आनन्दतारतम्यखण्डनम्

श्रीः

श्रीमते रामानुजाय नमः

श्रीश्रीनिवासविरचितम् आनन्दतारतम्यखण्डनम्

शेषाशेषाय निर्दोषगुणभूषाय शेषिणे ।

निर्मलानन्दनिर्माणधर्मिणे ब्रह्मणे नमः ॥

[आनन्दतारतम्ये युक्तिप्रदर्शनम्]

     इह केचिद्देवमनुष्यादीनाम् मुक्तानाम् परस्परमानन्दे तारतम्यम् आचक्षते । तद्धि साधनतारतम्यायत्तम् दुरपह्नवम् । मुक्तिसाधनम् हि ज्ञानम् । तत्तारतम्यम् च लोकत एवावगतम् । देवानाम् च ऋषीणाञ्च बहुतरतपश्चर्याप्रतिपादकपुराणावगतम् च प्रयत्नाधिक्यम्, फलाधिक्य-गमकम् । अन्यथा प्रयत्नानर्थक्यप्रसङ्गात् । फलवता नाम प्रयत्नेन भवितव्यम् । न च प्रयत्नः फलाद्व्यतिरिक्तेभ्यः । असत्यपि साधन-तारतम्ये भगवतः फलदातुः वैषम्यनैर्घृण्यप्रसङ्गश्च । श्रुतयश्चामुमर्थ-मनुगृह्णन्ति । यथा *अक्षण्वन्तः कर्णवन्तः सखायोगवतः मनोजवेष्व-समा बभूवुः*(ऋग्वेद.१०- ७१-७) इति । अत्र हि मनोजवशब्दिते ज्ञाने साम्याभावप्रतिपादनात् तारतम्यमवगम्यते । तेन फलतारतम्यम् अर्थसिद्धम् । तथा *सैषानन्दस्य मीमाम्सा भवति*(तै.उ.आन.८-१) इत्यारभ्य मनुष्यादि-चतुर्मुखपर्यन्तानाम् मुक्तानाम्, आनन्दतारतम्यम् प्रतिपाद्य *श्रोत्रियस्य च अकामहतस्य*(तै.उ.आन.८-२) इति तत्तन्मुक्तेष्वपि तत्तदानन्दतार-तम्यमतिदिश्यते । तदेव च मनुष्येभ्यो गन्धर्वाणाम्, गन्धर्वेभ्य ऋषीणामृषिभ्य इन्द्रस्य, इन्द्राद्रुद्रस्य, रुद्रात् ब्रह्मणः *एष ह्येव शतानन्द* इति चतुर्वेदशिखावाक्येन विव्रियते । स्मृतिभिश्च बह्वीभिरेतदेव अभि-धीयते । परमसाम्यश्रुतिश्च सङ्कुचितार्था त्वयापि व्यवस्थाप्यते । जगत्कारणत्वलक्ष्मीपतित्वादेः मुक्तेषु असम्भवात् । शेषित्वशेषत्व-महत्त्वाणुत्त्वादिप्रयुक्ततारतम्यस्य दुरपह्नवत्वाच्च । अतो निर्दोषत्वमात्रेणैव तत्साम्यमुपपन्नमिति नानन्दसाम्यसिद्धिरिति ।

[आनन्दतारतम्यसाधकयुक्तीनाम् निरासः]

अत्र ब्रूमः । अस्तु साधनतारतम्यम् । न तत् स्वाभाविकम्, अपि तु कर्मकृतमिति; *अविद्या कर्मसञ्ज्ञान्या तृतीया शक्तिरिष्यते*(वि.पु.६-७-६१) इति कर्मस्वरूपम् अभिधाय *तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञ-सम्हिता । सर्वभूतेषु भूपाल तारतम्येन वर्तते*(वि.पु.६-७-६३) इति महर्षिवचनादवगम्यते । मुक्तौ च निश्शेषकर्मक्षयेण कुतस्तत्प्रयुक्तम् ज्ञानतारतम्यम् । कुतस्तराम् तत्प्रयुक्तमानन्दतारतम्यञ्च । आनन्द-स्वाभाविकमेव ज्ञानतारतम्यम् *मनोजवेष्वसमा बभूवु*रिति श्रुतेरिति चेदुच्यते । मनोजवशब्दोऽपि न जीवस्वभावज्ञानवाची । तस्य नित्य-त्वेन मनोजन्यत्वाभावात् । अपि तु मनोवृत्तिरूपध्यानवाची । तत्र च तारतम्यमिष्टमेव । न च तन्मुक्तिसाधनम् । अपि तु अपरोक्षज्ञान-साधनम् । *तच्च मुक्तिसाधनम् । यथोक्तम् ब्रह्मतर्के *दृश्यते ह्यपरोक्षेण ज्ञानेनैव परम् पदम् । उपासनात्वापारोक्ष्यम् गमयेत् तत्प्रसादतः* इति । न च तत्तारतम्ये प्रमाणमस्ति । वस्तुतस्तु *अक्षण्वन्तः कर्णवन्तः* (ऋग्वेद.१०-७१-७) इत्याभ्याम् सर्वसाक्षात्कर्तृत्वम् सर्वश्रोत्रत्वञ्च उच्यते । `प्रशम्सायाम् मतुप्प्रत्ययविधानात् तत्समभिव्याहाराच्च । मनोज-वशब्दोऽपि मानससाक्षात्कारवाची । तेषु च समान्तरराहित्यम् असमपदेनाभिधीयते, न तु परस्परसाम्यम् निषिध्यते । *अक्षण्वन्त* इत्यादिबहुवचनेन सर्वेषु तत्सम्भवस्यैक-रूप्येण प्रतिपन्नस्य तत्रैव पुनर्निषेधायोगात् । *कीर्तिमानसमो राजा समाः तत्र च पण्डिताः* इत्यादौ कीर्तिपाण्डित्याद्यवच्छिन्नसदृशान्तर-निषेधस्यैव प्रतीतेः । अपि च – असमा इति – साम्यमात्रम् वा ज्ञानवत्वेन साम्यम् वा न मुक्तेषु निषेद्धुम् शक्यम् । चेतनत्वाणुत्वजीवत्वादिना ज्ञानवत्त्वेन च तेषु साम्यस्य दुरपह्नवत्त्वात् । नापि तदीयज्ञानेषु साम्यनिषेधः । उदाहृतवाक्यात् तदप्रतीतेः । नापि ज्ञाननिरूपितसादृश्यस्य तेषु निषेधः । ज्ञानत्वस्य निरूपकता-वच्छेदकत्वे निषेधविरोधात् । अन्यस्य निरूपकतावच्छेदकस्याश्रवणात् । ज्ञानगतम् साम्यम् पुरुषेषु निषिध्यत इति चेत्; अप्रसक्तप्रतिषेधापत्तेः । अस्मदिष्टत्वाञ्चेति दिक् ।

[साधनतारतम्यस्य न साध्यतारतम्यापादकत्वम्]

अस्तु वा ज्ञाने तारतम्यम् । तथापि न साध्यतारतम्यम् । *स्नानम् सप्तविधम् प्रोक्तम्* इत्युक्तवारुणाग्नेयादिस्नानतारतम्येऽपि तत्साध्य-शुचित्वे तारतम्यादर्शनात्; शक्ताशक्तविभागेन प्रायश्चित्ततारतम्येऽपि दुरितनिवृत्तितारतम्यादर्शनाच्च; प्रेक्षावज्जडमतिप्रतीतसुवर्णासुवर्ण-तारतम्येऽपि क्रयतारतम्यादर्शनाच्च; ऊषरानूषरक्षेत्रनिक्षिप्तबीजतार-तम्याभावेऽपि तत्साध्यफले तारतम्यदर्शनाच्च; मन्दामन्दपुरुषकर्तृक-श्रवणतारतम्याभावेपि तत्साध्यज्ञानतारतम्यदर्शनाच्च; स्वर्गापवर्गकाम-पुरुषकर्तृकज्योतिष्टोमानुष्ठानतारतम्याभावेऽपि तत्फलतारतम्यदर्शनाच; हिताहितपुरुषकर्तृकसेवातौल्येऽपि तत्फलराजानुग्रहतारतम्यदर्शनाच्च; अन्वयव्यतिरेकाभ्याम् *व्यभिचारात् । न च प्रयत्नानर्थक्यम् । उपासन-काले अनुभवविशेषसम्पादनेन तत्सार्थक्यात् । अत एव न भगवतो *वैषम्यनैर्घृण्ये न सापेक्षत्वात्*(ब्र.सू.२-१-३४) इत्यप्रसक्तप्रतिषेधा-पत्तिरिति चेन्न । तस्य साम्सारिकसुखादिवैचित्र्यप्रयुक्तवैषम्यादि-निषेधपरत्वात् । अत एव सापेक्षत्वादिति कर्मसापेक्षत्वेन तत्परिहारो युज्यते । ननु सापेक्षत्व-मात्रम् तत्र उच्यते; न कर्मसापेक्षत्वमिति चेन्न *न कर्माविभागादिति चेन्नानादित्वात्*(ब्र.सू.२-१-३५) इति तदुत्तरसन्दर्भेणैव तदवगमात् । कर्मण एव हि अनादित्वम् तत्रोच्यते – न ज्ञानतारतम्यस्य । अपि च गुणानाम् गुण्यभेदस्य त्वदभिमतत्वात् स्वरूपाभिन्नज्ञानस्य कथम् स्वरूपतारतम्यम् विना तारतम्यम् । न च स्वरूपतारतम्ये किञ्चिदस्ति प्रमाणम् ।

*एषोऽणुरात्मा चेतसा वेदितव्यः* । (मुण्.उ.३-१-९)

*वालाग्रशतभागस्य शतधा कल्पितस्य च ।

भागो जीवः स विज्ञेयः स चानन्त्याय कल्प्यते* ॥(श्वे.उ.५-९)

इति ऐकरूप्येणाणुत्वश्रवणात्; अणुत्वेनैव साम्यम् । स्वरूपम् परस्पर-तारतम्यवदित्यत्र तु शपथमन्तरेण न आश्वासः । अतो न साधनतार-तम्यमानन्दतारतम्ये तु प्रमाणम् ।

[तारतम्यसाधकानुमानेषु दोषोद्भावनम्]

एतेन मुक्तज्ञानमीश्वरज्ञानान्निकृष्टम् जीवज्ञानत्वात्, सम्सारिज्ञानवत् । एवम् मुक्तानन्दः ईश्वरानन्दान्निकृष्टः; जीवानन्दत्वात् सम्सार्यानन्दव-दित्याद्यनुमानान्यपि निरस्तानि । निकर्षहेत्वभावतत्सद्भावाभ्यामेव ज्ञाननिकर्षानिकर्षयोः अन्यथासिद्धत्त्वात् । ईश्वरज्ञानान्निकर्षेऽपि परस्परनिकर्षालाभेन आनन्दतारतम्यानवगमकत्वाच्च । किञ्च कालकृतनिकर्षे साध्ये सिद्धसाधनात् । विषयकृतनिकर्षे साध्ये *सर्वम् ह पश्यः पश्यति*(छान्.उ.७-२६-२) इत्यादिना कालात्ययापदिष्टत्वात् । ईश्वरज्ञानम् मुक्तज्ञानान्निकृष्टम् मुक्तान्यचेतनज्ञानत्वात् सम्सारिज्ञान-वदित्यादिवदवगमकञ्च । साधनतारतम्यस्य साध्यतारतम्यम् प्रत्यहेतुतया तत्साधनवैयर्थ्यम् च । किञ्च साधनतारतम्यम् किम् स्वाभाविकम् औपाधिकम् वा? नाद्यः । मानाभावात् । तद्वदेव आनन्द-तारतम्यस्य स्वाभाविकत्वसम्भवेन तत्र साधनतारतम्यस्य प्रयोजकत्व-कल्पनावैयर्थ्याच्च । न द्वितीयः । उपाधिनिवृत्या तन्निवृत्तेः मुक्तौ तदसम्भवात् । न च स्वरूपमेवोपाधिः; स च मुक्तावप्यनुवर्तत इति वाच्यम् । तर्हि आनन्दोऽपि तथेति सुकृतम् ज्ञानप्रयोजकत्वेन ।

[आनन्दतारतम्ये प्रमाणाभावः]

अप्रामाणिकश्चायम् तारतम्यवादः । तथा हि तत्र न तावत् प्रत्यक्षम् प्रमाणम् । तस्य वैषयिकानन्दविषयत्वात् । अत एव नानुमानम् । तस्य प्रत्यक्षावगतव्याप्तिग्रहमूलकत्वात् । अप्रयोजकत्वाच्च । नापि श्रुतिः । अदर्शनात्, परमसाम्यश्रुतिविरोधाच्च । न चासौ निर्दोषत्वेन साम्यपरा । *सङ्कोचे मानाभावात्* पारम्य-विशेषेणास्वारस्याच्च । *तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमम् साम्यमुपैति* (मुण्.उ.३-१-३) इत्यत्र विधूयेति *त्वा* प्रत्ययान्तेन निर्दोषत्वस्य साम्ये हेतुत्वप्रतिपादनेन *सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता* (तै.उ.आन.१-२) इति *रसम् ह्येवायम् लब्ध्वानन्दी भवति*(तै.उ.आन.७-१) । *एष ह्येवानन्दयाति* *ब्रह्मणो महिमान-माप्नोति*(महा.ना-३६) इत्यादि श्रुतिभिः *भोगमात्रसाम्यलिङ्गाच्च* (ब्र.सू.४-४-२१) इति सूत्रेण च अवगतस्य भोगसाम्यस्यैव तत्साध्यत्वेन वक्तव्यत्वात् । अत एव – *ब्रह्म वेद ब्रह्मैव भवति*(मुण्.उ.३-२-९) इति तादात्म्यनिर्देशः उपपद्यते । यथा राज्ञा समानभोगे अधिकारिणी राज्ञी वा यदुच्यते । न यत्किञ्चित् साम्ये । एतेन *सैषानन्दस्य मीमाम्सा भवति* (तै.उ.आन.८-१) इत्यादिना मुक्तानामानन्दतारतम्यप्रतिपादना कापि प्रत्युक्ता साम्यश्रुतिविरोधात् । *यथोदकम् शुद्धे शुद्धमासिक्तम् तादृगेव भवति*(कठ.उ.४-१५) इति दृष्टान्तेन शुद्धोदकस्यासिक्तस्य रूपरसादिसाम्यवदत्रापि निर्दोषयोर्मुक्तब्रह्मणोरानन्दसाम्यस्यैव वक्तव्यत्वाच्च ।

[आनन्दमीमाम्साया अपि मुक्तानन्दतारतम्ये तात्पर्याभावः]

आनन्दमीमाम्सायामपि मुक्तानन्दतारतम्ययोर्विप्रतिपत्तेश्च । तथा हि –  तत्र मनुष्यगन्धर्वानारभ्य ब्रह्मपर्यन्तानाम् मुक्तानामेव उत्तरोत्तरानन्दे शतगुणितत्त्वम् प्रतिपाद्यते, न मुक्तेभ्यो मुक्तानाम् । न च मनुष्यगन्धर्व-शब्द एव अमुक्तामुक्तमनुष्यगन्धर्वपर इति शक्यम् वक्तुम् । मनुष्य-गन्धर्वेभ्यः पृथङ्निर्दिष्टस्याकामहतश्रोत्रियशब्दितस्य मुक्तस्य तेन शब्देन ग्रहणायोगात् । न हि *ब्राह्मणान् भोजय कौण्डिन्यम् च ब्राह्मणेभ्यो दधि देहि* इत्युक्ते ब्राह्मणशब्देन कौण्डिन्यस्यापि ग्रहणम् कस्यचिदिष्टम् ।

ननु अमुक्तानामानन्दतारतम्यम् प्रतिपाद्य तस्य मुक्तेऽतिदेशात्, मुक्ते-ऽपि तत् सिद्ध्यति इति चेत् न; तथा सति मनुष्यपर्याये तदनभिधाना-न्मनुष्यमुक्तानाम् मुक्तामुक्ततारतम्यानापत्तेः । न चान्यत्र तदभिधाना-न्मनुष्येषु तदर्थ सिद्धमिति वाच्यम् । प्रथमातिक्रमणे कारणाभावेन तेनैव अन्येषामर्थसिद्धेर्युक्तत्वात् । किञ्च तत्तत्पर्याये पठितम् श्रोत्रियस्येति वाक्यम् तन्मुक्तमात्रपरम्, मुक्तसामान्यपरम् वा । आद्येपि एकवचनम् व्यक्त्यभिप्रायम्, जात्यभिप्रायम् वा । आद्ये सर्वेषाम् तन्मुक्तानाम् तारतम्यासिद्धिप्रसङ्गः । प्रत्येकम् व्यक्त्यभिप्रायकत्त्वे सर्वेषामानन्द-साम्यप्रसङ्गः । अत एव न द्वितीयः । सर्वत्र व्यक्त्यभिप्रायके बहु-वचनप्रवाहेऽकस्मादेव जात्यभिप्रायकत्वकल्पनागौरवञ्च । नापि मुक्तसामान्यपरत्वमिति द्वितीयः । प्रतिपर्यायमेकमुक्तपरत्वेऽस्मदिष्टसिद्धेः विभिन्नमुक्तपरत्वे विनिगमनाविरहेण तारतम्यविपर्ययप्रसङ्गः । किञ्च *सैषानन्दस्य मीमाक्त्यसा भवति*(तै.उ.आन.८-१) इति वाक्यमानन्द-मयपदावगतब्रह्मानन्दप्राचुर्यप्रतिपादनाय प्रवृत्तमिति *सैषा* इति निर्दिष्ट-प्रतिनिर्देशकतच्छब्दसमभिव्याहारादवगम्यते । *यतो वाचो निवर्तन्ते” (तै.उ.आन.९-१) इति श्लोके *आनन्दम् ब्रह्मणो विद्वान्*(तै.उ.आन.९-१) इति ब्रह्मानन्दोपसम्हारादपि तदेव अवगम्यते । तत्र कथम् मुक्तानन्द-तारतम्येऽपि तात्पर्यम् कल्प्यते । तथा सति तात्पर्यभेदाद्वाक्यभेदापत्तेः । न च तदुपयोगितयैव तदभिधानम् । मनुष्यगन्धर्वाद्यानन्दनिकर्ष-प्रतिपादनादेव तत्सिद्धेः । किमर्थम् तर्हि प्रतिपर्यायव श्रोत्रियस्य इत्यभिधानमिति चेत् शृणु- तदनभिधाने मनुष्यगन्धर्वादीनाप्रति मुक्तानामपि तेनैव पदेन सङ्ग्रहप्रसङ्गेन तदानन्दस्यापि अन्योन्य-मपकर्षप्रसङ्गेन अभिमतब्रह्मानन्दसाम्यम् न सिद्ध्येत् । तदभिधाने तु सर्वा-नन्दानाम् ब्रह्मानन्द इति मुक्तानन्देप्यन्तर्भावसिद्धौ तदपकर्षो न सिद्ध्येत् । अवश्यम् च तद्वक्तव्यम् *सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता* (तै.उ.आन.१-२) इत्युपक्रमे मुक्तस्य ब्रह्मणा सह सर्वकामावाप्तेः सङ्क्षेपेणोक्तस्य विवरणापेक्षित्वात् ।

[श्रोत्रियवाक्यस्य मनुष्यमुक्तमात्रविषयकत्वसमर्थनम्]

ननु तर्हि मनुष्यपर्याये श्रोत्रियवाक्याभावात्, तन्मुक्तस्य आनन्दे ब्रह्मानन्दसाम्यम् न प्रतीयेतेति चेत्, न तत्पर्यायस्य श्रोत्रियवाक्यस्यैव तत्परत्वात् । तथा हि युवा स्यादिति वाक्यस्थाध्यायकपदाभिहित- छन्दोध्येतृ-पुरुषाभिधायक-श्रोत्रियपदस्वारस्यात् तद्विषयकत्वमेव तद्वाक्यस्य प्रतीयते । तत्र अकामहतत्त्वविशेषितस्यैव मुक्तत्वावस्था प्रतीयते । तत्र मुमुक्षुत्वावस्थाशङ्कायाम् युवत्वाद्यानन्दहेतुबाहुल्यात् । तद्बाहुल्ये वक्तव्येपि *स एको मानुष आनन्दः*(तै.उ.आन.८-१) इति एकत्वाहार्यारोपः तस्य उत्तरोत्तरशतगुणप्रतिपादनेन मनुष्यगन्धर्वानन्द-मारभ्य चतुर्मुखानन्दपर्यन्तस्य आनन्दस्य मुक्तानन्दे तस्मिन् *शते पञ्चाशन्न्यायेन* अन्तर्भावप्रतिपादनेन तदानन्दस्य अपरिच्छिन्नत्व-प्रतीतितात्पर्यकः । यद्यपि ब्रह्मानन्देऽपि एतादृशमपरिच्छिन्नत्त्वोप-योग्यन्तर्भूतत्वम् वक्तव्यम् । तथापि सम्सारिषु जीवेषु परिच्छिन्न-तरतमभावापन्नानन्ददर्शनात् मुक्तेष्वपि तेषु तथात्वशङ्कावत् न मनुष्यगन्धर्वादिभेदेन तदानन्दे तारतम्याभावात् । *एतस्यैवानन्द-स्यान्यानि भूतानि मात्रामुपजीवन्ति*(बृ.उ.४-३-३२) इति श्रुत्यन्तरे तदभावस्य सिद्धत्वात् । *एष ह्येवानन्दयाति*(तै.उ.आन.७-१) इति अन्याखिलानन्दयितृत्वप्रतिपादनेन तत्र परिच्छिन्नत्वशङ्कानुत्थानाच्च । तत्र नातीव वक्तव्यमस्तीति मुक्तानन्द एव तदुक्तिः ।

नन्वेवम् मुक्तानन्दब्रह्मानन्दयोः सर्वथा तौल्ये प्रकृतानन्दमयत्वस्य ब्रह्मसाधारण्यम् सोपपादितम् स्यादिति चेत् सत्यम्; अत एव – *सोऽकामयत*(तै.उ.आन.६-२) इत्यादिना तस्य जगत्कारणत्वमुच्यते । तथा च जगत्कर्तृत्वादिप्रयुक्त आनन्दोत्कर्षात् तदुत्कर्षोऽन्तः प्रविश्य नियन्तृत्वप्रयुक्तोत्कर्षश्च तस्मिन्नधिकः प्रवेश्यते । अतो मनुष्यमुक्त-मात्रविषयकमेव श्रोत्रियवाक्यम् । तस्यैव ब्रह्मानन्दतुल्यानन्दत्वम् अत्र प्रतिपाद्यते ।

नन्वेवम् अन्येषाम् मुक्तानाम् तन्न सिद्ध्येत् इति चेन्न; *कै मुतिक* न्यायेनैव अन्येषाम् तत्सिद्धेः । न च विनिगमनाविरहः । शास्त्रस्य प्रथमम् मनुष्याधिकारत्वात् । यथाह सूत्रकारः *हृद्यपेक्षया तु मनुष्याधिकारत्वात्*(ब्र.सू.१-३-२४) इति । किञ्च मनुष्याणामानन्दो हि प्रत्यक्षः । ततश्शतगुणितोत्तरत्वप्रतिपादनेन सौलभ्यम् । अन्येषाम् तु आनन्दो न प्रत्यक्ष इति कथम् तमादाय शतगुणितोत्तरत्वे हृद्यारोहः स्यादतो मनुष्यमुक्त एव तदनभिधानम् तेन अन्येषाम् कैमुत्यसिद्धिश्च युक्त इति युक्तः पन्थाः ।

ननु *स एको ब्रह्मण आनन्दः*(तै.उ.आन.८-४) इत्यत्र ब्रह्मशब्दो न परब्रह्मपरः, अपि तु चतुर्मुखपरः, प्रजापतिशब्दस्तु दक्षपरः । अतो न परमात्मसाम्यम् तत्सिद्ध्येत् इति चेन्नैवम् । *सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता*(तै.उ.आन.१-२) एतद्विवरणपरे अत्र वाक्यसमुदाये श्रुतस्य ब्रह्मशब्दस्य तत्रेव परब्रह्मविषयकत्वौचित्यात् । अत एव तद्विषयकश्लोके – *आनन्दब्रह्म ब्रह्मणो विद्वान् न बिभेति कुतश्चन*(तै.उ. आन.९-१) इति श्रूयते । (उ) अभयहेतुत्वञ्च परमात्मज्ञानस्यैव इति *अथ सोऽभयम् गतो भवति*(तै.उ.आन.७-२) इति प्राकरणिकवाक्ये- नैवावगम्यते । *ब्रह्मविदाप्नोति*(तै.उ.आन.१-१) इत्युपक्रमे, *असन्नेव* इति मध्ये *आनन्दम् ब्रह्मण* इत्यन्ते च परब्रह्मवाचिनि ब्रह्मशब्दे सति अकस्मादेव अत्र मुख्यार्थत्यागो न युक्तः । अतः परब्रह्मपर एवायम् इति दिक् । चतुर्वेदशिखावचनन्तु न मुक्तपरम् तत्र तद्वाचकपदाभावात् । शतानन्दपदन्तु चतुर्मुखे प्रसिद्धेश्च तत्परमेव । पौराणिकवचनानि तु उक्तयुक्तिविरोधात्, परमसाम्यश्रुतिविरोधाञ्च सालोक्यादिमुक्तिपराणि वा जीवन्मुक्तिपराणि वा उपासनादशाकालीनानुभवपराणि वा नेयानि इत्यन्यत्र विस्तरः ॥

॥ इति शम् ॥

॥ इति श्रीशठमर्षणकुलतिलक – श्रीनिवासतातार्यनन्दनेन लक्ष्म्यम्बागर्भशुक्तिमुक्ताफलेन कौण्डिन्य श्रीनिवासाध्वरिवरकरुणाकटाक्षलक्षितभाष्यतत्त्वार्थेन

निजाग्रजाम्नायाचार्यदीक्षितानुग्रहलब्धबुद्धिना प्रतिदिनप्रबन्धनिर्माणधुरन्धरेण

यतीन्द्रहृदयारूढार्थप्रकाशकेन श्रीश्रीनिवासेन

विरचितमानन्दतारतम्यखण्डनम्

नाम प्रकरणम् समाप्तम् ॥

—————————-

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.