[highlight_content]

हंस-सन्देशः – प्रथमाश्वासः

श्रीः।।

कवितार्किकसिंह-सर्वतन्त्रस्वतन्त्रश्रीमद्वेदान्तदेशिक- विरचितं

हंस-सन्देशः

।।श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।।

प्रथमाश्वासः

1.1          वंशे जातस्सवितुरनघे मानयन्मानुषत्वं

देवश्श्रीमान् जनक तनयान्वेषणे जागरूकः ।

प्रत्यायाते पवनतनये निश्चितार्थस्स कामी

कल्पाकारां कथमपि निशामाविभातं विषेहे ॥ 1.1 ॥

1.2          काल्ये सेनां कपिकुलपतेस्तूर्णमुद्योजयिष्यन्

दूरीभावाज्जनकदुहितुर्दूयमानान्तरात्मा ।

क्रीडाखेलं कमलसरसि क्वापि कालोपयातं

राकाचन्द्रद्युतिसहचरं राजहंसं ददर्श ॥ 1.2 ॥

1.3          तस्मिन्सीतागतिमनुगते तद्दुकूलाङ्कमूर्तौ

तन्मञ्जीरप्रतिमनिनदे न्यस्तनिस्पन्ददृष्टिः ।

वीरश्चेतोविलयमगमत्तन्मयात्मा मुहूर्तं

शङ्के तीव्रं भवति समये शासनं मीनकेतोः ॥ 1.3 ॥

1.4          लब्धाश्वासः कथमपि तदा लक्ष्मणस्याग्रजन्मा

सन्देशेन प्रणयमहता मैथिलीं जीवयिष्यन् ।

चक्रे तस्मै सरसिजदळैस्सोपचारां सपर्यां

कान्ताश्लेषादधिकसुभगः कामिनां दूतलाभः ॥ 1.4 ॥

1.5          कृत्वा तस्मिन्बहुमतिमसौ भूयसीमाञ्जनेयात्

गाढोन्मादः प्रणयपदवीं प्राप वार्ताऽनभिज्ञे ।

विश्लेषेण क्षुभितमनसां मेघशैलद्रुमादौ

याञ्चादैन्यं भवति किमुत क्वापि संवेदनार्हे ॥ 1.5 ॥

1.6          वेदोदन्वद्विभजनविदो वंशजं विश्वमूर्तेः

आहुस्सिद्धाः कमलवसतेरौपवाह्यं भवन्तम् ।

लब्धं येन प्रगुणगतिना तत्प्रियायास्सकाशात्

तत्सावर्ण्यं श्रवणरसनास्वादयोग्या सुधा च ॥ 1.6 ॥

1.7          मध्ये केचिद्वयमिह सखे केवलं मानुषाणां

व्यक्तोत्कर्षो महति भुवने व्योमगानां पतिस्त्वम् ।

स्थाने दूत्यं तदपि भवतस्संश्रितत्राणहेतोः

विश्वस्रष्टा विधिरपि यतस्सारथित्वेन तस्थौ ॥ 1.7 ॥

1.8          इच्छामात्राज्जगदपरथा संविधातुं क्षमाणां

इक्ष्वाकूणां प्रकृतिमहतामीदृशीं प्रेक्ष्य वेळाम् ।

लक्ष्यालक्ष्ये जलधिपयसा लब्धसंस्थां त्रिकूटे

लङ्कां गन्तुं तवसमुचितं राक्षसीं राजधानीम् ॥ 1.8 ॥

1.9          स्थानैर्दिव्यैरुपचितगुणां चन्दनारण्यरम्यां

मुक्तासूतिं मलयमरुतां मातरं दक्षिणाशाम् ।

अस्मत्प्रीत्यै जनकतनया जीवतार्थं च गच्छन्

एकं रक्षः पदमिति सखे दोषलेशं सहेथाः ॥ 1.9 ॥

1.10        वाचालानामिव जडधियां सत्कवौ दूरयाते

कैलासाय त्वयि गतवति क्षीबतामाश्रितानाम् ।

संमोदस्ते पथि परिणमेच्चन्द्रकैरुज्झितानां

मेघापाये विपिनशिखिनां वीक्ष्य वाचं यमत्वम् ॥ 1.10 ॥

1.11        आरक्तानां नवमधुशनैरापिबन्पद्मिनीनां

कालोन्निद्रे कुवलयवने घूर्णमानस्सलीलम् ।

स्विन्नो दानैर्विपिनकरिणां सौम्य सेविष्यते त्वां

आमोदानामहमहमिकामादिशन्गन्धवाहाः ॥ 1.11 ॥

1.12        पर्याप्तं ते पवनचलितैरङ्गरागं परागैः

स्थाने कुर्युस्समसमुदयाद्बन्धवो बन्धुजीवाः ।

येनान्वेष्यस्यचलतनया पादलाक्षानुषक्तं

चूडाचन्द्रं पुरविजयिनस्स्वर्णदीफेनपूर्णम् ॥ 1.12 ॥

1.13        सूक्ष्माकारैर्दिनकरकरैः कल्पितान्तश्शलाकाः

शारोपान्ताश्शतमखधनुश्शेषचित्रां शुकेन ।

ऊढाः पश्चादुचितगतिना वायुना राजहंसः

छत्रायेरन्नभसि भवतश्शारदा वारिवाहाः ॥ 1.13 ॥

1.14        द्रक्ष्यस्येवं प्रियसख सुखं लङ्घिताध्वा सखीं ते

सीतां क्षेत्रे जनकनृपतेरुत्थितां सीरकृष्टे ।

गोपायन्ती तनुमपि निजां या कथञ्चिन्मदर्थं

भूमौ लोके वहति महतीमेकपत्नी समाख्याम् ॥ 1.14 ॥

1.15        प्रक्षीणां त्वद्विरहसमये जातहर्षामिदानीं

प्रत्यायास्यन्ननुनय शनैर्पद्मिनीं स्वादुवाचा ।

सा ते तन्त्रीस्वनसुभगया स्यादितीहाभ्यनुज्ञां

मन्ये कुर्यान्मधुकरगिरा मैथिलीसौहृदेन ॥ 1.15 ॥

1.16        सार्धं कान्तैश्शबरसुदृशामद्रिकुञ्जेषु रागात्

आसीनानां क्षणमसमये दृश्यचन्द्रोदयश्रीः ।

उड्डीयेथास्सरसिजवनाद्दक्षिणाशानुसारी

पश्यन्दूरात्प्रबलगरुतां पक्षिणां दत्तवर्त्मा ॥ 1.16 ॥

1.17        अङ्गीकुर्वन्नमृतरुचिरामुत्पतिष्णोस्सलीलं

छायामन्तस्तव मणिमयो माल्यवानेष शैलः ।

शोभां वक्ष्यत्यधिकललितां शोभमानामतीन्दोः

देवस्यादेरुपजनयतो मानसादिन्दुबिम्बम् ॥ 1.17 ॥

1.18        मार्गौ सम्यङ्मम हनुमता वर्णितौ द्वौ तयोस्ते

सह्यासन्नोऽप्यनति सुभगः पश्चिमोनित्यवर्षः ।

प्राचीने तु प्रतिजनपदं संहतावद्भुतानां

मग्ना दृष्टिः कथमपि सखे मत्कृते ते निवार्या ॥ 1.18 ॥

1.19        श्रुत्वा शब्दं श्रवणमधुरं तावकं पामरीणां

प्रत्यासन्नात्सपदि भवनात्सादरं निर्गतानाम् ।

अभ्रूभङ्गेऽप्यधिकसुभगैर्निश्चिताङ्गः कटाक्षैः

देशानेतान्वनगिरिनदी संविभक्तान् व्यतीयाः ॥ 1.19 ॥

1.20        इक्षुच्छाये किसलयमयं तल्पमातस्थुषीणां

सल्लापैस्तैर्मुदितमनसां शालिसं रक्षिकाणाम् ।

कर्णाटान्ध्रव्यतिकरवशात्कर्बुरे गीतिभेदे

मुह्यन्तीनां मदनकलुषं मौग्ध्यमास्वादयेथाः ॥ 1.20 ॥

1.21        विष्णोर्वासादवनिवहनाद्बद्धरत्नैश्शिरोभिः

शेषस्साक्षादयमिति जनैस्सम्यगुन्नीयमानः ।

आभ्रैर्युक्तोऽलघुभिरचिरान्मुक्त निर्मोक कल्पैः

अग्रेभावी तदनु नयने रञ्जयन्नञ्जनाद्रिः ॥ 1.21 ॥

1.22        तत्रारूढैर्महति मनुजैस्स्वर्गिभिश्चावतीर्णैः

सत्त्वोन्मेषाद्व्यपगतमिथस्तारतम्यादिभेदैः ।

साधारण्यात्फलपरिणतेस्सङ्घशो बद्ध्यमानं

शक्त्या कामं मधुविजयिनस्त्वं च कुर्यास्सपर्याम् ॥ 1.22 ॥

1.23        स्तोकोन्मग्नस्फुरितपुलिनां त्वन्निवासेच्छयेव

द्रक्ष्यस्यारात्कनकमुखरीं दक्षिणामञ्जनाद्रेः ।

आसन्नानां वनविटपिनां वीचीहस्तैः प्रसूना-

न्यर्चाहेतोरुपहरति या नूनमर्धेन्दु मौळेः ॥ 1.23 ॥

1.24        निर्विश्यैनां निभृतमनभिव्यक्तमञ्जुप्रणादो

मन्दाधूतः पुळिनपवनैर्वञ्जुळामोदगर्भैः ।

अव्यासङ्गस्सपदि पदवीं संश्रयान्यैरलङ्घ्यो

बन्दीकुर्युस्तटवसतयो मा भवन्तं किराताः ॥ 1.24 ॥

1.25        तुण्डीराख्यं तदनु महितं मण्डलं वीक्षमाणः

क्षेत्रं यायाः क्षपितदुरितं तत्र सत्यव्रताख्याम् ।

पत्यौ रोषात्सलिलवपुषो यत्र वाग्देवतायाः

सेतुर्जज्ञे सकलजगतामेकसेतुस्स देवः ॥ 1.25 ॥

1.26        नानारत्नैरुपचितगुणां नित्यसङ्गीतनादां

भूमेर्द्रक्ष्यस्युचितविभवं भूषणं तत्र काञ्चीम् ।

यस्यां नित्यं निहितनयनो हस्तिशैलाधिवासी

द्वन्द्वातीतस्स खलु पुरुषो दृश्यते सत्यकामः ॥ 1.26 ॥

1.27        तामासीदन्प्रणम नगरीं भक्तिनम्रेण मूर्ध्ना

जातामादौ कृतयुगमुखे धातुरिच्छावशेन ।

यद्वीथीनां करिगिरिपतेर्वाहवेगावधूतान्

धन्यान् रेणूं स्त्रिदशपतयो धारयन्त्युत्तमाङ्गैः ॥ 1.27 ॥

1.28        मन्दाधूतात्तदनु महितो निस्सृतश्चूतषण्डात्

पार्श्वे तस्याः पशुपतिशिरश्चन्द्रनीहारवाही ।

दूरात्प्राप्तं प्रियसखमिव त्वामुपैष्यत्यवश्यं

कम्पापाथः कमलवनिका कामुको गन्धवाहः ॥ 1.28 ॥

1.29        वर्णस्तोमैरिव परिणता सप्तभेदैर्महौघैः

मान्या मध्येनगरमभितस्सेविता देवताभिः ।

स्वच्छस्वादुप्रसरसुभगा स्वामिनी वः कवीनां

वेगासञ्ज्ञां वहति महतीं वल्लभा पद्मयोनेः ॥ 1.29 ॥

1.30        तीर्थे पुंसां शमितकलुषे तत्र सारस्वताख्ये

स्नात्वा सार्धं मुनिभिरनघैस्सम्यगुल्लासिताङ्गः ।

विश्वं चित्ते विगतरजसि व्यञ्जयन्तीमशेषं

वक्ष्यस्यन्तर्बहिरपि परां शुद्धिमक्षेपणीयाम् ॥ 1.30 ॥

1.31        तस्यास्तीरे सरसिजभुवस्सौम्य वैतानवेदिः

दिव्यं कुर्वन् द्रमिडविषयं दृश्यते हस्तिशैलः ।

यस्योपान्ते कृतवसतयो यापयित्वा शरीरं

वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ 1.31 ॥

1.32        सञ्चिन्वाना तरुणतुळसी दामभिस्स्वामभिख्यां

तस्यां वेद्यामनुविदधती श्यामळं हव्यवाहम् ।

भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः

भुयश्श्यामा भुवनजननी देवता सन्निधत्ते ॥ 1.32 ॥

1.33        लक्ष्मीविद्युल्ललितवपुषं तत्र कारुण्यपूर्णं

मा भैषीस्त्वं मरकतशिलामेचकं वीक्ष्य मेघम् ।

शुद्धैर्नित्यं परिचितपदस्त्वादृशैर्देवहंसैः

हंसीभूतस्स खलु भवतामन्ववायाग्रजन्मा ॥ 1.33 ॥

1.34        सारास्वादी सवनहविषां स्वामिनस्ते स देवः

शुद्धं चक्षुश्श्रुतिपरिषदां चक्षुषां भागधेयम् ।

अङ्गीकुर्याद्विनतममृतासारसं वादिभिस्त्वां

आविर्मोदैरभिमतवरस्थूललक्षैः कटाक्षैः ॥ 1.34 ॥

1.35        मध्वासक्तं सरसिजमिव स्विन्नमालम्बमानः

देव्या हस्तं तदितरकरन्यस्तलीलारविन्दः ।

देवश्श्रीमान् स यदि विहरेत्स्वैरमारामभूमौ

व्यक्तो वालव्यजनवपुषा वीजयेस्तं त्वमेव ॥ 1.35 ॥

1.36        जातप्रीतिर्जनपदमथो मध्यमं लङ्घयित्वा

दूराल्लक्ष्यक्रमुक निवहश्यामळान्याहि चोळान् ।

प्रत्युद्गच्छन्मकरवलन स्तम्भितैस्सह्यजायाः

स्रोतोभेदैर्विविध गतिभिस्संविभक्तावकाशन् ॥ 1.36 ॥

1.37        सन्ध्यारागं सुरभिरजनी संभवैरङ्गरागैः

केशैर्ज्योत्स्नाकलहि तिमिरं पाळिकापीडगर्भैः ।

आबिभ्राणास्सरसिजदृशो हंसदोलाधिरोहात्

आधास्यन्ते मदकलगिरस्तेषु नेत्रोत्सवं ते ॥ 1.37 ॥

1.38        पृथ्वीलीलातिलकसुभगं पश्चिमं भागमेषां

नाम्ना वर्षं जलचरनदी मातृकं गाहमानः ।

द्रक्ष्यस्यारात्परिमिततया मग्नकैलासदृश्यं

श्वेतं शैलं फणिपतिमिव क्ष्मातलादुज्जिहानम् ॥ 1.38 ॥

1.39        स्फारालोकप्रशमिततमस्सञ्चयं तत्र पुंसां

प्रत्यग्रूपं प्रगुणविभवं प्रार्थनीयं बुधानाम् ।

नेदीयां संकुशलनिवहं नन्तुराधास्यते ते

दिव्यं तेजो जलधितनया स्नेहनित्यानुषक्तम् ॥ 1.39 ॥

1.40        स्निग्धच्छायं तदनु विततं तस्य धामेव नीलं

नीलीरक्षानियतललितं काननं संविचीयाः ।

दृष्टे तस्मिन्ननिमिषवधू नित्यनिर्वेश्य योग्ये

स्वर्गोद्यानश्रियमपि लघुं मंस्यते मानसं ते ॥ 1.40 ॥

1.41        कुर्वन्नानाकुसुमरजसा यत्र चित्रं वितानं

पूगारण्ये मृदुविचलयन्पाळिकाचामराणि ।

पादन्यासक्षममवकिरन् क्ष्मातलं पुष्पजालैः

प्रायो वायुः परिजनविधिं पञ्चबाणस्य धत्ते ॥ 1.41 ॥

1.42        स्रोतोवेगादथ जनपदं सौम्य सीमन्तयन्ती

प्रत्यादेशो विबुधसरितस्स्यन्दते सह्यकन्या ।

कालेकाले परिणतिवशात्पर्वभेदावकीर्णैः

पुण्ड्रेक्षूणां पुळिनविशदैर्गद्गदा मौक्तिकौघैः ॥ 1.42 ॥

1.43        सह्योत्सङ्गात्सपदि मरुता सागरं नीयमानां

भद्रालापैर्विहितकुशलां त्वादृशानां द्विजानाम् ।

यामस्कन्नास्सरसकुहळी पत्रपातैर्निशान्ते

मन्दस्मेरां मधुपरिमळैर्वासयन्तीव पूगाः ॥ 1.43 ॥

1.44        तस्मिन् द्रक्ष्यस्यमरमहिळामौळि गन्धैरवन्ध्यां

आतन्वानां व्यपगतरसं मानसे मानसं वः ।

तीर्थैरन्यैरपि परिगतां शुद्धिहेतोस्समन्तात्

चन्द्रोल्लास प्रथितयशसस्संपदं पुष्करिण्याः ॥ 1.44 ॥

1.45        तीरे तस्या विरचितपदं साधुभिस्सेव्यमानं

श्रद्धायोगाद्विनमिततनुश्शेषपीठं भजेथाः ।

यस्मिन्नस्मत्कुलधनतया सौम्य साकेतभाजः

स्थानं भाव्यं मुनिभिरुदितं श्रीमतो रङ्गधाम्नः ॥ 1.45 ॥

1.46        सत्त्वे दिव्ये स्वयमुदयतस्तस्य धाम्नः प्रसङ्गात्

मञ्जूषायां मरकतमिव भ्राजमानं तदन्तः ।

चेतो धावत्युपहितभुजं शेषभोगे शयानं

दीर्घापाङ्गं जलधितनयाजीवितं देवमाद्यम् ॥ 1.46 ॥

1.47        चोराक्रान्तं तदनु विपिनं चोळपाण्ड्यान्तरस्थं

झिल्लीनादश्रवणपरुषं शीघ्रमेव व्यतीयाः ।

तीर्णे तस्मिन्प्रकटय सखे शीतलांस्ते निनादान्

शब्दायन्ते न खलु कवयस्सन्निधौ दुर्जनानाम् ॥ 1.47 ॥

1.48        स्रस्तापीडं प्रचलदलकं व्यक्तताटङ्करत्नं

मुक्ताचूर्णस्फुरिततिलकं वक्त्रमुत्तानयन्त्यः ।

देशे तस्मिन् कुवलयदृशो जातकौतूहलास्त्वां

मालादीर्घैर्मधुरविरुतं मानयिष्यन्त्यपाङ्गैः ॥ 1.48 ॥

1.49        नित्यावासं वृषभमचलं सुन्दराख्यस्य विष्णोः

प्रत्यासीदन्सपदि विनमद्भागधेयं नतस्स्याः ।

यस्योत्सङ्गे बलिविजयिनस्तस्य मञ्जीरवान्तं

पाथो दिव्यं पशुपतिजटास्पर्शशून्यं विभाति ॥ 1.49 ॥

1.50        ईशादस्त्राण्यधिगतवतां क्षत्रियाणां प्रभावात्

काराऽऽवासस्मरणचकितैस्सिक्तसस्यां पयोदैः ।

पश्यन्यायाः परमलकया स्पर्धमानैरजस्रं

पुण्यावासैः पुरजनपदैर्मण्डितान्पाण्ड्यदेशान् ॥ 1.50 ॥

1.51        मुक्ताजालैर्जनितपुळिनां शुक्तिसन्तानमुक्तैः

तारापूर्णां दिवमिव ततस्ताम्रपर्णीं भजेथाः ।

प्रत्यासत्त्या नियतविशदं पीतसिन्धोर्महर्षेः

पानीयं ते परिणमयिता तत्र मुक्तामयत्वम् ॥ 1.51 ॥

1.52        तस्यास्स्वैरं सरसिजमुखास्वादसं प्रीतचेताः

शीतीभूतस्तरळलहरीबाहुसंश्लेषणेन ।

अध्यासीनः पुलिनमलिनैर्वीजितश्चन्दनाद्रेः

श्रान्तिं शान्तिं गमयतु भवान् सागरं लङ्घयिष्यन् ॥ 1.52 ॥

1.53        सव्यं तस्याः कियदिव गतश्श्यामताळीतमालां

त्वत्प्रायाणां तरुणवयसां चेतसो नन्दयित्रीम् ।

वेलामब्धेर्विविधलहरीदत्तमुक्ताभिरामां

द्रक्ष्यस्याराद्द्विगुणपुलिनां केतकीनां परागैः ॥ 1.53 ॥

1.54        स्थित्वा तत्र क्षणमुभयतश्शैलशृङ्गावतीर्णैः

स्रोतोभेदैरधिगतगुणं चारुविष्फारघोषैः ।

लक्षीकुर्वन् दशमुखपुरीं सौम्य पत्रप्रकृष्टो

वेलाचापं शर इव सखे वेगतस्त्वं व्यतीयाः ॥ 1.54 ॥

1.55        दावासक्तं वनमिव नभस्सन्ध्ययेवानुविद्धं

सिन्दूराङ्कं द्विपमिव हरिं स्वाम्बरेणेव जुष्टम् ।

विद्युद्भिन्नं घनमिव सखे विद्रुमारण्ययोगात्

देहेनैकं मिथुनमिव च द्रक्ष्यसि त्वं पयोधिम् ॥ 1.55 ॥

1.56        अस्मत्पूर्वैस्सुरपतिहृतं द्रष्टुकामैस्तुरङ्गं

भित्वा क्षोणीमगणितबलैस्सागरो वर्द्धितात्मा ।

सत्कारार्थं तव यदि गिरीनादिदेशाद्गुप्तपक्षान्

अश्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः ॥ 1.56 ॥

1.57        तत्रासीनः क्वचन सरसि स्मेरहेमारविन्दे

लब्धास्वादो मधुभिरमितैस्संविनीताध्वखेदः ।

द्रक्ष्यस्यग्रे लघुतरगतिश्शेषमुल्लङ्घ्य सिन्धोः

तोयाघातान्मसृणितशिलारम्यवेलं सुवेलम् ॥ 1.57 ॥

1.58        यस्यासन्ने पयसि जलधेस्त्वत्प्रतिच्छन्दचन्द्राः

पक्षच्छेदक्षरितरुधिरस्तोमसन्दर्शनीयाः ।

वीचिप्राप्तैर्विषमितरुचो मौक्तिकैस्तारकाभैः

सन्ध्यामन्यां नियतमवनौ दर्शयन्ति प्रवाळाः ॥ 1.58 ॥

1.59        यत्रारण्यं वरुणवसतेर्वीचिवेगापनीतैः

मुक्तारत्नस्तबकशबलैर्विद्रुमैरुत्प्रवाळम् ।

रक्षोभीतैस्स्वयमनिमिषैराहृतस्थापितानां

मन्दाराणां मधुपरिमळैर्वासितं मौळिदघ्नैः ॥ 1.59 ॥

1.60        तस्मिन्दृश्या तदनु भवतश्चारुसौधावदाता

लङ्का सिन्धोर्महति पुलिने राजहंसीव लीना ।

त्वामायान्तं पवनतरळैर्या पतकापदेशैः

पक्षैरभ्युज्जिगमिषुरिव स्थास्यति श्राव्यनादा ॥ 1.60 ॥


इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु हंससन्देशे प्रथमाश्वासः ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.