[highlight_content]

हंस-सन्देशः – द्वितीयाश्वासः

श्रीः।।

कवितार्किकसिंह-सर्वतन्त्रस्वतन्त्रश्रीमद्वेदान्तदेशिक- विरचितं

हंस-सन्देशः

।।श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।।


द्वितीयाश्वासः

2.1          लीलाखेलं ललितगमनाश्चारुनादं सशिञ्जाः

भल्लाक्षं त्वां स्मरशरदृशो गौरमापाण्डुराङ्ग्यः ।

मुग्धालापं मधुरवचसो मानसार्हं मनोज्ञाः

यत्रानीतास्सुर युवतयो रञ्जयेयुस्समक्षम् ॥ 2.1 ॥

2.2          उग्रैश्शापैरुपहतिभिया रक्षसा दूर मुक्ताः

दग्धुं योग्या हुतवहमपि त्वत्प्रियावर्णशुद्धाः ।

उत्पश्यन्तो जनकतनयातेजसैव स्वरक्षां

रोधं यस्यामनुविदधते लोकपालावरोधाः ॥ 2.2 ॥

2.3          अध्यासीना बहुमणिमयं तुङ्गशृङ्गं त्रिकूटं

दिक्पालेषु प्रथितयशसा रक्षसा रक्ष्यमाणा ।

अग्रे मेरोरमरनगरीं या परिष्कारभूम्ना

त्वाहूयेव ध्वजपटमयानग्रहस्तान् धुनोति ॥ 2.3 ॥

2.4          काले यस्यां व्यपगतघने त्वद्विहारोचितेऽस्मिन्

चन्द्रालोकैर्विलुलितधियां शर्वरीगर्वहासैः

स्वर्गस्त्रीणां विरहजनितं बाष्पमुद्वेलयन्त्यः

निष्यन्दन्ते सलिलकणीकाश्चन्द्रकान्त स्थलिनाम् ॥ 2.4 ॥

2.5          भासा तादृक्परिणतिजुषा मैथिलीशोकवह्नेः

भस्मीभूतां पवनतनयस्नेहिना पावकेन ।

अन्तस्त्रासादवहितधियस्संविधास्यन्त्यवश्यं

प्रत्यादिष्टप्रथमरचनं विश्वकर्मादयस्ताम् ॥ 2.5 ॥

2.6          मध्ये तस्या निशिचरपतेस्सद्म रुद्धान्तरिक्षं

युग्मं नेयैर्दिवि सुमनसां सेव्यमानं विमानैः ।

कारागारं विबुधसुदृशां वीक्षमाणो विचित्रं

शोकप्रीतिव्यतिकरवतीं वक्ष्यसे चित्तवृत्तिम् ॥ 2.6 ॥

2.7          ईषत्कोपाच्चकित पवनामिन्दुसन्दिग्धसूर्यां

नित्योदारामृतुभिरखिलैर्निष्कुटे वृक्षवाट् ईम् ।

सीताशोकज्वलनसहजैस्तत्र दीप्तामशोकैः

आपद्येथाः प्रथमलुलितामाञ्जनेय प्रचारैः ॥ 2.7 ॥

2.8          तस्यामन्यैर्वियति विहगैस्सार्धमानन्दनिघ्नैः

स्थानेस्थाने निहितनयनो वर्तयन्मण्डलानि ।

द्रक्ष्यस्येकां जनकदुहितुस्सौम्यदुर्जातबन्धुं

न्यस्ताकल्पां क्वचन विटपे शिं शुपां सान्द्रशाखाम् ॥ 2.8 ॥

2.9          मूले तस्याः किमपि सवनक्षेत्रसं स्कारजातं

यत्र क्वापि स्थितमपि सखे त्रासहीनं महिम्ना ।

काले तस्मिन्कथमपि मया वीर्यशुल्केन लब्धं

दृश्यं तत्ते दिनकरकुलद्योतकं दिव्यरत्नम् ॥ 2.9 ॥

2.10        सा मे दृष्टिश्शफरनयना सन्नतभ्रूस्सुकेशी

तन्वी तुङ्गस्तनभरनता तप्तजाम्बुनदाभा ।

बाला युष्मत्प्रतिमगमना वेदिमध्या वराङ्गी

शृङ्गाराख्यं निधिमधिगता श्रेयसी देवतेव ॥ 2.10 ॥

2.11        सा ते यावन्नयनपदवीं याति मोहालसा वा

सन्देशं वा मदुपगतये श्रावयन्ती शकुन्तान् ।

अत्यासन्नप्रियवचनतां सूचयद्भिर्निमित्तैः

एतामश्रुस्थगितनयनं वीक्षमाणा दिशं वा ॥ 2.11 ॥

2.12        आकल्पान्वा सविधनिहितानालपन्ती विमोहात्

अङ्गस्पर्शो रघुकुलपतेः स्मर्यते वा न वेति ।

ध्यायन्ती वा चिरविरहितानेकशय्याविहारान्

तस्या नूनं नियतिजनिता तादृशी कालयात्रा ॥ 2.12 ॥

2.13        शुद्धामिन्दोश्श्वपचभवने कौमुदीं विष्फुरन्तीं

आनीतां वा विषतरुवने पारिजातस्य शाखाम् ।

सूक्तिं रम्यां खलपरिसरे सत्कवेः कीर्त्यमानां

मन्ये दीनां निशिचरगृहे मैथिलस्यात्मजाताम् ॥ 2.13 ॥

2.14        वर्षाकीर्णामिव कमलिनीं व्याहतार्थामिवोक्तिं

पङ्काश्लिष्टामिव बिसलतां पत्यपेतामिवेभीम् ।

मेघच्छन्नामिव शशिकलां विघ्नरुद्धामिवाशां

व्याघ्रोपेतामिव मृगवधूं भूतले ज्यामिवास्ताम् ॥ 2.14 ॥

2.15        स्मृत्वा पूर्वं स्मरशरभये मत्परिष्वङ्गरक्षां

आश्लिष्यन्तीमलसवलितैरङ्गकैर्मातरं स्वाम् ।

आकल्पेऽपि श्रममधिगतैरङ्गरागेऽपि खिन्नै

अक्षाम्यद्भिः स्मृतिमपि मुहुस्सौकुमार्यातिरेकात् ॥ 2.15 ॥

2.16        भूयोभूयः करसरसिजे न्यस्य रोमाञ्चिताङ्गीं

मौळौ चूडामणिविरहिते निर्विशन्तीं निधाय ।

अन्तस्तापादधिगतरुजोरादारादर्पयन्तीं

पर्यायेण स्तनकलशयोरङ्गुळियं मदीयम् ॥ 2.16 ॥

2.17        अम्बातुल्या सुचरितफलं दिव्यमालेपनं प्राक्

अङ्गेष्वस्याः स्थिरमनुगुणं यद्वितेनेऽनसूया ।

धाराकारैः स्तनकलशयोरापतद्भिस्समन्तात्

सन्तापोष्णैस्तदपि बहुळैरश्रुभिः क्षाळयन्तीम् ॥ 2.17 ॥

2.18        अग्राह्यवत्वाद्विषमयमितं केशहस्तं मया प्राक्

आबिभ्राणां तनुपरिमळश्रद्धयेवावकीर्णम् ।

अर्चा हेतोर्भुवि रतिपतेरप्सरोभिर्विमुक्तां

अन्वग्यातामिव सुरतरोर्मञ्जरीं चञ्चरीकैः ॥ 2.18 ॥

2.19        आनीतं यत्त्वरितमचलादुत्तरियं प्लवङ्गैः

अस्याकारैस्सदृशमभितस्त्वत्प्रियारूपचिह्नम् ।

बालादित्यद्युतिसहचरं चारु वासो वसानां

सन्ध्यारागव्यतिकरवतीं चन्द्रलेखामिवान्याम् ॥ 2.19 ॥

2.20        वक्तुं मार्गं किल वुसुमतीं जग्मुषस्तत्पदाब्जात्

मञ्जीरस्य त्वदुपमरुतेर्दक्षिणस्यास्य तुल्यम् ।

अङ्कारूढे चरणकमले मत्करेणोपधेयं

वामं शाखाशिखरनिहितं वीक्ष्य गाढं विषण्णाम् ॥ 2.20 ॥

2.21        अङ्गैर्म्लायत्किसलयसमैरुज्झिताकल्पपुष्पैः

गाढाश्लिष्टां वपुषि विमले बिम्बिताभिर्लताभिः ।

सन्तापोष्णश्वसनपरुषछायया किञ्च दूनां

बन्दीभूतां निशिचरगृहे नन्दनस्येव लक्ष्मीम् ॥ 2.21 ॥

2.22        चेतोवृत्तिं शमयति बहिस्सार्वभौमे निरोधे

मय्येकस्मिन्प्रणिहितधियं मान्मथेनागमेन ।

अभ्यस्यन्तीमनितरजुषो भावनायाः प्रकर्षात्

स्वान्तेनान्तर्विलयमृदुना निर्विकल्पं समाधिम् ॥ 2.22 ॥

2.23        शून्या दृष्टिश्श्वसितमधिकं मीलितं वक्त्रपद्मं

धाराकारं नयनसलिलं सानुबन्धो विलापः ।

इत्थं दैन्यं किमपि विधिना दुर्निवारेण नीता

सा मे सक्ता तनुतरतनुस्तप्यते नूनमन्तः ॥ 2.23 ॥

2.24        दृष्ट्वा तस्यास्त्वमपि करुणां तादृशीं तामवस्थां

शक्ष्यस्यन्तस्स्वयमुपनतं शोकवेगं न सोढुम् ।

क्रव्यादानां दशवदनवत् क्वापि जातवजाताः

नालम्बन्ते कथमिव दयां निर्मलत्वोपपन्नाः ॥ 2.24 ॥

2.25        नेदीयस्यामधिगतरसो दीर्घिकायां निकामं

संवेशेन श्रममपनयन् शर्वरीं यापयेथाः ।

इत्थं निद्रासमयमुचितं वीक्ष्य नक्तञ्चरीणां

प्रत्यूषे त्वं प्रणयमधुरां श्रावयिष्यन्

मदुक्तिम् ॥ 2.25 ॥

2.26        शीतैरध्वश्रमविनयनैस्सेवितो गन्धवाहैः

सुप्तस्स्वैरं पुळिनशयने स्वन्तरे चन्द्रपादैः ।

क्रीडागीतैः कमलमुकुळे लीयतां षट्पदानां

कार्याकाङ्क्षी कलयतु भवान् राजहंस प्रबोधम् ॥ 2.26 ॥

2.27        तामारूढश्चलकिसलयां शिंशुपां स्वैकलक्ष्यः

मन्दीकुर्वन्मनसिजधनुर्घोषतीव्रं निनादम् ।

मोहादीषन्मुषितमनसं बोधय प्रेयसीं मे

रम्यामादौ रघुजनकयोर्वर्णयन् वंशकीर्तिम् ॥ 2.27 ॥

2.28        पत्युर्देवि प्रणयसचिवं विद्धि दीर्घायुषो मां

जीवातुं ते दधतमनघं तस्य सन्देशमन्तः ।

शूराणां यश्शरदुपगमे वीरपत्नीवराणां

संमानार्हं समयमुचितं सूचयेत्कूजितैस्स्वैः ॥ 2.28 ॥

2.29        मत्प्रस्तावप्रवणमथ सा मैथिली मानयेत्त्वां

म्लानं शोकाद्वदनकमलं किञ्चिदुन्नम्य भीरुः ।

अन्तस्तोषादमृतलहरीलब्धसब्रह्मचर्यैः

अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ॥ 2.29 ॥

2.30        पश्यन्ती सा रघुपतिवधूस्त्वामशेषावदातं

प्रत्याश्वासादधिगतरुचिः प्राक्तनीवेन्दुलेखा ।

मत्सन्देशे तदनु सुमुखी सावधाना भवित्री

किं न स्त्रीणां जनयति मुदं कान्तवार्ताऽऽगमोपि ॥ 2.30 ॥

2.31        पश्चादेवं कथय भवतीभागधेयेन जीवन्

कल्याणीं त्वां कुशलमनघः कोसलेन्द्रोऽनुयुङ्क्ते ।

येषु श्रेयो भवति नियतं तानि सर्वाणि सन्तः

लक्ष्म्या देव्यास्तव च भुवने लक्षणान्यामनन्ति ॥ 2.31 ॥

2.32        यस्या यस्मिन् व्यवधिरभवद्भूषणालेपनादिः

नीतामेनां नियतिविभवादन्तरीपं दवीयः ।

प्रत्यासीदन्निव नयनयोर्वर्त्मनि स्थापयित्वा

स त्वामेवं वदति कुशली देवि सख्या मुखेन ॥ 2.32 ॥

2.33        वेलातीतप्रणयविवशं भावमासेदुषोर्नौ

भोगारम्भे क्षणमिव गता पूर्वमालिङ्गनाद्यैः ।

सम्प्रत्येषा सुतनु शतशः कल्पना सङ्गमैस्ते

चिन्तादीर्घैरपि शकलिता शर्वरी नापयाति ॥ 2.33 ॥

2.34        उद्दामैस्ते कुचकलशयोरूष्मभिर्निर्जितेन

छिद्रं लब्ध्वा विरहसमये तत्क्षणादुन्नतेन ।

कुन्दामोदैस्सुरभितदिशा गन्धवाहेन दैन्यं

सम्प्राप्तोऽहं सह सरसिजैस्त्वन्मुखाम्भोजमित्रैः ॥ 2.34 ॥

2.35        माध्वीदिग्धैर्विरहिवनितास्वाद लुब्धैरमोघैः

आवृण्वन्तं कुसुमधनुषश्चित्रपुङ्खैर्दिगन्तान् ।

सीतापार्श्वे न भवतु भवानित्यवोचद्वसन्तं

रामस्त्रासादनमितधनुर्मौळिना सन्नतेन ॥ 2.35 ॥

2.36        पार्श्वे लोलैः परभृतकुलैर्मुक्तकोलाहलानां

मल्लीरेणुस्थगितवपुषां मन्दरं निर्गतानाम् ।

भीतेनाहं भ्रमरपटली शृङ्खलासङ्कुलानां

मार्गे तिष्ठन्मलयमरुतां वारितो लक्ष्मणेन ॥ 2.36 ॥

2.37        मन्दो वक्ष्ये किमिव जनकं किं नु योगीश्वरो मां

इत्येवं मे सुतनु मनस वर्तयन्ति स्म खेदम् ।

रक्ताशोके ज्वलति सविधे लाजवर्षाभिरामैः

पुष्पौघैस्त्वत्परिणयदशां व्यञ्जयन्तः करञ्जाः ॥ 2.37 ॥

2.38        चेतो नैव त्यजति चपलाहेमकोणाभिघातात्

धीरोदात्तस्तनितजलदात्ताण्डवारम्भमिच्छन् ।

वातोन्मुक्तैः कुटजकुसुमैर्वासिते शैलशृङ्गे

रक्षः पीडारहितदयिताश्लेषधन्यो मयूरः ॥ 2.38 ॥

2.39        शैलव्यक्तप्रतिविलपितां सान्द्रतापानुविद्धां

तन्वानानां नयनसलिलैर्मातरं ते सबाष्पाम् ।

पश्यन्तीनां प्रबलमदनोन्मादपर्याकुलं मां

प्रायो जातं किमपि रुदितं व्योम्नि कादम्बिनीनाम् ॥ 2.39 ॥

2.40        देहस्पर्शं मलयपवने दृष्टिसं भेदमिन्दौ

धामैकत्वं जगति भुवि चाभिन्नपर्यङ्कयोगम् ।

ताराचित्रे वियति विततिं श्रीवितानस्य पश्यन्

दूरीभूतां सुतनु विधिना त्वामहं निर्विशामि ॥ 2.40 ॥

2.41        प्राप्तैस्सख्यं तव नयनयोः पद्मकोशैः प्रबुद्धैः

सन्नाहं नस्समयनियतं साधु सन्धुक्षयन्ती ।

सेनायोग्यां सरणिमधुना दर्शयन्ती शुभाशा

सीते नूनं त्वरयति शरत्त्वत्समीपं निनीषुः ॥ 2.41 ॥

2.42        तातादेशात्सपदि भरते न्यस्तराज्याभिषेकं

या मामेका वनमनुगता राजधानीं विहाय ।

तामेव त्वामुचितशयनां बाहुमध्ये मदीये

दूरे कर्तुर्गुणवति मुहुर्दूयते जीवितं मे ॥ 2.42 ॥

2.43        सेतुं बध्वा विपुलमचलैस्सायकैर्वा पयोधौ

कृत्वा लङ्कां स्रजमिव करे खेलतां वानराणाम् ।

अल्पीयोभिस्सुमुखि दिवसैर्योधयन् यातुधानान्

कर्णे शीधुं तव रचयिता लक्ष्मणश्चापघोषैः ॥ 2.43 ॥

2.44        रक्षोमौळिस्तबकलवनाद्वैरबन्धे विमुक्ते

गत्वा चोर्वीं गगनपदवीस्वैरिणा पुष्पकेण ।

सिद्धारम्भौ सपदि भवतामाधिराज्याभिषेकात्

संप्राप्स्यावश्चिरविरहतस्सञ्चितान्देवि भोगान् ॥ 2.44 ॥

2.45        चित्ते कुर्यात्तदपि भवति यज्जनस्थानयुद्धात्

संप्राप्तं मां दशमुखसमान् पारयित्वा खरादीन् ।

शस्त्राघातं स्तनकलशयोरूष्मणा रोपयद्भिः

गाढाश्लेषैरपिहितवती गद्गदा हर्षबाष्पैः ॥ 2.45 ॥

2.46        शच्याः क्लेशं क्वचन समये तादृशं चिन्तयित्वा

स्मृत्वा देवीमचलतनयां विप्रयुक्तां शिवेन ।

रक्षात्मानं कथमपि शुभे जीवितालम्बनं मे

पत्युश्चन्दाद्व्यसनमपि हि श्लाघनीयं वधूनाम् ॥ 2.46 ॥

2.47        अप्येतत्ते मनसि निहितं साह्यमव्याजबन्धो

प्रत्याख्यातुं प्रभवति न खल्वानृशंस्यं त्वदीयम् ।

प्रागप्येवं परिणतगुणां नैषधे वीक्ष्य वार्तां

आर्तत्राणं व्रतमिति विदुर्हंस शुद्धात्मनां वः ॥ 2.47 ॥

2.48        इत्थं हृद्यैर्जनकतनयां जीवयित्वा वचोभिः

सख्यं पुष्यन्दिनकरकुले दीप्यमानैर्नरेन्द्रैः ।

स्वैरं लोकान् विचरनिखिलान् सौम्य लक्ष्यमेव विष्णुः

सर्वाकारैस्त्वदनुगुणया सेवितो राजहंस्या ॥ 2.48 ॥

2.49        सन्दिश्यैवं सह कपिकुलैस्सेतुना लङ्घिताब्धिः

पङ्क्तिग्रीवे युधि विनिहते प्राप्य सीतां प्रतीतः ।

राज्यं भूयस्स्वयमनुभवन् रक्षितं पादुकाभ्यां

रामश्श्रीमानतनुत निजां राजधानीं सनाथाम् ॥ 2.49 ॥

2.50        विद्याशिल्पप्रगुणमतिना वेङ्कटेशेन कॢप्तं

चिन्ताशाणोल्लिखितमसकृच्छ्रेयसां प्राप्तिहेतुम् ।

सीताहंसव्यतिकरसखं राम सन्देशरत्नं

पश्यन्त्वन्तश्श्रवणमनघं चक्षुरुज्जीव्य सन्तः ॥ 2.50 ॥

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु हंससन्देशे द्वितीयाश्वासः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.