श्रीः
श्रीमहाभारतम्
||१८ स्वर्गारोहणपर्वम् ||
001-अध्यायः–स्वर्गारोहणपर्व
स्वर्गे नारदवाक्यम्
जनमेजय उवाच||
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः |
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ||१||
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः |
महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ||२||
वैशम्पायन उवाच||
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः |
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ||३||
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः |
दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ||४||
भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम् |
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ||५||
ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः |
सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ||६||
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै |
सहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना ||७||
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा |
हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने ||८||
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी |
परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ ||९||
स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् |
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ||१०||
मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव |
स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति ||११||
युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन |
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ||१२||
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह |
सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः ||१३||
वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम् |
यूयं सर्वे सुरसमा येन युद्धे समासिताः ||१४||
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् |
भये महति योऽभीतो बभूव पृथिवीपतिः ||१५||
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् |
द्रौपद्याश्च परिक्लेशं न चिन्तयतुमर्हसि ||१६||
ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः |
सङ्ग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि ||१७||
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै |
स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ||१८||
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः |
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ||१९||
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः |
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ||२०||
यत्कृते पृथिवी नष्टा सहया सरथद्विपा |
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ||२१||
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः |
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ||२२||
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् |
कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् ||२३||
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् |
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ||२४||
क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद |
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ||२५||
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः |
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ||२६||
श्रीमहाभारतम्
||१८ स्वर्गारोहणपर्वम् ||
002-अध्यायः
देवदूतविसर्जनम्
युधिष्ठिर उवाच||
नेह पश्यामि विबुधा राधेयममितौजसम् |
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ||१||
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः |
राजानो राजपुत्राश्च ये मदर्थे हता रणे ||२||
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः |
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ||३||
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः |
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ||४||
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः |
न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा ||५||
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि |
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ||६||
इदं च परितप्यामि पुनः पुनरहं सुराः |
यन्मातुः सदृशौ पादौ तस्याहममितौजसः ||७||
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् |
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ||८||
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् |
अविज्ञातो मया योऽसौ घातितः सव्यसाचिना ||९||
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम |
अर्जुनं चेन्द्रसङ्काशं यमौ तौ च यमोपमौ ||१०||
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् |
न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः ||११||
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः |
यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम ||१२||
देवा ऊचुः||
यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् |
प्रिये हि तव वर्तामो देवराजस्य शासनात् ||१३||
वैशम्पायन उवाच||
इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् |
युधिष्ठिरस्य सुहृदो दर्शयेति परन्तप ||१४||
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः |
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ||१५||
अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः |
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ||१६||
तमसा संवृतं घोरं केशशैवलशाद्वलम् |
युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् ||१७||
दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् |
इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ||१८||
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् |
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ||१९||
अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम् |
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ||२०||
मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः |
निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः ||२१||
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् |
जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् ||२२||
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् |
असिपत्रवनं चैव निशितक्षुरसंवृतम् ||२३||
करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् |
लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ||२४||
कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् |
ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् ||२५||
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह |
कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् ||२६||
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि |
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ||२७||
स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् |
देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव ||२८||
निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः |
यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ||२९||
युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः |
निवर्तने धृतमनाः पर्यावर्तत भारत ||३०||
स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः |
शुश्राव तत्र वदतां दीना वाचः समन्ततः ||३१||
भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव |
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ||३२||
आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः |
तव गन्धानुगस्तात येनास्मान्सुखमागमत् ||३३||
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ |
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ||३४||
सन्तिष्ठस्व महाबाहो मुहूर्तमपि भारत |
त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते ||३५||
एवं बहुविधा वाचः कृपणा वेदनावताम् |
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ||३६||
तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् |
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ||३७||
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः |
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ||३८||
अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः |
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ||३९||
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे |
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ||४०||
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत |
द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः ||४१||
ता वाचः सा तदा श्रुत्वा तद्देशसदृशीर्नृप |
ततो विममृशे राजा किं न्विदं दैवकारितम् ||४२||
किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः |
कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ||४३||
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे |
न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ||४४||
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः |
तथा श्रिया युतः पापः सह सर्वैः पदानुगैः ||४५||
महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः |
कस्येदानीं विकारोऽयं यदिमे नरकं गताः ||४६||
सर्वधर्मविदः शूराः सत्यागमपरायणाः |
क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः ||४७||
किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये |
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ||४८||
एवं बहुविधं राजा विममर्श युधिष्ठिरः |
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ||४९||
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः |
देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ||५०||
स तीव्रगन्धसन्तप्तो देवदूतमुवाच ह |
गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् ||५१||
न ह्यहं तत्र यास्म्यामि स्थितोऽस्मीति निवेद्यताम् |
मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे ||५२||
इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता |
जगाम तत्र यत्रास्ते देवराजः शतक्रतुः ||५३||
निवेदयामास च तद्धर्मराजचिकीर्षितम् |
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ||५४||
श्रीमहाभारतम्
||१८ स्वर्गारोहणपर्वम् ||
003-अध्यायः
युधिष्ठिरस्वर्गारोहणम्
वैशम्पायन उवाच||
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे |
आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः ||१||
स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम् |
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ||२||
तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु |
समागतेषु देवेषु व्यगमत्तत्तमो नृप ||३||
नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम् |
नदी वैतरणी चैव कूटशाल्मलिना सह ||४||
लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः |
विकृतानि शरीराणि यानि तत्र समन्ततः ||५||
ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् ||५||
ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः |
ववौ देवसमीपस्थः शीतलोऽतीव भारत ||६||
मरुतः सह शक्रेण वसवश्चाश्विनौ सह |
साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः ||७||
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः |
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ||८||
ततः शक्रः सुरपतिः श्रिया परमया युतः |
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ||९||
युधिष्ठिर महाबाहो प्रीता देवगणास्तव |
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ||१०||
सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव ||१०||
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम |
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ||११||
शुभानामशुभानां च द्वौ राशी पुरुषर्षभ |
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ||१२||
पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः ||१२||
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते |
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ||१३||
व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति |
व्याजेनैव ततो राजन्दर्शितो नरकस्तव ||१४||
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा |
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः ||१५||
आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात् |
स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे ||१६||
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ ||१६||
कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः |
स गतः परमां सिद्धिं यदर्थं परितप्यसे ||१७||
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो |
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ||१८||
भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान् |
स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ||१९||
अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव |
विहरस्व मया सार्धं गतशोको निरामयः ||२०||
कर्मणां तात पुण्यानां जितानां तपसा स्वयम् |
दानानां च महाबाहो फलं प्राप्नुहि पाण्डव ||२१||
अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि |
उपसेवन्तु कल्याणं विरजोम्बरवाससः ||२२||
राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान् |
प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत् ||२३||
उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर |
हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि ||२४||
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः |
दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ||२५||
एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी |
आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि ||२६||
अत्र स्नातस्य ते भावो मानुषो विगमिष्यति |
गतशोको निरायासो मुक्तवैरो भविष्यसि ||२७||
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् |
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ||२८||
भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक |
मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च ||२९||
एषा तृतीया जिज्ञासा तव राजन्कृता मया |
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः ||३०||
पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति |
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ||३१||
सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत |
श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः ||३२||
इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि |
विशुद्धोऽसि महाभाग सुखी विगतकल्मषः ||३३||
न च ते भ्रातरः पार्थ नरकस्था विशां पते |
मायैषा देवराजेन महेन्द्रेण प्रयोजिता ||३४||
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः |
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ||३५||
न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ |
कर्णो वा सत्यवाक्षूरो नरकार्हाश्चिरं नृप ||३६||
न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर |
एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् ||३७||
एवमुक्तः स राजर्षिस्तव पूर्वपितामहः |
जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः ||३८||
गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् |
अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् ||३९||
ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः |
निर्वैरो गतसन्तापो जले तस्मिन्समाप्लुतः ||४०||
ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः |
धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः ||४१||
श्रीमहाभारतम्
||१८ स्वर्गारोहणपर्वम् ||
004-अध्यायः
वैशम्पायन उवाच||
ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः |
पूज्यमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः ||१||
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् |
तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् ||२||
दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् |
चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ||३||
उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ||३||
अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् |
द्वादशादित्यसहितं ददर्श कुरुनन्दनः ||४||
अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम् |
भीमसेनमथापश्यत्तेनैव वपुषान्वितम् ||५||
अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा |
नकुलं सहदेवं च ददर्श कुरुनन्दनः ||६||
तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् |
वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ||७||
अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः |
ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ||८||
श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता |
अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ||९||
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता |
रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ||१०||
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः |
द्रौपद्यास्तनया राजन्युष्माकममितौजसः ||११||
पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् |
एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ||१२||
अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः |
सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः ||१३||
आदित्यसहितो याति पश्यैनं पुरुषर्षभ ||१३||
साध्यानामथ देवानां वसूनां मरुतामपि |
गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् ||१४||
सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् ||१४||
सोमेन सहितं पश्य सौभद्रमपराजितम् |
अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ||१५||
एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः |
विमानेन सदाभ्येति पिता तव ममान्तिकम् ||१६||
वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम् |
द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ||१७||
एते चान्ये महीपाला योधास्तव च पाण्डव |
गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा ||१८||
गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः |
त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः ||१९||
श्रीमहाभारतम्
||१८ स्वर्गारोहणपर्वम् ||
005-अध्यायः
जनमेजय उवाच||
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः |
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ||१||
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् |
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ||२||
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः |
घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ||३||
ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः |
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ||४||
आहो स्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम |
अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः ||५||
एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज ||५||
सूत उवाच||
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना |
व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ||६||
वैशम्पायन उवाच||
गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप |
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ||७||
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ||७||
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः |
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ||८||
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः |
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ||९||
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् |
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् ||१०||
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् |
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ||११||
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी |
पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ||१२||
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः |
निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः ||१३||
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः |
उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् ||१४||
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः |
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ||१५||
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् |
सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ||१६||
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् |
विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ||१७||
आविवेश रविं कर्णः पितरं पुरुषर्षभ |
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ||१८||
धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः |
ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः ||१९||
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ||१९||
अनन्तो भगवान्देवः प्रविवेश रसातलम् |
पितामहनियोगाद्धि यो योगाद्गामधारयत् ||२०||
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः |
न्यमज्जन्त सरस्वत्यां कालेन जनमेजय ||२१||
ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् ||२१||
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः |
घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे ||२२||
दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः |
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ||२३||
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः |
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ||२४||
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते |
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ||२५||
सूत उवाच||
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः |
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ||२६||
ततः समापयामासुः कर्म तत्तस्य याजकाः |
आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् ||२७||
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् |
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ||२८||
विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः |
ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ||२९||
एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् |
व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह ||३०||
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् |
कृष्णेन मुनिना विप्र नियतं सत्यवादिना ||३१||
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता |
अतीन्द्रियेण शुचिना तपसा भावितात्मना ||३२||
ऐश्वर्ये वर्तता चैव साङ्ख्ययोगविदा तथा |
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ||३३||
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् |
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ||३४||
य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि |
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ||३५||
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः |
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ||३६||
अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा |
महाभारतमाख्याय पश्चात्सन्ध्यां प्रमुच्यते ||३७||
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ |
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ||३८||
जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता |
राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ||३९||
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् |
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ||४०||
अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः |
संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ||४१||
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् |
रक्षो यक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु ||४२||
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् |
श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः ||४३||
स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक |
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ||४४||
भारताध्ययनात्पुण्यादपि पादमधीयतः |
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ||४५||
महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा |
श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ||४६||
मातापितृसहस्राणि पुत्रदारशतानि च |
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ||४७||
हर्षस्थानसहस्राणि भयस्थानशतानि च |
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||४८||
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे |
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ||४९||
न जातु कामान्न भयान्न लोभा; द्धर्मं त्यजेज्जीवितस्यापि हेतोः |
नित्यो धर्मः सुखदुःखे त्वनित्ये; जीवो नित्यो हेतुरस्य त्वनित्यः ||५०||
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् |
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ||५१||
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः |
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ||५२||
महाभारतमाख्यानं यः पठेत्सुसमाहितः |
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ||५३||
द्वैपायनोष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च |
यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ||५४||
स्वर्गारोहणपर्व सम्पूर्णम्