौ दारुणदर्शना ||११२||
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः |
बहुना च गजाश्वेन भूरभूद्भीमदर्शना ||११३||
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे |
क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि ||११४||
मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः |
केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे ||११५||
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः |
असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम् ||११६||
न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः |
शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः ||११७||
ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः |
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् ||११८||
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः ||११८||
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः |
इति लालप्यमानाः स्म शेरते बहवो जनाः ||११९||
स्तनतां च मनुष्याणामपरेषां च कूजताम् |
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् ||१२०||
शोणितव्यतिषिक्तायां वसुधायां च भूमिप |
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ||१२१||
संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः |
न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा ||१२२||
अन्योन्यं सम्परिष्वज्य शयानान्द्रवतोऽपरान् |
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ||१२३||
दह्यमाना हुताशेन वध्यमानाश्च तेन ते |
परस्परं तदा योधा अनयन्यमसादनम् ||१२४||
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् |
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ||१२५||
निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी |
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ||१२६||
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः |
खादन्तो नरमांसानि पिबन्तः शोणितानि च ||१२७||
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः |
जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः ||१२८||
पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः |
घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः ||१२९||
सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः |
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ||१३०||
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे |
इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ||१३१||
मेदोमज्जास्थिरक्तानां वसानां च भृशासिताः |
परमांसानि खादन्तः क्रव्यादा मांसजीविनः ||१३२||
वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः |
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः ||१३३||
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च |
रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् ||१३४||
मुदितानां वितृप्तानां तस्मिन्महति वैशसे |
समेतानि बहून्यासन्भूतानि च जनाधिप ||१३५||
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः |
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः ||१३६||
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ||१३६||
स निःशेषानरीन्कृत्वा विरराज जनक्षये |
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ||१३७||
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो |
दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः ||१३८||
यथैव संसुप्तजने शिबिरे प्राविशन्निशि |
तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः ||१३९||
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान् |
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ||१४०||
तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा |
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ||१४१||
प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान् ||१४१||
एवंविधा हि सा रात्रिः सोमकानां जनक्षये |
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ||१४२||
असंशयं हि कालस्य पर्यायो दुरतिक्रमः |
तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् ||१४३||
धृतराष्ट्र उवाच||
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः |
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ||१४४||
अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ |
द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि ||१४५||
सञ्जय उवाच||
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन |
असांनिध्याद्धि पार्थानां केशवस्य च धीमतः ||१४६||
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् |
न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः ||१४७||
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो |
ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् ||१४८||
दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ||१४८||
पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः |
इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् ||१४९||
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः |
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ||१५०||
इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम् |
यदि जीवति नो राजा तस्मै शंसामहे प्रियम् ||१५१||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
009-अध्यायः
सञ्जय उवाच||
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः |
अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ||१||
गत्वा चैनमपश्यंस्ते किञ्चित्प्राणं नराधिपम् |
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ||२||
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् |
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ||३||
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः |
शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ||४||
निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्सञ्चिखादिषून् |
विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् ||५||
तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम् |
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन् ||६||
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ||६||
तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः |
शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः ||७||
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम् |
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ||८||
ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह |
रणे राज्ञः शयानस्य कृपणं पर्यदेवयन् ||९||
कृप उवाच||
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः |
एकादशचमूभर्ता शेते दुर्योधनो हतः ||१०||
पश्य चामीकराभस्य चामीकरविभूषिताम् |
गदां गदाप्रियस्येमां समीपे पतितां भुवि ||११||
इयमेनं गदा शूरं न जहाति रणे रणे |
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ||१२||
पश्येमां सह वीरेण जाम्बूनदविभूषिताम् |
शयानां शयने धर्मे भार्यां प्रीतिमतीमिव ||१३||
यो वै मूर्धावसिक्तानामग्रे यातः परन्तपः |
स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् ||१४||
येनाजौ निहता भूमावशेरत पुरा द्विषः |
स भूमौ निहतः शेते कुरुराजः परैरयम् ||१५||
भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः |
स वीरशयने शेते क्रव्याद्भिः परिवारितः ||१६||
उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम् |
धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् ||१७||
सञ्जय उवाच||
तं शयानं नृपश्रेष्ठं ततो भरतसत्तम |
अश्वत्थामा समालोक्य करुणं पर्यदेवयत् ||१८||
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् |
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य ह ||१९||
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ |
बलिनः कृतिनो नित्यं स च पापात्मवान्नृप ||२०||
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः |
पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे ||२१||
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः |
निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः ||२२||
धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे |
गदया भीमसेनेन निर्भिन्ने सक्थिनी तव ||२३||
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः |
यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् ||२४||
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् |
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ||२५||
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः |
दुर्योधनसमो नास्ति गदया इति वीर्यवान् ||२६||
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत |
सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ||२७||
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः |
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ||२८||
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ |
हतपुत्रां तु शोचामि गान्धारीं पितरं च ते ||२९||
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ||२९||
धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् |
धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् ||३०||
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान् |
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ||३१||
धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः |
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ||३२||
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा |
प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते ||३३||
धिगस्तु कृतवर्माणं मां कृपं च महारथम् |
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ||३४||
दातारं सर्वकामानां रक्षितारं प्रजाहितम् |
यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान् ||३५||
कृपस्य तव वीर्येण मम चैव पितुश्च मे |
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ||३६||
भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैः |
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ||३७||
कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम् |
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ||३८||
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् |
यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् ||३९||
त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते |
किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै ||४०||
दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम् |
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् ||४१||
गत्वैतांस्तु महाराज समेत्य त्वं महारथान् |
यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम ||४२||
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् |
हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप ||४३||
परिष्वजेथा राजानं बाह्लिकं सुमहारथम् |
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ||४४||
तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान् |
अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम् ||४५||
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम् |
अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत् ||४६||
दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु |
सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम् ||४७||
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः |
अहं च कृतवर्मा च कृपः शारद्वतस्तथा ||४८||
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः |
पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ||४९||
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः |
सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ||५०||
मया च पापकर्मासौ धृष्टद्युम्नो महीपते |
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ||५१||
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् |
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ||५२||
न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता |
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ||५३||
स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना |
तेन मन्ये मघवता सममात्मानमद्य वै ||५४||
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः |
इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः ||५५||
प्राणानुदसृजद्वीरः सुहृदां शोकमादधत् ||५५||
तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम् |
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ||५६||
इत्येवं तव पुत्रस्य निशम्य करुणां गिरम् |
प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति ||५७||
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ |
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ||५८||
वैशम्पायन उवाच||
इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा |
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ||५९||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
001-अध्यायः-ऐषीकपर्व
वैशम्पायन उवाच||
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः |
शशंस धर्मराजाय सौप्तिके कदनं कृतम् ||१||
द्रौपदेया महाराज द्रुपदस्यात्मजैः सह |
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ||२||
कृतवर्मणा नृशंसेन गौतमेन कृपेण च |
अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि ||३||
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः |
सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम् ||४||
छिद्यमानस्य महतो वनस्येव परश्वधैः |
शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत ||५||
अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते |
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः ||६||
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः |
पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः ||७||
तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः |
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ||८||
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा |
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः ||९||
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः |
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ||१०||
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् |
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ||११||
अनर्थो ह्यर्थसङ्काशस्तथार्थोऽनर्थदर्शनः |
जयोऽयमजयाकारो जयस्तस्मात्पराजयः ||१२||
यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः |
कथं मन्येत विजयं ततो जिततरः परैः ||१३||
येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे |
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ||१४||
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे |
चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः ||१५||
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः |
ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः ||१६||
रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजियुक्तम् |
शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम् ||१७||
सङ्ग्रामचन्द्रोदयवेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम् |
ये तेरुरुच्चावचशस्त्रनौभि; स्ते राजपुत्रा निहताः प्रमादात् ||१८||
न हि प्रमादात्परमोऽस्ति कश्चि; द्वधो नराणामिह जीवलोके |
प्रमत्तमर्था हि नरं समन्ता; त्त्यजन्त्यनर्थाश्च समाविशन्ति ||१९||
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम् |
महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम् ||२०||
महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम् |
ये सेहुरात्तायतशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात् ||२१||
न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर्विपुलं यशो वा |
पश्याप्रमादेन निहत्य शत्रू; न्सर्वान्महेन्द्रं सुखमेधमानम् ||२२||
इन्द्रोपमान्पार्थिवपुत्रपौत्रा; न्पश्याविशेषेण हतान्प्रमादात् |
तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्यामिव हेलमानाः ||२३||
अमर्षितैर्ये निहताः शयाना; निःसंशयं ते त्रिदिवं प्रपन्नाः ||२३||
कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति |
भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम् ||२४||
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः ||२४||
तच्छोकजं दुःखमपारयन्ती; कथं भविष्यत्युचिता सुखानाम् |
पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन ||२५||
इत्येवमार्तः परिदेवयन्स; राजा कुरूणां नकुलं बभाषे |
गच्छानयैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम् ||२६||
माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः |
ययौ रथेनालयमाशु देव्याः; पाञ्चालराजस्य च यत्र दाराः ||२७||
प्रस्थाप्य माद्रीसुतमाजमीढः; शोकार्दितस्तैः सहितः सुहृद्भिः |
रोरूयमाणः प्रययौ सुताना; मायोधनं भूतगणानुकीर्णम् ||२८||
स तत्प्रविश्याशिवमुग्ररूपं; ददर्श पुत्रान्सुहृदः सखींश्च |
भूमौ शयानान्रुधिरार्द्रगात्रा; न्विभिन्नभग्नापहृतोत्तमाङ्गान् ||२९||
स तांस्तु दृष्ट्वा भृशमार्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः |
उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसञ्ज्ञः ||३०||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
011-अध्यायः
द्रौपदीपरिदेवितम्
वैशम्पायन उवाच||
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्भ्रातॄन्सखींस्तथा |
महादुःखपरीतात्मा बभूव जनमेजय ||१||
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः |
स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह ||२||
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् |
सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा ||३||
ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा |
नकुलः कृष्णया सार्धमुपायात्परमार्तया ||४||
उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम् |
तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् ||५||
कम्पमानेव कदली वातेनाभिसमीरिता |
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि ||६||
बभूव वदनं तस्याः सहसा शोककर्शितम् |
फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान् ||७||
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः |
बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः ||८||
सा समाश्वासिता तेन भीमसेनेन भामिनी |
रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत् ||९||
दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम् |
आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै ||१०||
दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम् |
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि ||११||
आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान् |
उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि ||१२||
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा |
शोकस्तपति मां पार्थ हुताशन इवाशयम् ||१३||
तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे |
ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम् ||१४||
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः |
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ||१५||
एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् |
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ||१६||
दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम् |
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् ||१७||
धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे |
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि ||१८||
द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः |
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने ||१९||
द्रौपद्युवाच||
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः |
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम् ||२०||
राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः ||२०||
वैशम्पायन उवाच||
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना |
भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत् ||२१||
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् |
जहि तं पापकर्माणं शम्बरं मघवानिव ||२२||
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन ||२२||
श्रुतं तत्सर्वलोकेषु परमव्यसने यथा |
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते ||२३||
हिडिम्बदर्शने चैव तथा त्वमभवो गतिः ||२३||
तथा विराटनगरे कीचकेन भृशार्दिताम् |
मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव ||२४||
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा |
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव ||२५||
तस्या बहुविधं दुःखान्निशम्य परिदेवितम् |
नामर्षयत कौन्तेयो भीमसेनो महाबलः ||२६||
स काञ्चनविचित्राङ्गमारुरोह महारथम् |
आदाय रुचिरं चित्रं समार्गणगुणं धनुः ||२७||
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः |
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ||२८||
ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः |
वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः ||२९||
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः |
द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान् ||३०||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
012-अध्यायः
वैशम्पायन उवाच||
तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः |
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ||१||
एष पाण्डव ते भ्राता पुत्रशोकमपारयन् |
जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः ||२||
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ |
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे ||३||
यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः |
अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि ||४||
तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् |
प्रत्यपादयदाचार्यः प्रीयमाणो धनञ्जयम् ||५||
तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः |
ततः प्रोवाच पुत्राय नातिहृष्टमना इव ||६||
विदितं चापलं ह्यासीदात्मजस्य महात्मनः |
सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् ||७||
परमापद्गतेनापि न स्म तात त्वया रणे |
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ||८||
इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् |
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ||९||
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् |
निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम् ||१०||
ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत |
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ||११||
स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु |
एक एकं समागम्य मामुवाच हसन्निव ||१२||
यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः |
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ||१३||
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् |
तदद्य मयि दाशार्ह यथा पितरि मे तथा ||१४||
अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम |
ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे ||१५||
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः |
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ||१६||
देवदानवगन्धर्वमनुष्यपतगोरगाः |
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ||१७||
इदं धनुरियं शक्तिरिदं चक्रमियं गदा |
यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते ||१८||
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे |
तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि ||१९||
स सुनाभं सहस्रारं वज्रनाभमयस्मयम् |
वव्रे चक्रं महाबाहो स्पर्धमानो मया सह ||२०||
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् |
जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना ||२१||
न चैतदशकत्स्थानात्सञ्चालयितुमच्युत ||२१||
अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे |
सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत् ||२२||
ततः सर्वबलेनापि यच्चैतन्न शशाक सः |
उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ||२३||
कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत ||२३||
निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम् |
अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् ||२४||
यः स देवमनुष्येषु प्रमाणं परमं गतः |
गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः ||२५||
यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् |
द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शङ्करम् ||२६||
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि |
नादेयं यस्य मे किञ्चिदपि दाराः सुतास्तथा ||२७||
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा |
नोक्तपुर्वमिदं वाक्यं यत्त्वं मामभिभाषसे ||२८||
ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम् |
हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः ||२९||
समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत |
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ||३०||
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम |
न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया ||३१||
रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन |
न गदेन न साम्बेन यदिदं प्रार्थितं त्वया ||३२||
द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः |
नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया ||३३||
भारताचार्यपुत्रः सन्मानितः सर्वयादवैः |
चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे ||३४||
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह |
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत ||३५||
ततस्ते प्रार्थितं चक्रं देवदानवपूजितम् |
अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते ||३६||
त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव |
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ||३७||
एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम् |
चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ||३८||
एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च |
आदायोपययौ बालो रत्नानि विविधानि च ||३९||
स संरम्भी दुरात्मा च चपलः क्रूर एव च |
वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ||४०||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
013-अध्यायः
ऐषीकोत्सर्गः
वैशम्पायन उवाच||
एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः |
सर्वायुधवरोपेतमारुरोह महारथम् ||१||
युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः ||१||
आदित्योदयवर्णस्य धुरं रथवरस्य तु |
दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् ||२||
पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ||२||
विश्वकर्मकृता दिव्या नानारत्नविभूषिता |
उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत ||३||
वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् |
तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ||४||
अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् |
अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः ||५||
अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ |
रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ||६||
तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् |
प्रतोदेन जवोपेतान्परमाश्वानचोदयत् ||७||
ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् |
आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च ||८||
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् |
प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव ||९||
ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ |
भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः ||१०||
क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् |
नाशक्नुवन्वारयितुं समेत्यापि महारथाः ||११||
स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् |
ययौ भागिरथीकच्छं हरिभिर्भृशवेगितैः ||१२||
यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् ||१२||
स ददर्श महात्मानमुदकान्ते यशस्विनम् |
कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ||१३||
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् |
रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके ||१४||
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः |
भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् ||१५||
स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् |
भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ ||१६||
व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत ||१६||
स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् |
जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना ||१७||
स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् ||१७||
अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान् |
अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः ||१८||
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् |
सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह ||१९||
ततस्तस्यामिषीकायां पावकः समजायत |
प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः ||२०||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
014-अध्यायः
वैशम्पायन उवाच||
इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः |
द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत ||१||
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते |
द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव ||२||
भ्रातॄणामात्मनश्चैव परित्राणाय भारत |
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् ||३||
केशवेनैवमुक्तस्तु पाण्डवः परवीरहा |
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः ||४||
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने |
भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः ||५||
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः |
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् ||६||
ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना |
प्रजज्वाल महार्चिष्मद्युगान्तानलसंनिभम् ||७||
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः |
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् ||८||
निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः |
महद्भयं च भूतानां सर्वेषां समजायत ||९||
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् |
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा ||१०||
ते अस्त्रे तेजसा लोकांस्तापयन्ती व्यवस्थिते |
महर्षी सहितौ तत्र दर्शयामासतुस्तदा ||११||
नारदः स च धर्मात्मा भरतानां पितामहः |
उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ ||१२||
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ |
दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ ||१३||
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ |
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ ||१४||
प्राणभृद्भिरनाधृष्यौ देवदानवसंमतौ |
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया ||१५||
ऋषी ऊचतुः||
नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः |
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन ||१६||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
015-अध्यायः
वैशम्पायन उवाच||
दृष्ट्वैव नरशार्दूलस्तावग्निसमतेजसौ |
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः ||१||
उवाच वदतां श्रेष्ठस्तावृषी प्राञ्जलिस्तदा |
प्रयुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया ||२||
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः |
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ||३||
अत्र यद्धितमस्माकं लोकानां चैव सर्वथा |
भवन्तौ देवसङ्काशौ तथा संहर्तुमर्हतः ||४||
इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः |
संहारो दुष्करस्तस्य देवैरपि हि संयुगे ||५||
विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे |
न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ||६||
ब्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना |
न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते ||७||
अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः |
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ||८||
ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् |
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत ||९||
सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः |
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः ||१०||
द्रौणिरप्यथ सम्प्रेक्ष्य तावृषी पुरतः स्थितौ |
न शशाक पुनर्घोरमस्त्रं संहर्तुमाहवे ||११||
अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे |
द्रौणिर्दीनमना राजन्द्वैपायनमभाषत ||१२||
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना |
मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने ||१३||
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता |
मिथ्याचारेण भगवन्भीमसेनेन संयुगे ||१४||
अतः सृष्टमिदं ब्रह्मन्मयास्त्रमकृतात्मना |
तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे ||१५||
विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् |
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै ||१६||
तदिदं पाण्डवेयानामन्तकायाभिसंहितम् |
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति ||१७||
कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा |
वधमाशास्य पार्थानां मयास्त्रं सृजता रणे ||१८||
व्यास उवाच||
अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः |
उत्सृष्टवान्न रोषेण न वधाय तवाहवे ||१९||
अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता |
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ||२०||
ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव |
क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः ||२१||
एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः |
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि ||२२||
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते |
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ||२३||
एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः |
न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षया ||२४||
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः |
तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज ||२५||
अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः |
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति ||२६||
मणिं चैतं प्रयच्छैभ्यो यस्ते शिरसि तिष्ठति |
एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः ||२७||
द्रौणिरुवाच||
पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् |
अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते ||२८||
यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् |
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन ||२९||
न च रक्षोगणभयं न तस्करभयं तथा |
एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन ||३०||
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् |
अयं मणिरयं चाहमिषीका निपतिष्यति ||३१||
गर्भेषु पाण्डवेयानाममोघं चैतदुद्यतम् ||३१||
व्यास उवाच||
एवं कुरु न चान्या ते बुद्धिः कार्या कदाचन |
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम ||३२||
वैशम्पायन उवाच||
ततः परममस्त्रं तदश्वत्थामा भृशातुरः |
द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह ||३३||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
016-अध्यायः
द्रौपदीप्रसादः
वैशम्पायन उवाच||
तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा |
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा ||१||
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः |
उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत् ||२||
परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति |
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ||३||
तस्य तद्वचनं साधोः सत्यमेव भविष्यति |
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः ||४||
एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा |
द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम् ||५||
नैतदेवं यथात्थ त्वं पक्षपातेन केशव |
वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा ||६||
पतिष्यत्येतदस्त्रं हि गर्भे तस्या मयोद्यतम् |
विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि ||७||
वासुदेव उवाच||
अमोघः परमास्त्रस्य पातस्तस्य भविष्यति |
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति ||८||
त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः |
असकृत्पापकर्माणं बालजीवितघातकम् ||९||
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि |
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् ||१०||
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् ||१०||
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि |
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः ||११||
पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः |
विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः ||१२||
वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च |
कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते ||१३||
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः |
षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति ||१४||
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति |
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते ||१५||
पश्य मे तपसो वीर्यं सत्यस्य च नराधम ||१५||
व्यास उवाच||
यस्मादनादृत्य कृतं त्वयास्मान्कर्म दारुणम् |
ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम् ||१६||
तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः |
असंशयं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः ||१७||
अश्वत्थामोवाच||
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्वहम् |
सत्यवागस्तु भगवानयं च पुरुषोत्तमः ||१८||
वैशम्पायन उवाच||
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् |
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ||१९||
पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः |
कृष्णद्वैपायनं चैव नारदं च महामुनिम् ||२०||
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः |
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् ||२१||
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः |
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव ह ||२२||
अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः |
ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वयम् ||२३||
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् |
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः ||२४||
ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः |
प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत् ||२५||
अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते |
उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर ||२६||
प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे |
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनः ||२७||
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च |
नैव त्वमपि गोविन्द शममिच्छति राजनि ||२८||
उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम् |
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि ||२९||
हतो दुर्योधनः पापो राज्यस्य परिपन्थकः |
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया ||३०||
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् |
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च ||३१||
यशोऽस्य पातितं देवि शरीरं त्ववशेषितम् |
वियोजितश्च मणिना न्यासितश्चायुधं भुवि ||३२||
द्रौपद्युवाच||
केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम |
शिरस्येतं मणिं राजा प्रतिबध्नातु भारत ||३३||
वैशम्पायन उवाच||
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा |
गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि ||३४||
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः |
शुशुभे स महाराजः सचन्द्र इव पर्वतः ||३५||
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी |
कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट् ||३६||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
017-अध्यायः
रुद्रमाहात्म्यम्
वैशम्पायन उवाच||
हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः |
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् ||१||
कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा |
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः ||२||
तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः |
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः ||३||
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् |
तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः ||४||
किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ |
यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः ||५||
वासुदेव उवाच||
नूनं स देवदेवानामीश्वरेश्वरमव्ययम् |
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् ||६||
प्रसन्नो हि महादेवो दद्यादमरतामपि |
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् ||७||
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ |
यानि चास्य पुराणानि कर्माणि विविधान्युत ||८||
आदिरेष हि भूतानां मध्यमन्तश्च भारत |
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा ||९||
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः |
पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम् ||१०||
हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् |
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः ||११||
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः |
स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् ||१२||
सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि |
यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः ||१३||
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः |
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम् ||१४||
स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन् |
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् ||१५||
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् |
बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा ||१६||
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् |
आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम् ||१७||
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च |
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ||१८||
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् |
ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु ||१९||
भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि |
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः ||२०||
बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा |
चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत ||२१||
तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत |
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव ||२२||
किं कृतं सलिले शर्व चिरकालं स्थितेन ते |
किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम् ||२३||
सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम् |
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै ||२४||
तपसाधिगतं चान्नं प्रजार्थं मे पितामह |
ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः ||२५||
एवमुक्त्वा तु सङ्क्रुद्धो जगाम विमना भवः |
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः ||२६||
श्रीमहाभारतम्
||१० सौप्तिकपर्वम् ||
018-अध्यायः
वासुदेव उवाच||
ततो देवयुगेऽतीते देवा वै समकल्पयन् |
यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः ||१||
कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः |
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ||२||
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः |
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ||३||
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः |
तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह ||४||
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः |
पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः ||५||
लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः |
धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः ||६||
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत |
यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् ||७||
ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् |
आजगामाथ तत्रैव यत्र देवाः समीजिरे ||८||
तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् |
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ||९||
न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः |
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ||१०||
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः |
तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् ||११||
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे |
न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा ||१२||
ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा |
अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः ||१३||
स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत |
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ||१४||
अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान् |
नष्टसञ्ज्ञेषु देवेषु न प्रज्ञायत किञ्चन ||१५||
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा |
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ||१६||
प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः |
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ||१७||
स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च |
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ||१८||
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् |
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ||१९||
ततो विधनुषं देवा देवश्रेष्ठमुपागमन् |
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ||२०||
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये |
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ||२१||
भगस्य नयने चैव बाहू च सवितुस्तथा |
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव ||२२||
ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह |
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् ||२३||
तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो |
प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् ||२४||
ततस्ते निहताः सर्वे तव पुत्रा महारथाः |
अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः ||२५||
न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् |
महादेवप्रसादः स कुरु कार्यमनन्तरम् ||२६||
सौप्तिकपर्व सम्पूर्णम्