[highlight_content]

Astaksara Sarvaadhikara Samartanam

श्रीमते रामानुजाय नम: ।

श्री मधुरमंगलं श्रीपेरुंपूदूरु यंबार स्वामि योगीन्द्रेण कृतम्

अष्टाक्षरस्य सर्वाधिकार समर्थनम्

श्रिय:पति: परमकारुणिक: सर्वेश्वर: संसारिचेतनानां स्वस्वरूपादि याथात्म्यविज्ञानप्रदानेन समस्तसांसारिकदु:ख निबर्हणपूर्वकं “नित्यकिङ्कर: प्रहर्षयिष्यामि” इत्यायुक्तं निरतिशयानन्दं उत्पादयितुं, “मन्त्राणां परमोमन्त्र:” इत्यायुक्त प्रकारेण समस्त वेदमूलभूतं तत्व-हित-पुरुषार्थयातात्म्य प्रतिपादकं श्रीमदष्टाक्षरं स्वयमेव नरनारायणादिरूपेण अवतीर्य व्यासादिमहर्षीणां भगवन्निर्हेतुककटाक्षलब्धदिव्यज्ञानानां पराङ्कुशपरकालादि दिव्यसूरीणां च प्रकाशयामास।तथाच अनुगृहीतम् “नरनारायणनाय् उलहत्तरनूल् शिङ्गामै विरित्तवन् एम्पेरुमान्” (நரநாரணனாய் உலகத்து அறநூல் சிங்காமை விரித்தவன் எம்பெருமான்) (பெரிய திருமொழி 10-6-1)इत्यादि।।

अत: सर्वैरपि मुमुक्षुभि: “औमित्येकाक्षरं नम इति द्वे अक्षरे।नारायणायेति पञ्चाक्षराणि। इत्यष्टाक्षरं। छन्दसा गायत्रीचेति” प्रणवार्थ नमोमध्य नारायणपदान्तिमं। मन्त्रमष्टाक्षरं विद्यात् इत्यादिश्रुतिस्मृति सिद्ध: मूलमन्त्र एव तत्वशनार्थं उपादेय: ।।

अत्र केचित् सप्रणवाष्टाक्षरस्य ब्राह्मण्यादि मात्राधिकारतां मन्वाना: दुर्वचनजालै: लोकान् व्यामोहयन्ति।तेषां अयं अशिय:

अष्टाक्षरस्य यो मन्त्रो द्वादशाक्षर एव च।

एते मन्त्रा: प्रधानास्तु वैदिका: प्रणवैर्युता:।।

(पारमात्मिकोपनिषद्-??)

इत्यारभ्य → षडक्षरश्चयोमन्त्रो विष्णोरमिततेजस:।

“वैदिकं ब्राह्मणानां तु राज्ञां वैदिक तान्त्रिकम्।(विष्वक्सेन संहिता 316)

इत्यादिना ब्राह्मणादीनामेव सप्रणवाष्टाक्षराधिकार प्रतिपादनात्

“न स्वर: प्रणवोऽङ्गानि नाप्यन्यविधय: स्मृता:।

स्त्रीणां च शूद्रजातीनां मन्त्रमात्रोक्तिरिष्यते।।” (सात्त्वतसंहिता/अध्यायः १९)

इति शूद्रादीनां अधिकारस्य विशेषतो निषेधात्

मंत्रं नियतमव्याणां यो हीनाय प्रयच्छति।

इत्यादिना अत्रैवर्णिकानां वैदिकमन्त्रोपदेशे प्रत्यवाय स्मरणात्

वैदिकाष्टाक्षरस्य सर्वाधिकारत्वे प्रमाणाभावाच्च वैदिकाष्टाक्षर मन्त्रः ब्राह्मणादि मात्राधिकारक: इति।। अत्रोच्यते –

वैदिकाष्टाक्षराधिकारत्वेन भवदभ्युपगतं ब्राह्मण्यादिकं (किंरूपम्?) किंनाम! इति विचारणीयम्।तञ्च न जातिरूपम्; प्रमाणाभावम्। तथाहि –

जातितो वित्त वैषम्यात् आगमापाययोगत: (चित)

साङ्कर्यात् दुर्ग्रहत्वाञ्च ब्राह्मण्यादेर्न जातिना।।

अयमर्थ: यै: सामग्री विशेषै: नरत्वादिजातयो गृह्यन्ते; न तै: ब्राह्मण्यादिकं गृह्यते। नहि विष्फारितेक्षणै: समान जातीयान् शिशून् अध्यक्षयद्भि: अयं ब्राह्मण: नायं ब्राह्मण: इति अयं तु क्षत्रिय: नायं क्षत्रिय: इतिब्राह्मण्यादिकं विविच्य दृश्यते।अन्यता किमयं ब्राह्मणो न वेत्यादि सन्देहानुदय प्रसङ्गात्।

एवं आगमापाययोगादपि ब्राह्मण्यादिकं न जातिरूपं; न च अत्र असिद्धि:।

“जन्मना जायते शूद्र: कर्मणा जायते द्विज:” (मनुस्मृति)

“आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते” (महाभारतम्  3-203-12)

“त्र्यहेण (भासेन)शूद्रो भवति ब्राह्मण: क्षीरविक्रयात् ” (मनुस्मृति 10-92)

“स जीवन्नेव शूद्रत्वं आशु गच्छति सान्वय:” (मनुस्मृति 12-168)

“आश्रेयान् श्रेयसीं जातिं गच्छन्त्या सप्तमादुयुगात्” (वाचस्पत्या)

“शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैतिशूद्रताम्” (मनुस्मृति 10-65)

इत्यादिवचनबलेन आगमापायित्वस्य अवश्यं अङ्गीकार्यत्वात्।।

एवं साङ्कर्यादपि तस्य न जातिरूपत्वम् ।विश्वामित्रादौ क्षत्रियत्व ब्राह्मणत्वयो: सत्रवात्।

तथा स्वाश्रय चेतन  दुर्ग्रहत्वादपि जातिरूपत्वं न सिद्ध्यति।न हि जातिरूपं वस्तु स्वाश्रय चेतन दुर्ग्रहं दृश्यते।।

ब्राह्मण्यस्य दुर्ग्रहत्वं च पूर्वतन्त्रे “शास्त्रदृष्ट विरोधात्” इति सूत्रे प्रतिपादितम्।अत्र भाष्यम् – “अपरोदृष्टविरोध: न चैतद्विद्मोवयं ब्राह्मणा: स्म:अब्राह्मणा वा इति” अयमर्थ: नैवैतत्ज्ञायते किं वा ब्राह्मणा वयम्? उत अब्राह्मणा एव इति।” (मीमांस दर्शनम्; अद्याय, पाद)अपराधात् कर्तुश्चपुत्र दर्शनम् “इत्यत्रापि दुर्शनत्वमेव भाषितम्।उपबृह्मिताचेयं “न चैतद्विद्म” इति श्रुति भारते महर्षि सिम्हेन  –

जातिरत्र महासर्प ! मनुष्यत्वे महामते !।

सङ्करात् सर्ववर्णानां दुष्परिक्ष्येति मे मति:।।

सर्वे सर्वास्वपत्यानि जनयन्ति यदा नरा:।

वाङ् मैथुनं अथोजन्म मरणं च समंनृणाम्।।

इदमार्षं प्रमाणं च ये यजामह इत्यपि ।। इति (नहुषगीताअद्याय १७७) तस्मात् उक्तहेतुभि: जातिरूपत्वं न सिद्ध्यति।।

नापि ब्राह्मण्यादिसुजातत्वं तत्त्वम्।विलोमस्यापि नापितात् ब्राह्मण्यं जातस्यचण्डाळत्वेन अभिलपनीयस्य मतङ्गादे: ब्राह्मणता पातात्।मतङ्ग: खलु ऋषिकुमार: स्वपित्रा कस्यचित् याजनार्थं नियुक्त: रथे गर्दभीं तदावत्सं च नियोज्यगच्छन् विळम्बं असहमान: वत्सं कशया प्राहरत्।सतुबालतया अतीव रुरोद।तंदृष्ट्वा गर्दभि जात! मारुद।अयं खलु चण्डाल:।न ब्राह्मण: नास्य तव रोदनेन दया (जायते) स्यात् इत्युवाच।तत् आकर्ण्य मतङ्ग: स्यात् अवप्लुत्य कथमहं चण्डाल: इतिगर्दभीं पृष्ट्वा, “त्वन्मातरंपृच्छ” इति तयोक्ते; स्वमातरं अपृच्छत् । सा तु कस्यचित् अपादि ऋतुस्नाताया: मम नापितेन समागमोजात: इत्युवाच। तत् श्रुत्वा अतीव विषण्ण: ब्राह्मण्य सम्पादनार्थं चिरं तप: तप्त्वा ब्राह्मण्यं अलब्ध्वैवमृत: इतीयं कथा भारतादौ विस्तरेण अनुसन्धेया।।

नापि ब्राह्मणादेर्जतितं तत्त्वम्। ब्राह्मणात् शूद्रायां उत्पन्नस्य तत्त्वापत्ते:।

नापि ब्राह्मणादिश्य: ब्राह्मण्यादिषुजातत्वं तत्त्वम्।तथासति कुण्डगोळकविशेषे अतिव्याप्ति:।

छन्दसां मातु: गायत्र्या: उपदेष्टरि आचार्यकुलकन्दभूते विश्वामित्रे वीतिहोत्रे च अव्याप्ति:।विश्वामित्रेण च वसिष्ठवचन प्रभावात् ब्राह्मण्यं सम्पादितम्।वीतिहोत्रो नाम अयोध्याधिपति: राजा।तेन च अनायासेन कस्यचिन्मुनेर्वचनात् ब्राह्मण्यं प्राप्तम्।।

अत: उक्तरीत्या ब्राह्मण्यनिर्वचनं न संभवति।किन्तु ब्राह्मण्यादिकं नाम अत्यर्थ भगवत् प्रीतिप्रयोजक अदृष्टविशेषसम्बन्ध एव।तथाचोक्तम्।।

“विष्णुक्रान्तं वासुदेवं विजानन् विप्रोविप्रत्वं गच्छते तत्त्वदर्शी” (शाट्यायनीयोपनिषद्-4)

“मौनं चामौनं च निर्विद्याथ ब्राह्मण:” (बृ..3-5-1)

‘ न शूद्रा भगवद्भक्ता: विप्राभागवता:’ स्मृता: (महाभारत)

इत्यादि।अनुगृहीतं च श्रुतप्रकाशिकायाम्-

“यद्वा ब्राह्मण्यादिकं देवतादीनं (देवादीनां) अप्यस्ति। तत्खलु अदृष्टविशेष सम्बन्धरूपम्।न तु जातिरूपम्।ब्राह्मणादिभि: ब्राह्मण्यादिषु उत्पत्ति मात्रं वा। अन्यथा आदिकाले ब्रह्मणो मुखबाहूरुप्रभवानां, पश्चात् विश्वामित्र प्रभृतीनां च ब्राह्मण्याद्यभाव प्रसङ्गात् “ इत्यादि।। (श्रीभाष्ये प्रथमोध्याय: तृतीय: पाद:)

अत्र अदृष्टविशेष इति विशेषपदेन पूर्वोक्त भगवत्प्रियतमत्व योजकतं विवक्षितम्।ईदृशस्य ब्राह्मण्यस्य जायमानकाल भगवत् कटाक्षाधीन मुमुक्षाशालिषु सम्भवात्; मुमुक्षुसामान्यस्य वैदिकाष्टाक्षरपरिगृहे, न किञ्चिद्बाधकं पश्याम:।

एतत्सर्वं अभिसन्धाय अनुगृहीतंव्यामोहविद्रावणे

तत्र किं तद् ब्रह्मण्यम्? इत्यादिना विस्तरेण ब्राह्मण्यस्वरूपं वि***, “ब्राह्मण्यादिकं *द्वृत्तरूपम्।न तु जातिरूपम्” इति निर्णाय, तत्र प्रमाणतया मनु-भारत वचनानि बहूनि उदाहृतानि।तेषु कानिचित् वचनानि अत्र लिख्यन्ते।–मनु:

योऽवधीत्य द्विजोवेदं अन्यत्र कुरुतेश्रमम्।

स जीवन्नेव शूद्रत्वं आशुगच्छति सान्वय:।

इति अत्रजीवन्नेवेति एकस्मिन् एव जनमनि ब्राह्मणत्वापगमेन शूद्रत्वप्राप्ति: उक्ता भारते च –

सत्यं दानं क्षमाशीलं आनुशंस्यं दया घृणा

दृश्यन्ते यत्र राजेन्द्र! स ब्राह्मण इतिस्मृत:।।

(सत्यं दानं क्षमाशीलं आनुशंस्यं दया घृणा

दृश्यन्ते यत्र लोकेस्मिन् स्त देवा ब्राह्मणं विदु:।।)

(चतुर्वर्ग चिन्तामणिदानखण्डम् अद्याय:पाठभेद: अस्ति)

इति ब्राह्मणलक्षणं उक्त्वा,

शूद्रेध्वपि च सत्यं च दानं अक्रोध एव च।

इति ब्राह्मणलक्षणस्य शूद्रे अतिव्याप्तिं आशङ्क्य;

शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते।

न वै शुद्रोभवेत् शूद्र: ब्राह्मणो न च ब्राह्मण:।

यत्रैतल्लक्ष्यते सर्प! वृत्तं स ब्राह्मण:स्मृत:।

यत्रैतन्न भवेत् सर्प! तं शूद्रमिति निर्दिशेत्। (वनपर्व, अध्याय १८०)

इति वाक्येन तस्यापि लक्ष्यत्वाङ्गीकारेण, अतिव्याप्ति: परिहृता।

तथा -यदिते वृत्ततो राजन्! ब्राह्मण: प्रसमीक्षित:।

वृथा जाति: तद्,आयुष्मन्! कृतिर्यावन्न विद्यते।। इत्याशङ्क्य,

जातिरत्र महासर्प! मनुष्यत्वे महामते।

सङ्करात् सर्ववर्णानां दुष्परीक्ष्येति मे मति:।।

इति सत्त्याद्यतिरिक्तं ब्राह्मण्यादि दुष्परीक्ष्यम् इत्युक्तम्।।

तत्रैव

शुद्रयोवौ हि जातस्य सद्गुणानुपतिष्ठत:।

वैश्यत्वं लभ्यते ब्रह्मन्! क्षत्रियत्वं तथैव च।

आर्जवं वर्तमानस्य ब्राह्मण्यं अभिजायते।।

अत्र नीलकण्ठ: गुणकृत एववर्णविभाग: न तु जातिकृत इति

भाव: इति व्याचख्यौ ।।तत्रैव धर्मव्याधं प्रति कैशिक: –

साम्प्रतं च मतो मेऽसि ब्राह्मणोनात्रसंशय:।

ब्राह्मण: पतनीयेषु वर्तमानो विकर्मसु।

डाम्भिको दुष्कृतप्रज्ञ: शूद्रेण सदृशोभवेत्।

यस्तु शूद्रो दमे सत्त्ये धर्मेच सततं स्थित:।

तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद् द्विज: इति

शान्तिपर्वणि च–

चातुर्वर्ण्यस्य वर्णेन यदि वर्णोविभज्यते।

सर्वेषां खलु वर्णानां दृश्यते वर्णसङ्कर:।।

काम: क्रोधो भयं लोभ: शोकश्चिन्ता क्षुधाश्रम:।

सर्वेषां न: प्रभवति कस्मात् वर्णाविभज्यते?।

न विशेषोऽस्ति वर्णानां सर्वं ब्रह्मण्यं जगत्।

ब्रम्हणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम्।।

कामभोगप्रिया: तीक्ष्णा: क्रोधना: प्रियसाहसा:।

त्यक्त स्वधर्मा रक्ताङ्गा: ते द्विजा: क्षत्रतांगता:।।

गोभ्योवृत्तिं समास्थाय पीता: कृष्युपजीविन:।

स्वधर्मान् नानुतिष्ठन्ति ते द्विजा वैश्यतां गता:।।

हिंसा रतिप्रिया: लुब्धा: सर्वकर्मोपजीविन:।

कृष्णा: शौचपरिश्रष्टा: द्विजा: शूद्रतां गता:।।

इत्येतै: कर्मभिर्ध्वस्ता: द्विजा वर्णान्तरं गता:।

शौचाचारास्थितस्सम्यक् विधसाशी गुरुप्रिय:।

सत्त्यव्रती सत्त्यपर: स वै ब्राह्मण उच्यते।

शूद्रेचैतद् भवेल्लक्ष्म द्विजेतत्रैव न विद्यते।

न वै शूद्रोभवेच्छूद्र: ब्राह्मणो न च ब्राह्मण:।। इति

अनेन वचन नातेन ब्राह्मण्यादिकं सद्वृत्तप्रयोज्यम्; न तु औत्पत्तिकं मरणान्तस्थायि इतिगम्यते।।

एवं च तपोविशेषेण महदनुग्रहादिना क्षत्रियादीनां इव अन्येषां अपि, “वैदिकं ब्राह्मणानां तु” इत्याद्युक्ताष्टाक्षराधिकारभूतं ब्राह्मण्यं महदनुग्रहेण संस्कारविशेषेण वा सिद्दतीति, वैदिकाष्टाक्षरस्य सर्वाधिकारत्वं निराबाधमेव।।

न च “ब्राह्मण्यस्य संस्कारादिजन्यत्वाङ्गीकारे; दीक्षा प्रवेशमात्रेण” इत्यादि – “पाशुपताद्यागमसिद्ध-संस्कारजन्यब्राह्मण्य निषेधक-श्रुतप्रकाशिकावचनविरोध:” इति वाच्यम्। “पाशुपताद्यागमस्य मोहनार्थतया तामसत्वात्, प्रामाणिकै: अपरिग्रहात् च” न (तद् ) क्तसंस्कारेण सर्वेषां ब्राह्मणत्वसिद्धेरेव निषिद्धवात्।

तथाच अनुगृहीतं तदाधिकरणश्रुतप्रकाशिकायाम्–ननु– “कथं तर्हिमोहनार्थत्वम्?” इत्यारभ्य, “अन्ये तु पापप्राचुर्यात् अथर्वशिरोऽनभिज्ञतया भगवदात्मकत्वं रुद्रस्य अजानन्त: पाशुपतानुप्रविष्टा अपि सम्यग्ज्ञानाभावात् तमसिभ्रम्यन्वीति तन्मोह फलकत्वात् तेषां मोहार्थत्वमेव चेति महेश्वरवचनं घटते” इत्यादि ।। किञ्च

“हिरण्यमादायसुदर्शनं च कृत्वा तद् वन्हिचिन्हंस्वयमुपैतिमुक्तम्”

“स्त्रीशुद्रास्संबाहुभ्यांधास्येत् तस्माद् गर्भेणजायते ब्राह्मण्यस्य शरीरं जायते” इति सुदर्शनोपनिषदि ।।

“अथ कात्यायन: पप्रच्छ।याज्ञवल्क्य इति होवाच। ज्ञानं वै पुरुषो ब्राह्मणो जायते। सवै सद्ब्राह्मणो भवति; भगवद्भक्तोर्ध्वपुण्ड्री वसिष्ठ: काश्यपोऽत्रिरगस्त्य: जमदग्निर्विश्वामित्रो यमो व्यास: सनक: सनन्दन: शुकोवामदेव:। सब्रह्मलोकोभवति।सर्वलोकं जयति।तप्रंचक्रं द्विभुजेधार्यम्” इति महासुदर्शनोपनिषदि द्वितीये खण्डे शतपथब्राह्मणे च पञ्चसंस्कारस्य सुव्यक्तं प्रतिपादनात् अस्य आगमान्तरसिद्ध संस्कारसाम्योपपादनं साहसमेव।।

न च “ब्राह्मण्यस्य उक्तरीत्या आगमापायित्वाङ्गीकारे सति, तादृश ब्राह्मण्यवतां सर्वेषामपि उपनयनादि पूर्वक-वेदाध्ययनादी प्रसङ्ग भिया सन्तविशेष प्रसूतत्वमपि वेदाध्ययनादीनां नियामकं इति अवश्यं अंगीकार्यम्;तथा च तादृश सन्तति विशेषप्रसूतत्वस्य सर्वसाधारणत्वाभावात् न वैदिकाष्टक्षरस्य सर्वाधिकारता” इति वाच्यम्।

कृत्स्नवेदाध्ययनवत् वैदिकाष्टाक्षरस्यापि विशिष्ट मातापितृजन्यत्व रूपसन्ततिविशेष प्रसूतत्वाधिकारात्वे; व्यासपराशरप्रभृतिमहर्षीणामपि सप्रणवाष्टाक्षराधिकारत्वा भावप्रसङ्गेन, तन्निर्मित प्रबन्धादिषु प्रणवादि प्रतिपादनस्य विद्यति क्रमदोषत्वापातात्, तेषां उक्तसन्तति विशेषप्रसूतत्वाभावेऽपि तपोविशेषादिना प्रणवाद्यधिकाराङ्गीकारे; प्रकृतेऽपि तथोपपादनसम्भवात्।।

न च अत्रैवर्णिकानामपि महदनुग्रहादिना वेदघटक प्रणवाधिकाराङ्गीकारे, तद्बलादेव कृत्स्नवेदाधययन प्रसङ्ग:, इति” वाचयम्।

महर्षिभिन्नानां अदृष्टार्थ स्वाध्याय संस्काररूपाध्ययनस्य संतति विशेषप्रसूतत्वाधिकारकतया, तद्भावादेवतादृशापत्ते: अनवकाशात्।।

प्रणवस्य तु सर्वात्मसाधारण-शरणागत्युपायाधिकारि विशेषण अनन्यार्हशेषत्वज्ञानरूप-दृष्टार्थमेव स्वीकार्यतया न विरोध:।

यदि च प्रणवस्य वेदघटकत्वेन यथाकथंचिदपि तदाधिकारो नानुमन्यते; तदा भवदश्युपगत प्रणवस्थानीयस्य अकारस्यापि ‘तस्य प्रकृतिलीनस्य’ इत्यादिरीत्या प्रणवप्रकृतित्वात्,तस्यापि अनधिकार प्रसङ्गोदुर्वार एव।।

किञ्च लोकवेदाधिकरणन्यायेन संस्कृतशब्दसामान्यस्यापि वैदिकत्वाविशेषात् “मन्त्र मात्रोक्तिरिष्यते’ इत्युक्तमन्त्राधिकारोऽपि न सिद्ध्यत्येव।।

प्रकारान्तरेण गतिकल्पने तु अत्रापिसमानम्; इति अन्यत्र विस्तर:।।

अथ यत् उक्तम्–

“एते मन्त्रा: प्रधाना: स्यु: वैदिका: प्रणवैर्युता:”

“वैदिकं ब्राह्मणानां तु”

“न स्वर: प्रणवोऽङ्गानि नाप्यन्यविधयस्तथा।

स्त्रीणां च शुद्रजातीनां मन्त्रमात्रोक्तिरिष्यते।।”

इत्यादिना वैदिकाष्टक्षरस्य नियताधि कारताया: प्रतिपादनात् न सर्वाधिकारत्वं अस्य सम्भवति” तत् नोपपद्यते।

तथाहि–उक्तवचनबलात् अत्रैवर्णिकानां सप्रणवाष्टाक्षराधिकारस्य अनङ्गीकारे;

“आभगवत्त: प्रथितां अनद्यां आचार्यसन्ततिं वन्दे”। इत्यादिप्रसिद्धगुरुपरम्परायां, प्रपन्नजनकूटस्थत्वेन घटकस्य पराङ्कुशस्य त्रैवर्णिकत्वाभावेन तद्विषये सकलजगत्मर्यदाया: स्थापकेन सूत्रवतीसखेन कथं सप्रणवाष्टक्षरोपदेश: कृत:? कथं वा भगवता सर्वेश्वरेण श्रीकृष्णपुरेऽवतीर्णेन श्रीपरकालस्येपि विषये सप्रणवाष्टक्षरोपदेश: कृत:? कथं वा पराङ्कुशादय: स्वशिष्यभूत् -ब्राह्मणोत्तम -श्रीमधुरकवि-श्रीमन्नाथमुनि प्रभृतिभ्य: सप्रणवाष्टाक्षरं उपादिशत्? इति प्रश्नसमुदायस्य निरुक्तरताऽऽपत्त्या, उक्तवचनस्य अन्यपरत्वं अकामेमापि स्वीकार्यं इति तद्वचनस्य नामसङ्कीर्तन जपादिरूपं उपायान्तरे प्रकृतारां अत्रैवर्णिकानां विषये प्रवणनिषेधपरत्वेन, तद्बलेन अस्य न सर्वाधिकारत्व हानि:।। अनुगृहीतं च आचार्यै: श्रीमतिसारे।–

“अप्पडिये (அப்படியே) -तस्मात् सप्रणवं शूद्रोमन्नामानि न कीर्तयेत्” என்று*** महाभारतत्तिलुं, (மஹாபாரதத்திலும்)

“अष्टाक्षरजप: स्त्रीणां प्रकृत्यैवविधियते”

“ न स्वर: प्रणवोऽङ्गानि नाप्यन्यविद्ययस्तथा”।

“स्त्रीणांच शूद्रजातीनां मन्त्रमात्रोक्तिरिष्यते।”।

என்று *** नारदीयादिहळिलुम् ; (நாரதீயதிகளிலும்)

“नमो नारायणेत्युक्त्वा श्वपाक: पुनरागमत्” என்று श्रीवराहपुराणत्तिलुम् ; (ஶ்ரீவராஹபுராணத்திலும் 135-53)

“वायिनाल् नमोनारायणावेन् रु मत्तहत्तडक्कैहळैक्कूप्पि” (வாயினால் நமோ நாராயணாவென்று மத்தகத்திடைக்கைகளைக் கூப்ப; பெரியாழ்வார் திருமொழி 4-5-2) என்றும்,

“नामं शोल्लिल् नमोनारायणमे” (நாமம் சொல்லில் நமோ நாராயணமே என்றும் பெரிய திருமொழி 6-10-1) शोल्लुहिरपडिये சொல்லுகிறபடியே ;

तिरुमन्त्रमान एट्टुक्कण्णान करुम्बिले वेर्पट्रुम् तलैयडैयुं कछिन्दाळ् नडुउळ्ळ अंशं सर्वोपजीव्यं आहिराप्पोले, प्रतिपत्तिनिष्टर् एल्लारुक्कु्म् सर्वकालत्तिलुम् भगवदनुभवस्मरणत्तुककु (र्तिक्कु) विरोधं इल्लै” इति (திருமந்த்ரமான எட்டுக்கண்ணான கரும்பிலே வேர்பற்றும்  தலையாடையும் கழிந்தால் நடுவுள்ள அம்ஶம் ஸர்வோபஜீவ்யம் ஆகிறாப்போலே, ப்ரபத்திநிஷ்டர்  எல்லார்க்கும் ஸர்வ காலத்திலும் பகவதநுபவஸ்மரணத்துக்கும் விரோதம் இல்லை-ஶ்ரீமத் ரஹஸ்யத்ரய ஸாரம்) ।। अत्र –

“न चास्योपदिशेद्धर्मं” इतिवत् उपदेशादिशब्दं विना, स्मरणं कीर्तनं विष्णो:” इत्यादि प्रसिद्ध-नामसंकीर्तनानुस्मरणादि शब्दस्यैव सत्त्वात्, उक्तवचनं जपादिकर्माङ्ग प्रणवनिषेद्यपरं एव इति विज्ञायते।

उक्तंच सारप्रकाशिकायां “आचार्यनियमङ्गळ् शोल्लुम्” इति।। शेषसंहितायाम्-”ब्राह्मे मुहूर्ते चोत्थाय” इत्यारभ्य “मूलमनत्रं सदा जपेत्” इत्यादि “द्विजाति भागवतस्य आचारविशेषज्ञापकं शास्त्रम्” इत्यन्नेन द्विजातीनां नित्यानुष्ठान प्रकारं उक्त्वा;

“स्त्री शूद्राणां विधिं वक्ष्ये सम्यक् प्रणववर्जितम्” “ब्राह्मे मुहूर्ते” इत्यारभ्य।वाच्छेद्वाऽथ नदीं “तथा” इत्युक्त्वा,

ब्राह्मणस्य विधानेन भक्तानां हि विधिर्भवेत्।

प्रणवं वर्जयेत् सम्यक् विधि: स्यात् सर्वकर्मसु।।

तद्ब्राह्मण विधानेनं कृत्वा शौचादिकं तत:।

केशवायेति मनत्राद्यै: जलंपीत्वा त्रयस्त्रय:।।

इत्यारभ्य;

मूलमन्त्रेण विरजां स्मृत्वा स्नानंविधीयते।

एवं नियमयुक्तानां स्त्रीशुद्राणां तथैवच।

तेभ्यो मुक्तिं प्रदास्यामि किंपुनर्योगसम्पद:।।

एकमेव विधिस्तेषां मुक्तिरन्यत्र नान्यथा।

भगवद्भक्तियुक्तानां स्त्रीशुद्राणां चतर्मुख!।।

इत्यादि भागवतशुद्रादीनां आचारविशेषज्ञपकं शास्त्रं इत्यर्थ:” इति

अत्र विधि:स्यात् सर्वकर्मसु “इत्यत्र कर्मशब्द:

“सन्ध्याहीनोऽशुचिर्नित्यं अनर्ह: सर्वकर्मसु”

इत्यत्रेव अदृष्टद्वारा फलसाधनत्वेन अभिमत कर्मविशेषपर: न तु स्वरूपज्ञानार्थं आवश्यक सप्रणवाष्टाक्षर स्वीकारपर: इति पूर्वोत्तर प्रकरण पर्यालोचनया ज्ञायते।।

न च “भगवता पराङ्कुशेन स्वशिष्येभ्य: श्रीमन्नाृमुनि प्रभृतिभ्य: स्ववर्णानुगुणमेव मूलमन्त्रोपदेश: कृत:। नाथमुनिप्रभृतिभिस्तु अध्ययनक्रमप्राप्तप्रणवेन साकं स्वशिष्येभ्य: मूलमंत्रादिकं उपदिष्टम् इति न कोऽपिविरोध:” इतिवाच्यम्;

“अनाचार्योपदिष्टा सा”

“पत्रेक्षितो वा व्यर्थ:स्यात्” इत्यादि क्रमेण–

प्रकृताचार्य परम्पराघटकाचार्योपदेशं विनैव, केवलस्वकपोलकल्पनया वैदिकाष्टाक्षरोपदेशस्य शिष्योज्जीवनहेतुत्वाभावेन, अनर्थपर्यवसायित्वापातात् ।

न च “मुक्तदशायामेव भगवता पराङ्कुशेन नाथमुनिं प्रति आचार्यक-करणात्, तदानीं सप्रणवाष्टाक्षरोपदेशे तु न किञ्चित् बाधकम्” इतिवाच्यम् । तथा सति विभवदशानुगुणतया भगवदुपदिष्ट तान्त्रिकमनत्र परित्यागेन स्वेच्छयैव मुक्तिदशानुगुण वैदिकमनत्रोपदेशाङ्गीकारे; सर्वेश्वरस्य आचार्यपरम्परानुस्यूत घटकत्वाभावेन “आभगवत: प्रथितां” इत्याचार्यसूक्तिविशेषस्य दुर्वारत्वात्।।

न च “पराङ्कुशादीनां रामकृष्णाद्यवतारवत् भगवदवतारत्वाङ्गीकारात्, शास्त्रवश्याज्ञचेतन साम्येन वैदिकमन्त्र विरोधोद: भावनं आवश्यकमेव” इति वाच्यम्;

तेषां भगवदवतारत्वेऽपि–

“यद्यदाचरतिश्रेष्ठ:’

‘लोकसङ्ग्रहमेवापि संपश्यम् कर्तुमर्हसि”

“कुर्याद् विद्वान् तथाऽसक्त: चिकीर्षुर्लोकसंग्हम्”

इत्यादि प्रमाणानुसारेण, स्ववर्णाश्रमविपरीताचारस्य भगवदन्यन्तानभिमतया, तेषां सप्रणवोपदेस्य असंभावितत्वात्।।

अत एव पूर्वसूरिभि: सर्वाधिकारप्रबन्धे प्रणवोच्छारणं न कृतम्।।

यदि च उक्तानुपपत्तिपरिहाराय “सर्वेषां तांत्रिकं तु वा” इत्यादि प्रमाणबलात् मूलाग्र प्रदेशरहितेक्षुकाण्डदृष्टान्त स्वारस्यानुरोधाञ्च ता**काष्टाक्षर एव श्रीपराङ्कुशादिगुरुपरम्परया उपदिष्ट इति अङ्गीक्रियते; तर्हि सर्वाधिकारतया भवदभ्युपगते श्रीमद्रहस्यत्रय सारादिग्रन्थे सप्रणवाष्टक्षरस्य अप्रसक्तत्वात्, तद्व्याख्यानं असङ्गतं स्यात्।।

किञ्च “न स्वर:” इति निषेधबलात् “इदु प्रणवचतुर्थिहळ्  ओछिन्दपादु सर्वाधिकारमाम्” (இது ப்ரண்வ சதுர்த்திகள் ஒழிந்தபோது ஸர்வாதிகரமாம்)  इत्याचार्य सूक्ति**ला**, प्रणवचतुर्थीपरित्यागे चतुर्थीविभक्तिव्याख्यानं असङ्गतं स्यात्।।

“तत्रोत्तरायणस्यादि: बिन्दुमान्विष्णुरन्तत:।

बीजमष्टाक्षरस्य स्यात् तेनाष्टाक्षरता भवेत्।।”

इत्यादिप्रमाणेन प्रणवस्थाने अम् इति बीजस्यसंयोजनेन अष्टाक्षरत्व सम्पादने, बीजस्याप्यङ्गनया “अङ्गानि न” इति न स्यापि निषेधावश्यकत्वेन “वृद्धिमिच्छन्तो मूलहानि:” इतिन्यायापत्ति:।

इष्टत्वे व “इपपडि प्रणवं ओधिय अष्टक्षरमानपोदु प्रणवत्तिन् अर्थमेललां प्रणवप्रतिच्छब्दकमान शास्त्रं वहुत्त (विधित्त) अक्षरत्तिले, प्रथमाक्षरं सर्व संगताहकमान कणक्किले शुरुङ्ग अनुसन्धेयम्” (இப்படி ப்ரணவம் ஓதிய அஷ்டாக்ஷரமானபோது ப்ரணவத்தின் அர்த்தமெல்லாம் ப்ரணவ ப்ரதிசந்தகமான ஶாஸ்த்ரம் வகுத்த (விதித்த) அக்ஷரத்திலே ப்ரதமாக்ஷரம் ஸர்வஸங்கதஹாகமான கணக்கிலே சுருங்க அநுஸந்தேயம்)  इति बीजस्य अवश्यतानुसन्धेयता प्रतिपादकाचार्यसूक्ति विरोध:।

वचनबलात् तदङ्गीकारे;

“प्रणवाद्यं नमोमध्यं नारायणपदान्तिमम्।

मन्त्रमष्टाक्षरं विद्यात् सर्वसिद्धिकरं नृणाम्।।”

“श्रद्धैव कारणं पुंसां अष्टाक्षरपरिग्रहे।”

इत्यादि वचनबलसिद्धं वैदिकाष्टाक्षरस्य सर्वाधिकारत्वं न अपन्होतुं शक्यम्।।

तस्मात् “न स्वर:” इत्यादिनिषेधस्य नामसंकीर्तन जपानुष्ठानादिविषयत्वेन स्त्रीशुद्रादिविषये प्रयुक्तेन अन्यथासिद्धत्वात्, न तद्बलेन अस्यवैदिकमन्त्रस्य प्रणवनिषेध: सिद्द्यति।।

किञ्च “स्त्रीशुद्रौनाधीयाताम्” इति सामान्यनिषेधस्यसत्त्वात् “न स्वर:” इत्यादिनिषेधस्य किं प्रयोजनम्?

“सामान्य निषेधस्य विशेषपर्यवसार्थम्” इतिचेत्; शेषाभ्यनुज्ञानापत्ति:।।

यदिच “स्त्रीशुद्रौनाधीयाताम्” इति निषेध: वेदसामान्य निषेधपर: “न स्वर:” इत्यादि निषेधस्तु “ओम् इत्यंगीकारे ब्रह्मणि च” इत्याद्युक्त स्वतंत्र प्रणवनिषेधपर:।” इत्यंगीक्रियते; तदा “ओम् नमो नारायणाय” इति मन्त्रस्यापि वेदत्वाविशेषात् सामान्यनिषेधबलादेव सप्रणवाष्टक्षरनिषेधस्यापि वक्तव्यत्वेन “न स्वर:” इत्यादि वचनबलात् तन्निषेधोक्ति” अनुपपन्नैव स्यात्।।

सामान्यनिषेधबलादेव (स प्रणवाष्टाक्षरनिषेधस्यापि) स्वरविशिष्टविजातीय वर्णानुपूर्वीरूप वेद सामान्यस्यापिनिषिद्धेत्वेन पनरपि “न स्वर:” इत्यादिनिषेधस्य वैय्यर्थ्यापाताच्च।

अतश्च “न स्वर: प्रणव:” इतिनिषेधबलात् वेदमनत्रधटक प्रणव मात्रनिषेधो वा अंगीक्रियते; तद्व्यतिरिक्त मनत्रस्यापि निषेधो वा; इति **चनीयम्।।

न प्रथम: उक्तदोषानिस्तरात्।

न द्वितीय: मन्त्रशेषस्य द्वयस्य च अनाधिकारप्रसंगाात्।

इष्टापत्तौ सर्वाधिकारप्रबन्धे मन्त्रशेष द्वयमंन्त्रव्याख्यावानुपपत्ते:

अपरंच

“एकाक्षरां द्विपदां षट्पदांञ्च। वाचदेवा उपजीवन्तिविश्वे। “वाचं देवा उपजीवन्तिविश्वे।वाचं गन्धर्वा: पशवोमनुष्या:” इतिप्रणव मन्त्रशेष द्वयपरत्वेन अस्या: श्रुते: सारप्रकाशिका- रहस्यत्रयमीमांसाद्युदाहृतत्वेन, अनया श्रुत्या सप्रणवाष्टाक्षरादे: पशु सदृश मनुष्याधिकारताया:  कण्ठत: प्रतिपादनेन, “न स्वर:” इत्यादि निषेधस्य विरोधाधिकरणन्यायेन हेयत्वाञ्च।।

अतश्च “न स्वर:” इत्यादिवचनेन स्त्रीणां सूद्राणामेव वा प्रणवनोषेध: अंगीक्रियते? उततद् भिन्नजातीयानामपि? इति।

आद्ये शूद्रव्यतिरिक्तानां प्रणवाभ्यनुज्ञानापत्ते:।।

अन्त्ये-मनुष्यापेक्षया अत्यन्तापकृष्टभूत घण्टाकर्णपिशाचादौ प्रणवानुसन्धानदर्शनात्।उक्तं च पञ्चमोवेदश्रुते महाभारते:– (हरिवंशपुराणे भविष्यपर्वे अशीतितमोध्याय:)

“इति ब्रुवन् धोरतमो जात्या हीनोऽन्यचिन्तक:।

पिशाचो भगवद्भक्त: समाधिं समपद्यत।।”

इत्यारभ्य;

“नासिकाग्रं समालोक्य पठन्ब्रह्म सनातनम्।

निर्वा (वा) तस्थो यथा दीप: प्रोच्चरन् प्रणवं सदा।।(हरिवंशम् 631,632,633)

प्रणवं वाचकं मत्वा वाच्यं ब्रह्मेतिनिश्चित:।।” इत्यन्नेव;।।

अत्रच अत्यन्तापकृष्ट जात्याश्रयस्य घण्टाकर्णपिशाचस्य सप्रणवयोगाभ्यास: प्रतिपाद्यते इति, उक्तवचनविरोद्येन “न स्वर:” इत्यादि वचन जातं (अष्टाक्षरविषये) जपादिपरमेव इत्यङ्गीकार्यम्।।

इदं च परविशेषत्वधीमात्रं अधिकार (रि) विशेषणम्। “निश्चिते परशेषत्वे; शेषं सम्पूर्यते” इत्यादि प्रकारेण आत्मसमर्पणोपायाधिकारि विशेक्षणीभूत अनन्याहिशेषत्वज्ञानाद्यर्थमेव सर्वैरपि मुमुक्षुभि: मूलमन्त्रपरिग्राह्यतया, तत्रप्रणवनिषेधे; अनन्यार्हशेषत्व ज्ञानद्यर्थमेव सर्वैरपि मुमुक्षुभि: मूलमन्त्र परिग्राह्यतया तत्र प्रणव निषेधे; अनन्यार्हशेषत्वज्ञानमेव न सिद्ध्येत्।।

तादृशं ज्ञानं च प्रणवघटकाक्षरत्रयेणैव सम्पादनीयं इति “अकारार्थो विष्णु:” इत्यादिश्लोके आभियुक्तै: निर्णीतम्।।

किञ्च प्रपन्नै: सर्वैरपि देहात्मभ्रमादि षड्विध भ्रमनिवृत्ते: अवश्यं सम्पादनीयतया “देहासक्तात्मबुद्धि:”।।

इत्याद्युक्त-तादृश भ्रमनिवर्तकावच्छेदकानुपूर्वीव्यव(र्व्यव)च्छित + अक्षरत्रयधारित प्रणवनिषेधे; प्रथमत: तादृशभ्रमनिवृत्तिरेव न (सम्भवति) सिद्ध्यति।।

षष्ठ्यन्त मकारादि (द्यर्थ) ज्ञानेन तादृशभ्रमनिवृत्ते: सम्पादति यत्वे; “देहासक्तात्मबुद्धिर्यदिभवति, पदंसाद्युविद्यान्मकारम्” इत्यनुक्त्वा “साद्युविद्यात् ** तृतीयम्” -प्रथमम् द्वितीयम् इत्यादिना अभिद्यानस्य वैय्यर्थ्यापत्ते:।।

तस्मात् भवदुक्तवचनानां अन्यपरत्वं अकामेनापिस्वीकार्थं इति; तद्बलात् न प्रणवनिषेध: सिद्ध्यति अन्यत्रविस्तर:।।

अथ यदुक्तम्-वैदिकाष्टाक्षरस्य सर्वाधिकारत्वं न प्रमाणसिद्धम् इति; तत् (अपेशलम्) अतिपेशलम्।तथाहि–

भगवत: सर्वेश्वरस्य “अनालोचित विशेषाशेषलोकशरण्य!” इत्यादि प्रमाण सिद्धेन (प्रसिद्धेन) सर्वशरण्यत्वेन, तद्विषयकप्रपत्तेरपि सर्वाधिकारताया:”

“मुमुक्षुर्वै शरणमहं प्रपद्ये” इति श्वेताश्वतर प्रसिद्धत्वेन तादृशप्रपत्ते:

“औमित्यामानं भुञ्जीत”

“प्रणवो धनु: शरो ह्यात्मा” (मुण्डकोपनिषद्)

औम् इत्यनेन द्वयरूपिणा

“हविर्गृहीत्वात्मरूपं वसुरण्येतिमन्त्रत:।

“जुहुयात् प्रणवेनाग्नौ अच्युताख्ये सनातने।।” (मूलमन्त्राधिकार: 286)

इत्यादि प्रमाणेषु प्रणवस्य करणमन्त्रतया प्रतिपादनात् ।। भरन्यासनिष्ठानां सर्वेषामपि प्रणवाधिकारे आवश्यके सति; तद् घटित मन्त्रोऽपि सर्वाधिकार: एव।।

न च “न्यासविद्याया: प्रणवाङ्गकत्वेऽपि, शरणागते: तन्मन्त्राङ्गकत्वे प्रमाणाभाव: इति वाच्यम्। भवत्पक्षे निक्षेपन्यास समर्पण शरणागतीनां अभेदाभ्युपगमेन तन्मात्रागत्वसिद्धे: निष्प्रत्यूहत्वात्।।

अनुगृहीतं च आचार्यै:–

“इदुवुं आरु यागविशेषमाह अन् रो! न्यासविद्यैयिल् ओदप्पडुहिरतु! आहैयाल् इदु सर्वाधिकारमाहक्कूडुमो! एन् रु सिलर् विचारिप्पर्हळ्।इदु सर्वेश्वरनै सर्वर्क्कुम शरणयण् एन् रु ओदुहिर श्वेताश्वतरश्रुतिबलम् परिहृतम्” (இதுவும் ஒரு யாகவிஶேஷமாக அன்றோ ந்யாஸ வித்தையில் ஓதப்படுகிறது. ஆகையால் இது ஸர்வாதிகாரமாகக்கூடுமோ என்று சிலர் விசாரிப்பர்கள். இது ஸர்வேஶ்வரனை ஸர்வர்க்கும் ஶரண்யன்  என்று ஓதுகிற ஶ்வேதாஶ்வதரஶ்ருதி பலத்தாலே ப்ரிஹ்ருதம்)  इति (ஸ்ரீ மத்ரஹஸ்ய த்ரயஸாரம் — -அதிகாரம் -24 -ஸாத்ய உபாய ஶோதன அதிகாரம்)

अन्यत्र च–

भक्तौ रङ्गपते! यथाखलु पशुच्छागादिवद् वेदनध्यानोपासनदर्शनादिक्यसां इच्छन्त्यभिन्नार्थताम् । व्यक्त्यैक्यात् शरणागतिप्रपदन-त्याग आत्मनिक्षेपणन्यासाद्यैक्य

तथैव तन्त्रनिपुणै: पर्यायता स्मर्थते।।इति। “सन्न्यासस्त्याग इत्युक्त: शरणागतिरित्यादि” इत्यादि।।

अत्रचन्यास शरणागत्यो: अभेद प्रतिपादनात्-

न्यासस्य यदङ्गं तदेवशरणागतेरपि अङ्गं इति अकामेनापि स्वीकरणीयं इति सप्रणवाष्टाक्षरस्य सर्वाधिकारतं निराबाधमेव।।

न च “वैदिकन्यासविद्याया: प्रणवमन्त्रकरणकत्वेऽपि; तांत्रिकन्यासस्य प्रणवप्रतिच्छन्दतया शास्त्रविहितमन्त्राङ्कत्वे, विरोधाभाव:” इति वाच्यम्।

उत्पत्तिवाक्ये प्रणवमंत्रकरणकत्वेन न्यासस्य प्रतिपादनात्, तेनैव निराकाङ्क्षतया तद्विरुद्धमन्त्रान्नरकरणकत्वस्य अङ्गीकारे व्युत्पत्ति शिष्टेत्यादिन्यायश्तस्त: वासात्।।

न च “न्यायविद्यावाक्ये ब्राह्मणो विद्वान् अभिजयति” इति न्यायस्य अधिकृताधिकारतो क्त्या, तान्त्रिक न्यास एव सर्वाधिकार: इति तस्य प्रणवप्रतिच्छेदतया उक्त मन्त्राङ्गकत्वेन (त्वे, न) वेदविरोध:” इतिवाच्यम्।

“ब्राह्मणो विद्वान् अभिजयति” इति वाक्यस्य पुरुषविद्याघटकत्वेन, पुरुषविद्यायाश्च पूर्वानुवाकोक्तन्यासविद्यानङ्गकत्व पक्षस्यापि आचार्यसम्मतत्वात्।।

अनुगृहीतंच निक्षेपरक्षायाम्–”तथाचतैत्तिरीयपुरुषविद्या सूत्रस्य शाखान्*रगत पुरुषविद्यात: भेदमात्रेतात्पर्यम्।भाष्येपि अङ्ग्रशब्दो विध्यङ्गार्थवादषरत्वेऽपि अविरुद्ध इतिभाव्यं” इति। तस्मात् न्यासशरणागत्यो: अभेदाङ्गिकारे प्रणवमंत्राङ्गकत्वमेव शरणागते: अङ्गीकरणीयम् इति तद्घटित मंत्रस्यापि सर्वाधिकारत्वं

निराबाधं सिद्ध्यति।।

यदि च वसुरण्यादि मन्त्रकन्यास: त्रैवर्णकाधिकारक: इति निक्षेपरक्षानुगृहीतरीत्या प्रणवमन्त्रकरणकन्यास: न सर्वाधिकारक: ; किन्तु।आनुकूल्य संकल्पाद्यङ्गतिशिष्ट द्वयमंत्र करणकन्यासक्तिशेष: एव सर्वाधिकारक: इति, तस्य प्रणवमंत्रकरणकत्वाभावेन न तद्बलात् प्रणवघटितमन्त्रस्य सर्वाधिकारताया: सिद्धि: इतिमन्यते–तदा द्वयस्यापि वेद मंत्रत्वा विशेषात् अत्रैवर्णीकानां तदधिकारस्यसिद्ध्या तन्मन्त्रकरणक प्रपत्तेरपि सर्वाधिकारत्वं दुर्घटमेव।।

लब्ध्वैवं मन्त्रराजानं मां गच्छेत् शरणं नर:।

अनेनैव तु मंत्रेण स्वात्मानं मयि निक्षिपेत्।।(श्रीमद्रहास्यत्रयसार: द्वयाधिकार: 28.5)

इत्यादि वचन बलेन तस्य सर्वाधिकारत्वे;

प्रणवायं नमोमध्यं नारायणपदान्तिमम् ।

मन्त्रमष्टाक्षरं विद्यात् सर्वसिद्धिकरं नृणाम्।।

इत्यादि वचनबलात् अस्यापि सर्वाधिकारत्वं सिद्ध्यतीतिपश्यतु भवान्।।

किञ्च–”ओम् इत्येकाक्षरं। नम इति द्वे अक्षरे। नारायणायेति पञ्चाक्षराणि। इत्यष्टाक्षरंछन्दसागायत्री चेति”। “ओमित्यग्रेव्याहरेत्।नम इति पश्चात् । नारायणात्युपरिष्टात्।ओमित्येकाक्षरं।नम इति द्वे अक्षरे। नारायणायेतिपंचाक्षराणि। एतद्वैनारायणस्याष्टाक्षरं पदम्।यो ह वै नारायणस्याष्टाक्षरं पदमध्येति” इत्यादिश्रुत्या प्रत्येकप्रत्येकं इति करणपूर्विकं – उक्तानुपूर्वी विशिष्टस्यैव अष्टाक्षरतवं विधाय; तस्यैव अनुसंधानक्रमकथनात्, तद्विरुद्ध प्रणवरहित -विजातीयानुपूर्वीविशिष्टस्य अष्टाक्षरस्य अष्टाक्षरत्व प्रतिपादक स्मृत्यादीनां विरोधाधिकरणन्यायेन त्याज्यत्वमेव।।

विरोधाधिकरणे हि सर्ववेष्टन-स्पर्श अष्टाचत्वारिंशद्वर्ष ब्रह्मचर्य जातपुत्रकृष्णकेशत्वाद्यो: विरुद्धयो: स्मृत्या श्रुत्याच प्रतिपादितयो: ग्रहणाग्रहण व्रीहियवादितम् विकल्पेन समाधाना संभवेन; प्रत्यक्षश्रुतिविरुद्धस्मृते: मोहमूलत्वं अननुष्ठानलक्षण अप्रामाण्यं वा समथितिम्। इति न उक्तवचनबलात् अस्य सर्वाधिकारत्व हानि:।।

न च “अपशूद्राधिकरणे स्त्रीशूद्रादीनां ब्रह्मविद्याया: निषिद्धत्वात्, अस्यापि न्यास शरणागत्यादि शब्दितस्य ब्रह्मविद्या विशेषस्य सर्वाधिकारत्व साधने; तदधिकरणविरोधोदुर्वार:” एव इति वाच्यम्।

तत्र अग्निविद्याङ्गक गुरुपायभूतोपासनात्मक ब्रह्मविद्याया एव अत्रैवर्णिकविषये निषिद्धतया, सर्वात्मसाधारण नित्यसिद्ध अनन्यार्ह शेषत्वज्ञानकार्य अनन्यशरणत्वज्ञानादि रूपस्य न्यायस्य तत्र अनिषिद्धत्वेन, विरोधाभावात्।

अत एव अग्निविद्यानङ्कक स्वयं प्रयोजन भगवन्मुखोल्लास हेतुभूत ब्रह्मविद्याविशेषस्य अधिकार: मैत्रेयीगार्गी प्रभृतीनां स्त्रीणामपि सूत्रकारादिभि: अङ्गीकृत:।।

तस्मात् प्रपन्न स्वरूप विरुद्ध स्वयत्नयाध्य प्रवृत्त्य*क विद्याविशेषस्य नियताधिकारत्वेऽपि; प्रपन्न स्वरूपानुरूप निवृत्तिसाध्य विद्या विशेषस्य सर्वाधिकारत्वं दुरपन्हवमेव।।

न च “यजेत स्वर्गकाम:” इत्यत्र स्वर्गकामपदस्य सर्वाधिकारि साधारणत्वेऽपि; कॢप्त विद्यत्रैवर्णिकपरत्वं यथा अङ्गीक्रियते; तथा “मुमुक्षुर्वै शरणमहं प्रपद्ये” इत्यत्र मुमुक्षुपदस्यापि त्रैवार्णिकपरत्वाङ्गीकारे बाधकाभावेन, वैदिकन्यास शरणागत्यादीनामेव सर्वाधिकारत्वस्य असिद्धौ, तत्करणमन्त्रस्यकथं सर्वाधिकारत्व सिद्धि:?” इति वाच्यम्।।

तत्र अदृष्टद्वारा स्वर्गसाधन ज्योतिष्टोमाद्युपायस्य सर्वाधिकारि (र) ताया: स्वत: प्रापृत्वा भावेन, तत्र स्वर्गकामपदस्य नियताधिकारिपरत्वेऽपि, अत्र शरणागते: भगवत: सर्वलोकशरण्यत्व प्रयुक्त अनन्यार्हशेषत्वज्ञानकार्य अनन्यशरणत्वरूपजीवात्मस्वरूप याथात्म्यान्तर्गततया, अदृष्टद्वारा फलसाधनत्वाभावेन, अधिकारिविशेणत्वात्, अस्या: सर्वाधिकारि(र) ताया: स्वत: प्रापृत्वेन मुमुक्षुपदसंकोचकत्वेन निामका भावात्।।

अत एव ऋग्वेदाखिलभूते जितंतामनौ द्वयव्याख्यानरूपे “त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिण:” इत्यनेन श्रुतिवाच्य धटक मुमुक्षुपदं स्वस्वरूप याथात्म्य ज्ञानवत्य** व्याख्यातम्।।

एवं च सति;

“श्रद्धैव कारणं पुंसां अष्टाक्षरपरिग्रहे” इत्यादिस्मृतिश्च *क्षतया संञ्च्छते।

अत: मुमुक्षुपदस्य त्रैवर्णिकपरत्वाभावेन अस्यमन्त्रस्य सर्वाधिकारत्वं निष्प्रत्यूहमेव।।

अत्रायं निष्कर्ष:

यत्र अभिमत फलसाधनत्वेन कश्चित् उपाय: वेदविहितोभवति; तत्र तदङ्गस्य तत्करण मन्त्रस्य च वेदोदितक्रमेणैव अङ्गीकारोन्यादय:। यत्र तु स्मृत्यादिनैव विहितोभवति; तत्र तदङ्गादीनां  वेदाविरोधेन अङ्गीकारो न्याय्य: यत्र तु  वेदविरोध्याकारेण वेदविहित एकउपाय: स्मृत्यादितिहितोभवति; तत्र विरोधाधिकरणन्यायेन स्मृत्याद्युक्त: प्रकाश: त्याज्य:।।

प्रकृते तु न्यास शरणागति शब्दितोपाय विशेषस्य साङ्*स्य तत्करणमंत्राणां तद्वर्णपदक्रमनियमस्य च वेदेनैव सुस्पष्टम् प्रतिपादनात्, तद्विरोधि अङ्गवर्णक्रमादि प्रतिपादकं स्मृतिविशेषादिकं विरोधाधिकरणत्वेन त्याज्यमेव।।

आचार्याणां स्वग्र*ये स्मार्ताष्टाक्षर क्रमादिप्रतिपादनं तु स्वस्वरूपविरुद्ध फलार्थ जपादिरूप साधनान्तरे यदि अत्रैवर्णिक

प्रपन्नानां प्रवृत्ति:; तदातेषां अनन्यार्हशेषत्वज्ञानापेक्षाभावेन, प्रणवरहिताष्टाक्षरेणैव जपादिसिद्धिर्भवतीति; एतत्वचनाये त्यवगन्तव्यम् ।। सूचितं चेदं आचार्यैरेवा-

“इवट्रिल्  तिरुमन्त्रत्तिनुडैय च्छन्दोदेवता बीजशक्ति वर्णविनियोगस्थान न्यासादिहळ् अङ्गङ्कळ् अव्वोकल्प सम्प्रदायंगळुक्कीडाह कण्डुकोळ्वदु” (இவற்றில் திருமந்த்ரத்தினுடைய ரிஷி சந்தோதேவதா பீஜஶக்தி வர்ணவிநியோகஸ்தான ந்யாஸாதிகள் அங்கங்கள் அவ்வோ கல்ப ஸம்ப்ரதாயங்களுக்கு ஈடாகக் கண்டு கொள்வது) (ஸ்ரீ மத்ரஹஸ்ய த்ரயஸாரம் — -அதிகாரம் -27 -மூலமந்த்ராதிகாரம்)इति

इत्थञ्च अङ्गानां प्रधानानुवर्तिन्यायेन (वर्तित्वन्यायेन) अङ्गिभूतस्य उपायस्य सर्वाधिकारत्वे; तदङ्ग तत्करणमंत्रादीनां अपि सर्वाधिकारत्वसिद्ध्या, स प्रणवाष्टाक्षरस्य (वैदिकस्य तांत्रिकस्य च) सर्वाधिकारत्वं सिद्ध्यति।।

एतेन कैश्चित् भन्दधीभिरुक्ताशंका प्रकारोऽपि उन्मूलिन: एव इति; न अत्र प्रतिप्रश्नं उत्तरावकाश: इति सुधिय: विदां कुर्वन्तु।।

श्रीमते रामानुजाय नम: ।

श्रियै नम:।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.